विश्वास-प्रस्तुतिः - ६८
राजा- भगवन्, यदि1 खल्व् एते सेश्वरताम् आनीताः,
भजन्तु तावत् भवत्-क्षमा-गोचराः साङ्ख्यास् त्रय्य्-अन्त-पार्श्वम् ।
गुरुः- - महाराज, मैवं वादीः ।
किन्तु अभ्युपगतेश्वराणाम् अपि
साङ्ख्यानां
प्रायिक-संवाद–योग-समय–सिद्ध–
परिच्छिन्नैश्वर्येश्वर-पक्ष-प्रणिहित-चक्षुषां
प्रतिवक्तव्यम् अयम् आदिश्यताम् औपनिषद-वादी2 ।
राजा - आदिष्ट एवायम् ईदृशेन भगवतो वाक्येन ।
शिष्यः-
य एते योगाख्ये कतिचिद् अपतन्त्रे पठितिनः
+++(“प्रधानम् एव जगदुपादानम्” इति मन्यमानाः)+++
प्रजल्पन्त्य् ऐश्वर्यं प्रतिफलन+++(=प्रतिबिम्ब)+++-कल्पं भगवतः ।
स्वतः सिद्धान् बोध-प्रशकन-बलादीन् गुण-गणान्
गृणन्तस् त्रय्य्-अन्ताः प्रतिभणितिर् +++(←)+++एषाम् अवितथा ॥ ६८ ॥+++(4)+++
मूलम् - ६८
राजा- भगवन्, यदि1 खल्वेते सेश्वरतामानीताः, भजन्तु तावत् भवत्क्षमागोचराः साङ्ख्यास्त्रय्यन्तपार्श्वम् ।
गुरुः- - महाराज, मैवं वादीः । किन्तु अभ्युपगतेश्वराणामपि
साङ्ख्यानां प्रायिकसंवादयोगसमयसिद्धपरिच्छिन्नैश्वर्येश्वरपक्षप्रणिहित- चक्षुषां प्रतिवक्तव्यमयमादिश्यतामौपनिषदवादी2 ।
राजा - आदिष्ट एवायमीदृशेन भगवतो वाक्येन ।
शिष्यः-
य एते योगाख्ये कतिचिदपतन्त्रे पठितिनः
प्रजल्पन्त्यैश्वर्यं प्रतिफलनकल्पं भगवतः ।
स्वतः सिद्धान् बोधप्रशकनबलादीन् गुणगणान्
गृणन्तस्त्रय्यन्ताः प्रतिभणितिरेषामवितथा ॥ ६८ ॥
प्रभावली - ६८
भजन्तु ; त्रय्यन्तसिद्धान्तवदादरणीया भवन्तु । किन्तु ; केचिदस्तीत्यर्थः । किं तदित्याह – अभ्युपगतेति। अभ्युप-
X२८६
गतेश्वराणामपि तेषां
प्रायिकसंवादो यो योगसमयः,
तत्रोक्तपरिच्छिन्नैश्वर्येश्वर-पक्ष-प्रणिहितदृशा प्रतिवक्तव्यार्थम् आज्ञाप्यतामित्यर्थः । प्रायिको बहुस्थलसिद्धः । उपनिषत्सिद्धान्तवादी साङ्ख्यमतं निरस्य तत्प्रत्यासन्नं योगतन्त्रमपि " एतेन योगः प्रत्युक्तः
इति शास्त्रानुसारेण दूषयति-य एत इति ।
योगाख्ये अपतन्त्रे तन्त्राभासे य एते कतिचित् पठितिनः पठनवन्तः
भगवत ईश्वरस्य ऐश्वर्य प्रतिफलनकल्पं प्रतिबिम्बकल्पं प्रजल्पन्ति ।
एवं हि योगमतप्रक्रिया- प्रधानम् एव जगदुपादानम् । ईश्वरस्तु निमित्तकारणमात्रम् । ईश्वरस्य
X२८७
ज्ञानशक्त्यादिगुणाः प्रतिफलनकल्पा इति । तत्र " यः सर्वज्ञः सर्ववित् " “स्वाभाविकी ज्ञानबलक्रिया च " इत्यादित्रय्यन्ता एव प्रत्युत्तरमित्याह - स्वतः सिद्धानिति ।
ज्ञानशक्त्यादिगुणान् स्वतः सिद्धान् गृणन्तः त्रय्यन्ता एव एषामपि प्रत्युत्तरमित्यर्थः । प्रधानमेव जगदुपादानमित्यादेरपि " सोऽकामयत बहु स्यां प्रजायेय” इत्यादिकमिति हृदयम् ।
प्रतिभणितिः; प्रत्युत्तरमागम- विधानेन दर्शितमित्युक्तं भवति ॥ ६८ ॥
प्रभाविलासः - ६८
"
योगशास्त्रोक्तप्रक्रियाणामविरुद्धानां ग्राह्यतया प्रायिकेत्युक्तिः । य एत इति । अपतन्त्रे ; शास्त्राभास इत्यर्थः । एतेन योगः प्रत्युक्तः इति साख्यमतनिरासानन्तरमुक्तदूषणातिदेशेन योगशास्त्रस्य निरस्ततया प्रसिद्धेः योगाख्ये इत्युक्तम् । पठितिनः ; पाठवन्तः । प्रतिफलनम् ; आरोपः । तस्यानिर्वचनीयताव्यावृत्तये कल्पमित्युक्तिः । स्वतः सिद्धा - निति " स्वाभाविकी ज्ञानबलक्रिया च " इति श्रुतिरुपात्ता । प्रशकनम् ;
शक्तिः । तेन " परास्य शक्तिर्विविधैव श्रूयते " इति श्रुतिरभिमता । प्रतिभणितिः; प्रतिवचनम् ॥ ६८ ॥