विश्वास-प्रस्तुतिः
1 राजा - के पुनरेते क्षपणकादिवद् अ-नैगमिक-लिङ्ग-धारिणः
किम् अप्य् उग्रं व्रतम् आस्थाय
तापस-विडम्बिनस् त्रय्य्-अन्तम् उपरुन्धते ?
गुरुः - प्रमथ-गणानुकारिणः केचन दुराचाराः ।
एते च नैगम-कर्म-कलमो+++(=तण्डुलक्षेत्र)++++उपमर्दिनः कडङ्+++(=धान्य-कवचादि)+++-गरीया+++(=गलीयाः → वृषादयः)+++ इव दूर-परिहरणीयाः2 ।
शिष्यः - स्वयम् एवैते दूरी-भवन्ति ।
यथा-
कपिल-कणाद-बुद्ध–कच-लुञ्छन–तन्त्र-कथा-
कल-कल-कोविदेषु कथकेषु गलन्-मतिषु ।
+++(गौतम-)+++मुनि-वर-सापराध-जन-मोहन-कौतुकिना
पशुपतिना यद्-उक्तम्, अपयान्त्य् अथ+++(→त्वद्-दर्शनानन्तरम्, गौतम-शापात्)+++ तत्-प्रवणाः ॥ ७९ ॥
English
[[144]]
Further punishment dependeth on
thy majesty and the Guru.
King.-Ah generall To sight them paineth.
May they pass beyond my vision!
Senapati. Lord! Blinded by thy glory-sum, they, like owls, hide themselves in hill and sea-side caverns,
the abodes of the aborigines.
King. Who are these men again,
-bearing un-vedic marks (on their persons)
resembling the Kshapanakas (=Jains),
engaged in severe austerities passing for eremites,
and imitating the practices of the Pramatha-hosts (2. Goblins attending on Rudra. )-
who oppose the Vedas ?
Guru.–Like stray-cattle stealing into the ricefields of Vedic-Dharma,
these must be driven to a distance.
Pupil. They, themselves, will stay far off.
For:-
- Now that the turbulent professors of the doctrines of Kapila, Kānāda, Buddha, and the Hair-puller (Jina), have been befooled, these followers of the doctrines of Pasupati 3, designed by him to delude the offenders of Gautama, shall follow suite.
3. Rudra. On an occasion of great famine which lasted for 12 years, sage Gautama’s hermitage was the only rain-fed area. All other sages found resort here to shelter themselves from famine. For a long time, the refugees enjoyed the hospitality of Gautama and he would not permit them to depart. Thereupon one set of these guests who wanted to return to their own hermitages, contrived a plan to get out of the place by creating a false cow which devastated Gautama’s crops. Gautama enraged, burnt the cow by his mere look and the guests left Gautama’s hermitage on the pretext that they could not stay with a cowkiller. Gantama came to know the true state of affairs through his ज्ञानचक्षुस् (eye of wisdom) and cursed them to be ज्ञानशून्याः thus:
त्रिपुण्डधारिणो यूयं
भस्मोद्धूलनतत्पराः ।
भविष्यथ त्रयीबाह्या
मिथ्याज्ञानप्रलापिनः ॥
Thas cursed, they invented a new faith called Pasupata-Tanten whose teachings are antagonistic to the Vedas.
[[145]]
मूलम्
1 राजा - के पुनरेते क्षपणकादिवदनैगमिकलिङ्गधारिणः किमप्युग्रं व्रतमास्थाय तापसविडम्बिनस्त्रय्यन्तमुपरुन्धते ?
गुरुः - प्रमथगणानुकारिणः केचन दुराचाराः । एते च नैगमकर्म कलमोपमर्दिनः कडङ्गरीया इव दूरपरिहरणीयाः2 ।
शिष्यः - स्वयमेवैते दूरीभवन्ति ।
यथा- कपिलकणादबुद्धकचलुञ्छनतन्त्रकथा-
कलकलकोविदेषु कथकेषु गलन्मतिषु ।
मुनिवरसापराधजनमोहन कौतुकिना
पशुपतिना यदुक्तमपयान्त्यथ तत्प्रवणाः ॥ ७९ ॥
प्रभावली
अथ पाशुपतमतनिरासायोपक्रमः के पुनरित्यादि । क्षपणकाः ;
X२९९
जैनाः । अवैदिकचिह्नधारिणः । उग्रं व्रतं पाशुपतम् । तापसानुकारिणः उपरुन्धते पीडयन्ति । प्रमथगणाः ; तदनुचराः । वैदिकधर्माख्यसस्यस्य भक्षकाः । कर्डकरीयाः ; चौर्यतः सस्यमक्षका गवादय । स्वयमेव दूरभवनं दर्शयति — कपिलेति । कचलुञ्छनाः ; जैनाः । तच्छास्त्रमधिकृत्य वादकोलाहलेषु कोविदाः समर्था ये कथकवादिनः, तेषु गलन्मतिषु भ्रष्टमतिषु पराजितेष्वित्यर्थः । तद् दृष्ट्वा, मुनिवरः ; गौतमः । केनचित्कारणेन तस्मिन् शिष्या अपाराध्यन्निति कथा पुराणेष्वनुसन्धेया-
“त्रिपुण्ड्रधारिणो यूयं भस्मोद्धूलनतत्पराः ।
भविष्यथ त्रयीबाह्या
मिथ्याज्ञानप्रवर्तकाः ॥”
इत्यादि । जनानां मोहने
कुतूहलिना पशुपतिना यदुक्तं पाशुपतं शास्त्रं,
तत्प्रवणाः तच्छास्त्रनिष्ठाः पाशुपताः ।
अथ ; त्वद्-दर्शनानन्तरम् । अपयान्ति; स्वयमेवापसरन्ति ॥ ७९ ॥
प्रभाविलासः - ७९
कडङ्करीयाः पशवः । कपिलेति । मुनिवरः गौतमः । स खलु
सापराधान् शिष्यान् शशाप । तदुक्तम्-
त्रिपुण्डधारिणो यूयं भस्मोद्धूलनतत्पराः ।
भविष्यथ त्रयीबाह्या मिथ्याज्ञानप्रवर्तकाः ॥
इति । तानधिकृत्य प्रवृत्तं पाशुपतं शास्त्रम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः - ८०
सेनापतिः - देव, अमी पुनर् आर्य-वचनम् असहमाना
दिगम्बरादिवत् केनापि विप्रलम्भोपायेन स्व-सिद्धान्त-श्रद्धासंवर्धनाय प्रयतन्ते ।
तत्र तावद् इमां प्रत्यायनाम् आरचयन्ति –
यद् अकाण्ड एव वर्षा-समयम् आदिशन्ति ।
(नेपथ्ये)
पलायध्वम् पलायध्वम् ।
राजा - किम्, किम् ?
(इत्य् अवलोकयति)
सेनापतिः - नान्यत् किचित् ।
अक्ष्णोर् अञ्जन-वर्तिका, यवनिका विद्युन्-नटीनाम् इयं
स्वर्-गङ्गा-यमुना, वियज्-जल-निधेर् वेला-तमालाटवी ।
वर्षाणां कबरी, पुरन्-दर–दिशालङ्कार-कस्तूरिका,
कन्दर्प-द्विप-दर्प-दान-लहरी कादम्बिनी जृम्भते ॥ ८० +++(5)+++
English
Senapati.-Lord! These (Pasupatas) like the Digambaras (Jains) resent our Arya’s words, and in order to encourage belief in their creed, resort to such strategems, as the producing of rain out of season (&c)
s. s. 10 [[146]]
(Behind the curtain) (A coice):-
“Run, run “.
King.–Looks round, exclaiming What? what?
General. Unnatural this! for, (surely) :-
-
There loom the serried clouds. Can they be the brush for eye-collyriuming? Can they be the (stage-) curtain before the Lightning-actresses? Can they be the Yamuna to the celestial Gangā’, or are they the Tamala grove fringing the shore of Ocean-sky, or are they the (dark) tresses of the Rain-damsels, or again may they not be the (dark) muskmark (on the forehead) of the East-maid? Nay, are they not again like the flowing floods proud-bubbling from the ichor of the Cupid-Elephant??
-
Ganga is white, and Yamuna is dark. Clouds being dark are said to be like Yamuna.
-
Thus did the spectators of the magic clouds invented by the Pasupatas figure to themselves those clouds in various similies.
मूलम् - ८०
सेनापतिः - देव, अमी पुनरार्यवचनमसहमाना दिगम्ब
रादिवत् केनापि विप्रलम्भोपायेन3
स्वसिद्धान्तश्रद्धासंवर्धनाय प्रयतन्ते । तत्र तावदिमां प्रत्यायनामारचयन्ति –यदकाण्ड एव
वर्षासमयमादिशन्ति4 ।
(नेपथ्ये)
पलायध्वम् पलायध्वम् ।
राजा - किम्, किम् ?
(इत्यवलोकयति)
सेनापतिः - नान्यत्किचित् ।
अक्ष्णोरञ्जनवर्तिका यवनिका विद्युन्नटीनामियं
स्वर्गङ्गायमुना वियज्जलनिधेर्वेलातमालाटवी ।
वर्षाणां कबरी पुरन्दरदिशालङ्कारकस्तूरिका
कन्दर्पद्विपदर्पदानलहरी कादम्बिनी जृम्भते ॥ ८० ॥
प्रभावली - ८०
दिगम्बराः ; जैनाः । वञ्चनोपायेन स्वमते सर्वेषामादराभिवृद्धये प्रयस्यन्ति । तत्र विप्रलम्भने । इमाम्; अकाले जलदोद्गमनरूपाम् ।
X३००
प्रत्यायनाम्; विश्वासजननम् । इमामिति सामान्यत उक्तां विशेषतो दर्शयति - यदिति । अकाण्डे ; अकाले । वर्षासमयम्; प्रावृट्कालम् । पलायध्वं पलायध्वम् इति वर्षोद्गमं दृष्ट्वा जनो वदति । नान्यत्किचित्; अन्यत्किञ्चित् स्वाभाविकं नास्तीत्यर्थः, अस्यैन्द्रजालिकत्वात् । अक्ष्णोरिति । अक्ष्णोः ; लोचनयोः, अञ्जनशलाका । विद्युन्नटीनां नृत्यन्तीनां यवनिका तिरस्करिणी । स्वर्गङ्गायाः समीपस्था यमुना । आकाशाख्यसमुद्रस्य वेलायां सञ्जाततमाला-
;
X३०१
टवी । वर्षाः प्रावृट् , तस्याः कबरी केशपाशस्थानीया । पुरन्दरदिशायाः पूर्वदिगङ्गनायाः अलङ्कारार्थे कस्तूरिका । कन्दर्पगजस्य दर्पण मदेन सञ्जाता मदजलवीचिः । इति जनैरुत्प्रेक्ष्यमाणा इय मेघमाला ऊर्ध्वं प्रसर्पति ॥ ८० ॥
प्रभाविलासः - ८०
अक्ष्णोरिति । अञ्जनवर्तिका नीलाञ्जनलेपनम् । यवनिका ; तिरस्करिणी बिम्बग्रहणो चितोच्यते । तदुक्तं सङ्गीतचूडामणौ-
" नीरन्ध्रा तत्र कर्तव्या स्निग्धा यवनिका समा ।
अपरे द्वे यवनिके नीहारावरणोपमे ॥
प्रेक्षकाणां वितन्वाना नयनानन्दकन्दलम् ।
नेपथ्यान्तरिता भूत्वा नर्तकी नृत्यमाचरेत् ॥”
इति । कादम्बिनी; मेघमाला । अत्र परम्परा नाम रूपकप्रभेदोऽलङ्कारः,
“विकृतं प्रकृतादन्यत् स्यादेतच्च चतुर्विधम् ।
परम्परा मेखला च मालारूपकरूपके ॥”
इत्युक्तत्वात् ॥ ८० ॥
विश्वास-प्रस्तुतिः - ८१
किञ् च -
प्रत्यग्र-प्रतिबुध्यमान-कलिका+++(=कोरक)+++–नीरन्ध्र-नीपाटवी-
निःसाधारण-निःसरन्–मधु-सुधा–सौरभ्य-सार-स्पृशः ।
क्रोडाद् अम्बु-मुचां क्षरन्ति कतिचित्, क्रोडी-कृता +++(सानन्दैर्)+++ दन्तिभिर्
धारा-सिक्त-वसुन्धरा-सुरभयो झञ्झा-समीराङ्कुराः ॥ ८१ ॥+++(5)+++
English
[[147]]
Further:-
- There issue from the bosom of these clouds zephyrs-the offspring of winds, bearing the aroma of ambrosial honey freely flowing from the wildly-blossoming buds of Nipa-woods (1. Kadamba or a species of Asoka),-zephyrs so much relished by elephant-herds and wafting fragrance, fuming from rain-soaked earth. (All look flurried and wondering.)
मूलम् - ८१
किञ्च
प्रत्यग्रप्रतिबुध्यमानकलिकानीरन्ध्रनीपाटवी
निःसाधारणनिःसरन्मधुसुधासौरभ्यसारस्पृशः ।
क्रोडादम्बुमुचां क्षरन्ति कतिचित्क्रोडीकृता दन्तिभि-
र्धारासिक्तवसुन्धरासुरभयो झञ्झासमीराङ्कुराः ॥ ८१ ॥
प्रभावली - ८१
तत्र मन्दवायून् वर्णयति– प्रत्यग्रेति । तत्क्षणविकसत्कोरकनिबिडिता या नीपानां कदम्बानामटवी, तस्या असाधारणं यथा तथा निर्यन्मकरन्दामृतस्य सौरभ्ये परिमले यः सारांशः, तत्स्पृशः । दन्तिभिः क्रोडीकृताः; उपगृहीताः, आहता इत्यर्थः । वसुन्धरायाः परिमलवन्त इमे कतिचित्समीराङ्कुरा अम्बुमुचा क्रोडात् अङ्कात् निःसरन्तीत्यर्थः ॥ ८१ ॥
प्रभाविलासः - ८१
प्रत्यग्रेति । प्रत्यग्रं नूतनं यथा तथा प्रतिबुध्यमानाभिः कलिकाभिः कोरकैः नीरन्ध्राणां नीपाना कदम्बानाम् अटव्या निःसाधारणं निरर्गलं यथा तथा निःसरन्त्या मधुसुधायाः सौरभ्यसारं स्पृशन्तीति तथोक्ताः । अनेन सौरभ्योक्तिः । दन्तिभिः क्रोडीकृता इति मान्द्योक्तिः । झञ्झासमीराङ्कुराः अम्बुमुचां मेघानां क्रोडादालोडनात् उत्पन्नाभिः धाराभिः सिक्ताया वसुन्धरायाः सुरभयो येषां ते तथोक्ताः सन्तः क्षरन्ति निर्गच्छन्ति । अनेन शैत्योक्तिः ॥ ८१ ॥
विश्वास-प्रस्तुतिः - ८२
(सर्वे ससम्भ्रमाद्भुतम् अवलोकयन्ति)
राजा - भगवन्, किम् अस्त्य् अमीषां प्रतीकारः ?
गुरुः– राजन्, किम् अस्माभिर त्र यतितव्यम् ?
स कैटभ-तमो-रविर् मधु-पराग-जञ्झा-मरुद्
+हिरण्य+++(कशिपु-)+++-गिरि-दारणस् त्रुटित–काल-नेमि–द्रुमः ।
किम् अत्र बहुना भजद्-भव–पयो-धि–मुष्टिन्-धयः
कथं न भवति स्वयं कपट-कर्म-निर्मूलनः ॥ ८२ ॥
English
King. Holy sire! How (then) to counteract this (illusion)? Guru. - No effort on our part is needed! For:-
[[148]]
Here is He, the Sun to Kaitabha-
darkness,
(He) the Gust driving the Madhu-dust,
(He) the Cleaver’ of the Hiranya-hill,
(He) the Feller of the Kalanemi-
tree,-in short
(He) the Gulper of the Samsara-Sea,
How then can feats of illusion not eradicated be?
(Vishnu is compared to the Sun and his uprooting Kaitabha (the Demon) is compared to the sun’s dispelling darkness.
- Vishnu is compared to the gust and his slaying demon Madhu is compared to a gust of wind driving away dust.
- Demon Hiranya is spoken of as a hill and Vishnu’s killing him is spoken of as cleaving it. (The incarnation of Nrisimba, Man-lion, is referred to here.)
- Demon Kālanemi is compared to a tree and Vishnu’s destroying him is referred to as felling. )
मूलम् - ८२
(सर्वे ससम्भ्रमाद्भुतमवलोकयन्ति)
राजा - भगवन्, किमस्त्यमीषां प्रतीकारः ?
गुरुः– राजन्, किमस्माभिरत्र यतितव्यम् ?
स5 कैटभतमोरविर्मधुपरागजञ्झामरु-6
द्धिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुमः ।
किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः
कथं7 न भवति स्वयं कपटकर्मनिर्मूलनः ॥ ८२ ॥
प्रभावली - ८२
X३०२
ससम्भ्रमाद्भुतम्; वर्षादर्शनात् सम्भ्रमः, अकालातर्कितागमनादद्भुतम् । अमीषाम् ; ऐन्द्रजालिकव्यापाराणाम् । भगवानेवात्र प्रतिकर्तेत्याह – स कैटभेति । कैटभाख्यान्धकारस्य सूर्यः । मधुः ; मध्वाख्यो राक्षसः, स एव परागः, तस्य झञ्झावातः । हिरण्यासुर एव गिरिः । कालनेमिरेव द्रुमः । अत्र किं बहुना भाषितेन । भजतां भवपयोधेः मुष्टिधयः ; मुष्ट्या चुलकीकृत्य अगस्त्यवत्पाता । एवं सर्वविरोधिनिरासको भगवान् इह कपटकर्मण ऐन्द्रजालिकस्य स्वयमेव निर्मूलनः कथं न भवति ; भवस्येवेत्यर्थः ॥ ८२ ॥
प्रभाविलासः - ८२
।
स कैटभेति । मधुर्नाम कश्चित् दैत्यः । हिरण्येति; हिरण्याक्ष- हिरण्यकशिपू । मुष्टिधयः ; नाशक इत्यर्थः । अत्र पूर्वार्धेन वीररसः । तृतीयपादेन शान्तरसः । श्लोकेन समाधानालङ्कारेण भगवद्विषयकरत्याख्यो भावश्च व्यज्यत इत्येषामङ्गाङ्गिभावेन सङ्करः । तेनैकस्यैवानेकरूपतयाद्भुतरसो व्यज्यते ॥ ८२ ॥
विश्वास-प्रस्तुतिः - ८३
सर्वे8 —–(सहर्ष-विस्मयम् )
प्रसन्नाः खल्व् एता दिशो विदिशश्च!
गुरुः9 – भक्त-जन-वत्सले भगवति प्रसेदुषि
किं नाम न प्रसीदति ?
मूलम् - ८३
सर्वे8 —–(सहर्षविस्मयम् ) प्रसन्नाः खल्वेता दिशो विदिशश्च
गुरुः9 – भक्तजनवत्सले भगवति प्रसेदुषि किं नाम न प्रसीदति ?
English
(Joying and Wondering). Anon all the quarters and sub-quarters of space clear up! Guru. What all not shall clear up, when the Holy, the Lover of votaries, deigneth?
प्रभावली - ८३
X३०३
तदानीमेवापगमात् विस्मयः । प्रसेदुषि प्रसन्ने सति । दिशां प्रसदनं नाश्चर्यमिति भावः । अथ पाञ्चरात्रिकाणामवैदिकत्वमाशङ्क्य परिहर्तुमुपक्रमते - अमी पुनरित्यादि ।