विश्वास-प्रस्तुतिः - ८७
राजा - भगवन्, गुरु-कुमारिल-मतानुसारिणः किम् एते निरसनीया भवच्-छिष्येण ?
गुरुः - महाराज, अमी पुनर् आगमाभिरक्षणे प्रवृत्ता
वेदान्त-परित्यागिनस् तोषयितव्या भीषयितव्याश् च1 ।
शिष्यः – (सापहासम् )
निरस्ताखिल-दोषेषु
निगमान्तेषु सत्स्व् अमी ।
कथं सदसि मीमांसा-
कबन्धम् अनुरुन्धते ॥ ८७ ॥
English
King.–Holy sire! Are these followers of Prabhakara and Kumārila also to be defeated by thine disciple?
[[153]]
Guru. -Great king! As defenders of the Vedas but deserters of the Vedanta, they deserve to be extolled as well as condemned. Pupil.–(Jeeringly).
Devoid of all defects as the Vedantas are, how in this assembly, can these follow the headless trunk, the Purvamimāmsa'?
(Purva and Uttara Mimamsas, or the Karma and Jnana Kandas, constitute one Science. Hence the former without the latter is a headless trunk and hence lifeless. Vedanta is therefore SrutiSiras or the Head of the Vedas. )
मूलम् - ८७
राजा - भगवन्, गुरुकुमारिलमतानुसारिणः किमेते निरसनीया भवच्छिष्येण ?
गुरुः - महाराज, अमी पुनरागमाभिरक्षणे प्रवृत्ता वेदान्तपरित्यागिनस्तोषयितव्या भीषयितव्याश्च1 ।
शिष्यः – (सापहासम् )
निरस्ताखिलदोषेषु निगमान्तेषु सत्स्वमी ।
कथं सदसि मीमांसाकबन्धमनुरुन्धते ॥ ८७ ॥
प्रभावली - ८७
अयम् ; शिष्यः । अपरः पाराशर्य इव प्रतिष्ठापितवानित्यनेन ग्रन्थकर्त्रा श्रीवेदान्तगुरुवर्येण श्रीपाश्चरात्ररक्षा कृतेति सूचितम् । अथ गुरुकुमारिलशिक्षामुपक्रमते - गुरुकुमारिलेत्यादि । आगमेत्यादि । आगमाः; वेदाः । तद्रक्षण-
X३१०
प्रवृत्तत्वात् तोषयितव्याः । वेदान्तपरित्यागात् भीषयितव्याः । निगमान्तेषु ; वेदान्तेषु । सकलदोषवर्जितेषु सत्स्वपि अमी; गुरुकुमारिला । सदसि ; सभ्यानां पुरत इत्यर्थः । कबन्धम् ; पूर्वभागव्याख्यारूपमीमासाम् । पूर्वभागमात्रं कथमनुवर्तन्ते ? ॥ ८७ ॥
प्रभाविलासः - ८७
X३०९
देव अपर इवायमित्यादिना पुष्पं नाम प्रतिमुखसन्धेरङ्गमुक्तम् ।
" अनुरागप्रकाश विशेषवचनं पुष्पम्" इति लक्षणात् । निरस्तेति । निरस्ता अखिलदोषाः वेदमात्रे प्रमाणलक्षणशङ्कितदोषाः अनृतपौनरुक्त्यादयः, शारीरकचतुःसूत्र्यां व्युत्पत्त्यभावादयश्च2 येषां ते तथोक्ताः, तेषु । कथमिति । निर्दोषत्वानन्यपरत्वादिना विरोधाभावे तुल्येऽपि कबन्ध मात्रानुसरणे राहुमात्रानुसरणं किं न स्यादिति भावः ॥ ८७ ॥
विश्वास-प्रस्तुतिः - ८८
अयं खल्व् अ-खिल–वैदिक-सदः–शिखा-मणीनाम् अध्यात्म-विदां निर्णयः –
पापवत् परित्यक्त-काम्य-धर्मैर्
नित्य-नैमित्तिकानुष्ठान-निष्णातैर्
विष्णु-भक्तैर् भवितव्यम् इति ।
अत एव कर्म-ब्रह्म-मीमांसयोर् ऐकशास्त्त्र्यम् आमनन्ति सन्तः ।
राजा - ( सपरितोषम् ) भगवन्,
यथाश्रुतं सर्वम्[^212] यथा-हृदयम् उपपाद्य
स्वपक्षं रक्षता
परपक्षांश् च प्रतिक्षिपता
प्रशमित-निगमान्त-खेदेन भवद्-अन्तेवासिना
स्थूणा-निखन-नन्यायेन
स्थिरी-कृतम् इदं सम्यग्ज्ञानम् ।
English
This indeed is the decision of the spiritual scientists, the vanguard of all the Vaidika-societies; viz., that Vishnu-votaries abstain, as from sin, from Kāmya2 Dharmas (1. Duties performed with some motive or reward other than the attainment of beatitude.), and deeply engage in Nitya (3 Perpetual duties. ) and Naimittikas (1. Periodical duties). Hence, savants (like Bôdāyana) postulate that Karma and Brahma (or Jnāna) Mimāmsas constitute together but one Science.
[[154]]
King. (Pleased) Holy sire! By his exposition, faithful to teaching and congenial, hath thy disciple proved his creed of wisdom and disproved that of the others, as if firmly founding a pillar (2. See n. 5, p. 97. ), and hath thus relieved himself of all Vedanta-concern.
But wedded to the Vedic coat, and yet weaned not from alien ways, as these (Kumārilas etc.) are, what is the retort for them?
Guru.-(Smiling.)
1. By cruel fate, have these missed the Vedic path; replete with ridicule are their utterances, their zest for them appealing only to their wives. How then can this earth brook their boast ?
मूलम् - ८८
अयं खल्वखिलवैदिकसदः[^210] शिखामणीनामध्यात्मविदां निर्णयः – पापवत् परित्यक्तकाम्यधर्मैर्नित्यनैमित्तिकानुष्ठान निष्णातैर्विष्णुभक्तैर्भवितव्यमिति । अत एव कर्मब्रह्ममीमांसयोरैकशास्त्र्यमामनन्ति सन्तः ।
राजा - ( सपरितोषम् ) भगवन्, यथाश्रुतं सर्वम्[^212] यथाहृदयमुपपाद्य स्वपक्षं रक्षता परपक्षांश्च प्रतिक्षिपता प्रशमितनिगमान्तखेदेन भवदन्तेवासिना स्थूणानिखननन्यायेन स्थिरीकृतमिदं सम्यग्ज्ञानम् ।
प्रभावली - ८८
इदमनुचितमिति वक्तुं कर्मब्रह्ममीमांसयोरैकशास्त्रयं महद्भिः परिगृहीतमियैस्यैकशास्त्र्यहेतुं दर्शयति- अयं खल्वित्यादि । अखिलेत्यादिविशेषणद्वयेन निर्णेतॄणामुभयभागनिष्ठत्वमुक्तम् । उभयभागविशिष्टस्य वेदस्य महावाक्यार्थं
.
दर्शयति - पापवदित्यादि । अयं पूर्वभागनिर्णीतोऽर्थः । विष्णुभक्तैरिति वेदान्तनिर्णीतोऽर्थः । अत एव ; महावाक्यार्थस्यैवं निर्णयादित्यर्थः । सन्तः ; बोधायनादयः । सम्यग्ज्ञानस्य स्थिरीकरणात् परितोषः । हृदयम्; तात्पर्यार्थः । परपक्षप्रतिक्षेपेण प्रशमित निगमान्तखेदो भवति । निखातायाः स्थूणायाः परिमितसञ्चालनेन दृढीकरणं स्थूणानिखननम् । तन्न्यायेन वेदान्तसिद्धं सम्यग्ज्ञानं निश्चलीकृतम् ।
प्रभाविलासः - ८८
सन्तः ; बोधायनादयः । " संहितमेतच्छारीरकं जैमिनीयेन
X३११
षोडशलक्षणेन " इति बोधायनः । " विंशतिलक्षणमेकं शास्त्रम्" इति चाचार्याः ।