१० पाञ्चरात्र-रक्षा

विश्वास-प्रस्तुतिः

राजा - भगवन्, अमी पुनः सात्त्वतं शास्त्रम् अधीयानास्
त्रय्य्-अन्त-वादिभिर् ऐक्यम् इवापन्ना
बल्ब-ज+++(=गोमयोत्पन्न-तृण)+++–प्राय–बहु-विध-विद्या-जल्प–विमुखी-कृत-मानसा
बहिर्-अन्तश् च शुद्धाः
श्वेत-द्वीप–वासिन इव शुभं-यवः पुरुषास्
ताम् इमाम् औपनिषदीं परिषदम् उपजिगमिषन्ति

अपि च,

परम-पुरुष-प्रत्यासत्त्या+++(=सामीप्यतः)+++ विमुक्त-पृथग्-जनास्
तद्-अभिगमनोपादानाद्यैर् अ-वन्ध्य-मनो-रथाः ।
+++(" यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे “)+++
नमति दिवि-षद्-वर्गे नाथ-प्रभाव-समीक्षया
जहति त इमे मानाटोपं परस्-पर-जीविताः ॥ ८३ ॥

English

King.-Venerable sire! These are versed in the Sātvata-sastra (Pancharatra Tantra, containing the direct oracles of God. (Vide Pancharatras by Govindacharya in J. R. A. S. 1911.)) and seem to be at [[149]] one with the followers of Vēdānta-siddhānta;
they have turned their minds away from the study of diverse trifling Vidyās and pure both within and without, like Svētadvipa-residents (White Island, chronicled to be in the centre of the Milky Sea. ), are blest, walking the way of the Upanishad-wise.

Further:-
83. Deeply devoted to the Lord Supreme, these (versed in the Satvata-Tantra) have severed (their connection) from others,
with hearts content with worship of the Lord. (of the description) Abhigamana (Morning worship.), Upādānā (Collection of materials for worship ), etc.
Though the Deva-hosts prostrate to them, (1. ef. Taittiriya Upanishad - तस्य देवा असन्वशे, सर्वस्मै देवाबलिमावहन्ति । )
they, esteeming each other, owing to their clear perception of the Lord’s glory, put down the puff of pride (which may on that account obsess them.)

मूलम्

राजा - भगवन्, अमी पुनः सात्त्वतं शास्त्रमधीयानास्त्रय्यन्तवादिभिरैक्यमिवापन्ना बल्बजप्रायबहुविधविद्याजल्पविमुखीकृतमानसा बहिरन्तश्च शुद्धाः श्वेतद्वीपवासिन इव शुभंयवः पुरुषास्तामिमामौपनिषदीं परिषदमुपजिगमिषन्ति । अपि च,

परमपुरुषप्रत्यासत्त्या विमुक्तपृथग्जना-

-स्तदभिगमनोपादानाद्यैरवन्ध्यमनोरथाः ।
नमति1 दिविषद्वर्गे नाथप्रभाव समीक्षया

2 जहति त इमे मानाटोपं परस्परजीविताः ॥ ८३ ॥

प्रभावली

सात्त्वतम् ; पाश्चरात्रं शास्त्रम् । वेदान्तिभिरैकराश्यमापन्ना इव स्थिताः । बल्बजा ; गोमयादुत्पन्नास्तृणविशेषाः, तत्सदृश्यः । बाहुल्यात्तुच्छत्वाच्च तत्सादृश्यम् ; बहुविधा विद्यास्त्रैवर्गिक्यः ; तासां पाठे विमुखीकृत- चित्ताः । यद्वा विद्या एव जल्पः । बहिः शरीरतः, अन्तः मानसतश्च परिशुद्धाः । शुभंयवः; शुभान्विताः । औपनिषदीम् ; औपनिषदानां वेदान्तिनां गोष्ठीमुपगन्तुमिच्छन्ति । पुनरपि तान् श्लाघते - अपिचेति । परमपुरुषे भगवति प्रत्यासत्त्या ।

X३०४
यद्वा परमपुरुषाः भागवताः । पृथग्जनाः; नीचाः । तस्य परमपुरुषस्य यान्य भिगमनीदीनि तैः सफलाभिलाषाः ; अभिगमनादीनां भगवत्कैकर्यरूपत्वादवन्ध्यमनोरथत्वम् ; तेषाम् । नाथस्य भगवतः प्रभावं समीक्ष्य देववर्गे नमस्कुर्वति सति अमी गर्वेण जातं सम्भ्रमं त्यजन्ति । परस्परं जीवितं येषाम् । परस्परं जीवितं जीवनवृत्तिर्येषामिति वा ॥ ८३ ॥

प्रभाविलासः - ८३

सात्वतं शास्त्रम् ; पाञ्चरात्रम् । बल्बजम् ; तृणविशेषः । शुभं- यवः । शुभान्विताः । परमपुरुषेति । विमुक्तपृथग्जना इति । अनेन

" वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।

न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ "
इति स्मारितम् । तदभिगमनम् ; तस्य भगवतोऽभिगमनम् । उपादानम् ; यागार्थद्रव्य सङ्ग्रहः,

पूर्वमेव यथान्यायमभिगम्य जगद्गुरुम् ।

उपादाय च यागार्थान् सम्भारान् नियतः स्वयम् ॥

इति भरद्वाजस्मरणात् । आदिपदेनेज्यास्वाध्याययोगा उक्ताः, " अभि- गमनोपादानेज्यास्वाध्यायमन्वहं योगः " इत्युक्तत्वात् । नमतीति ; " सर्वेऽस्मै देवा बलिमावहन्ति " इत्युक्तत्वात् ॥ ८३ ॥

विश्वास-प्रस्तुतिः - ८४

किम् एतन्-मते प्रतिवक्तव्यम् आर्यस्य ?

गुरुः - (कर्णौ पिधाय) न खलु ; न खलु ।

न बाधः प्रतिरोधो वा वेद-सात्त्वतयोर् मिथः ।
कु-दृशां तद्-भ्रमो वार्यः
+++(परस्परं)+++ श्रुत्योर् इव परीक्षकैः ॥ ८४ ॥+++(5)+++

English

[[150]] So then, is there anything in their system to rebut?

Guru.-(Shaking his head and shutting his ears.) Nothing, nothing: (for):-

(2. Shutting ears is a Hindu habit, meaning something untoward heard, or to be heard, or something inauspicious to ward off. )

  1. Neither conflict nor objection riseth, when the Vedās and the Sātvata are compared. But for judges it is meet to dispel doubts that Skeptics may entertain,–such (doubts) occurring between (parts of) Vedās themselves.
मूलम् - ८४

किमेतन्मते प्रतिवक्तव्यमार्यस्य ?

गुरुः - (कर्णौ पिधाय) न खलु ; न खलु ।

न बाधः प्रतिरोधो वा वेदसात्त्वतयोर्मिथः ।

कुदृशां तद्भ्रमो वार्यः श्रुत्योरिव परीक्षकैः3 ॥ ८४ ॥

प्रभावली - ८४

प्रतिवक्तव्यम्; दूषणीयम् । न खल्वित्युक्तमुपपादयति–न बाध इति ।

X३०५
वेदसात्त्वतयोः; वेदपाश्चरात्रयोः । मिथः; अन्योन्यम् । बाधः ; प्रबलेन दुर्बलस्य पीडा ; स नास्ति । तुल्ययोः पीडनं प्रतिरोधः । सोऽपि नास्ति । बाधप्रतिरोधाभावात् पाञ्चरात्रे परिहर्तव्यदूषणाशो नास्तीत्यर्थः । कर्तव्यं किञ्चिदस्तीत्याह - कुहशामिति । कुदृशां कुदृष्टीना तमः परस्परबाधप्रतिरोधभ्रमो- ऽस्ति । यथान्येषां श्रुत्योर्बाधप्रतिरोधभ्रमे उभयोरपि प्रामाण्यात् विषयव्यवस्था परीक्षकैः कल्प्यते, एवं श्रुतिपाञ्चरात्रयोः कुदृष्टीनां बाधप्रतिरोधभ्रमस्य परिहारो वक्तव्य इत्यर्थः ॥ ८४ ॥

प्रभाविलासः - ८४

न बाध इति । अधिकबलेन प्रतिहतिर्बाधः । तुल्यबलेन प्रतिहतिः
प्रतिरोधः । श्रुत्योरिवेति । " उदिते जुहोति ” “ अनुदिते जुहोति " इति श्रुत्योरिव भेदाभेदश्रुत्योरिवेति वा ॥ ८४ ॥

विश्वास-प्रस्तुतिः - ८५

शिष्यः – तद् अहं वारयामि
शृण्वन्तु च परम-पुरुष-प्रणीते पञ्च-रात्रतन्त्रे तन्त्रान्तरवत् प्रादेशिक+++(=एकदेशस्थ)+++-दोषोत्प्रेक्षकाः पण्डितम्मन्याः -

+++(परान्→)+++ आरोहन्त्व् अनवद्य-तर्क-पदवी–सीमा-दृशां मादृशां
पक्षे कार्त-युगे निवेशित-पदाः, पक्षे पतद्भ्यः परान् ।
सर्वानुश्रव+++(=श्रुति)+++-सार-दर्शि–स-शिरः-कम्प–द्वि-जिह्वाशन-
क्रीडा-कुण्डल+++(-सर्प)+++-मौलि-रत्न–घृणिभिः+++(=प्रभाभिः)+++ सारात्रिकाः+++(=सनीराजनाः)+++ +++(पाञ्च-रात्र-)+++सूक्तयः ॥ ८५ ॥

English

Pupil.–I shall dispel it. Wiseacres find fault, in some respects, with God-revealed Pāncharātras, as with other Tantras. (3. Such as that of the Pasupata. )

Listen:-

May the Pāncharātra-word, incorporated with the Krita [4] (age)-famed Vedas,-
the creed espoused by men like ourselves, past-masters in spotless logic,
-(the word) irradiated by rays streaming from the crestgems of Garutmān’s pendants, (Serpents nained Padma and Mahapadma, worn by Garuda as pendants.)[5]
(when) as adept in Vedic essence, nodding his head, –(may this word)
made authoritative by impartial souls (like Vyasa,) glory forth. (1. This is with reference to Vedanta-Sutras by Vyasa, such as Utpattyasambhavat etc. [II. 2. 8.] )

(4. This age is noted for the Supreme authority of the Vedas. Witness the verse quoted by [[151]] Sri Purnapragna in his Atharva opanishad Bhashya: -

पञ्च-रात्रम् ऋगाद्याश् च
सर्वम् एकं पुराऽभवत् ।
मूलवेद इति ह्याख्या
काले कृतयुगे तदा ।

Also एको वेदः कृते ह्यासीत् । )

(5 This is with reference to Vihagēsvara (Garutman) Samhita of the Pancharatras, listened to by nodding, when taught by the Guru. )

मूलम् - ८५

शिष्यः – तदहं वारयामि । शृण्वन्तु च4 परमपुरुषप्रणीते पञ्चरात्रतन्त्रे5 तन्त्रान्तरवत् प्रादेशिकदोषोत्प्रेक्षकाः6 पण्डितम्मन्याः-

आरोहन्त्वनवद्यतर्कपदवीसीमादृशां मादृशां

पक्षे कार्तयुगे निवेशितपदाः पक्षे पतद्भ्यः परान् ।
सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशन-

क्रीडाकुण्डलमौलिरत्नघृणिभिः7 सारात्रिकाः सूक्तयः ॥ ८५ ॥

प्रभावली - ८५

वारयामि; दुदृष्टिभ्रमं वारयामि । शृण्वन्त्विति । साक्षाद्भगवत्प्रणीते भ्रमस्यावकाशो नास्तीति सूच्यते— परमपुरुषेत्यादिना । तन्त्रान्तरवत्; पाशुपतादिवत् । क्वचित्क्वचिद्दोषमुत्प्रेक्षमाणाः ; " वासुदेवात् सङ्कर्षणो जायते " इत्येकदेशगतजीवोत्पत्त्यादिदोषोद्भावकाः । विज्ञानादिभावे वा तदप्रतिषेधः " इति सूत्रकृतव परिहारे कृते तस्यान्यथा वर्णनं कुर्वन्त आत्मानं सूत्रकृतोऽपि पण्डितं मन्यमाना इत्यर्थः । श्रोतव्यं किमित्यत्राह — आरोहन्त्विति । अनवद्या

X३०६
या तर्कपदवी सत्तर्कपदवी, तस्याः सीमादृशां पारदृश्वनां मादृशाम् । सत्तर्कपरि- कर्मितवेदान्तपक्षपरिग्रहमात्रात् सादृश्यम् । पूर्वाचार्याणां पक्षे वेदान्तसिद्धान्ते । कीदृशे कार्तयुगे ; कृतयुगसमृद्धिविजृम्भणात् । तत्र निवेशितपदाः ; वेदान्त- सिद्धान्तम् अनुप्रविश्य स्थिता इत्यर्थः । सर्वेति । अनुश्रूयत इत्य् अनुश्रवो वेदः । सर्ववेदसारदर्शी गरुत्मान्, तस्य वेदात्मकत्वात् । सशिरःकम्प ; भगवत्पुरतः श्रीपाञ्चरात्रसारार्थश्रवणात् शिरःकम्पः तेन सहितः । सशिरःकम्पचासौ द्विजिह्वाशनश्च; द्विजिह्वाः सर्पाः अशनं यस्य तस्य विहगेश्वरस्य संहिताकर्तुः । क्रीडाकुण्डलयोः ; पद्ममहापद्माख्यौ नागौ, तयोः । मौलिरत्नस्य कान्तिभिः सारात्रिकाः नीराजनवत्यः, नीराजिता इत्यर्थः । सूक्तयः पक्षे पतद्भ्यः पक्ष-पातिभ्यः

X३०७

परान् अपक्षपातिनो व्यासादीन् पाञ्चरात्रप्रामाण्यवादिनः आरोहन्तु आश्रयन्तु । आश्रित्य प्रमाणतया जयन्त्वित्यर्थः । व्यासादिभिः प्रामाण्यस्य स्वग्रन्थे समर्थितत्वात् पक्षपतिभिः युष्माभिः यत्किञ्चिदुच्यताम् नामेति भावः ॥ ८५ ॥

प्रभाविलासः - ८५

प्रादेशिक दोषोद्भावकाः; ‘जीवो जायते ’ इत्यादिदोषारोपकाः । आरोहन्त्विति । कार्तयुगे ; कृतयुगसम्बन्धिनि; ज्ञानलक्षण इत्यर्थः,
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् " इति स्मरणात् । यद्वा दोषगन्धरहिते, प्रामाणिक इत्यर्थः । निवेशितपदाः ; प्राप्तव्यवसिताः, निष्णाता इति यावत् । " पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु " इति निघण्टुः ; निक्षिप्तचरणा वा । सर्वानुश्रवाणां सकलवेदानां सारदर्शिनः ;

“त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यम् " इत्यादिना प्रसिद्धवैभवस्य सशिरः कम्पस्य द्विजिह्वाशनस्य गरुत्मतः क्रीडा-कुण्डलानां लीलार्थं भूषणतया धृतानां सर्पाणाम्,

“सुपर्णे वैनतेयं च
नागारिं नागभूषणम्”

इति स्मरणात् ।
मौलिरत्नानां घृणिभिः प्रभाभिः सारात्रिकाः सनीराजनाः मादृशां सूक्तयः मादृशां पक्षे पतद्भ्यः
परान् अस्मत्-पक्षपातिविरोधिपक्षनिष्ठान् आरोहन्त्वित्यन्वयः । अत्र रत्न- घृणिष्वारोप्यमाणस्यारात्रिकत्वस्य प्रकृतोपयोगात् परिणामालङ्कारः ।

" आरोप्यमाणम् आरोप- विषयात्मतया स्थितम् ।
प्रकृतस्योपयोगित्वे
परिणाम उदाहृतः ॥ "

इति लक्षणात् ॥ ८५ ॥

विश्वास-प्रस्तुतिः - ८६

निरूपितं हि सात्त्वत-प्रामाण्यं निखिल-निगम-व्यसन-व्यसनिना मति-मन्थान-निर्मथित–निगम-सिन्धु–
समुदित-महाभारत-चन्द्र-चन्द्रिका–
निरवशेष-मुषित-भुवन-भवनोदर-तिमिरेण
बादरायणेन भगवता नारायणेन । +++(5)+++

तत्र च,

स्वतः सर्वावेक्षी श्रुति-शत–शिरस्-त्राण–चरणः
स्व-भृत्यान् नस् त्रातुं यद् इदम् अनघं तन्त्रम् अकृत
“इदं श्रेयः पुण्यं हिततमम्” इतीव व्यपदिशन्
मुनिः पाराशर्यः प्रकटयति मानं तद् अखिलम् ॥ ८६ ॥

सेनापतिः- देव, अपर इवायं पाराशर्यः
पञ्च-रात्र-तन्त्रं प्रतिष्ठापितवान् ।

English

As authoritative is the Sātvata (Pāncharātra) established by the Holy VyasaNarayana (Incarnate),–(Vyasa) deeply learnt in all the Vedas,-(Vyasa) who dispelled all the inner darkness of the worlds [[152]] by the moon-light of the MahābhārataMoon, born out of the Vedic sea, churned’ by his wisdom.

(1. Churning of the sea in the Fish-Avatara, when the Moon was born, is here the allusion from which the metaphor is taken.)

1. The Omniscient Himself (Nārayana) created this spotless Tantra, as salvation for us, slaves,-
Nārayana of the (Holy) feet guarding the hundreds of the Vēda.
And Pārāsarya (2. The son of Parāsara-Vyasa.), the sage, promulgated it by asserting that it is blessed, holy, and salutary.3

(3. Refering to इदं श्रेयं इदं पुण्यमिदं हितमनुत्तमम् । and other verses in the Narayaniya of the Moksha- Dharma in Santi Parva of the Mahabharata. )

Senapati.–Lord! Like another Vyāsa, hath he (the Pupil) established the PāncharātraTantra.

मूलम् - ८६

निरूपितं हि सात्त्वतप्रामाण्यं निखिलनिगमव्यसनव्यसनिना मतिमन्थान निर्मथितनिगमसिन्धुसमुदितमहाभारतचन्द्रचन्द्रिकानिरवशेषमुषितभुवनभवनोदरतिमिरेण बादरायणेन भगवता नारायणेन ।

तत्र च,
स्वतः सर्वावेक्षी श्रुतिशत8 शिरस्त्राणचरणः

स्वभृत्यान्नस्त्रातुं यदिदमनघं तन्त्रमकृत ।

इदं श्रेयः पुण्यं9 हिततममितीव व्यपदिशन्

मुनिः पाराशर्यः प्रकटयति मानं तदखिलम् ॥ ८६ ॥

सेनापतिः - देव, अपर इवायं पाराशर्यः
पञ्चरात्रतन्त्रं प्रतिष्ठापितवान्।

प्रभावली - ८६

निरूपितमिति; समर्थितमित्यर्थः । तस्य सर्वज्ञत्वं दर्शयति - निखिलेत्यादिना । निखिलवेदानां व्यसने विभजने व्यसनिना तात्पर्यवता । मतिमन्था- नेत्यादि ; बुद्धिरेव मन्थानदण्डः । निगमसिन्धोः समुदितो यो महाभारतचन्द्रः, तस्य चन्द्रिका तदर्थज्ञानं, तेन निरवशेषं निःशेषं यथा तथा मुषितं भुवनमेव भवनं तस्य उदरम्, उदरशब्देन तदन्तर्वर्तिजन उच्यते, तिमिरम् अज्ञानं येन बादरायण- रूपिणा । तत्र च ; महाभारते । कुत्र पाञ्चरात्रप्रामाण्यं प्रतिपादितमित्यत्राह –

X३०८
स्वत इति । सर्वावेक्षी ; सर्वज्ञ इत्यर्थः । श्रुतिशतस्य ; वेदगणस्य शिरस्त्राणं शिरीभागरक्षकं चरणं यस्य ; सर्ववेदप्रतिपाद्यपादारविन्द इत्यर्थः । स्वभृत्यान्; स्वशेषभूतान् । नः; अस्मान् । त्रातुम्; संसारादुद्धर्तुम्; अस्मदुज्जीवनार्थमित्यर्थः । अनघम् ; निर्दोषम् ; स्वतः प्रमाणभूतमित्यर्थः । तन्त्रम् ; श्रीपाञ्चरात्रशास्त्रं कृतवान्, तत्रेति शेषः । इदम् ; श्रीपाञ्चरात्रशास्त्रतन्त्रम् । श्रेयः परमपुरुषार्थप्रदम् । पुण्यम्; पापाच्छोधकम् । हिततमम् ; परमहितप्रतिपादकम् । इतीव; इवशब्दोऽलङ्कारे । इत्युपदिशन् । अनेन " इदं श्रेय इदं पुण्यम्" इत्यादिमहाभारतवचनं सूच्यते । तत्र इदमिति शब्देन प्रकृतस्य पाञ्चरात्रस्य ग्रहणमिति द्योतयितुमत्रापि ‘इदं श्रेयः ’
" इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।

आविध्य मतिमन्थानं दघ्नो घृतमिवोद्धृतम् ।

भविष्यति प्रमाणं वा एतदेवानुशासनम् " ॥

इति वचनमत्रानुसन्धेयम् । पाराशर्यः ; व्यासः । तदखिलम् ; पाश्चरात्रशास्त्रमापादमस्तकं प्रमाणमिति प्रकटयति । अन्येषां तन्त्राणां क्वाचित्कं प्रामाण्यम् ; श्रीपाञ्चरात्रं तु सर्वत्र प्रमाणमित्युक्तवान् ॥ ८६ ॥

प्रभाविलासः - ८६

बादरायणेन भगवतेति

“कृष्णद्वैपायनं व्यासं विद्धि नारायणं परम् ।

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ॥ "
इति स्मारितम् । स्वत इति । सर्वावेक्षी सर्वज्ञः । श्रुतिशतानां शिरस्त्राणभूतं चरणं यस्य सः । इदं श्रेयः इत्यादिना भारतवचनं स्मारितम् । यथोक्तम्-

" इदं शतसहस्राद्धि भारताख्यानविस्तरात्

आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम् ॥

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।

आरण्यकं च वेदेभ्य ओषधीभ्यो यथामृतम् ॥

इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रेति शब्दितम् ॥

इदं श्रेय इदं पुण्यमिदं हितमनुत्तमम् ।

ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ।

भविष्यति प्रमाणं वा एतदेवानुशासनम् ॥ "

इति ॥ ८६ ॥


  1. अत्र " यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे " इति श्रुत्यर्थोऽनुसन्धेयः । ↩︎

  2. प्रतिजहदहकारास्तेऽमी परस्पर—– क ↩︎

  3. परस्परम्——-घ ↩︎

  4. च omitted——-क ख ↩︎

  5. तन्त्रेऽपि—-क, ख ↩︎

  6. दोषोद्भावका इति प्रभाविलासपाठः ↩︎

  7. क्रीडाकुण्डलि——-क, ग, च ↩︎

  8. श्रुतिगण——क ↩︎

  9. पथ्यं——-घ ↩︎