विश्वास-प्रस्तुतिः - ४१
शिष्यः - यद् आदिशति महा-राजः ।
तद् अहं1 सन्धुक्षयामि
कथा-समर-सन्नाहाय कौतस्-कुतान् । किञ्चिद् उच्चैः-
जयति सकल-विद्या-वाहिनी–जन्म-शैलो
जनि-पथ–परिवृत्ति-श्रान्त–विश्रान्तिशाखी ।
निखिल-कुमति-माया–शर्वरी–बाल-सूर्यो
निगम-जल-धि–वेला-पूर्ण-चन्द्रो यतीन्द्रः ॥ ४१ ॥+++(5)+++
मूलम् - ४१
शिष्यः - यदादिशति महाराजः । तदहं1 सन्धुक्षयामि कथासमरसन्नाहाय कौतस्कुतान् । किञ्चिदुच्चैः-
जयति सकलविद्यावाहिनीजन्मशैलो
जनिपथ परिवृत्तिश्रान्त2 विश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो
निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ ४१ ॥
प्रभावली - ४१
अथ वादाय दुर्वादिन आह्वयामी- त्याह – तदहमिति । सन्धुक्षयामि ; प्रवर्तयामीत्यर्थः । सन्नाहाय; उद्योगाय । कौतुस्कुताः ; कुतः कुत इति वादिनः । जयतीति । सकलविद्याः ; शब्दतर्क- मीमासा वेदान्तादयः । ता एव वाहिन्यो नद्यः, तासा जन्मशैलः ; तासामुत्पत्ति- स्थलमित्यर्थः ; यथा गङ्गाया हिमवान् । जनेः पन्थाः संसरणमार्गः, तत्र परिवृत्तिभिः यातायातैः श्रान्तानां विश्रान्तिशाखी विश्रमतरुः । निखिलानां कुम-
X२५५
तीनां या माया सैव शर्वरी, तस्या निवर्तने बालसूर्यः । निगमा एव जलधयः, तेषाम् वेला सतोषत उत्सर्पणम्, तत्र पूर्णचन्द्रः । चन्द्रोदयेऽम्बुधय उत्सर्पन्तीति प्रसिद्धिः । जयति ; सर्वोत्कर्षेण वर्तते ॥ ४१ ॥
प्रभाविलासः - ४१
सन्धुक्षयामि क्षोभयामि । कौतस्कुताः ; कुतः कुत इति पृच्छन्तो वादिनः । जयतीति । जनिपथे; संसारमार्गे । परिवृत्या; सञ्चारेण ।
श्रान्तानां विश्रान्तेः ; विश्रमस्य । शाखी ; वृक्षः । वेला ; जलस्योच्छ्रासः ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
(नेपथ्ये)
तर्क-व्याकृति-तन्त्र-शिक्षित-धियः पक्षेषु बाह्येष्व् अपि
प्रत्यक्षी-कृत-पौरुषा वयम् अमी मध्ये-सभं ब्रूमहे ।
वादाटोपम् उपेयुषः प्रतिभटान् आ-सेतु-हेमाचलं
तूलाया ऽपि तृणाय वा न च तुष-च्छेदाय+++(=खण्डाय)+++ मन्यामहे ॥ ४२ ॥+++(4)+++
मूलम् - ४२
(नेपथ्ये)
तर्कव्याकृतितन्त्रशिक्षितधियः पक्षेषु बाह्येष्वपि
प्रत्यक्षीकृतपौरुषा वयममी मध्येसभं ब्रूमहे ।
वादाटोपमुपेयुषः प्रतिभटानासेतुहेमाचलं
तूलायापि तृणाय वा न च तुषच्छेदाय मन्यामहे ॥ ४२ ॥
प्रभावली - ४२
तर्केति । तर्कतन्त्रं न्यायशास्त्रम; व्याकृतितन्त्रं व्याकरणशास्त्रं शब्दशास्त्रम् ; तत्र शिक्षितधियः । बाह्येष्वपि ; ततो व्यतिरिक्तेषु । पक्षेषु ; चार्वा- कबौद्धजनसाङ्ख्ययोगमीमासादिदुःशास्त्रेषु सर्वैः प्रत्यक्षतोऽनुभूतसामर्थ्याः अमी वयम् इह मध्येसभं सभामध्ये वदामः । किमित्यत्राह - वादसम्भ्रमं प्राप्तान् वादेषु मत्सदृशो नास्तीति गर्वं प्राप्तान् प्रतिभवान् प्रतिवादिनः सेतुमारभ्य हेमाचलपर्यन्तदेशेषु तूलायापि न मन्यामहे । तुषच्छेदः ; तुषकणिका ॥ ४२ ॥
प्रभाविलासः - ४२
तर्केति । व्याकृतिः व्याकरणम् । तन्त्रम् ; पूर्वमीमासा । आटोपः सम्भ्रमः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
सेनापतिः - आर्य, श्रूयते किल प्रतिभट-वादिनां प्रगल्भ-वादः ।
शिष्यः – ( स-क्रोधम् ) अलम् अलम् अतिगर्वेण ।
यतीश्वर-सरस्वती सुरभिताशयानां सतां
वहामि चरणाम्बुजं प्रणति-शालिना मौलिना ।
तद्-अन्य-मत–दुर्-मद–ज्वलित-चेतसां वादिनां
शिरःसु निहितं मया पदम् अ-दक्षिणं लक्ष्यताम् ॥ ४३ ॥+++(5)+++
मूलम् - ४३
सेनापतिः - आर्य, श्रूयते किल प्रतिभटवादिनां प्रगल्भ-वादः ।
शिष्यः – ( सक्रोधम् ) अलमलमतिगर्वेण ।
यतीश्वरसरस्वती सुरभिताशयानां सतां
वहामि चरणाम्बुजं प्रणतिशालिना मौलिना ।
तदन्यमतदुर्मदज्वलितचेतसां वादिनां
शिरःसु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥ ४३ ॥
प्रभावली - ४३
X२५६
आर्येति शिष्यसम्बोधनम् । प्रगल्भः ; उद्धतः । यतीश्वरेति । यतीश्वर- सरस्वत्या श्रीभाष्यादिरूपया सुरभितं तत्त्वरहस्येषु संशयविपर्ययरहितं तादृशं मनो येषा सताम् ; त एव सन्त इति भावः । तदन्यमतानि श्रीभाष्यकारमतादन्यानि तेषु दुर्मदः दुरभिमानः, तेनाग्निना ज्वलितं दग्धचेतो येषां दुर्वादिनां शिरःसु अदक्षिणं पदं वामपादं मया निहितं लक्ष्यताम् ; वीक्ष्यतामिति ॥ ४३ ॥
प्रभाविलासः - ४३
यतीश्वरेति । आशयः ; अभिप्रायः । तदन्यमतेषु ; श्रीभाष्य- विरुद्धमतेषु दुर्मदेन ज्वलितचेतसाम् । लक्ष्यतामिति प्रतिवादिसान्निध्य- मुक्तम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
राजा — भगवन्, अ-भङ्गुर–स्वामि-भक्तेर् अवसरोपपन्नं
+++(“न रावणसहस्रं मे युद्धे प्रतिभटं भवेत् " इति वदतः)+++
हनूमत इवेदम् आर्यस्य विकत्थनम् ।+++(5)+++
गुरुः — (स्वगतम्) क इवाभिप्राय इह विकत्थनम् उद्घाटयतो विवेकस्य ?
(प्रकाशम् ) महाराज,
श्रुति-सिद्धान्त-शूरस्य
तद्-विरुद्धान् निरुन्धतः ।
वल्गितं+++(=उद्गमनम्)+++ वावदूकस्य
कृतिनः किं न शोभते ॥ ४४ ॥
मूलम् - ४४
राजा — भगवन्, अभङ्गुरस्वामिभक्तेरवसरोपपन्नं हनूमत इवेदमार्यस्य विकत्थनम् ।
गुरुः — (स्वगतम्) क इवाभिप्राय इह विकत्थनमुद्घाटयतो विवेकस्य ? (प्रकाशम् ) महाराज,
श्रुतिसिद्धान्तशूरस्य तद्विरुद्धान्निरुन्धतः3 ।
वल्गितं वावदूकस्य कृतिनः किं न शोभते ॥ ४४ ॥
प्रभावली - ४४
अवसरोपपन्नम् ; कालोचितम् । हनूमत इव ; “न रावणसहस्रं मे युद्धे प्रतिभटं भवेत् " इति वदतः । विकत्थनम्, आत्मश्लाघनम् ।
क इवाभिप्रायः ।
इह ; शिष्ये विकत्थनं सूचयतः ।
श्रुतीति । वेदान्तसिद्धान्ते शूरस्य ।
तद्विरुद्धान् सिद्धान्तान् निरस्यतः । कृतिनः ; समर्थस्य । वल्गितम् ; उद्गमनम्, आत्मश्लाघेति यावत् । वल्गितशब्देन धानुष्कस्येवेति दृष्टान्तः सूच्यते । किं न शोभते ; शोभत एवेत्यर्थः ॥ ४४ ॥
प्रभाविलासः - ४४
हनुमत इति । अनेन,
दासोऽहं कोसलेन्द्रस्य
रामस्याक्लिष्टकर्मणः ।
हनूमान् शत्रुसैन्यानां
निहन्ता मारुतात्मजः ।
न रावणसहस्रं मे
युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः
पादपैश्च सहस्रशः ॥
इत्यादि स्मारितम् । श्रुतीति । वल्गितम् ; विकत्थनम् । युक्तमिति शेषः । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ;
ज्ञेयः सोऽर्थान्तरन्यासो
वस्तु प्रस्तुत्य किञ्चन ।
तत्साधनसमर्थस्य
न्यासो योऽन्यस्य वस्तुनः ॥
इति लक्षणात् ॥ ४४ ॥