०२ विवेक-व्यवसायौ

कुमत-खण्डनम्

विश्वास-प्रस्तुतिः

(ततः प्रविशति राजा व्यवसायश् च )

राजा - सेनापते,
कठिनतर-कर्म-पाश-कोटि-निबिड-यन्त्रित–
मुधा-व्यापार-मोमुह्यमान–
पुरुष-मोक्षण-व्रत1–दीक्षितस्य मम
स एष समयः
सत्त्व-मार्ग-विषय-कृताकृत-प्रत्यवेक्षणेन
कृत्य-शेष-निर्धारणस्य

( मुहूर्तम् इव स्थित्वा सविषादम् )

जड-मति-बहुले ऽस्मिन् दैव-कोपाज् जनित्वा
जगति निरपराधे जात-निर्व्याज-वैराः
कति कति कलहार्थं क्लृप्त-सिद्धान्त-भेदाः प्रलपन-मुख-भेदान् पाठयन्ति प्रबन्धान् ॥ ५ ॥

प्रभाविलासः - ५

प्रवेशकः

ततः प्रविशतीत्यादि । राजा ; विवेकः । व्यवसायः ; सेनापतिः । इदमवश्यं मया कार्यमिति निश्चयो व्यवसायः । सत्कृत्येषु मम कार्यशेषनिर्धारणस्यायमेव काल इत्याह- सेनापते इत्यादि । कठिनतरा अच्छेद्याः कर्मरूपपाशाः; तेषां कोटिभिः लक्षशतैः निबिडं यन्त्रितत्वात् मुधाव्यापारेण व्यर्थचेष्टया मोमुह्यमानस्य पुरुषस्य संसारान्मोक्षणस्य व्रते दीक्षाप्रविष्टस्य, ममेति शेषः । स एष


X२०८
समयः कालः प्रत्युपस्थितः । कस्येत्यत आह — सत्त्वमार्गेति । सत्त्वमार्गः मोक्षमार्गः । तद्विषये कृताकृत प्रत्यवेक्षणेन ; इदं कृतं स्वपक्षस्थापनम् ; इदमकृतं परपक्षप्रतिक्षेपादीति प्रत्यवेक्षणं परामर्शः ; तेन तत्पूर्वकमित्यर्थः । कृत्यशेष निर्धारणस्य; कार्यशेषनिश्चयस्य । मुहूर्ते स्थित्वा ; ध्यायन् स्थित्वेत्यर्थः । इवशब्दो वाक्यालङ्कारे । सविषादम् ; सशोकमित्यर्थः । प्रतिपक्षसिद्धान्त बाहुल्यात् विषादः । जडमतीत्यादि । परव्यामोहनाय दुर्वादिभिः कल्पितान्

X२०९
बहुविधसिद्धान्तभेदाननुसन्धाय शोचति । केचित्; दुर्वादिनः । जडमतिभिः अनभिज्ञः । विपुले, विस्तृते, अज्ञबहुले । अस्मिन् जगति । देवस्य ; भगवतः । यद्वा देवं स एव तस्य । कोपात् पूर्वकर्मानुरूप्येण ’ क्षिपामि’ इति यो निग्रहः, तस्मात् । दुर्वादितया जनित्वा । निरपराधे ; तस्मिन्नेव जगति जने । निव्या- जवैरम् ; तत्रापराधाभावात् निर्व्याजं निर्हेतुकं वैरं विरोधो येषां ते । कलहैक- प्रयोजनाय कल्पिताः सिद्धान्तानां चार्वाकबौद्धार्हतादीनां भेदा यैस्ते । प्रगल्भा - भिमानाः कति कति ; बहवः । प्रलपनं प्रलापः उन्मत्तप्रलापः, तस्य मुखभेदान् पर्यायभूतान् स्वग्रन्थान् पाठयन्ति । तान् शिष्यानपि ग्राहयन्ति । अहो एषा साहसिकत्वमिति भावः ॥ ५ ॥

प्रभावली - ५

ता- तस्मात् । हस्स - महामोहस्य ।
अथ बिन्दुप्रयत्नसमन्वयरूपं प्रतिमुखसन्धिं साङ्गं निरूपयितुं पात्रप्रवेशमाह - ततः प्रविशतीत्यादिना । तत्र प्रतिमुखसन्धिलक्षणम् – “ लक्ष्या-लक्ष्यतयोद्भेदस्तस्य प्रतिमुखं भवेत्" इति, लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं भवेत् " इति च । ततश्च प्रथमाङ्कोपक्षिप्तस्य पुरुषमोचनरूपबीजस्य तदुपायतत्फलप्रददेवतापारम्य प्रदर्शनेन किञ्चिल्लक्ष्यस्य परपक्षनिरासापेक्षया किञ्चिदलक्ष्यस्योद्भेदनरूपत्वादयं प्रतिमुखसन्धिः । अथ बिन्दु- मुपक्षिपति – सेनापते इति । स च पुरुषमोचनरूपवस्तुनः प्रतिमतभङ्गेन विच्छेदे पुनरविच्छेदहेतुः । तदुक्तम् " अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्" इति । कृताकृतप्रत्यवेक्षणेन ; स्वपक्षस्थापनं कृतम् ; परपक्ष- भङ्गोऽकृत इति विमर्शनेन । स एष समय इति त्वराधिक्योक्त्या प्रयत्न उपक्षिप्तः । " प्रयत्नस्तु फलप्राप्तौ व्यापारोऽतित्वरान्वितः " इति लक्षणात् । जडमतीति । दैवकोपात्; भगवद्वैमुख्यात् । अस्मिन् लोके जनित्वा ।
निरपराधे जगति; सज्जनेष्वित्यर्थः । जातनिर्व्याजवैराः ; उत्पन्ननिष्का- रणद्वेषाः । कति कति प्रतिवादिनः । क्लृप्तसिद्धान्तभेदाः ; कल्पितमोह- शास्त्रभेदाः । तेषां प्रयोजनमाह — कलहार्थमिति । प्रलपनमुखभेदान्; परिभाषाभेदभिन्नान् प्रबन्धान् पाठयन्तीत्यन्वयः । अत्र दैवरोषादित्यादिना चतुर्मुखं प्रति भगवदुक्तिः स्मारिता-

“देवतान्तरसक्तानि शास्त्राणि विविधानि च ।

कल्पयित्वा ततस्तानि मन्मतच्छेदयुक्तिभिः ।

वर्धयस्व यथा तानि दृष्ट्वा संशयसंयुताः । सम्प्राप्य मोहं मुक्तीशं मामज्ञात्वा सुदुःखिताः । रौरवेषु च घोरेषु दुरितान्यनुभूय च ॥”

इति ॥ ५ ॥

मूलम्

(ततः प्रविशति राजा व्यवसायश्च )

राजा - सेनापते, कठिनतरकर्मपाशकोटिनिबिडयन्त्रितमुधाव्यापारमो मुह्यमानपुरुषमोक्षणव्रत1 दीक्षितस्य मम स एष समयः सत्त्वमार्गविषयकृताकृतप्रत्यवेक्षणेन कृत्यशेषनिर्धारणस्य ।
( मुहूर्तमिव स्थित्वा सविषादम् )

जडमतिबहुलेऽस्मिन्दैव23 कोपाज्जनित्वा

जगति निरपराधे जातनिर्व्याजवैराः ।
कति कति कलहार्थं क्लृप्तसिद्धान्तभेदाः

प्रलपनमुखभेदान् पाठयन्ति प्रबन्धान्4 ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

आः कष्टम् । व्यामोह-जनक-विविध-समयोपप्लुते जगति
कथम् इयम् अध्यात्म-विद्या प्रतिष्ठास्यति ?

(आकाशे)

भो भो महा-मोहापशद+++(=तुच्छ)+++,
त्रि-भुवन-सम्मोहनेन
भवता किं नाम लब्धं लप्स्यते वा ?

अपि च,

सर्वतः कर-वीरादीन्+++(=हय-मारकादीन् वृक्षान्)+++
सूते सागर-मेखला ।
मृत-सञ्जीवनी नित्यं5
मृग्यमाण-दशां गता ॥ ६ ॥+++(4)+++

मूलम् - ६

आः कष्टम् । व्यामोहजनकविविधसमयोपप्लुते जगति कथ-

मियमध्यात्मविद्या प्रतिष्ठास्यति ?

(आकाशे)

भो भो महामोहापशद, त्रिभुवनसम्मोहनेन भवता किं

नाम लब्धं लप्स्यते वा ?

अपि च,

सर्वतः करवीरादीन् सूते सागरमेखला ।

मृतसञ्जीवनी नित्यं5 मृग्यमाणदशां गता ॥ ६ ॥

प्रभावली - ६

X२१०
आः पीडायाम् । कष्टम्; आपतितमिति शेषः । कष्टापातं दर्शयति- व्यामोहेति । व्यामोहजनकैः विविधसमयैः सिद्धान्तैः उपहते । अध्यात्मविद्या; वेदान्तविद्या । आकाशे । तत्राकाशे महामोहं पुरः स्थितं भावयित्वा सम्बोध्य च निन्दति - भो भो इत्यादि । अपशदः ; तुच्छः । पूर्व कि प्रयोजनं लब्धम् ? इतः परमपि कि लप्स्यते ? न किमपीति शेषः । तस्मान्निरर्थक एव भवतो जन्मलाभ इति भावः । दुर्विद्या बाहुल्यं सद्विद्याल्पत्वं च दृष्टान्तेन दर्शयन् विषीदति — अपिचेति ।

सर्वतः करवीरः ; हयमारकः ; मृतिसाधनानीत्यर्थः ।
तत्र ; भूमौ । मृतान् सञ्जीवयतीति मृतसञ्जीवनी ओषधिः । नित्यमन्वेषणीयावस्थां दुर्लभतामित्यर्थः ॥ ६ ॥

प्रभाविलासः - ६

अपशदः ; निकृष्टः । लप्स्यते ; प्राप्स्यते । सर्वत इति ।

सागर- मेखला ; भूमिः । मारकत्वं दर्शयितुं करवीरग्रहणम् । आदिपदेन विषतिन्दुकादिसङ्ग्रहः । अत्र दुर्जनभूयस्त्वसुजनाल्पीयस्त्वव्यञ्जनस्य वाच्यायमानत्वेऽपि निर्वेदस्य प्रधानव्यङ्ग्यतया न गुणीभूतव्यङ्ग्यतादोषः ॥ ६ ॥

देवे शरणागतिः

विश्वास-प्रस्तुतिः - ७

तद् अहम् ईदृशोपप्लवोपशमनाय
भगवन्तम् एवाभिगच्छामि-

(स्मरणम् अभिनीय)

स्वतः सिद्धं शुद्ध-स्फटिक-मणि–भू-भृत्–प्रतिभटं
सुधा-सध्रीचीभिर्+++(=सखीभिः)+++ द्युतिभिर् अवदात+++(←दै शोधने)+++-त्रि-भुवनम्6
अनन्तैस् त्रय्य्-अन्तैर् अनुविहित-हेषा-हल-हलं
हताशेषावद्यं हय-वदनम् ईडीमहि महः ॥ ७ ॥+++(4)+++

मूलम् - ७

तदहमीदृशोपप्लवोपशमनाय भगवन्तमेवाभिगच्छामि-

(स्मरणमभिनीय)

स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं

सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम्6

अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं

हताशेषावद्यं हयवदनमीडीमहि महः ॥ ७ ॥

प्रभावली - ७

उपप्लवः; उपद्रवः । अभिगच्छामि ; शरणं व्रजामि । स्मरणम् ; ध्यानम् । भगवन्तमभिगच्छति—स्वत इति । स्वतः सिद्धम् ; हेतुमन्तरेण सिद्धम्, " न चास्य कश्चिज्जनिता न चाधिपः" इति श्रुतेः । यद्वा स्वतः सिद्धम् ; स्वभावत एव परिशुद्धम् । अन्ये त्वेतत्प्रसादाधिगतशुद्धिमन्तः, “निरवद्यं निरञ्जनम्" इत्यादिश्रुतेः । शुद्धो यः स्फटिकमणिभूभृत् तत्प्रतिभटं तत्सह-

X२१२
शमित्यर्थः । अपतापम् अपगततापं त्रिभुवनं येन । अनुविहितः अनुकृतः हेषायाः अश्वध्वनेः, हलहल इति शब्दानुकारः, हलहलशब्दः येन । हताशेषावद्यम् ; अखिलहेयप्रत्यनीकम् । हयवदनरूपं महः ईडीमहि ; स्तुवीमहि ॥ ७ ॥

प्रभाविलासः - ७

X२११

स्वतः सिद्धमिति । “न चास्य कश्चिज्जनिता न चाधिपः " इति श्रुत्या स्वतः सिद्धमित्युक्तम् । प्रतिभटम् ; सदृशमित्यर्थः । सुधासध्रीचीभिः ; सुधया सध्रीचीभिः पूर्णाभिः सदृशाभिरिति वा । ईडीमहि, ईड स्तुताविति धातुः । अत्र स्वतः सिद्धमित्यविकारित्वमुक्तम् । शुद्ध- स्फटिकेत्यंशतो जडत्वादिरूप हेयव्यावृत्तिः । मणीति स्वप्रकाशस्वरूपत्वम् । भूभृदित्य परिच्छिन्नत्वम् । प्रतिभट मित्युक्त गिरिव्यतिरेकश्च व्यज्यते । सुधासध्री- चीभिरित्यानन्दरूपत्वशीतलत्वाह्लादकत्वादिधर्माणां प्रतीत्यांशतो जडत्वव्या-
वृत्तिः । अतो वह्निज्वालाव्यतिरेकश्च व्यज्यते । द्युतिभिरित्यसङ्ख्यातत्वेन सकलतेजोऽभिभवनं व्यज्यते । अवदात त्रिभुवनमिति तत्र स्थित कैलासादेर- पह्नवो व्यङ्ग्यः । अनन्तैस्त्रय्यन्तैरनुविहितेति सौरतेजोवैलक्षण्यम्, वेदैरशून्यस्त्रिभिरेति सूर्यः " इति तस्य परिमितत्वश्रवणात् । हताशेषावद्यमिति कलङ्किततेजोव्यतिरेकः औष्ण्यगर्भितत्वकतिपयबोधकत्वासह्यशीतलत्वादिराहित्यं च व्यज्यते ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

अपि च,

समाहारः साम्नां, प्रतिपदम् ऋचां, धाम यजुषां
लयः प्रत्यूहानां, लहरि-विततिर् बोध-जलधेः ।
कथा+++(=वाद)+++-दर्प-क्षुभ्यत्–कथक-कुल-कोलाहल-भवं +++(→ध्वान्तम्)+++
हरत्व् अन्तर्ध्वान्तं हय-वदन–हेषा-हल-हलः ॥ ८ ॥+++(5)+++

मूलम् - ८

अपि च,

समाहारः साम्नां प्रतिपदमृचां धाम यजुषां

लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।

कथादर्पक्षुभ्यत्कथककुल7 कोलाहलभवं

हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ८ ॥

प्रभावली - ८

हयवदनस्तिष्ठतु । हयवदनस्य हेषाहलहल एव ध्यायतामिष्टप्रात्यनिष्ट- निवारणसाधनमिति दर्शयति- अपिचेत्यादि । साम्नाम् ; सामवेदस्य । समा हारः; समुच्चयः । ऋचां प्रतिपदम् ; पर्यायः । यजुषां धाम ; स्थानम् । बोध-जलधेः ; ज्ञानसमुद्रस्य । लहरिविततिः; तरङ्गविस्तारः । एवम्भूतो हयवदनस्य हेषाया हलहलः ; कोलाहलः ।

कथायां वादे यो दर्पः, मम सदृशो नास्तीति गर्वः,
तेन क्षुभ्यताम् अपथप्रवृत्ताना कथकानां कुलस्य कोलाहलः कलकलः, तेन पञ्जातमन्तर्ध्वान्तम् अप्रतिभारूपम् अज्ञानं मदीयं हरतु ॥ ८ ॥

प्रभाविलासः - ८

समाहार इति । साम्नामित्यादौ बहुवचनोक्तिः शाखाभेदेन । प्रतिपदम् ; प्रतिस्थानम् । धाम आश्रयः । लयः ; नाशकः । लहरि - विततिः ; तरङ्गसमूहः । कथायां दर्पेण क्षुभ्यतां प्रतिकथकानां कोलाहलेन भवतीति तथोक्तम् ॥ ८ ॥

समाश्वासनम्

विश्वास-प्रस्तुतिः - ९

सेनापतिः - महाराज,
सर्वत्र सिद्धारम्भः खल्व् असि ।
अमोघ एव8 खल्व् अन्-अरण्य+++(=रावण-शापक ऐक्ष्वाकवः)+++-शाप इवारण्यक-वादो
भवत्-प्रभावेण महा-मोह–विध्वंसन-वादी । अद्य च;

त्वया त्रय्यन्त-विज्ञानं
पुरुषस्य विभावितम् । श्रद्धा-वैकल्य-मात्रं तु
शमनीयम् अतः परम् ॥ ९ ॥+++(4)+++

मूलम् - ९

सेनापतिः - महाराज, सर्वत्र सिद्धारम्भः खल्वसि । अमोघ एव8 खल्वनरण्यशाप इवारण्यकवादो भवत्प्रभावेण9

महामोह विध्वंसनवादी । अद्य च;

त्वया त्रय्यन्तविज्ञानं पुरुषस्य विभावितम् ।

श्रद्धावैकल्यमात्रं तु शमनीयमतः परम् ॥ ९ ॥

प्रभावली - ९

सिद्धः कार्यसिद्धि प्राप्तः आरम्भो यस्य सः । अनरण्यो नाम ऐक्ष्वाको राजा श्रीमदुत्तररामायणे प्रसिद्धः । स च रावणाय शापं दत्तवान् । शापेन रावणश्च हतोऽभूत् ।
आरण्यकवादः ; उपनिषद्घोषः ।
यद्वा आरण्यका मुनयः, वृद्वचनम् । आरण्यकवाद-स्वरूपं दर्शयति—भवत्प्रभावेणेति
विवेकबलेन महामोहस्य विध्वंसनवादी विवेकान् मोहो ऽपगच्छतीत्य्-एवं-वादी ।

अथ निर्धारिताश-

X२१४
I

कथनपूर्वकं समयोचितं कृत्यशेषं निध्यायति-अद्य चेत्यादि । त्रय्यन्तविज्ञानम् । ‘विष्णुरेव परतत्त्वं स एवोपास्यः, स एव मोक्षप्रदः ’ इत्येवंरूपं पूर्वाङ्कान्ते विभावितं प्रकाशितम् । इतः परं परमतप्रतिक्षेपाभावे वेदान्ते श्रद्धावैकल्यं भवतीति तदवैकल्याय परमतभङ्गः कार्य इत्याह-श्रद्धावैकल्यमिति ॥ ९ ॥

प्रभाविलासः - ९

अनरण्यः ; इक्ष्वाकुकुलीनः । स हि रावणं शशाप । तदुक्तम्-

यदि दत्तं यदि हुतं यदि मे सुकृतं तपः । यदि गुप्ताः प्रजाः सर्वा यथासत्यं वचोऽस्तु मे ॥ उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान् हरिष्यति ॥इति । आरण्यकवादः ; वेदान्तवादः । अनेन वेदान्ताचार्यो लक्ष्यते । त्वयेति । वेदान्तानां ब्रह्मण्येव तात्पर्य प्रथमाङ्के निरूपितम् । इतः परं
विरोधनिरास एव कर्तव्य इति श्लोकार्थः । अत्र प्रतिमुखसन्धेरङ्गानि त्रयोदश । तदुक्तं दशरूपके–

" विलासः परिसर्पश्च विधूतं शर्मनर्मणी । नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ।

पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ॥

इति । तत्र शमनीयमतः परमिति प्रथमाङ्गम्, दृष्टार्थरूपबीजस्येहात्मतया वर्णनात् । तदुक्तम् " दृष्टार्थविषयामीहां विलासं परिचक्षते " इति ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

X२१३
राजा - ( सपरितोषम् ) भद्र, साधु सम्बोधितोऽस्मि
भव्य-वृत्तेन भवता । 10
त्वत्-सहायस्य मे कृत्य-शेषम् अपि
कृत-प्रायम् एव निश्चिनोमि

शम-दम-मुखास्,, तिष्ठन्त्व् अन्ये11 शतं शतम् उत्थिता
निरुपधि-महा–मोह–श्रद्धा–निवारण-लम्पटाः ।
दनुज-मथने विष्वक्सेनो हरेस् तद्-अनन्य-धीः
प्रतिमत-तमश्–छेदे हेतुस् त्वम् अप्य् अनघो मम ॥ १० ॥

मूलम् - १०

X२१३
राजा - ( सपरितोषम् ) भद्र, साधु सम्बोधितोऽस्मि भव्यवृत्तेन भवता । 10 त्वत्सहायस्य मे कृत्यशेषमपि कृतप्रायमेव निश्चिनोमि ।

शमदममुखास्तिष्ठन्त्वन्ये11 शतं शतमुत्थिता

निरुपधिमहामोहश्रद्धा निवारणलम्पटाः ।
दनुजमथने विष्वक्सेनो हरेस्तदनन्यधीः

प्रतिमततमश्छेदे हेतुस्त्वमप्यनघो मम ॥ १० ॥

प्रभावली - १०

सपरितोषम् ; सेनापतिवचनश्रवणात् । भद्र; कल्याणपुरुष । सम्बोधितोऽस्मि ; ज्ञापितोऽस्मि । भव्यं कुशलं वृत्तमाचारो यस्य स भव्यवृत्तः । कृतप्रायम् ; कृतकल्पम् । सेनापति प्रशंसति शमेति । शमः; अन्त- रिन्द्रियनिग्रहः । मुखशब्देन सत्यशौचादयो गृह्यन्ते । शत शतं यथा
तथा उत्थिताः । किमर्थमित्यत्राह - निरुपधीति । निरुपाधिकः यो महामोहः, तस्य श्रद्धा विवेकादिविजयादरः, तस्या निवारणे लम्पटाः आसक्ताः । अन्ये ; त्वत्तोऽन्ये सर्वे तिष्ठन्तु । त्वमेक एवालं महामोहविजय इति सदृष्टान्तमाह– दनुजेति । दनुजाना संहरणे हरेस्तदनन्यधीः विष्वक्सेनः वैकुण्ठसेनानीरिव तस्मिन् हरावेवानन्या धीः स्वामित्वबुद्धिर्यस्य सः । अनघस्त्वमपि ; स्वामिद्रोहादिरहितत्वमनघत्वम् । मम प्रतिमततमश्छेदे ; प्रतिमतः शत्रुः मोह, स एव तमः, तन्निरसने । हेतुः अमोघसाधनम् ॥ १० ॥

प्रभाविलासः - १०

शमेति । मुखपदेनोपरतितितिक्षादयः । " शान्तो दान्त उपर- तस्तितिक्षुः समाहितः " इति श्रुतेः । निरुपधौ निरङ्कुशे महामोहे


X२१५

श्रद्धाया निवारणे लम्पटाः । विष्वक्सेनो यथा भवतीति शेषः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

सेनापतिः - देव, प्रहरण-नयेन
परेषु प्रयोक्तव्यतया
पर-तन्त्र एवाहं भवतः ।

निष्प्रत्यूह-समुत्थितैर् अधिगत-स्थैर्यः प्रमाणादिभिः,
स्व-च्छन्द-प्रथमान-शौर्य-विभवः स्वायत्त-सिद्धिर् भवान् ।
इत्थं सत्य् अनुपप्लवं परिपतच्-चिन्ता-फल-स्रोतसः
सत्तावस्थिति+++(-नाश-)+++-वृत्तिषु ध्रुवम् अहं छाया-समस् तस्य ते ॥ ११ ॥ +++(4)+++

मूलम् - ११

सेनापतिः - देव, प्रहरणनयेन परेषु प्रयोक्तव्यतया पर-

तन्त्र एवाहं भवतः ।

निष्प्रत्यूहसमुत्थितैरधिगतस्थैर्यः प्रमाणादिभिः

स्वच्छन्दप्रथमानशौर्यविभवः स्वायत्तसिद्धिर्भवान् ।
इत्थं सत्यनुपप्लवं परिपतच्चिन्ताफलस्रोतसः

सत्तावस्थितिवृत्तिषु ध्रुवमहं12 छाया समस्तस्य ते ॥ ११ ॥

प्रभावली - ११

प्रहरणम् ; आयुधम् ; तन्न्यायेन । परेषु त्वया प्रयोगे योग्यतया परतन्त्र एव ; न स्वतन्त्रोऽस्मि । परतन्त्रत्वमेव समर्थयते - निष्प्रत्यूहेति । विवेकस्य स्वातन्त्र्यं

X२१६
पूर्वार्धेनाह । निर्विघ्नं यथा तथा समुत्थितैरित्यर्थः । प्रमाणादिभिः; प्रमाणम् आगमः । आदिशब्देन तर्कोपबृंहणानि विवक्षितानि । अधिगतस्थैर्यः ; स्थैर्य प्रतिवादिदूषणैरविचाल्यता, तत्प्राप्तं येन सः । स्वच्छन्देति । शौर्यशब्देन स्वपक्षसाधनपरपक्षदूषणे उच्येते । स्वच्छन्दं यथा तथा प्रथमानं प्रसिद्धं शौर्यमेव विभवो यस्य सः । अत एव स्वायत्तसिद्धिः ; स्वाधीनार्थनिश्चयो भवान् । इत्थं सति ; त्वयि एवम्प्रकारविशिष्टे सति । अनुपद्रवं यथा तथा परिपतन्ति चिन्ताफलानां ज्ञानशक्तिप्राप्तिरूपाणां स्रोतासि यस्य । तस्य ते । सत्तावस्थिति-वृत्तिषु सत्ता, उत्पत्तिः, अवस्थितिरवस्थानं नाश इति यावत् । वृत्तिर्वर्तनम् । उत्पत्तिस्थितिनाशेष्वित्यर्थः ।
अहं छायासमो ध्रुवम् ।
त्वत्सत्ताद्य्-अनुविधानात् छायासाम्यम् ।
छाया छायिन उत्पत्तौ उत्पद्यते ; स्थितौ तिष्ठति ; नाशे नश्यति ।
छायावत्तवाहं परतन्त्र इति ध्रुवं सत्यम् ।
अत्र विवेकस्य भगवत्साम्यं व्यवसायसुमत्योः सीतालक्ष्मणसाम्यं च विवक्षितम् ॥ ११ ॥

प्रभाविलासः - ११

निष्प्रत्यूहेति । निष्प्रत्यूहमबाधं यथा तथा समुत्थितैः । प्रमाण- पदेन त्रय्यन्तास्तद विरोधिप्रत्यक्षानुमानादयः । आदिपदेन शारीरकन्यायाः । तैरधिगतस्थैर्यः । अनेन शारीरकन्यायानुगृहीतवेदान्तशास्त्रजन्यं ज्ञानं विवेक इति लक्षणमुक्तम् । स्वच्छन्देति । स्वपरनिर्वाहकत्वरूपं स्वतः प्रामाण्यमुक्तम् । स्वायत्तसिद्धिरिति स्वप्रकाशकत्वमुक्तम् । राजसमाधिः
स्पष्टः । परिपतच्चिन्ताफलस्रोतसः परिपतन्ति परितः समागच्छन्ति चिन्ताफलानां स्रोतांसि यस्य तस्य । विवेके यानि फलकदम्बकानि पुरुष - मोक्षपर्यन्तानि सेत्स्यन्ति, तानि निरुपद्रवं लब्धवत इत्यर्थः । अथवा परिपतन्तीनां चिन्ताफलानां निरन्तरस्मृतीनां स्रोतसः प्रवाहभूतस्य । विशदस्मृतिसन्ततेरपि विवेकरूपतया अभेदोक्तिः । ते तव समस्तस्य कार्यजातस्य सत्तावस्थितिवृत्तिषु स्वरूपस्थितिप्रवृत्तिषु अहं छाया छायावत् परतन्त्र इत्यर्थः । सर्वत्र निश्चयरूपत्वात् ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

तस्माद् अहं वा सुमतिर् वा
जलोद्धृत-मत्स्य-न्यायेन
भवन्तं विना मुहूर्तम् अपि न जीवावः

राजा — ( विचिन्त्य) सेनापते, पश्य पश्य ;

असुरादि-मोहन-विधौ
विहिताः प्रमिताव् अतीत-समयाः समयाः
तपनापनेय-तिमिर-
+++(→अहो-रात्र-)+++क्रमतः प्रचरन्ति हन्त जगद्-अन्तरतः ॥ १२ ॥+++(4)+++

मूलम् - १२

तस्मादहं वा सुमतिर्वा जलोद्धृतमत्स्यन्यायेन भवन्तं विना मुहूर्तमपि न जीवावः ।

राजा — ( विचिन्त्य) सेनापते, पश्य पश्य ;

असुरादिमोहनविधौ विहिताः प्रमितावतीतसमयाः समयाः ।

तपनापनेय तिमिरक्रमतः प्रचरन्ति हन्त जगदन्तरतः ॥ १२ ॥

प्रभावली - १२

तदेव दर्शयति - तस्मादित्यादि । वाशब्दश्चार्थे । जलोद्धृतो मत्स्यः याव- ज्जलसंसर्गस्तावज्जीवति । न ततः परम् । तन्न्यायेन । सदसद्विवेकसम्भवे सत्कृत्येषु व्यवसायः संसारदोषदृष्टिरूपा सुमतिश्व स्त इत्यर्थः ।

" न च सीता त्वया हीना न चाहमपि राघव ।
मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥”

इति श्रीमद्रामायणवचनमत्रानुसन्धेयम् । परमतभङ्गस्य पीठिकामारचयति असुरादीति । अत्र

X२१८
" त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय । दर्शयित्वाल्पमायासं फलं शीघ्रं प्रदर्शय ॥”

इति पाद्मपुराणवचनमनुसन्धेयम् । प्रमितौ ; प्रमितिविषये । अतीतसमयाः; कालात्ययापदिष्टाः, वेदान्तैः प्रमितौ सिद्धाया तद्विपरीतार्थप्रतिपादनात् । यथा स्पार्शनप्रत्यक्षेणाग्नेरुष्णत्वोपलम्भेऽनुष्णत्वप्रतिपादकानुमानम्, तद्वत् । समयाः; सिद्धान्ताः । तपनेनापनेयं निरसनीयं यत् तिमिरं तन्न्यायेन ।
यथा मिहिरोदये तिमिरमपैति तदस्तमये पुनरुदेति,
एवं वैदिकवावदूकोदयान्वय-व्यतिरेकानुविधायिन इत्यर्थः । हन्तेति खेदे ॥ १२ ॥

प्रभाविलासः - १२

तस्मादिति । अहं वा सुमतिर्वेति ; निश्चयत्वावाधितत्वयोर्विवेक- ज्ञानानपायात् मुहूर्तमपि न जीवाव इत्युक्तम् । अनेन ‘न जीवावः’ इति द्विवचनेन लक्ष्मणवचनं व्यञ्जितमिति वचनव्यङ्ग्यध्वनिभेदः । वचनं तु-

" न च सीता त्वया हीना न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धतौ ॥ "

इति । असुरादीति । अत्र

" त्वं च रुद्र महाबाहो
मोहशास्त्राणि कारय ।
अनायासं दर्शयित्वा
फलं शीघ्रं प्रदर्शय ॥ ""

इत्येतदनुसन्धेयम् । अतीतसमयाः ; कालात्ययापदिष्टा इत्यर्थः । तपनाप-
नेयतिमिरक्रमतः; सूर्यनिवर्त्यतिमिररीत्या ॥ १२ ॥

सिद्धान्त-वाद-नियोगः

विश्वास-प्रस्तुतिः - १३

एते च13
मधु-मथन–भुज-बल–परिभ्रमित–
मन्दर–मही-धर14-मथ्यमान-
महार्णव-निर्घोष-निर्विशेष–
निरर्थक-विविध-वाचो
वाचस्-पतिम् अपि वनस्पती-कर्तुम् उद्युञ्जते
वशिका+++(=तुच्छाः)+++ वावदूकाः ।

तद् अमी सावधान-सम्प्रयुक्तारम्भेण
प्रकट-प्रकाशित-+++(स्व-पक्ष-)+++साधन++++(पर-पक्ष)+++उपालम्भ-दंष्ट्राङ्कुरेण

+++(आत्माश्रयान्योन्याश्रय-चक्रकाश्रयानवस्थातिप्रसङ्ग-रूपेण)+++ प्रतिपन्न-खरतर–तर्क-पञ्चक-नखरेण+

आरण्यकारण्य-वर्तिना
प्रमाण-पराक्रम-कण्ठीरवेण
नियतम् अ-कुण्ठ-शक्तिना निरसनीयाः
सत्-पथ-विस्रम्भ–रम्भा-वन-मथन–विहित-संरम्भाः प्रचण्डा वैतण्डिक-वेतण्डाः+++(=गजाः)+++ ।

सेनापतिः — देव, नियुक्तो हि त्वया
वादेन सह वेदान्त-सिद्धान्तः
प्रतिमत-निर्मूलनाय ।
तद् आसीदत्य् असाव् इह
कथक-सङ्ग्राम-सीमाम् ।

मूलम् - १३

एते च13 मधुमथन भुजबलपरिभ्रमितमन्दर महीधर14 मथ्यमान- महार्णवनिर्घोषनिर्विशेष निरर्थकविविधवाचो वाचस्पतिमपि वनस्पती- कर्तुमुद्युञ्जते वशिका वावदूकाः । तदमी सावधान सम्प्रयुक्तारम्भेण प्रकटप्रकाशितसाधनोपालम्भदंष्ट्राङ्कुरेण प्रतिपन्नखरतर तर्कपञ्चकनख- रेणारण्यकारण्यवर्तिना प्रमाणपराक्रमकण्ठीरवेण नियतमकुण्ठशक्तिना
निरसनीयाः सत्पथविस्रम्भरम्भावनमथन15 विहितसंरम्भाः प्रचण्डा16 वैतण्डिकवेतण्डाः ।

सेनापतिः — देव, नियुक्तो हि त्वया वादेन सह वेदान्तसिद्धान्तः प्रतिमतनिर्मूलनाय । तदासीदत्यसाविह कथकसङ्ग्राम- सीमाम् ।

प्रभावली - १३

दुर्वादिनां निरर्थकाटोपं दर्शयति - एते चेति । निर्विशेषशब्दः सदृश - पर्यायः । वाचस्पतिमपि ; बृहस्पतिमपि । वनस्पतीकर्तुम् ; महातरुवत् मूकीकर्तुम् । उद्युञ्जते ; उद्योगं कुर्वते । वशिकाः ; तुच्छाः, बाह्या इत्यर्थः । एवमाटोपं प्रदर्श्य, अभी सावधानतः प्रमाणैर्निरसनीया इत्याह- तदमी इत्यादि ।

X२१९
तत्; तस्मात्; आटोपस्य दर्शितत्वात् । आरम्भः ; उपक्रमः, तद्वता । प्रकटं प्रकाशितौ स्वपक्षसाधन–पर-पक्षोपालम्भावेव दंष्ट्राङ्कुरौ यस्य तेन । प्रति- पन्नः ; युक्तः । इदं तर्कविशेषणम् । तेन सतर्कत्वं व्यज्यते । खरतरः ; दृढतरः, मूलशैथिल्यादिरहितः । यत्तर्कपश्वकम् ; आत्माश्रयान्योन्याश्रयचक्रकाश्रयानव- स्थानिष्टप्रसङ्गादीनि ; तान्येव पञ्च नखराणि यस्य । आरण्यका उपनिषदः, तत्र वर्तिना;17 अरण्यसमूहे ’ वर्तिना ’ । प्रमाणमेव पराक्रमविशिष्टः कण्ठीरवः, तेन । नियमेनाप्रतिहतशक्तिना । सत्पथः ; वेदान्तमार्गः, तत्र विस्रम्भो विश्वासः, स एव

X २२० \
रम्भावनं, तन्मथने विहितसंरम्भाः कृतोद्योगाः । उद्दण्डा ये वैतण्डिकाः शुल्कतर्कनिष्ठा त एव बेतण्डाः गजाः रम्भावनमथनप्रियाः नियुक्तः अनुशिष्टः । वाद; कथाविशेषः । अत्र वादशब्देन स्वयं ग्रन्थकर्ता वेदान्ताचार्यः, वेदान्त- सिद्धान्तशब्देन श्रीभाष्यकारश्च विवक्षित इति सम्प्रदायः तत् नियुक्तत्वात्। आसीदति आगच्छति । कथासङ्ग्रामसीमा; वादस्य पराकाष्ठा । \

प्रभाविलासः - १३

वशिकाः ; तुच्छाः । साधनम् ; स्वपक्षस्थापनम् । उपालम्भः; परपक्षदूषणम् । खरतरम् ; तीक्ष्णतरम् ।
तर्कपञ्चकम् ;
आत्माश्रयान्योन्याश्रय-चक्रकाश्रयानवस्थातिप्रसङ्ग-रूपम् । वेतण्डाः ; गजाः । सञ्चालित-निष्कम्पमिति; अनेन परिसर्पो नाम प्रतिमुखसन्धेरङ्गमुक्तम् । “परिसर्प इति प्राहुर्दष्टभ्रष्टानुसर्पणम्” इति लक्षणात् ॥ १३ ॥


  1. व्रत omitted—क ↩︎ ↩︎

  2. विपुले——ग, च ↩︎

  3. देव—क घ ↩︎

  4. पाठयन्त्यप्रगल्भान् क. पाठयन्ति प्रगल्भाः ख, ग. ↩︎

  5. यत्र - ख. ; तत्रेति प्रभावळीपाठः ↩︎ ↩︎

  6. अपतापेति प्रभावली पाठः ↩︎ ↩︎

  7. प्रतिकथक – छ. ↩︎

  8. एव–omitted—क; एष—घ ↩︎ ↩︎

  9. भगवत्प्रसादेन——ख ↩︎

  10. अथ added before——घ ↩︎ ↩︎

  11. न्त्वेते—-ग ↩︎ ↩︎

  12. स्वयमिह च्छाया—ग ↩︎

  13. च omitted—क ↩︎ ↩︎

  14. महामहीधर—-ख ↩︎ ↩︎

  15. प्रमथन—–ख ↩︎

  16. उद्दण्डा इति प्रभावलीपाठः ↩︎

  17. मूले आरण्यकवर्तिना इति प्रभावलीपाठः प्रतिभाति, ↩︎