०१ श्रद्धा-विचारणे

मेलनम्

विश्वास-प्रस्तुतिः - १

(ततः प्रविशति श्रद्धा विचारणा च )

विचारणा – हला,1 सम-अल-बिन्दुणिअरणिब्भासिअ-णिडाल-2अला
वच्चदंसणूसुआ वञ्चलेव तूरन्ती वट्टसि ।

(हला, श्रम-जल-बिन्दु-निकर–निर्भासित-निटाल+++(=ललाट)+++-तला
वत्स-दर्शनोत्सुका वत्सलेव
त्वरमाणा वर्तसे ।)

मुहचन्दसन्दिअ-सुहा-सुहआ
छवि-फुल्ल-मल्लि-मअरन्द-णिहा ।
णव-सोम्म-जोव्वण-लआ-कलिआ-
सिरिम् उव्वहन्ति तुह सेअकणा ॥

(मुख-चन्द्र-स्यन्दित-सुधा-सुभगाश्
छवि-फुल्ल-मल्लि-मकरन्द-निभाः ।
नव-सौम्य-यौवन-लता-कलिका-
श्रियम् उद्वहन्ति तव स्वेदकणाः ॥ १ ॥) +++(5)+++

मूलम् - १

(ततः प्रविशति श्रद्धा विचारणा च )

विचारणा – हला,1 सम अल बिन्दुणिअरणिब्भासिअणिडाल-2 अला वच्चदंसणूसुआ वञ्चलेव तूरन्ती वट्टसि ।

(हला, श्रमजलबिन्दुनिकरनिर्भासित ललाटतला वत्सदर्शनोत्सुका वत्सलेव त्वरमाणा वर्तसे ।)

मुहचन्दसन्दिअसुहासुहआ छविफुल्लमल्लिमअरन्दणिहा । णवसोम्मजोव्वणलआकलिआसिरिमुव्वहन्ति तुह सेअकणा ॥

(मुखचन्द्रस्यन्दितसुधासुभगाश्छविफुल्लमल्लिमकरन्दनिभाः । नवसौम्ययौवनलताकलिकाश्रियमुद्वहन्ति तव स्वेदकणाः ॥ १ ॥

प्रभावली - १

अथ वृत्तवर्तिष्यमाणकथांशसूचनाय तावत्प्रवेशकं प्रकाशयति - ततः प्रविशतीत्यादि । श्रद्धा क्रियमाणेषु कर्मस्वादरः । विचारणा; चर्चा ।

X१९६
श्रद्धामाह-समअलेत्यादि । समअलबिन्दुनिअर श्रमजलबिन्दुनिकर। णिब्भा- सिअणिडालअला-निर्भासितललाटतला; णिडालं ललाटम् ; प्रस्विन्नमुखेत्यर्थः । वश्ञ्चदंसणूसुआ-वत्सदर्शनोत्सुका । वत्सस्तर्णकः । वचलेव्व-वत्सलेव ; वत्सला धेनुरिव । तूरन्ती वट्टसि त्वरमाणा वर्तसे ।

मुहचन्देत्यादि । मुहचन्दसन्दिअ - मुखचन्द्रस्यन्दित । सुहासुहआ-सुधा- सुभगाः । छविफुल्लमल्लिमअरन्दणिहा- छविफुल्लमल्लिमकरन्दनिभाः । णवसोम्मजो- वण- नवसौम्ययौवन । लआकलिआसिरिं-लताकलिकाश्रियम् । तुह – तव । सेअ-

कणाअ-स्वेदकणाः। उव्वहन्ति–उद्वहन्ति। प्राकृते आर्या वृत्तम् ॥ १ ॥

प्रभाविलासः - १

वृत्तवर्तिष्यमाणकथासूचकं प्रवेशकमाह – ततः प्रविशतीत्यादिना ।

तदुक्तम्-

" वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।

प्रवेशकस्तु नाद्येऽङ्के नीचपात्रप्रयोजितः ॥

इति । वत्सलाः गौः ॥ १ ॥

विश्वास-प्रस्तुतिः - २

श्रद्धा- पिअसहि, दाणि3 किल
एकमुह-प्पडिठ्ठाविअ-सुइ-सिर-सिद्धन्तस्स
पडिपक्ख-पडिक्खेव-भाविअ-पडिण्णस्स भत्तुणो विवेअस्स
सहधम्मआरिणी4 देवी सुमई
पक्कन्द-णिव्वहण-दोहलेण
पडिगहिअ-5मङ्गलाआरा
पमआ-वण-पारिसर-अणसेलं6 आसिदा
कमला-वइ-चलण-कमल-समच्चण-जोग्गाइ कञ्चन-पदुमाइ उवहरिढुम् आणविऊण7
सोहक्कताण-हिअआ सुहं ठाई8
ता झत्ति उवसप्पेमि
पङ्कआसण-वअण-पङ्कअ-हंसिं भारईं विअ
पसण्ण-प्पवाहं भाईरईम् ।

( प्रिय-सखि,
इदानीं किलैक-मुख-प्रतिष्ठापित-श्रुति-शिरः-सिद्धान्तस्य
प्रतिपक्ष-प्रतिक्षेप-भावित-प्रतिज्ञस्य भर्तुर् विवेकस्य
सह-धर्मचारिणी देवी सुमतिः
प्रक्रान्त-निर्वहण-दोहलेन
प्रतिगृहीत-मङ्गलाचारा प्रमदा-वन-पार्श्व–रत्न-शैलम् आश्रिता
कमला-पति-चरण-कमल-समर्चन-योग्यानि काञ्चन-पद्मानि
+उपहर्तुम् आज्ञाप्य
शोभनैक-तान-हृदया सुखं तिष्ठति
तज् झटित्य् उपसर्पामि
पङ्कजासन-वदन-राज-हंसीं भारतीम् इव
प्रसन्न-प्रवाहां भागीरथीम् ।)

(अध्व-श्रमम् अभिनीय)

कच्छुत्तंसिअकप्परुक्ख सिहभासन्तवासन्तिआ-
गन्धुग्गारफुरन्त सोम्मलहरी सोहन्त रोहन्तरा ।
अम्हो! दूसहजम्मसञ्चरसमासिद्धाइ सुद्धाकिदी
दुखाई कइआ णु काहिर सअं मन्दाइ मन्दाइणी ॥

(कच्छोत्तंसित-कल्प-वृक्ष-शिखरोद्भासमान-वासन्तिका-
गन्धोद्गार-स्फुरत्-सौम्य-लहरी-शोभमान-रोधोन्तरा ।
अम्हो! दुः-सह–जन्म-सञ्चर-श्रमाऽऽसिद्धानि शुद्धाकृतिर्
दुःखानि कदा नु करिष्यति स्वयं मन्दानि मन्दाकिनी )॥ २ ॥+++(4)+++

मूलम् - २

श्रद्धा-पिअसहि, दाणि3 किल एकमुहम्पडिठ्ठाविअसुइसिर- सिद्धन्तस्स पडिपक्खपडिक्खेवभाविअपडिण्णस्स भत्तुणो विवेअस्स सहधम्मआरिणी4 देवी सुमई पक्कन्दणिव्वहणदोहलेण पडिगहि-5 अमङ्गलाआरा पमआवणपारिसरअणसेलं6 आसिदा कमलावइचलण- कमलसमच्चणजोग्गाइ कञ्चनपदुमाइ उवहरिढुम् आणविऊण7 सोह- क्कताणहिअआ सुहं ठाई8 । ता झत्ति उवसप्पेमि पङ्क आसणव- अणपङ्कअ अहंसिं मारई विअ पसण्णप्पवाहं भाईरई ।
( प्रियसखि, इदानीं किलैकमुखप्रतिष्ठापितश्रुतिशिरःसिद्धान्तस्य प्रतिपक्षप्रतिक्षेपभावितप्रतिज्ञस्य भर्तुर्विवेकस्य सहधर्मचारिणी देवी सुमतिः प्रक्रान्तनिर्वहणदोहलेन प्रतिगृहीतमङ्गलाचारा प्रमदावनपार्श्वरत्नशैलमाश्रिता कमलापतिचरणकमलसमर्चनयोग्यानि काचनपद्मानि उपहर्तुमाज्ञाप्य शोभनैकतानहृदया सुखं तिष्ठति । तत् झटित्युपसर्पामि पङ्कजासनवदनराजहंसीं भारतीमिव प्रसन्नप्रवाहां भागीरथीम् ।)

(अध्वश्रममभिनीय)

कच्छुत्तंसिअकप्परुक्ख सिहभासन्तवासन्तिआ-

गन्धुग्गारफुरन्त सोम्मलहरी सोहन्त रोहन्तरा ।

अम्हो दूसहजम्मसञ्चरसमासिद्धाइ सुद्धाकिदी

दुखाई कइआ णु काहिर सअं मन्दाइ मन्दाइणी ॥

(कच्छोत्तंसितकल्पवृक्ष शिखरोद्भासमानवासन्तिका-

गन्धोद्गारस्फुरत्सौम्यलहरीशोभमानरोधोन्तरा ।

अम्हो दुःसहजन्मसञ्चरश्रमासिद्धानि शुद्धाकृति -

र्दुःखानि कदा नु करिष्यति स्वयं मन्दानि मन्दाकिनी )॥ २ ॥

प्रभावली - २

X१९७
पिअसहि प्रियसखि । एहि इदानीम् । किल- किल । एक्कमुहप्पडि- ट्ठाविअ - एक मुखप्रतिष्ठापित, एकमुखमेककण्ठं यथा तथा । सुइसिरसिर्द्धत- स्स- श्रुतिशिरः सिद्धान्तस्य । पडिपक्खपडिक्खेवभाविअपडिण्णस्स - प्रतिपक्ष- प्रतिक्षेपभावितप्रतिज्ञस्य ; कृतप्रतिज्ञस्येत्यर्थः । भन्तुणो भर्तुः । विवेअस्स- विवेकस्य । सहधम्मआरिणी देवी सुमई- सहधर्मचारिणी देवी सुमतिः । देवी पत्नीत्यर्थः । पक्कन्दणिव्वहणदोहण प्रक्रान्तनिर्वहण दोहलेन । प्रक्रान्त

X१९८
उपक्रान्तः परपक्षप्रतिक्षेपः, तस्य यन्निर्वहणं समापनं तत्कौतूहलेनेत्यर्थः । परिगहिअमङ्गलाआरा- परिगृहीतमङ्गलाचारा । मङ्गलाचरणं कुर्वती- त्यर्थः । पमअवणपारिसरअणसेलं प्रमदवनपार्श्वरत्नशैलम् । आसिदा - आश्रिता । कमलावइचलणकमलसमश्चणजोग्गाइ कमलापतिचरणकमलसमर्चनयोग्यानि । कञ्चणपदुमाइ-काञ्चनपद्मानि । उवहरिडम् उपहर्तुम् । आणविऊण-आज्ञाप्य । मामिति शेषः । सोहणेक्कताणहिअआ-शोभनैकतानहृदया । सुहं सुखम् । ठाइ तिष्ठति । ता तस्मात् । झत्ति - झटिति । उवसप्पेमि उपसर्पामि । पङ्कआसणवअणपङ्कअराअहंसिं-पङ्कजासनवदनपङ्कजराजहंसीम् । भारइं विअ- भारतीमिव । पसण्णप्पवाह प्रसन्नप्रवाहाम्। भाईरइं- भागीरथीम् । अभिनीय ; अनुकृत्य । कच्छुत्तंसिअ इत्यादि । शार्दूलविक्रीडतं वृत्तमिदम् । कच्छुत्तंसिअ - कच्छोत्तंसित । कच्छ, जलप्रान्तस्थलम् तेनोत्तंसितः अलङ्कारतया धृतः । कप्परुक्ख- कल्पवृक्षः, तस्य । सिहरुम्भासन्त शिखरोद्भासमान । वासन्तिआ- वासन्तिका माधवी लता, तस्याः । गन्धुग्गारफुरन्त - गन्धोद्गारेण स्फुरत्; शोभमान इत्यर्थः । सोम्मलहरी - सौम्यलहरी; लहरी तरङ्गः । सोहन्त रोहन्तरा - शोभमानरोधोऽन्तरा । रोधः कूलम् । अम्हो इति खदे । दूसहजम्मसञ्चरसमा- सिद्धाइ - दुःसहजन्मसञ्चरश्रमासिद्धानि ; श्रमेण आसमन्तात् सिद्धानि दुःसह- जन्मसु सञ्चरणश्रमेण सिद्धानि । यद्वा सञ्चरः प्रचारस्थानम् । सुद्धाकिदी- शुद्धाकृतिः; श्वेताकारा । दुखाइं दुःखानि । कइआ - कदा । मदीयानीति

X१९९
शेषः । णु-नु । काहिइ करिष्यति । सअं स्वयम् । मन्दाइ - मन्दानि । मन्दाइणी- मन्दाकिनी । उक्तप्रकारा मन्दाकिनी अस्मद्दुरितानि कदा स्वयं मन्दान्यल्पानि करिष्यतीति योजना ॥ २ ॥

प्रभाविलासः - २

प्रियसखीति विस्रम्भपात्रत्वोक्ति’, " सखी विस्रम्भपात्रं स्यादाली स्नेहस्य भूमिका" इत्यालङ्कारिकोक्तेः । दोहलेन; कुतूहलेन । कच्छः ; जलप्रान्तप्रदेशः । वासन्ती माधवी लता । लहरी; प्रवाहः । अत्र
मन्दाकिनीस्तुत्या भावाख्या रतिर्व्यज्यते । तस्याश्च गुणभूतो निर्वेदः प्रतीयत इति प्रेयोऽलङ्कारः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

विचारणा - ( अग्रतो निर्दिश्य) (अग्रतो निर्दिश्य) एसा खु सा अम्हाणं आसण्णअरा । ता इमस्सिं सज्जनहिअअसीअलमन्दमारुअन्दोळिअमन्दारद्दुमकुसुममअरन्दसोरहभरिअमहुमहणपअसरिआपुळिणमाहवीलदाघरे खलवअणतिण्हउण्हअरकिरणसन्तावं उवसमऊण खणन्तरे गमिस्ससि ।

( एषा खलु सा अस्माकम् आसन्नतरा ।
तद् एतस्मिन्
सज्-जन-हृदय–शीतल-मन्द-मारुतान्दोलित–
मन्दार-द्रुम-कुसुम-मकरन्द-सौरभ-भरित–
मधु-मथन-पद-सरित्-पुलिन–माधवी+++(→श्वेतपुष्प)+++-लता-गृहे
खल-वचन-तीक्ष्णोष्ण-कर-किरण-सन्तापम् उपशमय्य
क्षणान्तरे गमिष्यसि ।)

जद्ध अ,

एदे णिब्भरणिय्यसोरहसुहापब्भारविभ्भाइअं
माणुळ्ळुञ्छणमीणलञ्छणमहाधाणुक्कबाणुक्करं ।
छाआळीणमहिन्दवारवणिआधम्मिळ्ळमळ्ळोइअं साखग्गेहि मुअन्ति पुप्फणिअरं रुक्खा मरुख्खोहिआ ॥

( यत्र च

एते निर्भर-नित्य-सौरभ-सुधा–प्राग्-भार–विभ्राजितं
मानोल्लुञ्छन–मीन-लाञ्छन–महा-धानुष्क-बाणोत्करम् ।
छायालीन–महेन्द्र-वार-वनिता–धम्मिल्ल-माल्योचितं
शाखाग्रैर् मुञ्चन्ति पुष्प-निकरं वृक्षा मरुत्-क्षोभिताः ।) ॥ ३ ॥ +++(4)+++

मूलम् - ३

विचारणा - ( अग्रतो निर्दिश्य) एसा खु सा अम्हाणम् आसण्णअरा । ता9 इमस्सि सजणहिअअसी अलमन्दमारुअन्दोलिअ- मन्दारदुमकुसुमम अरन्दसोरहभरिअमहुमहणपअसरिआपुलिणमाह वीलआघरे10 खलवअणतिण्डुण्हअर किरणसन्दावम् उवसमिऊण खणन्तरे गमिस्ससि ।

( एषा खलु सा अस्माकमासन्नतरा । तदेतस्मिन् सज्जनहृदय- शीतलमन्दमारुतान्दोलितमन्दारद्रुमकुसुममकरन्दसौरभ भरितमधुमथनपदसरित्पुलिन माधवीलतागृहे खलवचनतीक्ष्णोष्णकर किरणसन्तापमुपशमय्य क्षणान्तरे गमिष्यसि ।)
जत्थ अ11

एदे णिग्भरणिच्च12 सोरह सुहावन्भारविभाइअं

माणुल्लुञ्छणमीणलञ्छणमद्दाधाणुकबाणुकरम् । छायालीणमहिन्दवार वणिआधम्मिल्लमल्लोइअं

साहग्गेहि मुअन्ति पुप्फणिअरं रुक्खा मरुवखोहिआ

( यत्र च

एते निर्भर-नित्य-सौरभ-सुधाप्राग्भारविभ्राजितं
मानोल्लुञ्छनमीनलाञ्छनमहाधानुष्कवाणोत्करम् ।
छायालीन महेन्द्रवारवनिताधम्मिल्लमाल्योचितं
शाखायैर्मुञ्चन्ति पुष्पनिकरं वृक्षा मरुत्क्षोभिताः ।) ॥ ३ ॥

प्रभावली - ३

निर्दिश्य ; अङ्गुल्येति शेषः । एसा खु-एषा खलु । सा-सा । अम्हाणम् आसण्णअरा- अस्माकमासन्नतरा । ता तस्मात् । इमस्सि - एतस्मिन् । सज्जणहि अअसीअल- सज्जनहृदय वच्छीतल । मन्दमारुअन्दोलिअ मन्दमारुतान्दोलित । मन्दा- रद्दुम-मन्दारद्रुम । कुसुममअरन्द - कुसुममकरन्द । सोरहभरिअ - सौरभभरित । महुमहणपअसरिआपुलिण- मधुमथमपदसरित्पुलिन । पढसरिगङ्गा । माहवीलआ माधवीलता । घरे गृहे । खलवअणतिण्हुहुअर किलणसं दार्व खलवचनतीक्ष्णोष्णकरकिरणसन्तापम् । उवसमिऊण-उपशमय्य । खणन्तरे - क्षणान्तरे । गमिस्स सि-

X२००
गमिष्यसि । जत्थ अ-यत्र च । एदे इत्यादि । इदमपि शार्दूलविक्रीडितं वृत्तम् । एदे णिब्भरणिज्ज - एते निर्भरनिर्यत् । सोरहसुहा - सौरभसुधा । पब्भारविब्भाइअं - प्राग्भारविभ्राजितम् । प्राग्भारोऽतिशयः । सुधातिशयविर । जितमित्यर्थः । माणु- लुलुञ्छण- मानोलुलुञ्छन । अभिमानापहरणेत्यर्थः । मीणलञ्छणमहाधाणुक- मीनलाञ्छनमहाधानुष्क । मीनलाञ्छनो मकरध्वजः, स एव महाधानुष्कः
धन्विनामप्रयायी, तस्य । वाणुक्करं - बाणोत्करम्; बाणाः पुष्पाणि, तेषां सन्दोहम् । छाआलीण, छायालीन, छायाश्रित । महिन्दवारवणिआ-महे- न्द्रवारवनिता; अप्सरसः । धम्मिल्लमल्लोइअं धम्मिल्लमाल्योचितम् ; धम्मिल्लः केशबन्धः ; धम्मिल्लयोग्यं यन्माल्यं माला, तत्रोचितं योग्यम् । साहग्गेहि- शाखामैः । मुअन्ति-मुञ्चन्ति । पुप्फणिअरं पुष्पनिकरम् । रुक्खा - वृक्षाः । मरुक्खोहिआ - मरुत्क्षोभिताः । मारुतपरिघूर्णिता एते वृक्षा मरुत्क्षोभिताः सन्तः उक्तविशेषणविशिष्टं पुष्पनिकरं शाखाग्रैर्मुञ्चन्ति । अतोऽत्र विश्रम्य गच्छेति भावः ॥ ३ ॥

प्रभाविलासः - ३

एषेत्यादि । अत्र सरित्पुलिनलतागृहपदैर्दिवा विहारदेशोक्तिः । तदुक्तं भावप्रकाशे
" सरितः पुलिनं वेला कान्तारारामभूधराः ।

लतागृहाणि चित्राणि शय्या किसलयाचिता । दिवा विहारदेशाः स्युः ॥ "

इति । प्राग्भारोऽतिशयः । आलीनाः ; आश्रिताः ॥ ३ ॥

कुवाद्य्-अपर्याप्तता

विश्वास-प्रस्तुतिः - ४

श्रद्धा- जह रोअइ पिअसहीए ।
( यथा रोचते प्रिय-सख्यै)

(उभे स-ललितम् आसाते)13

श्रद्धा - हला विआरणे,
तुमम् उण किं णिमित्तम् इमं पदेसम् आअदा ?
(हला विचारणे,
त्वं पुनः किं निमित्तम् इमं प्रदेशम् आगता ?)

विचारणा- सुअउ पिअसहीए । अज्ज खु विवेअमहारा- अस्स ववसाअसेणावइसहाअस्स सण्णाहं सुणिऊण14 क् कुविएण रण्णा महामोहेण बुद्धणिप्पमुहसिद्धं तठावणप्पवीणा कुहअवाइणो कुमइगणेहिं सह पुरिसोत्तमपअपदुमणिअमिअचित्तं पुरिसं हाल- अजम्बु अदंसण15 ‘ण्णाएण अत्यन्तरप्पसँगेण पआरेढुम् आदिट्ठा उप- सप्पतित्ति किंवअन्तीम् आअण्णअन्तीए भट्टिणीए सुमईए विपक्ख16 - उत्तन्तम् एअन्ते सेणावइणो विण्णवेढुम् आणत्ता महाराएण विवेएण17 सह मन्तणप्पउत्तं तम् एव्व दट्ठ उवट्ठिअम्हि ।

( श्रूयतां प्रियसख्या ।
अद्य खलु विवेक-महा-राजस्य व्यवसाय–सेना-पति–सहायस्य सन्नाहं श्रुत्वा
कुपितेन राज्ञा महामोहेन
बुद्ध-जिन-प्रमुख–सिद्धान्त-स्थापन-प्रवीणाः कुहक-वादिनः
कु-मति-गणैः सह
पुरुषोत्तम-पद-पद्म-नियमित-चित्तं पुरुषं
हालिक+++(=कृषिक)+++-जम्बुक-दर्शन–न्यायेनार्थान्तर-प्रसङ्गेन
प्रतारयितुम् आदिष्टा उपसर्पन्तीति
किं-वदन्तीम् आकर्णयन्त्या भर्त्र्या सुमत्या
विपक्ष-वृत्तान्तम् एकान्ते सेनापतेः विज्ञापयितुम् आज्ञप्ता
महाराजेन विवेकेन सह मन्त्रण-प्रवृत्तं
तम् एव द्रष्टुम् उपस्थितास्मि । )

X२०३

श्रद्धा-अज्ज उण पिसाअविवाहम्मि गद्दभगाणं संवत्तं, जं महामोहसमीहिदे कज्जे दुव्वाइणं18 सण्णाहो । होदु णाम । ईसक्करम् एव्व19 परसिद्धं तणिम्मूलणं महाराअस्स ।

( अद्य पुनः पिशाच-विवाहे गर्दभगानं संवृत्तम्,
यन् महामोह-समीहिते कार्ये
दुर्वादिनां सन्नाहः ।
भवतु नाम ।
ईषत्-करम् एव परसिद्धान्त-निर्मूलनं महा-राजस्य ।)

विचारणा- हला, बुअप्पइप्पमुहेहिं20 पडिठ्ठाविआणं पबलाणं बहूणं परिपक्खाणम् एक्केण निम्मूलणं तुए कहम् आसंसिअं ?

(हला, बृहस्पति-प्रमुखैः प्रतिष्ठापितानां
प्रबलानां बहूनां प्रतिपक्षाणाम्
एकेन निर्मूलनं त्वया कथम् आशंसितम् ?)

श्रद्धा - जं सच्चं तम् एव्व णिचं होइ । जम् उण21 मिच्चा तं कालेण अलिअं होइत्ति जणवा असंवाइणा बलवन्तेण पमाणेण पेक्खिहिसि तुमम् एव्व मह वअणसश्चत्तणम् ।

( यत् सत्यं तद् एव नित्यं भवति
यत् पुनर् मिथ्या
तत् कालेन +अलीकं भवतीति
जन-वाद-संवादिना बलवता प्रमाणेन।
प्रेक्षिष्यसे त्वम् एव मम वचन-सत्यत्वम् ।)

दीसन्तो दिअसेसरोव्व बहलम् अन्धारप ब्भारअं
दिप्पन्तो अदवाणलोव्व विउलं विञ्झाडवीमण्डलम् ।
तूरन्तो अ पहञ्जणोव्त्र तुलिअं सेलेण तूलुक्करं
पेक्खन्तो णिहिलं विदुम्मइम भेत्तुं विवेओ पहू

( दृश्यमानो दिवसेश्वर इव बहलम् अन्धकार-प्राग्-भारकं
दीप्यमानश् च दवानल इव विपुलं विन्ध्याटवी-मण्डलम् ।
त्वरमाणश् च प्रभञ्जन इव तुलितं शैलेन तूलोत्करं
प्रेक्षमाणो निखिलमपि दुर्-मति-मतं भेत्तुं विवेकः प्रभुः ॥)+++(4)+++ ॥ ४ ॥

मूलम् - ४

श्रद्धा-जह रोअइ पिअसहीए ।

( यथा रोचते प्रियसख्यै)

(उभे सललितमासाते)13

श्रद्धा - हला विआरणे, तुमम् उण किं णिमित्तम् इमं पदेसम्

आअदा ?

(हला विचारणे, त्वं पुनः किं निमित्तमिमं प्रदेशमागता ?)
विचारणा-सुअउ पिअसहीए । अज्ज खु विवेअमहारा- अस्स ववसाअसेणावइसहाअस्स सण्णाहं सुणिऊण14 क् कुविएण रण्णा महामोहेण बुद्धणिप्पमुहसिद्धं तठावणप्पवीणा कुहअवाइणो कुमइगणेहिं सह पुरिसोत्तमपअपदुमणिअमिअचित्तं पुरिसं हाल- अजम्बु अदंसण15 ‘ण्णाएण अत्यन्तरप्पसँगेण पआरेढुम् आदिट्ठा उप- सप्पतित्ति किंवअन्तीम् आअण्णअन्तीए भट्टिणीए सुमईए विपक्ख16 - उत्तन्तम् एअन्ते सेणावइणो विण्णवेढुम् आणत्ता महाराएण विवेएण17 सह मन्तणप्पउत्तं तम् एव्व दट्ठ उवट्ठिअम्हि ।

( श्रूयतां प्रियसख्या । अद्य खलु विवेकमहाराजस्य व्यवसायसेनापतिसहायस्य सन्नाहं श्रुत्वा कुपितेन राज्ञा महामोहेन बुद्धजिन प्रमुखसिद्धान्तस्थापनप्रवीणाः कुहकवादिनः कुमतिगणैः सह पुरुषोत्तमपदपद्मनियमितचित्तं पुरुषं हालिकजम्बुकदर्शन-
न्यायेनार्थान्तरप्रसङ्गेन प्रतारयितुमादिष्टा उपसर्पन्तीति किंवदन्तीमाकर्णयन्त्या भर्त्र्या सुमत्या विपक्षवृत्तान्तमेकान्ते सेनापतेः विज्ञापयितुमाज्ञप्ता महाराजेन विवेकेन सह मन्त्रणप्रवृत्तं तमेव द्रष्टुमुपस्थितास्मि । )

X२०३

श्रद्धा-अज्ज उण पिसाअविवाहम्मि गद्दभगाणं संवत्तं, जं महामोहसमीहिदे कज्जे दुव्वाइणं18 सण्णाहो । होदु णाम । ईसक्करम् एव्व19 परसिद्धं तणिम्मूलणं महाराअस्स ।

( अद्य पुनः पिशाचविवाहे गर्दभगानं संवृत्तम्, यन्महामोहसमीहिते कार्ये दुर्वादिनां सन्नाहः । भवतु नाम । ईषत्करमेव परसिद्धान्तनिर्मूलनं महाराजस्य ।)
विचारणा-हला, बुअप्पइप्पमुहेहिं20 पडिठ्ठाविआणं पबलाणं बहूणं परिपक्खाणम् एक्केण निम्मूलणं तुए कहम् आसंसिअं ? (हला, बृहस्पतिप्रमुखैः प्रतिष्ठापितानां प्रबलानां बहूनां प्रतिपक्षाणामेकेन निर्मूलनं त्वया कथमाशंसितम् ?)

श्रद्धा - जं सच्चं तम् एव्व णिचं होइ । जम् उण21 मिच्चा तं कालेण अलिअं होइत्ति जणवा असंवाइणा बलवन्तेण पमाणेण पेक्खिहिसि तुमम् एव्व मह वअणसश्चत्तणम् ।
( यत्सत्यं तदेव नित्यं भवति । यत्पुनर्मिर्थ्या तत्काले नालीकं

भवतीति जनवादसंवादिना बलवता प्रमाणेन प्रेक्षिष्यसे त्वमेव मम

वचनसत्यत्वम् ।)

दीसन्तो दिअसेसरोव्व बहलम् अन्धारप ब्भारअं

दिप्पन्तो अदवाणलोव्व विउलं विञ्झाडवीमण्डलम् ।

तूरन्तो अ पहञ्जणोव्त्र तुलिअं सेलेण तूलुक्करं

पेक्खन्तो णिहिलं विदुम्मइम भेत्तुं विवेओ पहू

( दृश्यमानो दिवसेश्वर इव बहलमन्धकारप्राग्भारकं दीप्यमानश्च दवानल इव विपुलं विन्ध्याटवीमण्डलम् । त्वरमाणश्च प्रभञ्जन इव तुलितं शैलेन तूलोत्करं प्रेक्षमाणो निखिलमपि दुर्मतिमतं भेत्तुं विवेकः प्रभुः ॥) ॥ ४ ॥

प्रभावली - ४

जह रोअइ-यथा रोचते । पिअसहिए- प्रियसख्यै । तथास्त्विति शेषः । सललितम् ; सशृङ्गारम् । हला विआरणे-हला विचारणे । हलेति सख्याह्वाने वर्तते । तुमम् उण-त्वं पुनः । किं णिमित्तं कि निमित्तम् । इमं पदेसम् आअदा- इमं प्रदेशमागता । भवसीति शेषः । सुअउ - इत्यादि । सुअउ – श्रूयताम् ।

X२०२
पिअसहिए- प्रियसख्या । अज्ज खु-अद्य खलु । विवेअमहाराअस्स - विवेकमहा- राजस्य । ववसाअसेणावइसहाअस्स व्यवसायसेनापतिसहायस्य । सण्णाहं सुणि-

-सन्नाहं श्रुत्वा ; शत्रुविजयोद्योगं श्रुत्वा । कुवि एण- कुपितेन । रण्णा- राज्ञा । महामोहेण - महामोहेन । बुद्ध जिणप्पमुहसिद्धन्तठावण पवीगा बुद्ध जिन- प्रमुखसिद्धान्तस्थापण प्रवीणाः । कुहअवाइणो- कुहकवादिनः । बाह्या दुर्वादिन
इत्यर्थः । कुमइगणेहिं कुमतिगणैः सह । पुरिसोत्तमपादपदुमणिअमिअचित्तं- पुरुषोत्तमपादपद्मनियमितचित्तम् । पुरिसं पुरुषम् । हालिअ जम्बुअदंसणण्णाएण- हालिक जम्बुकदर्शनन्यायेन । हालिकः हलेन भूमिविलेखकः ; तस्य जम्बूकदर्शनम् । जम्बूकदर्शने हालिको भूविलेखनं विहाय जम्बुकमनुधावतीति प्रसिद्धिः । अत्थन्तरप्पसङ्गेण - अर्थान्तरप्रसङ्गेन । पआरेढुं प्रतारयितुम्; वञ्चयितुम् । उव- सम्पतित्ति-उपसर्पन्तीति । किंवअन्ती किंवदन्तीम् ; जनश्रुतिम् । आअण्ण- अन्तीए - आकर्णयन्त्या । भट्टिणीए - भट्टिन्या । सुमईए - सुमत्या । विपक्खउत्तन्तं- विपक्षवृत्तान्तम । एक्कते - एकान्ते । सेणावइणो- सेनापतेः । विष्णवेदुं विज्ञापयि-

X२०४
तुम । आणत्ता आज्ञप्ता । महाराएण-महाराजेन । विवेषण- विवेकेन सह । मन्तणप्पउत्तं-मन्त्रणप्रवृत्तम् । मन्त्रणं विचारः, तत्र प्रवृत्तम् । तम् एव्व तमेव । दटुं द्रष्टुम् । उवट्ठिअह्नि उपस्थितास्मि । अज्ज उण अद्य पुनः । पिसा- अविवाहम्मि पिशाचविवाहे । गद्दभगाणं - गर्दभगानम् । संवृत्तं संवृत्तम् । अत्र " पिशाचाना विवाहे तु गर्दभाः किल गायकाः" इति गाथानुसन्धेया । जं- यत् । महामोहसमीहिदे - महामोहसमीहिते । कज्जे-कार्ये । दुव्वाइणं-दुर्वादि- नाम् । सण्णाहो- सन्नाहः इति यत् तत् गर्दभगानं संवृत्तमिति योजना । होदु णाम- भवतु नाम । ईसरम् एव्व ईषत्करमेव । परसिद्धन्तणिम्मूलणं- परसिद्धान्त- निर्मूलनम् । महाराअस्स महाराजस्य ; विवेकस्येत्यर्थः । हलेत्यादि । बुअप्प - इप्पमुद्देहिं - बृहस्पतिप्रमुखैः । पडिट्ठाविआणं प्रतिष्ठापितानाम् । पबलाणं- प्रबलानाम् । बहूणं- बहूनाम् । पडिपक्खाणं प्रतिपक्षाणाम् । एक्केण एकेन ; प्रतिपक्षेणेति शेषः । णिम्मूलणं-निर्मूलनम् । मूलेन सहोत्पाटनम् । तुए त्वया । कहम् आसंसिअं - कथमाशंसितम् । जं सम्बमित्यादि । जं यत् । सचं सत्यम् । तम् एव्व - तदेव । णिचं होइ- नित्यं भवति । जम् उण- यत्पुनः । मिचा- मिथ्या । तं तत् । कालेण कालेन । अलिअं - अलीकम् ; अनृतम् । होइति भवतीति । जणवाअ संवाइणा जनवादसंवादिना । बलवन्तेण पमाणेण – बलवता प्रमा- णेन । पेक्खिहिसि-प्रेक्षिष्यसे । तुमम् एव्व त्वमेव । मह-मम । वअणसञ्चत्तणं-

X२०५
वचनसत्यत्वम् । अस्मिन्नर्थे दृष्टान्तत्रयं दर्शयन् विवेको महामोहं जेतुं समर्थो भवतीत्याह–दीसन्तो इत्यादि । इदमपि शार्दूलविक्रीडितं वृत्तम् । दीसन्तो दिअसेसरोव्व-दृश्यमानो दिवसेश्वरः सूर्य इव । बहलम् अन्धारप भारअं - बहलम् अन्धकारप्राग्भारकम्, अन्धकारातिशयमित्यर्थः । प्राग्भार एव प्राग्भारकः, तं यथा नाशयति तद्वत् ।

दिप्पन्तो अ दवाणलोव्व- दीप्यमानश्च दवानल इव ।
विउलं- विपुलम् ।
विञ्झाडवीमण्डलं- विन्ध्याटवीमण्डलम् ।

तूरन्तो अ-त्वरमाणश्च ।
पभञ्जणोव्व-प्रभञ्जनो वायुरिव ।
तुलिअं - तुलितम् । मेलेण - शैलेन ।
तूलुक्करं - तूलीत्करम् ।

पेक्खतो णिहिलं वि-प्रेक्षमाणो निखिलमपि । दुम्मइ- मअं- दुर्मतेर्मतम् इष्टं महामोहम् । भेत्तुं भेत्तुम् । विवेओ-विवेकः । पहू- प्रभुः ॥ ४ ॥

प्रभाविलासः - ४

X२०१

यथा रोचते प्रियसख्यै, तथा करोमीति शेषः । " रुच्यर्थानां प्रीयमाणः " इति चतुर्थी । हला इति सख्याहाने । हालिकजम्बुक-

;
दर्शनन्यायः ; हालिकानां कर्षकाणां जम्बुकदर्शनन्यायः । ते हि तद्दर्शने
कृषिम् विहाय धावन्तीति लौकिकी प्रथा । अद्येति । अत्र " पिशाचानां विवाहेषु गर्दभाः किल गायकाः " इति चाटुवचनं द्रष्टव्यम् ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

ता विवेअविअअकामस्स महामोहस्स कुमइगण22 सङ्ग्रहणं साअरलङ्घणूसुअस्स उवलसहा अण्णेसणम् ।

( तस्माद् विवेक-विजय-कामस्य महा-मोहस्य
कु-मति-गण-सङ्ग्रहणं
सागर-लङ्घनोत्सुकस्य
उपल-सहायान्वेषणम् ।)

विचारणा - पञ्चादम्हि पिअसहिवअणेण । सन्ता मे विइइच्चा । अविलम्बिअकिअप्पेसणं23 भट्टिणिं पेक्खामि ।

( प्रत्यायितास्मि प्रिय-सखी-वचनेन ।
शान्ता मे विचिकित्सा ।
अ-विलम्बित-कृत-प्रेषणां भर्त्रीं प्रेक्षे ।)

श्रद्धा - हला,24 समाणचित्तउत्तित्तणं सहित्तणं तुए पआ- सिअं’ । अहम् अ’ कमलाई ओएढुम् आरद्धा । तुमं वि राअघरम् एव्व पविससु ।

(हला, समान-चित्त-वृत्तित्वं सखित्वं त्वया प्रकाशितम्
अहं च कमलान्य् अव-चेतुम् आरब्धा
त्वम् अपि राजगृहं प्रविश )

( इति निष्क्रान्ते) प्रवेशकः

मूलम् - ५

ता विवेअविअअकामस्स महामोहस्स कुमइगण22 सङ्ग्रहणं साअरलङ्घणूसुअस्स उवलसहा अण्णेसणम् ।
( तस्माद्विवेकविजयकामस्य महामोहस्य कुमतिगण सङ्ग्रहणं सागरलङ्घनोत्सुकस्य उपल सहायान्वेषणम् ।)

विचारणा - पञ्चादम्हि पिअसहिवअणेण । सन्ता मे विइइच्चा । अविलम्बिअकिअप्पेसणं23 भट्टिणिं पेक्खामि ।

( प्रत्यायितास्मि प्रियसखीवचनेन । शान्ता मे विचिकित्सा । अविलम्बितकृतप्रेषणां भर्त्रीं प्रेक्षे ।)

श्रद्धा - हला,24 समाणचित्तउत्तित्तणं सहित्तणं तुए पआ- सिअं’ । अहम् अ’ कमलाई ओएढुम् आरद्धा । तुमं वि राअघरम् एव्व पविससु ।

(हला, समानचित्तवृत्तित्वं सखित्वं त्वया प्रकाशितम् । अहं च कमलान्यवचेतुमारब्धा । त्वमपि राजगृहं प्रविश )

( इति निष्क्रान्ते) प्रवेशकः

प्रभावली - ५

X२०६
विवेअविअअकामस्स-विवेकविजयकामस्य । महामो- कुमइ सङ्ग्रहणं कुमतिसङ्ग्रहणम् कुमतीना दुर्मतीनां

X२०७
सङ्ग्रहणम् । साअरलङ्घणूसुअस्स सागरलङ्घनोत्सुकस्य, पुंस इति शेषः । उवलसहाअण्णेसणं- उपलसहायान्वेषणम् ; तत्सदृशमित्यर्थः । पञ्चाइदहि- प्रत्यायितास्मि । पिअसहीवअणेण प्रियसखीवचनेन । भट्टिणि पेक्खामि भट्टिनीं सुमतिं प्रेक्षे । समाणचित्तउत्तित्तणं समानचित्तवृत्तित्वं सखित्वम् । तुए त्वया । पआसिअं प्रकाशितम् । अहम् अ- अहं च । कमलाई; कमलानि । ओएदु- अवचेतुम् ; उपाहर्तुमित्यर्थः । आरद्धा आरब्धा । तुमं वि-त्वमपि । राअघरं - राजगृहम् । पविससु-प्रविश । उभे निर्गच्छतः ।

·

प्रभाविलासः - ५

प्रत्यायिता विश्वासं गमिता । विचिकित्सा संशयः ।


  1. हला omitted —क,ख,ग ↩︎ ↩︎

  2. णिडिल—–क,घ ↩︎ ↩︎

  3. एण्हिं—क,ग,घ,च ↩︎ ↩︎

  4. सहधम्म*अरी—क,ग,घ ↩︎ ↩︎

  5. पडिग्गहिअ—क ↩︎ ↩︎

  6. पम^अवण ↩︎ ↩︎

  7. आणविअ—ख ↩︎ ↩︎

  8. चिट्ठ^इ—-ख,घ,च ↩︎ ↩︎

  9. तदो—–क ↩︎

  10. घरम्मि——-घ, च ↩︎

  11. एत्थ अ——क, ग, ड; अत्थ अ —-अ,ख,घ ↩︎

  12. णित्त—-क, ग, घ; णिज्ज=निर्यत्, इत् प्रभावलीपाठः ↩︎

  13. सलील—ख ↩︎ ↩︎

  14. सुणिअ——ख, घ ↩︎ ↩︎

  15. दंसण omitted—-क ↩︎ ↩︎

  16. पडिपक्ख—क ↩︎ ↩︎

  17. विवे एण —-omitted—क,ख ↩︎ ↩︎

  18. दुम्म ईणं—क ↩︎ ↩︎

  19. खु—क ↩︎ ↩︎

  20. बहप्प इ——क,ख; भ अप्पदि—-ग, घ ↩︎ ↩︎

  21. उण omitted–क ↩︎ ↩︎

  22. गण omitted —क,ख ↩︎ ↩︎

  23. किअप्पेसणां —-द ↩︎ ↩︎

  24. हला omitted —-क ↩︎ ↩︎