०८ जैन-निरासः

विश्वास-प्रस्तुतिः - ७६

(राजा - ( सन्तोषं नाटयति))

( नेपथ्ये ) पिशाचाः पिशाचाः ।

X२९५

सेनापतिः - देव, मा मैवम् ।
दिगम्बरास् त्व् एते
सौगत-मत-निरसन-सन्तोष-विषाद-शबलिताः
प्रत्यक्षं परोक्षं च प्रमाणम् अनुरुन्धानाः
प्रतारयन्ति पामरान् ।

शिथिलोदय-सप्त-भङ्गि-शिक्षा-
विषमोपन्यसन-व्यथा-विलक्षाः
मलिनास् त इमे मयूर-पिच्छ-
भ्रमणैर् एव विलोभयन्ति मन्दान् ॥ ७६ ॥

English

(Behind the curtain), (A cry):- Devils! Devils!! Senapati.-Not so, not so. These are Digambaras (a sect of the Jainas) with the mingled (feelings of) joy and sorrow at the overthrow of the Saugata creed, and vetoers of the evidences of Perception and Inference. So do they dupe others.

(सता क्षणिकत्वनिरासेन सन्तोषः
परमाणु-कारणत्वनिरासेन विषादः)

[[142]]

  1. Dirt-smearing folk2 these, and pea-cock-feather-flourishers to beguile the unwary. Ashamed are they at their own odd doctrine of Sapta-bhangi’, long ago exploded.

[Dirty because they are afraid of taking a clean bath, lest they may hurt the vermin in the dirt of the body.]

(१. स्यादस्ति, (२.) स्यान्नास्ति, (३.) स्यादस्ति च नास्ति च, (४.) स्यादवक्तव्यं (५.) स्यादस्ति चावक्तव्यं च (६.) स्यान्नास्ति चावक्तव्यं च, (७.) स्यादस्ति च नास्ति चावक्तव्यं च ॥
(१) (a) If so it is. (b) If so it is not. (c) If so it is and it is not. (d) If so it cannot be described. (2) If it is so it cannot be described. (f) If it is not so it cannot be described. (g) If so and if it is not so it cannot be described. )

मूलम् - ७६

1 ( नेपथ्ये ) पिशाचाः पिशाचाः ।

सेनापतिः

X२९५

देव,2 मा मैवम् । दिगम्बरास्त्वेते3 सौग-

तमत4 निरसन सन्तोषविषादशवलिताः प्रत्यक्षं परोक्षं च प्रमाणमनु-

रुन्धानाः प्रतारयन्ति पामरान् ।
शिथिलोदयसप्तभङ्गिशिक्षा5 विषमोपन्यसनव्यथा विलक्षाः ।

मलिनास्त इमे मयूरपिच्छभ्रमणैरेव6 विलोभयन्ति मन्दान् ॥ ७६ ॥

प्रभावली - ७६

आगच्छतो दिगम्बरानालोक्य जनो वदति–पिशाचाः पिशाचा इति । आगच्छन्तीति शेषः । मा मैवम्; जनैर्यथोच्यते, एवं नेत्यर्थः । सौगत- निरसनेन सन्तोषः सता क्षणिकत्वनिरसनेन; विषादः परमाणुकारणत्वेनेति

X२९६
मन्तव्यम् । परोक्षम् ; अनुमानम् । पामरप्रतारणप्रकारमाह-शिथिलेति । शिथिलमूला या सप्तभङ्गी; स्यादस्ति स्यान्नास्तीत्यादिका, तस्याः शिक्षार्थ यो विषमोपन्यासः, अस्ति नास्तीति व्याहतोपन्यास इत्यर्थः ; तेन व्यथया मनः पीडया, विलक्षाः लज्जिताः मलिनाः मलपङ्कधारिणः मन्दान् अज्ञान् विलोभयन्ति वञ्चयन्ति ॥ ७६ ॥

प्रभाविलासः - ७६

क्षणिकत्वनिरासेन सन्तोषः । स्वयूथ्यपराजयेन विषादः । शिथिलेति । व्याहतत्वेनोपन्यासक्षण एवं निरस्तप्रायत्वं वक्तुं शिथिलोदयेत्युक्तम् । सप्तभङ्गी - स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्य इत्येवंरूपा । मयूरपिच्छभ्रमणानि ; जीवहिंसापरि- हारार्थानि परव्यामोहनमन्त्रशक्त्यभिनयार्थानि वा ॥ ७६ ॥

विश्वास-प्रस्तुतिः - ७७

तत्-प्रतिक्षेपार्थम् अयम् अनुज्ञायताम् आर्यः ।

राजा-

+++(स्याद्-वादेन)+++ प्रतिक्षिप्तं विदधतां,
विहितं प्रतिषेधताम्
क इवान्यः प्रतिक्षेपः
कार्यः स्ववचनादृते ॥ ७७ ॥+++(4)+++

English

Let this Arya be set to controvert these.

King.-77. Where is controverting needed when by their own admission they affirm negation and negate affirmation?

मूलम् - ७७

तत्प्रतिक्षेपार्थमयमनुज्ञायतामार्यः ।

राजा-

प्रतिक्षिप्तं विदधतां विहितं प्रतिषेधताम् ।

क इवान्यः प्रतिक्षेपः कार्यः स्ववचनादृते ॥ ७७ ॥

प्रभावली - ७७

प्रतिक्षिप्तमिति । स्यान्नास्तीति निषिद्धं स्यादस्तीति विदधताम् । विहितम् ; एकदेशेन ; अन्याशेन प्रतिषेधतां स्ववचनादृते को वान्यः प्रतिक्षेपः ; स्ववचनमेव तेषां प्रतिक्षेपकमिति भावः ॥ ७७ ॥

प्रभाविलासः - ७७

प्रतिक्षिप्तमिति शास्त्रेणेति शेषः ॥ ७७ ॥

विश्वास-प्रस्तुतिः - ७८

( गुरुम् अवलोक्य)
भगवन्, अमीषाम् आदित्य-स्तम्भन–पाषाण-स्फोटन–
प्रतिमा-जल्पनादि–विप्रलम्भोपायानां भवत्-प्रसाद एव प्रति-कर्ता ।

X२९७

गुरुः — महा-राज, तथा-विध-कुहक-वृत्तीनां राजभिर् एव दण्डो दातव्यः

शिष्यः - ( सापहासम् )

भक्ष्याभक्ष्य–स्व-पर-समय–स्थापना-दूषणादिष्व्
+++(स्याद्-वादेन)+++ ऐकान्त्यं ये जहति, विहतिं क्वापि नैते विदन्ति
देवैर् एषां निगम-पदवी-दूषणोदीर्ण-रोषैर्
दत्तो नूनं स्थिर-शिरसि-जोल्लुञ्छनेनैव दण्डः ॥ ७८ ॥+++(5)+++

English

(Turning to the Guru.) Holy sire! These Philosophers who indulge in several tricks such as Sun-stopping, Rock-splitting, Doll-speaking, etc, shall be vanquished through thy grace alone.

[[143]]

Guru. -Great king! To such mischief-makers the king alone must assign punishment.

Pupil.–(Smiling.)

  1. Rules of eating proper and improper (food) and canons of logic for defence of own, and accusation of other’s, doctrines, they have abjured; and they know not their own defeat. As for punishment, the gods themselves,-angered by their denunciation of the Vedas-have inflicted punishment in the shape of (their resorting to the habit of painfully) pulling the hairs of the head.

(The reference is to the prevalent custom of Jains refraining from shaving lest they should hurt the lice Hence they pluck the hair repeating, Jina, Jina! )

मूलम् - ७८

( गुरुमवलोक्य) भगवन्, अमीषामादित्यस्तम्भनपाषाणस्फोटनप्रतिमाजल्पनादि विप्रलम्भोपायानां7 भवत्प्रसाद एव प्रति-

कर्ता ।

X२९७

गुरुः — महाराज, तथाविधकुहकवृत्तीनां राजभिरेव दण्डो

दातव्यः ।

शिष्यः - ( सापहासम् )

भक्ष्याभक्ष्यस्वपरसमय’ स्थापनादूषणादि-

ष्वैकान्त्यं ये जहति विहतिं क्वापि नैते विदन्ति ।

देवैरेषां निगमपदवीदूषणोदीर्णरोषै-

र्दत्तो नूनं स्थिरशिरसिजोल्लुञ्छनेनैव दण्डः ॥ ७८ ॥

प्रभावली - ७८

तद्वश्व नोपायानां भवत्प्रसाद एव प्रतिक्षेपकः । भक्ष्याभक्ष्येति । सप्तभ- हात् भक्ष्याभक्ष्यादिषु च सर्वत्र ऐकान्त्यं नियमं ये ‘विजहति एते विहति न विदन्ति । तेषामेषां निगमपथेऽपि दूषणेनोज्जृम्भितरोषैर्दैवैरेव स्थिराणां

शिरसिजानां केशानामुल्लुञ्छनमुद्धरणं, तेनैव दण्डो दत्तः ॥ ७८ ॥

प्रभाविलासः - ७८

तेषां जीवनादिकमप्यनवस्थितमित्याह - भक्ष्याभक्ष्येति । उल्लु-

  • । मयेऽत्यन्तखेदं सूचयितुं स्थिरेत्युक्तम् । अनेन वज्रं नाम प्रतिमुख उक्तम्, “प्रमुखनिष्ठुरवचनं वज्रम्" इति लक्षणात् ॥ ७८ ॥
विश्वास-प्रस्तुतिः - ७९

+++(दण्ड-)+++शेषं तु भगवति, महाराजे चायतते

राजा – सेनापते, आः कष्टम् अमीषाम् आलोकनम्उत्सार्यन्ताम् एते दृष्टि-गोचरात् ।

सेनापतिः - देव, भवत्-प्रताप-तपन-प्रतिहत-दृष्टयो दिवा-भीता8 इवानार्याधिष्ठितेषु गिरि-गह्वरेषु9 निभृतं निलीयन्ते

मूलम् - ७९

शेषं तु भगवति महाराजे चायतते ।
राजा – सेनापते, आः कष्टममीषामालोकनम् । उत्सार्यन्ता-

मेते दृष्टिगोचरात् ।

सेनापतिः देव, भवत्प्रतापतपनप्रतिहतदृष्टयो दिवाभीता8 इवानार्याधिष्ठितेषु गिरिगह्वरेषु9 निभृतं निलीयन्ते ।

प्रभावली - ७९

X२९८
शेषम् ; दण्डनशेषं तु । भगवति ; गुरौ । महाराजे ; त्वयि च । आयतते ; अधीनं भवति । अवशिष्टो दण्डो युष्माभिरेव कर्तव्य इत्यर्थः । कष्टम् ; पापजनकम् । गिरिगह्वरेषु पर्वतप्रान्तदेशेषु । निभृतं निः सम्भ्रमं गूढा वर्तन्ते ।


  1. राजा - ( सन्तोषं नाटयति) added before क. ↩︎

  2. महाराज —क ↩︎

  3. अमी—–क ख ↩︎

  4. मत omitted—क ↩︎

  5. शैली—–क ↩︎

  6. भ्रमणेनैष—–? ↩︎

  7. Add नानाविध–क ↩︎

  8. इवार्यानधिष्ठितेषु—-क ↩︎ ↩︎

  9. गहनगह्वरेषु—-क–ङ ↩︎ ↩︎