०६ काणाद-भङ्गः

विश्वास-प्रस्तुतिः - ६९

सेनापतिः- देव,

कृतं साङ्ख्य-कृतान्त-स्थैः
कृपणैर् अथ शिक्षितैः
काणाद-मत-भङ्गाय
कार्यम् आर्यस्य शासनम् ॥ ६९ ॥

मूलम् - ६९

सेनापतिः- देव,

कृतं साङ्ख्यकृतान्तस्थैः कृपणैरथ शिक्षितैः ।

काणादमतभङ्गाय कार्यमार्यस्य शासनम् ॥ ६९ ॥

प्रभावली - ६९

कृतमिति । साख्यमतस्थैः कृपणैः दीनैः अद्य शिक्षितैरलम् । काणाद- मतभङ्गायार्यस्याज्ञापनं कार्यमिति ॥ ६९ ॥

प्रभाविलासः - ६९

कृतमिति । कृतम् ; अलम् । कृतान्तः ; सिद्धान्तः ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

राजा - नियुक्त एवायं भगवता1
यथार्हं निगमान्त-विपक्ष-पक्षप्रतिक्षेपाय ।

शिष्यः - महाराज, अनुतिष्ठामि यथा-नियोगम् ।
इह हि,

+++(विशेष-निभ-)+++असद्-द्रव्य-सृष्टि-प्रभृत्य्-अर्थ-क्लृप्त्या +++(ब्रह्मोपादनत्वादि-)+++श्रुति-प्रक्रियाणाम् अधिक्षेपतश् च । उलूकोपदेशापदेश-प्रवृत्तः
कथा-शेषितो ऽसौ कणाद-प्रणादः ॥ ७० ॥

मूलम् - ७०

राजा - नियुक्त एवायं भगवता1 यथार्हं निगमान्तविपक्ष-

पक्षप्रतिक्षेपाय ।

शिष्यः - महाराज, अनुतिष्ठामि यथानियोगम् । इह हि,
असद्द्रव्यसृष्टिप्रभृत्यर्थक्लृप्त्या श्रुतिप्रक्रियाणामधिक्षेपतश्च ।

उलूकोपदेशापदेशप्रवृत्तः कथाशेषितोऽसौ कणादप्रणादः ॥ ७० ॥

प्रभावली - ७०

भगवता ; यतीन्द्रेण । यथानियोगं ; नियोजनानुसारेणेत्यर्थः । इह हि काणादमते अप्रामाणिकार्थकल्पनात् प्रामाणिकार्थपरित्यागाच्च तेषां मतमनादरणीयमित्याह - असदिति ।

X२८८.
असद्द्रव्यस्य अवयवातिरिक्तावयविनः सृष्टिः । प्रभृतिशब्देन समवायपारिमाण्डल्यग्रहणम् ।

एतेषां कल्पनया श्रुतिप्रक्रियाणां ब्रह्मोपादानकारणत्वादीनां दूषणाच्च

उल्लूकोपदेश-व्याजेन प्रवृत्तः
कणादस्य प्रणादः,
प्रणादरूपं वैशेषिक-शास्त्रं
सर्वैरनादृतत्वात्
लोके अस्तीति प्रसङ्ग-मात्र-शेषितोऽभूत् ॥ ७० ॥

प्रभाविलासः - ७०

असदिति । अवस्थावत्त्वस्य स्वमतेऽपि सिद्धत्वात् द्रव्यग्रहणम् । प्रभृतिपदेन सामान्य-विशेष-समवायादिकम् उच्यते । श्रुतिप्रक्रियाणाम् ; " आत्मन आकाशः सम्भूतः " " प्रकृतेर्महान् " " न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते "

एषोऽणुरात्मा चेतसा वेदितव्यः " " रसं ह्येवायं लब्ध्वानन्दी भवति " “ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च " इत्याद्युक्त गगनोत्पत्ति- प्रकृत्युपादानत्वज्ञान नित्यत्वात्माणुत्वानन्दानुभवमनः सृष्टिप्रभृतिप्रक्रियाणाम् । उलूकेति । कणाद उलूको भूत्वा स्वशास्त्रं प्रवर्तयामासेति प्रसिद्धिः

॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

गुरुः – (स-बहुमानम् ईक्षते )

शिष्यः - (सापहासम् )
आकर्ण्यताम् इदम् अत्य्-अद्भुतं महा-राजेन ।

राजा - किं तत् ?

शिष्यः - एते किल कण-चरण-मतानुवर्तिनः
परमानन्द-लक्षणं परम-पुरुष-साम्यम् अपहाय
पाषाण-साधर्म्य-लक्षणं मोक्षम् आचक्षते
तथा च कुम्भ-कर्ण एव विजयेत -
+++(निद्रैवत्वम् इति)+++ शाप एव तस्यानुग्रहः स्यात् ।

राजा - सत्यम् एतत् ।

सेनापतिः - देव,

अर्ध-वैनाशिकास्+++(=शाक्य-वत् क्षण-भङ्गुरता-वादिनः)+++ तावद्
आर्येण विमुखीकृताः । वैनाशिक-गणास् त्व् एते
विनाश्या वेद-दूषकाः ॥ ७१ ॥

मूलम् - ७१

गुरुः – (सबहुमानमीक्षते )

शिष्यः - (सापहासम् ) आकर्ण्यतामिदमत्यद्भुतं महाराजेन ।
राजा - किं तत् ?

शिष्यः - एते किल कणचरणमतानुवर्तिनः2 परमानन्द-

लक्षणं3 परमपुरुषसाम्यमपहाय4 पाषाणसाधर्म्यलक्षणं मोक्षमा- चक्षते । तथाच कुम्भकर्ण एव विजयेत5 । शाप एव तस्यानुग्रहः

स्यात् ।

राजा - सत्यमेतत् ।

सेनापतिः - देव,

अर्धवैनाशिकास्तावदार्येण विमुखीकृताः ।

वैनाशिकगणास्त्वेते विनाश्या वेददूषकाः ॥ ७१ ॥

प्रभावली - ७१

X२८९

अत्र दूषणान्तरं वक्तुम् उपक्षिपति - आकर्ण्यतामिति ।
परमानन्दो लक्षणं यस्य तत् ।
पाषाणसाधर्म्यरूपम् आचक्षते वदन्ति ।
तथात्वे को दोष इत्य्-अत्राह - विजयेतेति ।
मोक्ष-प्राप्त्या विजयेत ।
तस्मिन् पक्षे कुम्भकर्णस्य शाप एवानुग्रहः कृतः स्यात् । अर्धवैनाशिकास्त्व् इति ।
अर्धवैनाशिकाः ; अर्ध-वेदबाह्याः साङ्ख्यादयः ।
आगमस्यानुमानम् अन्तरेण पृथक्-प्रामाण्यानङ्गीकारात्
अवैदिक-परमाणु-कारणत्व-कल्पनाच् च वैदिकादृष्टेश्वराद्यङ्गीकाराच्चैषामर्धवैनाशिकत्वम् । वैनाशिकाः ; पूर्णवेदबाह्याः बौद्धादयः ॥ ७१ ॥

प्रभाविलासः - ७१

सबहुमानमिति । शिष्यवचनेन तुष्टि-प्रतीतेर् अनुनयो नाम नाट्यालंकारः,

वचसा कर्मणा प्रीतिर्
यस्मिन्न् अनुनयो हि सः

इति लक्षणात् ।
भवतु कुम्भकर्णविजय इत्यत आह - शाप एवेति ।
एतेषां पदार्थतत्त्वज्ञान-वैयर्थ्येन शापार्थं मुमुक्षुप्रवृत्तिः स्यादित्यर्थः । अर्धवैनाशिकाः; वेदप्रामाण्यमङ्गीकृत्यार्थविशेषेषु भ्रान्ताः ॥ ७१ ॥


  1. भगवता omitted च, छ ↩︎ ↩︎

  2. सारिणः—घ ↩︎

  3. सगरं——क ↩︎

  4. साधर्म्य—–ख ↩︎

  5. विजयी स्यात्——क, ख ↩︎