विश्वास-प्रस्तुतिः
तथाप्य् आमुक्त-निगम-कञ्चुकानाम् अ-मुक्त-बाह्य-वर्त्मनां कथं प्रतीकारः ?+++(5)+++
गुरुः – (सान्तर्हासम्)
नियत्या वैयात्यान् निगम-पदवीम् उज्झितवतां
परेषाम् एतेषां परिहसन-गुम्फार्ह-वचसाम् ।
पुरन्-ध्री–सम्भाव्य–स्व-मत–रुचि–नीरन्ध्रित-धियाम्
अहङ्-कारं सोढुं प्रभवति कथङ्कारम् अवनिः ॥ ८८ ॥
मूलम्
तथाप्यामुक्तनिगमकञ्चुकानाममुक्तबाह्यवर्त्मनां कथं प्रतीकारः ?
गुरुः – (सान्तर्हासम्)
नियत्या वैयात्यान्निगमपदवीमुज्झितवतां
परेषामेतेषां परिहसनगुम्भार्हवचसाम् ।
पुरन्ध्रीसंभाव्यस्वमतरुचिनीरन्ध्रितधिया-
महङ्कारं सोढुं प्रभवति कथङ्कारमवनिः ॥ ८८ ॥
प्रभावली
तथापीति । आमुक्तम्; पिनद्रम् । अमुक्तं बाह्यादीनां बौद्धादीनां वर्त्म यैस्तेषां गुरुकुमारिलानां शङ्करादितन्मतनिष्ठानां च कथं निरास इत्यर्थः ।
नियत्येति । नियत्याः ; विधेः । वैयात्यात्; धाष्टर्थात्, विधिवशादित्यर्थः । निगममार्गे त्यक्तवतां परेषाम्; चार्वाकबौद्धादीनाम् । एतेषाम्; गुरुकुमारिलशङ्करमतानुवर्तिनाम् । परिहसनेति ; कथाकाले परिहासवाक्याहंवचना-.
X३१२
नाम् । पुरन्ध्रीति ; यदेतैः स्वप्रणीतं शास्त्रमुच्यते, तत् स्वस्वपुरन्ध्रीभिः सम्भाव्यं, नेतरैः । तादृशे स्वग्रन्थे नीरन्ध्रं सन्ततं बद्धबुद्धीनाम् । अहङ्कारम्; गर्ववाक्यम् । इयमवनिः कथं सोढुं समर्था स्यात् । सैव तान् हिनस्तीति
भावः ॥ ८८ ॥
प्रभाविलासः
आमुक्तम्; पिनद्धम् । नियत्येति । नियतिः दुष्कर्म ।
वैयात्यम् ; धार्ष्ट्यम् । युक्तीनामाभासतया पुरन्ध्रीसम्भाव्येत्युक्तिः ॥ ८८ ॥
विश्वास-प्रस्तुतिः - ८९
शिष्यः - महाराज,1 छिन्न-मूलाः खल्व् एते बाह्य-निरसनेन ।
तथा हि-
गाथा ताथागतानां गलति, गमनिका कापिली कापि लीना
क्षीणा काणाद-वाणी, द्रुहिण-हर-गिरः +++(→ योग-पाशुपते)+++ सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्, जगति गुरु-मतं +++(स्व-)+++गौरवाद् दूर-वान्तं,
का शङ्का शङ्करादेर्, भजति यति-पतौ भद्र-वेदीं त्रिवेदीम् ॥ ८९ ॥+++(5)+++
English
[[155]]
Pupil. -Great king! By the routing of the aliens (Bauddhas etc.) alone, have these (Kumārilas etc.) been uprooted. Thus then :-
- Installed as Yatipati (3. Rāmānuja. ) is on the holy Vedic dais, in this world the Tāthāgata (2. Bauddha) -sayings slid away; the Kāpili (2. Kapila (Sage.)) method sank somewhere; the Kānādā-talk (Followers of Kānāda doctrine.) dissolved; the Druhina (1. Yoga) and Hara-expositions (2. Pāṣupata.) lost all dignity; the Kaumārila-word famished (Also called Bhatta briefly.); the Guru(Prabhakara)-creed thrown far out by its own burden. Where then is alarm from Sankara and others (2. Yadava and Bhaskara are also implied here.)?
मूलम् - ८९
शिष्यः - महाराज,1 छिन्नमूलाः खल्वेते बाह्यनिरसनेन ।
तथा हि-
गाथा ताथागतानां गलति गमनिका कापिली कापि लीना
क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवाद् दूरवान्तं
का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ ८९ ॥
प्रभावली - ८९
कथं प्रतीकार इत्यत्रोत्तरं दर्शयति- छिन्नमूला इति ।
एते; प्राभाकरादयः, बाह्यारातिनिरसनेनैव छिन्नमूलाः खलु तच्-छास्त्र-युक्तिभिर् एव स्व-शास्त्र-प्रणयनाद् इति भावः ।
तद् एतद् उपपादयति - तथाहीत्यादिना । गाथा ताथागता - नामिति । यतिपतौ; यतीन्द्रे । त्रिवेदीं भद्रवेदीम् ; त्रिवेदीरूपां मङ्गल-
X३१३
वेदिकाम् । भजति ; आरूढवति, प्रमाणत्वेन स्वीकुर्वति सति । ताथागता- नाम बौद्धमतानुवर्तिनाम् । गाथा युक्तिराहित्यात् गलति ; स्रंसते, शिथिलतामेति । कापिली; कपिलमुनिप्रणीता । गमनिका ; सङ्गतिप्रदर्शनदिशा । कापि ; कुत्रापि । लीना; अन्तर्हिता न ज्ञायते । काणादसबन्धिनी वाणी क्षीणा । दुहिणहरयोः गिरः ; योगपाशुपततन्त्राणीत्यर्थः । सौरभम् ; गम्भीरताम् । नारभन्ते ; बालवाक्यवत् न प्रकाशन्त इत्यर्थः । कौमारिलानाम् ; भाट्टानाम् । उक्तिः ; शास्त्रम् । क्षामा ; क्षीणा । जगतीति सर्वत्रानुषञ्जनीयम् । गुरोः ; प्रभाकरस्य मतं गौरवात् अपूर्वादिकल्पनागौरवात दूरोत्सारितम् । शङ्करादेः शङ्करभास्करयादवत्रयस्य । का शङ्का ; निरासविषयशङ्काया अवकाश एव नास्ति, ताथागतमतनिरासेनैव निरस्तत्वादिति भावः ॥ ८९ ॥
प्रभाविलासः - ८९
गाथेति । तथागतः ; बुद्धः ; तन्मतानुसारिणः ताथागताः । गाथायाः कुत्राप्यनुप्रवेशानर्हतया गलतीत्युक्तिः । प्रकृत्युपादानत्वाद्यभ्युपगमेsपि स्वातन्त्र्याभ्युपगमापराधेन कापि लीनेत्युक्तिः । " यत् किञ्चिदन्यदपि वा मतम्” इत्युक्तरीत्या भेदादिप्रक्रियाणां बहूनां स्वीकारेऽप्येकदे- शविरुद्धतया क्षीणेत्युक्तिः । तदुक्तार्थलेशोऽप्यनादृत इति वक्तुं सौरभं
नारभन्त इत्युक्तिः । एकदेशानुपादेयतया क्षामेत्युक्तिः । गुरुद्वेषप्रवृत्ततया दूरवान्तमित्युक्तम् । समूलोन्मूलिताः शङ्करादय इत्याह- का शङ्केति ।
। आदिपदेन यादवभास्करौ ग्राह्यौ । अत्र प्रत्यक्षे गुरुकीर्तनात् उद्दिष्टं नाम नाट्यालङ्कारः । “ उद्दिष्टं स्यात् परोक्षे च प्रत्यक्षे चार्थकीर्तनम् " इत्य-
मृतानन्दवचनात् ॥ ८९ ॥
विश्वास-प्रस्तुतिः - ९०
अथवा
पारिप्लव–विविध-परिकल्पना–कल्लोल-कलह–जनित–
सितासित-विकल्प-विप्लवेन
सिद्धि-काम–जन-मोहन–प्रवृत्तांस्
तान् इमान् प्रतिक्षिपामि ।
(स-हस्तास्फालनं विहस्य )
अ-विद्या-माहात्म्याद् अन्-अहम्-इदम्-अर्थे जगद् इदं
गृणन्त्य् एते, भातं गगन इव गन्धर्व-नगरम् ।
अ-वन्ध्यैर् व्याघातैर् अतिपतित-विन्ध्य-द्रढिमभिर्
निबन्ध्यास् ते वन्ध्या-सुत–नृपति-वैतालिक+++(=वन्दि)+++-गणे ॥ ९० ॥
English
Or:-
I shall combat these (Sānkarites) who delude people with ideas of fulfilled fruition (such as Moksha) by an epidemie of inconceivable ambiguities (3. Dogmas postulating nescience to Jiva वादिकल्पना अविद्याजीवादिकल्पना), born of a seething turmoil of superficial imagination. (Clapping hands and laughing.)
[[156]]
Influenced by nescience, these (Maya- vādins, Philosophers who argue, assuming the existence
of Māyā. )
assert this cosmos to be categorised under what is not I (i. e., subjective, ie., Noumenal Cosmos. ie., Phenomenal Cosmos. ), and what is not this (i.e., objective )
(The cosmos is reduced to what is neither subjective nor objective. Hence the reduction is into Brahman as they think; but it becomes Non-entity.)
This attempt seemneth a fairy castle built in the void. By such plausible but conflicting and out-Vindhyaic sort of hard gibberish (1. Far surpassing the hardness of Vindhya-Rock), these deserve to be counted amongst the toadies fawning on a king, begot of a barren dame.
मूलम् - ९०
अथवा पारिप्लवविविधपरिकल्पनाकल्लोल कलहजनितसिता-2
सितविकल्पविप्लवेन3 सिद्धिकामजनमोहनप्रवृत्तांस्तानिमान् प्रति-
क्षिपामि । (सहस्तास्फालनं विहस्य )
अविद्यामाहात्म्यादनहमिदमर्थे4 जगदिदं
गृणन्त्येते भातं गगन इव गन्धर्वनगरम् ।
अवन्ध्यैर्व्याघातैरतिपतितविन्ध्यद्रढिमभि-
र्निबन्ध्यास्ते वन्ध्यासुतनृपतिवैतालिकगणे ॥ ९० ॥
प्रभावली - ९०
यद्यपि प्रतिक्षिप्तप्रायं तथापि तन्मतं प्रतिक्षिपामि । अथवेति शङ्करमतदूषणमारभ्यते । विशेषतः प्रतिक्षेपः कर्तव्य इत्यर्थः । पारिप्लवाः ; चलाः । त्रिचतुरकक्ष्यामात्र विश्रमयोग्या इत्यर्थः । विविधाः परिकल्पनाः, तदर्थः कल्लोल- कलहः ; निरर्थकलह इत्यर्थः, तेन जनिताः सितासित विकल्पाः दुर्विभाव्य-
X३१४
विकल्पाः ; त एव विप्लवः उपद्रवः तेन । सिद्धिकामाः मोक्षकामा त एव जनाः, तन्मोहनप्रवृत्तान् इमान् शङ्करमतनिष्ठान् । हस्तयोरास्फालनं यस्मिन्स्तथा विहस्य । अविद्येति । एते; मायिनः । अनहमिदमर्थे; अनहमर्थे अनिदमर्थे च ; अहमर्थेदमर्थव्यतिरिक्तज्ञानमात्रे ब्रह्मणि । अविद्याया माहात्म्यात्; अज्ञानवशात् । इदं जगत्; सर्वं प्रपञ्चं भातं भ्रान्तं गृणन्ति । किमिव ? गगने गन्धर्वनगरं यथा भ्रान्त्या गृह्यते, तद्वत् । य एते एव गृणन्ति, ते अवन्ध्यैः अपरिहरणीयैः व्याघातैः परस्परव्यावृत्तिरूपतः अतिपतित-
X३१५
विन्ध्यद्रढिमभिः अतिपतितोऽतिक्रान्तो विन्ध्यस्य द्रढिमा यैः, विन्ध्या- दप्यधिकद्रढिमवद्भिः । बन्ध्यासुतनृपतिवैतालिकगणे; वन्ध्यासुतश्चासौ नृप- तिश्च तस्य वन्दिगणे निबन्ध्याः ; अत्यन्तानुपपन्नानहमिदमर्थाव्यतिरिक्त- सदसदनिर्वचनीयाद्यर्थवादित्वात् वन्ध्यासुतगोष्टष इत्यर्थः ॥ ९० ॥
प्रभाविलासः - ९०
शङ्करमतमनुवदति — अविद्येति । अविद्यापदेन सदसद्विलक्षणमनिर्वचनीयमायातमः पदवाच्यमज्ञानमुच्यते ; " नासदासीनो सदासीत्तदानीम् " “तम आसीत् ” “ मायां तु प्रकृतिं विद्यात्" इति श्रुतेः । तस्या माहात्म्यात्; आच्छाद्य विक्षिपतीत्येवंरूपसामर्थ्यात् । अहमर्थः अहङ्कारः, " अथातोऽहङ्कारादेशः " अथात आत्मादेशः " इत्यात्मनोऽहङ्कारस्य पृथगभिधानात् । इदमर्थः पृथिव्यादिभूततत्कार्याणि । तदुभयविलक्षणे साक्षिचैतन्यमात्र इत्यर्थः, “ साक्षी चेता केवलो निर्गुणश्च " इत्यादिश्रुतेः । इदमिति प्रस्तुतनिर्देशेन इदमहंरूप चिद्विलक्षणमुच्यते " अहमिति तावत्प्रथमोऽध्यासः" इत्युक्तत्वात् ; प्रतिभासतो युष्मदर्थत्वाभावेऽपि लक्षणतो युष्मदर्थत्वाङ्गीकाराच्च । भातम् ;
। कल्पितम् ; प्रतीतिमात्रशरीरमिति यावत् ।
एतच्च “नेह नानास्ति किञ्चन " " एकमेवाद्वितीयम्” इत्यादिश्रुतिबलात् कल्प्यते । अनुमानं च दर्शयति —– गगन इति । नीरूपनिरवयवादेरप्यधिष्ठानत्वं समस्तीति वक्तुं गगनोपादानम् । अतिपतितविन्ध्यद्रढिमभिः ; अतिक्रान्तविन्ध्याचलदाढर्यैः । वस्तुनो द्वैरूप्याभावेन सदसद्वैलक्षण्यव्याहतिः । अहमर्थस्यानात्मत्वे प्रत्यक्त्वव्याहतिः । प्रमेयस्याभिधेयस्य निर्विशेषत्व- व्याहतिः ॥ ९० ॥
विश्वास-प्रस्तुतिः - ९१
अपि च,
निध्यायन्त्व् अन्-असूयवः शुभ-गुणं निर्दोषम् आराध्यम् इत्य्
अध्वा विश्व-विशेष-शून्य-कथकैर् अप्य् आदितः स्वीकृतः ।
यद्य् अर्थ-स्थितिर्+++(→निर्णयः)+++ एतद्+++(←सगुण)+++-एक-शरणा, स-प्रत्यवायो भवत्य्
अध्यक्षादि+++(=प्रत्यक्षादि-प्रमाण)+++-विरुद्ध–निर्गुण-कथा–निर्वाह-गर्वाहवः ॥ ९१ ॥
+++((लोकेऽपि तथाकथित-निर्गुणब्रह्मनिष्ठाः स्वसन्तृप्त्यै काव्यपूजादिभिर् गुणान् एवाश्रयमाणा दृश्यन्ते। ))+++
English
Moreover:-
Let sane men judge this,
that by these self-same twaddlers of universal negation
hath from the first been admitted that an object, full of holy, and reft of unholy, excellences (=God alone) is worshipworthy.
Based thus then, as truth is, [[157]] the vain contest conflicting with perceptive and other proofs for the Attributeless (Brahman tantamount to negation) becometh untenable.
मूलम् - ९१
अपि च,
निध्यायन्त्वनसूयवः शुभगुणं निर्दोषमाराध्यमि-
त्यध्वा विश्वविशेष शून्यकथकैरप्यादितः5 स्वीकृतः ।
यद्यर्थस्थितिरेतदेकशरणा सप्रत्यवायो भव-
त्यध्यक्षादिविरुद्ध निर्गुणकथानिर्वाह गर्वाहवः ॥ ९१ ॥
प्रभावली - ९१
स्वाभ्युपगमविरोधं चाह - निध्यायन्त्विति । अनसूयकः पण्डिताः
X३१६
निध्यायन्तु वक्ष्यमाणं पश्यन्त्व् इत्यर्थः ।
तत्किमित्यत्राह ।
आदितः ; प्रथम-सूत्रे । विश्व-विशेष-शून्य-कथकैः ; शास्त्रस्य विषय-प्रयोजन-सिद्ध्यर्थे
निर्विशेष-चिन्-मात्र-ब्रह्मेत्य्-उपगच्छद्भिर् एव
अध्वा शुभगुणं निर्दोषमित्यध्वा गुणोपसंहारपादे गुणोपसंहारानुपसंहार-चिन्तनार्थम् उपास्यं ब्रह्म सगुणं निर्दोषम् इत्ययं मार्गः स्वीकृतः ।
ब्रह्मसगुणत्वस्यावास्तवत्वे प्रत्यक्षादि-प्रमाण-विरोधः,
तेषां स-विशेष-विषयत्वात् ।
स-गुणत्वस्य वास्तवत्वे
निर्विशेष-वस्तु-प्रतिपादन-विरोध इत्याह—
यद्यर्थस्थिति-
स्थूलारुन्धतीन्यायेन विभूति-विग्रह-गुण-विशिष्टम् अवलम्ब्य
पश्चान् निर्विशेष-दर्शनं सु-लभम् इति भावः ।
अर्थस्थितिः ; वस्तु-तत्व-निर्णयः ।
एतद्-एक-शरणा; सगुणवस्तुमात्र पर्यवसिता यदि । सप्रत्यवायः ; सदोषः, वितथ इत्यर्थः । प्रत्यवायमेव विवृणोति - अध्यक्षादीति ।
" इदमित्थमिति हि सर्वा प्रतीतिः" इति श्रीभाष्योक्तेर् अध्यक्ष-ग्रहणम् । आदिपदेनानुमान-शब्दौ गृहीतौ, अनुमानस्य सविकल्पकैक-गोचरत्वात्
शब्दस्य प्रवृत्तिनिमित्तसापेक्षत्वादित्युक्तेः ।
X३१७
अर्थस्थितिः ; अर्थतत्त्वम् । एतदेकशरणा; सगुणब्रह्मविषयिणी चेत् । अध्यक्षादीति । प्रत्यक्षादिप्रमाणविरुद्धः ब्रह्मणो निर्गुणत्वकथाया निर्वाहरूपो गर्वेण क्रियमाणः वादाहवः सप्रत्यवायः दोषदुष्टो भवतीत्यर्थः ॥ ९१ ॥
प्रभाविलासः - ९१
श्रुतीनामर्थान्तरपरत्वं ‘मिथो भेदम्’ इति लोके वक्ष्यति । परैरपि सविशेषवस्तुनोऽभ्युपगमात् तत्रैव सकलवेदान्तपर्यवसाने सति, अप्रामाणिक निर्विशेषकल्पनं निष्प्रयोजनमित्याह – निध्यायन्त्विति6 । अनसूयवः असूयारहिताः सन्तः निध्यायन्तु पश्यन्तु । विश्वविशेष-शून्यकथकैः ; निर्विशेषचिन्मात्रवादिभिः शाङ्करीयैर् अप्य् आदितः शुभगुणं समस्त कल्याणगुणरत्नं निर्दोषं हेयगुणरहितं ब्रह्म आराध्यम् उपास्यमिति अध्वा मार्गः स्वीकृतः ।
अशेषगुणशून्यस्य ध्यातुमशक्यत्वात्
सगुणं ब्रह्म प्रथममुपास्यम्
इति स्वीकृतमित्यर्थः ।
अर्थस्थितिः ; वस्तुस्थितिः । एतदेक-शरणा यदि; पूर्वोक्तसगुणब्रह्मोपासनपरा यदि ।
तदा अध्यक्षादिविरुद्ध-निर्गुणकथा निर्वाहगर्वाहवः;
अध्यक्षादिभिः प्रत्यक्षानुमानागम रूपप्रमाणविरुद्धाया निर्गुणकथाया निर्वाहे गर्वेण कृत आहबः वादरूपो विग्रहः ।
सप्रत्यवायो भवति - सदोषो भवति ।
मायिभिः प्रथमं स्वीकृतं सगुणत्वं वास्तवं वा न वा ।
प्रथमे निर्विशेष-वस्तु-प्रतिपादन-विरोधः । प्रत्यक्षादिप्रमाणविरोधः ।
तेषां वस्तुतः सविशेष-वस्तु-विषयत्वाद् इत्यर्थः ॥ ९१ ॥
विश्वास-प्रस्तुतिः - ९२
अतः स्थाने खलु
मेघ-नादवद्+++(=पक्षे रावणसुतवत्)+++ अङ्कुरित–विश्व-व्यामोहनेन शङ्कर-दत्तेन केनापि माया-तन्त्रेण
समानाधिकरण+++(=पक्षे युद्धम्, पक्षे सम+अधिकरण)++++ उपप्लवम् आचरताम्
आचरित-तमः-प्रवृत्तीनाम्
अनवरत-कर्बुर+++(=शबल)+++-प्रकृतीनां
कलि-ब्रह्म-मीमांसकानाम्
एतेषां निरासाय
लक्ष्मणाचार्य+++(→पक्षे सौमित्रिः)+++-प्रादुर्भावः । +++(5)+++
हन्त, परिगृहीत-पौण्ड्रकाद्वैतानाम् अमीषां
नित्य-मुक्त-वादोऽपि
नित्य-मुक्त-वादताम् +++(मौनम्)+++ आपादयति । +++(5)+++
तथा हि-
मुक्तस्य नित्यम् अ-विशिष्ट-तनोर् अपूर्वां
मुक्तिं प्रकल्पयितुम् आत्त-विचार-यत्नः ।
स्वप्न-प्रसून-मकरन्द-रसस्य मन्ये
स्वादुत्वम् अन्यद् उपपादयितुं क्षमेत ॥ ९२ ॥
English
Hence, it is meet that Lakshmanāchārya’ should incarnate in order to overthrow those Samanadhikarana-rivals, of the Maya" school, championed by a worldimposing Sankara, Meghanāda’-like,those doers of dark deeds, perpetually spotted ’natures, the Brahma-Mimàmsins after (the pattern of) Kali.
(Double meaning in 1 to 5:-
- Lakshmana as Ramanuja ( Rama’s brother) as against Indrajit, and Lakshmana (Rāmānuja) as against the Illusionist Sankara etc.
- Samanadhikarana Equal and unequal - battle in one case; one substance by many attributes, in the other.
- Jugglery or sorcery in one case; Illusion doctrine in the other.
- Indrajit (Son of Ravana): Meghanada (thunder- voiced);
- Deeds under cover of darkness in one case nefarious deeds in the other.
-
- Double meaning:-Brahmana pests in one case+++(कथम्??)+++; misinterpretation of Brahma-Sutras in the other. )
[[158]]
The Nitya-mukta theory of those who can only compare with the monistic Paundraka (An Asura named Paundraka. pretending identification with Krishna, imitated him. The pretender was eventually killed by Krishna.) deserve but eternal silence.
(1. For the monists who assert identity with Brahman, there is no liberation at all, for it is ever-existent.)
Forsooth :-
- The man who essayeth to invent a (new or) non-existent Mukti for an ever-Mukta characterless essence (Soul or Brahman) may as well attempt to invent a new taste for the honey of a dreamflower.
मूलम् - ९२
अतः स्थाने खलु मेघनादवदङ्कुरितविश्वव्यामोहनेन शङ्करदत्तेन केनापि मायातन्त्रेण समानाधिकरणोपप्लवमाचरतामाचरित-7
;
तमः प्रवृत्तीनामनवरतकर्बुर प्रकृतीनां कलिब्रह्ममीमांसकानामेतेषां निरासाय लक्ष्मणाचार्यप्रादुर्भावः । हन्त, परिगृहीतपौण्ड्रकाद्वैतानाममीषां नित्यमुक्तवादोऽपि नित्यमुक्तवादतामापादयति । तथा हि-
मुक्तस्य नित्यमविशिष्टतनोरपूर्वां
मुक्तिं प्रकल्पयितुमात्तविचारयत्नः ।
स्वप्नप्रसूनमकरन्दरसस्य मन्ये
स्वादुत्वमन्यदुपपादयितुं क्षमेत ॥ ९२ ॥
प्रभावली - ९२
एवमसमञ्जसत्वात्तेषां निवारणाय लक्ष्मणमुनिप्रादुर्भाव इति सदृष्टान्तमाह- व्रत इति । लोकव्यामोहकत्वादित्यर्थः । स्थाने; युक्तं खलु । मेघनाद-
[[९२]]
X३१८
वत्; इन्द्रजिद्वत् । विश्वव्यामोहः अङ्कुरितो येन । शङ्करदत्तेन; शङ्करनाम्ना भाष्यकृता ; प्रसिद्धशङ्करेण च । मायातन्त्रेण ; अविद्याप्रधानशास्त्रेण; शाम्बर- तन्त्रेण च । समाधिकरणोपप्लवम् । समानाम् ; सविशेषवस्तुप्-रतिपादकतया एकरूपाणाम् । अधिकरणानाम्; आनन्दमयादीनाम् । उपप्लवम्; उपरोधम् । अन्यत्र समेनाधिकेन च रणेन प्राणिनामुपद्रवम् ।
तमः ; अज्ञानं तन्मूलाः प्रवृत्तयः आचरिता यैः । अन्यत्रान्धकारे प्रवृत्तिः कृता यैः ।
कर्बुरप्रकृतीनाम् ; शबलितप्रकृतीना, नानास्वभावानामित्यर्थः । अन्यत्र राक्षसप्रकृतीनाम् ।
कलियुगानुरूपब्रह्ममीमांसकाः शङ्करादयः ।
तन्निरसनाय लक्ष्मणमुनिप्रादुर्भावः ।
स्यथा मेघनादादिराक्षसविनाशाय लक्ष्मणस्य रामावरजस्य प्रादुर्भावः, तद्वत् । अर्थान्तरमपि दूषयति– हन्तेति । हन्तेति हर्षे; विषादे वा ।
पौण्ड्रकाद्वैतानाम्; स्वरूपैक्याद्वैतम् । यथा पौण्डूको वासुदेवोऽहमिति स्वरूपैक्य- बुद्ध्या वदन्महतीं विपदं प्राप, तथा स्वरूपैक्यबुद्ध्या ब्रह्माहमस्मीति वादिनोऽपीति भावः ।
X३१९
अमीषां नित्यमुक्तवादोऽपि; नित्यमुक्तोऽहमिति वादश्व । नित्यमुक्तवादनाम; नित्यं मुक्तो वादो यैस्तत्ताम् । नित्यमुक्तवादस्या- नुपपन्नत्वात् मौनितामापादयतीत्यर्थः । तदेव प्रतिपादयति–तथाहीत्यादि । नित्यमुक्तस्य; सासारिकदुःखमुक्तस्य । अत एव अविशिष्टतनोः ; अविशिष्ट- स्वरूपस्य एकरूप स्वरूपस्यात्मनः । अपूर्वाम्; पूर्वमविद्यमानाम् । मुक्तिं कल्पयितुं स्वीकृतविचारयत्तः पुरुषः स्वप्नप्रसून मकरन्द रसस्य स्वप्नदृष्टपुष्प- रसस्यान्यत् स्वादुत्वं कल्पयितु क्षमेत ; शक्तो भवेत् । स्वप्नदृष्टसुमनोमकरन्द- रसप्राया नित्यमुक्तिर्मिथ्येत्यर्थः । ततोऽप्यन्यमुक्ति कल्पयन् पूर्वोक्तमकरन्दरस- स्याप्यन्यत्स्वादुत्व कल्पयितुं शक्त इत्यर्थः । इति मन्ये ॥ ९२ ॥
प्रभाविलासः - ९२
8 स्थाने; युक्तम् । शङ्करदत्तेन; शङ्करनाम्ना भाष्यकृता दत्तेन । पशुपतिदत्तेन । मायातन्त्रेण ; अविद्याप्रधानसिद्धान्तेन । अन्यत्र
शाम्बरतन्त्रेण । समाधिकरणोपप्लवम् समानाम् ; एकरूपाणाम् ; ;
सविशेषवस्तुप्रतिपादनैकस्वभावानामित्यर्थः । अधिकरणानाम् ; आनन्दमयाद्यधिकरणानाम् । उपप्लवम् ; उपद्रवम् । अन्यत्र समेनाधिकेन च रणेन युद्धेन । तमः अज्ञानम् । अन्यत्रान्धकारः । कलि ब्रह्ममीमांसकानां शङ्करमत- स्थानाम् । लक्ष्मणः ; लक्ष्मणमुनिः । अन्यत्र सौमित्रिः । परिगृहीत- पौण्ड्रकाद्वैतानामिति पौण्डुको वासुदेवोऽहमिति वदन् महतीं विपदमुप-
गतः । एवं ब्रह्माहमिति ब्रह्मैक्यवादिनोऽपीति भावः । नित्यमुक्तवादोऽपि ; नित्यमुक्तोऽहमिति वादोऽपि । नित्यमुक्तवादताम् ; नित्यं मुक्तो वादो यैस्तेषां भावः तत्ता, ताम् । नित्यमुक्तवादोऽनुपपन्नत्वान्नित्यमौनितामापादयतीत्यर्थः । तस्यानुपपन्नतामेव प्रतिपादयति - तथाहीत्यादिना । मुक्तस्येत्यादि । नित्यम् सदा । मुक्तस्याविशिष्टतनोः ; केनापि विशेषेणाविशिष्टस्वरूपस्य । अपूर्वाम् पूर्वमविद्यमानाम । मुक्तिं प्रकल्पयितुमात्तविचारयत्नः पुरुषः स्वप्नप्रसूनमकरन्दरसस्यान्यदेव स्वादुत्वं कल्पयितुं शक्त इत्यर्थः ॥ ९२ ॥
विश्वास-प्रस्तुतिः - ९३
आलक्ष्यताम् अयं
रजनि-चर-वंश-बान्धवानां राहु-मीमांसकानां
+++(वेद-कबन्ध-मीमांसकास् तु पूर्वोक्ता कुमारीलादयः)+++
सु-भगा–भिक्षुक-न्यायः +++(=स्नुषया नास्तीति प्रत्युक्तं भिक्षुम् पुनराहूय श्वश्र्वा तद् एव वचनम्)+++,
यद् एते निगमान्त-परित्यागिनः
परान् अधिक्षिपन्ति,
प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् +++(तत् तद् अपारमार्थिकम् इति)+++ ।
अतः
सभा-+++(-भी-ज-)+++कम्पाभाव-प्रतिपादक–
+++(स्वतो-विक्षिप्ततया)+++जड-पुरुष-प्रयुज्यमान–
भसा-पङ्काभाव-वचनवद्
अपहास्य-वचसाम् अमीषां
प्रतिक्षेपे ऽप्य् अपत्रपामहे ।
श्रुतयस् तु त्रि-भुवन-संरक्षणे प्रवृत्ताः प्रतिक्षिपन्ति ।
यद् अपि चैतेषां
चिद्–अ-चिद्–ईश्वर–याथात्म्य-तस्कराणाम् अन्तिम-युग-मस्करिणां+++(=यतीनां)+++
नित्यानित्य-वस्तु-विवेकादि-साधन-चतुष्टयाभिधानम्,
तच् च
- तत्त्वातत्त्व-विवेकाभावः,
- राग-द्वेषादि-साधन-सम्पत्,
- लौकिक-वैदिक-धर्मानुष्ठान-वैमुख्यं,
- बुभुक्षुत्वं
चेति यथानुष्ठानं विपरिणामेन परिहसन्ति सन्तः ।
गुरुः- भद्र, किम् अत्र विस्तरेण !
English
Judge (then) this Subhaga-bhikshuka method of these Rāhu-mimāmsakas, kin to Rakshasas .
(1. Trunkless head (as Rahu is) as opposed to trunk or Ketu or the Kabandha-minimsakas), Mayāvadins:
मायिन:पूर्वोत्तरमीमांसयोरेकावयवित्वेऽपि
वेद-शिरो-भाग-विचार-रूपोत्तर-मीमांसामात्राङ्गीकारात्)
For, having themselves discarded Vedanta, they traduce others (aliens), while vilifying themselves (so-called) Vedantins.
(सुभगाभिक्षुकन्याय - The maxim referred to here is the attitude of that mother-in-law, who, not approving of her daughter-in-law’s refusal of [[159]] alms to a beggar, would call him back, only to tell him herself that she cannot on any account give him alms; i.e., the right of refusal was an usurpation by the daughter-in-law. Hence the application of this maxim here is thus: -The Bauddhas reject the Vedanta but the Advaitins call in the Vedanta to their doors again only to say: “We have have the right to reject you and not the Bauddhas.” )
Verily do we blush to try conclusions with these silly-talking folk,
and feel as the person, who, when advising a dolt to have no Stage-fright" (Sabhākampa), would (be silly enough to) himself blubber “have no “frage-stright” (Bhasā-panka).
[[160]]
The three-world-saving Srutis themselves refute them best. The fourfold means of Moksha, these fourth-yuga Sanyāsins-pirates of the triune Truism, Vedic Chid-Achid-Isvara (The Visishtadvaitic thesis of the Vedanta viz. Soul, Non-soul and God together constituting One Substance.) -assert, the wise mockingly understand antinomically thus:-
- (1) For (Nityānitya-vastu-vivēka) - Discrimination as to what is Eternal and what is not Eternal vs ( Tatvā tatva-vicharabhava) - Want of discrimination as to what is Truth and what is not Truth.
- (2) For (Sama-damādi-sadhana sampat)== The good means viz. control of senses, internal, external, etc. vs (Rāga-dveshadi sadhana sampat)=The means of love, hate, etc.
- (3) For (Ihāmutra-phala-bhoga-virāga)= Abandonment of the pleasures of this and the world to come vs(Laukika-vaidikakarmānushthāna-vaimukhya) Abjuration of doing good works, temporal and spiritual. [[161]]
- (4) For (Mamukshutva)-Love of Liberation xx (Bubhukshutva)= Love of lust.
Guru.–Good pupi!! What good is it barping on this ?
मूलम् - ९३
आलक्ष्यतामयं रजनिचरवंशबान्धवानां राहुमीमांसकानां सुभगा भिक्षुकन्यायः, यदेते निगमान्तपरित्यागिनः परानधिक्षिपन्ति, प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् । अतः सभाकम्पा-
भावप्रतिपादकजडपुरुषप्रयुज्यमानभसापङ्काभाववचनवदपहास्यवच
साममीषां प्रतिक्षेपेऽप्यपत्रपामहे । श्रुतयस्तु त्रिभुवनसंरक्षणे प्रवृत्ताः प्रतिक्षिपन्ति । यदपि चैतेषां चिदचिदीश्वरयाथात्म्यतस्कराणामन्तिमयुगमस्करिणां नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयाभि- धानम्, तच्च तत्त्वातत्त्वविवेकाभावः, रागद्वेषादिसाधनसम्पत्, लौकिकवैदिक9 धर्मानुष्ठानवैमुख्यं, बुभुक्षुत्वं चेति यथानुष्ठानं विपरिणामेन परिहसन्ति सन्तः ।
गुरुः- भद्र, किमत्र विस्तरेण !
प्रभावली - ९३
X३२०
एषामन्यदपि विरुद्धाचरणं दर्शयति- आलक्ष्यतामिति । रजनिचरवंशबान्धवानाम् ; रावणादिवंशबन्धूनाम् ; कपटिनामित्यर्थः । राहुमीमांसकानाम; पूर्वोत्तरमीमांसयोरेकावयवत्वेऽपि पूर्वावयवानङ्गीकारेण वेदशिरोभागविचाररूपो- त्तरमीमासामात्रं परिगृहीतवतामेतेषाम् । सुभगेति; विपर्ययलक्षणा, दुर्भगेत्यर्थः । दुर्भगाभिक्षुकन्यायस्त्वयम् - स्नुषया भिक्षुकाय भिक्षायां प्रत्याख्यातायां भिक्षौ निवृत्ते, श्वश्रूरागत्य ’ एहि भिक्षो, स्नुषा कि जानाति ’ इत्युक्त्वा, अनन्तरं भिक्षाशया भिक्षावागते, स्वयमेव भिक्षा नास्तीत्युक्तवती । तमेव न्यायं तेषु दर्शयति-
X३२१
यदेत इति । निगमान्ताः ; " यः सर्वज्ञः सर्ववित्” इत्यादयः । परान् ; बाह्यान् । अधिक्षिपन्ति; स्वग्रन्थे दूषयन्ति । स्वयमेव निगमान्तान् प्रतिक्षिपन्ति च ; निगमान्ताः भेदश्रुत्यादयः । अपहास्यवचसामेषां निरासोऽप्यस्माकमवद्यकर इत्याह-अत इति ; निगमान्तप्रतिक्षेपात् । यथा सभाकम्पो मास्त्विति विवक्षन् जडपुरुषः जाड्यात् भसापको मास्त्विति प्रयुङ्क्ते, तद्वत् अपहास्यवचसाममीषां शङ्करादीनां प्रतिक्षेपेऽप्यपत्रपामहे; लज्जामहे । एषां श्रुतय एव प्रतिक्षेपिका इत्याह- श्रुतयस्त्विति ; भेदश्रुतयः । तुशब्दोऽवधारणे । एषां प्रतिक्षेपे जगद्रक्षणं कृतं स्यादिति सूचनाय त्रिभुवनेत्याद्युक्तम् । यदपि चैषां साधनचतुष्टयकल्पनं तत् दूषयति - यदपि चेति । चिदचिदीश्वग्याथात्म्यम्; चितो याथात्म्यम् ईश्वरा पृथक् सिद्धस्वरूपत्वं तच्छेषत्वं च । अचितो याथात्म्यं सत्यत्वे सति आच्छादकत्वम् । ईश्वरस्य याथात्म्यमुभयलिङ्गत्वादि ।
X३२२
तत्सर्वमपलपताम् । अन्तिमयुगमस्करिणाम् ; कलियुगसन्न्यासिनाम् । नित्या- नित्यविवेक इत्यस्य स्थाने तत्त्वातत्त्वविचाराभावः, शमदमादिसाधनसम्पदित्यस्य रागद्वेषादिसपत्, इहामुत्रफलभोगविराग इत्यस्य लौकिकवैदिक धर्मानुष्ठानवैमुख्यम्; मुमुक्षुत्वं चेत्यस्य बुभुक्षुत्वं चेति नित्यानित्यवस्तुविवेकाद्यनुष्ठानेषु तस्वातत्त्वविचाराभावाद्यनुष्ठानविपरिणामेन तेषां साधनचतुष्टयाभिधानं परिहसन्ति तन्त्रान्तरस्था महान्तः । किमत्रेति ; विस्तरेणालमित्यर्थः ।
प्रभाविलासः - ९३
रजनिचरवंशबान्धवानाम्;10 अहमेव ब्रह्मेति वादित्वादिति भावः । राहुमीमांसकानामिति ब्रह्मभागपूर्ववृत्तत्वेन पूर्वमीमांसानङ्गीकारात् तत्त्वम् । सुभगाभिक्षुकन्याय इति; कश्चिद्भिक्षुः कस्याश्चित्सुभगाया गृहं मिक्षार्थमागतः । तस्याः स्नुषा ‘भिक्षो, भिक्षा नास्ति’ इति प्रत्याचख्यौ । ततः स प्रतिनिवृत्तो बभूव । तं निवृत्तं सुभगा समालोक्य किं निवर्तसे इत्युवाच । भिक्षुश्च तस्यै तस्याः स्नुषाया भिक्षाप्रत्याख्यानमाचख्यौ । तत् सा श्रुत्वा तं ’ पुनरेहि गृहम् । न सा स्वतन्त्रा प्रत्याख्यानाय। इत्युवाच । भिक्षाशया तस्मिन् पुनर्गृहं समागते स्वयमेव ’ भिक्षा नास्ति,
गच्छ ’ इत्युवाच। सोऽयं सुभगाभिक्षुकन्यायः ।
तमेव न्यायं तेषु दर्शयति- यदेत इति । श्रुतयस्त्विति । श्रुतयः ; भेदश्रुतयः । अन्तिमयुगमस्करि-
। ;
णाम् ; कलियुगसन्न्यासिनाम् ।
-
कल्पोरु —–क ↩︎
-
कल्पनेन—–च ↩︎
-
दनिदमहमर्थे——क ↩︎
-
विवेक——ध ↩︎
-
A. MS. of the Prabhāvilāsa reads thus :
मिथ्यायन्त्विति ।
निरभिनिवेशेन सम्यक् विचारयन्तु । शुभगुणमिति ;
" समस्त- कल्याणगुणात्मकोऽसौ "
इति वचनं स्मारितम् ।
निर्दोषमिति ; " अपहतपाप्मा " इति श्रुतिरभिप्रेता ।
आराध्यम्; उपास्यम् ।
इतिशब्दः प्रकारवचनः ।
अध्वा ; मार्गः । आदित इति ; अनिष्पन्नसमाधीनां प्रथमतो निर्विशेषवस्तुन आलम्बनत्वायोग्यतया ↩︎ -
समानाधिकरण——क, ख, ग ↩︎
-
अत इत्यादि । मेघनादः ; इन्द्रजित् । शङ्करः ; भाष्यकर्ता, अन्यत्र शिवः । [; मायावादिभाष्येण, शाम्बर-तन्त्रेण च । समानां सविशेष-वस्तु-प्रतिपाद- करणानामीत्यादीनाम्?? उपप्लवम् । अन्यत्र समेनाधिकेन च रणेन युद्धेनोपप्लवम् । ज्ञानमन्धकारश्च । लक्ष्मणः; श्रीरामानुजाचार्यः, सौमित्रिश्च । पौण्ड्रकाद्वैतम् ; नीत्यद्वैतम् । पौण्ड्रको हि वासुदेव एवाहमिति भ्रान्तः । नित्यमुक्तवादताम् ; वादताम् । मुक्तस्येति । मुक्तामुक्तभेदे हि अमुक्तस्य मुक्त्यर्था प्रवृत्तिर्युज्यते । न्तीत्याह - श्रविशिष्टतनोरिति । “अमृतेन हि प्रत्यूढाः " इति नित्यमुतेरेवा- त्वेन मुक्तस्य मुक्त्यन्तरकल्पनमतिसाहसमित्याह स्वप्नेति । A. ↩︎
-
कर्मानुष्ठान—क,घ,ङ ↩︎
-
आलक्ष्यतामित्यादि । भिक्षुके भिक्षार्थं गृहं प्रविष्टे स्नुषया परिहते श्वश्रूरागत्य न स्नुषा स्वतन्त्रा किन्त्वहमेवेति तं पुनर्गृहं प्रवेश्य स्वयं नास्तीत्याह । सोऽयम् सुभगाभिक्षुकन्यायः । यदीति । अपरैः माध्यमिकादिभिः । अयथाभाषणम्; स्यादस्ति,स्यान्नास्तीत्यादिकम् । A ↩︎