०४ साङ्ख्य-निरासः

विश्वास-प्रस्तुतिः - ६४

गुरुः - महाराज,
भव्य-भाषितेन भवच्-चमू-पतिना नियमितास्
त एते पर-मत-कथक-धौरेयाः1
प्रत्येकम् उपतिष्ठन्ताम्2

(शिष्यमवलोक्य)

शृणु सौम्य, श्रुति-शिरः-प्रत्यासन्नतया
प्रथम-समुत्थितानां साङ्ख्यानां
सम्प्रति3 स्वमतोपन्यासम्4
अमी च,5

कपिलासुरि–पञ्च-शिखा–ऽदि-मुनि-
प्रतिपादित-साङ्ख्य-मत-प्रवणाः । प्रकृतिं पुरुषं च विभज्य, परं
पुरुषं न पठन्त्य् अवरुद्ध-धियः ॥ ६४ ॥+++(4)+++
+++(तोटकम्।)+++

मूलम् - ६४

गुरुः - महाराज, भव्यभाषितेन भवच्चमूपतिना नियमितास्त एते परमतकथक धौरेयाः1 । प्रत्येकमुपतिष्ठन्ताम्2 । (शिष्यमवलोक्य) शृणु सौम्य, श्रुतिशिरः प्रत्यासन्नतया प्रथमसमुत्थितानां साङ्ख्यानां सम्प्रति3 स्वमतोपन्यासम्4 । अमी च,5

कपिलासुरिपञ्चशिखादिमुनिप्रतिपादित6 साङ्ख्यमतप्रवणाः ।

प्रकृतिं पुरुषं च विभज्य परं पुरुषं न पठन्त्यवरुद्ध7 धियः ॥ ६४ ॥

प्रभावली - ६४

भव्यं मङ्गलम् । एकैकश उपतिष्ठन्तामित्यर्थः । श्रुतिशिरः प्रत्यासन्न-

“ अजामेकाम्" इत्यादिश्रुत्यन्तसिद्धप्रयोजनादिस्वीकारात् प्रत्यास-
ति वेदितव्यम् । अनेन तर्कपादे प्रथमत एव

"

स्मृत्यनवकाशदाषप्रसङ्ग चेत्" इत्यादिना साङ्ख्यमतदूषणसङ्गतिरुक्ता भवति । तन्मतप्रक्रिया अति— कपिलेति । कपिलः, आसुरि, पञ्चशिख इत्यादिमुनिभिः प्रतिपा- साङ्ख्यमते प्रवणाः नम्राः, प्रकृति पुरुषं च पृथग्विभज्य पठित्वा रात्मानावीशते देव एकः ’ इत्यादिवाक्यपठितेषु प्रधानपुरुषेश्वरेषु तेपुरुषौ पृथक्त्वेन तत्त्वे अङ्गीकृत्य ईश इत्युक्तं परं पुरुषं न पठन्ति कुर्वन्ति । तत्र हेतुमाह – अघेति ; पापेन मूढबुद्धयः ॥ ६४ ॥

प्रभाविलासः - ६४

नया ;

साङ्ख्यमतस्य प्रथमनिरासे हेतुमाह - श्रुतिशिर इति । कपिलेति ।
X२८३

लादयः साङ्ख्यमतप्रवर्तकाः । परमपुरुषापटने हेतुमाह - अधरुद्धधिय

॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

शिष्यः – (स्वगतम् ) सम्प्रवृत्तेऽस्मिन् वादे
संवननीयाश्+++(=वशीकर्तव्याः)+++ चैते प्रथमं सभासदः । (प्रकाशम् )

अक्षय्य-शान्ति-मकरन्द-रस-प्रसक्तान्
अभ्यर्थये8 मुर-भिद्-अङ्घ्रि–सरो-ज–भृङ्गान् । कामं प्रसीदत यथा ऽहम् अनन्यभावः कर्णामृतानि भवताम् अवतारयेयम् ॥ ६५ ॥

(आपाद-चूडम् अनपायिनि दर्शनेऽस्मिन्न्
आशासनीयम्+++(=प्रार्थनीयम्)+++ अपरं न विपक्ष-हेतोः । आपात-सौख्य-मधुरान् पुनर् अस्मदीयान्
अन्योन्य-भेद-जननी विजहात्व् असूया॥)

मूलम् - ६५

शिष्यः – (स्वगतम् ) सम्प्रवृत्तेऽस्मिन्वादे संवननीयाश्चैते

प्रथमं सभासदः । (प्रकाशम् )

अक्षय्यशान्तिमकरन्दरसप्रसक्ता-

नभ्यर्थये8 मुरभिदङ्घ्रिसरोजभृङ्गान् ।

कामं प्रसीदत यथाहमनन्यभावः

कर्णामृतानि भवतामवतारयेयम् ॥ ६५ ॥

(आपादचूडमनपायिनि दर्शनेऽस्मिन्नाशासनीयमपरं न विपक्ष हेतोः । आपातसौख्यमधुरान्पुनरस्मदीयानन्योन्यभेदजननी विजहात्वसूया)

प्रभावली - ६५

संवननीयाः ; वशीकर्तव्याः । वशीकरणप्रक्रियां दर्शयति-अक्षय्येति । यः नित्यो यः शान्तिरेव मकरन्दरसः, तत्र प्रसक्तान् तदनुभव परानित्यर्थः । ?दः असिरोजविषये भृङ्गायमाणमानसान् युष्मान् सभ्यान् अभ्यर्थये

X२८४
प्रार्थये । किमित्यत्राह —— काममिति । भृशं प्रसीदत; मयीति शेषः । यथा येन प्रकारेणाहमनन्यचित्तः सन् भवता कर्णयोरमृतानि अमृतवत्सरसानि वचनानि भवतारयेयं प्रवेशयेयम् । कर्णरस्यानि वचनानि यथा वदेयं तथा प्रसीदत ॥ ६५ ॥

प्रभाविलासः - ६५

संवननीयाः; वशीकरणीयाः । अक्षय्येति । मकरन्दरसपदेन वधिक पुरुषार्थो लक्ष्यते " तत्र सन्ति हि रसाश्चतुर्विधाः " इतिवत् ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

(गुरुम् अवलोक्य9 सविनयम् अञ्जलिं बद्ध्वा)
भगवन्,
भगवद्-आज्ञया प्रतिक्षिपामि तावत् साङ्ख्यान् ।

प्रधान+++(=प्रकृति)+++-पुरुषौ यदि प्रकृति-यन्त्रितैर् +++(भवद्भिः)+++ आहतौ
+++(श्रुति-प्रतिपादित-)+++परः किम् अपराध्यति श्रुति-सहस्र-चूडा-मणिः ।
कुतर्क-शत-कर्कशैर् +++(भवद्भिर्)+++ यदि विभुः प्रतिक्षिप्यते
भवत्-परिगृहीतम् +++(प्रकृति-पुरुषादि)+++ अप्य् अपहरन्तु पाटच्चराः+++(=तस्कराः [चार्वाक-परमाणुवादि-निभाः])+++ ॥ ६६ ॥

मूलम् - ६६

(गुरुमवलोक्य9 सविनयमञ्जलिं बद्ध्वा) भगवन्, भगवदाज्ञया प्रतिक्षिपामि तावत्साङ्ख्यान् ।

प्रधानपुरुषौ यदि प्रकृतियन्त्रितैराहतौ

परः किमपराध्यति श्रुतिसहस्रचूडामणिः ।

कुतर्कशतकर्कशैर्यदि विभुः प्रतिक्षिप्यते

भवत्परिगृहीतमप्यपहरन्तु पाटच्चराः ॥ ६६ ॥

प्रभावली - ६६

साङ्ख्यान् प्रथमं प्रतिक्षिपति - प्रधानेति । प्रधानं प्रकृतिः, पुरुषः प्रत्यगात्मा, प्रकृत्या बद्धैः भवद्भिः स्वीकृतौ यदि, ताभ्यां सह परिगणितः “प्रधान-क्षेत्रज्ञपतिः” इत्यादि-श्रुति-सहस्र-प्रतिपादितः परः भवद्भ्यः किमपराध्यति ; कमपराधं कृतवान् । अनादरेण तर्कैः वयं परमपुरुषं प्रतिक्षिपाम इत्यत्राह — कर्कशैरिति । कठिनैः कुतर्कशतैः विभुः ईश्वरः प्रतिक्षिप्यते यदि, तर्हि भवद्भिः परिगृहीतं पधानपुरुषरूपमपि वस्तु पाटच्चराः तस्कराः वैशेषिकचार्वाकादयः

X२८५
अपहरन्तु । सम्भावनाया लोट् । वैशेषिकाः जगत्कारणत्वेन परमाणूनङ्गीकृत्य प्रकृतिमपलपन्ति । चार्वाकादयः शरीरव्यतिरिक्तं प्रत्यगात्मानमपहरन्ति । भवत्सर्वस्वं चोरा अपहरेयुरिति च ध्वन्यते ॥ ६६ ॥

प्रभाविलासः - ६६

प्रतिवन्द्या दूषयति– प्रधानेति । प्रधानपुरुषयोः क्वचित्प्रतिपादन- स्यान्यपरत्वं दर्शयितुं श्रुतिसहस्रेत्युक्तिः । एवमनन्यपरश्रुतिसहस्रबोधितानङ्गीकारे निमित्तमुक्तम् - प्रकृतियन्त्रितैरिति ; अविद्या परवशैरित्यर्थः । पाटच्चराः ; तस्कराः, चार्वाका इति यावत् । तैः प्रधानपुरुषयोरप्यनम्युपगमादिति भावः । अनेन निरोधो नाम प्रतिमुखसन्धेरङ्गमुक्तम्, “छद्मना हितागमननिरोधनं निरोधः " इति लक्षणात् ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

सेनापतिः - देव,

विश्व-पतिम् आर्य-वचसा10 साङ्ख्याः
सम्मत्य विगत-संरम्भाः ।
+++(२४ तत्त्वेभ्यः परं)+++ गणयन्ति पञ्च-विंशं
+++(आत्मनि पृथग् गणिते)+++ षड्-विंशं, +++(काले स्वीकृते च)+++ सप्त-विंशं वा ॥ ६७ ॥

मूलम् - ६७

सेनापतिः——- देव,

विश्वपतिमार्यवचसा10 साङ्ख्याः सम्मत्य विगतसंरम्भाः ।

गणयन्ति पञ्चविंशं षड्विंशं सप्तविंशं वा ॥ ६७ ॥

प्रभावली - ६७

नामार्यवचसा ईश्वराङ्गीकारं दर्शयति- विश्वपतिमिति ।
सेश्वर-शिष्यस्य वचसा
विगतक्रोधाः सन्तः
विश्वपतिं “पतिं सर्वेश्वरम्” अङ्गीकृत्य
+++(५ भूताः, ५ तन्मात्राणि, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, मनो-बुद्ध्य्-अहङ्काराः, प्रकृतिः इति २४।)+++
तत्पङ्क्तौ पञ्च-विंशं चतुर्विंशति-तत्त्वानन्तरं स्वीकुर्वन्ति ।
जीवस्य पञ्चविंशत्वे
ईश्वरं षड्विंशत्या,
स्परं?? कालं षड्विंशतया अङ्गीकृत्य
ईश्वरं सप्तविंशतयाङ्गीकुर्वन्ति॥ ६७ ॥

प्रभाविलासः - ६७

विश्वपतिमिति । " पतिम् विश्वस्यात्मेश्वरम् ” इति श्रुत्या विश्वपति- य; अङ्गीकृत्य । अन्तर्भूतात्मकानि तत्त्वानि चतुर्विंशतिः ; इत्येकः पक्षः । पञ्चविश आत्मा ; षड्विंशः ईश्वर इत्यन्यः । सप्तविंश ईश्वर इत्यपरः ॥ ६७ ॥


  1. कथक omitted. क ↩︎ ↩︎

  2. तिष्ठन्ते क ↩︎ ↩︎

  3. सम्प्रति omitted ↩︎ ↩︎

  4. पन्यासः —-गa ↩︎ ↩︎

  5. अमी च -omitted—क ख् ग ↩︎ ↩︎

  6. प्रतिबोधित—ड च ↩︎

  7. वदन्त्यघ—ख ↩︎

  8. मधुजिद०——घ ↩︎ ↩︎

  9. आपादचूडमनपायिनि दर्शनेऽस्मिन्नाशासनीयमपरं न विपक्ष हेतोः । आपातसौख्यमधुरान्पुनरस्मदीयानन्योन्यभेदजननी विजहात्वसूया ॥added before—–च ↩︎ ↩︎

  10. वचनात्———–च ↩︎ ↩︎