श्रीः
विस्तारः (द्रष्टुं नोद्यम्)
श्रीवेदान्तदेशिकविरचितः
सङ्कल्पसूर्योदयः
अहोबलाचार्यकृतेन प्रभाविलासेन, नृसिंहराजकृतया प्रभावल्या च सहितः
श्रीमान् वेङ्कटनाथार्यः
कवितार्किककेसरी
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥
विस्तारः (द्रष्टुं नोद्यम्)
Source: TW
प्रभावली - ०
ब्रह्म-तन्त्र-यतीन्द्रोक्त-
रहस्यार्थ-विचक्षणम् ।
श्रीशैल-तात-तनयम्
अनन्तार्यम् अहं भजे ॥
भगवन्तम् इवानन्त-
कल्याण-गुण-सागरम् ।
वेदान्त-देशिकं नौमि
वेङ्कटेश गुरूत्तमम् ॥
संसाराख्य-निशीथ-सुप्त-तनु-भृत्-सम्बोधनायाग्रणीः
सूरीणां स गुरुर् व्यधात् प्रकरणं सङ्कल्प-सूर्योदयम् ।
तत्रैतत् परिचिन्वता स भगवत्-सङ्कल्प-सूर्यो निशा-
मायां भागवतीं विमोक्ष्य विमलां धत्ते दृशं शाश्वतीम् ॥
यत्र सर्वे गुणाः पूर्णा
दोषो यत्र न कश्चन ।
व्याकुर्महे तं सङ्कल्प-
सूर्योदयम् अनुत्तमम् ॥
वेदान्त-देशिक-गिरां
भावः केनावगम्यते ।
अथापि तद्-दयाधारो
व्याख्यास्यामि यथामति ॥
इह सङ्कल्पसूर्योदये सकल-शारीरक-शास्त्रार्थः सङ्गृहीतः ।
शारीरक-शास्त्रार्थश्च पञ्चविधः ।
स्वसिद्धान्त-प्रतिष्ठापनं प्रथमम् ;
ततस् तत्-प्रतिपक्ष-निरासः ;
ततस् तद्-उक्तोपाय-निश्चयः ;
ततस् तद्-विरोधि-विलय-पूर्वकम् उपाय-परिग्रहः ;
ततो मोक्ष-प्राप्तिर् इति ।
इमे पञ्चार्थाः पञ्चस्व् अङ्केषु वक्तव्याः ।
अत्र द्वैगुण्येन दशाङ्काः प्रयुक्ताः ।
तत्र प्रथमेऽङ्के स्वसिद्धान्त-स्थापनम् ।
द्वितीयेऽङ्के स्वसिद्धान्त-विरोधिनः परसिद्धान्ताः प्रतिक्षिप्ताः ।
तृतीये तु स्वसिद्धान्तोक्तोपायनिश्चयः ।
चतुर्थादिष्व् अष्टमान्तेषूपाय-विरोधिनो निरस्ताः, उपाय-परिकराश् चोक्ताः ।
उपाय-विरोधिनः कामक्रोधादयः ।
तत्र चतुर्थेऽङ्के कामादीनाम्
आपाततः प्राबल्य-कथन-पूर्वकं
दौर्बल्य-प्रतिपादनम् ।
पञ्चमेऽङ्के डम्भादीनां निरसनीयत्व-ख्यापनम् ।
उपाय-परिकरस् तु द्विविधः
समाधि-स्थानम् आलम्बनं चेति ।
समाधिस्थानं निरूपितं षष्ठेऽङ्के ।
सप्तमे त्व् आलम्बनरूपः शुभाश्रयो निर्णीतः ।
अष्टमे काम-क्रोध-लोभ-मोहादि-विजय उक्तः ।
नवमेऽङ्के जित-विरोधिनः परिगृहीत-स्थान-शुभाश्रयस्य
समाधि-रूपोपाय-लाभ उक्तः ।
दशमेऽङ्के निःश्रेयस-लाभ उक्तः ।
अयम् एव मुमुक्षूणाम् अनुष्ठान-क्रमश्च ।
प्रथमं स्वसिद्धान्तं ज्ञात्वा
ततस्-तत्-प्रतिपक्ष-निरासं ज्ञात्वा,
स्वसिद्धान्तोक्तोपायं स्व-योग्यं निश्चित्य,
कामादीनां हेयतां ज्ञात्वा,
कामादीन् निरस्य,
समाधि-स्थानं निरूप्य,
शुभाश्रयं निध्याय,
स्वशक्यम् उपायं परिगृह्य,
क्रमेणार्चिर्-आदि-मार्गेण परमपदाधिरोहणम् इति ।
अत्र बीजारम्भ-समन्वय-रूपः प्रथमोऽङ्कः ।
बिन्दु-यत्न-समन्वय-रूपो द्वितीयः ।
पताका-प्रात्याशा-समन्वय-रूपस् तृतीयः ।
प्रकरीनियताप्ति-समन्वय-रूपश् चतुर्थः ।
कार्य-फल-समन्वय-रूपः पञ्चमः।
बीजारम्भ-समन्वय-रूपो मुख-सन्धिः प्रथम उच्यते ।
बिन्दु-यत्न-समन्वय-रूपः प्रतिमुख-सन्धिर् द्वितीयः ।
पताका-प्रात्य्-आशा-समन्वय-रूपस् तृतीयो गर्भसन्धिः ।
प्रकरी-नियताप्ति-समन्वय-रूपश् चतुर्थो ऽवमर्शसन्धिः ।
कार्य-फल-समन्वय-रूपः पञ्चम उपसंहारसन्धिः ।
यथोक्तम्-
मुखं प्रतिमुखं गर्भः
सावमर्शोपसंहृतिः ।
युक्तयः पञ्च कर्तव्यास्
तावन्तः सन्धयः स्मृताः ॥अङ्का दश प्रयोक्तव्याः
शान्तिः स्थायी रसो मतः । चतुर्वर्गफलं तत्र
कथा दिव्याश्रया भवेत् ॥
इति ।
यद्य् अप्य् अयं प्रबन्धः पदवाक्य-प्रमाण-श्रुति-स्मृति-पुराण-
काव्य-नाटकालङ्कार-
संस्कृत-प्राकृत-भाषा–तत्-संस्कार-जनित-भाषान्तरादि-
लौकिक-वैदिक-व्यवहार-सरणि-निपुणतर-जनैर् अनुसरणीयः ;
यद्य् अप्य् अत्र सन्धि-तद्-अङ्गोत्तमाधम-पात्र-स्वरूप-
तद्-उच्यमान-भाषा-विशेष–
तन्-नैपथ्य-रचना-विशेषाङ्गिकादि-चतुर्-विधाभिनय-प्रकार-
तद्-अङ्गोपाङ्ग-प्रत्यङ्ग-स्व-रूप-
तन्-निर्वर्त्याभिनय-विशेष-
तत्-तद्-अभिनय-विशेष-
तत्-तद्-अभिनय-साधन-भूत-संयुक्तासंयुक्त-
नृत्त-हस्त-सभ्य-सभा-शाला-लक्षण-
वीणा-वेणु-मृदङ्गादि-लक्षणादयः सर्वे वक्तव्याः ;
अथाप्य् अध्यात्म-तत्-पर-मुमुक्षूणाम्
अत्यन्तानादरणीयत्वाद् अनपेक्षितत्वाच् च नास्माभिस् तत्र प्रयस्यते ।
मुमुक्ष्व्-अपेक्षितार्थ-विशेषा एव यथामति यथाश्रुतम् अत्र वर्ण्यन्ते ।
सुधा-रस-विधाभृतः शशिकराकृति-व्याकृताः
पुरस्कृत-तिरस्कृतेक्षु-रस-शर्करा-सत्क्रियाः ।
कथं न्व् अवितथं विशङ्कटित+++(=महित)+++-वेङ्कटार्योक्तयः
स्फुटं विकट-बुद्धिभिः सपदि वित्रियेरन्न् इह ॥
अतीतोदन्वति प्रौढे
हनूमति तु जाग्रति ।
सांयात्रिकाः सञ्चरन्ते
किं न पोतैर् महार्णवे ॥
महत्सु सत्सु विद्वत्सु
सङ्कल्प-मिहिरोदयम् ।
व्याख्यातुम् उत्सुको मोहाद्
अहं तत् क्षन्तुम् अर्हथ ॥
प्रभाविलासः - ०
श्रीशं श्रियं वेङ्कट-देशिकेन्द्रं
पराङ्कुशार्यं यमिनं प्रणम्य ।
अहोबलोऽयं विवृणोति विद्वान्
सङ्कल्प-सूर्योदयम् अत्रिवंश्यः ॥