विश्वास-प्रस्तुतिः - ५०
राजा - किम् उच्यते1 ?
(नेपथ्ये ‘तर्कव्याकृति ’ इत्यादि पुनः पठित्वा
सप्रतिज्ञं महान् कल-कलः ।
सर्वे समाकर्णयन्ति)
(तर्क-व्याकृति-तन्त्र-शिक्षित-धियः पक्षेषु बाह्येष्व् अपि
प्रत्यक्षी-कृत-पौरुषा वयम् अमी मध्ये-सभं ब्रूमहे ।
वादाटोपम् उपेयुषः प्रतिभटान् आ-सेतु-हेमाचलं
तूलाया ऽपि तृणाय वा न च तुष-च्छेदाय+++(=खण्डाय)+++ मन्यामहे ॥ ४२ ॥)
शिष्यः - (’ यतीश्वर’ इत्यादि पुनः पठन्न्
अर्धोक्ते विरम्य
राजानम् अवलोकयति)
(यतीश्वर-सरस्वती सुरभिताशयानां सतां
वहामि चरणाम्बुजं प्रणति-शालिना मौलिना ।)
राजा - पठ्यतां पठ्यताम् ।
शिष्यः - ( शेषं पठति)
(तद्-अन्य-मत–दुर्-मद–ज्वलित-चेतसां वादिनां
शिरःसु निहितं मया पदम् अ-दक्षिणं लक्ष्यताम् ॥)
राजा - आर्य, सर्वज्ञाद् भगवतः समासादित-सर्व-विद्या-निधेर् अत्र-भवतः2
सम्प्रति विपश्चिताम् अपश्चिमैर् ऐतैर् आपतद्भिः
संव्यवहारेण संशय-प्रशमनम् इच्छामि ।
शिष्यः - ( स-गर्व-हासम् ) निशमयतु निपुणम् एतन् महाराजः -
पर्याप्तं पर्यचैषं कण-चरण-कथाम्, आक्षपादं शिशिक्षे,
मीमांसा-मांसलात्मा समजनिषि, मुहुः साङ्ख्य-योगौ समाख्यम् ।
इत्थं तैस् तैर् यतीन्द्र-त्रुटित–बहु-मृषा-तन्त्र–कान्तार-पान्थैर्
अन्तर्-मोह-क्षपान्धैर् अहह किम् इह नश् +++(चर्चादिषु)+++ चिन्तनीयं तनीयः ॥ ५० ॥ +++(4)+++
मूलम् - ५०
राजा - किमुच्यते1 ?
(नेपथ्ये ’ तर्कव्याकृति ’ इत्यादि पुनः पठित्वा सप्रतिज्ञं महान् कलकलः । सर्वे समाकर्णयन्ति)
शिष्यः - (’ यतीश्वर’ इत्यादि पुनः पठन्नर्धोक्ते विरम्य
राजानमवलोकयति)
राजा-पठ्यतां पठ्यताम् ।
शिष्यः - ( शेषं पठति)
राजा - आर्य, सर्वज्ञाद्भगवतः समासादितसर्वविद्यानिधेरत्रभवतः2 सम्प्रति विपश्चितामपश्चिमैरैतैरापतद्भिः संव्यवहारेण संशयप्रशमनमिच्छामि ।
शिष्यः - ( सगर्वहासम्3 ) निशमयतु निपुणमेतन्महाराजः -
पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे
मीमांसामांसलात्मा समजनिषि मुहुः साङ्ख्ययोगौ समाख्यम् ।
इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्र कान्तारपान्थै-
रन्तर्मोहक्षपान्धैरहहकिमिह नश्चिन्तनीयं तनीयः ॥ ५० ॥
प्रभावली - ५०
X२६७
किमुच्यते ; किं वक्तव्यमिदमित्यर्थः । " तर्कव्याकृतितन्त्रशिक्षितधियः " इति श्लोकं पुनरपि पठित्वा सप्रतिज्ञम् ; प्रतिज्ञापूर्वकमभवदिति शेषः । " यतीश्वरसरस्वतीसुरभिताशयानाम्" इति पुनः पठन्नात्मश्लाघाभीत्या विरम्य
X२६८
राजानमवलोकयति । यद्यपि सर्वज्ञाद् गुरोः प्राप्तसर्वविद्यस्य तव वाक्यमेव मम संशयप्रशमायालम्, तथापि सम्प्रति विद्वदप्रगण्यैरेतैः समं व्यवहारेण वादमुखे- नात्मनः संशयप्रशमनमिच्छामि । गर्वस्तु तेषां तुच्छत्वात् । हासस्तदज्ञत्वात् । निशमयतु; शृणोतु । पर्याप्तमिति । कणचरणकथाम् ; वैशेषिकशास्त्रम् । पर्याप्तम् ; यथेष्टम् । पर्यचैषम् परिचितवानस्मि । आक्षपादम् ; न्यायशास्त्रम् । शिशिक्षे; शिष्यान् शिक्षितवानस्मि । मीमांसया पूर्वोत्तरया उपचितदेहः समजनिषि । साङ्ख्यशास्त्रं योगशास्त्रं च समाख्यं प्रकाशितवानस्मि । इत्थं वैशेषिकादिशास्त्रपरिश्वये सति यतीन्द्रेण त्रुटितानि छिन्नानि बहूनि मृषातन्त्राण्येव कान्तारं दुर्गमं तत्र पान्थैः प्रविष्टमात्रैः । अन्तर्मोहः अज्ञानम्, तदेव क्षपा रात्रिः, तया अन्धैः; स्वपरमात्मदर्शनासमर्थैरित्यर्थः । तैस्तैर्वादिभिः सह इह नः तनीयः अत्यल्पमपि चिन्तनीयं परामर्शनीयं किमस्ति ? अहहेति खेदे ; आश्चर्ये वा ॥ ५० ॥
प्रभाविलासः - ५०
अपश्चिमैः प्रथमैः । पर्याप्तमिति । कणचरणः कणभक्षः ।
“चरगतिभक्षणयोः " इति धातुः । पर्यचैषम् ; परिचयं कृतवानस्मि । शिशिक्षे,
शिक्षितोऽस्मि । समजनिषि ; जातोऽस्मि । समाख्यम् ; सम्यक् व्याख्या- तवानस्मि । यतीन्द्रत्रुटितं बहु मृषातन्त्रमेव कान्तारं दुर्गमं वर्त्म, तत्र पान्थैः । अन्तर्मोहेनैव क्षपया रात्र्या अन्धैः । तनीयः ; स्वल्पम् । अह
यद्भुते ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
किञ् च ;
यद्य् एकं यति-सार्वभौम-कथितं विद्याद् अविद्या-तमः-
प्रत्यूषं प्रतितन्त्रम् अन्तिम-युगे कश्चिद् विपश्चित्तमः ।
तत्रैकत्र झटित्य् उपैति विलयं तत्-तन्-मत-स्थापना–
हेवाक+++(=अभिलाष)+++-प्रथमान–हैतुक-कथा-कल्लोल-कोलाहलः ॥ ५१ ॥+++(5)+++
मूलम् - ५१
किञ्च ;
यद्येकं4 यतिसार्वभौमकथितं5 विद्यादविद्यातमः-
प्रत्यूषं प्रतितन्त्रमन्तिमयुगे कश्चिद्विपश्चित्तमः ।
तत्रैकत्र झटित्युपैति विलयं तत्तन्मतस्थापना-
हेवाकप्रथमानहैतुककथाकल्लोलकोलाहलः ॥ ५१ ॥
प्रभावली - ५१
अन्यद्रव्यस्तीत्याह – किञ्चेत्यादि । यतीन्द्रमते एकग्रन्थ परिशीलनवतो-
X२६९
ऽपि पुरतः प्रतिवादिनो वादाहवे न स्थातुं क्षमा इत्याह-यदीति ।
यतिसार्वभौमेन प्रकाशितम्, अज्ञानान्धकारस्य प्राक्सन्ध्यायमानम् एकं प्रतितन्त्रसिद्धान्तं विशिष्टाद्वैतरूपं कलियुगे कश्चिद्विद्वदग्रेसरः विद्यात्, तस्मिन्नेकस्मिन् ; एक- स्मिन्नेव पुंसि ।
तत्तदित्यादि ।
तानि तानि मतानि तत्तन्मतानि तत्स्थाप- नाया प्रतिष्ठापनायां वाकेन अभिलाषेण प्रथमाना ये हैतुकाः तेषां वादकल्लोल- कोलाहलः झडिति विलय शान्तिमुपैति ।
तान् सर्वानयमेक एव जेतुं शक्नोतीत्यर्थः ॥ ५१ ॥
प्रभाविलासः - ५१
यद्येकमिति । प्रतितन्त्रम् ; स्वशास्त्रसिद्धान्तम् ।
“स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रैर्निराकृतः ।
प्रतितन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता ॥”
इति लक्षणात् । तत्तन्मतस्थापनायां हेवाकेनाभिलाषेण प्रथमानानां हैतुकानां कथाकल्लोलानां कोलाहलः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
गुरुः – महाराज,
एते +++(अव्यक्ततया)+++ मोघ-प्रलाप-मुखर–सुख-दुन्दुभयः
कलह-कोलाहल–कुतूहलिनः कथकाः ;
श्वा-वराह-कलह-क्रमाद् अमी
सम्पतन्ति निगमान्त-रोधकाः ।
तान् इमान् युगल-वाद-सिद्धये
वारयत्व् अयम् असौ चमूपतिः ॥ ५२ ॥
मूलम् - ५२
गुरुः – महाराज, एते मोघप्रलापमुखरसुखदुन्दुभयः कलहकोलाहल कुतूहलिनः कथकाः ;
श्वावराहकलहक्रमादमी सम्पतन्ति निगमान्तरोधकाः ।
तानिमान्युगलवादसिद्धये वारयत्वयमसौ चमूपतिः ॥ ५२ ॥
प्रभावली - ५२
मोघेन प्रलापेन मुखरं शब्दायमानं मुखं तदेव दुन्दुभयो येषां ते । दुन्दुभिवदव्यक्तं घोषयन्स इत्यर्थः । वादकोलाहले कुतूहलिनः सम्पतन्तीत्युत्तरत्र सम्बन्धः । श्वेति । वेदान्तसिद्धान्तदूषकाः सन्तः श्वावराहकलहक्रमात् ;
X२७०
अनेके श्वानः एकं वराहं परिवृत्य कलहायन्ते, तन्न्यायात् । इमं कलहयितुं युगपत्सम्पतन्ति । तानेतान् युगलवादसिद्धये द्वन्द्वकथासिद्धयर्थम् अयं चमूपतिः वारयतु ; नियमयत्वित्यर्थः ॥ ५२ ॥
प्रभाविलासः - ५२
श्वावराहेति । एकस्मिन् वराहे बहुश्वसन्निपातः श्वावराहकलहक्रमः । युगलवादः ; द्वन्द्ववादः । अनेन नर्माख्यं प्रतिमुखसन्धेरङ्गं निरूपितम् ।
" परिहासवचो नर्म " इति लक्षणात् ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
शिष्यः - (सान्तर्हासम्)
+++(केवलाभेद-वादिषु विशिष्य)+++
अध्यक्षम्, यच् छ्रुतं +++(→शब्दः “द्वा सुपर्णा” इत्यादिः)+++ वा +++(प्रमाणम्)+++ - लघु तद् इति भवत्य् आदिमो वादि-मोहस्
+++(पुनः)+++ “तत्त्वोदर्का न तर्कास्”, +++(इति चेत्)+++ तद् इह जगति किं मेधया साधयामः ।
तिष्ठन्त्य् एते लघिष्ठाः, कतिचन दधतो मानसे मान-सेतुं
हंहो सभ्यान् +++(व्यक्ति-गताक्षेपाद्य्-)+++अ-सभ्य–स्थपुट+++(=विषम)+++–मुख-पुटा दुर्-जना निर्जयन्ति ॥ ५३ ॥+++(5)+++
मूलम् - ५३
शिष्यः (सान्तर्हासम्)
अध्यक्षम् यच्छ्रुतं वा लघु तदिति भवत्यादिमो वादिमोह-
स्तत्त्वोदर्का न तर्कास्तदिह6 जगति किं मेधया साधयामः ।
तिष्ठन्त्येते7 लघिष्ठाः कतिचन दधतो मानसे मानसेतुं
प्रभावली - ५३
सान्तरिति । अन्तर्मनसि हसन्नित्यर्थः ।
अध्यक्षमिति । भेदवादिनो यत् वस्तु,
तदध्यक्षं वा प्रत्यक्षगम्यं वा ; श्रुतं वा, “द्वा सुपर्णी " इत्यादिश्रुतिगम्यं वा ।
नाद्यः, प्रत्यक्षस्य युक्तिबाधितत्वात् ।
न द्वितीयः, अद्वितीय-श्रुत्यादि-बाधितत्वात् ।
तदेतदाह – लघ्विति । युक्त्यादि-बाधितत्वात् तुच्छत्वमित्यर्थः ।
इदम् अभेदवादि-दूषणं भेदवादी परिहरति- इत्यादिमो वादिमोह इति ।
इदं दूषणं वाद्य्-अज्ञान-कृतम् इत्यर्थः ।
तर्हि तर्केण भेदादि-वस्तु-सिद्धिर्
इति वदन्तं भेदवादिनं
दूषयत्य् अभेदवादी तर्कास् तत्वोदर्का न भवन्ति ।
तर्कस्य कस्मिंश्चिद् अप्य् अर्थे ऽप्रतिष्ठानाद् इति ।
इदम् अभेद-वादि-दूषणं भेद-वादी परिहरति– तद् इहेति ।
X२७१
यस्मात् तर्कस्य वैयर्थ्यत्वयोक्तं,
तत् तस्मात् सर्वेषाम् एवासाध्यं किमपि न स्यादित्यर्थः ।
इत्येवं सम्भूय प्रवदतां मध्ये ये प्रलपन्ति, ते तिष्ठन्तु ।
एते कथञ्चित् सोढुं शक्याः,
युक्त्याभास-सहितत्वात् ।
ये तु केचन तुच्छाः केवल-वाचाटत्वमात्रमवलम्ब्य
प्रामाणिकान् निर्जयन्ति
तेषां प्रलपनम् एवातिदुःसहम् इत्याशयेनाह- लघिष्ठाः कतिचनेत्यादि ।
अतिशुण्ठाः केचनाहङ्कारग्रस्त-मनसः, अ-सभ्य-स्थ-पुट-मुख-पुटाः समान हैंः?? वाग्जालैः
स्थपुटं विषमितं मुखपुटं येषां ते भूत्वा
सभ्यान् सभार्हान् प्रामाणिकान् केवल-तर्क-बलेन निर्जयन्ति ।
हंहो इत्यव्ययमति दुःसहार्थं वर्तते ॥ ५३ ॥
प्रभाविलासः - ५३
किञ्चित् प्रमाणावलम्बनेन वादः प्रवर्तते ।
तद्-अवलम्बने कथं स इत्य्-आशयवान् आह — अध्यक्षमिति ।
अध्यक्ष–श्रुत-शब्दाभ्याम् अनुमानं च सङ्गृहीतम् ।
प्रमाण-जातं तुच्छम् इति प्रथमतो वदन्तीत्य् अर्थः ।
तत्त्वाध्यवसाय-हेतुं तर्कम् अपि न सहन्त इत्याह– तत्त्वेति ।
उदर्कः ; उत्तर-फलम् ।
न केवलं प्रमाणादि-लघूकरणं,
प्रामाणिकानपि लघयन्तीत्याह - तिष्ठन्त्वेत इति ।
मानसेतुम्, गर्वोन्नतिम् ।
असभ्यैः; असम्बद्ध-प्रलापैः
स्थपुटानि विषमाणि मुख-पुटानि येषां ते तथोक्ताः ।
हंहो इत्याश्वर्ये ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
निशम्यतां चैतत् सभापति-सेनापतिभ्याम् –
बाधादिभिः स्व-मत–हेतु-गणे निरस्ते
नित्यागम-प्रतिहतेषु निजागमेषु ।
प्रागल्भ्य-मात्र-शरणाः प्रतिवावदूकाः
सम्भूय वाद-करणेऽपि न मे प्रभूताः ॥ ५४ ॥+++(4)+++
मूलम् - ५४
निशम्यतां चैतत्10 सभापतिसेनापतिभ्याम् –
बाधादिभिः स्वमतहेतुगणे निरस्ते
नित्यागमप्रतिहतेषु निजागमेषु ।
प्रागल्भ्यमात्रशरणाः प्रतिवावदूकाः
सम्भूय वादकरणेऽपि न मे प्रभूताः ॥ ५४ ॥
प्रभावली - ५४
एते दुर्वादिनः सम्भूय वादकरणेऽपि न मे पर्याप्ता इत्याह-बाधादि- भिरिति । एषां धाष्टर्यमात्रशरणत्वमुपपादयति- बाधादिभिरिति । स्वमते यो युक्तिगणः प्रत्यक्षानुमानरूपः तस्मिन् बाधा सिद्ध्यादिभिर्निरस्ते सति । निजा-
X२७२
गमेषु तैः प्रमाणतया परिगृहीतेषु आगमेषु नित्यागमैः वेदवाक्यैः प्रतिहतेषु सत्सु । स्वमते प्रत्यक्षानुमानागमरूपप्रमाणासम्भवात् प्रागल्भ्यं वाचाटत्वरूपं तदेव शरणं गतिः येषां ते, एते प्रतिवादिनः सर्वे मिलित्वाद्य मे वादकरणे न पर्याप्ताः ॥ ५४ ॥
प्रभाविलासः - ५४
बाधेति । आदिपदेन व्याघातादिकमुच्यते । नित्यागमः ;
वेदः ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
( विहस्य स-हस्तास्फालनम्11 )
अहो नु खल्व् अन्धैर् अन्धस्य यष्टिः प्रदीयते,
पङ्गोर् वा पङ्गुभिर् अतिवहनम्,+++(4)+++
यद् एते कर्मान्धकार-प्रतिहत-मतयः कु-मतयो
महामोहस्य साचिव्यम् आचरन्ति ।
किञ् च -
वशिक+++(=क्षुद्र)+++-तटिनी–वर्षारम्भ-प्रवाह–विडम्बकैर्
अ-लघुभिर् अपभ्रश्यद्-गुम्फोपलम्भित-डम्बरैः ।
+++(जित्वा)+++ उपकरणयन्त्य् एते बालान् उदग्र-कुतूहलान्
उपल-निकर-ग्रास-प्रायैर् उपन्यसन-क्रमैः ॥ ५५ ॥+++(4)+++
मूलम् - ५५
( विहस्य सहस्तास्फालनम्11 )
अहो नु खल्वन्धैरन्धस्य यष्टिः प्रदीयते । पङ्गोर्वा पङ्गुभिरतिवहनम् । यदेते कर्मान्धकारप्रतिहतमतयः कुमतयो महामोहस्य साचिव्यमाचरन्ति ।
किञ्च ;
वशिकतटिनीवर्षारम्भप्रवाह विडम्बकै-
रलघुभिरपभ्रश्यद्गुम्भोपलम्भितडम्बरैः ।
उपकरणयन्त्येते बालानुदग्रकुतूहला-
नुपलनिकरग्रासप्रायैरुपन्यसनक्रमैः ॥ ५५ ॥
प्रभावली - ५५
दुर्वादिभिः क्रियमाणं महामोहसाचिव्यं परिहसति — अहो नु इत्यादि । अन्धैः ; जात्यन्धैः । पङ्गुः ; पादहीनः । अतिवाहनम् ; देशान्तरप्रापणम । कर्म पुण्यपापरूपम्, तदेवान्धकारः तेन प्रतिहतबुद्धयः । कुमतयः ; कुदृष्टयः ।
X२७३
साचिव्यम् ; सचिवताम् । नन्वेतेषां वाग्वैखरी सर्वानपि वशीकर्तु प्रभवतीत्यत्राह - वशिकेति ।
वशिकतटिनी; क्षुद्रनदी, तम्याः वर्षारम्भे वृष्टयुपक्रम- काले यः प्रवाहः, तद्विडम्बकैः प्रवाहानुकारिभिः ।
क्षुद्रनदीप्रवाहो वृष्टिसमय एव बहुलं प्रसर्पति,
उत्तरक्षण एव क्षीयते; तादृशैरित्यर्थः ।
अलघुभिः बहुभिः अपभ्रश्यद्भिः
गुम्फैः अपशब्दभरित-निरर्थकोपन्यास-सन्दर्भैः
उपलम्भितो ज्ञापितो डम्बरः शुष्कसम्भ्रमः येषां तैः ।
उपल-निकर-ग्रासप्रायैः; पाषाण-ग्राससदृशैः उपन्यसन-क्रमैः उपन्यास-परिपाटिभिः ।
उदग्र-कुतूहलान् सम्भ्रम-मात्र-कुतूहलयुक्तान्, नत्वर्थविशेषे ।
बालान्; अज्ञान् । उपकरणयन्ति ; स्वोपकरण-भूतान् कुर्वन्ति । न प्राज्ञानिति भावः ॥ ५५ ॥
प्रभाविलासः - ५५
वशिकेति । वशिकतटिनीनाम् ; क्षुद्रनदीनां वर्षारम्भप्रवाहं विडम्बयन्तीति तथोक्तैः । अपभ्रश्यद्भिः ; प्रस्खलद्भिः । गुम्भैः ; बहु-प्रलापैः । उपलम्भितं प्रापितं डम्बरं येषां तैस्तथोक्तः । उपलेति कर्कशशब्दग्रन्थिलत्वमुच्यते ॥ ५५ ॥
विश्वास-प्रस्तुतिः - ५६
अहह अमीषां प्रतिवावदूकानां प्रवादम् अनुमोदमाना महा-मोह–पक्ष-पतिनो
गर्दभ-गाने12 सृगाल-विस्मयम् अनुस्मारयन्ति13 ।+++(4)+++
राजा - सेनापते,
नियम्यन्ताम् एते निर्भर-निगमान्त–वैर-विप्लुत-प्रतिपत्तयः प्रत्येक-कथा-प्रवर्तनाय ।
सेनापतिः — नियच्छामि14 तान् एतान् निरर्थकाद् आटोपात्15
(परिवृत्यावलोक्य)
भो भो त्रयी-बाह्याः कु-दृष्टयश् च,
अलम् इह मिथः-श्लाघा-माद्यन्–मितम्-पच-सम्मतैर्
अन्-अघ-परिषत्-प्रत्यादिष्ठैर् अलीक-विकत्थनैः ।
अ-वितथ-कथा–धौरेयाणाम् अनुप्रसृतौ सतां
ध्रुवम् इह भवद्-वृत्तेर् आविर्-भविष्यति पङ्गुता ॥ ५६ ॥
मूलम् - ५६
अहह अमीषां प्रतिवावदूकानां प्रवादमनुमोदमाना महामोहपक्षपतिनो गर्दभगाने12 सृगालविस्मयमनुस्मारयन्ति13 ।
राजा - सेनापते, नियम्यन्तामेते निर्भरनिगमान्तवैरविप्लुतप्रतिपत्तयः प्रत्येककथाप्रवर्तनाय ।
सेनापतिः — नियच्छामि14 तानेतान्निरर्थकादाटोपात्15 (परिवृत्यावलोक्य) भो भोत्रयीबाह्याः कुदृष्टयश्च,
अलमिह मिथःश्लाघामाद्यन्मितंपचसंमतैरनघपरिषत्प्रत्यादिष्टैरलीकविकत्थनः ।
अवितथकथाधौरेयाणामनुप्रसृतौ सतां ध्रुवमिह भवद्वृत्तेराविर्भविष्यति पङ्गुता ॥ ५६ ॥
प्रभावली - ५६
दुर्वादिसम्भ्रमानुमोदिनो महामोहपक्षीयान् परिहसति - अहहेत्यादिना । प्रवादम् ; वाक्कोलाहलम् । अनुमोदमाना महामोहपक्षीया. कामक्रोधादयोऽज्ञाश्च । गर्दभानां गानविषये, सृगालाः जम्बुकाः, तेषा विस्मयम् अद्भुतं ज्ञापयन्तीत्यर्थः । निर्भराः, महार्थपरिपूर्णाः तेषु वेदान्तेषु, वैरं वैमुख्यम्, तेन विप्लुतप्रतिपत्तयः
X२७४
नष्टबुद्धयः । निरर्थकादाटोपात्; निष्प्रयोजनात् सम्भ्रमात् । वेदबाह्याः ; चाव- कादयः । कुदृष्टयः; शङ्करादिमतानुवर्तिनः । विदुषां पुरतोऽनृतप्रलापैरलम् । तेषां पुरतोऽलीकविकत्थनेन भवतामज्ञत्वं प्रत्यक्षितं स्यादित्याह – अलमिति । अन्योन्यप्रशंसया गर्वयुता ये क्षुद्राः तत्सम्मतैः, विद्वद्गोष्ठीभिः प्रत्याख्यातैः अनृतजल्पैरिहालम् । यथार्थवादधुरन्धराणां सतामनुसरणे, तत्सन्निधावित्यर्थः । भवद्वृत्तेः ; भवतां वर्तनस्य, वैदुष्यस्येत्यर्थः । पङ्गुता; विकलता । ध्रुवं नियत- माविर्भविष्यति । अतो महतां पुरतस्तैरलमिति ॥ ५६ ॥
प्रभाविलासः - ५६
सेनापते नियम्यन्तामिति वेदवादविषयप्रीतिसूचनान्नर्मद्युत्याख्यं प्रतिमुखसन्धेरङ्गं निरूपितम्, “अनुरागोद्घाटनार्था प्रीतिर्नर्मद्युतिर्भवेत् " इति लक्षणात् । अलमिति । मितम्पचाः; क्षुद्राः । अनुप्रसृतौ; अनुसरणे ॥ ५६ ॥
विश्वास-प्रस्तुतिः - ५७
शिष्यः – भगवन्, इतः प्रसार्यतां दृष्टिः ।
माहा-राष्ट्रीम् मागधीं शौरसेनीं
लाटीं गौडीम् इत्थम् अन्यादृशीं च ।
अङ्गीकुर्वन्त्य् आगमी-कृत्य दत्तां
हास्यां भाषां हन्त बुद्धार्हताद्यैः ॥ ५७ ॥+++(4)+++
मूलम् - ५७
शिष्यः – भगवन्, इतः प्रसार्यतां दृष्टिः ।
माहाराष्ट्रीम्16 मागधीं शौरसेनीं लाटीं गौडीमित्थमन्यादृशीं च ।
अङ्गीकुर्वन्त्यागमीकृत्य दत्तां हास्यां भाषां हन्त बुद्धार्हताद्यैः ॥ ५७ ॥
प्रभावली - ५७
भगवन्निति गुरोरामन्त्रणम् । इतः ; अत्र । माहाराष्ट्रीमिति । माहाराष्ट्री
—X२७५
हाराष्ट्रसम्बन्धिनी प्राकृतभाषा । मगधदेश सम्बन्धिनी मागधी । शूरसेन देशभवा गौरसेनी । लाटदेश सम्बन्धिनी लाटी । गौडदेशभवा गौडी । अन्यादृशीम् उक्तभाषाव्यतिरिक्तं भाषान्तरं च । तच्चापभ्रशम्पेशाचादयः । बौद्धार्हताद्यैः ; बौद्धः सुगत’ ; आर्हताः जैनाः ; तदाद्यैः । आगमीकृत्य दत्ताम्; तत्तन्मतार्थ-? माणविषयान् प्रबन्धीकृत्य वितीर्णा हास्यां संस्कृतभाषिभिः परिहास्याम् भाषां ?कृतरूपाम् अङ्गीकुर्वन्ति अङ्गीकृत्य तया व्यवहरन्तीत्यर्थः ॥ ५७ ॥
प्रभाविलासः - ५७
माहाराष्ट्रीमिति । माहाराष्ट्रीप्रभृतयः प्राकृतभाषाविशेषाः ॥ ५७ ॥
विश्वास-प्रस्तुतिः - ५८
अहं त्व् अशेष-भाषा-वेदी
तत्-तद्-अभ्यस्त-भाषयापि तार्किकान् एतान्17 प्रतिक्षेप्स्यामि18 ।
वदन्ति हि -
“पिशाचानां पिशाच-भाषयैवोत्तरं देयम्” इति । +++(5)+++
गुरुः- भद्र, यथा-रुचि दैवीम् अदैवीं वा19 भाषां20 पुरस्कुर्याः ।
अपि तु21 दैव्यैव विश्व-हृदयङ्-गमा ।
महा-राजोऽपि प्रायशस् तस्याम् एव दत्त-दृष्टिः ।
राजा - भगवन्, अतिधृष्टोऽयं भवत्-प्रसाद-गोचरो महानुभावः22 - सेना-पतिः - देव, किम् अत्र चित्रम्23 ?
कथा-कलह–कौतुक-ग्रह-गृहीत–कौतस्-कुत-
प्रथा-जल-धि–सम्प्लव–ग्रसन-कुम्भ-सम्भूतयः ।
जयन्ति सुधियो यति-क्षिति-भृद्–अन्तिकोपासन–
प्रभाव-परिपक्त्रिम–प्रमिति–भारती-सम्पदः ॥ ५८ ॥+++(४)+++
मूलम् - ५८
अहं त्वशेषभाषावेदी तत्तदभ्यस्तभाषयापि तार्किकानेतान्17 ‘प्रतिक्षेप्स्यामि18 । वदन्ति हि पिशाचानां पिशाचभाषयैवोत्तरं देयमिति ।
गुरुः- भद्र, यथारुचि दैवीमदैवीं वा19 भाषां20 पुरस्कुर्याः ।
अपि तु21 दैव्यैव विश्वहृदयङ्गमा । महाराजोऽपि प्रायशस्त-
स्यामेव दत्तदृष्टिः ।
राजा - भगवन्, अतिधृष्टोऽयं भवत्प्रसादगोचरो महानुभावः22 ।-्
सेनापतिः - देव, किमत्र चित्रम्23 ?
कथाकलहकौतुकग्रहगृहीतकौतस्कुत-
प्रथाजलधिसम्प्लवग्रसनकुम्भसम्भूतयः ।
जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासन-
प्रभावली - ५८
तत्रभवता कि क्रियत इत्यत्राह — अहं चेत्यादि ।
प्रतिक्षेप्स्यामि ; प्रत्या- यास्यामि । संस्कृतिनां प्राकृतभाषापरिग्रहनिषेधमाशड्क्य कचित्सङ्कटे तत्परि- हानुमति दर्शयति वदन्ति हीति । सन्त इति शेषः । तत्तदवसरोचितं यथेष्टं
X२७६
देवीं संस्कृतरूपाम्; “दैवीं वाचं यच्छामि " इत्युक्तेः ।
अत्रैव मानुषीं, प्राकृतरूपाम्; " मानुषाद्दैव्यमुपैमि " इत्युक्तेः ।
भणिति भाषां पुरस्कुर्याः अङ्गीकुर्वित्यर्थः ।
दैव्येव भाषा सर्वमनोहरेत्यत्र हेतुमाह - महाराज इति । विवेकोऽपि संस्कृतभाषाया प्रायशो दत्तदृष्टिः । गोचरः ; विषयः । बालः ; माणवकः । देवेति राजा सम्बोध्यते । कथेत्यादि । कथारूपकलहे कौतुकमेव ग्रहः पिशाचः, तेन गृहीता ये कौतुस्कुताः, तेषा प्रसिद्धिरेव जलधिः, तस्य सम्प्लवस्य प्रवाहस्य, ग्रसने चुलकी करणे, कुम्भसम्भूतयः अगस्त्याः । यतिक्षितिभृदित्यादि । यति- क्षितिभृत् यतीन्द्रः, तदन्तिके उपासनम् अवस्थानम्, तस्य प्रभावेण परि- पक्त्रिमाः परिणमन्त्यः प्रमितिभारतीसम्पदः ज्ञानवच सम्पदो येषा ते सुधियः जयन्ति ; उत्कर्षेण वर्तन्ते; यद्वा दुर्वादिनो जयन्ति । किमत्र चित्रमिति सम्बन्धः ॥ ५८ ॥
प्रभाविलासः - ५८
भगवन्नतिघृष्टोऽयमिति प्रगमनं नाम प्रतिमुखसन्धेरङ्गं निरूपितम्,
।
उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् " इति लक्षणात् । कथेति । ग्रहः ; पिशाचः । प्रथा; प्रसिद्धिः । सैव जलधेः सम्प्लवः समृद्धिः । कुम्भसम्भूतिः ; अगस्त्यः । अन्तिकोपासनम् ; समीपशुश्रूषणम् । परिपक्त्रिमा परिपक्वा ॥ ५८ ॥
विश्वास-प्रस्तुतिः - ५९
अपि च,26
विकल्पाटोपेन श्रुति-पथम् अशेषं विघटयन्
यद्-ऋच्छा–निर्दिष्टे यति-नृ-पति–शब्दे विरमति ।
वितण्डाऽहङ्-कुर्वत्–प्रतिकथक-वेतण्ड+++(=गज)+++-पृतना-
वियात-व्यापार-व्यतिमथन–संरम्भ-कलहः ॥ ५९ ॥
मूलम् - ५९
अपि च,26
विकल्पाटोपेन श्रुतिपथमशेषं विघटयन्
यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति ।
वितण्डाहङ्कुर्वत्प्रतिकथकवेतण्डपृतना-
वियातव्यापारव्यतिमथन संरम्भकलहः ॥ ५९ ॥
प्रभावली - ५९
X२७७
यतीन्द्रसिंहनादश्रवणमात्रेण दुर्वादिगजानामन्योन्यकलहो निवर्तत इत्याह- विकल्पेति । विकल्प सम्भ्रमेणा शेषं वेदमार्ग विघटयन् पीडयन् । वितण्डेत्यादि । वितण्डाः शुष्कवादाः, तन्मात्रेणाहङ्कुर्वन्तः प्रतिवादिन एव गजघटा, तस्याः वियातव्यापारेण प्रगल्भशुष्कोपन्यासरूपव्यापारेण व्यतिमथने अन्योन्यनिर से यः सम्भ्रमविशिष्टः कलहः । यद्वा संरम्भः कोपः, तद्विशिष्टः कलहः वादरूपः । यतिनृपतिशब्दे; यतीन्द्रस्य शब्दः सिंहनादः श्रीभाग्यादिरूपः, तस्मिन् । यदृच्छानिर्दिष्टे ; यदृच्छया उच्चारित एव । विरमति ; उपरतो भवतीति ॥ ५९ ॥
प्रभाविलासः - ५९
विकल्पेति । यतिनृपतिशब्दे ; यतिनृपतिरिति शब्दे । वितण्डायामहङ्कुर्वन्तः प्रतिकथका एव वेतण्डाः गजाः, तेषां पृतनायाः सेनायाः, वियातव्यापारेण धृष्टव्यापारेण व्यतिमथने मर्दने संरम्भेण कोपेन कलहः विरमतीति पूर्वेणान्वयः ॥ ५९ ॥
विश्वास-प्रस्तुतिः - ६०
शिष्यः – सभा-पति–सेना-पति–साक्षिकं प्रवृत्तस्य दया-रूप–देशिक-दृष्टि–दृढ-दंसितस्य27+++(=वीक्षितस्य)+++ कथाऽहवेषु कस् त्रासः ?
अद्य हि-28
अर्थ्या तिष्ठति मामिका मतिर् असाव् आजन्म राजन्वती,
पत्या संयमिनाम् अनेन29 जगताम् अत्याहित+++(=महा-भीति)+++-च्छेदिना +++(राज्ञा)+++।
यत् सारस्वत-दुग्ध-सागर–सुधा-सिद्धौषधास्वादिनां
प्रस्वापाय न बोभवीति भगवन्-माया-महा-यामिनी ॥ ६० ॥
मूलम् - ६०
शिष्यः – सभापतिसेनापतिसाक्षिकं प्रवृत्तस्य दयारूपदेशिकदृष्टिदृढदंसितस्य27 कथाहवेषु कस्त्रासः ? अद्य हि-28
अर्थ्या तिष्ठति मामिका मतिरसावाजन्म राजन्वती
पत्या संयमिनामनेन29 जगतामत्याहितच्छेदिना ।
यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनां
प्रस्वापाय न बोभवीति भगवन्मायामहायामिनी ॥ ६० ॥
प्रभावली - ६०
X२७८
सभापतिसेनापती साक्षिणौ यस्मिन् कर्मणि तथा प्रवृत्तस्य । देशिकदृष्ट्या दृढं दंसितस्य कवचितस्य । स्वावस्थां प्रकाशयति - अर्थ्येति । जगतामत्याहितं महाभीति संसारभीति छिनत्तीति सः तेन । संयमिनां यतीनां पत्या यतीन्द्रेण ।
आजन्म ; जन्मारभ्य । राजन्वती; सुराजयुक्ता । मामिकासौ मतिः अर्ध्या ; अर्थः प्रयोजनं ; प्रकृतप्रयोजनानु गुणवादाहवाभिलाषिणी तिष्ठतीत्यर्थः । यतीन्द्र- सेविनामिदं किमाश्चर्यमित्याह - यत्सारस्वतेति । यस्य सारस्वतं वाक्समूहः श्रीभाष्यादिः, स एव दुग्धसागरः, तस्य सुधा ब्रह्मणो जगत्कारणत्वोपायत्व- प्राप्यत्वादितात्पर्यम्, सैव सिद्धौषधं रसायनविशेषः, तदास्वादिनां तदनुभव-शीलानां पुंसा, भगवन्मायैव महायामिनी अतिदीर्घा रात्रिः प्रस्वापाय ज्ञाननिद्रा- पादनाय न प्रभवति । तादृशस्य यतीन्द्रस्य कृपया मम दुर्वादिविजय कियानिति भावः ॥ ६० ॥
X२७९
प्रभाविलासः - ६०
अर्थ्येति । अर्थ्या; अर्थादनपेता । अत्याहितम् ; महाभीतिः । यस्य संयमिपतेः सारस्वतमेव दुग्धसागरः, तत्र सुधा प्रतिपाद्यं निरति- शयानन्दं ब्रह्म तदेव सिद्धौषधं तस्यास्वादिनाम् । माया प्रकृतिः । महायामिनी; प्रलयरात्रिः । प्रस्वापाय, बन्धायेत्यर्थः । " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते " इति स्मरणात् । अत्र प्रस्वापायेति प्रपदेन प्रसिद्धस्वापव्यतिरेको व्यज्यत इत्युपसर्गेणालङ्कारध्वनिः । न च महायामिनीति वाच्यानुग्राहकतया वाच्यसिद्ध्यङ्गत्वम्; वस्तुव्यङ्ग्यालङ्काराणां मध्यमकाव्यतानिषेधात् । आह च ध्वनिकारः
" व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् "
इति ॥ ६० ॥
विश्वास-प्रस्तुतिः - ६१
अपि च वयम् एतावन्तम् अनेहसम्+++(←ईह् =अस्पर्धि)+++
अनेक-साहस्र-वैतण्डिक-मण्डल-मण्डितेषु
तुण्डीर-चोल-पाण्ड्य-केरल-कर्णाट-नेपाल-मालव-गौड-लाटादि-कटकेष्व्
अखण्डिताहङ्कारा,
निष्कण्टकेन नीति-घण्टा-पथेन
निगम-सञ्चरेषु सञ्चरमाणाः,
सद्भिर् एव जात-सख्याः सुख्यामः ।
किं बहुना ?
आस्तां नाम यतीन्द्र-पद्धति-जुषाम् आजान-शुद्धा मतिस्,
+++(आस्तां)+++ तच् चाव्याज-विदग्ध-मुग्ध-मधुरं सारस्वतं +++(प्रबन्धजातं)+++ शाश्वतम् ।
को वा चक्षुर् उदञ्चयेद् अपि पुरः साटोप-तर्क-च्छटा-
शस्त्राशस्त्रि-विहार-सम्भृत-रणास्वादेषु वादेषु नः ॥ ६१ ॥+++(4)+++
मूलम् - ६१
अपि च वयमेतावन्तमनेहसमनेकसाहस्रवैतण्डिकमण्डल-30
मण्डितेषु तुण्डीर चोलपाण्ड्य केरल कर्णाटनेपालमालवगौडलाटादिकटकेष्वखण्डिताहङ्कारा निष्कण्टकेन नीतिघण्टापथेन निगमसञ्चरेषु सञ्चरमाणाः सद्भिरेव जातसख्याः सुख्यामः । किं बहुना ?
आस्तां नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा31 मतिस्
मतिस्तच्चाव्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् ।
को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटा-
शस्त्राशस्त्रिविहारसम्भृतरणास्वादेषु वादेषु नः ॥ ६१ ॥
प्रभावली - ६१
स्वस्य सर्वदेशविजयित्वं प्रकटयति- अपिचेत्यादि । वयम् ; आत्मनि बहुवचनम् ; छात्रसहितत्वाद्वा । एतावन्तमनेहसम ; एतत्कालपर्यन्तम् । वैतण्डिकाः ; अन्तरसारवादिनः । पाण्ड्यात्पश्चिमः केरलदेशः । प्रादक्षिण्येन निर्दिशति । तत उत्तरतः कर्णाटः । ततोऽप्युत्तरतो नेपालादयः । लाटादिदेशानां कटकेषु राजस्थानेषु वादेष्वखण्डितपौरुषाः नीतिघण्टापथेन नीतिविशिष्टेन महता मार्गेण वैदिकमार्गेषु प्रवर्तमानाः सद्भिः विद्वद्भिरेव कृतमैत्राः सुखं प्राप्ताः स्मः । बहुना प्रलापेन कि
X२८०
प्रयोजनम् । श्रीभाग्यादिवेत्तारः श्रीभाष्यादिशास्त्रं च तिष्ठन्तु । केवलं मम पुरतः वादाहवे को विद्वान् चक्षुरुन्मीलयितुं शक्त इत्याह– आस्तामिति । यतीन्द्रस्य पद्धतिः मतं, तज्जुषां महताम्, आजानशुद्धा स्वतो निर्मला या मतिः, सा आस्तां नाम । तस्याः दुर्वादिनो न पर्याप्ता इति भावः ।
तेषां महताम्, अव्याजं यथा तथा स्वभावत इत्यर्थः,
विदग्धं प्रौढम्,
मुग्धं ललितम् मधुरं रसवत्,
यत् सारस्वतं सततानुभाव्य सारस्वतं प्रबन्धरूपमस्ति तच्च आस्ताम् ।
तदप्येतेषां निरसने नापेक्षणीयमिति भावः । केवलमस्माकं पुरः पुरत, साटोपा ससम्भ्रमा या तर्कच्छटा युक्त्युपन्यास परम्परा अनुमानप्रयोगपरम्परा वा, सैव शस्त्राशस्त्रि शस्त्रै. शस्त्रैश्च प्रवृत्तं युद्धं तदेव विहारो लीला; तेन सम्पादितयुद्धरसवत्सु वादेषु को वा दुर्बादी तिष्ठतु । सकलशास्त्रमूर्धाभिषिक्तो वा अन्यः कश्चित् चक्षुरुद- ञ्चयेदपि ? चक्षुरुन्मीलयितुमपि न शक्नोति किमुत प्रत्युत्तर दातुमित्यपि - शब्दार्थः ॥ ६१ ॥
प्रभाविलासः - ६१
आजान सिद्धा; स्वभावसिद्धा । विदग्धम् ; प्रगल्भम् । मुग्धम् ;
सुन्दरम् । मुग्धः सुन्दरमूढयोः " इत्यमरः । साटोपाभिः साडम्बराभिः तर्कच्छटाभिरेव शस्त्रैः प्रवृत्तं युद्धं, तेनैव विहारेण सम्भृतो रणास्वादो युद्धानुभवो येषु तेषु ॥ ६१ ॥
विश्वास-प्रस्तुतिः - ६२
सेनापतिः—-32 किम् उच्यते ?
एकयैव गुरोर् दृष्टया
द्वाभ्यां वापि लभेत यत् ।
न तत् +++(रुद्रस्य)+++ तिसृभिर् +++(चतुर्मुखस्य)+++ अष्टाभिः
+++(इन्द्रस्य)+++ सहस्रेणापि कस्यचित्33 ॥ ६२ ॥+++(5)+++
मूलम् - ६२
सेनापतिः—-32 किमुच्यते ?
एकयैव गुरोर्दृष्टया द्वाभ्यां वापि लभेत यत् ।
न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित्33 ॥ ६२ ॥
प्रभावली - ६२
X२८१
।
एकयेति । एकयैव दृष्टया कृपादृष्ट्या, द्वाभ्यां बाह्यदृष्टिभ्यां वा, शिष्यः यत्प्रयोजनं श्रेयो वा लभते प्राप्नुयात्,
तत् कस्यचिद् गुरोर् अन्यस्य रुद्रस्य तिसृभिः दृष्टिभिर् अपि न लभते ।
चतुर्-मुखस्याष्टाभिर् अपि दृष्टिभिः न लभते ।
इन्द्रस्य सहस्रेणापि दृष्टिभिः न लभते ॥ ६२ ॥
प्रभाविलासः - ६२
एकयेति । आचार्यो मन्त्रोपदेशसमये शिष्यमङ्के निधाय आपाद- मस्तकं कृपया आलोकयेदिति सम्प्रदायः ; तदिदमुक्तम् - एकयेति । तदुक्तं भरद्वाजेन - " स्वकरेण स्पृशन् गात्रं मन्त्रविद्भावयेद् दृशम् " इति । ‘दयारूपदेशिक दृष्टिदृढदंसितस्य ’ इत्यधस्तादप्युक्तम् । श्रीवेदान्ताचार्यो बाल्ये वयसि वात्स्यवरदाचार्येण कृपया सम्यगवलोकित इति प्रसिद्धिः । उक्तं च तत्त्वमुक्ताकलापे - " वरदगुरुकृपालम्भितोद्दाम भूमा " इति । ज्ञानोपदेशरूपा द्वितीया दृष्टिः । कस्यचित्; शङ्करादेः । शङ्कराद्यवलोकनेनापि दुर्लभ इत्यर्थः । तदुक्तम्-
पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः ।
रजसा तमसा चास्य मानसं समभिप्लुतम् ॥ "
इति ॥ ६२ ॥
विश्वास-प्रस्तुतिः - ६३
अध्यासीन-तुरङ्ग-वक्त्र–विलसज्-जिह्वाग्र-सिंहासनाद्
आचार्याद् इह देवतां समधिकाम् अन्यां न मन्यामहे ।
यस्यासौ भजते कदाचिद् अजहद्-भूमा स्वयं +++(अवतारेण)+++ भूमिकां
मग्नानां भविनां भवार्णव-समुत्ताराय नारायणः ॥ ६३ ॥+++(5)+++
मूलम् - ६३
अध्यासीनतुरङ्गवक्त्रविलसज्जिह्वाग्रसिंहासना-34
दाचार्यादिह देवतां समधिकामन्यां न मन्यामहे ।
यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकां
मग्नानां भविनां भवार्णवसमुत्ताराय नारायणः ॥ ६३ ॥
प्रभावली - ६३
अयं श्लोकः प्रभावल्यां न व्याख्यातः ॥
प्रभाविलासः - ६३
X२८२
" देवम् इवाचार्यमुपासीत " इति श्रुतिमभिप्रयन्नाह - अध्यासी-
नेति । अध्यासीनेनाधिरूढेन तुरङ्गवक्त्रेण हयग्रीवेण विलसत् जिह्वाग्रमेव सिंहासनं यस्य तस्मात् । तमेव विशिनष्टि - यस्यासाविति । अजहद्भूमा ; अजहत्स्वरूपस्वभावः । असौ नारायणः यस्याचार्यस्य भूमिकामवतारं भजते, आचार्यः सन्नवतरतीत्यर्थः ;
साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् ।
मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना । "
इति स्मरणात् ॥ ६३ ॥
-
सगर्वम् क. ↩︎
-
यद्येतं—-ख ↩︎
-
गदितं—-ड छ ↩︎
-
तदिति——-ग ↩︎
-
तिष्ठत्वेतत्——ढ ↩︎
-
हा हा—ड ↩︎
-
सभ्याः—-च ↩︎
-
चेदं—-ख ग घ ↩︎
-
महाराष्ट्रीं——क,ख,च ↩︎
-
स्वभाव—क ↩︎
-
प्रमति—–क ↩︎
-
मण्डल omitted—–क ख ग ↩︎
-
आजानसिद्धा - इति प्रभाविलासपाठः ↩︎
-
किञ्च.; व्याकुर्वत्करनिर्वहच्छ्रुतिशिरोरक्षां यतिक्ष्माभृत- स्तामेतां हृदये निधाय तमसो वित्रासिकामासिकाम् । कोटीरेषु कुदृष्टिबाह्यपृतनानासीरमासीदतां मायामूढदृशां दिशामि चरणं दाक्षिण्यवैदेशिकम् | added before - क, ↩︎ ↩︎
-
The entire stanza is omitted-ख. ग. ↩︎