०७ बौद्ध-नाशः

विश्वास-प्रस्तुतिः - ७२

राजा - (साशङ्कम् ) आर्य,

पर्याप्तोऽसि कुतकेन्द्रजाल-कोविदानां तथागतानां निरासे ?

शिष्यः - (सामर्षम् इव ) राजन्,
अपर्याप्तास् त्व् एते
त्वद्-आदिष्टस्य ममैकस्यापि प्रतिक्षेपाय । तथा हि-

कथयति जडो विश्वं वैभाषिकः क्षण-भङ्गुरं,
परम् अनुमितं बाह्यं सौत्रान्तिको मति-चैत्र्यतः ।
तद् इदम् अनृतं योगाचारस्, तथा +++(चित्-सहितं)+++ निखिलं परः +++(माध्यमकः)+++
स्व-वचन-हताः सर्वे गर्वं त्यजन्ति ममाग्रतः ॥ ७२ ॥

English

King.-(With doubt.) Arya! Art thou prepared to subdue these Bauddhas, adepts as they are in juggling arguments ?

Pupil.–(A bit out of temper.) King! Acting under thy will as I do, all these combatants put together may fail before my single self.

Thus :-

The dull Vaibhāshikas boast that the cosmos is momentary:
the Sautrāntikas infer the objective universe to be but modifications of the mind;
the Yogāchārās aver this same cosmos as unreal; and the rest (the Madhyamikas’,) assert that all is unreal (even mind). Hence, their mutually-conflicting theories, self-condemned, stand before me, these (doctrinaires), denuded of their boast.

  1. Different theorists of the Saugata (Buddhist) System of Philosophy.1.

[[138]]

मूलम् - ७२

राजा - (साशङ्कम् ) आर्य, पर्याप्तोऽसि कुतकेन्न्द्रजालको-

विदानां तथागतानां निरासे ?

शिष्यः - (सामर्षमिव ) राजन्, अपर्याप्तास्त्वेते त्वदादिष्टस्य ममैकस्यापि प्रतिक्षेपाय । तथा हि-

कथयति जडो विश्वं वैभाषिकः क्षणभङ्गुरं

परमनुमितं बाह्यं सौत्रान्तिको मतिचैत्र्यतः ।

तदिदमनृतं योगाचारस्तथा निखिलं परः1

स्ववचनहताः सर्वे गर्वं त्यजन्ति ममाग्रतः ॥ ७२ ॥

प्रभावली - ७२

X२९०
साशङ्कम् ; बौद्धानामैन्द्रजालिकत्वदर्शनादाशङ्का । पर्याप्तोऽसि ; समर्थोऽंसि किमिति प्रश्नः । पर्याप्तोऽसीति शङ्कनात् सामर्षं ममैकस्याप्येते सर्वे प्रतिक्षेपायापर्याप्ता इत्याह– अपर्याप्तास्त्विति । तदेव प्रतिपादयति — कथयतीति । जडः वैभाषिकः सौगतैकदेशी विश्वं जगत् क्षणभङ्गुरं कथयति । सौत्रान्तिकस्तु बाह्यं पदार्थ घटपटादिकं मतिवैचित्र्यतः ज्ञानस्य विचित्रभावात्

तथा हि2

X२९१
नानाकाराद्धेतोः केवलमनुमानगम्यं वदति । तदिदं वैभाषिकसौत्रान्तिकाभ्यां क्षणिकत्वेनानुमेयत्वेन च कथितं जगत् योगाचारः अनृतं मिथ्येति वदति । परः ; माध्यमिकः । निखिलम् ; ज्ञातृज्ञेयज्ञानं सर्वमपि मिथ्येति वदति । अनृतमिति । अनृतशब्दस्तुच्छ पर्यायः । एवमन्योन्यं स्वस्ववचनहताः स्ववचनविरोधादेव सर्वम् एते वैभाषिकादयः मम सन्निधौ गर्वहीना वर्तन्ते ॥ ७२ ॥

प्रभाविलासः - ७२

आर्य पर्याप्तोऽसीत्यादिना पर्युपासनं नाम प्रतिमुखसन्धेरङ्गमुक्तम्, “इष्टजनानुयः पर्युपासनम्” इति लक्षणात् । बाह्याश्चतुर्विधाः- वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदात् । तेषु वैभाषिको बाह्यमान्तरं च सर्वे सत्; प्रत्यक्षानुमाने प्रमाणे इति जल्पति । सौत्रान्तिकस्तु बाह्यं बुद्धिवैचित्र्यकृतमनुमेयमाह । योगाचारस्तु विज्ञानातिरिक्तं सर्वे भ्रान्तिकल्पितमाह । त्रयोऽपि क्षणिकवादिनः । माध्यमिकस्तु बाह्यमाभ्यन्तरं च शून्यमेवेति प्रलपति । तदेतदन्योन्यव्याहतिमुपदर्शयन्नाह - कथयतीति ॥ ७२ ॥

विश्वास-प्रस्तुतिः - ७३

दन्तादन्ति+++(→गज-युद्ध)+++-विधान-लम्पट-धियो दिङ्-नाग-मुख्या बुधाः
शृण्वन्त्व् अद्य विपद्यते परम् इयं शिक्षा भवत्-पक्षतः ।
+++(क्षणान्तरे बोद्धुर् अनुवर्तनेन)+++ बुद्ध्वा बोध्यम् उदाहरन्ति विशदं3 बुद्धादयश् चेज् जितं +++(क्षणिकवाद-भङ्गतः)+++
नो चेद्+धन्त +++(अज्ञात्वैव यत्किञ्चित्प्रलपनाज्)+++ जितं पुनस् तद्, इह नस् तूर्यं तु जोघुष्यते ॥ ७३ ॥+++(4)+++

English

Again :-

  1. Stupid these, Dingnaga’, etc., bidding for tusk-to-tusk (kind of) fight! But attend, your school-methods utterly collapse; for the Bauddhas fail in either case, whether, knowing what is to be taught, they venture on expositions, or unknowing-(i. e. in both cases, their argument for momentary doctrine fails). Hence ours is the victory,-let trumpets be beaten !

Dingnaga: Founder of the Saugata-creed. There is also an implication in this thinker possessing the strength of the elephants, supporting the directions ten of the Earth.

The meaning is this: -If the present moment vanishes giving place to the next moment, then the teaching of the present moment vanishes, and it is useless; again if the present moment is existent, and the future or the next moment is nonexistent, the teaching also becomes non-existent. Hence, as in either case, if the teaching is to persist, the momentary doctrine must be abandoned.

मूलम् - ७३

दन्तादन्तिविधानलम्पटधियो दिङ्नागमुख्या बुधाः4

शृण्वन्त्वद्य विपद्यते परमियं शिक्षा भवत्पक्षतः ।

बुद्ध्वा बोध्यमुदाहरन्ति विशदं3 बुद्धादयश्चेज्जितं

नो चेद्धन्त जितं पुनस्तदिह नस्तूर्यं तु जोघुष्यते/ताम् ॥ ७३ ॥

प्रभावली - ७३

तेषां व्यक्तगर्वत्वम् एव प्रतिपादयति तथाहीत्यादि ।
गजा यथा दन्तादन्ति युध्यन्ते,
एवं वाद-विधाने लम्पट-बुद्धयः ।
दिङ्नागो नाम कश्चित्सौगतमत-प्रवर्तकः ;
तत्प्रभृतयो बौद्धाः मद्वचः शृण्वन्तु ।
अद्य इदानीं भवत्पक्षतः भवत्पक्षाणां युष्मत्-पक्ष-स्थानाम् ।
यद्वा भवत्पक्षतः भवत्पक्षे इयं शिक्षा सर्वं क्षणिकम् इति शिक्षा
परं केवलं विपद्यते विपदं प्राप्नोति ।
कुत इत्यत्राह -बुद्धेति ।
बुद्धादयो भवन्तो बोध्यमर्थं बुद्ध्वा उदाहरन्ति वा
अबुद्ध्वा वा ?

X२९२

प्रथमे बोध्यबोधनक्षणाद् अनन्तर-क्षणिकत्व-कथनात्
क्षणिकत्वं भग्नम् ।
अबुद्द्ध्वा चेदाश्रयासिद्धेः क्षणिकत्वं गतम् । तथा चास्माभिर्जितम् । उभयथा क्षणिकत्वस्य साधयितुमशक्यत्वात् अस्माभिर्जितमिति नस्तूर्यं भृशं ध्वनति ॥ ७३ ॥

प्रभाविलासः - ७३

क्षणिकत्वनिरासेन तान्निरस्यति - दन्तादन्तीति । दिङ्नागो नाम कश्चित् बौद्धमताचार्यः । दिङ्नागानां दन्तादन्तिलम्पटत्वं युक्तमिति ध्वन्यते । बुद्धादयो बोध्यं विशदं बुद्ध्वोदाहरन्तीति चेत्, अस्माभिर्जितम् ; बोधक्षणोदाहरणक्षणयोर्बोद्धुः स्थिरत्वाङ्गीकारात् । अबुद्ध्वा चेत्, पुनर्जितम् ; अज्ञात्वैव यत्किञ्चित्प्रलपनाद् इत्यर्थः ॥ ७३ ॥

विश्वास-प्रस्तुतिः - ७४

सेना-पतिः – (स-श्लाघम् )
देव, परिमित-गम्भीरम् अक्षोभ्यम् इदं
पारिषद-हृदयङ्-गमम् आर्य-वचनम् उपश्रुत्य
पलायिताः सौगतापशदा+++(←शद्लृ (शातने))+++
दिशि दिशि5 प्रविशन्ति
अपि तु

अयं माध्यमिको नाम बौद्ध-मत-नासीर+++(=अग्रग)+++-वीरः
कथितम् अपि दूषणम् अनादृत्य6
वैयात्य+++(←वियात=निर्लज्ज)+++-मात्रावष्टम्भेन पाण्डित्यं स्वं7 प्रख्यापयति
तद् अयं विशेषतो ऽप्य् उन्मूलयितव्यः
यश् चैवम् उद्घोषयति8

भाषा +++(क्षण-भङ्गुर-विश्व-वादिनां)+++ वैभाषिकाणां शुभम् अनुभवतु, स्वस्ति +++(अनुमित-विश्व-वादिभ्यः)+++ सौत्रान्तिकेभ्यो
+++(“सर्वं विज्ञानम् इति वदन्तो”)+++ योगाचाराः प्रयोगं विजहतु किमु, तत्-किङ्करैः शङ्कराद्यैः ।+++(4)+++
+++(चित्-सहित-सर्वस्व-)+++मिथ्या-तत्त्व-व्यवस्था–विघटन-घटनोद्दण्ड-शौण्डीर्य-चण्डो
+++(शून्यताख्य-)+++निस्तत्त्वाद्वैतवादी निरुपधिक+++(=छल-रहित)+++-कथा–दुर्-जयो निर्जिहीते+++(=निर्गच्छति)+++ ॥ ७४ ॥

इति ।

English

Senapati. (Applauding). Lord! Hearing this Arya’s tersely sublime and irresistible harangue, cordially appealing to the assembly, the vile Saugatas have fled in every direction, but Madhyamika alonethe leader of the van of the Bauddhas-disregardeth the accusation with temerity, parading his pedantry. He must in particular be uprooted for his bombasts thus:

[[140]]

  1. Let the Vaibhāshika’s oration enjoy peace; to the Santrantikas, well-wishings; let the Yogāchāras leave their means of proof; let alone the adherents of Sankara &c. who only follow them (Yogacharas, Accepting Yogachara’s doctrine - विज्ञानम् एव सत्, अन्यत्सर्वमसदिति । ). But here emergeth this Madhyamika, bursting with his ability to make and unmake theories of non-entity, the upholder of the monistic doctrine of negation, hard to win by unsophisticated arguments. He attempteth victory.
मूलम् - ७४

सेनापतिः – (सश्लाघम् ) देव, परिमितगम्भीरमक्षोभ्यमिदं पारिषदहृदयङ्गममार्यवचनमुपश्रुत्य पलायिताः सौगतापशदा दिशि दिशि5 प्रविशन्ति । अपितु अयं माध्यमिको नाम बौद्धमतना- सीरवीरः कथितमपि दूषणमनादृत्य6 वैयात्यमात्रावष्टम्भेन पाण्डित्यं स्वं7 प्रख्यापयति । तदयं विशेषतोऽप्युन्मूलयितव्यः । यश्चैवमुद्घोषयति8

भाषा वैभाषिकाणां शुभमनुभवतु9 स्वस्ति सौत्रान्तिकेभ्यो

योगाचाराः प्रयोगं10 विजहतु किमु तत्किङ्करैः शङ्कराद्यैः ।
मिथ्यातत्त्वव्यवस्थाविघटन घटनोद्दण्डशौण्डीर्यचण्डो

निस्तत्त्वाद्वैतवादी निरुपधिककथादुर्जयो11 ’ निर्जिहीते .॥ ७४ ॥

इति ।

प्रभावली - ७४

सश्लाघम् ; सप्रशंसम् । यद्यपि परिमितं, तथापि बह्वर्थगर्भितं परैरदूष्यं सभ्यमनोहरं च । सौगतहतकाः दशसु दिक्षु प्रविष्टाः । अपितु ; तथापि । अथ माध्यमिक इति प्रसिद्धः बौद्धमताग्रयायी कथितमपि क्षणिकत्वदूषणमनादृत्य प्रागल्भ्यमात्राश्रयतया स्वपाण्डित्यं प्रख्यापयति । उन्मूलयितव्यः ; उद्धरणीयः । विशेषतो निरसनीय इत्यर्थः । तस्य बिरुदं कथयति यश्चैव-आदि ।

X२९३

वैभाषिकाणां शास्त्रं शुभं प्राप्नोतु ।
सौत्रान्तिकेभ्यः स्वस्त्यस्तु
गं जगन्मिथ्यात्व-साधनानुमानं त्यजन्तु ।
शङ्कराद्यैः ; शङ्करादिभिः । तत्किङ्करैः - विज्ञानमात्रम् एव सत्यम्,
अन्यत्सर्वं मिथ्येति तद्वचनाङ्गीकारात् ।
मिथ्या- त्यादि ।
मिथ्यातत्त्वं शून्यतत्वम्, तस्य व्यवस्था स्थापनम्,
तस्य विघटनं, तस्य घटनं नाम परिहरणम,
तेनोद्दण्डमु च्छृङ्खलं शौण्डीर्य सामर्थ्यं,
तेनः परवादिषु कुपितः ।
निस्तत्त्वम्, तत्त्वं किमपि नास्ति, सर्व शून्य-सर्वशून्यता ।
तद्-अद्वैतवादी ; तद् एवास्ति, अन्यन् नास्तीति वादी ।
शून्याद्वैतवादीत्यर्थः । निरुपधिककथा अद्वैतवादः तेन हेतुना दुर्जयः । उपधि- । निर्जिहीते; वादाय निर्गच्छति ॥ ७४ ॥

प्रभाविलासः - ७४

अस्त्वेतत् स्वस्य सर्वनिर्वाहकतया स्वान्तर्भूतैर्न भेतव्यमिति माध्यमिकः प्रत्यवतिष्ठते - भाषेति ।
प्रमाणं विजहतु; प्रमाणगवेषणप्रयासो मास्त्वित्यर्थः ।
तत्किङ्करैः; तन्मतानुसारिभिः । तदुक्तम् —

वेदोऽनृतो बुद्ध-कृतागमोऽनृतः
प्रामाण्यम् एतस्य च तस्य चानृतम् ।
बोद्धा ऽनृतो बुद्धिफले तथानृते
यूयं च बौद्धाश्च समानसंविदः ॥

मिथ्या; सद्-विलक्षणत्वम् ।
तत्त्वम् ; अ-सद्–विलक्षणत्वम् ।
तयोर् व्यवस्थाटनस्य घटनं करणम् ;
तत्रोद्दण्डेनोच्छृङ्खलेन शौण्डीर्येण सामर्थ्येनः प्रचण्डः ।
यद् वा मिथ्यातत्त्वस्य शून्य-तत्त्वस्य व्यवस्थायां
यत् परैः विघटनं, तस्य पुनर्विघटने;
शून्यत्व-निर्वाह इत्यर्थः ।
निरुपधिककथायाम् ; अकपटवादे ।
" कपटोऽस्त्री व्याजदम्भोषधयश् छद्मकैतवे" - अमरः ।
वितण्डावाद इत्यर्थः ।
निर्जिहीते; निर्गच्छति ॥ ७४ ॥

विश्वास-प्रस्तुतिः - ७५

राजा -आर्य,12 विश्व-मिथ्यात्व13-व्यवस्थापने14
+++(पर-पक्ष-विघटन-मात्र-परः)+++ वैतण्डिक-पण्डितम्-मन्यः शून्यवादी
पुनः शून्यतां प्रापयितव्यः15

गुरुः - भद्र, सावधानम् अभिदध्याः

शिष्यः - किम् अत्रावधातव्यम् ।
अयं खलु जननी-वन्ध्यात्व-प्रतिज्ञान-संवादिभिर् अ-यथा-यथ–प्रलापैर्
आत्मनोऽपि मौनम् आजन्म-मरणम् उपपिपादयिषति । अपि च ;

(राजा - तथा कुर्याः ।
शिष्यः–राजन्, तर्काङ्गपञ्चकान्यतम-हानिना ऽन्तरीयकवचसां दूषणे
न विशेषतः प्रयतितव्यम् । तथा हि)

परस्पर-विघट्टन-त्रुटित-तर्क-शस्त्र-च्छटा+++(=समूहा)+++-
तिरस्कृत-चमत्-कृतिः स्वयम् अ-खण्डि वैतण्डिकः ।
किम् अत्र परिशिष्यते, किम् अपि दूषणोद्भावनं
स्वतो-निहत–मुद्गर-प्रहरण-प्रयासायते ।॥ ७५ ॥+++(4)+++

English

King.-Arya! This disputatious Pandit-churl, the scholastic of ’total illusion’ and ‘advocate of negation,’ should himself be relegated to negation. Guru.-Lad! Ponder over this matter deliberately.
Pupil.–Why such deep deliberation? He argueth for himself eternal silence, by reckless arguments, akin to those, a son would employ for the barrenness of his mother.

(1. Anything that is unreal cannot be perceived or known by the sense, just as a man cannot say that his mother is a barren woman, for the very idea of barrenness connotes the fact of being sonless. Similarly the very idea of perception or knowledge implies the existence of a real object.
To say that unreality alone is real is a contradiction of words. )

[[141]]

Further:-
This wrangler (Madhyamika, Who form only a sub-sect of Yogāchāra and who hold : -विज्ञानमेव सत् ।) standeth self-condemned,
inasmuchas his Own wit is unwitted by the arrows of his own self-contradicting arguments, opposing each other, and breaking down.
There seemeth no occasion therefore to advance any more (on our part), for as much as that would be to club-beat one already beaten.
[[141]]

मूलम् - ७५

राजा -आर्य,12 विश्वमिथ्यात्व13 व्यवस्थापने14 वैतण्डिकपण्डितम्मन्यः शून्यवादी पुनः शून्यतां प्रापयितव्यः15

गुरुः - भद्र, सावधानमभिदध्याः ।

शिष्यः - किमत्रावधातव्यम् । अयं खलु जननीवन्ध्यात्वप्रतिज्ञानसंवादिभिरयथायथ प्रलापैरात्मनोऽपि मौनमाजन्ममरण-

मुपपिपादयिषति16 । अपि च ;17

परस्पर विघट्टन त्रुटिततर्कशस्त्रच्छटा-

तिरस्कृतचमत्कृतिः स्वयमखण्डि वैतण्डिकः ।
किमत्र परिशिष्यते किमपि दूषणोद्भावनं

स्वतो निहतमुद्गरप्रहरणप्रयासायते ।॥ ७५ ॥

प्रभावली - ७५

’ निरुपधिककथा निरधिष्ठानमवाद इति साम्प्रदायिकोऽर्थः

X२९४
विश्वमिथ्यात्वं सर्वशून्यत्वं तद्व्यवस्थापने । शून्यवादी माध्यमिकः । पुनरिति वाक्यालङ्कारे । शून्यताम् ; तुच्छताम् । किमत्रेति ; अवधातव्यमत्र किमस्तीत्यर्थः । तदेव दर्शयति-अयं खल्विति । यथा जननी मे वन्ध्येति प्रतिज्ञा व्याहता, तत्सदृशैरित्यर्थः । अयथायथम् ; असङ्गतम् । प्रलापैः ; सर्वे शून्यमित्यादिप्रलापैः । सर्वमित्यनुभवेनैव सर्वत्वस्य सिद्धेस्तस्य शून्यत्वप्रतिज्ञाने व्याहृतिरिति भावः । सर्वमित्यनुभवस्यासत्वे शशविषाणवदनुभवस्यैवाभावात् सर्वमिति वचनानुपपत्तिः । तेन स्वस्य सर्वदा मौनब्रतमेवोपपादयितुमिच्छतीति भावः । अस्य स्ववचनमेव खण्डनमित्याह – परस्परेति ।
अन्योन्यं यद्विघट्टनं हननं तेन भग्ना या तर्कशस्त्रच्छटा, तर्का एव शस्त्राणि तेषां छटा, तया न्यक्कृतसामर्थ्यः वैतण्डिकः माध्यमिकः स्वयमेवाखण्डि । तस्मात् तन्मतदूषणेऽस्माभिर्वक्तव्यं किं परिशिष्यत इत्याह- किम-

। प्रेति । तथाप्यस्माभिरुद्भावितं चेद् दूषणं, तत् दूष्याभावादप्रयोजनं स्यादित्याह- स्वत इति । स्वयमेव खण्डितो यो मुद्गरः मुसलं तस्य पुनः खण्डनवत् व्यर्थो भवति ॥ ७५ ॥

प्रभाविलासः - ७५

परस्परेति । परस्परं विघट्टनेन व्याघातेन त्रुटिताभिस्तर्काणामेव
शस्त्राणां छटाभिः तिरस्कृता चमत्कृतिश्वमत्कारो यस्य सः । स्वतो निहते पुरुषे मुद्गरेण प्रहरणं वितथमिति न्यायः । तमिममाह — स्वत इति ॥ ७५ ॥


  1. परे—ख ग ↩︎

  2. अपि च —–क ख ↩︎

  3. परमं ↩︎ ↩︎

  4. जडाः—–क ↩︎

  5. प्रतिदिशं—घ ङ ↩︎ ↩︎

  6. अवमत्य—क ↩︎ ↩︎

  7. स्वं omitted क ख ड ↩︎ ↩︎

  8. यस्यायमुद्धोषः - क. ↩︎ ↩︎

  9. मुखमनु—घ ↩︎

  10. विचारं प्रजहतु—–क; प्रमाणम्—-छ ↩︎

  11. निर्जिहीते; वादाय निर्गच्छति । । ७४ । । ↩︎

  12. भगवन्—–क ↩︎ ↩︎

  13. मिथ्यातत्त्व—–ख ↩︎ ↩︎

  14. स्थापनशौण्डीर्यचण्डो—क; स्थापन—क ↩︎ ↩︎

  15. प्रमापयितव्यः—क ↩︎ ↩︎

  16. उपपादयुह्यति—–क ख ↩︎

  17. राजा - तथा कुर्याः । शिष्यः–राजन्, तर्काङ्गपञ्चकान्यतमहानिनान्तरीयकवचसां दूषणे न विशेषतः प्रयतितव्यम् । तथा हि— क. ↩︎