०२ गुरु-स्तुतिः

विश्वास-प्रस्तुतिः - ४५

X२५७

शिष्यः - ( स-विनय-भयं1 स्वगतम् )
अ-तर्कितोपनतम् आत्म-श्लाघन-दोषम् अपमार्ष्टुम्
अभिष्टवानि देशिकान् तद्-दर्शनं च । (प्रकाशम् )

हृद्या हृत्-पद्म-सिंहासन-रसिक–हय-ग्रीव–हेषोर्मि-घोष-
क्षिप्त-प्रत्यर्थि-दृप्तिर् जयति बहु-गुणा पङ्क्तिर् अस्मद्-गुरूणाम् ।
दिक्-सौधाऽऽबद्ध-जैत्र-+++(गुरु-रूप-)+++ध्वज-+++(ग्रन्थ-रूप-)+++पट-+++(व्याख्या-रूप-)+++पवन-स्फाति+++(=वृद्धि)+++-निर्धूत-तत्-तत्-
सिद्धान्त-स्तोम+++(=गुल्म)+++-तूल+++(=कार्पास)+++-स्तबक-विगमन-व्यक्त–सद्-वर्तनीका+++(=मार्गा)+++ ॥ ४५ ॥+++(5)+++
+++(रहस्य-त्रय-सारे ऽपि वर्तते।)+++

मूलम् - ४५

X२५७

शिष्यः - ( सविनयभयं1 स्वगतम् ) अतर्कितोपनत2 ‘मात्म- श्लाघनदोषमपमार्ष्टुमभिष्टवानि देशिकान् तद्दर्शनं च । (प्रकाशम् )

हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोषक्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् ।
दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्तत्सिद्धान्तस्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥ ४५ ॥

प्रभावली - ४५

गुरुसन्निधेर्विनयः । स्ववल्गितस्य परबोधनाद्भयम् । आत्मश्लाघनदोषम् अपमाष्टुम् ; अपनेतुम् । अभिष्टवानि ; अभिष्टुतिम् करवाणि । तद्दर्शनम् ;

'

X२५८
तज्ज्ञानं च । हृद्येति । हृदा अनुसन्धातुं योग्या हृद्या । हृत्पद्ममेव सिंहासनं, तत्र रसिको यो हयग्रीवः, तस्य हेषा शब्दः, तदूर्मिघोषेण क्षिप्ता निरस्ता प्रतिवादिनां दृप्तिः गर्वो यया सा । बहुगुणा ; शमदमादिसद्गुणवती । दिक्सौधेत्यादि । अष्ट दिश एव सौधाः, तत्र बद्धाः ये जयसूचकाः ध्वजाः,

। तेषां पढ़पवनस्य स्फात्या बाहुल्येन निर्धूताः निरस्ताः, तत्तत्सिद्धान्तस्तोमा

X२५९
एव तूलस्तबकाः तूलपुजाः, तेषा विगमनेन व्यक्ता स्पष्टदृष्टा सद्वर्तनी सन्मार्गो यस्याः सा । अस्मद्गुरूणां पङ्क्तिः जयति । अयं देशिकाभिष्टवः ॥ ४५ ॥

प्रभाविलासः - ४५

हृद्येति । हृद्या मनोहरा, हृदि ध्येया च; ध्यायेज्जपेन्नमेद्भक्त्या " इति स्मरणात् । अन्यत्र कण्ठधार्या । हृत्पद्मसिंहासने रसिकस्य स्थितस्य हयग्रीवस्य हेषाणामूर्मयः तरङ्गाः, तेषां घोषेण क्षिप्ता प्रत्यर्थिनाम् इप्तिर्दर्पो यया सा तथोक्ता । अन्यत्र विरोधिनिवर्तिका । बहुगुणा ; शमाद्यनेकगुणा, बहुतन्तुस्यूता च । गुरूणाम् ; आचार्याणाम्, अन्यत्र श्रेष्ठमणीनाम् । पङ्क्तिः; परम्परा हारश्च ।

गुणस्त्वावृत्तिशब्दादिज्येन्द्रिया मुख्यतन्तुषु । "

गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्जरे ॥"

इति च निघण्टुः । दिश एव सौधाः, तेष्वाबद्धानां जैत्राणां जयज्ञापकानां ध्वजपटानां पवनस्य स्फात्या वृद्ध्या निर्धूतानां तत्तत्सिद्धान्तानां स्तोमाः समूहाः, त एव तूलस्तबकाः निर्बीजकार्पासराशयः, तेषां विगमनेन निरासेन व्यक्ता सद्वर्तनी सतां मार्गों यस्याः सा तथोक्ता । " स्फाति-

"

वृद्धी प्रथा ख्याती " इत्यमरः । अत्र जैत्रध्वजादिपदैवीररसाभिव्यक्ते- र्भाविलं नाम गुणः । " हर्षादिभारवशतो वाग्वृत्तिर्भावितं मतम् " इति

लक्षणात ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

किञ् च ;

नाथाश्लेष–स-नाथन–श्रुति-वधू–वैधव्य-खेद-च्छिदं
प्राचीनां नय-पद्धतिं यति-पतिः प्राचीकशन्+++(←काश्+णिच्)+++ नैष चेत् ।
व्यासो हास-रसोचितो, विगलितः प्राचेतसश् चेतसः,
क्लृप्तः केलि-शुकः शुकः, स च परं बाधाय बोधायनः ॥ ४६ ॥+++(5)+++

मूलम् - ४६

किञ्च ;

नाथाश्लेषसनाथनश्रुतिवधूवैधव्यखेदच्छिदं3

प्राचीनां नयपद्धतिम् यतिपतिः 4 प्राचीकशन्नैष चेत् ।
व्यासो हासरसोचितो विगलितः5 प्राचेतसश्चेतसः

क्लृप्तः केलिशुकः शुकः स च परं6 बाधाय बोधायनः ॥ ४६ ॥

प्रभावली - ४६

अथ तद्दर्शनमभिष्ठोति–नाथेति । नाथः कान्तः; श्रुतिसीमन्तिन्याः कान्ती विष्णुः । दुर्वादिभिः श्रुतिः नाथेन विरहिता कृता । तथा हि ब्रह्मैव नास्ति, ब्रह्म निर्गुणमित्यादिप्रतिपादनात् । श्रीरामानुजमते तु - श्रुतिवध्वाः नाथाश्लेषेण विष्णुसम्बन्धप्रतिपादनेन सनाथनात् सनाश्रीकरणात श्रुतिवध्वाः वैधव्यखेदं

’ सनातनश्रुति-ग.

X२६०
छिनत्तीति श्रुतिवधूवैधव्यखेदच्छिदम् । प्राचीनाम् ; अनादिसिद्धाम् । नयपद्धतिम्- नयैरुपपत्तिभिः विशिष्टां वेदान्तसिद्धान्तपद्धतिम् । एष यतिपतिः न प्राची- कशचेत् ; न प्रकाशितवान् यदि । शरीरशरीरिभावं जगद्ब्रह्मणोः प्रतिपादयन्ति श्रुतयः व्यासस्तु तद्विरुद्धं किमपि प्रतिपादयतीत्यतो बालिश इव परिहासपदं भवति । प्राचेतसस्तु चेतसः परिहृतः ; विगलितचेता भवति । श्रीशुकः

X२६१
क्रीडार्थशुकवत् प्रक्षिप्यते । एव बोधायनोऽपि परं केवलं श्रुतिबाधायैव भवति । भाष्यकारैरैक्यश्रुतेः शरीरशरीरिभावद्वारा ऐक्यतात्पर्यस्य दर्शितत्वात् सर्वग्रन्थसामञ्जस्यमिति भावः ॥ ४६ ॥

प्रभाविलासः - ४६

नाथेति । नाथ ईश्वरः, तेनाश्लेषः सम्बन्धः, तस्य सनाथनात् सम्पादनादित्यर्थः । श्रुतिवधूवैधव्यखेदच्छिदम् ; निरीश्वरमीमांसकैरीश्वरो नास्तीति कथनेन श्रुतेर्यः खेदः, तस्य छिदम् । एतेन " बिभेत्यरूपश्रुताद्वेदो मामयं प्रतरेदिति" इति वचनं स्मारितम् । दूरयात्रादिना प्रोषिते भर्तरि केनचिद्वञ्चकेन " तव भर्ता नास्ति" इति ख्यापिते वध्वा वैधव्यशङ्कया खेदो जायते । पुनश्चाप्तया कयाचित् पतिमानाय्य प्रदर्शिते स खेदो निवर्तते, तद्वत् । प्राचीनाम् ; व्यासकाशकृत्स्त्रटङ्कद्रमिडगुहदेवनाथयामुनप्रभृतिभिः प्रवर्तिताम् । नयपद्धतिम् न्यायसरणिम् । न प्राची-
कशच्चेत्; न प्रकाशयामास चेत् । व्यासः; सूत्रकारः । हासरसोचितः ; शारीरकसूत्राणां तत्तद्वादिभिस्तात्पर्यापरिज्ञानेने तस्ततोऽर्थवर्णनेन विरुद्धार्थबो धकतया भ्रान्तप्रलपनपरः स्यात् । प्राचेतसः;

‘बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ।

अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।

शक्तः स पुरुषव्याघ्र स्रष्टुं पुनरपि प्रजाः । ‘अङ्गुल्ययेण तान् हन्यामिच्छन् हरिगणेश्वर ।

""

"

" श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥इत्यादिनोभयलिङ्गविभूतिविशिष्टं नारायणाख्यं परं ब्रह्मेति कान्तासम्मिततया तत्त्वनिर्णयप्रवृत्तो वाल्मीकिरपि चेतसः परिहृतः स्यात् । शुकः केलिशुकः; श्रीभागवतस्यापाततोऽर्थान्तरभ्रमजनकत्वेन तत्त्वार्थानिर्णायकतया कथामात्रकथनोपयोगेन लीलानिमित्तं स्यात् । बोधायनः सूत्रवृत्तिकारतया प्रसिद्धोऽप्यतिविस्तीर्णप्रणयनेन प्रयासमात्रशेषः स्यात् ।
इति ।

अत्र

अत्र नाथाश्लेषादिपदेन वध्वादिपदेन च शृङ्गाररसो व्यज्यते । तदुक्तं काव्यप्रकाशे" पदैकदेशरचनावर्णेष्वपि रसादयः " ह्रस्वाक्षराणा संयुक्ताद्यतया गुरुत्वेनातिगाढत्वादौर्जित्यं

नाम गुणः “यद्वन्धस्यातिगाढत्वमौर्जित्यं तदुदाहृतम्” इति लक्षणात्॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

राजा - ( स-प्रसादम् ) अभङ्गुर-गुरु-भक्तेर् आर्यस्य
क इव न जेतव्यः? तथा हि-

अ-शिथिल-गुरु-भक्तिस् तत्-प्रशंसादि-शीलः प्रचुर-बहु-मतिस् तद्-वस्तु-वास्त्व्-आदिके ऽपि । गुणवति विनियोक्तुं गोपयन् सम्प्रदायं
कृत-विद् अन्-अघ-वृत्तिः किं न विन्देन् निधानम् ॥ ४७ ॥

+++(रहस्य-त्रय-सारे ऽपि वर्तते।)+++

मूलम् - ४७

राजा - ( सप्रसादम् ) अभङ्गुरगुरुभक्तेरार्यस्य क इव न

जेतव्यः १ तथा हि-

अशिथिलगुरुभक्तिस्तत्प्रशंसादिशीलः

प्रचुरबहुमतिस्तद्वस्तुवास्त्वादिकेऽपि ।

गुणवति विनियोक्तुं गोपयन्सम्प्रदायं

कृतविदनघवृत्तिः किं न विन्देन्निधानम् ॥ ४७ ॥

प्रभावली - ४७

आर्यस्यास्य क इव न जेतव्यः ? सर्वेऽपि जेतुं शक्या इत्यर्थः । तदेव प्रतिपादयति - तथाहीति । अशिथिला दृढा गुरौ भक्तिर्यस्य । गुरोः प्रशंसा- प्रणामशुश्रूषादिस्वभावः । तस्य गुरोर्वस्तुषु आदिशब्देन श्रीकोशादिग्रहणम् ।

X२६२
तेषु प्रचुरो बहुमानो यस्य । किञ्च गुणवति ; " सद्बुद्धिः" इति श्लोकोक्तगुण- पौष्कल्यवति शिष्ये लब्धे । विनियोक्तुम् ; उपदेष्टुम् । सम्प्रदायम् ; गुरुपरम्परायातदर्शनीयरहस्यजातम् । गोपयन् ; अपात्रेष्वनुपदिशन् । आचार्येण स्वस्मिन् कृतमुपकारं विदन् कृतज्ञः । अनघवृत्तिः ; निरपराधोत्तरकृत्यः । कश्चित् निधानं किं न विन्देत्; मनीषितं प्राप्नोत्येवेत्यर्थः ॥ ४७ ॥

प्रभाविलासः - ४७

अशिथिलेति । आदिपदेन नमस्कारादयः । वस्तुपदेन पुत्रदारादिसङ्ग्रहः । आह च मनुः-

" गुरुदारे सपिण्डे वा
गुरुवद्वृत्तिमाचरेत् ”

इति । आपस्तम्बश्च - “आचार्यवद् आचार्यपुत्रे वृत्तिः " इति ;
" गुरु-दार-सुतादौ तु गुरुवद् वृत्तिम् आचरेत् " इति च ।
वास्तु; गृहम् ।
आदिशब्देन स्थानादि ।

" तेषु त्व् अविद्यमानेषु
स्थानासन-विहारवान् "

इति मनुस्मरणात् । गुणवति; आस्तिक्यादिगुणयुक्ते ।

“आस्तिको गुणशीलश्च
शीलवान् वैष्णवार्चकः । गम्भीरश्चतुरो धीरः
शिष्य इत्यभिधीयते ॥ "

इति भरद्वाजः ।

आचार्यपुत्रः शुश्रूषुर्
ज्ञानदो धार्मिकः शुचिः । आप्तः शक्तोऽर्थदः साधुः
स्वोऽध्याप्या दश धर्मतः ॥”

इति मनुः ।

कृतज्ञाद्रोहि-मेधावि-
शुचि-कल्यानसूयकाः ।
अध्याप्याः साधु शक्ताप्त-
स्वार्थदा धर्मदस् तथा ॥

इति याज्ञवल्क्यः ।

कृतवित् ; आचार्यैर्निष्प्रत्युपकारम् उपकृतमिति ज्ञानवान् ।

" ब्रह्मविद्याप्रदानस्य
देवैरपि न शक्यते ।
प्रतिप्रदानमपि वा
दद्याच् छक्तित आदरात् ॥”

इति स्मरणात् । अनघवृत्तिः; शुश्रूषादिषु कौटिल्याहङ्कारादिरहितः । निधानम् ; निरतिशय-पुरुषार्थ-भूत-ब्रह्म–स्व-रूपम्, “यथा हिरण्यनिधिं निहितम् " इत्य्-आदि-श्रुतेः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

शिष्यः – देव, सिद्धान्त-बलाद् एव विजिगीषे7
तद् अत्र सम्पश्यतां महाराजः ।

निराबाधा बोधायन-भणिति+++(→वृत्ति)+++-निष्यन्द-सुभगा
विशुद्धोपन्यास-व्यतिभिदुर+++(=मिश्रित)+++-शारीरक-नयाः ।
अकुण्ठैः कल्पन्ते यति-पति-निबन्धा निज-मुखैर्
अ-निद्राण–प्रज्ञा-रस–धमनि+++(=नाल)+++-वेधाय सुधियाम् ॥ ४८ ॥ +++(4)+++

मूलम् - ४८

शिष्यः – देव, सिद्धान्तबलादेव विजिगीषे7 । तदत्र

सम्पश्यतां महाराजः ।

निराबाधा बोधायनभणितिनिष्यन्दसुभगा

विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः ।

अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखै-

रनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम् ॥ ४८ ॥

प्रभावली - ४८

सिद्धान्तबलादेव मे विजिगीषे, न बुद्धिबलादित्याह - सिद्धान्तेति । विजिगीषे; विजेतुमिच्छामि । सिद्धान्तबलं दर्शयति - निराबाधेति । आबाधः ईषद्वाधः, तेनापि रहिताः । बोधायनभणितिः वृत्तिग्रन्थः, तस्य निष्यन्दः प्रसरः, तद्रूपत्वात सुभगाः । विशुद्धेन दोषरहितेनोपन्यासेन व्यतिभिदुराः संयुक्ताः, प्रकाशमाना इत्यर्थः, शारीरकसूत्रस्य नयाः न्यायाः यत्र ते । यतिपति-

X२६४
निबन्धाः ; श्रीभाष्यादयः ।
अकुण्ठैः; केनचिद्वाधाभावात् तीक्ष्णैः । निजैर्मुखैः; मुखशब्देन लक्षणया प्रधानप्रतिपाद्यार्था उच्यन्ते; तैः साधनैः ।
सुधियाम् अनिद्राणप्रज्ञा सैव रसः, तत्सिद्ध्यर्थ धमनिवेधाय सिरावेधाय कल्पन्ते ; समर्धा भवन्ति । यथा तदभिज्ञैः सिरावेधे कृते रुधिर-रूपो रसः प्रसरति,
एवं निजार्थ-श्रवणमात्रेण प्रज्ञातिशयं जनयन्तीत्यर्थः ॥ ४८ ॥

प्रभाविलासः - ४८

X२६३

निराबाधा इति । निराबाधाः ईषदपि बाधरहिताः " ईषदर्थे कियायोगे” इति वचनात् । बोधायनभणितिः ; वृत्तिग्रन्थः, तस्या निष्यन्दवत् सुभगाः निष्यन्देन सुभगा वा । तदनुसारिण इति यावत् ।

“तन्मतानुसारेण " इति ह्यभाषि ।
अनेन शङ्कर-भाष्यस्य बोधायन-वृत्तिविरोधः सूचितः ।
विशुद्धोपन्यासेन व्यतिभिदुरा मिश्रिताः शारीर- कनया व्याससूत्राणि येषु ते । अनेन शाङ्करीयभाष्यस्य सूत्र-विरोधः सूचितः । उक्तं च तैरेव -

शङ्करः शङ्करः साक्षाद्
व्यासो नारायणः स्वयम् ।
तयोर् विरोधे सम्प्राप्ते
शङ्करः किं करिष्यति ॥

इति । निजमुखैः; शास्त्रमुखैः, ग्रन्थैकदेशैर्वा । निजमुखैश् छात्रैः पठ्यमाना इति शेषो वा । अनिद्राणप्रज्ञारसधमनिषेधाय ; असङ्कुचितज्ञानप्रसराय । धमनिवेधे हि रसः सर्वतः प्रसरतीति प्रसिद्धिः । अत्र पादचतुष्टयं घोषव दक्षरप्रायत्वात् स्फुटवर्णनिर्वाहो नाम समतागुणः । तदुक्तम्

मृदुस्फुटविमिश्राणां वर्णानां बन्धक्लप्सिषु । आपादचूडं निर्वाहः समता धीमतां मता ॥

इति ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

(किञ्च

आपाद-चूडम् अनपायिनि दर्शनेऽस्मिन्न्
आशासनीयम्+++(=प्रार्थनीयम्)+++ अपरं न विपक्ष-हेतोः । आपात-सौख्य-मधुरान् पुनर् अस्मदीयान्
अन्योन्य-भेद-जननी विजहात्व् असूया॥

राजा - ब्रह्मन्, उत्सर्यते पुनर् इयम् ईदृशेन भवद्वचनेन ।

शिष्यः - जितं तर्हि विपश्चित्तया ।

राजा - किम् उच्यते ।

शिष्यः - )

दृष्टे ऽपह्नुत्य्-अभावाद् अनुमिति-विषये लाघवस्यानुसाराच्
छास्त्रेणैवावसेये विहति-विरहिते नास्तिकत्व-प्रहाणात् ।
नाथोपज्ञं प्रवृत्तं, बहुभिर् उपचितं यामुनेय-प्रबन्धैस्
त्रातं सम्यग् यतीन्द्रैर् इदम् अखिल-तमः-कर्शनं दर्शनं नः ॥ ४९ ॥+++(5)+++

मूलम् - ४९

किञ्च8

दृष्टेऽपह्नुत्यभावादनुमितिविषये लाघवस्यानुसारा-
च्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् ।
नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धै-
स्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमः कर्शनं दर्शनं नः ॥ ४९ ॥

प्रभावली - ४९

यतिपतिनिबन्धानां कैर्हेतुभिर्मतान्तरेभ्य आधिक्यम् ? केन वा हेतुना

X२६५
ज्ञानातिशयहेतुत्वमिति शङ्कायामाह - दृष्टेति । दृष्टे ; प्रत्यक्षगम्ये वस्तुनि । अपहूनुतिः; अपलापः, तदभावात् । अनेन बौद्धादिमतात् प्रच्छन्नबौद्धमताच्च व्यावृत्तिरुक्ता । ते तु प्रत्यक्षसिद्धं जगदपलपन्ति । अनुमितिविषये ; अनुमेये वस्तुनि । लाघवस्याङ्गीकारात् । अनेन न्यायवैशेषिकमतव्यावृत्तिः, तयोर्मते परिमाणतारतम्यावधित्वेन परमाण्वभ्युपगमनगौरवात् । अत्र तु त्रसरेणोरेव परिमाणतारतम्यावधित्वसम्भवे परमाणुरूपधर्मिकल्पनस्याधिकस्यानङ्गीकारात् लाघवस्यानुसारः । शास्त्रेणैवावसेये; आगमगम्ये । विहतिविरहिते ; प्रमाणा-

X२६६
न्तरबाधरहिते ; ईश्वर इति शेषः । नास्तिकत्वस्य त्यागात् । अनेन परिगृहीत- नास्तिक्ययोर्भट्टगुरुमतयोर्व्यावृत्तिः । सम्प्रदायागतत्वादप्यस्य दर्शनस्य ज्ञानाधिक्यजनकत्वमाह – नाथोपज्ञमित्यादि । नाथस्य नाथमुनेः उपज्ञा आद्यज्ञानं यथा भवति तथा प्रवृत्तमित्यर्थः । बहुभिः यामुनेयस्य आलवन्दारित्यपरनामधेयस्य प्रवन्धैः सिद्धित्रयागमप्रामाण्यादिभिः संवर्धितम् । यतीन्द्रैः; श्रीभाष्यकारैः । सम्यक् त्रातम् ; भाव्यादिप्रणयनेन प्रतिमतभङ्गपूर्वकं रक्षितम् । नोऽस्माकमिदं दर्शनम् ; अखिलतमःकर्शनम् ; यथार्थज्ञानहेतुत्वादखिलाज्ञानापनोदनमित्यर्थः ॥ ४९ ॥

प्रभाविलासः - ४९

दृष्ट इति । दृष्टे ; प्रत्यक्षे । अपहनुत्यभावात् ; ‘अयं पद एतत्तन्तु-
निष्ठात्यन्ताभावप्रतियोगी इति मतान्तरवत् प्रत्यक्षापलापाभावात् । नन्वलातचक्रादिप्रत्यक्षापह्नवस्तवापि सम्मत इत्यत आह - विहतीति । अन्यथाख्यातौ बाधसम्भवात् तदपलापो युक्त इत्यर्थः । अनुमितिविषये ; परमाण्वादिसाधकानुमानस्थले । लाघवस्यानुसारात् ; त्रसरेणोरेवाणुपरि- माणतारतम्य विश्रान्तिविषयत्वेन तदतिरिक्ताप्रामाणिक गौरवस्यानङ्गीकारादि- त्यर्थः । यद्वा " विवादगोचरापन्नं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्त- इत्यादिविशेषसाध्यकानुमानादिस्थले9 सर्वसम्प्रतिपन्नज्ञानाभावादिना सकल- व्यवहारसिद्धौ10 अप्रामाणिकगुरुभूतभावरूपाज्ञानकल्पनाननुसारादित्यर्थः । शास्त्रेणैवावसेये; ईश्वरे । विहतिविरहिते; तदङ्गीकारे कर्मानुष्ठानादेरविरोध इत्यर्थः । उक्तं च सूत्रकारैः- विरोधः कर्मणीति चेन्नानेक-
प्रतिपत्तेर्दर्शनात् " इत्यादिना । नास्तिकत्वप्रहाणात् श्रुतित्वा विशेषेऽपि " निःसारा वेदान्ताः " इत्यादिनास्तिकत्वनिरासात् । यद्वा " यः सर्वज्ञः सर्ववित् " " स्वाभाविकी ज्ञानबलक्रिया च " इति शास्त्रबोध्ये सगुणे ब्रह्मणि " एकमेवाद्वितीयम् " " तत्त्वमसि " नेह नानास्ति किञ्चन " अयमात्मा ब्रह्म” इत्यादिवाक्यानाम् “यो विज्ञानमन्तरो यमयति " य आत्मानमन्तरो यमयति" इत्यादिघटकश्रुत्यनुसारेण शरीरशरीरिभावादिविशिष्टैक्यपरत्वेन विहतिविरहिते सत्येव मुख्यार्थपरित्यागरूपनास्तिकत्वपरित्यागदित्यर्थ । नाथः ; ईश्वरः । स एवोपज्ञा आद्यज्ञानं यथा तथा उपज्ञा ज्ञानमाद्यं स्यात् " इति निघण्टुः । श्रीपाञ्चरात्र श्रीगीतादिना विशिष्टाद्वैतस्य प्रवर्तितत्वात् तदुक्तिः । यद्वा नाथः ; नाथमुनिः । भीमादिपदवन्नामैकदेशेन नामग्रहणम् । नाथमुनेः पूर्वमपि सम्प्रदायस्याविच्छेदेऽप्युपज्ञेति स्पष्टत्वाभिप्रायम् । यामुनेयप्रबन्धैः ; सिद्धित्रयागमप्रामाण्यस्तोत्र- रत्नगीतार्थसङ्ग्रहप्रभृतिभिः । शारीरकसूत्रगीताभाष्यादिप्रणयनेन दर्शनस्थापनेन च यतीन्द्रैः सम्यक् त्रातमित्युक्तम् । अत्रोक्तविशेषणानां दर्शना- तिशयप्रतिपादकत्वादुदारता नाम गुणः,

श्लाघ्यैर्विशेषणैर्योग्यबन्धां विदुरुदारताम् " इति लक्षणात् ॥ ४९ ॥


  1. सभयम्——–क ↩︎ ↩︎

  2. तोपस्थितमात्म—–ग ↩︎

  3. सनातनश्रुति—-ग ↩︎

  4. कशे. काशेर्वा अनूदितो णिजन्तस्येदं रूपम् । ↩︎

  5. परिहृतः—–ग ↩︎

  6. मुधा—-क ↩︎

  7. जेतव्यान् added after ↩︎ ↩︎

  8. आपादचूडमनपायिनि दर्शनेऽस्मिन्नाशासनीयमपरं[आशंसनीयमपरं—ख] न विपक्षहेतोः । आपातशान्तिमधुरान् पुनरस्मदीयानन्योन्यवैरजननी विजहात्वसूया ॥

    राजा - ब्रह्मन्, उत्सर्यते पुनरियमीदृशेन भवद्वचनेन । शिष्यः जितं तर्हि विपश्चित्तया । राजा - किमुच्यते । शिष्यः [शिष्यः omitted—ख] added after किञ्च क, ख. ↩︎

  9. ‘विवादगोचरापन्नं प्रमाणज्ञान स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेश- गतवस्त्वन्तरपूर्वकं भवितुमर्हति अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीप- प्रभावत्’ इत्यनुमानशरीरं पञ्चपादिकाविवरणकारोक्तमवगन्तव्यम् । ↩︎

  10. एतत्प्रकारश्च श्रीभाष्यश्रुतप्रकाशिकादौ स्पष्टः । ↩︎