०३ सिद्धान्त-वाद-संवादः

परस्-पर-सम्भावनम्

विश्वास-प्रस्तुतिः

(ततः प्रविशतो गुरुशिष्य वेषधारिणौ सिद्धान्तवादौ )

गुरुः - आयुष्मन्,
अवधारित-परमार्थेन
प्रतिभट-कथक–लङ्का–भट-हनूमता भवता
स्थूणा-निखनन-न्यायेन सञ्चालित-निष्कम्पम्
अध्यात्म-तत्त्वम् अवगच्छामि
शिष्यः - (सप्रश्रयम् )
भगवन्
दिव्येन यतीन्द्र-वेषेण
दत्तात्रेय इव सन्दृश्यसे
योऽसौ महर्षिभिर् अनुस्मर्यते-

काणाद-शाक्य-पाषण्डैस्
त्रयीधर्मो विलोपितः
त्रि-दण्ड-धारिणा पूर्वं
विष्णुना+++(→दत्तात्रेयेण)+++ रक्षिता त्रयी ॥ १३ ॥

इति ।

मूलम्

(ततः प्रविशतो गुरुशिष्य वेषधारिणौ सिद्धान्तवादौ )

गुरुः - आयुष्मन्, अवधारितपरमार्थेन प्रतिभटकथकलङ्का- भटहनूमता भवता1 स्थूणानिखननन्यायेन सञ्चालित निष्कम्पमध्या- त्मतत्त्वमवगच्छामि ।
शिष्यः - (सप्रश्रयम् ) भगवन् दिव्येन यतीन्द्रवेषेण दत्तात्रेय इव सन्दृश्यसे’ योऽसौ महर्षिभिरनुस्मर्यते-
इति ।
काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी ॥ १३ ॥

त्वया—-क

प्रभावली - १३

एवं पात्रान्तरं संसूच्य तत्प्रवेशमाह- तत इति । आयुष्मन्निति शिष्य- सम्बोधनम् । प्रतिभटकथा एवं लङ्काभटाः तेषां हनूमत्स्थानीयेन। स्थूणाया निखननं सञ्चालनेन दृढीकरणं, सत्यायेन सञ्चालितं च तत् निष्कम्पं चाध्यात्मस्वरूपम् प्रश्रय; विनयः यतीन्द्रस्य वेषेण दत्तात्रेय इव योऽसौ दत्तात्रेय: स्मृतिषु पठ्यते । काणादेति । काणादा वैशेषिकाः । शाक्या बौद्धाः। पाषण्डाः; तत्त्ववृत्तोभयपाषण्डा: निरीश्वरमीमांसकादयः यहा काणाद- शाक्यरूपैः पाषण्डैः पूर्वमादौ काले त्रयीधर्मो विलोपितोऽभूत तदा त्रिइण्ड- धारिणा; त्रिदण्डं धारयता विष्णुना विष्ण्वंशेन दत्तात्रेयेण त्रयी रक्षिता; सान्वादेन सशिष्यो विजिग्य अर्थी रक्षितवानित्यर्थः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

गुरुः–
आयुष्मन्,
असुराः खल्व् एते बाह्याः कु-दृष्टयश् च । तान् अहं विष्णु+++(→दत्तात्रेय)+++-रूपम् आश्रित्य विजिगीषे ।

शिष्यः - भगवन्, विष्णु-रूपी सन्
विष्णु-भावेन नमस्यः खल्व् असि
ततश् च,

उपवीतिनम् ऊर्ध्व-पुण्ड्रवन्तं
त्रि-जगत्-पुण्य-फलं त्रि-दण्ड-हस्तम् ।
शरणागत सार्थ-वाहकं त्वां
शिखया शेखर-शालिनं भजामि ॥ १४ ॥

(इति साष्टाङ्गं प्रणमति)

मूलम् - १४

\
गुरुः– आयुष्मन्, असुराः खल्वेते बाह्याः कुदृष्टयश्च ।’ तानहं विष्णुरूपमाश्रित्य विजिगीषे ।
शिष्यः - भगवन्, विष्णुरूपी सन् विष्णुभावेन नमस्यः खल्वसि । ततश्च,
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागत सार्थवाहकं त्वां शिखया शेखरशालिनं भजामि ॥ १४ ॥

(इति साष्टाङ्गं प्रणमति)

प्रभावली - १४

विष्णुरूपमाश्रित्य ; विष्णोर् विष्ण्व्-अंशस्य दत्तात्रेयस्य रूपं त्रिदण्ड-सन्न्यासित्वम् आश्रित्य विजेतुम् इच्छामि । विष्णुरूपी सन्; विष्णो रूपं त्रिदण्डधारित्वं, तद्वान् सन् । अयं साक्षाद्विष्णुरेवेति बुद्ध्या नमस्कारयोग्यः । उपवीतिनमिति एकदण्डिभ्यो व्यावृत्तिरुच्यते । उपवीतं यज्ञसूत्रं तद्वान् । सच्छिद्रोर्ध्वपुण्ड्वन्तम् । त्रिजगतां पुण्यस्य परिपाकरूपम् । त्रीणि दण्डानि त्रिदेषडं हस्ते

X२२२
यस्य तम् । शरणागत सार्थवाहकम् ; शरणागतानां सार्थः समूहः रक्षणभरो वा, तस्य निर्वाहकम् । शिखया हेतुना शिरोभूषणवन्तम् । शेखर शिरोमाल्यं, तेन शालितुं शीलमस्य इति तच्छालिनम् ॥ १४ ॥

प्रभाविलासः - १४

उपवीतिनमिति । अत्र प्राशस्त्ये मतुप् । सार्थः ; समूहः । साष्टाङ्गमिति ; मनोबुद्धयभिमानहस्तपादद्वय शीर्षसहितमित्यर्थः । तदुक्तम्- " मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ "
इति । प्रणमतीति; नामगोत्रभोशब्दोच्चारणपूर्वकं नमस्करोतीत्यर्थः । यथाह मनुः -
"
• अभिवादपरो विप्रो ज्यायांसमभिवादयेत् ।
असौनामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ \
भोशब्दम् कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।

नाम्नां स्वरूपभावे हि भोशब्दः ऋषिभिः स्मृतः ॥

इति ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

गुरुः- आयुष्मन्,

प्रतिष्ठापित-वेदान्तः
प्रतिक्षिप्त-बहिर्-मतः ।
भूयास् त्रैविद्य-मान्यस् त्वं
भूरि-कल्याण-भाजनम् ॥ १५ ॥

मूलम् - १५

गुरुः- आयुष्मन्,2

प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः ।

भूयास्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥ १५ ॥

प्रभावली - १५

प्रतिष्ठापितो वेदान्तसिद्धान्तो येन । प्रतिक्षिप्तो निरस्तो बाह्यसिद्धान्तो येन । एवं त्वं त्रैविद्यानां वैदिकानां मान्यः बहुकल्याणभाजनं च भूया इत्याशीर्वादिः ॥ १५ ॥

प्रभाविलासः - १५

आयुष्मन्निति मतुप् प्रशंसायाम् । तत्त्वजिज्ञासाप्रवृत्तत्वेनायुः- साफल्यात् " तरवः किं न जीवन्ति " इति वितथायुषो वैलक्षण्यमुक्तम् । आयुष्मन्निति वर्णप्रयुक्ताशीर्वादोऽपि फलितः ।

आयुष्मान् भव सौम्येति वाच्यो ‘विप्रोऽभिवादने " इति मनुस्मरणात् । प्रतिष्ठापितेति । तिस्रो विद्या येषां ते त्रिविद्याः ; त एव त्रैविद्याः ; ब्रह्मनिष्ठा इत्यर्थः ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

( इति दिव्य-शक्तिमयं दर्भ-पवित्रं ददाति )

शिष्यः - ( तद् आदाय
शिरसि निधाय
दक्षिण-हस्ते धारयति)

गुरुः-

अविश्रान्त-श्रद्धा–शत-कलह-कल्लोल-विषमास्
तवाविर्भूयासुर् मनसि मुनि-सिद्धादि-सुलभाः ।
मधु-क्षीर-न्याय–+++(स्वाभाविकानन्दमयत्वादि-)+++स्व-गुण-विभवासञ्जन-कनन्+++(=अतिशयित)+++-
महानन्द-ब्रह्मानुभव-परिवाहा बहु-विधाः ॥ १६ ॥+++(5)+++

मूलम् - १६

( इति दिव्यशक्तिमयं दर्भपवित्रं ददाति )
शिष्यः - ( तदादाय शिरसि निधाय दक्षिणहस्ते धारयति)

गुरुः-

अविश्रान्तश्रद्धाशतकलहकल्लोलविषमा-

स्तवाविर्भूयासुर्मनसि मुनिसिद्धादिसुलभाः ।

मधुक्षीरन्यायस्वगुणविभवासञ्जनकन-

न्महानन्दब्रह्मानुभवपरिवाहा बहुविधाः ॥ १६ ॥

प्रभावली - १६

दिव्या शक्तिः, तद्रूपम् ; दिव्यशक्तिप्रदमित्यर्थः । दर्भैर्विरचितं पवित्रग्रन्थिं ददाति ।
पुनरप्याशीर्विशेषं विदधाति — अविश्रान्तेति । अविश्रान्ताः ; सन्तताः । श्रद्धाशतम् ; अनुभवपरीवाहविषयादरशतम् । शतशब्दो बाहुविध्यवाची । परीवाहानां बहुविधत्वात् तदादरस्यापि बहुविधत्वम् । श्रद्वाशतान्येव कलह- कल्लोलाः कलहयुक्ताः कल्लोलाः । मध्यमपदलोपी समासः । कलहोऽहमह- मिकया प्रसरः; तैर्विषमाः दुरवगाहाः । मुनिसिद्धादिसुलभाः ; मुनीना सिद्धादीनामेव लभ्याः, नेतरेषाम् ।

मध्विति मधुना सपृक्त क्षीरमतिस्वादु भवति; तन्न्यायेन ।
स्वगुणविभवेषु ; स्वं रूपं, गुणाः सत्यज्ञानादयः ; विभवो विभूतिः, तेष्व् आसञ्जनेन
आसञ्जनम् आसत्तिः, तदनुसन्धानमित्यर्थः, तेन; ब्रह्मस्व- रूपगुणविभूत्यनुसन्धानेन । यद्वा स्वशब्देन प्रत्यगात्मोच्यते । तस्य यो गुणविभवः अपहतपाप्मत्वादिगुणसम्पत् तदासञ्जनेन तदनुध्यानेन । कनत् अतिशयितं

X२२४
महानन्दं यद्ब्रह्म तदनुभवस्य बहुविधाः परिवाहा तव मनस्याविर्भूयासुरिति । परब्रह्मानुभवजनित हर्षप्रकर्षस्तव मनसि जायतामिति भावः ॥ १६ ॥

प्रभाविलासः - १६

X२२३

अविश्रान्तेति । अविश्रान्ताः सन्तताः श्रद्धा, तासां शतस्य कलहाः अहमहमिकया वर्तनानि तेषां कल्लोलैस्तरङ्गैः विषमाः निम्नोन्नताः । मधुक्षीरन्यायेन माधुर्यविवेचनस्याशक्यतया स्वगुणानां सर्वज्ञत्वादीनां विभवस्य विभूतेरासञ्जनेन मेलनेन कनतो महानन्दस्य ब्रह्मणोऽनुभव परिवाहाः स्वरूपविभूतिगुणविशिष्टपरब्रह्मगोचरवेदान्तश्रवणमनननिर्धारितबुद्धिवैशद्यकाष्ठाः तव मनस्याविर्भूयासुरित्यर्थः ॥ १६ ॥

वाद-पुरस्-कारः

विश्वास-प्रस्तुतिः - १७

शिष्यः - (सप्रश्रयम् ) अमोघाशिषो भगवतः +++(तव)+++ प्रसादेन
सिद्धम् एव मे सर्वम् समीहितम्
अथ च3 भगवन्,
यद् अहम् इह किञ्चित् पृच्छामि
तद् यदि श्रावयितुम् अर्हामि, श्रावयितव्योऽस्मि

गुरुः - भद्र,4 सम्यग् उपसन्नस्य सच्-छिष्यस्य समये सति
किं न श्रावयितव्यम् ?

शिष्यः - भगवन्, विगृह्य कथा-करणं
महर्षिभिः प्रतिषिध्यते
वादेन
ब्राह्मणं जित्वा हृष्टस्य पापिष्ठस्य
पादपत्व-प्राप्तिश् च प्रतिपाद्यते
तत् कथम् इदानीं विजिगीष्यन्ते विपक्ष-वादिनः5

गुरुः - ( सप्रसादम् ) भद्र, साधु-बुद्धिना त्वया सम्यग् अनुयुज्यते
किन्तु वर्णाश्रम-जाति-गोत्र-प्रवर-कुल-चरण-देश-काल-विषयादि-भेदेन
व्यवस्थितैव हि विधि-निषेध-मर्यादा
तद् अहम् इदानीं परिगृहीत-नियमानुगुणं
स्वयं विपक्ष-निरसनम् अकुर्वाणः
कौशिक इव राघवं त्वां पुरस्कृत्य +++(→कौशिक-वेङ्कटनाथस्यापि सूचना!)+++
कु-दृष्टीन् बाह्यांश् च निराचिकीर्षामि ।+++(5)+++ तत्र च,

दूरे भवतु ते वीर
जल्पः सह वितण्डया ।
त्वम् एव स्थिर-वादात्मा
निरुन्द्धि परिपन्थिनः ॥ १७ ॥+++(5)+++

मूलम् - १७

शिष्यः - (सप्रश्रयम् ) अमोघाशिषो भगवतः प्रसादेन सिद्धमेव मे सर्वम् समीहितम् । अथ च3 भगवन्, यदहमिह किञ्चित् पृच्छामि तद्यदि श्रावयितुमर्हामि, श्रावयितव्योऽस्मि ।

गुरुः - भद्र,4 सम्यगुपसन्नस्य सच्छिष्यस्य समये सति किं न श्रावयितव्यम् ?

शिष्यः - भगवन्, विगृह्य कथाकरणं महर्षिभिः प्रतिषिध्यते । वादेन ब्राह्मणं जित्वा हृष्टस्य पापिष्ठस्य पादपत्वप्राप्तिश्च प्रतिपाद्यते । तत् कथमिदानीं विजिगीष्यन्ते विपक्षवादिनः5

गुरुः - ( सप्रसादम् ) भद्र, साधुबुद्धिना त्वया सम्यगनुयुज्यते । किन्तु वर्णाश्रमजातिगोत्रप्रवरकुलचरणदेशकालविषयादि-
भेदेन व्यवस्थितैव हि विधिनिषेधमर्यादा । तदहमिदानीं परिगृहीत- नियमानुगुणं स्वयं विपक्षनिरसनमकुर्वाणः कौशिक इव राघवं त्वां

पुरस्कृत्य कुदृष्टीन् बाह्यांश्च निराचिकीर्षामि । तत्र च,

दूरे भवतु ते वीर जल्पः सह वितण्डया ।

त्वमेव स्थिरवादात्मा निरुन्द्धि परिपन्थिनः ॥ १७ ॥

प्रभावली - १७

सर्वे समीहितम् ऐहिकं परपक्षविजयादि, आमुष्मिकं च निःश्रेयसादि समीहितमभिलषितमित्यर्थः । अथच ; अथापि । सम्यगुपसन्नस्य ; शास्त्रोक्त
क्रमेण गुरुमुपसन्नस्य सच्छिष्यस्य ; " सद्बुद्धिः साधु सेवी" इत्यादिशिष्यगुणयुक्तस्य शुश्रूषोः । समये ; योग्यकाले । सर्वं श्रावयितव्यमेव । विगृह्य ; विजिगीषुर्भूत्वा । अत्र प्रमाणं दर्शयति– वादेनेति ।

" वादेन ब्राह्मणं जित्वा हृष्टो भवति यो द्विजः ।

श्मशाने पादपः स स्याद् गृध्रकङ्कनिषेवितः ॥

इति स्मृतिवचनस्यार्थ सङ्गृह्य दर्शयति-वादेन ब्राह्मणं जित्वेत्यादिना । विजि- गीष्यन्ते ; विजेतुमिष्यन्ते विरुद्वपक्षवादिनः । प्रसादः ; अनुग्रहः । अनुयुज्यते ; प्रश्नः क्रियते । किन्तु; तत्र वक्तव्यमस्ति किचिदित्यर्थः । " न विगृह्य कथाँ कुर्यात् " इत्यादि तूत्तमाश्रमिविषयं, न गृहस्थविषयमिति दर्शयितुं तावद्विधिनिषेधमर्यादाया व्यवस्थामाह । विधिः ; इद कुर्यादित्येवंरूपः । निषेधः ; इदं न कुर्यादित्यादिरूपः । तयोर्मर्यादा; नियमः । व्यवस्थितैव; विषयभेदेन व्यवस्थापिता; सद्भिरिति शेषः । केन प्रकारेणेत्यत्राह — वर्णाश्रमादीति । वर्णः ; ब्राह्मण्यादिः । आश्रमः ; ब्रह्मचर्यादिः । जातिः ; प्रसिद्धा । गोत्रम् ; प्रसिद्धम् । प्रवरः ; त्र्यार्षेयपञ्चार्षेयादि । कुलम् ; स्मार्तादि । चरणम् ; ऋग्यजुः सामादि ।

X२२६
देशः ; द्रमिडकर्णाटादिः ; कालः ; अहोरात्रादिः । आदिशब्देनावस्थादि गृह्यते । अतोऽत्र निन्दार्थवादानुगेधेन ब्राह्मणजयनिषेधोऽपि न गृहस्थविषय इति भावः । ततः किमित्यत्राह - तदहमिति । नियमः ; सन्न्यासनियमः । निराचि- कीर्षामि ; निराकर्तुमिच्छामि । तत्र ; त्वया वादकरणेऽपि । जल्पः ; विजिगीषु- कथा । वितण्डा; स्वपक्षस्थापनहीना । स्थिरो यो वादः तत्त्वनिर्णयार्थ प्रवृत्ता कथा, तत्स्वरूपः त्वमेव निरुन्द्रि ; निरस्य । परिपन्थिनः ; शत्रून् ॥ १७ ॥

प्रभाविलासः - १७

वादेनेति । अनेन

वादेन ब्राह्मणं जित्वा हृष्टो भवति यो द्विजः ।

श्मशाने पादपः स स्यात् कङ्कगृधनिषेवितः ॥

इति वचनं स्मारितम् । वर्णः ; ब्राह्मणत्वादिः । जातिः ; देवत्वादिः, विशिष्टमातापितृजन्यत्वं वा । गोत्रम् ; कूटस्थऋषिनामकीर्तनम् । प्रवरः;
X२२५

वंश्य ऋषिगणनामकीर्तनम् । कुलम् ; वंशः । चरणम् ; बहूवृचत्वाद्यवान्तर जातिः । दूर इति । स्वपक्षस्थापन परपक्षदूषणवान् जल्पः । स्वपक्षस्थापनही- नपरपक्षदूषणमात्रपर्यवसाना वितण्डा । तत्त्वबुभुत्सोः प्रश्नप्रतिबचनरूपकथा

वादः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

अथवा त्वया मन्-निदेशानुवर्तिना
कौशिक-नियमितेन राघवेणेव
साधिकारेण यथा-विधि वीत-राग-कथानावसरे
वेदेश्वर-विदूषकाः सर्वे
तत्त्वाध्यवसाय-संरक्षणार्थम्
अनुज्ञाताभ्यां बलातिबलाभ्याम् इव
जल्प-वितण्डाभ्याम् अपि जेतव्याः ।+++(5)+++

शिष्यः – (साञ्जलिबन्धम् ) शिरसा प्रतिगृहीतोऽयं भगवतः समादेशः ।
अथापि भगवता विश्वाचार्येण
कथमिह मितम्-पचे मयि कथक-भार आरोप्यते ?

गुरुः - अवधार्यताम् एतत्-

नित्य-क्षिप्त-परस्-परेषु समय-ग्रामेषु निष्णातिनः
शिष्याः केचन सन्ति नः क्षिति-तले शिक्षाधिक-ग्राहिणः
तत्र स्व्-अद्भुत-निर्भर-प्रसरया बुद्ध्या परिष्-कारिणस्
त्वत्तः प्रत्ययितो न कश्चिद् अपरः प्रत्यर्थिभिः प्रार्थितः ॥ १८ ॥

मूलम् - १८

अथवा त्वया6 मन्निदेशानुवर्तिना कौशिकनियमितेन राघवेणेव साधिकारेण7 यथाविधि वीतरागकथानावसरे वेदेश्वरविदूषकाः सर्वे तत्त्वाध्यवसाय संरक्षणार्थमनुज्ञाताभ्यां8 बलातिबलाभ्यामिव जल्पवितण्डाभ्यामपि जेतव्याः ।

शिष्यः – (साञ्जलिबन्धम् ) शिरसा प्रतिगृहीतोऽयं भगवतः समादेशः । अथापि भगवता विश्वाचार्येण9 कथमिह मितम्पचे मयि कथकभार10 आरोप्यते ?

गुरुः - अवधार्यतामेतत्-

नित्यक्षिप्तपरस्परेषु समयग्रामेषु निष्णातिनः

शिष्याः केचन सन्ति नः क्षितितले शिक्षाधिकग्राहिणः ।
तत्र स्वद्भुत निर्भरप्रसरया बुद्ध्या परिष्कारिण-

स्त्वत्तः प्रत्ययितो न कश्चिदपरः प्रत्यर्थिभिः प्रार्थितः ॥ १८ ॥

प्रभावली - १८

पक्षान्तरमाह– अथवा त्वया त्विति । निदेशः ; आज्ञा मन्नियमनमेवा

X२२७
धिकारः, तद्वता । वेदेश्वरविदूषकाः ; बाह्याः । तस्वाध्यवसायसंरक्षणार्थमिति गौतमसूत्रैकदेशः11 । तत्र नास्तिकनिरासे जल्पवितण्डे अपि प्रयोक्तव्ये इत्यनुज्ञाते ; ताभ्याम् । बलातिबले नाम विद्ये विश्वामित्रेण श्रीरामायोपदिष्टे ; ताभ्याम् । यथा रामेण राक्षसा जिताः, एवं जल्पवितण्डाभ्यामपि त्वया जेतव्याः । समादेशः ; उपदेशः, शासनमित्यर्थः । भगवता ; सर्वज्ञेन । मितम्पचे ; क्षुद्रे । महावादिनां भारः तत्कृत्यनिर्वहणम् अशक्ते आरोप्यते वत्से महोक्षभर इवेति भावः । अवधार्यताम्, श्रूयताम् । नित्येति । नित्यं परस्परं प्रतिक्षिप्तेषु चार्वाकबौद्धादिसिद्धान्तगणेषु । निष्णातिनः ; अतिपरिचयकुशलाः । निष्णातं कौशलं येषामस्तीति निष्णातिनः । शिक्षाधिकग्राहिणः ; आचार्येण यच्छिष्यते ततोऽप्यधिकग्राहिणः, अनुक्तमप्यूहितुं दक्षाः । तत्र तेषां शिष्याणां मध्ये । तुरवधारणे । अद्भुतं यथा तथा निर्भरः पूर्णः प्रसरो ग्रहणशक्तिर्यस्याः सा ; तया बुद्ध्या । परिष्कारिणः ; अलङ्कारवतः । त्वत्तो मे प्रत्ययितः ; मम सम्मतः । अयमेव वादिनो जये समर्थ इति मनसा सविश्वासं परिगृहीतः । प्रत्यर्थिभिः; परवादिभिः । प्रार्थितश्च ; अनेन चेद्वादं कुर्मः, नान्येनासदृशेनेति प्रार्थितः । न कश्चिदस्ति । अतस्त्वय्यारोप्यत इति भावः ॥ १८ ॥

प्रभाविलासः - १८

मितम्पचे ; क्षुद्रे । नित्येति । समयग्रामेषु सिद्धान्तसमूहेषु । निष्णातिनः ; निष्ठावन्तः । शिक्षाधिकग्राहिणः ; शिक्षितकक्ष्याया अविरोधे-
नोत्तरकक्ष्याविशेषकल्पनचतुराः । तत्र तेषां मध्ये । अद्भुतनिर्भर-प्रसरया ; विस्मयनीय परिपूर्णवैशद्ययुक्तया । परिष्कारिण इति पञ्चमी । प्रत्ययितः; विश्वस्तः । प्रयोजकान्तरमाह – प्रत्यर्थिभिरिति । अत्रोत्तरं नामालङ्कारः, " तदुत्तरमिहोत्कर्षो योऽर्थानामुत्तरोत्तरम्" इति लक्षणात् ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

शिष्यः – यद् आदिशति भगवान् ।
अत्र तु कञ्चित् सिद्धान्तम् अनवलम्ब्य
कापि कथा प्रवर्तते
अतः स्वाभिमते कुत्रचिन् माम् अवस्थापयतु भवान् ।

गुरुः - भद्र, इह किल स-यूथ्य कलहे12
समान-तन्त्रे त्वया स्थातव्यम्
विपक्ष-विप्रतिपत्तौ तु वेदान्त-सिद्धान्ते ।
तत्रापि पराशर-पाराशर्य-शुक-शौनक-बोधायन-प्रभृतिभिः परिचितं पन्थानम् आश्रित्य
परमार्थ-दर्शि-देशिक–दत्त-दृष्टिभिर् अस्माभिः
परिमित-विशद्-गम्भीराः पञ्च-षाः प्रबन्धाः
+++(गद्यत्रय–गीता-भाष्य–भाष्य-सार-सङ्ग्रह-दीप-रूपाः)+++ प्राबन्धिषत
तेष्व् अवहित-चेतसा त्वया13
प्रतिसंहित-परमार्थेन14
पारिषद-हृदयङ्-गमाः प्रमाण-तर्काः प्रयोक्तव्याः

शिष्यः – भगवति प्रसेदुषि
क्वचित् प्रमाद्यामि । यतः,

गुरु-प्रसदन-स्फुरद्–गुण-गरिम्णि यन् मानसे
सकृत् स्फुरति वस्तु तन्, हि किम् अप्य् अपभ्रश्यति
ऋषिस् तद्-इतरोऽपि वा, यदि गृणाति+++(=दूषयति)+++ +++(अर्थ-)+++गत्य्-अन्तरं
विकल्प्य15, तद् अपि क्षणाद् विलयम् अभ्युपैति स्वयम् +++(शिष्येण तिरस्-कृतम्)+++॥ १९ ॥

मूलम् - १९

शिष्यः – यदादिशति भगवान् । अत्र तु कञ्चित्16 सिद्धान्तमनवलम्ब्य न कापि17 कथा प्रवर्तते । अतः18 स्वाभिमते कुत्रचिन्मामवस्थापयतु भवान् ।

गुरुः - भद्र, इह किल सयूथ्य कलहे12 समानतन्त्रे त्वया स्थातव्यम् । विपक्षविप्रतिपत्तौ तु वेदान्तसिद्धान्ते । तत्रापि पराशर - पाराशर्यशुकशौनक बोधायनप्रभृतिभिः परिचितं पन्थानमाश्रित्य परमार्थदर्शिदेशिकदत्तदृष्टिभिरस्माभिः परिमितविशद्गम्भीराः पञ्चषाः प्रबन्धाः19 प्राबन्धिषत; तेष्ववहितचेतसा त्वया13 प्रतिसंहितपरमार्थेन14 पारिषदहृदयङ्गमाः प्रमाणतर्काः प्रयोक्तव्याः ।
शिष्यः – भगवति प्रसेदुषि न क्वचित्प्रमाद्यामि । यतः,

गुरुप्रसदनस्फुरद्गुणगरिम्णि यन्मानसे

सकृत्स्फुरति वस्तु तन्न हि किमप्यपभ्रश्यति ।

ऋषिस्तदितरोऽपि वा यदि गृणाति गत्यन्तरं20

विकल्प्य15 तदपि क्षणाद्विलयमभ्युपैति स्वयम् ॥ १९ ॥

प्रभावली - १९

X २२८
यदादिशति भगवान् तर्हि तथा करोमीति शेषः । पुनरपि किञ्चित्पृच्छति- अत्र त्विति । स्वाभिमते कुत्रचित् ; सिद्धान्ते । अवस्थापयतु निवेशयेत्यर्थः । इह ; सिद्धान्तावलम्बनविषये । सयूथ्याः ; समानतन्त्राः, तैः सह कलहे । समानतन्त्रे; अभिन्नप्रस्थानैकशास्त्रे स्थातव्यम् । विपक्ष ; सिद्धान्तान्तरावलम्बी, तस्य विप्रतिपत्तौ ; तेन सह कलह इत्यर्थः । वेदान्तसिद्धान्ते, स्थातव्यमित्यनुवर्तते । परिचितं पन्थानम्; वेदान्तमार्गम् । परिमिताः ; अल्पाः ग्रन्थाः सारदीपादयः । विशदाः ; प्रसन्नाः । अथ च गभीराः दुर्ग्रहतात्पर्यत्वात् । पञ्चषाः ; पश्च वा षड्डा पञ्चषाः । प्रबन्धाः ; श्रीभाष्यादयः । प्राबन्धिषत ; प्रणीता इत्यर्थः । अवहितचेतसा ; सावधानं निहितमनस्केन । प्रतिसंहितः अनुसंहितः परमार्थः येन; परमार्थप्रतिसन्धानवता ; सिद्धान्तमलङ्घयतेत्यर्थः । पारिषदाः ; सभ्याः, तेषा मनोहराः प्रमाणानि तर्काश्च प्रयोक्तव्याः । भगवतीति । त्वत्प्रसादे सति न क्वचिन्मम प्रमादो भविष्यतीत्यर्थः । यतः ; एवं सति ।

गुर्विति ।
गुरुप्रसादेन स्फुरता गुणानां बाहुल्यवति मानसे शिष्यस्य मानसे यद्वस्तु, अर्थविशेष इत्यर्थः,
सकृत् एकवारं स्फुरति तत्किमपि किंचिदपि नापभ्रश्यति हि न विस्मृतं भवति ।
शिलालिखितमिव स्थिरं भवतीत्यर्थः ।
ऋषिर्वा मनुष्यो वा गुरुप्रसादात् स्फुरिते दुर्गे गत्यन्तरम् अर्थान्तरं परिकल्प्य गृणाति दूषयति । तदपि ; तद्दूषणमपि । विकल्प्य बहुधा विकल्पितं सत् क्षणाद् विलयं स्वयम् एवाभ्युपैति दूषितं भवति । शिष्येणेति शेषः ।
गुरुप्रसादस्फुरितस्य न कुतश्चित्प्रतिहतिर्भवतीति भावः ॥ १९ ॥

प्रभाविलासः - १९

समानतन्त्रे; साधारणशास्त्रे । पञ्चषाः ; पञ्चषट्सङ्ख्याकाः । ते च

;
X२२९

सङ्क्षिप्तमिति श्लोकेन वक्ष्यन्ते । गुर्विति । गुरोः प्रसदनं प्रसादः, तेन स्फुरन्तो गुणाः वैशद्याप्रमादाविस्मरणादयः, तैर्गरिमयुक्ते श्रेष्ठे । “गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे " इति निघण्टुः । मानसे यद्वस्तु सकृत् स्फुरति, तत् किमपि किञ्चिदपि नापभ्रश्यति । तत्; वस्तु । ऋषिः तदितरः ; तथाविधबुद्धिशाली कश्चिदन्यः । विकल्प्य ; विकल्पं प्राप्ये- त्यर्थः ॥ १९ ॥

कुयुक्तौ सावधानता

विश्वास-प्रस्तुतिः - २०

गुरुः - भद्र, विश्व-व्यामोहन-विषम-युक्ति-भयात्
त्वां नित्यम् +++(कु-युक्ति-विषये)+++ अवधानेन योजयामि । इह हि -

कुटिल-मतिभिः,, क्लृप्ता बाह्यैः,, कु-दृष्टिभिर् अप्य् असौ
कथक-परिषद्–धौरेयाणाम् अपि क्षण-कर्कशा ।
प्रलपन-गुणी-भूतालीक-प्रकाशन–पत्र-ला+++(=पल्लवा)+++
युवति-हृदय-क्रूरा **युक्तिर् युनक्त्य् अमितं भयम् ॥ २० ॥+++(4)+++

मूलम् - २०

गुरुः - भद्र, विश्वव्यामोहनविषमयुक्तिभयात् त्वां नित्य- मवधानेन योजयामि । इह हि -

कुटिलमतिभिः क्लृप्ता बाह्यैः कुदृष्टिभिरप्यसौ

कथकपरिषद्धौरेयाणामपि क्षणकर्कशा ।

प्रलपनगुणीभूतालीकप्रकाशनपत्रला

युवतिहृदयक्रूरा युक्तिर्युनक्त्यमितं भयम् ॥ २० ॥

प्रभावली - २०

X२३०
विश्वेति । विश्वव्यामोहनाय विषमयुक्तयः दुर्वादिनां कुयुक्तयः, तद्भयात् सावधानो भवेति पुनः पुनः कथयामि । इह हि ; वादे ।

कुटिलेति । वक्रबुद्धिभिः क्लृप्ता कल्पिता असौ युक्तिः अनुमानादिरूपा वादगोष्ठी-धुरन्धराणामपि क्षणमात्रं कठिना अप्रकाशमाना ।
प्रलपनं जल्पः, तस्य गुणीभूता ।
अनृतार्थप्रकाशनैः पत्रला सन्नद्ध-पल्लवा ; आपाद-चूडम् अनृत-प्रकाशिनीत्य् अर्थः ।
यद्वा प्रलपनस्य गुणीभूतम् उपसर्जनीभूतं यद् अलीकं तत्-प्रकाशन-परा ।
युवतिः स्त्री, तद्धृदयवत् कठिना ।
अमितं भयं जनयति यतः, अतः सावधानमिति पुनः पुनरुच्यते ॥ २० ॥

प्रभाविलासः - २०

कुटिलेति । कुटिलमतिभिः; कपटबुद्धिभिः । बाह्यः ; चार्वाकैः । कुदृष्टिभिः ; मायिभिः । कथितेति शेषः । कथकपरिषद्धौरेयाणाम् ; जल्प- वितण्डाभेदधुरन्धराणामपि । क्षणकर्कशा किमुत वादमात्रपारदर्शिनामिति भावः । प्रलपनम् ; निरर्थकशब्दाडम्बरम् ; तस्य गुणीभूतं यदलीक- प्रकाशनम् ; अप्रामाणिकार्थकथनम् ;

;

तेन पत्रला; व्याप्ता । " किं क्रूरं स्त्रीहृदयम्" इत्यादिप्रसिद्ध्या युवतिहृदयक्रूरेत्युक्तम् ; तेन स्वाभिमताभिनिवेशेन प्रमाणतर्क विसंवाद्यर्थस्यासहनं व्यञ्जितम् । अत्र शिष्यविषयः प्रणयो व्यज्यते ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

शिष्यः - भगवन्, मय्य् अति-स्नेहेन नूनम् इयम् अतिशङ्का तत्र-भवताम् । +++(4)+++

त्वया दर्शित-सर्वार्थे
त्वन्-निदेश-व्यवस्थिते ।
कथं कथक-मानी स्यात्
कश्चिद् अन्यो मयि स्थिते ॥ २१ ॥+++(5)+++

मूलम् - २१

शिष्यः 21 भगवन्, मय्यतिस्नेहेन नूनमियमतिशङ्का तत्र-

भवताम्22

त्वया दर्शित सर्वार्थे त्वन्निदेशव्यवस्थिते ।

कथं कथकमानी स्यात्कश्चिदन्यो मयि स्थिते ॥ २१ ॥

प्रभावली - २१

X२३१
अतिशङ्का ; शङ्काया अविषयेऽपि शङ्का । त्वच्छिष्ये मयि स्थिते को वान्यः कथकाभिमानी स्यादित्याह — त्वयेति । मयि स्थिते ; मम पुरत इत्यर्थः । न कश्चिदपीति भावः ॥ २१ ॥

प्रभाविलासः - २१

त्वयेति; उपदेशप्रयुक्तनिर्विचिकित्सतोक्तिः । त्वन्निदेशव्यवस्थिते इति सिद्धान्तातिक्रमे गर्वादिदोषराहित्यमुक्तम् । मयि स्थित इति; वादिदौर्बल्यं निवारितम् । कश्चित् ; कश्चन ; न कोऽपीत्यर्थः ॥ २१ ॥

गुरु-कृति-श्रद्धा

विश्वास-प्रस्तुतिः - २२

गुरुः – भद्र, इदम् अपि पुनर् मन्वीथाः

शिष्यः- अनुगृह्णन्तु भगवन्तः ।

गुरुः–

सङ्क्षिप्तं विस्तृतं वा, सरल-समुचितं, +++(क्लिष्टांशतया)+++ सावधान-प्रियं वा
प्राधान्येन प्रणीतं, पर-भणिति–परिष्-कार-वृत्त्या स्थितं वा ।
शिक्षा-सौकर्य-तुष्टि–प्रचित-गुरु-जनानुग्रहेद्धं सुधीभिः
श्रद्धेयं नाथ-जुष्ट-श्रुति-युवति–शिरो-भूषणं भाषणं नः ॥ २२ ॥+++(4)+++

मूलम् - २२

गुरुः – भद्र, इदमपि पुनर्मन्वीथाः ।

शिष्यः- अनुगृह्णन्तु भगवन्तः23

गुरुः–

सङ्क्षिप्तं विस्तृतं वा सरलसमुचितं सावधानप्रियं वा

प्राधान्येन प्रणीतं परभणितिपरिष्कारवृत्त्या स्थितं वा ।
शिक्षासौकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धं सुधीभिः

श्रद्धेयं नाथजुष्टश्रुतियुवतिशिरोभूषणं24 भाषणं नः ॥ २२ ॥

प्रभावली - २२

मन्त्रीथाः ; मनसि कुर्वित्यर्थः । सङ्क्षिप्तम् ; दीपः । विस्तृतम ;

X२३२
श्रीभाष्यम् । वाशब्दश्चार्थे । सरलाः, ऋजुबुद्रयः ; तेषा समुचितं गद्यन्त्रम् । सावधानानां प्रियम्; सारः । प्राधान्येन प्रणीतम् ; व्याख्येयत्वेन निर्मितं वेदार्थ- सङ्ग्रहः । परभणितिपरिष्कारवृत्त्या ; परस्य भगवतो भणितिः गीता, तस्या अलङ्कारतया । स्थितम् ; व्याख्यानरूपतया स्थितम् ; व्याख्यानं हि व्याख्येय- स्थालकारः गीताभाष्यम् । सङ्क्षिप्तं वा भवतु ; विस्तृतं वा भवतु ; ऋजुबुद्धिग्राह्यं वा भवतु ; सावधानग्राह्य वा भवतु ; व्याख्यानरूपं वा भवतु । शिक्षेति ; प्रमेयार्जवसूत्रस्वारस्यादिभिरत्र शिक्षा सुकरा भवति । शिक्षासौकर्येण जातया तुष्ट्या प्रचितस्य पूर्णस्य गुरुजनस्यानुग्रहेण इद्धम; दीप्तम् । नाथेन भर्त्रा भगवता जुष्टायाः श्रुतियुवत्याः शिरोभूषणं वेदान्तपरिष्काररूप नो भाषणं सुधीभिः श्रद्धेयम् । अन्येषा पक्षे श्रुतिर्नाथजुष्टा न भवति, नाथस्य ब्रह्मणो- ऽन्यथाकरणादिति भावः ॥ २२ ॥

प्रभाविलासः - २२

सङ्क्षिप्तमिति । सङ्क्षिप्तमित्यनेन वेदान्तदीपः । विस्तृतमित्यनेन श्रीभाष्यम् । सरलानाम् ; उदारमतीनां समुचितमिति वेदार्थसङ्ग्रहः । सावधानानां प्रियमिति वेदान्तसारश्च व्यञ्जितः । प्राधान्येन प्रणीतमिति गद्यत्रयोक्तिः । परभणितिपरिष्कारवृत्त्या ; श्रीभगवद्गीताभाष्यरूपेणे-
त्यर्थः । यद्वा श्रीभाष्यमेवोक्तसर्वलक्षणम् । तथा हि— लघुपूर्वपक्षसिद्धान्तादौ सङ्क्षेपः । महापूर्वपक्ष सिद्धान्तादौ विस्तरः । प्रसन्नत्वेन सरलत्वम् । गम्भीरतया सावधानप्रियत्वम् । क्वचिदुद्गन्थवृत्त्या प्राधान्यम् । श्रुतिप्रक्रियादौ परभणितिपरिष्कार इति । शिक्षासौकर्येण सकृदुपदेशग्रहणधारणादिना जातया तुष्ट्या हर्षेण प्रचितेन प्रवर्धितेन गुरुजनस्यानुग्रहेणेद्धं प्रवर्धमानम् । नाथजुष्टाया ईश्वरतात्पर्यवत्याः श्रुतियुक्तेः शिरोभूषणं वेदान्तहृदयङ्गममित्यर्थः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

शिष्यः - किम् उच्यते ?
उपनिषद्-उपघ्न+++(=निकटाश्रय)+++-भूतानि खलु भगवतो भाषितानि ।
तथा हि-

अनुदिनम् अनपाय-स्नेह-दत्तावसेकैः
सुमतिभिर् अनुभाव्यः शोभनायां दशायाम् ।
शरणम् उपगतानां प्रीणनार्थं भवद्भिर्
भव-कलुष-निशीथे भावितो भाष्य-दीपः ॥ २३ ॥+++(5)+++

मूलम् - २३

शिष्यः किमुच्यते ? उपनिषदुपघ्नभूतानि खलु भगवतो

भाषितानि । तथा हि-

अनुदिनमनपायस्नेहदत्तावसेकैः

सुमतिभिरनुभाव्यः शोभनायां दशायाम् ।

शरणमुपगतानां प्रीणनार्थं भवद्भि-25

र्भवकलुषनिशीथे भावितो भाष्यदीपः ॥ २३ ॥

प्रभावली - २३

किमुच्यते ; कि वक्तव्यमिदं भवतेत्यर्थः । उपनिषदामुपन्नभूतानि आधारभूतानि दीपादीनि । उक्तमेव द्रढयति - तथाहीत्यादिना । अनपायस्नेहः ; नित्यादरः, अन्यत्र तैलम् । तेन दत्तः सम्पूरितः अवसेकः परिशीलनं वर्त्यवसेको यैस्तैः । सुमतिभिः ; विद्वद्भिः । शोभनायां दशायाम् ; सत्त्वोद्रेकावस्थायाम् ; अन्यत्र निर्मलवर्त्याम् । अनुदिनमनुभाव्यः ; अनुसन्धेयः । अन्यत्रानुभवितुं योग्यः । शरणागतानाम् ; प्राप्तोपायानां कृतकृत्यानाम ; अन्यत्र गृहागतानाम्, प्रीत्यर्थम् । भवकलुषनिशीथे; भवकलुषमेव निशीथः ; अन्यत्र कलुषोऽन्धकारः, तद्विशिष्टो निशीथः । तत्र भवद्भिर्भावितः ; आरोपितः ॥ २३ ॥

प्रभाविलासः - २३

X२३३

उपघ्नः ; अन्तिकाश्रयः । अनुदिनमिति । स्नेहः ; अनुरागः, तैलं

च । सुमतिभिः ; ज्ञानिभिः, कुशलैश्च । दशायाम् ; अवस्थायां, वर्त्यां च । शरणम्; रक्षकं गृहं च

;

" उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् "

इत्युक्तत्वात् ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

अपि च

अ-सत्ताम् उच्छेत्तुं, प्रजनयितुम् ईश-प्रसदनं,
तमः क्षेप्तुं, तच् च प्रमिति-सुखम् उच्छृङ्खलयितुम्
अ-मार्गाद् आहर्तुं, पथि च पदम् आधातुम् - इह नस्
त्वद्-आदिष्टं शास्त्रं प्रभवति सकृद् भावितम् अपि ॥ २४ ॥+++(4)+++

मूलम् - २४

अपि च

असत्तामुच्छेत्तुं प्रजनयितुमीशप्रसदनं26

तमः क्षेप्तुं तच्चप्रमितिसुखमुच्छृङ्खलयितुम् ।

अमार्गादाहर्तुं पथि च पदमाधातुमिह न-

स्त्वदादिष्टं शास्त्रं प्रभवति सकृद्भावितमपि ॥ २४ ॥

प्रभावली - २४

X२३४
किच त्वदुपदिष्ट शास्त्रं श्रीभाष्यादि सकृत् चिन्तितमप्यनिष्टनिरासायेष्टप्राप्त्यै च भवतीत्याह–असत्तामिति । असत्तामुच्छेत्तुम्; असद्भावं निरसितुम् । " असन्नेव स भवति ” इति श्रुत्या पुरुषस्य सत्त्वासत्त्वयोः ब्रह्मज्ञानाज्ञानहेतुकत्वोक्त्या श्रीभाष्यस्य ब्रह्मज्ञानहेतुत्वात्तद्वारा असत्तामुच्छेत्तुं शक्नोतीत्यर्थः । ईशस्य भगवतः प्रसादं प्रजनयितुम, तथा अज्ञानं निरसितुम्, तत्त्वज्ञानसञ्जातं सुखं वर्धयितुम् । पथि ; मोक्षमार्गे । पदन्यासं कर्तुं च सकृच्छ्रतं श्रीभाष्यादि शास्त्रमेवालमित्यर्थः ॥ २४ ॥

प्रभाविलासः - २४

असत्तामिति । “ असन्नेव स भवति । असह्मेति वेद चेत् " इत्युक्तलक्षणामसत्प्रायताम् । तमः ; अज्ञानम् । पथि ; सन्मार्गे । शास्त्रम् ; श्रीभाष्यम् । सकृद्भावितम् ; सकृच्छ्रुतम् ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

तथा ऽपि
पारिप्लव+++(→चञ्चल)+++-मतिर् अहम्
इह किम् अप्य् अधिगत-प्रमुषितं+++(=विस्मृतम्)+++ पृच्छामि

गुरुः - किं तत् ?

शिष्यः-

आदिश्य, स्वयम् अन्यथा +++(अधर्म-सावकाशान् जीवान्)+++ नियमयन्न्, आप्तः +++(इति देवः)+++ कथं कल्पितः?
+++(इति पद्य-पादः)+++

गुरुः - अहो नु खलु सूक्ष्मार्थानुयोग-कुशलता ।

शिष्यः -

+++(कर्म-)+++सामग्री-वश–दुर्-निवार–वृजिने+++(=पापे)+++ शिष्टा निवृत्तिः कथम् ?
+++(इति पद्य-पादः)+++

गुरुः – तद् अपि27 सूक्ष्मात् सूक्ष्मतरम् अनुयुज्यते

शिष्यः-

+++(ईश्वर-)+++स्वेच्छा-भावित-दुष्कृतस्य च कथं दण्डः स्वयं पातितः ?

गुरुः-

त्रिष्व् अप्य् अत्र काचिद् अस्ति विहतिः कर्मोपधौ सावधौ ॥ २५ ॥

मूलम् - २५

तथापि पारिप्लवमतिरहमिह28 किमप्यधिगतप्रमुषितं पृच्छामि ।

गुरुः किं तत् ?
शिष्यः-

आदिश्य स्वयमन्यथा नियमयन्नाप्तः कथं कल्पितः १

गुरुः - ‘अहो29 नु खलु सूक्ष्मार्थानुयोगकुशलता30

शिष्यः —

सामग्रीवशदुर्निवारवृजिने शिष्टा निवृत्तिः कथम् ?

गुरुः – तदपि27 सूक्ष्मात्सूक्ष्मतरमनुयुज्यते ।
शिष्यः-

स्वेच्छाभावितदुष्कृतस्य च कथं दण्डः स्वयं पातितः ?

गुरुः-

त्रिष्वप्यत्र न काचिदस्ति विहतिः कर्मोपधौ सावधौ .॥ २५ ॥

प्रभावली - २५

पारिप्लवमतिः; चञ्चलचित्तः ।
किमपि रहस्यम् ।
X२३५
अधिगतं च तत् प्रमुषितं विस्मृतं च तत् ।

आदिश्येति ।
आदिश्य; धर्ममार्गम्; धर्म कुरु, अधर्मान् निवर्तस्वेति उपदिश्य ।
स्वयम् अन्यथा नियमयन्; स्वयमेव स्वोपदेश-विरुद्धं पुरुषान् नियमयन् पापाचरणे विनियोजयन् । कथम् आप्त इति कल्प्यते ?
अन्यथोपदिश्यान् यथा नियमयितुर् अनाप्तत्वात् ।

अनुयोग-कुशलता ; प्रश्नकौशलम् ।

सामग्री-वशान् निवारयितुम् अशक्ये पाप-विषये
कथं निवृत्तिः शिष्टा ? पापं मा कार्षीरिति निराकरणमीश्वरेण कथमनुशिष्यते ? अनुयुज्यते ; पृच्छ्यते ।

[[X२३६]]

ईश्वरेच्छया भावितं कृतं दुष्कृतं यस्य तस्य चेतनस्य स्वयमीश्वरेणैव दण्डः शिक्षा कथं पातितः विहितः ।

प्रश्नत्रयस्योत्तरमाह - त्रिष्वपीति ।
त्रिष्वपि प्रश्नेषु न काचिद् विहतिर् अस्ति, विरोधो नास्ति । कुतः ? त्रयाणां कर्मोपाधिकत्वात् कर्मणः सावधिकत्वाच्च ।

अयमत्र विवेकः -
ईश्वरः करण-कलेवर-प्रदान-समये
पुंसः कर्तृत्व-शक्तिम् अपि प्रयच्छति
तद्-दत्तया च तया
पुरुषो ज्ञान-चिकीर्षा-प्रयतनादि कुर्वन् वर्तते
ईश्वरोऽपि तत्-तत्-कर्मानुगुण
दुष्-कृत-विषय उपेक्षाम्,
सु-कृत-विषये ऽनुमन्तृत्वं च कुर्वन्
निग्रहानुग्रहौ करोति ।
यथोक्तं श्रीवरदाचार्यैः-

" आदाव् ईश्वर-दत्तयैव पुरुषः स्वातन्त्र्य-शक्त्या स्वयं
तत्-तज्–ज्ञान-चिकीर्षण-प्रयतनान्य् उत्पादयन् वर्तते
तत्रोपेक्ष्य तथानुमत्य विदधत् तन्-निग्रहानुग्रहौ
तत्-तत्-कर्म-फलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ॥ "

इति । तस्मादात्तस्याप्युपदेष्टुरीश्वरस्य तत्तत्कर्मानुगुणमुपेक्षानुमन्तृत्वरूपं नियमनमपि नानुपपन्नमिति प्रथमप्रश्नस्योत्तरम् । कर्मोपाधेरुत्तरावधिसहितत्वात् वृजिने निवृत्तिः शासितुं शक्येति द्वितीयप्रश्नस्योत्तरम् । न च शासनवैयर्थ्यम्, कर्माधीनत्वात् प्रवृत्तिनिवृत्त्योर्विधिनिषेधयोः पुण्यापुण्यफलत्वज्ञापनार्थत्वात् । तदुक्तम् - “श्रुतिस्मृतिर्ममैवाज्ञा " इति । पूर्वावधिरहितकर्मसहितैवेश्वेरेच्छा दुष्कृतं भावयतीति तृतीयप्रश्नस्योत्तरम्, अन्यथा वैषम्यनैर्घृण्यप्रसङ्गादिति । स्वयमन्यथा नियमनं पूर्वकर्मोपाधिना । कर्मोपाधेरुत्तरावधिसहितत्वात् निवृत्तिरपि शासितुं शक्यते । ईश्वरेच्छायाः पूर्वकर्मोपाधिसहितत्वात् पुंसि दण्डपातनमपि युक्तमेवेति त्रयाणां प्रश्नानां समाधानमिति ॥ २५ ॥

प्रभाविलासः - २५

पारिप्लवमतिः ; चञ्चलमतिः । " पारिप्लवः परिप्लव इत्येतौ वाच्य-
वञ्चलाकुलयोः” इति निघण्टुः । आदिश्येति । " श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लड़ध्य वर्तते " इत्यादिना विधिनिषेधशास्त्रस्य भगवदाज्ञारूपतया आदिश्येत्युक्तम् । “य आत्मानमन्तरो यमयति "

एष एवासाधु कर्म कारयति” इत्यादिश्रुत्या अन्यथा नियमयन्नित्युक्तम् । " पापकारी पापो भवति” इत्युक्तरीत्या सामग्रीवशेत्युक्तम् । “न कलञ्जं भक्षयेत् । न

। सुरा पिबेत्" इत्यादिना निवृत्तिः शिष्टेत्युक्तम् । चेतनाचेतनव्यापारस्य
सर्वस्यापीश्वरेच्छां विनानुत्पत्तेः स्वेच्छाभावितेत्युक्तम् । " यमधो निनीषति" इत्याद्यभिप्रायेण स्वयं पातित इत्युक्तम् । परिहरति— त्रिष्विति कर्मोपधाविति प्रथमतृतीययोः परिहारः । अन्यथा नियमनस्य तत्तत्कर्माधीनतया स्वस्यानुमन्तृतामात्रत्वात नोक्तदोष इत्यर्थः । अनेन " वैषम्य- नैर्घृण्ये न सापेक्षत्वात् " इति सूत्रार्थोऽभिप्रेतः । द्वितीय प्रश्नस्य सावधावित्यनेन परिहारः । कर्मणां सावधित्वेन पूर्वाघादीनां प्रायश्चित्तभोगादिना
X२३७

नाशे निवृत्तिशास्त्रानुसारेणोत्तराधानुत्पादे च सामग्र्या एवोच्छेदान्निवृत्तिशास्त्रं सप्रयोजनमिति भावः । एवं शिष्यसंशये निर्णयोपदेशात् विचारो नाम नाट्यालङ्कारः । " विचारः स हि विज्ञेयः संशये निर्णयस्तु यः इति लक्षणात् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

शिष्यः - ( सहर्षम् ) परिमित-गहन-गम्भीरम् इदं
पटु-मति-निर्धारणीयं भाषितं भगवतः ।
इदमेव सभा-सदः श्रावयामि -

इदम्-प्रथम-सम्भवत्–कु-मति-जाल–कूलङ्कषा
मृषा-मत-विषानल–ज्वलित-जीव-जीवातवः ।
क्षरन्त्य् अमृतम् अक्षरं यति-पुरन्-दरस्योक्तयश्
चिरन्तन-सरस्वती-चिकुर–बन्ध-सैरन्ध्रिकाः ॥ २६ ॥+++(4)+++

मूलम् - २६

शिष्यः - ( सहर्षम् ) परिमित गहन गम्भीरमिदं पटुमति-

निर्धारणीयं भाषितं भगवतः । इदमेव सभासदः श्रावयामि -

इदम्प्रथम सम्भवत्कुमतिजालकूलङ्कषा

मृषामतविषानलज्वलितजीवजीवातवः ।
क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तय-

श्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥ २६ ॥

प्रभावली - २६

सहर्षमिति ; कृतप्रश्नानामुत्तरदानात् । परिमितत्वात् गहनम्, अल्पमतिभिर्दुरवगाहम् । गम्भीरं च ; सूक्ष्मबुद्धिभिर्ज्ञेयार्थं च । इदमेव भगवतो भाषितमेकम् । सभासदः; सभ्यान् । इदमिति । इदंशब्देनाद्यतनः काल उच्यते । स एव प्रथमदिवसो यस्मिन् कर्मणि तथा, सम्भवत् इदानीन्तनं यत् कुमतिजालं बाह्यकु-

X२३८
दृष्टीनां जालं, तस्य कूलङ्कषाः उन्मूलनं कुर्वन्तः ; आधुनिककुमतिमतजालोत्पाटन- समर्था इत्यर्थः । मृषामतम् ; मायावादः ; स एव विषानलः, तेन ज्वलितानां जीवानां जीवातवः जीवनौषधानि । चिरन्तनसरस्वत्यः वेदवाचः, तासां चिकुरबन्धः कुन्तलबन्धः ; उपनिषद इत्यर्थः ; तस्य सैरन्धिकाः ; अलङ्कर्यः । यति- श्रेष्ठस्योक्तयः श्रीभाष्यादयः । अक्षयममृतं मोक्षं क्षरन्ति स्रवन्ति ; ददतीत्यर्थः ।

; पीयूषपक्षे श्रोत्रयोरिति शेषः ॥ २६ ॥

प्रभाविलासः - २६

इदम्प्रथमेति । इदं प्रथमं नूतनं यथा भवति तथा सम्भवतां कुमतीनां जालस्य कूलङ्कषाः बाधकाः । मृषामतेनैव विषानलेन ज्वलितानां
जीवानां जीवातवः जीवनौषधानि । “जीवातुजींवनौषधम् " इति निघण्टुः । अमृतम् ; मोक्षम् । चिरन्तन सरस्वत्याः त्रय्याः चिकुरबन्धसैरन्धिकाः प्रसाधन कारिकाः । " सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका" इति निघण्टुः । अनेन तैस्तैः कुदृष्टिभिः स्वदर्शनानुसारेणार्थ वैविध्यवर्णनेन व्याकुलितस्य वेदान्तजातस्य समीचीनार्थकथनेनाव्याकुलितत्वमुक्तम् । अत्र सरस्वतीति स्त्रीलिङ्गेनालम्बन विभावश्चिकुरबन्धेत्यालम्बनगुणश्चोक्त इति शृङ्गाररसो व्यङ्ग्यः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

अपि च,

चिन्ता-शेष–दुर्-अर्थ–दन्तुर-वचः–कन्था-शत-ग्रन्थिलाः
सिद्धान्ता न समिन्धते यति-वर–ग्रन्थानुसन्धायिनि ।
मुक्ता-शुक्ति-विशुद्ध–सिद्ध-तटिनी+++(→गङ्गा)+++–चूडाल-चूडा-पदः
किं कुल्यां कलयेत खण्ड-परशुर्+++(=रुद्रः)+++ मण्डूक-मञ्जूषिकाम् ॥ २७ ॥+++(4)+++

मूलम् - २७

अपि च,

चिन्ताशेषदुरर्थदन्तुरवचः कन्थाशतग्रन्थिलाः

सिद्धान्ता न समिन्धते यतिवरग्रन्थानुसन्धायिनि ।
मुक्ताशुक्तिविशुद्ध31 सिद्धतटिनीचूडालचूडापदः

किं कुल्यां कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥ २७ ॥

प्रभावली - २७

गुरु-ग्रन्थान् पुनर् अपि प्रकारान्तरेण स्तौति — अपिचेत्यादि ।
चिन्तैव शिष्यते येषु तानि चिन्ताशेषाणि,
न तु स्वार्थज्ञानजनकानि ।
दुरर्थैः दुष्टाः दन्तुराणि विषमाणि ।
तानि वचः कन्थाशतानि ; ततस्तत आहृत्य ग्रथिता

X२३९
कन्था
वचांस्यपि ततस्ततोऽपहृत्य निवेशितानीति भावः ।
तैः ग्रन्थिलाः सञ्जातग्रन्थयः । सिद्धान्ताः ; इतरसिद्धान्ताः ।
यतिवरग्रन्थानुसन्धायिनि ; श्रीभाष्याद्यनुसन्धानवति पुंसि । न समिन्धते ; प्रबन्धतया न शोभन्त इत्यर्थः ।
दृष्टान्तमाह —
मुक्ताशुक्तिभिः विशुद्धा या सिद्धतटिनी गङ्गा, तया चूडालं सञ्जात- चूडं, चूडापदं शिरो यस्य सः । खण्डपरशुः ; रुद्रः । मण्डूकमञ्जूषिकाम् ;

X२४०

भेकपेटिका-भूताम् ।
कुल्याम्; अल्पाम् कृत्रिम-सरितम् ।
कलयेत ; सिन्धुत्वेन गणयेत किमित्यर्थः ॥ २७ ॥

प्रभाविलासः - २७

चिन्ताशेषेति । चिन्तैव शेषो येषां तानि; न तु तत्त्वार्थज्ञान-
जनकानीत्यर्थः । दुरर्थानि च दन्तुराणि च वचांसि तान्येव कन्थाशतानि, तैर्ग्रन्थिला ग्रन्थियुक्ताः । मुक्ताशुक्तिवद्विशुद्धया सिद्धतटिन्या आकाशगङ्गया चूडालमवतंसितं चूडापदं शिरो यस्य सः । खण्डपरशुः ; शिवः । मञ्जुषिकाम्; पेटिकाम् । कुल्या; अल्पा कृत्रिमा सरित् । चिन्ता - शेषेत्यधिकरण विषयवाक्य संशयानां प्रायो वैरूप्यमुक्तम्, निष्फलत्वं वा । दुरर्थेति पूर्वपक्षसिद्धान्तयोरप्रमाणमूलत्वमुक्तम् । दन्तुरेति तत्रापि कुटिल- कुदृष्टिकल्पनोक्तिः । वचः कन्थेति व्याख्यानव्याख्येयापदेशेन चतुष्पञ्च- ग्रन्थशबलितत्वेन दुःशब्दत्वोक्तिः । तस्या व्यापित्वं वक्तुं शतेत्युक्तिः । तत्र च दुरर्थातिसङ्कटरचनमभिप्रेत्य ग्रन्थिला इत्युक्तम् ।
विवरण-वाचस्पत्यसुरेश्वरवार्तिकानामेककर्तृकमतव्याख्यानप्रवृत्तावपि परस्पर विहतैका- विद्यानानाविद्यादिभेदेन प्रस्थानभेदात् सिद्धान्ता इत्युक्तिः । अनुसन्धायिनि अध्ययनपाटववति । न समिन्धते ; न स्वाद्या भवन्तीत्यर्थः । अत्र सर्वत्र भाष्यकार शिष्यादिविषयकरतिः प्रतिश्लोकं प्रतीयत इति भावध्वनिभेदा द्रष्टव्याः ॥ २७ ॥

शास्त्र-वाह्य-गुण-स्पर्शि-प्रत्याख्यानम्

विश्वास-प्रस्तुतिः - २८

भगवन्, अ-परिमित-बहु-मतावष्टब्धे जगति
परिमितम् एतद् भवन्-मतम् इति
पारिषद-पार्श्व-वर्तिनः32 केचित् प्रलपन्ति
प्रतिवदामि तावद् एतान् ।
(परिवृत्याक्लोक्य च ) भो भो देवानाम्-प्रियाः,

कु-मति-विहित-ग्रन्थ–ग्रन्थि–प्रभूत-मतान्तर-
ग्रहिल-मनसः पश्यन्त्व् अल्पां यतीश्वर-भारतीम् ।
विकट–मुर-भिद्–वक्षः-पीठी–परिष्करणोचितः
कुल-गिरि-तुला-रोहे भावी कियान् इव कौस्तुभः ॥ २८ ॥+++(5)+++

मूलम् - २८

भगवन्, अपरिमितबहुमतावष्टब्धे जगति परिमितमेतद्भवन्मतमिति पारिषदपार्श्ववर्तिनः32 केचित्प्रलपन्ति । प्रतिवदामि तावदेतान् । (परिवृत्याक्लोक्य च ) भो भो देवानाम्प्रियाः,

कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर-

ग्रहिलमनसः पश्यन्त्वल्पां33 यतीश्वरभारतीम् ।

विकटमुरभिद्वक्षः पीठीपरिष्करणोचितः

कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ २८ ॥

प्रभावली - २८

बहुमतानि; बहूनि दुर्मतानि ; तैः आक्रान्ते जगति । भवन्मतमिति ; लक्ष्मणार्यमतमिति । देवानाम्प्रियाः; अजाः, अजसदृशाः । कुमतीति ; कुमतिभिः विहिताः ग्रन्था एव ग्रन्थयः तैः प्रभूतानि महत्तराणि तेषु मतान्तरेषु प्रहिल-

X२४१
""

मनसः बद्धहृदयाः । अल्पां पश्यन्ति; अल्पत्वादसमीचीनमिदं मतमिति मन्यन्त इति भावः । महत्त्वाल्पत्वे सम्यक्त्वासम्यक्त्वयोर्न प्रयोजके, तथा अदर्शनादित्याह — विकटेति । परिष्करणोचितः कौस्तुभमणिः कुलगिरिणा समं तुलायामारोहणे कियानिव भावी; न किचिदपि । तदप्याकारतोऽतिसूक्ष्मत्वेऽपि कौस्तुभस्य श्लाध्यता कुलगिरेः किमस्तीति भावः ॥ २८ ॥

प्रभाविलासः - २८

अपरिमितेत्यादि । एतान् प्रतिवदामीत्यनेन विमाननं नाम प्रतिमुखसन्धेरङ्गमुक्तम्, " अनिष्टवस्तुविक्षेपो विमाननमितीर्यते " इति लक्षणात् । कुमतीति । कुमतिभिः शङ्करादिभिर्विहिता ग्रन्था एव ग्रन्थयः, ताभिः प्रभूतेषु प्रचुरेषु मतान्तरेषु ग्रहिलमनसः संलग्नमनसः । न च महत्त्वाल्पत्वयोर्गुणदोषप्रयोजकत्वमित्याह — विकटेति । विकटायाः विस्तृतायाः मुरभिद्वक्षः पीठ्याः परिष्करणे अलङ्करणे उचितः । कुलगिरिः ; मन्दराद्रिः ; तेन तुलारोहे । ग्रहिलमनस इत्यल्पत्वदर्शने हेतुर्दोष

उक्तः ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

अपि च-

स्थविर-निगम-स्तोम-स्थेयां यतीश्वर-भारतीम्
कु-मति-भणिति–क्षोभ-क्षीबाः क्षिपन्तु भजन्तु वा ।
रस-परिमल–श्लाघा-घोष–स्फुटत्–पुट+++(=आवरण)+++-भेदनं
लवण-वणिजः कर्पूरार्धं किम् इत्य् अभिमन्वते ॥ २९ ॥

मूलम् - २९

अपि च-

स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीम्34

कुमतिभणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा ।

रसपरिमल श्लाघाघोषस्फुटत्पुटभेदनं

लवणवणिजः कर्पूरार्धं किमित्यभिमन्वते ॥ २९ ॥

प्रभावली - २९

ननु भगवन्मतपरिग्रहीतारो विरला इत्यत आह - स्थविरेति । स्थविराः ; पुराणा ये निगमाः । निगमशब्देन वेदान्ता विवक्षिताः । तत्स्तोमस्य स्थेया; विवादपदनिर्णेत्री, तां यतीश्वरभारतीम् । कुमतीनां ग्रन्थः यो मनःक्षोभः, तेन मत्ताः पुमांसः क्षिपन्तु धिक्कुर्वन्तु वा ; भजन्तु वा । भजने यथा गौरवं नास्ति, तथा क्षेपणेsपि लाघवं नास्तीति भावः । उक्तमर्थ दृष्टान्तेन द्रढयति-रसेति ।

X२४२
रसश्च परिमलश्च कर्पूरसम्बन्धिनौ, तयोः श्लाघाघोषेण स्फुटद्विदीर्ण पुटभेदनं पत्तनं यस्य । पत्तनं भिन्नं यथा भवति तथोच्चैः श्लाघ्यमान-रस-परिमलवदित्यर्थः । कर्पूरस्या मूल्यम् । लवणवणिजः ; लवणक्रेतारः । इति ; इत्थमिति । किमभिमन्वते; न जानन्तीत्यर्थः । रसपरिमलधर्मोऽर्घ उपचरितः । यथा लावणिकस्य कर्पूरश्लाघ्यत्वाज्ञानं कर्पूरस्य न दोषावहं, तथा भयमप्यपरिग्रहस्तेषामेव दोषाय, नास्मन्मतस्येति भावः ॥ २९ ॥

प्रभाविलासः - २९

स्थविरेति । स्थविरनिगमानां वेदानां स्तोमेन स्थेयां स्थिराम् । यद्वा स्थविरनिगमस्तोमानां स्थेयां परस्परविरोधं परिहृत्यार्थनिर्णयं कुर्वतीं विवादपद निर्णेत्रीम् " विवादपद निर्णेता स्थेयः " इति काशिकाकारोक्तेः । क्षीबाः ; मत्ताः । रसपरिमलयोः श्लाघाया घोषेण स्फुटत् भिद्यत् पुटभेदनं पत्तनं यस्य तम् । कर्पूरार्घम् ; कर्पूरमूल्यम् । “मूल्ये पूजाविधावर्घः”

इत्यमरः ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

( आकाशे कर्णे दत्वा )
किं ब्रूथः? नवीनम् एतद् भगवतो मतम् इति ।
(सहस्तास्फालनं विहस्य )

किञ्चित् केनापि दृष्टं प्रतिहत-विषयं, तेन तत् +++(मतम् उपात्तम्)+++, ते च +++(मते)+++ तैस् तैर्
द्वे चोपादायिषातां+++(=स्वीकृते भवतः)+++, द्वितयम् अपि सद् इत्य् अप्रमत्तो न वक्ता
इत्थं सत्य् एक-भक्तैर् +++(यदृच्छया)+++ इतर-परिहृतौ न व्यवस्थान-सिद्धिः
प्रत्येतव्यं तद् अर्थ्यं पटुतर-मतिभिः प्राक्तनं नूतनं वा ॥ ३० ॥

मूलम् - ३०

( आकाशे कर्णे दत्वा ) किं ब्रूथः नवीनमेतद्भगवतो मत-

मिति । (सहस्तास्फालनं विहस्य )

किञ्चित्केनापि दृष्टं प्रतिहतविषयं तेन तत्ते च तैस्तैर्
द्वे चोपादायिषातां द्वितयमपि35 सदित्यप्रमत्तो न वक्ता ।
इत्थं सत्येकभक्तैरितरपरिहृतौ न व्यवस्थान सिद्धिः

प्रत्येतव्यं तदर्थ्यं पटुतरमतिभिः प्राक्तनं नूतनं वा ॥ ३० ॥

प्रभावली - ३०

अत्र नवीनमेतत् भगवन्मतमिति कैश्चिदुपांशूक्तम् । तत्र कर्णे दत्वा ; तच्छ्रुत्वा । शिष्य आह—– किं बूथ; नवीनमेतद्भगवतो मतमिति किमुच्यते ? सहस्तास्फालनं विहस्योच्चैराह किञ्चिदिति ।

यत्किचिज्ज्ञानं येन केनापि पुंसा यत्र कुत्रचिदुपाधौ दृष्टं, तज्ज्ञानं तेनैव पुंसा तत्रैव बाधितविषयं दृष्टम् । तैस्तैर्वादिभिस्ते द्वे च ज्ञाने उपादायिषाताम् ; स्वीकृते भवतः । द्वितयम्; उभयमपि ज्ञानं सत् प्रामाणिकमिति अप्रमत्तो न वदति । इत्थं सति ; उभयज्ञानसाधुत्वस्य
वक्तुमशक्यत्वे सति । एकभक्तैः ; एकस्मिन् यत्रकुत्रचिद्भक्तिमद्भिः अङ्गीकारवद्भिः । इतरस्य यस्य कस्यापि परिहर्तव्यत्वे सति । व्यवस्थानम् ; नियमः । नियमो न सिध्यतीत्यर्थः ।
कदाचिद्वाधितं वा परिगृहीतं स्यात्, अबाधितं वा ।
अबाधितमेव परिग्राह्यमिति नियमो न स्यात् ।
तत्; तस्मात् । अर्थ्यम्; अर्थादनपेतम् ।
अबाधितार्थं यज्ज्ञानं तत् प्राक्तनं पुराणं नूतनं वा भवतु ।
तदेव प्रत्येतव्यम् ; विश्वसितव्यं परिग्रहे । पटुतरमतिभिः ; युक्तिचतुरैः ॥ ३० ॥

प्रभाविलासः - ३०

किञ्चिदिति । किञ्चिन्मतं केनापि केनचिन्मतेन प्रतिहतविषयं बाधितप्रतिपाद्यं दृष्टम् । तेन प्रतिहतेन मतेन । तच्च प्रतिघातकं मतं प्रतिहतविषयम् । ते च मते ते एव मते । तैस्तैः ; मतैः । द्वे च मते उपादायिषाताम् ; स्वीकृते भवतः । अप्रमत्तः ; बुद्धिविपर्यासरहितः । द्वितयमपि सदिति न वक्ता न वदिष्यति । इत्थं सति साधुत्व-
स्योभयत्रापि वक्तुमशक्यत्वे सति । एकभक्तैः ; उभयोरेकतराभिनिवेशबद्भिः । इतरपरिहृतौ न व्यवस्थानसिद्धिः ; व्यवस्थानं न सिध्यती त्यर्थः । तत् तस्मात्कारणात् । अर्थ्यम् ; अर्थादनपेतम् । प्राक्तनं नूतनं वा प्रत्येतव्यम् ; प्रामाणिकैः स्वीकर्तव्यम् । तदुक्तम्-

पुराणमित्येव न साधु सर्वे न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥”

इति ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

किञ्च ;

तदात्वे नूतनं सर्वम्
आयत्यां +++(कालवेलायाम्)+++ च पुरातनम् । न दोषायैतद् उभयं
न गुणाय च कल्पते ॥ ३१ ॥

मूलम् - ३१

किञ्च ;

तदात्वे नूतनं सर्वमायत्यां च पुरातनम् ।

न दोषायैतदुभयं न गुणाय च कल्पते ॥ ३१ ॥

प्रभावली - ३१

यद्यवश्यं पुराणस्यैव साधुत्वमङ्गीक्रियते, तर्हि पुराणस्यापि निर्माणकाले नूतनत्वादपरिग्राह्यतैव स्यादित्याशयेनाह —तदात्व इति । तदात्वे ; तस्मिन्

X२४४
काले, निर्माणकाल इत्यर्थः । सर्वमपि वस्तु नूतनं भवति । आयत्याम्; उत्तरकाले सर्वमपि पुरातनम् । अत एतदुभयं नूतनपुरातनत्वरूपं दोषहेतुरपि न, गुणहेतु रपि न ॥ ३१ ॥

प्रभाविलासः - ३१

नूतनत्वपुरातनत्वयोः कालोपाधिकतया ‘इदमेव नूतनम् ’ इति न व्यवस्थितमित्याह — तदात्व इति । तदात्वे ; तदानीम् । आयत्याम् ; उत्तरकाले ॥ ३१ ॥

शास्त्र-स्पर्शि-प्रत्याख्यानाभावः

विश्वास-प्रस्तुतिः - ३२

गुरुः – भद्र, किम् एतैः किम्-पचानैः ?
अपरे पुनर् अर्थ-संस्पर्श-दोष-वादिनः प्रतिक्षिप्यन्ताम् ।

शिष्यः - भगवन्, निरस्त-निखिल-दोष-गन्धे भगवन्-मते
कथम् अर्थ-संस्पर्शिनो दोषाः स्वप्ने ऽपि केनचिद् उद्भाव्येरन्36 ?
इह हि -

श्रुति-श्रेणी-चूडा-पद–बहु-मते लक्ष्मण-मते
स्व-पक्ष-स्थान् दोषान् वितथ-मतिर् आरोपयति यः । स्व-हस्तेनोत्क्षिप्तैः स खलु निज-गात्रेषु बहुलं
गलद्भिर् जम्बालैर् गगन-तलम् आलिम्पति जडः ॥ ३२ ॥+++(5)+++

मूलम् - ३२

गुरुः – भद्र, किमेतैः किम्पचानैः ? अपरे पुनरर्थसंस्पर्श- दोषवादिनः प्रतिक्षिप्यन्ताम् ।

शिष्यः - भगवन्, निरस्तनिखिलदोषगन्धे भगवन्मते कथ- मर्थसंस्पर्शिनो दोषाः स्वप्नेऽपि केनचिदुद्भाव्येरन्36 ? इह हि -

श्रुतिश्रेणीचूडापदबहुमते तावकमते.37

स्वपक्षस्थान्दोषान्वितथमतिरारोपयति38 यः ।

स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं

गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ३२ ॥

प्रभावली - ३२

कुमति-विहितेत्य् आरभ्य चतुर्भिः श्लोकैः शास्त्रमात्र-स्पर्शिदोषवादिनो निरस्ताः । इदानीं शास्त्रप्रतिपाद्यार्थस्पर्शिदोषवादिनो निरसनीया इत्याह- किमेतैरिति । किम्पचानाः ; क्षुद्राः । अन्ये पुनः; शास्त्रार्थविषयदोषवादिनः । इह हि ; भवन्मते । श्रुतिश्रेणीति । श्रुतिश्रेण्याः चूडापदानि उपनिषदः ; तत्र बहुमते पूजिते भवन्मते स्वपक्षे दृष्टान् दोषान् वितथमतिः; वेदान्तमतस्य दूषितत्वाभावात् व्यर्थमतिः । यः कश्चिद्वादी आरोपयति ; आरोप्य दूषयितुमिच्छति ।
जडः स्वहस्तेनोत्क्षिप्तैः । निजगात्रेषु ; निजपक्षेष्विति गम्यते । बहुलमापतद्भिः जम्बालैः पङ्कैः गगनतलं स्वतो निर्मलमा लिम्पति खलु । आलेप्तुमिच्छति । न च तत्कार्यकरं भवति ; कितु स्वोपर्येव पततीत्यर्थः ॥ ३२ ॥

प्रभाविलासः - ३२

किम्पचानैः; क्षुद्रैः । श्रुतीति । वितथमतिः; मिथ्यादृष्टिः । स्वमते लग्नानि दूषणानि लक्ष्मणमते आरोपयितुमशक्यानीति धिया निजगात्रेष्वित्युक्तम् । जम्बालैः ; पङ्कैः ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

किञ् च, अभञ्जनीयः खल्व् अयम् अ-शेषैर् अपि भगवत्-सिद्धान्तः । इह किल मोघ-प्रलापा एव मूढाः प्रतिवावदूकाः ।

निमीलयतु लोचने न हि तिरस्-कृतो भास्करः
श्रवः स्थगयतु स्थिरं पर-भृतः किमु ध्वाङ्क्षति । स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः
कद्-अर्थयतु मुष्टिभिः कथय किं नभः क्षुभ्यते ॥ ३३ ॥ +++(5)+++

मूलम् - ३३

किञ्च, अभञ्जनीयः खल्वयमशेषैरपि भगवत्सिद्धान्तः । इह

किल मोघप्रलापा एव मूढाः प्रतिवावदूकाः ।

निमीलयतु लोचने न हि तिरस्कृतो भास्करः

श्रवः स्थगयतु स्थिरं39 परभृतः किमु ध्वाङ्क्षति ।

स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः

कदर्थयतु मुष्टिभिः कथय किं नभः क्षुभ्यते ॥ ३३ ॥

प्रभावली - ३३

मोघप्रलापाः ; व्यर्थदूषणरूपप्रलापाः, प्रतिवादिन इत्यर्थः । एतदेव दूषणैरभञ्जनीयत्वं दृष्टान्तैर्दृढीकरोति — निमीलयत्विति । भास्कर तिरस्करण - बुद्ध्या स्वलोचने निमीलयतु कश्चित् । भास्करस्तेन न तिरस्कृतो भवति । कोकिले काकबुद्ध्या स्वश्रोत्रे कराभ्या स्थिरं स्थगयतु भाच्छादयतु । तेन परभृतः कोकिलः ध्वाङ्क्षति किम् ? काकवद्भवति किम् ? बालिशः मूर्खः

X२४६
कश्चित् भूभ्रमणबुद्ध्या स्वयमेव भ्रमतु । तेन क्षितिर्न खलु भृशं भ्राम्यति । कश्चि- न्नभश्चूर्णीकरणबुद्ध्या नभो मुष्टिभिः पीडयतु । तेन कि नभः क्षुभ्यते ॥ ३३ ॥

प्रभाविलासः - ३३

X२४५

निमीलयत्विति । निमीलयतु; जगति तमः स्तादिति धियेति गावः । न तिरस्कृतः तावता जगति न तम इति भावः । श्रवः नोत्रं स्थिरं स्थगयतु; दृढमाच्छादयतु । स्थग आच्छादने " इति तुः । कोकिलालापस्य श्रोतुमनर्हताबुद्धयेति भावः । ध्वाङ्क्षति ध्वाङ्ङ्क्षवदाचरति ; काको भवति किमु । स्वयं भ्रमत सर्वक्षितिभ्रमणभ्रान्त्येति भावः । कदर्थयतु पीडयतु ॥ ३३ ॥

विवेक-व्यवसाय-प्रशंसा

विश्वास-प्रस्तुतिः - ३४

गुरुः - सूनृतमेव सौम्य भाषसे
अद्य खलु सर्व-प्रति-कथक-समापन-प्रवृत्तस्य40 ते
सभापतिं सभ्यं च विमृशामि ।
( इति ध्यानम् अभिनयति )

राजा – सेना-पते, अयम् इहास्मद्-उपसर्पणावसरः ।

सेनापतिः - मह्यम् अपि रोचते महाराजस्य मनीषितम् ।

(उभाव् उपसर्पतः)41

शिष्यः – सन्निहितः खलु भगवन्, सभापतिः सेनापति-द्वितीयः42

गुरुः - ( परिवृत्यावलोक्य स-हर्ष-बहुमानम् )

उदितः सहसा स एष काले
व्यवसायातप-सेवितो विवेकः । विनिवर्तयति स्वयं प्रजानां
विचिकित्सा-रजनीं विलुप्त-बोधाम् ॥ ३४ ॥

मूलम् - ३४

गुरुः - सूनृतमेव सौम्य, भाषसे । अद्य खलु सर्वप्रति- कथकसमापनप्रवृत्तस्य40 ते सभापतिं सभ्यं च विमृशामि ।

( इति ध्यानमभिनयति )

राजा – सेनापते, अयमिहास्मदुपसर्पणावसरः ।

सेनापतिः - मह्यमपि रोचते महाराजस्य मनीषितम् ।

(उभावुपसर्पतः)41

शिष्यः – सन्निहितः खलु भगवन्, सभापतिः सेनापति -

द्वितीयः42

गुरुः - ( परिवृत्यावलोक्य सहर्षबहुमानम् )

उदितः सहसा स एष काले व्यवसायातपसेवितो विवेकः ।

विनिवर्तयति स्वयं प्रजानां विचिकित्सारजनीं विलुप्तबोधाम् ॥ ३४ ॥

प्रभावली - ३४

सूनृतम् ; सत्यं प्रियं च । समापनम् ; निरासः । सभापतिः ; राजा । सभ्यः; जयापजययोः सम्भावनादण्डविधायकः । उभौ ; सभ्यसभापती उपसर्पतः । सन्निहितः खल्वित्यादि वदति शिष्यः । परिवृत्य; समन्तत इत्यर्थः । स्वयमुपसर्पणात् हर्षः ; राजनि बहुमानश्च । उदितः ; दर्शनं प्राप्तः । सहसा ;
अतर्कितम् । व्यवसाय एवातपः । विचिकित्सा सन्देह एव रात्रिः, ताम् । कीदृशीम् ? विलुप्तनिश्चयज्ञानाम् ॥ ३४ ॥

प्रभाविलासः - ३४

सूनृतम् ; सत्यं प्रियं च । उदित इति । स एषः स एवायं सूर्यः । विलुप्तबोधाम् ; प्रतिबद्धवस्तुनिश्वयाम् । अत्र विचिकित्सोपशम-
X२४७

कथनेन प्रतिमुखसन्धेः शमो नामाङ्गं निरूपितम्, " अरत्युपशमः शमः " इति लक्षणात् ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

अयं च–

विवेकस्य गुण-श्रेयान्
व्यवसायश् चमूपतिः । स्व-पक्षे +++(विवादे)+++ तिष्ठमानेभ्यः
स्वयम् आगत्य तिष्ठते ॥ ३५ ॥

मूलम् - ३५

अयं च–

विवेकस्य43 गुणश्रेयान् व्यवसायश्चमूपतिः ।

स्वपक्षे तिष्ठमानेभ्यः स्वयमागत्य44 तिष्ठते ॥ ३५ ॥

प्रभावली - ३५

अयं च ; व्यवसायश्च । गुणैः श्रेष्ठः विवेकस्य सेनापतिः, स्वपक्षे तिष्ठमानेभ्यः - तिष्ठतेर् आत्मनेपदम् ॥ ३५ ॥

प्रभाविलासः - ३५

विवेकस्येति । तिष्ठमानाः ; विवादनिर्णयायात्मानं प्रकाशयन्तस् तिष्ठन्तः, तेभ्यः । तिष्ठतेः आत्मानं प्रकाशयंस् तिष्ठति ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

राजा - ( स-विनयम् ) 45
उचितम् उपचरति विवेक इह स-सेना-पतिर् भगवन्तम् ।

गुरुः - महाराज, सर्वत्र कुशली भूयाः । अपि च -

शाक्यौलूक्य+++(=काणादाः)++++आक्ष-पाद+++(=नैयायिक)+++–क्षपणक -कपिल+++(=साङ्ख्य)++++अमर्त्य-वन्द्य+++(=बृहस्पति)+++–प्रधानैर्
अन्यैर् आम्नाय-चर्चा-कवच-धृति-कनद्–गो-मुख–द्वीपिभिश्+++(=व्याघ्रैश्)+++ च ।
बंहीयः+++(=बहुलः)+++ क्षोभिता ऽपि श्रुतिर् इह बहुधा जायमानेन गोप्त्रा,
काले काले ऽभिगुप्ता कलहम् अतितरन्त्य् अक्षता46 रक्षतात् त्वाम् ॥ ३६ ॥

मूलम् - ३६

राजा - ( सविनयम् ) 45 उचितमुपचरति विवेक इह ससेना-

पतिर्भगवन्तम् ।

गुरुः - महाराज, सर्वत्र कुशली भूयाः । अपि च -

शाक्यौलूक्याक्षपादक्षपणक कपिलामर्त्यवन्द्यप्रधानै-

रन्यैराम्नायचर्चाकवचधृतिकनद्गोमुखद्वीपिभिश्च ।
बंहीयः 47 क्षोभितापि श्रुतिरिह बहुधा जायमानेन गोप्त्रा,

काले कालेऽभिगुप्ता कलहमतितरन्त्यक्षता46 रक्षतात्त्वाम् ॥ ३६ ॥

प्रभावली - ३६

उचितं; योग्यम् । ससेनापतिर्विवेकोऽयं राजा । सर्वत्र ; इहामुत्र च । शाक्येति । शाक्याः बौद्धाः । औलूक्याः ; काणादाः ; पशुपतिरुलूको भूत्वा

X२४८

कणादाय वैशेषिकमतमुपदिदेशेति प्रसिद्धिः । आक्षपादाः ; नैयायिकाः । क्षपणकाः ; जैनाः । कापिलाः ; साङ्ख्याः । अमर्त्यवन्द्यः ; बृहस्पतिः ; तन्मतनिष्ठा उच्यन्ते । एते प्रधाना येषां तैः हिरण्यगर्भादिभिः । उक्ता एते बाह्याः । अथ कुदृष्टीनाह— अन्यैरित्यादि । आम्नायचर्चा मीमांसैव कवचं, तस्य धृत्या धारणेन, कनन्तः प्रकाशमानाः गोमुखद्वीपिनः ; गोमुखमिव मुखं येषां ते च द्वीपिनः गोमुखव्याघ्राः । तेषां गोमुखत्वात् गावो विश्वस्य तत्समीपमायान्ति; ता हिंसन्ति व्याघ्रत्वात् । वैदिकभ्रान्त्या समाश्रितानेतेऽपि हिसन्ति । ते च भट्टप्रभाकर मतानुवर्तिनः प्रच्छन्नबौद्धाः । उक्तैरेतैः बह्वी ( बंहि ) यः बहु (ल) तर क्षोभं प्राप्तापि श्रुतिः इह जगति बहुधा जायमानेन अनेकधावतरता त्वां चिद- चिदीश्वरतत्त्वविवेकम् अक्षतं यथा तथा रक्षतात्तद्द्वारा वेदस्य रक्षणं, तत्काले बादरायणदत्तात्रेयादिरूपेण, गुप्ता श्रुतिः कलहं दुष्टसिद्धान्तैः सह कलहम -
तिक्रामति । अत्र " अजायमानो बहुधा विजायते " " परित्राणाय साधूनाम् C काणादशाक्यपाषण्डैः" इत्यादिकमनुसन्धेयम् ॥ ३६ ॥

प्रभाविलासः - ३६

शाक्येति । शाक्याः बौद्धाः । औलूक्याः ; काणादाः । आक्ष- पादाः ; नैयायिकाः । क्षपणकः; जिनः । अमर्त्यवन्धः ; बृहस्पतिः ।
;;

स हि लोकायतमतं प्रवर्तयामास । अन्यैः; भट्टगुरुमुरारिप्रभृतिभिः । आम्नायः ; वेदः । स्यादाम्नायः सम्प्रदाये कुलेऽध्ययनवेदयोः इति निघण्टुः । द्वीपिनः ; व्याघ्राः । बह्वी (बंही) यः ; बहु (ल) तरम् । बहुधा जाय-

मानेन ; मत्स्यहयग्रीवादिरूपेण प्राप्तावतारेण । गोप्त्रा; रक्षकेण विष्णुना,

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।

रक्षकः सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥

इति स्मरणात् । अक्षता ; कुत्रचिदपि क्षतिमप्राप्ता । श्रुतिस्त्वां रक्षतात् ; रक्षतु । अत्र, " परित्राणाय साधूनाम्" इत्याद्युक्तप्रयोजनत्रयं द्रष्टव्यम् ।
X२४९

अत्र श्लोके बहुधा जायमानेनेत्यादिना भगवत्प्रभावख्यापनेन तत्रत्य श्रुतिविषयकरतिप्रतीतेः प्रेयोऽलङ्कारः, प्रेयः प्रियतराख्यानम्" इति लक्षणात् ॥ ३६ ॥

वादम् प्रत्य् आदेशः

विश्वास-प्रस्तुतिः - ३७

राजा - भगवन्,
अद्य खलु भगवद्-अवलोकनाद् एव सम्मुखी-कृत-सकल-मङ्गलानाम् अस्माकम्
अधिको ऽयम् आशीर्वादः ।

गुरुः - राजन् विमर्श-काले48 सु-चरित-वशात्49
सेनापति-सेवितः सन्निहितोऽसि
तद् आदिश्यताम् अयम् अन्तेवासी
समीहित-समर्थनाय सदसस्-पतिना महाराजेन ।

राजा - अत्र भवद्-अभिप्रेतम् आदिशामि
( शिष्यमवलोक्य)
सौम्य50 ब्रह्मन्
सम्यग् उपसन्नो ऽसि
सर्व-विदं भगवन्तम् । इह च—

स्वयं त्रय्य्-अन्त-सिद्धान्तो
विभाति गुरुर् एष ते ।
प्रभुः प्रवदतां यो ऽभूत्
स वादस् त्वं मतो51 मम ॥ ३७ ॥

मूलम् - ३७

राजा - भगवन्, अद्य खलु भगवदवलोकनादेव सम्मुखी- कृतसकलमङ्गलानामस्माकमधिकोऽयमाशीर्वादः ।

गुरुः - राजन् विमर्शकाले48 सुचरितवशात्49 सेनापति सेवितः सन्निहितोऽसि । तदादिश्यतामयमन्तेवासी समीहितसमर्थनाय सदसस्पतिना महाराजेन ।
राजा - अत्र भवदभिप्रेतमादिशामि । ( शिष्यमवलोक्य) सौम्य50 ब्रह्मन् सम्यगुपसन्नोऽसि सर्वविदं भगवन्तम् । इह च—

स्वयं त्रय्यन्तसिद्धान्तो विभाति गुरुरेष ते ।

प्रभुः प्रवदतां योऽभूत्स वादस्त्वं मतो51 मम ॥ ३७ ॥

प्रभावली - ३७

सम्मुखीकृतम् ; अभिमुखीकृतम् । अयमाशीर्वादः; सर्वत्र कुशली भूयाः इत्युक्त इत्यर्थः । अधिकः ; अतिरिक्तः ; भवदवलोकनेनैव सर्वमङ्गलस्य प्राप्तत्वात् । विमर्शकाले ; स्मरणकाले । सुचरितम् ; सुकृतम् । आदिश्यताम् ; आज्ञाप्यताम् । अन्तेवासी; शिष्यः । अभिलषित कार्यस्य

'

52

सम्पादनाय । सदसस्प

X२५०
तिना; सभापतिना । अत्र अस्मिन्नवसरे भवतो यदभिप्रेत तदाज्ञापयामि । सौम्येति सम्बोधने । सर्वज्ञमिमं भगवन्तं गुरुं यथाशास्त्रमुपसन्नोऽसि । इह च ; युत्र- योर्मध्ये । एष ते गुरुः साक्षाद्वेदान्तसिद्धान्त एव विभाति । प्रवदतां प्रकर्षेण वादं कुर्वतां यः प्रभुरभूत् सुवादित्व निर्वाहकोऽभूत् स वादः त्वमिति मम मतम् । वादस्य सुवादित्वनिर्वाहकत्वादेव गीतायां " वादः प्रवदतामहम्

" इति गीतम् ॥ ३७ ॥

प्रभाविलासः - ३७

Commentary for this sloka seems to be missing in “प्रभाविलास”॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

इदं त्व् इह भवता प्रथममवधातव्यम्

शिष्यः - आज्ञापयतु महाराजः ।

राजा-

सत्त्व-स्थान् निभृतः प्रसादय, सतां वृत्तिं व्यवस्थापय
त्रस्य+++(=त्रस्तो भव)+++ ब्रह्म-विद्–आगसस्, तृणम् इव त्रै-वर्गिकान् भावय
नित्ये शेषिणि निक्षिपन् निज-भरं +++(अनिवार्यापराधसहितं)+++, सर्वं-सहे +++(यतः -)+++ श्री-सखे
धर्मं धारय चातकस्य कुशलिन्53 धारा-धर+एकान्तिनः ॥ ३८ ॥

विश्वास-टिप्पनी

“प्रपन्नश् +++(वृष्टि-बिन्दु-काङ्क्षी)+++ चातको यद्-वत्
प्रपत्तव्यः +++(व्याधानुकम्पी)+++ कपोतवत् ।"
रक्ष्य-रक्षकयोर् एतत्
लक्षणं लक्ष्यम् एतयोः ।

इति स्मारितम्।

मूलम् - ३८

इदं त्विह भवता प्रथममवधातव्यम्

शिष्यः - आज्ञापयतु महाराजः ।

राजा-

सत्त्वस्थान्निभृतः54 प्रसादय सतां वृत्तिं व्यवस्थापय

त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय ।
नित्ये शेषिणि निक्षिपन्निजभरं सर्वंसहे श्री सखे

धर्मं धारय चातकस्य कुशलिन्53 धाराधरैकान्तिनः ॥ ३८ ॥

प्रभावली - ३८

अथ ‘भगवदभिप्रेतमादिशामि इत्युक्तमादिशति राजा - इदं त्विति । इदम् ; वक्ष्यमाणम् । सत्त्वस्थानिति । सात्त्विकान् निभृतः विनयवान् भजस्व ;

X२५१
प्रसन्नान् कुरु । सदाचारेणानुष्ठानेन सताम् वृत्ति व्यवस्थापय परिपालय । व्यवस्थापयेत्यनेन श्रेष्ठाचारेण सदाचारो व्यवस्थितो भवति । तदुक्तम्; यद्यदा चरति श्रेष्ठः " इति । ब्रह्मविदामपराधेभ्यः त्रस्य; भीतिं कुरु ।

X२५२
चिरं मा कार्षीरित्यर्थः । त्रैवर्गिकान्; त्रिवर्गनिष्ठान् तृणमिव भावय । तद्विषये उदासीनो भव । नित्ये शेषिणि; निरुपाधिकशेषिणि । सर्वंसहे; सर्वापराधसहनसमर्थे । तत्र हेतुमाह — श्रीसख इति । निजं भरम्; आत्मरक्षाभरम् । कृतकृत्यता दृष्टान्तपूर्वमाह - धर्ममिति । यथा चातकः स्वाभिलषितप्राप्तौ स्वप्रवृत्तिं विहाय जलदैकगतिर्वर्तते,
तथा स्वाभिलषिते भगवत्-कृपाऽवलोकनेनेत्यर्थः ।
धाराधरैकान्ती ; जलदैकगतिः ॥ ३८ ॥

प्रभाविलासः - ३८

सदसस्पतिना सभापतिना । सत्त्वस्थानिति । सत्त्वस्थान् सात्त्विकान् । निभृतः; निश्चलः । ज्ञेयार्थे संशयादिरहित इत्यर्थः ।
" अथ

अत्र " साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम्" इत्यादिकं द्रष्टव्यम् । सतां वृत्तिम्; यथा सन्त आचरन्ति तमाचारम्, यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः सम्मर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । " इति श्रुतेः । व्यवस्थापय स्वयं विहितानुष्ठाननिषिद्धवर्जनाभ्यां स्थिरीकुरु । “स्वयमाचरते यस्मादाचारे स्थापयत्यपि” इति ह्युक्तम् ।
ब्रह्मविदागसः ; ब्रह्मविद- पचारात् । त्रस्य त्रस्तो भव;

वैनतेयस्य वृत्तान्तं
स्मारं स्मारम् अहर् निशम् ।
भव-भीतश् च वर्तेत
तदीयेष्व् अपचारतः ॥

आयुः श्रियं यशो धर्मं
लोकान् आशिष एव च । हन्ति श्रेयांसि सर्वाणि
पुंसो महद्-अतिक्रमः ॥

इति स्मरणात् । तृणमिव त्रैवर्गिकानिति ; मुमुक्षाभञ्जकत्वात् तृणमिव भावयेत्युक्तम्, “संसर्गे तैश्च वर्जयेत्” इत्युक्तत्वात् । त्रैवर्गिकत्यागः कथं सेत्स्यतीत्याशङ्कय ततोऽधिकपुरुषार्थलाभादित्याह - नित्य इति ।
नित्यनिरतिशयानन्द-ब्रह्मण एव पुरुषार्थभूतत्वादित्यर्थः । " तत्तु समन्वयात् " इति ह्युक्तम् ।
तादृशपुरुषार्थलाभे को हेतुः ? अत आह—
शेषिणीति । शेषित्व-निर्वाहार्थं शेषरक्षणमुचितमिति भावः ।
शेषित्वेऽप्यपराधभूयस्त्वेन शेषरक्षणं कथं सेत्स्यतीत्यत आह- सर्वंसह इति । उक्तहेतोरेव सर्वसहनमपि सम्भवतीति भावः ।
सर्वसहने हेत्वन्तरमाह -— श्रीसख इति ।

“न कश्चिन्नापराध्यति”+++(5)+++ इति श्रियोऽप्य् अपराध-सहनस्याभिमतत्वाद् इति भावः ।
चातकस्येत्य् आकार-त्रय-सम्पत्तिरुक्ता । तेन

“प्रपन्नश् +++(वृष्टि-बिन्दु-काङ्क्षी)+++ चातको यद्-वत्
प्रपत्तव्यः +++(व्याधानुकम्पी)+++ कपोतवत् ।"
रक्ष्य-रक्षकयोर् एतत्
लक्षणं लक्ष्यम् एतयोः ।

इति प्रमाणं स्मारितम् । परिकरो नामालङ्कारः ;

यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा ।

तत्राभिप्रायविदुषामयं परिकरो मतः ॥

इति लक्षणात् ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

सेनापतिः — ब्रह्मन्, अवधारितं हि भवता महाराजस्य55 वचनम् ।
शिष्यः – किम् अन्यद् अवधातव्यम्56 ?

राजा-

परिचिनु निगमान्त-भारतीं
परिहर बाह्य-जनेन सङ्गमम् । परिचर नियमेन सज्जनान्
परिभव मोह-मुखान् विरोधिनः ॥ ३९ ॥

मूलम् - ३९

सेनापतिः — ब्रह्मन्, अवधारितं हि भवता महाराजस्य55 वचनम् ।
शिष्यः – किमन्यदवधातव्यम्56 ?

राजा-57

परिचिनु निगमान्तभारतीं परिहर बाह्यजनेन सङ्गमम् ।

परिचर नियमेन सज्जनान् परिभव58 मोहमुखान्विरोधिनः ॥ ३९ ॥

प्रभावली - ३९

X२५३
किमन्यदवधार्यम्; इदमवधृतमिति भावः । परिचिन्विति । सेनापतिवाक्यमेतत् । परिचिनु; परिशीलय । बाह्यजनेन ; वेदान्तसिद्धान्तबहिर्भूतजनेन । सज्जनाः ; भागवताः । परिभव; जहीत्यर्थः ॥ ३९ ॥

प्रभाविलासः - ३९

परिचिन्विति । बाह्यजनेनेति ; " वाङ्मात्रेणापि संसर्ग तैः सताम् तु निषेधति" इत्युक्तत्वात् ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

गुरुः - आयुष्मन्, अवहित-मनाः शृणु ।

शिष्यः- महान् अयं प्रसादः ।

राजा – ब्रह्मन्,

प्रमाण-पथ-विभ्रष्ट-
प्रधानार्थ-विमर्दनैः ।
स्थाली-पुलाक-नीत्यैव
निवर्त्याः प्रतिवादिनः +++(तत्-प्रधानार्थ-ग्रहणतः)+++॥ ४० ॥+++(5)+++

न खल्व् अखिलम् अपि निघृष्यते
सुवर्ण-खण्डो वर्ण-निष्कर्षाय । +++(5)+++

मूलम् - ४०

गुरुः - आयुष्मन्, अवहितमनाः शृणु ।

शिष्यः- महानयं प्रसादः ।

राजा – ब्रह्मन्,

प्रमाणपथ59 विभ्रष्टप्रधानार्थविमर्दनैः ।

स्थालीपुलाकनीत्यैव निवर्त्याः प्रतिवादिनः ॥ ४० ॥

न खल्वखिलमपि निघृष्यते
सुवर्णखण्डो वर्णनिष्कर्षाय ।

प्रभावली - ४०

अवहितं सावधानं मनो यस्य सः । दुर्वादप्रपञ्चो न कर्तव्यः ; तन्-मत-प्रधानार्थ एव निरसितव्य इत्याह – प्रमाणेति । प्रमाणपदात् विभ्रष्टं यत्तेषां

X२५४
प्रधानप्रमेयं तन्निरसनैः । स्थालीपुलाकन्यायेन प्रधानार्थनिरसनैः निवर्त्याः ; निरस्याः ॥ ४० ॥

अस्मिन्नर्थे निदर्शनान्तरमप्याह – न खल्विति । निघृष्यते ; लिख्यते । वर्णनिकर्षाय; स्वर्णशलाकावर्णपरीक्षणाय ।

प्रभाविलासः - ४०

प्रमाणेति । मायिनां जगन्मिथ्यात्वं, साङ्ख्यानां स्वतन्त्रप्रकृतित्वं, कुमारिलगुरूणां निरीश्वरत्वं, नैयायिककाणादानामसत्कार्यपरमाण्वादिकल्पन- मित्याद्याः प्रधानार्थाः । एकस्मिन् पुलाके पक्वे सर्वमन्नं पक्वमिति स्थाली-
पुलाकन्यायः । अत्रैकदेशज्ञानेन समुदायज्ञानात् प्राप्तिर्नाम नाट्यालङ्कारः

‘प्राप्तिः सा समुदायस्य ज्ञानं यच्चैकदेशतः " इति लक्षणात् ॥ ४० ॥


  1.  ↩︎
  2. आयुष्मन् omitted— क ↩︎

  3. अथवा—क ↩︎ ↩︎

  4. भ्स्द्र् omitted —–ग ↩︎ ↩︎

  5. विपक्षपातिनः - प. ↩︎ ↩︎

  6. तु added after ——-क, घ, ड ↩︎

  7. लब्धाधिकारेण——ग ↩︎

  8. अनुगृहीताभ्यां——-च ↩︎

  9. भवता added after—-ग, च ↩︎

  10. कथाभारः—–क ↩︎

  11. vide———-न्यायसूत्रम्—–४-२-४८ ↩︎

  12. स्वयूथ्यकलहे—–ख ↩︎ ↩︎

  13. स्थातव्यम् added after-च. ↩︎ ↩︎

  14. ‘पारमार्थ्येन - ख. ग. ↩︎ ↩︎

  15. विकल्प्येत्यत्र तच्छब्दार्थस्यैव कर्तृत्वविवक्षया समानकर्तृकत्वान् ल्यबुपपत्तिः । तदपि स्वयमेवात्मान विकल्प्य लयमुपैतीत्यर्थः । ↩︎ ↩︎

  16. कथञ्चित्—-ख ↩︎

  17. कदाचिदपि——क, ख ↩︎

  18. तत—-क, तत्र—–घ ↩︎

  19. सार, सङ्ग्रह, दीप, भाष्य, गीताभाष्य, गद्यत्रयरूपाः । ↩︎

  20. युक्त्यन्तरं - क. ↩︎

  21. इत आरभ्य ’ गुरुः — भद्र इदमपि पुनर्मन्वीथाः’ इति पर्यन्तं घपुस्तके नास्ति । ↩︎

  22. तत्रभवतां omitted ख,ग ↩︎

  23. गुरवः ——क ↩︎

  24. नाथजुष्टं———घ ↩︎

  25. तत्त्वसन्दर्शनार्थमिति पाठोsपि साम्प्रदायिकः । ↩︎

  26. प्रगुणयितुं——-क ↩︎

  27. तदपि omitted——घ ↩︎ ↩︎

  28. परिप्लवमतिः—ख ↩︎

  29. साधुबुद्धिना त्वया सम्यगनुयुज्यते - क. ↩︎

  30. अर्थ omitted—-ख ↩︎

  31. मुक्ताशिल्प——-च ↩︎

  32. पार्षद———ड, च, छ ↩︎ ↩︎

  33. पश्यन्त्यल्पाङ्ग व छ ↩︎

  34. पद्धतिम् —-क, ड ↩︎

  35. द्वयमपि च—–ख ↩︎

  36. उद्भावनीयाः——-क, ख ↩︎ ↩︎

  37. लक्ष्मणमते – घ. ↩︎

  38. मृषारेषाद्दोषान् – क. ↩︎

  39. स्वयं—-क ख ↩︎

  40. कलह added after ↩︎ ↩︎

  41. उभावुपसर्पतः omitted क, ख, ग ↩︎ ↩︎

  42. उभौ—-क, ख, ग ↩︎ ↩︎

  43. विवेकश्च——ख ↩︎

  44. सूरिभिः सह—-ख ↩︎

  45. उचितं omitted—ख ↩︎ ↩︎

  46. अक्षतं—ग; ‘अतितरत्यक्षतं रक्षता’ इति प्रभावळीसम्मतः पाठः । ↩︎ ↩︎

  47. बह्वीयः—all MSS— ↩︎

  48. विमर्शसमये - ख. ↩︎ ↩︎

  49. विधिवशात्——–क ↩︎ ↩︎

  50. सौम्य omitted——ख ↩︎ ↩︎

  51. सम्मतो मम ——-घ ↩︎ ↩︎

  52. अस्य श्लोकस्योत्तरार्धे मूलपाठे सर्वेष्वपि कोशेषु ‘बह्वीय’ इत्येव दृश्यते । व्याख्यातारश्च तमेव पाठमवलम्ब्य ‘बहुतरम्" इति व्याचक्षते । तथापि ’ वह्नीयः इति पाठः लेखकप्रमादापतित इति निश्चित्य मूले ’ बहीयः’ इति पाठोऽस्माभिर्निवेशितः । बहुशब्दादीयसुन्प्रत्यये " बहोलोम्पो भू च बहोः” इति पाणिभ्यनुशासनेन ‘भूयः’ इति ’ वहीयः’ इति तु बहुलशब्दादीयसुन्प्रत्यये “ प्रस्थस्फवर्बहि" इत्याद्यनु- भाव्यम् । शासनेन सिध्यति । यद्यपि मुग्धबोधे बहुशब्दस्यैवेयमुनि ‘बहीयः’ इति रूपमुक्तम् तथापि बहीय इत्यस्य नैवोपपत्तिः । ↩︎

  53. कुशली—–घ ↩︎ ↩︎

  54. यदुत added before —क ↩︎

  55. अवधारय भूयस्तरां महाराजस्य ड. छ. ↩︎ ↩︎

  56. अवधार्यम्—-क ↩︎ ↩︎

  57. प्रभावली मते सेनापतिवाक्यमेतत्. ↩︎

  58. बाह्यमुखान्—–क ↩︎

  59. पद——घ ड च छ ↩︎