०४ विवेकादि-प्रवेशः

आरोप-प्रतिक्रिया

विश्वास-प्रस्तुतिः

(ततः प्रविशति राजा सुमतिश् च)

राजा - (स-विमर्शम् )
प्रिये, समाकर्णितस् त्वया
अनवधिक-दुरित-विष-वन1-मूल-भूतस्यामन्द-दर्पस्य कन्दर्प-वटोर् अयम् आटोपः
यद् असाव् अ-शेष-पाप-निष्कृतौ प्रयतमानान्
अस्मान् एव
पापान् परिवदति
अथवा -

पश्यति परेषु दोषान्
असतोऽपि जनः सतोऽपि नैव गुणान् ।
विपरीतम् इदं स्वस्मिन्
महिमा मोहाञ्जनस्यैषः ॥ ६३ ॥+++(5)+++

मूलम्

(ततः प्रविशति राजा सुमतिश्च)

राजा - (सविमर्शम् ) प्रिये, समाकर्णितस्त्वया अनवधिक दुरितविषवन1 मूलभूतस्यामन्ददर्पस्य कन्दर्पवटोरयमाटोपः । यदसावशेषपापनिष्कृतौ प्रयतमानानस्मानेव पापान्2 परिवदति3 । अथवा

पश्यति परेषु दोषानसतोऽपि जनः सतोऽपि नैव गुणान् ।
विपरीतमिदं स्वस्मिन् महिमा मोहाञ्जनस्यैषः ॥ ६३ ॥

प्रभावली - ६३

[[१२८]] ,

अथ बीजारम्भ-समन्वयात्मकं मुख-सन्धिं साङ्गं वक्तुं प्रथमाङ्कम् अवतारयति-

1- ततः प्रविशतीति । राजा ; विवेकः । विमर्शः ; विचारः । अत्र शिरः कम्पो विवक्षितः । समाकर्णितः सम्यगाकर्णितः । अनवधिकं यद् दुरितं, तदेव विषवन विषवृक्षवनं तन्मूलभूतस्यामन्ददर्पस्यातिमात्रगर्वस्य । कन्दर्प एव वटुः बालः, तस्य । आटोपः ; ससम्भ्रमो जल्पः । यत् ; यस्मात् । यद्वा योऽसावशेषेत्यादिः पाठः । समस्तपापानां निष्कृतौ प्रायश्चित्ते । प्रयतमानान् ; प्रयत्नं कुर्वाणान् । पापारोपेण ; अस्मास्वेव पापमारोप्य । परिवदति ; दूषयति । व्यथवा ; तत्र कोपो न कार्यः ; दुर्जनानामयं स्वभाव
इत्याहपश्यतीति । परेषु ; स्वव्यतिरिक्तेषु । असतोऽपि ; अविद्यमानानपि । दोषान् पश्यति ; आरोपयति । जनः ; दुर्जनः । सतः ; विद्यमानानपि गुणान्न पश्यति, असत्करोति । इदम् ; पूर्वार्धोक्तं दर्शनमदर्शनं च । स्वस्मिन् ; स्वविषये । विपरीतं पश्यति । स्वस्मिन् विद्यमानानपि देषान्न पश्यति, अविद्यमानानपि गुणानारोपयति । एषः ; इदमित्यर्थः । मोहाञ्जनस्य महिमा ; नोहात्मकस्याञ्जनस्य महिमा माहात्म्यम् । महिमापेक्षया एष इति पुंलिङ्गत्वम् ॥ ६३ ॥

प्रभाविलासः - ६३

एवं सङ्क्षेपतः सूच्यं वस्तु सूचयित्वा
असूच्यवस्तु निरूपयितुमुपक्रमते - तत इत्यादिना ।
परिवदति दूषयति । पश्यतीति । परेषु असतः अविद्यमानान् दोषान् पश्यति । सतो विद्यमानान् गुणान् न पश्यतीत्यन्वयः । इदं विपरीतम् उक्तव्यत्ययः । अविद्यमानगुणदर्शनं विद्यमानदोषादर्शनं च स्वस्मिन्नित्यर्थः । एवं दर्शने निमित्तमाह– महिमेति ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, विरूपा खु जणा णिअ-मुह-दोसं णिम्मलेसु4 वि दप्पणेसु समप्र्पेति ।

[[१९९]]

( आर्यपुत्र, विरूपाः खलु जना
निजमुखदोषं निर्मलेष्व् अपि दर्पणेषु समर्पयन्ति ।)+++(5)+++

राजा - देवि, सत्यम् एतत् ।
यथार्थ-दर्शिनी यथार्थ-वादिनी च भवती
+++(त्वद्-उक्त–सद्-आदर्श इव)+++।
किञ् च +++(न तेऽपि कामादयः सद्-दर्पणा आवयोः, यतः -)+++;

निर्धूत-निखिल-दोषा
निरवधि-पुरुषार्थ-लम्भन-प्रवणा ।
सत्-कवि-भणितिर् इव त्वं +++(सुमते)+++
स-गुणालङ्कार-भाव-रस-जुष्टा ॥ ६४ ॥+++(4)+++

मूलम् - ६४

सुमतिः अय्यउत्त, विरूपा खु जणा णिअमुहदोसं णिम्मलेसु4 विदप्पणेसु समप्र्पेति ।

[[१९९]]

( आर्यपुत्र, विरूपाः खलु जना निजमुखदोषं निर्मलेष्वपि दर्पणेषु समर्पयन्ति ।)

राजा - देवि, सत्यमेतत् । यथार्थदर्शिनी यथार्थवादिनी

च भवती । किञ्च ;

अन्यत्र,

i

निर्धूतनिखिलदोषा निरवधिपुरुषार्थलम्भनप्रवणा ।

सत्कविभणितिरिव त्वं सगुणालङ्कारभावरसजुष्टा ॥ ६४ ॥

प्रभावली - ६४

J

विरूपा इत्यादि । विरूपा खु - विरूपाः खलु । विरूपा दुष्टाङ्गाः । जणा-

॥ जनाः । णिअमुहदोसं निजमुखदोषम्, मालिन्यादि । णिम्मलेसु वि दप्पणेसुनिर्मलेष्वपि दर्पणेषु । समप्पेन्ति - समर्पयन्ति । यथार्थदर्शिनीत्यादि ; यत्प्रकारवैशिष्टो योऽर्थोऽवभासते तमर्थ तत्प्रकारविशिष्टं पश्यतीत्यर्थः । निर्धूतेति ।

[[१३०]] एकत्र दोषः संशयविपर्ययादिः । अन्यत्र शब्दार्थगतदोषः । एकत्र निरवधिपुरुषार्थो मोक्षः ; अन्यत्र यशभादिः, तस्य लम्भने प्रापणे प्रवणा तत्परा । सगुणेति । एकत्र गुणाः ; सकृद्ग्रहणावधारणार्जवाद्याः, त एवालङ्काराः हारादिभूषणानि, तैः सहिता । भावः ; रसोपहितविषयानुरागः । अन्यत्र गुणाः ;
ओजः प्रसादादयः । अलङ्काराः ; उत्प्रेक्षोपमादयः । भावाः ; निर्वेदादयः । रसाः ; शृङ्गारादयः । तैर्जुष्टा भवसीति शेषः । सत्कविभणितिरिवेत्येकं पदम् । एतावता प्रबन्धेन वस्तूपक्षेपः कृतो भवति । " उपक्षेपः परिकरः " इत्यादीनि द्वादशाङ्गानि मुखसन्धेः । परिकरादीन्यपि द्रष्टव्यानि । विस्तरभयान्न प्रदर्श्यन्ते ॥ ६४ ॥

प्रभाविलासः - ६४

निर्धूतेति । निखिलदोषपदेन प्रमाणप्रमेयप्रमातृदोषा उच्यन्ते ।
अपप्रयुक्तं दुःसन्धि व्युत्क्रमं पुनरुक्तिमत् । दुरन्वयं च वाक्याङ्गसङ्कीर्णं वाक्यगर्भितम् ॥ द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे । विकलं केवलं चेति दुष्टं काव्य मिहोच्यते ॥

"

इत्युक्तदोषाः । निरवधिपुरुषार्थः ; मोक्षः । अन्यत्र " काव्यं यशसेऽर्थ - कृते " इत्याद्युक्तफलम् । सगुणा ; आर्जवादिगुणयुक्ता । यद्वा,

"

‘शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।

ऊहोsपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥

इत्युक्तगुणयुक्ता । अन्यत्र,

" श्लेषः प्रसादः समता माधुरी सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता ॥ प्रमा समाधिरैर्जित्यं दाक्ष्यं गाम्भीर्यविस्तरौ । सङ्क्षेपः शब्दसंस्कारो भावित्वम् ॥ "

"”

इत्याद्युक्तगुणयुक्ता । अलङ्कारः ; परिष्कारः । अन्यत्र शब्दार्थो -

भयरूपालङ्काराः । तदुक्तम्-

((

एकदेशगताः सर्वे शरीरं कटकादिवत् ।
अलङ्कुर्वन्ति ये काव्यं तेऽलङ्कारतया मताः । त्रैविध्यं कथितं तेषां शब्दार्थोभयसंश्रयात् ॥

[[१३१]]

इति । भावः ; अभिप्रायः । अन्यत्र व्यञ्जितसञ्चारिभावा रतिः । तदुक्तं काव्यप्रकाशे - " रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः " इति । रसः ; रागः । अन्यत्र शृङ्गारादिः । सत्कवयः ; वाल्मीकिप्रमुखाः ॥ ६४ ॥

स्व-कार्य-काठिन्यम्

विश्वास-प्रस्तुतिः

( विचिन्त्य) प्रिये, हन्त निर्विकार-पुरुष-पीडया क्रीडन्त एते काम-क्रोध-लोभादयः सुपन्थानम् आस्थिताः ;
वयं पुनस् तम् एव निःश्रेयसेन योजयितुं समस्त-जन-सांसिद्धिक-सुहृदो
भगवतस् ताप-त्रयाभिहत–सर्वजन-सञ्जीवनीं दया-वृष्टिं प्रवाहयन्तः
कद्-अध्वना प्रस्थिताः
अहो महान् अयम् उन्मत्त-प्रलापः।
पश्य मे त्वया सह निर्वर्तनीयं परानुग्रह-व्रतम् -

महत्य् आरम्भे ऽस्मिन्, मधु-रिपु–दया-सम्भृत-धृतिर्
बहिष्-कृत्यारातीन् सुमुखि बहिर् अन्तश् च भवतः +++(→अरातीन्)+++ ।
समाधाव् आधाय, क्षपित-वृजिनं क्षेत्रिणम् अहं
पर-प्राप्त्या धन्यं परिणमयितुं प्राप्त-नियमः ॥ ६५ ॥

मूलम् - ६५

( विचिन्त्य) प्रिये, हन्त5 निर्विकारपुरुषपीडया क्रीडन्त

एते कामक्रोध लोभादयः सुपन्थानमास्थिताः ; वयं पुनस्तमेव निःश्रेयसेन योजयितुं समस्त जनसांसिद्धिकसुहृदो भगवतस्तापत्रयाभि-
हतसर्वजन सञ्जीवनी दयावृष्टिं प्रवाहयन्तः कदध्वना प्रस्थिताः । अहो

महानयमुन्मत्तप्रलापः6 । पश्य मे त्वया सह निर्वर्तनीयं परानु-

ग्रहव्रतम् -
महत्यारम्भेऽस्मिन् मधुरिपुदयासम्भृतधृति-

र्बहिष्कृत्यारातीन् सुमुखि बहिरन्तश्च भवतः ।
समाधावाधाय क्षपितवृजिनं क्षेत्रिणमहं

परप्राप्त्या धन्यं परिणमयितुं प्राप्तनियमः ॥ ६५ ॥

प्रभावली - ६५

प्रिये हन्तेत्यादि । महानयमुन्मत्तप्रलाप इत्यन्तं बीजम् " तद्वीजमादौ यद्वस्तु सङ्क्षेपात्संविधीयते " इत्युक्तेः । महत्यारम्भ इति श्लोक आरम्भरूपः, " औत्सुक्यमात्रमारम्भः फललाभाय भूयसे " इत्युक्तेः । हन्तेति खेदे । निर्विकारो यः पुरुषः जीवः बाल्ययौवनादिराहित्यात् ; तस्य पीडया क्रीडन्तः । सुपन्थानं शोभनमार्गम् ; न पूजनात् " इति समासान्तप्रतिषेधः । आस्थि- ताः ; अङ्गीकृतवन्तः । प्रस्थिता इति काकुः । न तथेत्यर्थः । तमेव ; तैः पीडितमेव । निःश्रेयसेन ; मोक्षेण । समस्तजनेषु स्वाभाविकसौहार्दवतः । प्रवाहयन्तः ;

[[१३२]] प्रवाहं कारयन्तः । कदध्वना ; कुत्सितमार्गेण, प्रस्थिताः । अहो इति आश्वर्ये । निर्वर्तनीयम् ; अनुष्ठेयम् । परानुग्रहरूपं परानुग्रहार्थं वा व्रतं नियमविशेषम् ।

महत्यारम्भ इति । आरम्भे ; आत्मनिःश्रेयसप्रापणरूपे । मधुरिपुदयासम्पादितः सन्तोषो धैर्य वा यस्य सः । अयं प्रथमाङ्कार्थः । बहिष्कृत्य ; तिरस्कृत्य । बहिर् भवतो ऽरातीन्, अन्तर् भवतश् चारातीन् । बहिर्भवन्तो बाह्यकुदृष्टयः ; तद्बहिष्करणं द्वितीयाङ्कार्थः । अन्तर्भवन्तः कामक्रोधादयः ; तद्बहिष्करणं तृतीय-

[[१३४]] ""

चतुर्थपञ्चमाष्टमाङ्कार्थाः । समाधावाधाय ; उपासने मनः स्थापयित्वा । अयं नवमाङ्कार्थः । क्षेत्रिणमिति अत्र परत्र च सम्बध्यते । क्षपितवृजिनम् ; नाशितपुण्यपापरूपकर्माणम् । परप्रात्या धन्यं परिणमयितुम् ; भगवत्सायुज्यावाया धन्यत्वेन सम्पादयितुम् । प्राप्तनियमः ; अस्मीति शेषः । अयमुपक्षेपः ॥ ६५ ॥

प्रभाविलासः - ६५

विचिन्त्येत्यादि । निर्विकारपुरुषः ; जीव. । सांसिद्धिकसुहृदः ;
स्वाभाविकसुहृदः । कदध्वना ; कुमार्गेण । निर्वर्तनीयम् ; निष्पादनीयम् । पूर्वोक्तभेदमसूच्यं वस्तु बीजादिभेदात् पञ्चधा भिद्यते । तदुक्तम्—

" प्रकृत्याख्यं च तद्वस्तु पञ्चधा परिकीर्तितम् ।

बीजं बिन्दुः पताका च प्रकरी कार्यमित्यपि । "

इति । नायकादिकृत्यमप्यवस्थाभेदात् पञ्चधा भिद्यते । तदुक्तम्-

पञ्चावस्था कार्यस्य नायकादिक्रियावशात् । आरम्भयत्नप्रात्याशा नियताप्तिफलागमाः ॥

इति । यथाक्रमेणैतेषां संयोगान्मुखादिसङ्घयः पञ्च स्युः । तदुक्तम्-

"

‘एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया ।

संयोगे सङ्घयो ज्ञेयाश्चतुःषष्ट्यङ्गसङ्गताः ॥

इति । तत्र बीजारम्भसमन्वयरूपो मुखसन्धिराद्या निरूप्यते । अत्रापवर्गरूपमुख्यप्रयोजनवशेनान्वितानां कथांशानां जायमानकटाक्षाचार्योपसत्तिप्रपदनाद्यवान्तरप्रयोजनेन सम्बन्धात् सन्धिरित्युच्यते । तदुक्तम् -
" मुख्य प्रयोजनवशात्कथांशानां समन्वये ।

अवान्तरार्थसम्बन्धः सन्धिः सन्धानरूपतः ॥

[[१३३]]

इति । एवमवान्तरफलेब्वन्तरा स्फुरन् विवेकोत्साहो बीजम् । तल्लक्षणम्-

"

स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा ।

उप्तं बीजं तरोर्यद्वदङ्कुरादिविभेदतः ॥ "

इति । आरम्भस्तु “ औत्सुक्यमात्रमारम्भ फललाभाय भूयसे " इति । तमिमं नायकोत्साहोचितव्यापारप्रदर्शनेनाह — महतीति । आरम्भे पुरुषमोचनौत्सुक्ये । धृतिः ; धैर्यम्, उत्साहो वा । बहिर्भवतः प्रतिवादिनः । अन्तभवतः कामादीनरातीन् शत्रून् । बहिष्कृत्य ; निरस्य । अत्र निराकृत्येति प्रयोगेनापेक्षितार्थे लब्वेऽपि बहिष्कृत्येत्युक्तिर्बाह्यरूपाण। शिष्टपरिषत्प्रवेशानर्हत्वं ध्वनयितुम् । इदं च व्यङ्ग्यं पदान्तरप्रयोगे न सिध्यति । अयमेव परिवृत्त्यसहत्वलक्षणशब्दप्राधान्यमूलः पदद्योत्योऽनुरणनात्मकध्वनिरित्युच्यते । तदुक्तं काव्यप्रकाशे - " वाक्ये द्वयुत्थः पदेऽप्यन्ते " इति ।
समाधावाधाय ; समाधिप्रवणं कृत्वेत्यर्थः । क्षपितवृजिनम् ; नाशितपापम् । परप्राप्त्या ; ब्रह्मप्रात्या । अत्र

"

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना । "

इत्युक्तेषु मुखसन्ध्यङ्गेषूपक्षेपरूपमङ्गं प्राप्तनियम इत्यनेनोक्तम् । तल्लक्षणं तु बीजन्यास उपक्षेपः" इति । अत्र श्लोके प्रतिवाक्यं वर्णावृत्तेर्भिन्नरूपत्वादव्यापकवर्णानुप्रासोऽलङ्कारः । तदुक्तम्- –

""

अनुप्रासस्तु वर्णानामावृत्तिरविदूरगा ।

अव्यापको व्यापकश्चेत्ययं द्वेधा समासतः ॥

इति ॥ ६५ ॥

बन्ध-कारणम्

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, कहं सो णिणिम्मलमहाणन्दसन्तसअम्पआस7 सव्वजण दंसणजोग्गसहावो पुरिसो महामोहेण माणमदमञ्चरप्पमुहेहिं दुब्विणीदेहिं दुब्वारगव्वसङ्कुलदुरिअमहोम्मिसङ्घाअसङ्घडण8 भीसणे दुक्खसाअरम्मि णिक्खित्तो ?

( आर्यपुत्र, कथं
नित्य-निर्मल–महानन्द-शान्त–स्वयम्-प्रकाश–
सर्व-जन–दर्शन-योग्य–स्वभावः पुरुषो
महा-मोहेन मान-मद-मत्सर-प्रमुखैर् अपि दुर्विनीतैर्
दुर्वार-गर्व-सङ्कुल–दुरित-महोर्मि-सङ्घात–सङ्घटन-भीषणे
दुःख-सागरे निक्षिप्तः ?)

राजा - प्रिये सूक्ष्म-दर्शिनि,9
किं +++(प्रत्यक्षं)+++ दृष्टम् अपह्नोतव्यम् ?

आगमिकं वा
किं न प्रत्येतव्यम् ?
पश्यतु भवती-

स्वतः प्राप्तं रूपं,, यद् इह किल भावेषु तद् अपि
त्यजन्तस् ते दृष्टा नियति-घटितोपाधि-वशतः ।
प्रकृत्या तिष्ठन्ति ह्य् उपधि+++(=कपट)+++-विगमे ते च, तद् असाव्
अनादिः संसारः पुरुषम् उपरुन्धे गलति च ॥ ६६ ॥

मूलम् - ६६

सुमतिः - अय्यउत्त, कहं सो णिणिम्मलमहाणन्दसन्तसअम्पआस7 सव्वजण दंसणजोग्गसहावो पुरिसो महामोहेण माणमद-
मञ्चरप्पमुहेहिं दुब्विणीदेहिं दुब्वारगव्वसङ्कुलदुरिअमहोम्मिसङ्घाअसङ्घडण8 भीसणे दुक्खसाअरम्मि णिक्खित्तो ?

[[१३५]]

( आर्यपुत्र, कथं स नित्यनिर्मलमहानन्दशान्तस्वयम्प्रकाशसर्वजनदर्शनयोग्य स्वभावः पुरुषो महामोहेन मानमदमत्सरप्रमुखैरपि दुर्विनीतैर्दुर्वारगर्व सङ्कुलदुरितमहोर्मिसङ्घात सङ्घटनभीषणे दुःखसागरे

निक्षिप्तः ?)

राजा - प्रिये सूक्ष्मदर्शिनि,9 ’ किं दृष्टमपह्नोतव्यम् ? आग-

मिकं वा किं न प्रत्येतव्यम् ? पश्यतु भवती-
स्वतः प्राप्तं रूपं यदिह किल भावेषु तदपि

त्यजन्तस्ते दृष्टा नियतिघटितोपाधिवशतः ।

प्रकृत्या तिष्ठन्ति ह्युपधिविगमे ते च तदसा-

वनादिः संसारः पुरुषमुपरुन्द्धे गलति च ॥ ६६ ॥

प्रभावली - ६६

कहं सो इत्यादि । कहं सो-कथं सः । णिश्चणिम्मलम हाणन्द - नित्यनिर्मलमहानन्द । सन्तसअम्पह - शान्तस्वयम्प्रभ । सव्वजणदंसणजोग्गसहावोसर्वजनदर्शनयोग्यस्वभावः । स्वयम्प्रकाशत्वादिना सर्वैरप्यभिलषणीयस्वभाव इत्यर्थः । पुरिसोपुरुषः । महामोहेण ; महामोहेन । माणमअमञ्चरप्पमुहे हिं-मानमदमत्सरप्रमुखैः । दुव्विणीएहिं दुर्विनीतैः । दुव्वारगव्व सङ्कुलदुर्वारगर्वसङ्कुल । दुरिअमहोम्मिसङ्घाअ-दुरितमहोर्मिसङ्घात । सङ्घडणभीसणे - सङ्घटनभीषणे । दुक्खसाअरम्मि णिक्खित्तो दुःखसागरे निक्षिप्तः । सूक्ष्मदर्शिनीति प्रियां श्लाघते ।

दृष्टं किम् अपह्नोतव्यम् ; प्रत्यक्षितमर्थजातं किमपह्नोतुं शक्यम् । न शक्यमित्यर्थः ।

[[१३६]]

प्रत्यक्षतोऽनुभूतं संसरणं मायिवदपह्नोतुमनुचितमिति भावः । आगमिकं वा किं न प्रत्येतव्यम् ; वेदान्तसिद्धोऽर्थः कथं प्रत्येतुं श्रद्धातुमयोग्यम् । वेदान्तप्रतिपादितं मोक्षाद्यपि मृषेत्यपि वक्तुं न युक्तमित्यर्थः । न हि वयं वैशेषिकादिवद्युक्तिमात्रशरणाः । किन्तु " आर्ष धर्मोपदेशं च इत्युक्तरीत्या प्रत्यक्षानुमानागमानुगुण्येनार्थनिर्णेतारः । अनेन सुमतिशङ्कायाः किमुत्तरं दत्तमित्यत्राह - स्वतः प्राप्तमिति । इह लोके । भावेषु ; स्फटिकादिपदार्थेषु । स्वतः प्राप्तं स्वाभाविकं नैर्मल्यादिकं यद्रूपमस्ति, ते स्फटिकादयः नियतिघटितोपाधिवशतः अस्यायमुपाधिरिति प्रतिनियतजपाकुसुमादिप्रयोजकवशात् तदपि स्वाभाविकमपि त्यजन्तो दृष्टाः । ते च ; त एव । उपधिविगमे ; उपाधेरसन्निधाने । प्रकृत्या ; स्वरूपेण तिष्ठन्ति । हि ; यस्मात् तस्मात् । अनादिः ; आत्मस्वरूपसमकालवर्ती । संसारः ; जीवं संसारयतीति संसारः, कर्माख्याविद्या । पुरुषमुपरुन्द्धे ; आवृणोति । गलति च ; अविद्यापाये अपयाति च । नित्यनिर्मलत्वमपि पुरुषस्य
[[१३७]]

सत्यम् । कर्माख्यया अविद्यया तन्निरोधनमपि सत्यम् । परमपुरुषप्रसादेनाविद्यापाये संसारान्मोक्षोऽपि सत्यः । मायिसाख्यादिवत् संसारो मिध्येति वक्तुमनुचितम् । संसार एव स्वाभाविकं रूपं, न मोक्षोऽस्तीत्यपि वक्तुमशक्यमिति भावः ॥ ६६ ॥

प्रभाविलासः - ६६

दृष्टम् ; जन्मकर्मजरामरणादिक्लेशविषयं प्रत्यक्षम् । आगमिकम्

आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्धयुपचयौ नास्य एकस्याखिलजन्तुषु । ”

"

" ज्ञानस्वरूपमत्यन्त निर्मलं परमार्थतः ॥ "

इत्यादिशास्त्रोक्तम् । प्रत्यक्षशास्त्रयोर्विरोधेऽन्यतरद्धेयमित्याशङ्क्याविरोधमेव
सनिदर्शनमाह – स्वत इति । इह लोके भावेषु मण्यादिपदार्थेषु स्वतः प्राप्तं यत् प्रभावत्त्वादिकम्, अस्तीति शेषः ; तदपि नियतिघटितोपाधिवशतः दैवात्प्राप्तमलाद्यभिभवेन ते त्यजन्तो दृष्टाः । ते च भावा उपधिविगमे मलाद्यपकर्षणे प्रकृत्या स्वतः प्राप्तरूपेण तिष्ठन्ति । उपपादितमर्थं दान्तिकेऽप्यतिदिशति तदसाविति । उपरुन्द्धे ; बध्नाति । गलति ;

॥ मुञ्चति च । तदुक्तं वैष्णवे-
एकस्वरूपभेदो हि बाह्यकर्मावृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः ॥

इति ॥ ६६ ॥

देव-लीला-दये

विश्वास-प्रस्तुतिः

सुमतिः–एव्वम् एदं10 । तह वि कहम् एआवन्तं कालं परमकारुणिएण देव्वेण लच्छीवलहेण11 दूसहदुक्खसअदूमिओ12 पुरिसो उवेक्खिदो ?

( एवम् एतत् ।
तथा ऽपि
कथम् एतावन्तं कालं
परम-कारुणिकेन देवेन लक्ष्मी-वल्लभेन
दुः-सह-दुःख-शत-धूमितः पुरुष उपेक्षितः ?)

राजा - किं न श्रूयते भवत्या —
यद् अनादि-निज-कर्म-रूपाविद्याऽपरोधेन13
क्षेत्रज्ञो ऽयम् ईश्वरेण क्षिप्तः संसरन्न्
अवसरे तेनैव समुद्ध्रियत इति ।

यथा —

+++(लीला-दया-)+++मिथः-कलह-कल्पना–विषम-वृत्ति–लीला-दया-
+++(उभय-)+++परिग्रहण-कौतुक–प्रथित-पारवश्यः प्रभुः ।
स्व-लक्षित-समुद्गमे सुकृत-लक्षणे कुत्रचित्
+++(पुर्वम् अवर्तमानान्य् अपि साध्व्-अक्षराण्य् आरोपयन्न् इव)+++
घुण-क्षत-लिपि-क्रमाद् उपनिपातिनः पाति नः ॥ ६७ ॥+++(4)+++

मूलम् - ६७

सुमतिः–एव्वम् एदं10 । तह वि कहम् एआवन्तं कालं परमकारुणिएण देव्वेण लच्छीवलहेण11 दूसहदुक्खसअदूमिओ12 पुरिसो उवेक्खिदो ?

( एवमेतत् । तथापि कथमेतावन्तं कालं परमकारुणिकेन देवेन लक्ष्मीवल्लभेन दुःसहदुःखशतधूमितः पुरुष उपेक्षितः ?)

राजा - किं न श्रूयते भवत्या — यदनादिनिजकर्मरूपावि-
द्यापरोधेन13 क्षेत्रज्ञोऽयमीश्वरेण क्षिप्तः संसरन्नवसरे तेनैव समु-

द्ध्रियत इति । यथा —

मिथः कलहकल्पनाविषमवृत्तिलीलादया-

परिग्रहणकौतुकप्रथितपारवश्यः प्रभुः ।

स्वलक्षितसमुद्गमे सुकृतलक्षणे कुत्रचित्

घुणक्षतलिपिक्रमादुपनिपातिनः पाति नः ॥ ६७ ॥

प्रभावली - ६७

एवम् एदं - एवमेतत् । तह वितथापि । कहं कथम् ! एआवन्तं कालं – एतावलं कालम् । परमकारुणिएण - परमकारुणिकेन । देव्वेण देवेन । लच्छीवल्लहेण - लक्ष्मीवल्लमेन श्रीमता नारायणेन । दूसहदुक्खसअताविओदुःसहदुः-खशततापितः ।

[[१३८]] पुरिसो उवेक्खिओ - पुरुष उपेक्षितः । यदनादीति । समुद्धियत इति यत्तन श्रूयते किमित्यन्वयः । अनादि यन्निजकर्म, तदेवाविद्या, सैवापराधः, तेन हेतुना दुःखसागरे निक्षिप्तः संसरन् पुरुषः । अवसरे ; यादृच्छिकसुकृतमूलाचार्य परिग्रहरूपरक्षाकाले । तेनैव ; येन पूर्वे निक्षिप्तः तेनैवे - त्येवकाराभिप्रायः ।

" एष एव साधु कर्म कारयति तम्" इत्याद्युक्तरीत्या समुद्ध्रियते संसारादिति । एतदेव प्रकारान्तरेण प्रकटयति—यथेत्यादिना ।

मिथः परस्परं संसारणोत्तारण-रूप-कलहस्य कल्पना,
अहं पुरुषं संसारयामीति लीला
दयया सह कलहमाचरति -
अहमुत्तारयामीति दया लीलया सह ।
इत्थं विषम-वृत्तिन्यौ भिन्नवर्तने ये
लीलादया
तयोः परिग्रहणे कौतुकेन कौतूहलेन, अङ्गीकाराभिलाषेणेत्यर्थः ।
प्रथितं प्रसिद्धं वेदान्तेषु पारवश्यं यस्य सः ।
प्रभुः ; ईश्वरोऽपि ।
" यमधो निनीषति, यम् ऊर्ध्वमुन्निनीषति ” इति श्रुतिः ।

स्वलक्षित-समुद्गमे ; स्वसंवेद्योदये ।
सुकृत-लक्षणे ; सुकृतात्मके कुत्रचित् कर्मणि
यादृच्छिक-प्रासङ्गिकादाव् इत्य् अर्थः ।
यादृच्छिकं नाम —
कश्चिद् धीवर उपरागकाले मत्स्य-ग्रहण-कौतुकात् जले मज्जतीत्यादि ।
घुण-क्षत-लिपि-क्रमात् ;
घुणो नाम दावघाटः कीटविशेषः,
तस्य क्षतेन अक्षरानक्षर-विवेकाभावेन दारूणि आहन्यन्ते ;
परीक्षकस् तत्र कुत्रचिद् अक्षरत्वम् आपादयति ;
तन्न्यायेन ।
उपनिपातिनः पाति नः ;
पतितान् पतन-शीलान् वा नोऽस्मान् पाति
भगवान् अपि सापराधान् अस्मान्
आत्मनो लीलया शिक्षयन्
कारुणिकतया कस्मिंश्चित् कर्मणि
स्वयम् एव सुकृतत्वम् आरोप्य रक्षति ॥ ६७ ॥

प्रभाविलासः - ६७

किं न श्रूयते ;

" एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः ।

जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥
इत्यादिष्विति भावः । मिथ इति । ’ एनं संसारिणं करोमि ’ इति सङ्कल्पो लीलाकार्यः । एनं मोचयामि’ इति सङ्कल्पो दयाकार्यः । एवं विरुद्धकार्यकरत्वं विषमवृत्तित्वम् । कलहस्यारोपितत्वं वक्तुं कल्पनेत्युक्तिः । वस्तुतस्तु तयोरन्योन्यानुकूल्यमेव, " आसृष्टि सन्ततानाम् " इति दयायां “स्थेमभङ्गादिलीले " इति लीलायां चेतरेतरकार्यान्वयात् । परिग्रहणकौतुकेति दक्षिणनायकसमाधिः, " तुल्योऽनेकत्र दक्षिणः " इत्यालङ्कारिकोक्तेः । प्रथितपारवश्य इत्यवसरनिरीक्षणाभिनिवेश उक्तः । प्रभुरिति सत्यवसरे रक्षणस्य निष्प्रत्यूहतोता । स्वलक्षितसमुद्रमे ;

[[१३९]]

स्वनिरीक्षितोत्पत्तिके स्वानुमतोत्पत्तिके वा स्वविषयकोत्पत्तिके वा । सुकृतलक्षणे सुकृतस्वरूपे ; यादृच्छिकादिक इति यावत् । तदपि स्वल्पमित्याह

-कुत्रचिदिति । घुणः ; कीटविशेषः । क्रमः ; न्यायः । उपनिपातिनः ; अन्वयिनः । नः अस्मान् पातीत्यन्वयः । अनेन बीजबहूकरणरूपं परिकरो नाम मुखसंवेरङ्गं निरूपितम् । अत्र श्लोके पूर्वार्धे दीर्घसमासत्वात् उत्तरार्धे नातिदीर्घसमासत्वाच्च पाञ्चाली रीतिः । तदुक्तम् - " पाञ्चालरीतिर्वैदर्भ गौडरीत्युभयात्मिका " इति ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अत्र च

सुख-दुःख-वाहिनीनां
व्यत्यय-विनिमय-निवर्तनानर्हे । नियत-क्रमे प्रवाहे
निपतितम् उत्क्षिप्य मोदते देवः ॥ ६८ ॥

मूलम् - ६८

अत्र च 14

सुखदुःखवाहिनीनां व्यत्ययविनिमयनिवर्तनानर्हे ।

नियतक्रमे प्रवाहे निपतितमुत्क्षिप्य मोदते देवः ॥ ६८ ॥

प्रभावली - ६८

[[१४०]] ननु यादृच्छिकादीनां पुरुषबुद्धिपूर्वकत्वाभावेन कथं सुकृतत्वम् ? ईश्वरबुद्धया सुकृतत्वे सुकृतत्वमारोप्य रक्षतस्तस्य वैषम्यादिकं प्रसज्येतेत्याशङ्कयाहसुखेति । सुखदुःखरूपनदीनां नियतक्रमेप्रवाहे । कर्मणा तिस्रः शक्तयः सन्तिसजातीयकर्मप्रवर्तकत्वं, विजातीयकर्मप्रवर्तकत्वं तदनुगुणफलप्रदत्वं चेति । एवंरूपे नियतक्रमे नियतमर्यादे । यद्वा नद्यन्तराणां प्रवाहक्रमः अनियतः कादाचित्कः, वृष्टयधीनत्वात्तस्य । सुखादिप्रवाहक्रमस्तु नियतः अविच्छिन्नः, कर्मणामनन्तत्वात् । व्यत्ययेति । सुसदृशेन वस्तुना सदृशवस्तुस्वीकारो व्यत्ययः । न्यूनाधिकभावेन विपरिवृत्तिर्विनिमयः । निवर्तनं प्रतिक्षेपः । यद्वा व्यत्ययो विनाशः । विनिमयः कुल्यान्तरेण सञ्चारणम् । निवर्तनं तु दृढसेतुबन्धेन प्रतीपगमनम् । एतत्त्रयानर्हे अनुभवविनाश्यत्वात् तदयोग्ये प्रवाहे पतितं पुरुषमुत्क्षिप्य यादृच्छिकादिमूलव्याजेनोद्धृत्य मोदते ; स्वप्रयोजनत्वेन प्रीणाति । यादृच्छिकादीनां पुरुषबुद्धिपूर्वकत्वाभावेऽपि सुकृतत्वं नापैति । यथा मर्कटेन स्वचेष्टया लोष्टादिवत् कमपि मणिमादाय स्वशिरसि निहिते अलङ्करण-


"

बुद्धिपूर्वत्वाभावेऽपि तस्य मणित्वमलङ्कारत्वं च नापैति ; तद्वदीश्वरोऽपि न ह्यन्यदन्यत्वेन करोतीत्यर्थः ॥ ६८ ॥

प्रभाविलासः - ६८

सुखेति । वाहिन्यः ; नद्यः । व्यत्ययः ; अबुद्धिपूर्वक परिवृत्तिः विनिमयः ; बुद्धिपूर्वकपरिवृत्तिः । निवर्तनम् ; भोगं विनैव निवारणम् । तेष्वनर्हे । " सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् " इति न्यायेन नियतक्रम इत्युक्तम् । मोदते ; हृष्टो भवति । अत्र उत्क्षिप्य मोदत इति
परिन्यासो नाम तृतीयमङ्गमुक्तम् । " तस्य दार्ढ्यं परिन्यासः " लक्षणात् ॥ ६८ ॥

मोक्षः कथम्?

विश्वास-प्रस्तुतिः

सुमतिः- अय्यउत्त, अणाइम्मि गए काले अलद्धपुच्वो मोक्खो अनन्ते वि उवरिअणकालम्मि केण कहं लहिज्जइत्ति15 सङ्काकलङ्क कम्बुरिअं मे हिअअम् ।

( आर्यपुत्र, अनादौ गते काले अ-लब्ध-पूर्वो मोक्षः,
अनन्तेऽप्य् उपरितन-काले
केन कथं लभ्यत
इति शङ्का-कलङ्क-कर्बुरितं+++(=शबलितम्)+++ मे हृदयम् ।)

राजा – देवि विवेक-वल्लभे,
अनधिगत-प्रमाण-तर्क-सरणिर् इव
कथम् एवम् आशङ्कसे ?

अथवा -

काल–स्व-भाव–नियति–
यद्-ऋच्छादिषु वस्तुषु । कारणं किमिवात्रेति
तापसैर् अपि तर्कितम् ॥ ६९ ॥

मूलम् - ६९

सुमतिः- अय्यउत्त, अणाइम्मि गए काले अलद्धपुच्वो मोक्खो अनन्ते वि उवरिअणकालम्मि केण कहं लहिज्जइत्ति15 सङ्काकलङ्क कम्बुरिअं मे हिअअम् ।

( आर्यपुत्र, अनादौ गते काले अलब्धपूर्वो मोक्षः अनन्तेऽप्युपरितनकाले केन कथं लभ्यत इति शङ्काकलङ्ककर्बुरितं

मे हृदयम् ।)

राजा – देवि विवेकवल्लभे, अनधिगतप्रमाणतर्कसरणिरिव
कथमेवमाशङ्कसे ?

अथवा ;

कालस्वभावनियतियदृच्छादिषु वस्तुषु ।

कारणं किमिवात्रेति तापसैरपि तर्कितम् ॥ ६९ ॥

प्रभावली - ६९

अणाइम्मीत्यादि । अणाइम्मि-अनादौ । गए काले – गते काले । अलद्धपुच्वो मोक्खो - अलब्धपूर्वो मोक्षः । अनन्ते वि-अनन्तेऽपि । उवरिअणकालम्मि उपरितनकालेऽपि । केण-केन । कहूं कथम् । लहिज्जइत्ति-लभ्यत इति । सङ्काकलङ्क कब्बुरिअं - शङ्का कलङ्ककर्बुरितम् । मे मे । हिअअं हृदयम् ।

[[१४३]] विवेकवल्लभे इत्यस्य विवेकवल्लभायास्ते इदमनुचितमिति भावः । अनधिगतेति ; अज्ञात प्रमाणतर्कमार्गेव । शङ्काया युक्तत्वमप्याह–अथवेति । अत्र ; संसारे । कालः ; प्रसिद्धस्वभावः । नियतिः ; विधिः, कर्मेत्यर्थः । यदृच्छा ; निर्हेतुकत्वम् । आदिशब्दादपूर्वेश्वरादयो ग्राह्याः । एषां मध्ये किं कारणमिति मुनिभिरपि शङ्कितं विचारितम् । तस्मात् तवापि शङ्कोचितेति भावः । अत्र

" कि कारणं ब्रह्म

इत्यारभ्य " कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् " इत्यादिश्रुत्यर्थो विवक्षितः ॥ ६९ ॥

प्रभाविलासः - ६९

[[१४१]]

इति

कर्बुरितम् ; कषायितम् । केनेति कारणप्रश्नस्योत्तरमाह– देवीत्यादिना । अनधिगतेति । प्रमाणम्,

तावदार्तिस्तदा वाञ्छा तावन्मोहस्तदासुखम् ।

यावन्न याति शरणं त्वामशेषाघनाशनम् ॥

वृथैव भवतो याता” इत्यादि । तर्कः ; गते काले अलब्धपूर्वत्वं मोक्षस्य प्रपदनरूपसामग्र्यभावप्रयुक्तम् । तत्सम्भवे तूपरितने काले सम्भवत्येवेत्यादिका युक्तिः । विप्रतिपत्तिनिरासायार्थविशेषेण प्रश्नोपपत्तिरित्याशयेनाह – अथवेति । युगपत्सकलपुण्यपापपरिपाकोपलक्षितः कालविशेषो मुक्तिहेतुरिति केचित् । युगपत्कृत्स्नपरिपाकस्यासम्भवाज्जीवः स्वभावेनैव कदाचिन्मुच्यत इत्यन्ये । स्वभावस्य प्रागप्यविशेषादीश्वर एव स्वतन्त्रेच्छतया कदाचिन्मोचयतीत्यपरे । स्वतन्त्रस्यापि निर्निबन्धनमोचनानुपपत्तेर्घुणक्षतन्यायेन कदाचिन्मुच्यत इत्येके । निर्निमित्तमोक्षानुपपत्तेः कर्मादिकमेकमङ्गीकार्यमितीतरे । तदुक्तं श्रीशुकेन—

"

काल एव स्वभावश्च कर्म चेति जगुः परे । "

इत्यादिना ॥ ६९ ॥

विश्वास-प्रस्तुतिः

इदम् अत्र तावदवधातव्यम् -

कर्माविद्यादि-चक्रे प्रतिपुरुषम् इहानादि-चित्र-प्रवाहे
तत्-तत्-काले विपत्तिर् भवति हि विविधा सर्व-सिद्धान्त-सिद्धा ।
तल्-लब्ध-स्वावकाश–प्रथम-गुरु-कृपा–गृह्यमाणः कदाचिन्
मुक्तैश्वर्यान्त-सम्पन्–निधिर् अपि भविता कश्चिद् इत्थं विपश्चित् ॥ ७० ॥

मूलम् - ७०

इदमत्र तावदवधातव्यम् -

कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे

तत्तत्काले विपत्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा ।

तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचि-

न्मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥ ७० ॥

प्रभावली - ७०

[[१४३]]
यत-

पूर्व व्याजाभावेनालब्धापि मुक्तिरुत्तरत्र व्याजलाभे लभ्यत एवेत्याह-कर्माविद्यादिचक्रे प्रतिपुरुषमिति । इह ; संसारे । प्रतिपुरुषम् ; पुरुषं पुरुषं प्रति । अनादिर्विचित्रः प्रवाहः परिभ्रमसन्ततिः यस्य तस्मिन् । कर्माविद्यादिचक्रे ; अविद्याकर्मवासनारुचिप्रकृतिसम्बन्धरूपे चक्रे । तत्तत्काले ; पूर्वोक्ततत्तत्कर्मादिपरिपाकदशावसरे कस्मिश्चिदीश्वरसमधिगम्ये काले । विविधा ; अनन्तप्रकारा, भोगमोक्षादिरूपा । विपक्तिः ; विपाकः । सर्वसिद्धान्तसिद्धा ; चार्वाकव्यतिरिक्तसर्वसिद्धान्तसम्मता भवति । तया विपक्त्या लब्धस्वावकाशः प्राप्तस्वक्रियमाणरक्षणयोग्यं स्थानं यस्याः तया, प्रथमगुरुः प्रथमाचार्य ईश्वरः, तस्य कृपया

१४४ अनेन
गृह्यमाणः मदीयोऽयमित्युपादीयमानः । कश्चित् अनेन वर्णाश्रमनियमो नास्तीति गम्यते । कदाचिदिति ; कालानादरः । इत्थम् ; अज्ञातसुकृतमूलसदाचारसमाश्रयणादिद्वारेणेत्यर्थः । विपश्चित् ; तत्वत्रयरहस्यज्ञानवान् । यद्वा सर्वज्ञो भूत्वा । मुक्तेत्यादि । मुक्तानामैश्वर्य कैकर्यसाम्राज्यमन्तोऽवधिर्यस्यास्तस्याः सम्पदः, निधिः अक्षायाधारोऽपि भविता भविष्यतीति । अपिशब्दात् किमुत स्वर्गाद्यनुभव इति भावः ॥ ७० ॥

प्रभाविलासः - ७०

कर्माविद्येति । आदिपदेन वासनारुचिप्रकृतिसम्बन्धाः । विपक्तिः ; विपाकः । विविधा ; सिद्धान्तवैविध्यात् तत्तत्कर्मवैविध्याद्वा विपत्तेर्वैविध्यम् । तत् ; तस्मात् ; कर्मविपाकस्य सिद्धत्वादित्यर्थः । अनेन कर्मविपाकस्य यादृच्छिकादिसुकृतहेतुत्वमुक्तम् । लब्धस्वावकाश इति ; यादृच्छिकादिसुकृते सति रक्षणावसर उक्तः । प्रथमगुर्विति " आचार्याणामसावसावित्या भगवत्तः " इति श्रुत्यर्थोऽभिप्रेतः । कचिदिति । " तामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः " इति स्मृत्यर्थः स्मारितः । मुक्तैश्वर्यम् अन्तः समाप्तिर्यस्याः सा चासौ सम्पच्च, तस्या निधिराश्रयः ।
अनेन

“ शरीरारोग्यमैश्वर्यं भोगांश्चैवानुषङ्गिकान् ।

ददाति ध्यायिनां नित्यमपवर्गप्रदो हरिः ॥

इति स्मृतिरनुसंहिता । यद्वा मुक्तैश्वर्यमेवान्ता रम्या सम्पत्, तस्या निधिः ; " मृताववसिते रम्ये समाप्तावन्त इष्यते " इति निघण्टुः ॥ ७० ॥

विश्वास-प्रस्तुतिः

स च मोक्ष्यमाणो मत्-समक्षम् आदौ तावत् ;

दर्पोदग्र–दशेन्द्रियानन-मनो–नक्तञ्-चराधिष्ठिते
देहेऽस्मिन् भव-सिन्धुना परिगते दीनां दशाम् आस्थितः।
अद्यत्वे हनुमत्-समेन गुरुणा प्रख्यापितार्थः पुमान्
लङ्का-रुद्ध-विदेह-राज-तनया-न्यायेन लालप्यते+++(←लप्)+++ ॥ ७१ ॥+++(5)+++

मूलम् - ७१

स च मोक्ष्यमाणो16 मत्समक्षमादौ17 तावत् ;

दर्पोदग्रदशेन्द्रियाननमनोनक्तञ्चराधिष्ठिते

देहेऽस्मिन् भवसिन्धुना परिगते दीनां दशामास्थितः18
अद्यत्वे हनुमत्समेन गुरुणा प्रख्यापितार्थः पुमान्

लङ्कारुद्धविदेहराजतनयान्यायेन लालप्यते ॥ ७१ ॥

प्रभावली - ७१

अथ जायमानकालकटाक्षितस्य पुंसः संसारेऽवस्थानप्रकार माहस चेत्यादि । दर्पति । इह चेतनस्य सीता सादृश्यमनन्यार्ह शेषत्वाद्यभिप्रायेण । बद्धस्य लङ्कानिरुद्धसीतासादृश्यमुच्यते । दर्पेण उद्रिक्तानि दशेन्द्रियाण्येव दशाननानि यस्य तेन मनोनक्तञ्चरेण मनोरूपरावणेनाधिष्ठिते नियमिते संसारसिन्धुना परिगते आवेष्टिते अस्मिन् देहे लङ्कासदृशे, दीनामवस्थां गतः

[[१४५]]
सन् अद्यत्वे एतस्मिन् काले, हनुमत्समेन हनुमतेव देशिकस्य हनुमत्समत्वं घटकत्वोत्तीर्णभवसागरत्वाद्यभिप्रायम् । प्रकाशितार्थपञ्चकज्ञानः पुमान् । विदेह-

" अथ यदिदमस्मिन् ब्रह्मपुरे ” इति श्रुत्यर्थोऽप्यत्र विवक्षितः । शरीरमपि न स्वकीयमिति भावः .

[[१४६]]

राजतनयान्यायेन ; वैदेहीवदित्यर्थः । लालप्यते ; पुनः पुनः भृशं विलपति ।

शङ्के मद्भाग्यसङ्क्षयात् " इति विलपनवचनं विवक्षितम् ॥ ७१ ॥

प्रभाविलासः - ७१

अथ शान्तरससञ्चारिभावरूप निर्वेदमाह — दर्पेत्यादिना । तदुक्तं सङ्गीतरत्नाकरे-
उन्मादः परमानन्दरसपानसमुद्भवः ।

हर्षो धृतिः समीचीनो विबोधश्च स्मृतिर्मतिः ।

निर्वेदस्तत्त्वबोधोत्थ इमे तु व्यभिचारिणः ॥

"

इति । दशेन्द्रियाण्याननानि यस्य सः, मनसः सर्वोपलम्भसाधनत्वात् । अन्यत्र दशानन इत्यर्थः । भवेति पुत्रेषणादिशरीरानुबन्धिकथनम् । अद्यत्वे ; इदानीम् । हनुमत्समेन अतिहितात्यन्तरहस्योपदेश कुशलेन । अयं श्लोकः

दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ।

विवेकशरजालेन शमं नयति योगिनाम् ॥

इति श्लोकं मनसिकृत्योक्तः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

अपि च,

+++(करिष्यमाण-कुकर्मभिः)+++ बहुल-दुरित–द्वारे ब्राह्मे,, पुरे पर-सम्मत-
स्व-मति-घटित–स्वातन्त्र्यत्वाद्,, अयन्त्रित-चेष्टितः ।
विषम-सचिवैः,, स्वे स्वे कार्ये,, विगृह्य विकृष्यते
नर-पतिर् इव,, क्षीबो नाना–विधैर् अयम् इन्द्रियैः ॥ ७२ ॥+++(4)+++

मूलम् - ७२

अपि च,

बहुलदुरितद्वारे ब्राह्मे19 पुरे परसम्मत-20

स्वमतिघटितस्वातन्त्र्यत्वादयन्त्रितचेष्टितः । विषमसचिवैः स्वे स्वे कार्ये विगृह्य विकृष्यते
नरपतिरिव क्षीबो नानाविधैरयमिन्द्रियैः ॥ ७२ ॥

प्रभावली - ७२

इन्द्रियैर्बाध्यमानत्वमप्याह - बहुलेति । दुरितं पूर्वकृतं, द्वारं कारणं यस्य । ब्राह्मे ; ब्रह्म जीवः, तन्निवासभूते । यद्वा ब्रह्म प्रकृतिः, “मम योनिर्महद्ब्रह्म " इत्युक्तेः तद्विकारे । पुरे ; शरीरे । परसम्मतेत्यादि ; “आदावीश्वरदत्तया " इत्युक्तरीत्या परसम्मतमीश्वरानुमतम् । स्वमतिघटितम् ; ‘अहं स्वतन्त्रः’ इति स्वेच्छाकल्पितं स्वातन्त्र्यं यस्य तस्य भावः तस्मात् । अयन्त्रितं चेष्टितं यथेष्टव्यापारो यस्य सोऽयम् । विषमसचिवैः ; दुष्टामात्यैः । क्षीबः ; मत्तः नरपतिरिवार्य पुरुषः नानाविधैः नानाप्रकारैः कर्मज्ञानरूपेण रूपादिग्रहणव्यापारादिना चानेकप्रकारैः इन्द्रियैश्च स्वे स्वे कार्ये प्रयोजने च विगृह्य स्पर्धया बलात्कारेणेत्यर्थः, आकृष्यते ॥ ७२ ॥

प्रभाविलासः - ७२

बहुलेति । दुरितद्वारे ; पापहेतौ । अन्यत्र दोषवद्गोपुरवति । ब्राह्मे ;
प्रकृतिकार्ये, “तस्मादेतद्ब्रह्य नाम रूपमन्नं च जायते " इति श्रुतेः । अन्यत्र चतुर्मुखसृष्टे । पुरे ; शरीरे पत्तने च । परस्य ईश्वरस्य सम्मतं स्वमत्या घटितं च स्वातन्त्र्यं यस्य तस्य भावस्तत्त्वम्, तस्मात् ; " आदावीश्वरदत्तयैय पुरुषः स्वातन्त्र्यशक्तया स्वयम् ” इति वात्स्यवरदाचार्योक्तेः । अन्यत्र परेषां सचिवानां सम्मता अधीना या स्वमतिः, तया घटितस्वातन्त्र्यः ; परतन्त्र इत्यर्थः ; तस्य भावस्तत्त्वम् तस्मात् । अयन्त्रितचेष्टितः ; अनियतव्यापारः । अयम् ; चेतनः । कार्ये ; गोचरे ; कान्ताचन्दनवीणादावित्यर्थः । अन्यत्र कृत्ये ॥ ७२ ॥

हिते जीव-प्रमादः

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, एव्वं हुअवहवेडिअ21 घरगअं विअ अप्पाणम् अप्पमत्तबुद्धी किं ण णिज्जिगमिसाए रख्खइ पुरिसो ?
( आर्यपुत्र एवं हुत-वह-वेष्टित–गृह-गतम् इव
आत्मानम् अ-प्रमत्त-बुद्धिः
किं न निर्जिगमिषया रक्षति पुरुषः ? )

राजा - प्रिये सर्व-वेदिनि, अनादिः खल्व् अयम् अ-लङ्घनीयो राग-जल-धिः ।

स्थिर-त्रस+++(=चल)+++-विभक्तिमत् +++(गुणोचित-शुक्ल-लोहित-कृष्णवर्णैः)+++ त्रि-विध-राग-दृश्योदयं
सुमृष्ट-मणि-भित्तिवत् स्वयम् +++(“न शरीरस् त्वम्” इत्य् उपदिष्टेऽपि)+++ अ-भिद्यमानः पुमान्
त्रि-युग्म-गुण+++(→ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांसि)+++–शिल्पिना त्रि-गुण-तूलिका-धारिणा
विविच्य विनिवेशितं वहति चित्रम् अत्यद्भुतम् ॥ ७३ ॥+++(5)+++

मूलम् - ७३

सुमतिः - अय्यउत्त, एव्वं हुअवहवेडिअ21 घरगअं विअ अप्पाणम् अप्पमत्तबुद्धी किं ण णिज्जिगमिसाए रख्खइ पुरिसो ?
( आर्यपुत्र एवं हुतवहवेष्टितगृहगतमिवात्मानमप्रमत्तबुद्धिः किं न निर्जिगमिषया रक्षति पुरुषः ? )

राजा - प्रिये सर्ववेदिनि, अनादिः खल्वयमलङ्घनीयो

रागजलधिः ।

स्थिरत्रसविभक्तिमत् त्रिविधरागदृश्योदयं

सुमृष्टमणिभित्तिवत्स्वयमभिद्यमानः पुमान् ।

त्रियुग्मगुणशिल्पिना त्रिगुणतूलिकाधारिणा

विविच्य विनिवेशितं वहति चित्त्रमत्यद्भुतम् ॥ ७३ ॥

प्रभावली - ७३

वेहिअछ.
एवमित्यादि । हुअहवेडिअघरगअं विअ - हुतवहवेष्टितगृहगतमिव । अप्पाणं- आत्मानम् । अप्पमत्तबुद्धी - अप्रमत्तबुद्धिः । किं ण-कि न । णिज्जिगमिसाएनिर्जिगमिषया । रक्खर पुरिसोरक्षति पुरुषः । किं निमित्तं न रक्षति पुरुष इत्यर्थः । सर्ववेदिनीत्यनेन त्वया अज्ञातं नास्तीत्यर्थो गम्यते । अवधा- तव्यम् ; अवधानतः श्रोतव्यम् । अनादिदेहात्मभ्रान्त्या तत्तद्देहेषु रागं न

[[१४८]] मुञ्चतीत्याह — स्थिरेति । पुमान् ; जीवः । सुमृष्ट-मणि-भित्तिवत् ; सम्यगनुलिप्तरत्नभित्तिसदृशः । स्वयम् अभिद्यमानः ; देवादि-देह-भेदेऽपि ज्ञानाकारेण स्वयम् अभिद्यमानो भूत्वा । यद्वा विभज्य विनिवेशकेनेश्वरेणाप्य् आगत्य ‘त्वं शरीराद्भिन्नः’ इत्य् उपदिश्यमानोऽपि ’ नाहं शरीराद्भिन्नः’ इति ज्ञात्वेत्यर्थः । त्रियुग्मगुण- शिल्पिना ; त्रीणि युग्मानि द्वन्द्वानि येषां ते त्रियुग्मा, ते गुणाः ज्ञानशक्त्यादयः यस्य स त्रियुग्मगुण ईश्वरः, स एव शिल्पी चित्रलेखकः, तेन । पुनः कीदृशेन ? त्रिगुणतूलिकाधारिणा ; त्रिगुणं प्रकृतिः, तदेव तूलिका वर्तिका, तद्वारिणा । अन्यत्र त्रिगुणा त्रिर् आवृत्तगुणविशिष्टा ; तादृश-तूलिकाधारिणा । यद्वा लौहित्यादित्रिगुणविशिष्ट-तूलिका-धारिणा । विविच्य ; तत्-तत्-कर्मानुगुण्येन विभज्य । अन्यत्र त्रिगुणासाकर्येण । विनिवेशितम् ; स्थापितं लिखितं च । स्थिरत्रसविभक्तिमत् ; स्थावर-जङ्गम-विभागवत् । त्रिविधेत्यादि । त्रिविधैः ; " “लोहितशुक्लकृष्णाम्” इत्युक्तरीत्या सत्त्वरजस्तमोरूपेण त्रिप्रकारैः रागैर्वर्णैः ; अन्यत्र लौहित्यादिभिः रागैः दृश्य उदयो यस्य तत् । चित्वम् ; चितं चेतनं चिता संविदा वा त्रायत इति चित्त्रम् । निःश्रेयसपुरुषार्थोपयोगित्वेन शरीरस्य रक्षकत्वम् । अन्यत्रालेख्यम् । वहति ; बिभर्ति । अत्र संसार निःश्रेयस - योर्दोषगुणवर्णनेन विलोभनं नामाङ्गमुक्तम् । " गुणाख्यानाद्विलोभनम् ” इति लक्षणात् ॥ ७३ ॥

प्रभाविलासः - ७३

[[१४७]]

स्थिरेति । स्थिरत्रसविभक्तिमत् ; कर्मवैचित्र्येण स्थावरजङ्गमभेदवत् ।

" वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥ "

इति स्मरणात् । अन्यत्र शैलवृक्षादिरचनावत् । त्रिविधरागाः पुत्रदारधनाभिलाषाः, नीलपीतरक्तरागाश्च तैर्दृश्य उदय उत्पत्तिर्यस्य तत् । त्रिगुणा सत्त्वाद्यात्मिका प्रकृतिरेव तूलिका लेखिनी । चित्रतूलिका हि त्रिप्रकारा तन्तुरचिता च। त्रियुग्मगुणः ; षड्गुण ईश्वरः । सुमृष्ट- मणिभित्तिवत् ; सम्यक्सुधालिप्तरत्नभित्तिवत् । अभिद्यमानः ; तिलतैलवत् दारुवह्निवत् दुर्विवेचः । अतिस्निग्धे कुडचे चित्रं सम्यग्लगतीति सुमृष्टेत्युक्तिः । चितं जीवं त्रायत इति चित्रं शरीरम् । पुमान् वहतीत्यन्वयः । अत्र चित्रमिति पदेनोद्दीपन विभावोक्तया शृङ्गाररसो व्यज्यते । तदुक्तं काव्यप्रकाशे- " वाक्ये द्वयुत्थः पदेऽप्यन्ये " इति ॥ ७३ ॥

बुद्धि-स्वापः

विश्वास-प्रस्तुतिः

सुमतिः - (सविषादम् ) इअं णाम उम्मत्तदसं पुरिसं बुद्धी पिअअमा किं ण बोहेइ ?

( इदं नामोन्मत्त-दशं पुरुषं
बुद्धिः प्रियतमा
किं न बोधयति ?)

राजा - प्रिये सूक्ष्म-वादिनि,22 सापि खल्व् इदानीं
स्वयम्-प्रकाशापि सुप्तप्राया वर्तते । यथा-

पत्यौ दूरं; गतवति, रवौ; पद्मिनीव प्रसुप्ता
म्लानाकारा; सुमुखि निभृता; वर्तते बुद्धिर् अम्बा ।
माया-योगान्; मलिनित-रुचौ; वल्लभे तुल्य-शीला,
राहु-ग्रस्ते तुहिन-किरणे निष्प्रभा यामिनीव ॥ ७४ ॥+++(4)+++

मूलम् - ७४

सुमतिः - (सविषादम् ) इअं णाम उम्मत्तदसं पुरिसं बुद्धी

पिअअमा किं ण बोहेइ ?

( इदं नामोन्मत्तदशं पुरुषं बुद्धिः प्रियतमा किं न बोधयति ?)

1

राजा - प्रिये सूक्ष्मवादिनि,22 सापि खल्विदानीं स्वयम्प्रकाशापि23 सुप्तप्राया वर्तते । यथा-

पत्यौ दूरं गतवति रवौ पद्मिनीव प्रसुप्ता

म्लानाकारा सुमुखि निभृता वर्तते बुद्धिरम्बा ।

मायायोगान्मलिनितरुचौ वल्लभे तुल्यशीला

राहुग्रस्ते तुहिनकिरणे निष्प्रभा यामिनीव ॥ ७४ ॥

प्रभावली - ७४

जीवदुः खश्रवणात् सविषादम् । इअं णामेत्यादि । इअं णाम इदं नाम, इत्येवम्प्रकारेण । उम्मत्तदसं - उन्मत्तदशम् । पुरिसं पुरुषम् । बुद्धी पिअअमाबुद्धिः प्रियतमा । किं ण बोहेइ - किं न बोधयति । सूक्ष्मवादिनि ; सूक्ष्मार्थं पृच्छसीति प्रशंसा । आत्मनोऽवस्थाद्वयमस्ति - स्थावरत्वं जङ्गमत्वं चेति । तत्र स्थावरत्वयोगे मतिरसत्कल्पेव भवति । जङ्गमत्वे स्वरूपतः प्रकाशमानापि निर्विकासा भवति ।

अतो बुद्धिः पत्युः प्रतिबोधने सर्वदा असमर्थैवेतीममर्थ दृष्टान्तद्वयेन दर्शयति-सापीत्यादिना । स्वयम्प्रबोधापि ; स्वयप्रकाशापि । सुप्तप्राया ; सङ्कुचिता । पत्याविति । भो सुमुखि, बुद्धिः पुरुषे मायायोगात प्रकृतिसम्बन्धात् दूरं गतवति ; पुरुषस्य दूरगतत्वं स्थावरत्वप्राप्तिः, [[१५०]] मलिनितरुचित्वं जङ्गमत्वप्राप्तिः । दूरगतत्वे सूर्यो दृष्टान्तः । मलिनितरुचित्वे च चन्द्रः । स्वयमपि दूरं गता अभिभूतस्वरूपप्रकाशा । मलिनितरुचौ च सति तुल्यशीलत्वात् स्वयमपि मलिनितरुचिः । अम्बा बुद्धिः म्लानाकारा ; सङ्कुचितस्वभावा । निभृता ; सङ्कुचितस्वरूपा च वर्तते । तुल्यशीला किमिव ? पत्यौ

रवौ दूरं गतवति पद्मिनीव, तुहिनकिरणे राहुग्रस्ते यामिनीव ॥ ७४ ॥

प्रभाविलासः - ७४

,

[[१४९]]

पत्याविति । पत्यौ दूरं गतवति सतीत्यन्वयः । प्रसुप्ता सङ्कुचिता । अम्बा, बुद्धिः । निभृता ; निश्चला, निर्विकारेत्यर्थः । मायायोगात् ;
प्रकृतिसम्बन्धात्, " मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति श्रुतेः । मलिनितरुचौ तिरोहितानन्दादिप्रकाशे । अनेन ज्ञानस्य सङ्कोच - विकासौ दर्शितौ । उक्तं च वैष्णवे पुराणे-

‘सर्वभूतेषु भूपाल तारतम्येन वर्तते ।

अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ॥ "

इत्यादिना । अत्र श्लोके सतीसमाधिः । तदुक्तम्

" आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।

मृते म्रियेत वा पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥

"

इति । अत्र बुद्धिसङ्कोचे स्वरूपनाशः पद्मिनीदृष्टान्तेन परिहृतः । प्रकाशवतस्तिरोधानोपपत्तौ तिरोधाने प्रसरमात्रव्यावृत्तौ च चन्द्रदृष्टान्तः । तेन स्वप्रकाशात्मस्वरूपमात्रस्याविद्यातिरोधानं वदन्तः परे स्वरूपनाशमप्यनुमन्वत इत्युक्तं भवति । उपमालङ्कारेण वाच्यभूतेन पतिव्रतासाम्यप्रतीतेरलङ्कारेणालङ्कारध्वनिः । म्लानादिपदैश्च विप्रलम्भशृङ्गारो व्यज्यत इत्युभयोः संसृष्टिः ॥ ७४ ॥

मोक्षागम-विस्तारः

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, अइकलुणा इमा बुद्धिसहिअस्स पुरिसस्स बन्धदसा24
एअस्स विउल-दुक्ख-जाल-विह्मलस्स वित्थरेण मोक्खाअमं पआसन्तो
विसङ्कं मं कुणसु ।

( आर्यपुत्र, अतिकरुणैषा बुद्धि-सहितस्य पुरुषस्य
बन्ध-दशा
एतस्य विपुल-दुःख-जाल-विह्वलस्य
विस्तेरण मोक्षागमं प्रकाशयन् विशङ्कां मां कुरुष्व ।)

राजा - देवि, अनवरत-शोभनाशंसिनि, निदानम् इह निपुणम् उपपादयन्
प्रतिपन्नाम् एव25 भवतीं प्रत्यभिज्ञापयामि ।

दुर्-आसेध+++(←षिध्)+++-स्थेम्ना दुरित-परिपाकेन भविनः
प्रमाथी संसारः प्रशम-रहितोऽयं प्रभवति
निरोधे तस्यैका निरुपधिक-कारुण्य-घटित-26
स्वतन्त्रेच्छा-शक्तिः स्वयम् +++(प्रपत्ति-रूपम्)+++ उपधिम्+++(=व्याजम्)+++ आधाय रमते ॥ ७५ ॥

मूलम् - ७५

सुमतिः - अय्यउत्त, अइकलुणा इमा बुद्धिसहिअस्स पुरिसस्स बन्धदसा24 । एअस्स विउलदुक्खजालविह्मलस्स वित्थरेण मोक्खाअमं पआसन्तो विसङ्कं मं कुणसु ।

( आर्यपुत्र, अतिकरुणैषा बुद्धिसहितस्य पुरुषस्य बन्धदशा । एतस्य विपुलदुःखजाल विह्वलस्य विस्तेरण मोक्षागमं प्रकाशयन् विशङ्कां मां कुरुष्व ।)

राजा - देवि अनवरतशोभनाशंसिनि, निदानमिह निपुणमुपपादयन् प्रतिपन्नामेव25 भवतीं प्रत्यभिज्ञापयामि ।

दुरासेधस्थेम्ना दुरितपरिपाकेन भविनः

प्रमाथी संसारः प्रशमरहितोऽयं प्रभवति ।
निरोधे तस्यैका निरुपधिककारुण्यघटित-26

स्वतन्त्रेच्छाशक्तिः स्वयमुपधिमाधाय27 रमते ॥ ७५ ॥

प्रभावली - ७५

अय्यउत्तेत्यादि । अय्यउत्त आर्यपुत्र । अइकलुणा - अतिकरुणा । इमा- एषा । बुद्धिसहिअस्सबुद्धिसहितस्य । पुरिसस्स - पुरुषस्य । बन्धदसा - बन्धदशा । एअस्स- एतस्य । विउलदुक्खजालविझलस्सविपुलदुः खजालविह्नलस्य । वित्थरेण विस्तरेण । मोक्खाअमं - मोक्षागमम् । पआसन्तो प्रकाशयन् । विसङ्कंविशङ्काम् । मं माम् । कुणसु - कुरुध्व । अनवरत शोभनाशंसिनीति प्रशंसा । इह ; अस्मिन् विषये । निदानं मूलकारणं स्वतन्त्रेच्छाशक्तिरूपं निपुणं समर्थयन् प्रतिपन्नं ज्ञातमेव प्रत्यभिज्ञापयामि स्मारयामि । न त्वज्ञातज्ञापनं करोमीत्यर्थः ।

दुरासेधेति । दुरासेधस्थेना ; दुर्निवारद्रढिम्ना । दुरितपरिपाकेन ;

[[१५२]] पापोद्रेकेण । प्रमाथी ; विलोडनशीलः । अयं संसारः भविनः संसारिणः प्रशमनरहितः शान्त्यभावेन निरन्तर इत्यर्थः । तस्य संसारस्य निरोधे निवारणे निरुपधिकेन स्वाभाविकेन कारुण्येन घटिता सम्बद्धा ; स्वतन्त्रस्य ईश्वरस्य इच्छाशक्तिरेकैव स्वयं वैषम्यादिपरिहाराय कमप्युपधिं व्याजं सम्पाद्य रमते । स्वप्रयोजनसिध्या प्रीणाति ॥ ७५ ॥

प्रभाविलासः - ७५

[[१५१]]

अतिकरुणा ; अत्यन्तशोच्या । निदानम् ; आदिकारणम् । दुरासेधेति । दुरासेधस्थेना ; अनिवारणीयस्थैर्येण । भविनः ; संसारिणः ।
प्रमाथी पीडकः । तस्य ; संसारस्य । निरोधे ; निवृत्तौ । निरुपधिक- कारुण्यघटितः ; निर्हेतुककृपावान् । उपधिम् ; व्याजमात्रम् । अनेन

सर्वज्ञोऽपि हि विश्वेशः
सदा कारुणिकोऽपि सन् ।
संसार-तन्त्र-वाहित्वाद्
रक्षापेक्षां प्रतीक्षते ॥

इति स्मारितम् ॥ ७५ ॥

जीव-दत्त-व्याजः

विश्वास-प्रस्तुतिः

सुमतिः - जइ मए वि एसो उवाही सुणिदव्वो ता मं अय्यउत्तो आणवेदु ।

( यदि मया ऽप्य् एष उपाधिः+++(=व्याजः)+++ श्रोतव्यस्
तदा माम् आर्यपुत्र आज्ञाप्रयतु । )

राजा - प्रिये विशुद्ध-भाषिणि,
श्रूयताम् अयम् इह सूक्ष्मार्थ-सङ्ग्रहः-

[[१५३]]

मदन-मत्सर-मानमयः पुमान्
बहु-पिशाच-गृहीत इवार्भकः ।
निगम-सिद्ध-नरेन्द्र+++(→पक्षय् आचार्यः)+++-निरीक्षणान्
निपुण-पद्धतिम् अभ्यवपद्यते ॥ ७६ ॥+++(4)+++
+++(द्रुतविलम्बितम्)+++

मूलम् - ७६

सुमतिःजइ मए वि एसो28 उवाही सुणिदव्वो29 ता मं

अय्यउत्तो आणवेदु ।

( यदि मयाप्येष उपाधिः श्रोतव्यस्तदा मामार्यपुत्र आज्ञाप्रयतु । )

  • राजा - प्रिये विशुद्धभाषिणि, श्रूयतामयमिह सूक्ष्मार्थसङ्ग्रहः-

[[१५३]]

मदनमत्सरमानमयः पुमान् बहुपिशाचगृहीत इवार्भकः ।

निगमसिद्धनरेन्द्रनिरीक्षणान्निपुणपद्धतिमभ्यवपद्यते3031 ॥ ७६ ॥

प्रभावली - ७६

जइ इत्यादि । जइ यदि । मए मया । वि-अपि । एसो - एषः । उवाही- उपाधिः । सुणिदव्वो-श्रोतव्यः । ता तदा। मं माम् । अय्यउत्तो- आर्यपुत्रः ।

इदमत्र श्लोके भाव्यम् — नन्वियमीश्वरेच्छा संसारस्यापि हेतुभूतेति कथं तन्निरोधे प्रभवेदित्यत्रोक्तम् — कारुण्यघटितेति । तस्य कारुण्यं कथं स्यादित्यत्रोक्तम् - निरूपधीति । तर्हि सर्वमुक्तिः स्यादित्यत्रो कम् स्वयमुपधिमाधायेति । तदपि समाधानं समं स्यादित्यत्रोक्तम् - स्वतन्त्रेति ।
आणवेदु - आज्ञापयतु । आचार्यसमाश्रयणं, शमदमादिसम्भवः, ततः कर्मज्ञानाद्यनुष्ठानम्,

ततो भक्तिः, तदशक्तस्य प्रपत्तिरिति त एवोपाधिरिति तत्र प्रथममाचार्योपसत्तिमाह– मदनेति ।
मदनः ; कामः । मत्सरः ; द्वेषः । मानः ; गर्वः । तन्मयः ; तत्प्रचुरः । प्राचुर्यार्थे मयट् । संसारदशाया बहुपिशाचाविष्टो बाल इव भवति ।
स तु निगमे वेदान्ते सिद्धो यो नरेन्द्रः आत्मेश्वरः सर्वेश्वरः,
तस्य निरीक्षया जायमानकालकटाक्षेण ।
निपुणानाम् ; सात्त्विकानाम्
पद्धतिम् ; मोक्षार्थचिन्तनम्
अभ्यवपद्यते ; प्राप्नोति ।

पिशाचगृहीतो बालो महामान्त्रिकनिरीक्षया निपुणाना पद्धति यथा प्राप्नोति तथा । यद्वा निगमे

" " वेदे सिद्धः “ आचार्यवान् पुरुषो वेद ” “ वेदमनूच्याचार्यः " इत्यादिषु प्रसिद्धः ।

[[१५४]]
नरेन्द्रः ; नरश्रेष्ठ आचार्यः । यद्वा निगमसिद्धा या आचार्यनिरीक्षा प्रथमकटाक्षेण मदीयोऽमिति स्वीकारः, तया । निपुणानां मुमुक्षूणा मार्गं प्रविष्टो भवति ॥ ७६ ॥

प्रभाविलासः - ७६

श्रोतव्यः ; श्रोतुं योग्यः । अथ प्रपत्तिमुपचितया निरूपयिष्यन्नादौ
जायमानकटाक्षमाह – मदनेति । तदुक्तम् -

" जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।

सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥

"”

इति । मदनः ; कामः । निगमसिद्धः ; वेदवेद्यः, देशप्रसिद्धश्च । नरेन्द्रः ; पुरुषोत्तमः, चिकित्सकश्च । निपुणपद्धतिम् ; सन्मार्गम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

ततश् च,

अनघ-देशिक-दृष्टि-सुधाऽऽप्लवे
विधि-वशाद् उपसेदुषि देहिनः ।
विमल-बोध-मुखा विविधा गुणाः
परिणमन्त्य् अपवर्ग-दशाङ्कुराः32 ॥ ७७ ॥

मूलम् - ७७

ततश् च,

अनघदेशिक दृष्टिसुधाप्लवे विधिवशादुपसेदुषि देहिनः ।

विमलबोधमुखा विविधा गुणाः परिणमन्त्यपवर्गदशाङ्कुराः32 ॥ ७७ ॥

प्रभावली - ७७

जायमानकटाक्षमूलसदाचार्योपसत्तौ जातायां परम्परया अपवर्गसाधनभूतास्तत्त्वज्ञानशमदमादिगुणाः स्वयमुद्भवन्तीत्याह - अनघेति । अनघदेशिकः ; सदाचार्यः । अनघेति दृष्टेर्विशेषणं वा । आप्लवः ; अवगाहः । विधिवशात् ; भाग्यवशात् प्राप्तवति सति देहिनः विमलो यो बोधः तत्त्वज्ञानं तन्मुखाः

[[१५५]]
विविधा गुणाः शमदमादयः मुक्तिसुखानामङ्कुरभूताः । देशिकदृष्टेः सुधाप्लवनारोपाद्गुणानामङ्कुरत्वारोपणम् ॥ ७७ ॥

प्रभाविलासः - ७७

"

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इति श्रुत्युक्ताचार्योपसत्तिमाह - अनघेति । अनघशब्द आचार्यगुणानामुपलक्षकः, श्रोत्रियं ब्रह्मनिष्ठम् " इति श्रुतेः ; " अभिजन विद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्” इत्यापस्तम्बोक्तेः

;

" आचार्यों वेदसम्पन्नो विष्णुभक्तो विमत्सरः ।

मन्त्रज्ञो मन्त्रभक्तश्च तथा मन्त्रार्थचिन्तकः

इति स्मृतेः } " सिद्धं सत्सम्प्रदाये " इत्याद्यभियुक्तवचनाश्चेति ज्ञेयम् । दृष्टिः ; शास्त्रोपदेशः । उपसेदुषि ; प्राप्ते सति । बोधपदेन श्रवणजन्यज्ञानमुच्यते । कुदृष्टिकल्पितज्ञानव्यावृत्तये विमलेत्युक्तिः । मुखपदेन कर्मज्ञानभक्तिप्रपत्तयः । तदितिकर्तव्य भूतशमदमाद्यवान्तरभेदमादाय विविधे - त्युक्तिः । अपवर्गदशान्तिमाः ; मोक्षावस्थापर्यन्ताः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

अपि च,

+++(पुण्य-क्षय-जन्य-)+++स्वाधीनेतर-पात–भीति-परुष–स्वर्-वास–दुर्-वासना-
पाशाऽऽकर्षण-यन्त्रणाभिर् अभितः,, क्षिप्तात्मनः क्षेत्रिणः ।
निष्प्रत्यूह-विजृम्भमाण करुणा-दुग्धार्णवे निर्भरा
भक्तिः सेत्स्यति भाग-धेय-वशतः,, प्राप्ये परे ब्रह्मणि ॥ ७८ ॥+++(4)+++

मूलम् - ७८

"
अपि च,

स्वाधीनेतरपातभीतिपरुषस्वर्वासदुर्वासना-

पाशाकर्षणयन्त्रणाभिरभितः क्षिप्तात्मनः क्षेत्रिणः ।

निष्प्रत्यूहविजृम्भमाण करुणादुग्धार्णवे निर्भरा

भक्तिः सेत्स्यति भागधेयवशतः प्राप्ये परे ब्रह्मणि ॥ ७८ ॥

प्रभावली - ७८

अथ ज्ञानानुष्ठानादिभिर्भगवति भक्तिः सेत्स्यतीत्याह - स्वाधीनेति ।

" स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः "

इत्युक्तरीत्या स्वाधीनेतरपातात् स्वाधीनेतरः परतन्त्रः, तस्मात् पराधीनपातात् या भीतिः, तया परुषः, स्वर्वासः स्वर्गवासः ; अथापि तद्विषया दुर्वासनैव पाशः, तत्कृताकर्ष-प्रेरणाभिः
अभितः सर्वतः व्याकुलित-मनसः क्षेत्रिणः पुंसः ।

निष्प्रत्यूहेति । निष्प्रत्यूहं निर्विघ्नं विजृम्भमाणायाः वर्धमानायाः करुणायाः दुग्धार्णवे क्षीरसागरे ।
दयाया अपरिमितत्वेन सागरत्वरूपणम् ।
परमकारुणिके प्राप्ये, अत एव परे ब्रह्मणि श्रीनिवासे निर्भरा परिपूर्णा दृद्धेत्यर्थः ; भक्तिः सेत्स्यति सिध्यति ॥ ७८ ॥

प्रभाविलासः - ७८

अथ " परीक्ष्य लोकान् कर्मचितान्" इत्यादिपर्यालोचनया क्षुद्रसुखेषूत्पन्नवैराग्यस्य " स्थितोऽरविन्दे " इति न्यायान्महनीयवस्तुविषयं प्रीतिविशेषमाह — स्वाधीनेति ।

स्वाधीनेतरात् अस्वाधीनात् पापात् भीत्या परुषे स्वर्वासे दुर्वासनया पाशैर् यमपाशैर् आकर्षणेन यन्त्रणाभिर् बन्धनै श्चाभितः सर्वतः क्षिप्तात्मनः व्याक्षिप्तचित्तस्य क्षेत्रिणः संसारस्य ; क्षयिष्णुत्वादि-दोष-दर्शनेन परित्यक्तस्वर्गाभिलाषस्येत्यर्थः । पातभीतिपदेन
" स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः "
इति वचनं स्मारितम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

अत्र चान्तरा
सर्व-स्व–दक्षिणो ऽयम् अध्वरः प्रवर्तते । यत्र तु,

त्वया33+++(→सुमत्या)+++ जुष्टः पत्न्या, विधिवद् इह यष्टा स्वयम् अहं+++(→विवेकः)+++
विधत्ते चार्त्विक्यं शम-दम-मुखोऽयं गुण-गणः ।
अकस्माद् उद्देश्यो भवति भगवान् आत्म-हविषः34
पशुर् बद्धो मुक्तिं भजति विगलत्-कर्म-निगलः ॥ ७९ ॥+++(5)+++

मूलम् - ७९

अत्र चान्तरा सर्वस्वदक्षिणोऽयमध्वरः प्रवर्तते । यत्र तु,

त्वया33 जुष्टः पत्न्या विधिवदिह यष्टा स्वयमहं

विधत्ते चार्त्विक्यं शमदममुखोऽयं गुणगणः ।
अकस्मादुद्देश्यो भवति भगवानात्महविषः34

पशुर्बद्धो मुक्तिं भजति विगलत्कर्मनिगलः ॥ ७९ ॥

प्रभावली - ७९

[[१५६]] भक्तावशक्तस्य प्रपत्तिरपि सम्भवतीत्याह — अत्र चान्तरेति । अत्र ; जीवे । अन्तरा मध्ये ; भक्त्यशक्तस्य भक्तिस्थाने । सर्वस्वदक्षिणः ; समर्पितसमस्तभरः । अध्वरः ; प्रपत्तिरूपो यज्ञः । यत्र तु ; यज्ञे । अध्वरसमाधि निरूपयति– त्वयेत्यादिना । भो प्रिये, इह ; यज्ञे । त्वया पत्न्या जुष्टः युक्तोऽहं स्वयमेव विधिवत् यथाशास्त्रं यष्टा यजमानो भवामि । आत्विज्यं विधत्ते ; ऋत्विजा कर्म सम्पादयति । तत्रात्मह विषः समर्पणीयस्य स्वात्मरूप-

[[१४८]] हविषः भगवान् श्रियः पतिः अकस्मात् निर्हेतुकमनभिसंहितफलान्तरं यथा तथा उद्देश्या देवता भवति । पशुस्थानीयो बद्धात्मा । सः मुक्ति मोक्षम्, अन्यत्र विमोचनं च भजति । कीदृग्भूतः ? विगलत्कर्मनिगलः ; विगलत् त्रुटत् कर्म पुण्यपापरूपं, तदेव निगलं पादशृङ्खला यस्य स सन् मुक्ति भजति । यागविशेषे पशोर्बद्धस्य उत्सर्गोऽपि दृष्ट इति भावः । पशोर्यजमानस्यापि फलप्रात्यविशेषात् बद्धः पशुर्मुक्ति भजतीत्युक्तम् । तदविनाभूतस्य स्वस्य यजमानस्य मुक्तिर्न पृथग्वाच्य इति भावः ॥ ७९ ॥

प्रभाविलासः - ७९

एवं भक्तौ जातायामनन्तरं परिशिष्यमाणमाह – अत्रेति । सर्वस्व- दक्षिणः ; आत्मात्मीयसमर्पणरूपः । " यावदस्य वित्तं सर्ववेदसेन यजेत " " सर्ववेदसं वा एतत्सत्रम्" इत्यादिश्रुतिप्रसिद्ध प्रवृत्तिनिमित्तसाम्येनाध्वर इत्युक्तिः । उक्तमेवाध्वरसाम्यं विशिनष्टि – त्वयेति ; सुमत्या आनुकूल्यकरणं प्रातिकूल्यवर्जनं च दर्शयितुं पत्नीत्वव्यपदेशः । स्वयमहमिति प्रमाणमिति तर्कनिर्धारितत्वेन विश्वासातिशयः सूचितः । ब्रह्मविद्याशेषतया शमाद्युपकारमाह– विधत्त इति । अकस्मादिति ; प्रपत्तेः साधनत्वं " प्रपत्तेर्व्याजमात्रत्वम्" इत्यभियुक्तोक्तेः । फलान्तराभिसन्धिराहित्यं वा । उद्देश्यो भवतीति ; गोप्तृत्ववरणं सूचितम् । आत्महविष इति ; आज्यपुरोडाशादिभ्य आत्महविषः प्रियतमत्वमुक्तम्, “पुरुषाहुतिर्ह्यस्य प्रियतमा" इति श्रुतेः । अत्र हिशब्देन दध्याज्या दिभ्योऽन्तरङ्गतया देहस्य प्रियतमत्वं प्रसिद्धमिति द्योत्यते । उद्देश्यदेवतायाश्च यष्टृदेहहविः -

निवारितम्,
[[१५७]]

प्रियतमत्वं यष्टुरदेयदानत्वेन । देहादयो यदनुबन्धितया प्रियाः स चात्मात्यन्तप्रियतया सुतरामदेयदानः । उद्देश्यदेवतायाश्चान्तर्यामितयात्यन्तप्रियतमत्वं यष्टुरात्मनः श्रूयत इत्यात्महविष इत्युक्तम् । अत्र “ सर्वोपाधिविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् " इति स्मृतिरनुसन्धेया । अनेनात्मनिक्षेपरूपोऽङ्गी अभिहितः । पशुरिति ; कर्मादिष्वनधिकारेण कार्पण्योक्तिः । बद्ध इत्यार्तिः सूचिता । विगलत्कर्मनिगल इति पूर्वोत्तराघनिवृत्तिः । मुक्तिं भजतीति पुरुषार्थलाभः । एवं साङ्गप्रपदनं निरूपितम् । तदुक्तं लक्ष्मीतन्त्रे -" श्रीरुवाच -

""

आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता ।

."

अन्तः स्थिताहं भूतानां सर्वेषामिति निश्चयात् ॥

मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत् ।

तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥

त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः । अङ्गसामग्रयसम्पत्तेरशक्तेश्चापि कर्मणाम् ॥
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् । उपाया नैव सिध्यन्ति ह्यपाया बहुलास्तथा ॥ इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते । शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ॥ ईशेशितव्यसम्बन्धादनिदम्प्रथमादपि । रक्षिष्यत्यनुकूलान्न इति या सु हढा मतिः ॥ स विश्वासो भवेच्छक सर्वदुष्कृतनाशनः । करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः । गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥ तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्मात्मनिक्षेप उच्यते ॥ "

इति । अस्मिन् श्लोके परिन्यासो नाम मुखसन्धेरङ्गमुक्तम् “बीजनिष्पत्तिः परिन्यासः " इति लक्षणात् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

इदम् अप्य् अत्र भवत्या भावनीयम् -

स्व-रक्षण-भरार्पण–क्षणिक-सत्रिणः क्षेत्रिणः
प्रवर्त्य कृपया स्थिति–प्रभुर् अ-भूत-पूर्वोदयाम् ।
जगद्-विपरिवर्तन–प्रथित-नित्य-शक्तिः स्वयं
क्षिपत्य् अ-पुनर्-अङ्कुरं +++(यथा तथा)+++,, दुरितम् अस्य लक्ष्मीपतिः ॥ ८० ॥+++(5)+++

मूलम् - ८०

इदमप्यत्र भवत्या भावनीयम् -

स्वरक्षणभरार्पणक्षणिकसत्रिणः क्षेत्रिणः

प्रवर्त्य कृपया स्थिति प्रभुरभूतपूर्वोदयाम् ।
जगद्विपरिवर्तनप्रथितनित्यशक्तिः स्वयं

क्षिपत्यपुनरङ्कुरं दुरितमस्य लक्ष्मीपतिः ॥ ८० ॥

प्रभावली - ८०

1

[[१५८]] भावनीयम् ; चिन्तनीयम् । ननु निरपायनिरन्तरोपायसिद्धौ सकलकर्मविरहेण कथमात्मनः संसारे पुनरवस्थानमित्याशङ्कय, न हि वयमार्तप्रपन्नस्यापि स्थिति ब्रूमः, कितु दृप्तस्य । परोज्जिजीवयिषया भगवान् कृपयावस्थिति करोतीत्याहस्वरक्षणेति । स्वरक्षणभरार्पणरूपं क्षणिकं सकृदनुष्ठेयत्वेन क्षणनिर्वर्त्य सम्
अस्यास्तीति तथोक्तः । त्रिगुणसत्रिण इति पाठे स्वरक्षणभरार्पणेन विशिष्टः, त्रिगुणं प्रकृतिः, तन्निष्ठः प्रकृतिनिष्ठः प्रपन्नः । शाकपार्थिवत्वात्समासः । दृप्तप्रपन्न इत्यर्थः ; तस्य । जगद्विपरिवर्तनेत्यादि ; जगतो विपरिवर्तनं नाम करणाकरणान्यथाकरणादि, तत्र प्रथिता प्रसिद्धा नित्यशक्तिर्यस्य स प्रभुः स्वतन्त्रः अभूतपूर्वोदयां कर्मवैधुर्येऽपि प्रवृत्तिहेतुभूतामिति यावत् । स्थितिं शरीरावस्थानं

[[१६०]] कृपया केवलया प्रवर्त्य सम्पाद्य ; अथ चास्य चेतनस्य दुरितं कर्म वासनामपि स्वयम् एवापुनरङकुरम् अपुनः प्ररोहं यथा तथा क्षिपति निरस्यति । यद्वा आत्मसमर्पणमात्रेणानन्तजन्मसञ्चितदुरितसन्ततिः कथं गलति ? निवृत्तिधर्मस्यापि कथञ्चिद्वैकल्यसम्भवाच्च कथं मुक्तः स्यादित्यत आह- इदमपीत्यादि । स्वरक्षणेत्यादि पूर्ववदर्थः । प्रभुः ; सर्वशक्तिः । भूतपूर्व उदयो यस्याः सा न भवतीति ता स्थिति प्रवर्त्य । अपूर्वस्थितिप्रवर्तनौपयिकं सर्वशक्तित्वमुपपादयति–जगद्विपरिवर्तनेति । पूर्ववदेवार्थः । अपुनरङ्कुरं यथा तथास्य दुरितं नाशयतीति सर्वशक्तित्वात् लक्ष्मीपतित्वाच्च भगवत उक्तचोद्यानवकाश इत्यर्थः ॥ ८० ॥

प्रभाविलासः - ८०

उक्तलक्षणस्याध्वरस्य कालपरिमाणं वदन् फलमाह — स्वरक्षणेति ।
[[१५९]]

स्वरक्षणभरार्पणमेव क्षणिकसत्रमस्यास्तीति तथोक्तः । “सकृदेव हि

शास्त्रार्थः कृतोऽयं तारयेन्नरम् "

“सकृदेव प्रपन्नाय " इत्यादिशास्त्रात् क्षणिकेत्युक्तिः । आत्मन्यासकर्तुः स्वध्वरसञ्ज्ञायाः श्रुतिसिद्धत्वात् सत्रिण इत्युक्तम् । यथोक्तम् -

" समित्साधनकादीनां यज्ञानां न्यासमात्मनः ।

नमसा योऽकरोद्देवे स स्वध्वर इतीरितः ॥ "

इति । अभूतपूर्वोदयाम् ; भूतपूर्वपदेनेष्टानिष्टसाधनकं कर्मोच्यते ; तद्विलक्षणा स्थितिरभूतपूर्वेत्युच्यते । मध्यमा निष्ठेत्यर्थः । तदुक्तं लक्ष्मीतन्त्रे-

" त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ।

निषेधविधिशास्त्रेभ्यस्तां विधां तु निबोध मे ।

अनर्थसाधकं किञ्चित् किञ्चिच्चाप्यर्थसाधकम् ।

अनर्थपरिहाराय किञ्चित्कर्मोपदिश्यते ॥

त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ।

उपायापायसञ्ज्ञौ तु पूर्वराशी परित्यजेत् ॥
तृतीयो द्विविधो राशिरनर्थपरिहारकः ।

प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशकः ।

तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ॥

क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ।

अक्रियावदनर्थाय तत्तु कर्म समाचरेत् ॥

एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा ।

अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥ "

"

इति । विपरिवर्तनपदेनाघटितघटनं विवक्षितम् । जगतो विपरिवर्तने प्रथिता नित्यशक्तिर्यस्य । अपुनरङ्कुरम् ; पुनरुत्पत्तिरहितं यथा तथा । अत्र श्लोके विलोभनं नाम मुखसन्धेर दर्शितम् । बीजगुणवर्णनं विलोभनम्” इति लक्षणात् ॥ ८० ॥

मुक्ति-कालः

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, एव्वं णाम वणिज्जन्ती ओवग्गदसा पुरिसस्स कइआ होहि^इ ?

( आर्यपुत्र,
एवं नाम वर्ण्यमाना अपवर्ग-दशा
पुरुषस्य कदा भविष्यति ?)

राजा - देवि35 त्रैलोक्य-वेदिनि, दुः-सहानादि-दुःख-सागर-निमग्नस्य
यथागमं यथान्यायं च
केनचित् कारणेन समुत्तारः सम्भविष्यतीति
सन्तोष्टव्यं तावत् । इह हि,

निरपाय-देशिक–निदर्शिताम् इमां
कमला-सहाय–करुणाऽधिरोहणीम्+++(=निश्रेणिम्)+++ ।
क्रमशो ऽधिरुह्य कृतिनः समिन्धते
परिशुद्ध-सत्त्व-परिकर्मिते पदे ॥ ८१ ॥
+++(मञ्जुभाषिणी - YT)+++

मूलम् - ८१

सुमतिः - अय्यउत्त, एव्वं णाम वणिज्जन्ती ओवग्गदसा

पुरिसस्स कइआ होहि^इ ?
( आर्यपुत्र, एवं नाम वर्ण्यमाना अपवर्गदशा पुरुषस्य कदा

भविष्यति ?)

राजा -देवि35 त्रैलोक्य वेदिनि, दुःसहानादिदुःखसागरनिमग्नस्य यथागमं यथान्यायं च केनचित्कारणेन समुत्तारः सम्भविष्यतीति सन्तोष्टव्यं तावत् । इह हि,

निरपायदेशिकनिदर्शितामिमां

कमलासहायकरुणाधिरोहणीम् (रोहिणीम्) ।
क्रमशोऽधिरुह्य कृतिनः समिन्धते

परिशुद्धसत्त्वपरिकर्मिते पदे ॥ ८१ ॥

प्रभावली - ८१

एव्वं णामेत्यादि । एव्वं णाम एवं नाम । वण्णिज्जन्ती-वर्ण्यमाना। ओवग्गदसा - अपवर्गदशा । पुरिसस्स - पुरुषस्य । कइआ - कदा । होहि भविष्यति ।
भगवत्कृपयापि वास्य कियन्तं कालं शरीरमवतिष्ठत इति प्रश्नार्थः । पुरुषस्य दुःख्यतः संसारसमुत्तारः सर्वथा तावद्भविष्यतीति सन्तोष्टव्यं भवत्येवेत्याह– दुःसहेत्यादि । यथागमम् ; " तावदेव चिरम्” इत्यादिश्रुत्यनतिक्रमेण । यथान्यायम् ; तत्तदेवमनुष्याद्यायुः परिमाणानतिक्रमेण च । केनचित्कारणेन संसारात् समुत्तारः समुत्तरणम् । उत्तारकारणं प्रधानं शृङ्गप्राहिकया दर्शयति—इह हीत्यादि ।

इह ; जगति, उत्तारे वा ।
निरपायं यथा तथा देशिकेन दृष्टान्तपूर्वम् उपदिष्टाम् । कमलासहायस्य करुणाधिरोहणी निश्रेणिः, ताम् ।

[[२६२]] कमलाशब्देन लक्ष्म्याः पुरुष-कारत्वं तद्विशिष्टभगवत्कृपाया एव कारणत्वं च सूच्यते । क्रमशः क्रमेण । क्रमेणाधिरुह्य हि सौधप्राप्तिः । तद्वदिहापि सत्त्वादिगुणवैषम्यात् बुद्धिपरिपाकविशेषः । तेन यादृच्छिक सुकृतस्य समुद्भवः । तद्व्याजीकृत्य कृपया जायमान-
कालकटाक्षेण सदाचार्यसमाश्रयणम् । ततश् च ज्ञानानुष्ठानादिसम्भवः । तस्माद्भक्तिप्रपत्योरन्यतरस्वीकार इत्येवं कमेणाधिरुह्य ।
अत एव कृतकृत्याः
परिशुद्धसत्त्वेन शुद्धसत्त्वाचिद्रूप-गो-पुर-मण्टपादिना ऽलङ्कृते
परमे पदे समिन्धते ;

" विपन्यवो जागृवांसः समिन्धते " इत्यादिश्रुत्युक्तप्रकरेण विराजन्तीत्यर्थः ॥ ८१ ॥

प्रभाविलासः - ८१

[[२६१]]

दुःसहेत्यादि । " तस्य तावदेव चिरं यावन्न विमोक्ष्ये " " अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः " इत्यादिरागमः । " तत्सामान्यादितरेषु तथात्वम् " इति न्यायः । एवं युक्तिर्नाम मुखसंवेरङ्गमुक्तम्, “बीजानुकूल सङ्घटन प्रयोजनविचारो युक्तिः " इति लक्षणात् । निरपायेति । निर- पायः ; निर्दुष्टः । अधिरोहिणी ; निश्रेणिः । " निश्रेणिस्त्वधिरोहणी "
इत्यमरः । क्रमशः ; पूर्वोक्त जायमानकटाक्षादिक्रमेण । परिशुद्धसत्त्वपरि- कर्मिते ; अप्राकृतद्रव्यरचिते, क्षयन्तमस्य रजसः पराके " इति श्रुतेः ।

समिन्धत इति
" तद्विप्रासो विपन्यवो जागृवांसः समिन्धते " इति श्रुतिरनुगृहीता भवति ।
एवं प्राप्तिर्नाम मुखसंवेरङ्गम् उक्तम्, " बीजसुखागमः प्राप्तिः " इति लक्षणात् । कृतिनः समिन्धत इत्यनेकेषामिष्टार्थसिद्धिप्रतीतेः सिद्धिर्नाम नाट्यालङ्कारो दर्शितः । यदाहामृतानन्दः

सिद्धिः प्राप्तिर्विचारश्चानुनयस्तदनन्तरम् । उद्दिष्टमपि दाक्षिण्यं प्रसिद्धिर्गर्हणं तथा ॥ पश्चात्तापः स्पृहा क्षोभ आक्रन्दः परिहारकः । नीतिरुत्तेजनं शोभाभिमानः संशयस्तथा ॥ तुल्यतर्कोऽक्षमा चैव व्यवसायो विमर्शनम् । युक्तिः प्रोत्साहनं चैव साहाय्यं च निवेदनम् ॥ अभिज्ञानं च पृच्छा चातिशयो गुणकीर्तनम् । इति त्रिंशदलङ्काराः प्रायो नाटयेषु सङ्गताः ॥ इति । तत्र " सिद्धिरिष्टार्थसंसिद्धिरनेकेषामुदाहृता " इत्युक्तम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

अपि च ;

स्वयम् उपशमयन्ती स्वामिनः 36 स्वैर-लीलां
स्वमतम् इह दुहाना स्वादु पथ्यं प्रजानाम् ।
नियतम् इयम् इदानीम् अन्यदा वा भवित्री
निरवधि-सुख-सिद्ध्यै निष्प्रकम्पा ऽनुकम्पा ॥ ८२ ॥

मूलम् - ८२

अपि च ;

स्वयमुपशमयन्ती स्वामिनः 36 स्वैरलीलां

स्वमतमिह दुहाना स्वादु पथ्यं प्रजानाम् ।

नियतमियमिदानीमन्यदा वा भवित्री

निरवधिसुखसिद्ध्यै निष्प्रकम्पानुकम्पा ॥ ८२ ॥

प्रभावली - ८२

ननु भगवतः स्वच्छन्दलीलापारवश्यात् कृपा न स्वावकाशं लभत इत्यत आह— स्वयमिति । स्वामिनः ; सर्वेश्वरस्य । स्वैरलीलाम् ; स्वच्छन्दक्रीडाम ; शमयन्ती ; स्वच्छन्दलीला पारवश्येऽपि भगवान् स्वामित्वेन स्वीयमात्मवस्तु नोपेक्षते । अतश्च करुणा स्वैरलीलामपि निरङकुशप्रवाहा तिरस्करोतीत्यर्थः । इहैव प्रजानामाश्रितानां स्वादु रस्यं पथ्यं हितं स्वमतं संसारविमोचनरूपं स्वयमेव दुहाना ; प्रयच्छन्ती । दुहानेत्यनेन करुणायाः स्वः कामधेनुत्वं व्यज्यते ।

[[२६४]] भगवतः किञ्चिदनुग्रहं प्राप्य साकल्येनाविलम्बं प्रयच्छन्ती । कर्मवद्भावेऽपि, न दुहस्नुनमां " इति यक्प्रतिषेधः । अत एव निष्प्रकम्पा ; अविचाल्या । निरवधिसुख सिध्यै ; मोक्षसिद्धये । नियतम् ; नियमेन । इदानीम् ; शरीरावसाने

। प्रपन्नस्य । अन्यदा वा ; प्रारब्धकर्मावसाने भक्तिनिष्ठस्य । भवित्री ; भविष्यति ॥ ८२ ॥

प्रभाविलासः - ८२

[[२६३]]

स्वयमिति । स्वैरलीलाम् ; स्वतन्त्र व्यापारम् । इह लोके । प्रजानां स्वमतम् ; तत्तदभिमतम् । स्वादु ; प्रियम् । पथ्यम् ;

प्रियम् । पथ्यम् ; अनिष्टाननुबन्धि, पुत्रपश्वादिकमित्यर्थः । दुहाना ; प्रदात्री । इदं चानुषङ्गिकफलमिति ज्ञेयम् । इदानीमन्यदा वेत्यार्तदृतापेक्षयोक्तम् । निरवधिसुखम् ; ब्रह्मानुभवः । अनेन समाधानं नाम मुखसन्धेरङ्गमुक्तम् । " बीजसन्निधानं समाधानम्" इति

तल्लक्षणम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

इयं हि,

अविरल-गुण–च्छाया माया–ऽऽतप-प्रतिरोधिनी,
परिहृत-रजः–पङ्का, तापैर्,, अ-सङ्घटिता त्रिभिः ।
मधु-रिपु-दया–मूर्तिर् दिव्या,, निराकृत-कण्टका,
वहति निगमाद्,, वर्तन्य् एषा पुरीम् अपराजिताम् ॥ ८३ ॥+++(4)+++

मूलम् - ८३

इयं हि,37

अविरलगुणच्छाया मायातपप्रतिरोधिनी

परिहृतरजःपङ्का तापैरसङ्घटिता त्रिभिः ।
मधुरिपुदयामूर्तिर्दिव्या निराकृतकण्टका

वहति निगमाद्वर्तन्येषा38 पुरीमपराजिताम् ॥ ८३ ॥

प्रभावली - ८३

दयां वर्तनीत्वेन रूपयन्नाश्रितं सिद्धेर्न च्यावयतीत्याह - इयं हीत्यादि । इयं करुणा अविरलानां निबिडाना बहूनां गुणानां सौशील्यादीना छाया यत्र । अविरला निबिडा गुणानां छाया अनातपः शोभा वा यत्र । अन्यत्र अविरलगुणाः बहुविध शैत्यादिगुणाः छाया यत्र । माया प्रकृतिः, सैवातपः, तत्प्रतिरोधिनी । अन्यत्र मोहजनकातपप्रतिरोधिनी । परिहृतं रजः रजोगुणः पङ्कं पापं च यया । अन्यत्र प्रसिद्धम् । त्रिभिस्तापैर सङ्घटिता ; आश्रितानां तापत्रयविहति करीत्यर्थः । अन्यत्र कायिकादिरूपैस्त्रिभिस्ता पैर सङ्घटिता । मधुरिपुदयात्मिका दिव्या ; श्लाघ्या । अन्यत्र दिवि भवा । निराकृताः कण्टकाः मुक्तयन्तरायाः
बृन्दारकादयो यया । अन्यत्र कण्टकाः प्रसिद्धाः । एका वर्तनी ; एकपदी । निगमात् ; वेदात् प्रमाणभूतात् वेदाद्धेतोः ; “तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेऽयनाय " इत्यादिरागमस्तत्र प्रमाणमित्यर्थः । अन्यत्र पत्तनादारभ्य । अपराजिताम् ; " देवानां पूरयोध्या " " विभ्राजमाना हरिण विवेशापराजिता " इत्युक्तामयोध्यां पुरीम् । वहति ; प्रापयति गच्छति । अन्यत्र परैर्दुष्प्रापां पुरीम् ॥ ८३ ॥

प्रभाविलासः - ८३

अविरलेति । अत्र गुणशब्देन मुक्तयवस्थायामाविर्भूताः प्रत्यगात्मगुणा उच्यन्ते । अन्यत्र शैत्यादयः । माया ; संसारः । रजः ; रजोगुणः धूलिश्च । पङ्कः ; पापं कर्दमश्च । " पङ्कः कर्दमपापयोः " इति निघण्टुः । त्रिभिस्तापैः ; आध्यात्मिकादिभिः, वाङ्मनः कायकृतैश्च । कण्टकः, क्षुद्रशत्रुः, सूच्यग्रं च ; " सूच्यभे क्षुद्रशत्रौ च लोमहर्षे च कण्टकः " इति

[[८८]] [[२६५]]

निघण्टुः । निगमात् ; वेदात् । ल्यब्लोपे पञ्चमी । वेदत्रयं विहायेत्यर्थः । अन्यत्र नगरान्तरात् । अपराजितां पुरीम् ; अयोध्याम् । अन्यत्र अन्यैरपराजिताम् । एषा वर्तनी ; अर्चिरादिः । अन्यत्र पन्थाः । वहति ; प्रापयति ; मुक्तं पथिकं चेति शेषः ॥ ८३ ॥

मुक्तेर् अमृषात्वम्

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त,
अपरिमिअ-दुरिअ-भरिअस्स जन्तुणो
दुक्ख-साअरादो उत्तारण-वअणं
बाल-अण-सन्तोस-वअणं विअ39
उवच्छन्दणं ति पेक्खामि ।

( आर्य-पुत्र, अपरिमित-दुरित-भरितस्य जन्तोः
दुःख-सागराद् उत्तारण-वचनं
बाल-जन-सन्तोष-वचनम् इवोपच्छन्दनम्
इति पश्यामि ।)

राजा - भद्रे अ-बाधितार्थ-ग्राहिणि,
मा स्म मिथ्या-दृष्टिम् उपतिष्ठ
सुमतिः खल्व् असि
अपि दृष्टः क्वचिद् आप्तागमस्य बाधः
ऐश्वरस्य वा भक्त-जन संरक्षण-प्रतिज्ञानस्य ?
इयं ते प्रत्यायना -

शपे दैष्टिक्येन+++(←दिष्टिः = विधिः)+++, स्वयम् इह भवत्या, च सुमते
स्वयैव द्रष्टव्यः, स्वपन-विगमोन्मीलित-धिया40
अहङ्कार-ग्राह+++(=नक्र)+++–ग्रह-कदन–साक्रन्द–तनु-भृन्–
मुमुक्षा-संरम्भो मुर-मथन-सङ्कल्प–महिमा +++(गजेन्द्र-मोक्षय् इव)+++॥ ८४ ॥+++(4)+++

मूलम् - ८४

सुमतिः - अय्यउत्त, अपरिमिअदुरिअभरिअस्स जन्तुणो दुक्खसाअरादो उत्तारणव अणं बालअणसन्तोसवअणं विअ39 उवच्छन्दणं ति पेक्खामि ।
( आर्यपुत्र, अपरिमितदुरितभरितस्य जन्तोः दुःखसागरादुत्तारणवचनं बालजनसन्तोषवचनमिवोपच्छन्दनमिति पश्यामि ।)

राजा - भद्रे अबाधितार्थग्राहिणि, मा स्म मिथ्यादृष्टिमुपतिष्ठ । सुमतिः खल्वसि । अपि दृष्टः क्वचिदाप्तागमस्य बाधः, ऐश्वरस्य वा भक्तजन संरक्षणप्रतिज्ञानस्य ? इयं ते प्रत्यायना -

शपे दैष्टिक्येन स्वयमिह भवत्या च सुमते

स्वयैव द्रष्टव्यः स्वपनविगमोन्मीलितधिया40
अहङ्कारग्राहग्रहकदनसाक्रन्दतनुभृ-

न्मुमुक्षासंरम्भो41 मुरमथनसङ्कल्पमहिमा ॥ ८४ ॥

प्रभावली - ८४

अपरिमितेत्यादि । अपरिमिअदुरिअभरिअस्स - अपरिमितदुरितैः भरितस्य पूर्णस्य । जन्तुणो-जन्तोः । दुक्खसाभरादो -दुःखसागरात् । उत्तारणवअणं - उत्तारणवचनम् बालअणसन्तोसवअणं विअ बालजनसन्तोषवचनमिव । बालजनसन्तोषवचनं तु ; यवागूं पिब, शिखा ते वर्धिष्यते ’ इत्यादि ।

[[२६६]] उवच्छन्दणं ति पेक्खामि - उपच्छन्दनं प्रतारणमिति पश्यामि । अबाधि- तार्थः ; यथार्थः । यथार्थप्राहिण्यास्तवेदं नोचितमिति भावः । मिथ्या- दृष्टिः ; नास्तिकता, मायावादिमतनित्यर्थः । उपतिष्ठ ; अङ्गीकुरु । मन्त्रकरणाद्यभावादात्मनेपदाभावः । अनुपस्थाने हेतुमाह — सुमतिरिति । अपि दृष्ट इत्यादि । अपिः प्रश्ने । आप्तागमस्य ; आप्तवाक्यस्य ; आप्तश्चासावागमश्च ; " तमेवं विद्वान् " इत्यादेः । कुत्रचिदपि बाधो दृष्टः किम् ? न दृष्ट इत्यर्थः ।
बाधे सत्याप्तवाक्यत्वमेव हीयेतेति भावः । ऐश्वरस्य ; ईश्वरसम्बन्धिनः । भक्तरक्षणप्रतिज्ञानस्य ; " सकृदेव प्रपन्नाय " " न त्यजेयं कथञ्चन " इत्यादिकस्यापि । कि दृष्टो बाध इत्यत्रानुषज्यते । प्रत्यायना ; विश्वासप्रति- वचनम् ; शपथ इत्यर्थः ।

तम् एवाह —शप इति ।
दिष्टं विधिः ; भगवत्कृपेति यावत् । देवादिशब्दा भगवद्दयावाचका इत्यस्मत्सिद्धान्तसम्प्रदायः । दिष्टं प्रमाणत्वेनास्तीति वदन् दैष्टिकः । तद्भावो दैष्टिक्यम् । वैष्णवत्वमित्यर्थः । तेन शपे । भवत्या च शपे । मिथ्या चेत् प्रेयसीशपनं कर्तुमनुचितमिति भावः । स्वपनविगमोन्मीलितचिया ; सम्यगवहितज्ञानया । अहङ्कारेत्यादि ; अहङ्कारो देहात्माभिमानः । स एव ग्राहो नक्रः, तस्य ग्रहो ग्रहणम् ; तज्-जनितं कदनम् उपद्रवः, तेन साक्रन्दः आर्त-ध्वनि-सहितः, यस् तनुभृत् प्राणी, तस्य मुमुक्षया मोक्षेच्छया संरब्ध उद्युक्तो भवन् । मुरमथनस्य सङ्कल्पमहिमा ; विशिष्टः सङ्कल्प इत्यर्थः ॥ ८४ ॥

प्रभाविलासः - ८४

उपच्छन्दनम् ; ’ यवागूं पिब, शिखा ते वर्धिष्यते ’ इत्यादिवत रुच्युत्पादनम् । अनेन विभावनं नाम मुखसन्धेरङ्गमुक्तम् । “बीजसुखदुःख-
हेतुर्विभावनम् " इति लक्षणात् । मिथ्यादृष्टिम् ; नास्तिकताम् । अपिः प्रश्ने । " तमेवं विद्वानमृत इह भवति " " ब्रह्म वेद ब्रह्मैव भवति इत्यादिरागमः । " मोक्षयिष्यामि मा शुचः इत्यादि प्रतिज्ञानम् । प्रत्यायना ; विश्वासोक्तिः । शप इति । दिष्टं देवमस्तीति मतिमान् दैष्टिकः । तस्य भावो दैष्टिक्यम् । स्वपनविगमः कर्माविद्यातिरोधान-

। ; निवृत्तिः । तेनोन्मीलिता व्याप्ता धीः विकासो यस्यास्तया । तथा च
[[२६७]]

श्रुतिः- “ सर्वे ह पश्यः पश्यति " इति । अहङ्कार एव ग्राहो जलग्राहः, तेन ग्रहेण ग्रहणेन जाते कदने बाधे साक्रन्दस्य तनुभृतो मुमुक्षायां संरम्भः सम्भ्रमो यस्य सः । " संरम्भः सम्भ्रमे क्रोधे " इति निघण्टुः । अनेन गजेन्द्ररक्षणं व्यञ्जितम् । साक्रन्दपदेन

"”

गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् ।

ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥ "

इति शरण्यवचनं स्मारितम् । तेन द्रौपदीरक्षणं साक्रन्दपदव्यङ्ग्यम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

अथवा
साधारणः खल्व् अयं समाश्रित-संरक्षण-संरम्भः ।
तथा हि-

दीनो दृप्यतु वा ऽपराध्यतु42, परं व्यावर्ततां वा ततस्43, त्रातव्यः शरणागतः शकनतः+++(=शक्तितः)+++, सद्भिस् तथा स्थाप्यते
विश्वा-मित्र+++(←शुनःशेफादौ)+++–कपोत+++(←निषद-मांस-दाने)+++-राघव+++(←काकादौ)+++-रघु+++(←अश्वमेध-विप्रादौ)+++-व्योमाध्व-ग–प्रेयसी+++(←त्वष्टृ-रक्षायाम्)+++-
नाली-जङ्घ+++(←ब्राह्मण-रक्षायां)+++–बृहस्पति+++(←इन्द्रादौ)+++–प्रभृतिभिर् नन्व् एष घण्टा-पथः ॥ ८५ ॥

मूलम् - ८५

अथवा साधारणः खल्वयं समाश्रितसंरक्षणसंरम्भः । तथा हि-

दीनो दृप्यतु वापराध्यतु42 परं व्यावर्ततां वा तत-43 स्त्रातव्यः शरणागतः शकनतः सद्भिस्तथा स्थाप्यते ।
विश्वामित्रकपोतराघवरघुव्योमाध्वगप्रेयसी-
नालीजङ्घबृहस्पतिप्रभृतिभिर्नन्वेष घण्टापथः ॥ ८५ ॥

प्रभावली - ८५

[[२६८]]
समाश्रितसंरक्षणं तदेकदीक्षितस्य भगवतः कैमुतिकन्यायसिद्धमित्याह- अथवेत्यादि । किमाश्रितविशेषविषयवचनेन ? साधारणश्चायमित्यादि । तदेव दर्शयतिदीन इति । दीनः विभीषणादिवद्भग्नदर्पः । दृप्यतु वा ; भार्गवादिवत् उद्धतो भवतु वा । परं विराध्यतु ; केवलं काकादिवत् विरोधमाचरतु वा ।
ततो विरोधाद्वधावर्तताम ; विरोधाद्व्यावर्तनमुदासीनता । सुग्रीवादिवदुदासीनो भवतु । शरणागतेः पूर्वमिति सर्वत्र योज्यम् । शकनतः ; शक्तितः । शक्त्यनुसारेणेत्यर्थः । तथा ; एवमेव । सद्भिः स्थाप्यते ; अनुष्ठानेन स्थिरीक्रियते । शरणागतरक्षकान् सतो दर्शयतिविश्वामित्रेत्यादिना ।

[[१७०]]
"

विश्वामित्रः शुनःशेफादिविषये ।
कपोतेन निषादो रक्षितः ।
राघवेण काकादिः ।
रघुणा अश्वमेध - तुरङ्गरक्षणे, ब्राह्मणश्च ।
व्योमाध्वगः देवाः, तेषा प्रेयस्यः देवपत्न्यः, ताभिस् त्वष्टा ;

“देवा वै त्वष्टारम्
अजिघांसन् ।
स पत्नीः प्रापद्यत "

इत्यादेः ।
नाली-जङ्घो नाम बकः । स स्त्रिन्द्र-द्युम्नम् ।
बृहस्पतिर् इन्द्रं देवांश्च ।
प्रभृतिशब्देन कृष्णशिविप्रभृतयः ।
एतेषां चरित्राणि तत्र तत्रेतिहासेषु द्रष्टव्यानि ॥ ८५ ॥

प्रभाविलासः - ८५

भगवतः संरक्षकत्वं कैमुतिकन्यायेन प्रथयति — दीन इति । दीनः ; आर्तः ; तच्च प्रारब्धदेहासहिष्णुत्वम्, “यस्तु प्रारब्धदेहेऽपि शोचत्यार्तः स उच्यते " इति स्मरणात् । हृप्यतु वा ; दृप्तो वा.

दृप्तो वा. अभ्युपगतप्रारब्धमात्रसह इत्यर्थः, " यस्य देहान्तरकृते शोको दृप्तः स उच्यते " इति स्मरणात् । एवम्भूतः प्रपन्नः अपराध्यतु । ततोऽपराधात् व्यावर्ततां वा । इदं च नालीजङ्घवानरवृत्तान्तस्मरणादुक्तम् । त्रातव्यः ; अनेन

" आर्तो वा यदि वा दृप्तः परेषां शरणं गतः ।

"

अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ इति स्मारितम् । यद्वा विभीषणादिवदातों वा, परशुरामादिवत् हृप्यतु वा, काकासुरादिवदपराध्यतु वा, सुग्रीवादिवत् व्यावर्ततां वा, उदासीनतया तिष्ठतु वेति । शकनतः ; शक्तितः । स्वप्राणावस्थितिपर्यन्तं जटाय्वादिवत् रक्षणमावश्यकमित्युक्तम् । सद्भिः सर्वशरण्ययाथात्म्यविद्भिः, " अस्ति-

;

[[१६९]]

ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति” इति श्रुतेः । यद्वा शरणागतरक्षणधर्मरहस्यविद्भिः । " सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः लवङ्गम” इति हि शरण्यवचनम् । स्थाप्यते ; स्वयमनुष्ठानेन स्मृतिप्रामाण्येन च स्थिरीक्रियते । सत एवोदाहरतिविश्वामित्रेत्यादिना । स्वब्राह्मण्यनिमित्तसुकृतापत्यादिहानिमनुमत्येममेवान्तरङ्गधर्ममन्वतिष्ठद्विश्वामित्रः । तदुक्तं बालकाण्डे स्वपुत्रान् प्रति विश्वामित्रवचनम्मू-

यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥ अयं मुनिसुतो बालो मत्तः शरणमिच्छति । तस्य जीवनमात्रेण प्रियं कुरुत पुत्रकाः ॥

इति । मुनिसुतः शुनःशेफः । त्रिश्ङ्कुं प्रति -

"

‘इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।

शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥
इति । अस्य धर्मस्य रक्ष्यरक्षकयोर्जातिभेदमन्तरेण सार्वत्रिकत्वमाह । कपोतेति ; स्वप्राणत्यागपर्यन्तं हि कपोतो रक्षितवान् ।

""

श्रूयते हि कपोतेन शत्रुः शरणमागतः । अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ।

स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ "

इति श्रीरामोक्तेः । अनेनापराध्यतु वेति विवृतम् । आत्मानं प्रति शरणवचनानुक्तावपि शरणपदश्रवणमात्रेणापि सर्वथा रक्षणमिति दर्शितं च । लुब्धको हि वनस्पतिं प्रति शरणपदं प्रयुक्तवान् -" सोऽञ्जलिं शिरसा कृत्वा वाक्यमाह वनस्पतिम् । शरणं ते गतोऽस्म्यद्य " इति । यद्वा शरणपदप्रयोगाभावेऽपि गृहागमनमेव रक्षणनिमित्तमिति दर्शितम् । उक्तं हि कपोत्या-

"

शृणुष्वावहितः कान्त यत्ते वक्ष्याम्यहं हितम् ।

प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥

एष शाकुनिकश्चेह तव वासं समाश्रितः ।

शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥

यो हि कञ्चिद् द्विजं हन्यात् गां च लोकस्य मातरम् ।

शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥

[[१७१]]

इति । ईश्वरस्य शरण्यत्वं स्वाभाविकमिति वक्तुं राधवश्रवणम् । राघवो हि

विभीषणं रक्षितवान् । तदुक्तम्-

"

विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥

इति । शरणागतरक्षणस्यात्यन्ताभिमतत्वेनावताराय शरण्यवंश एवान्वेषित इति दर्शयितुं रघुश्रवणम् । तद्वंशस्य शरण्यत्वं श्रीविष्णुपुराणे प्रसिद्धम् -

" अन्येऽपि सन्त्येव नृपाः पृथिव्यां मान्धातरेषां तनयाः प्रसूताः ।

किन्त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाध्यमिदं कुलं ते ॥

""

इति । रघुः कञ्चन ब्राह्मणं रक्षसो ररक्ष । उक्तं हि रघुणा राक्षसं प्रति–

" शक्तोऽपि हि रणे लोभाद्भयाद्वा शरणागतम् । यस्त्यजेत्पुरुषं लोके ब्रह्महत्यां स विन्दति ॥ प्रायश्चित्तेन शुध्यन्ति महापातकिनोऽपि ये । शरणागतहन्तॄणां शुद्धिः कापि न विद्यते ॥ पूयन्ते हयमेधेन महापातकिनोऽपि ये । शरणागतहन्तारो न त्वेव रजनीचर ॥ "

इति । व्योमाध्वगप्रेयस्यः देवतापत्न्यः । " देवा वै त्वष्टारमजिघांसन् । स पत्नीः प्रापद्यत । तं न प्रति प्रायच्छन् । तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्ति " इति श्रौत प्रसिद्धेरुक्तम् । अनेन स्त्रीणामप्ययमेवा-
त्यन्तहिततमो धर्म इति लक्ष्म्याः कैमुतिकन्यायसिद्ध इति दर्शितम् । " कार्ये करुणमार्येण " इति हि तयोक्तम् ।

नालीजङ्घो नाम कश्चित्
कञ्चन निषाद कुटुम्बिनं हीन-व्यापारं ब्राह्मणं शरणागतं दरिद्रं
स्वप्रिय-सखात् विरूपाक्ष-सञ्ज्ञकात् राक्षस-राजन्यात्
शताधिक-सुवर्ण-प्रदानेन ररक्षेत्य्
आनुशासनिके प्रसिद्धिः ।

बृहस्पतिः शचीं नहुषान्मानभङ्गभीतां शरणागतां ररक्षेत्यादि - पर्वणि द्रष्टव्यम् । बृहस्पतिना गीतं च-

" न चास्य बीजं रोहति रोहकाले न चास्य वर्षे वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते प्राणमिच्छन् ॥

इति । प्रभृतिपदेन शिविवानरादयः । शिबिर्हि श्येनात्कपोतमवति स्म । तदुक्तं शिबिं प्रति शक्रेण -

आत्मप्राणैः परप्राणान् यो नरः परिरक्षति ।

स याति परमं स्थानं यस्मान्नावर्तते पुनः ।

प्राणैरपि त्वया राजन् रक्षितः कृपणो जनः ।

स्वमांसान्यपि दत्तानि द्रव्येष्वन्येषु का कथा ।

इति । बानरस्तु विप्रं राक्षसाद्ररक्षेत्यलं ग्रन्थगौरवेण ॥ ८५ ॥

विष्णोर् एव मोक्षदत्वम्

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त, होन्ति खु महन्ता पिआमह-प्पमुहा वि
मोक्खकामेहिं तेहि तेहिम् उवासिज्जता ।
ता किं सिरीवई एव्व णिव्वाणस्स कालणं भणिज्जइ ?

(आर्यपुत्र, भवन्ति खलु महान्तः पिता-मह-प्रमुखा अपि
मोक्ष कामैस् तैस् तैर् उपास्यमानाः
तत्किं श्री-पतिर् एव
निर्वाणस्य कारणं भण्यते ?)

राजा — प्रिये अतिसूक्ष्म-दर्शिनि,
किं न मन्यसे
असाधारणं हि मधु-मथनस्य माहात्म्यम् ;

पुरावेधः-स्तम्बावधि-पुरुष-सृष्टेः स्थितिमति44
स्थिरा भक्तिः सूते विपद्-उपरतिं पुंसि परमे ।
तद्-अन्यान् अभ्यर्चन्न् अभिलषित-मुक्तिः45 सुरगणान्
उदन्यां+++(=उदकेच्छां)+++ प्रालेयैर्+++(=नीहरैः)+++ उपशमयितुं वाञ्छति जडः ॥ ८६ ॥+++(4)+++

मूलम् - ८६

सुमतिः - अय्यउत्त, होन्ति खु महन्ता पिआमहष्पमुहा वि मोक्खकामेहिं तेहि तेहिम् उवासिज्जता । ता किं सिरीवई एव्व णिव्वाणस्स कालणं भणिज्जइ ?

(आर्यपुत्र, भवन्ति खलु महान्तः पितामहप्रमुखा अपि मोक्ष कामैस्तैस्तैरुपास्यमानाः । तत्किं श्रीपतिरेव निर्वाणस्य कारणं भण्यते ?)
राजा — प्रिये अतिसूक्ष्मदर्शिनि, किं न मन्यसे । असाधारणं हि मधुमथनस्य माहात्म्यम् ;

पुरावेधः स्तम्बावधिपुरुषसृष्टेः स्थितिमति44

स्थिरा भक्तिः सूते विपदुपरतिं पुंसि परमे ।
तदन्यानभ्यर्चन्नभिलषितमुक्तिः45 सुरगणा-46

नुदन्यां प्रालेयैरुपशमयितुं वाञ्छति जडः ॥ ८६ ॥

प्रभावली - ८६

[[१७२]] पूर्व कमला सहायकरुणैव सर्वसरक्षणीत्युक्तम् । तत्स्थूणानिखननन्यायेनाक्षिप्य समाधत्ते - होन्ति खु इत्यादिना । होन्ति खु भवन्ति खलु । महन्तामहान्तः । पिआमहप्पमुहा - पितामहप्रमुखाः । वि अपि । मोक्खकामेहिं - मोक्षकामैः । तेहि तेहिं तैस्तैः । उवासिज्जता उपास्यमानाः । ता किं तत्किम् । सिरीवई एव्व श्रीपतिरेव । णिव्वाणस्स - निर्वाणस्य । कालण–

૨૦૪
कारणम् । भणिज्जइ-भण्यते । अतिसूक्ष्मदर्शिनीति प्रशंसा । अथापि किं न मन्यसे मोक्षप्रदानरूपं माहात्म्यम् ? असाधारणत्वं दर्शयति-— पुरेति । आवेधतस्त्रावधि ; ब्रह्माणमारभ्य स्तम्बपयन्तम् । या पुरुषसृष्टिः ; पुरुषाणां करणकलेबरसंवटनम् । तस्याः प्रागेव स्थितिमति ; प्रलयकालेऽपि तिष्ठतीत्यर्थः । यद्वा भवेधस्तम्बावधिपुरुषसृष्टेः सृष्टपुरुषाणा सर्वेषामित्यर्थः । स्थितिमति ; स्थितिः रक्षणम्, तत्कुर्वन् तद्वान्, तम्मिन् । स्थितिकर्तृत्वं मुमुक्षूपास्यत्वं मोक्षप्रदत्वं च भगवत एवेत्युक्तं भवति । परमे पुसि ; पुरुषात्तमे । स्थिरा भक्तिः ; स्थिरत्वं परमत्वम् । पुरा ; प्रार्थनायाः पूर्वमेव । विपदः ; संसारस्य ।

ततश्च ;
उपरतिम् ; निवृत्तिम् । सूते उत्पादयति । न ब्रह्मादिविषया भक्तिरित्यर्थः । एतत् दृष्टान्तेनापि समर्थयते तदन्यानिति । तदन्यान् ; भगवद्व्यतिरिक्तान् सुगन् । अभ्यर्चन् ; " आ धृषाद्वा " इति णिविकल्पः । अभिलषितमुक्तिः ; पुरुषः मोक्षकामः ! जडः उदन्याम् ; उदकेच्छाम्, पिपासाम् इत्यर्थः । प्रालेयैः पिपासोपशमनं यथा नोपलभ्यते तद्वदिति भावः ॥ ८६ ॥

प्रभाविलासः - ८६

[[१७३]]

" कारणं तु ध्येयः " " तरति शोकमात्मवित्" इत्यादिना यत्कारणं तदेव ध्येयम् । ध्येयमेव मोक्षप्रदमित्यभिप्रायेण नारायणस्य जगत्कारणत्वं तावदाह – पुरेति । आवेधः स्तम्बावधि ; चतुर्मुखमारभ्य स्तम्बपर्यन्तायाः । पुरुपसृष्टेः ; जीववर्गम्य । स्थितिमति ; स्थितिं कुर्वति । अत्र स्थितिपदेन सृष्टिलयावपि विवक्षितौ । अत्र " यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । " इति श्रुतिः,

मति

"

विष्णोः सकाशादुद्भुतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्तासौ जगतोऽस्य जगच्च सः ॥ '

इत्युपबृंहणं च द्रष्टव्यम् । यद्वा आवेधः स्तम्बावधिपुरुषसृष्टेः पुरा स्थितिमतिपूर्वमेवाहमिहासमिति, तत्पुरुषस्य पुरुषत्वम्" इत्यादिश्रुतेः । परमे पुंसीति " अग्निरवमो देवतानां विष्णुः परमः " इति श्रुतिरभिप्रेता ।
पुरा सूते ; " यावत्पुरानिपातयोर्लट् ” इति लट् । इदं प्रथमव्याख्यानानुगुणम्। एवं नारायणस्य मोक्षसाधनत्वमुक्तम् । " तमेवं विदित्वातिमृत्युमेति । " " श्रेयांसि तत्र खल सत्त्वतनो नृणां स्युः।

मुमुक्षवो घोरमूढान् हित्वा भूमिपतीनधः ।

नारायणकलाशान्ता भजन्ति नसूयवः ॥ '

इति श्रुतिस्मृतिसिद्धत्वात् । अथ " नान्यः पन्था अयनाय विद्यते " इति श्रुति मनसिकृत्याह - तदन्यानिति । उदन्याम् पिपासाम् । अत्र

C

वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।

""

तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ इत्येतदनुसन्धेयम् । जड इति राजसतामसप्रकृतित्वमुक्तम् ।
रजस्तमः प्रकृतयस्तमः शीलान् भजन्ति हि ।

पितृभूतप्रजेशादीन् श्रियैश्वर्य प्रजेप्सवः ॥

इति भागवतोक्तेः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

खलु सहस्रम् अप्य् आलेख्य-दिवस-करा
अन्धकारं प्रतिक्षिपन्ति ।+++(5)+++

आबध्नती विगत-शान्तिम् अनादि-निद्रां
चेतस्विनस् त्रि-गुण-शक्तिमयी त्रियामा
नाथस्य केवलम् असौ नरकान्त-कर्तुः
सङ्कल्प-सूर्य-विभवेन समापनीया ॥ ८७ ॥+++(5)+++

मूलम् - ८७

न खलु सहस्रमप्यालेख्यदिवसकरा47 अन्धकारं प्रतिक्षिपन्ति ।

आबध्नती विगतशान्तिमनादिनिद्रां

चेतस्विनस्त्रिगुणशक्तिमयी त्रियामा

नाथस्य केवलमसौ नरकान्तकर्तुः48

सङ्कल्पसूर्यविभवेन समापनीया ॥ ८७ ॥

प्रभावली - ८७

तत्र दृष्टान्तान्तरं दर्शयति-न खल्विति । चित्रलिखित दिवाकरसह - स्वमपीत्यर्थः । अन्धकारं प्रतिक्षेप्तुं न शक्नुवन्ति । पश्चिमदृष्टान्तेनायमर्थ उक्तो भवतीत्यर्थः । ततश्चेति । चेतस्विनः ; चेतनस्य । विगतशान्निम् ; शान्तिरहिता, निरन्तरप्रवृत्ताम् । अनादिनिद्राम् ; अनादिमज्ञानरूपां निद्राम् ।

[[१७६]] आवघ्ननी ; आपादयन्ती । त्रिगुणशक्तिमयी ; त्रिगुणा शक्तिः प्रकृतिः, तद्रूपा । निद्राहेतुत्वात् त्रियामेव त्रियामा रात्रिः ; प्रकृतिशवरी । असौ ; अनुभूयमाना । नरकासुरस्यान्तर्तु’ ; नरकरिपोः श्रीकृष्णस्य । सङ्कल्पाख्य सूर्य महिना केवलं समापनीया । केवलमित्यवधारणे । महिमव्यतिरिक्तेन नान्येन समापनीयेति गम्यते ॥ ८७ ॥

प्रभाविलासः - ८७

[[१७५]]

आलेख्यम् ; चित्रपटः । आबध्नतीति । चेतस्विनो विगतशान्तिमिति ब्रह्मविद्याभावे । अनादिनिद्राम् ; " अनादिमायया सुप्तः" इति स्मृतेः । नरकान्तकर्तुरिति समापने हेतुः । तेन नरक निवर्तनरूपोपमालङ्कारः पदव्यङ्ग्यः । अनेनानुभूयमानानवधिसंसारनिवर्तकत्वेन विस्म-
-यावहत्वात् परिभावना नाम मुखसंवेरङ्गमुक्तम्, “ बीज विषयाश्चर्यांवेशः परिभावना" इति लक्षणात् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

सुमतिः–अय्यउत्त, अज्ज खु देवाणं मुणीणं वि परावरपुरिस-विवेअणे डोलाअइ चिन्ता ।
तुए उण कहम् एक्कमि पुरिसोत्तमे णिट्ठा णिअमिज्जइ ?

( आर्यपुत्र, अद्य खलु देवानां मुनीनाम् अपि
परावर-पुरुष-विवेचने डोलायते चिन्ता
त्वया पुनः कथम् एकस्मिन् पुरुषोत्तमे निष्ठा नियम्यते ? )

राजा - देवि, ननु सोपबृंहण-निपुण-निरूपिताभिर् उपनिषद्भिर् एव ।
प्रसिद्धं खलु वेद-विप्र-केशवानाम्49 ऐक-राश्यम् ।

मेयं विष्णुर् वेद-वादाश् च मानं,
मातारश् च ब्राह्मणाः सत्त्व-निष्ठाः । इत्थं तेषाम् ऐक-राश्यं प्रतीमः,
कीट-प्रायैर् दुर्विदग्धैः किम् अन्यैः ॥ ८८ ॥+++(4)+++

मूलम् - ८८

सुमतिः–अय्यउत्त, अज्ज खु देवाणं मुणीणं वि परावरपुरिसविवेअणे डोलाअइ चिन्ता । तुए उण कहम् एक्कमि पुरिसोत्तमे णिट्ठा णिअमिज्जइ ?

( आर्यपुत्र, अद्य खलु देवानां मुनीनामपि परावरपुरुष विवेचने डोलायते चिन्ता । त्वया पुनः कथमेकस्मिन् पुरुषोत्तमे निष्ठा नियम्यते ? )

राजा - देवि, ननु सोपबृंहणनिपुणनिरूपिताभिरुपनिषद्भि-

रेव । प्रसिद्धं खलु वेदविप्रकेशवानाम्49 ऐकराश्यम् ।

मेयं विष्णुर्वेदवादाश्च मानं मातारश्च ब्राह्मणाः सत्त्वनिष्ठाः ।

इत्थं तेषामैकराश्यं प्रतीमः कीटप्रायैर्दुर्विदग्धैः किमन्यैः ॥ ८८ ॥

प्रभावली - ८८

अज्जखु इत्यादि । अज्जखु - अद्य खलु । देवागं मुणीणं वि-देवाना मुनीनामपि । परावरपुरिसविवे अणे-परापरपुरुषविवेचने । डोलायते ; डोलावच्च-

[[१७७]] चला वर्तते । चिन्ता चिन्ता । तुए उण त्वया पुनः । कहं कथम् । एक्कमि- एकस्मिन् । पुरिसोत्तमे पुरुषोत्तमे । णिठ्ठा णिअमिज्ज‍ निष्ठा नियम्यते । निष्ठा ; मुक्तिहेतुत्वम् । पूर्वं भगवतो मुक्तिहेतुत्वं कथमिति शङ्का जगत्कारणत्वादिति परिहृता । इदानीं भगवत एव जगत्कारणत्वनिश्चयः कथमित्याशङ्कयाह — सोपबृंहणेत्यादिना । सोपबृंहणम् ; सेतिहासपुराणं यथा तथा । निपुणम् ; सावधानम् । निरूपिताभिरुपनिषद्भिरेव ; “एको ह वै नारायण आसीत् " इत्यादिभिः । पुरुषोत्तम एकस्मिन्नेव निष्ठा नियम्यत इत्यनुषज्यते । " वेदा विप्राः केशव-

। चैकराशिः " इत्यस्यार्थमाह– प्रसिद्धमिति । नन्वैकराश्यं नामैकजातीयवस्तुपुञ्जत्वम् । तत्कथमत्रोपपद्यत इत्याशङ्कय तस्य वचनस्य तात्पर्यमाह - मेयं विष्णुरिति । विष्णुरेव मेयं प्रतिपाद्यम् । उपनिषद्वाक्यान्येव तत्र प्रधानं प्रमाणम् । ननु विष्णोर्मेयत्वं वेदान्तानां तद्विषयमानत्वं च दुर्वादिना न सम्मतमित्यत्राह - मातारश्चेति । सत्त्वनिष्ठाः ; सात्त्विका ब्राह्मणाः प्रमातारो यदि लभ्येरन्, तदा विष्णोरिव प्रतिपाद्यत्वं सिध्येत् । ततश्च विष्णोः सर्ववेदवेद्यत्वं येषां न सम्मतं तेषां ब्राह्मण्यमेव नास्तीत्यर्थः नारायण परं ब्रह्म

[[१७८]] "”

नारायणपरा वेदाः " " वेदैश्च सर्वैरहमेव वेद्यः " इत्यादीन्यत्र पाठ्यानि । सत्त्वनिष्ठा इत्यनेन सुत्त्वगुणस्यैव यथार्थज्ञानजनकत्वं सूचितम् । तदाहुः " सत्त्वात्सञ्जायते ज्ञानम् " इति । यथार्थज्ञानश्रुत्या अन्ये पुनरसात्त्विका इति भावः । इत्थं तेषाम् ; वेदविप्रकेशवानां मेयमातृमानभावेनैकरराश्यमेककोटित्वं प्रतीमः जानीमः । एवं वेदविप्रकेशवानामेवैकरराश्यात् भगवद्व्यतिरिक्ताना ब्रह्मादीनां वेदप्रतिपाद्यत्वाभावान्मुमुक्ष्वनुपास्यत्वमाह– कीटप्रायैरित्यादिना । कीटः कृमि - विशेषः ; तत्सदृशैः । स्वरक्षणाशक्तत्वं वेदापहारगुरुपातकदैत्य पीडादिषु द्रष्टव्यम् । दुर्विदग्धै ; विष्णुदत्तस्वातन्त्र्यवत्त्वेऽपि स्वतः स्वातन्त्र्याभिमानात् दुर्विदग्धत्वम् । अन्यैः ; भगवद्व्यतिरिक्तः । कि प्रयोजनम् ; न किमपीत्यर्थः सर्वप्रयोजनानां विष्णावेव सिद्धेः, " सकलफलप्रदो हि विष्णुः " इत्यादेः । यद्वा कीटप्रायैरित्यस्यायमर्थः -अज्ञत्वाविशेषात् कीटप्रायत्वं पण्डितम्मन्यत्वाद् दुर्विदग्धत्वम् ॥ ८८ ॥

प्रभाविलासः - ८८

उपबृंहणम् ; स्मृनीतिहासपुराणादिभिर्वेदार्थविवेचनम् । मेयमिति । “ अघाते विष्णो विदुषा चिदृध्यः " " सुमजानये विष्णवे ददाश ति" “बृहत्ते
"”

विष्णु-

विष्णो सुमतिं भजामहे " " विष्णुः परमः " " यज्ञो वै विष्णुः रेव प्रववृधे " " विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे " " विष्णोनुकम् " " विष्णुमुखा वै देवाः " " इदं विष्णुर्विचक्रमे " " तद्विष्णोः परमं पदम् विष्णोः पदे परमे " " प्र ने विष्णो " " विष्णुरुपावह्नियमाण

" "

11

विष्णुरुपांशु यष्टव्यः " इत्यादिषु प्रचुरप्रयोगानुसारेण विष्णुर्मेयमिति पदोपादानम् । " सर्वे वेदा यत्रैकं भवन्ति " " सर्वे वेदा यत्पदमामनान्ति " इति श्रुत्या वेदवादाचेत्युक्तम् । ब्राह्मणाः ; ब्रह्मनिष्ठाः । " विष्णुं क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते " इतिवत् । अन्यैःः ब्रह्मादिभिः । " सप्तवितस्तिकायः " इत्याद्यनुसारेण कीटप्रायैरित्युक्तिः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अपि च,

शास्त्राण्य् आलोड्य सर्वाण्य् अ-शिथिल-गतिभिर् युक्ति-वर्गैर् विचार्य50
स्वान्तर्निर्धार्य51 तत्त्वं, स्व-भुजम् अपि महत्य् उद्धरन् सूरि-सङ्घे ।
“सत्यं सत्यं च सत्यं पुनर्” इति कथयन् सादरं वेद-वादी
पाराशर्यः प्रमाणं यदि, क इह परः केशवाद् आविर् अस्ति ॥ ८९ ॥+++(4)+++

मूलम् - ८९

अपि च,

शास्त्राण्यालोड्य सर्वाण्यशिथिलगतिभिर्युक्तिवर्गैर्विचार्य50

स्वान्तर्निर्धार्यं51 तत्त्वं स्वभुजमपि महत्युद्धरन् सूरिसङ्घे ।
सत्यं सत्यं च सत्यं पुनरिति कथयन् सादरं वेदवादी

पाराशर्यः प्रमाणं यदि क इह परः केशवादाविरस्ति ॥ ८९ ॥

प्रभावली - ८९

अयमर्थः शारीरकसूत्र प्रणेतृश्रीवेदव्यास भगवताप्युद्घोषित इत्याहशास्त्राणीति । शास्त्राण्यालोड्य ; एककण्ठीकृत्य । अनेन " आलोड्य सर्वशास्त्राणि " इत्यस्यार्थ उक्तः । अशिथिलगतिभिर्युक्तिवर्गैः ; उपपत्तिगणैः । विचार्य ; मीमांसयित्वा । तत्वम् ; तत्र पर्यवसितमर्थम् । स्वमनसि निर्धार्य ; एवमेव नान्यथेति सम्यङ्

[[१७९]] निश्चित्य । अनेन " विचार्य च पुनः पुनः " इत्यस्यार्थ उक्तः । महति सूरिसङ्घे ; महर्षिणां सन्निधावित्यर्थः । स्वभुजमुद्धृत्य ; उद्यम्य ; ऊर्ध्वबाहुभूत्वेत्यर्थः । स्वसिद्धान्तकथन एव सर्वे भुजमुद्धरन्ति । भुजोद्यमो नाम शपथस्थानीयः । तमनिश्चिते न कुर्वन्ति । तमपि कृत्वेत्यपिशब्दार्थः । अनेन " उद्धृत्य भुजमुच्यते इत्यस्यार्थ उक्तः । ’ सत्यं सत्यं पुनरपि सत्यम्’ इति सादरं यथा भवति तथा त्रिवारं वदन् वेदवादी ब्रह्मवादी वेदपारमार्थ्यवादी पाराशर्यः, “स होवाच व्यासः पाराशर्यः " इति प्रसिद्धो भगवान् वेदव्यासः यदि प्रमाणम् ; अर्थतत्त्वव्यवस्थापक इति यदि मतं तदा केशवात् भगवतः श्रियः पत्युः क इव पर आविरस्तु ; कोऽन्यः परतया प्रसिध्येत् ; न कोऽपीत्यर्थः ॥ ८९ ॥

प्रभाविलासः - ८९

शास्त्राणीति । अत्र पूर्वार्धेन

" आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥

इति श्लोकार्थोऽभिप्रेतः । द्वितीयार्धेन,

[[८८]] " सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥

इति श्लोकार्थः स्मारितः । तद्वचनप्रामाण्ये को हेतुः ? तत्राह - पाराशर्य इति । तस्याप्तत्वं " स होवाच व्यासः पाराशर्यः " इति श्रुतिरेव घोषप्रतीति भावः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

" महाजनो येन गतः स पन्थाः "
इति च महर्षिभाषितम् । दृश्यते चैतत् -

तर्को न प्रतितिष्ठति, प्रभवति त्रय्या ऽपि +++(पुरुषस्य)+++ वैयाकुली,
क्षोभं यान्ति मिथः क्षता ऋषि-गिरः, क्षुद्रोक्तयः किं पुनः ।
इत्थं तत्त्व-विनिश्चयो निधिर् इव क्षिप्तो गुहाभ्यन्तरे
पन्थानं तु महा-जनस्य निपुणः प्रत्यञ्चम्+++(→आत्मगतम्)+++ अध्यञ्चति ॥ ९० ॥+++(5)+++

मूलम् - ९०

" महाजनो येन गतः स पन्थाः " इति च महर्षिभाषितम् । दृश्यते चैतत् -

तर्को न प्रतितिष्ठति प्रभवति त्रय्यापि वैयाकुली

क्षोभं यान्ति मिथः क्षता ऋषिगिरः क्षुद्रोक्तयः किं पुनः ।
इत्थं तत्त्वविनिश्चयो निधिरिव क्षिप्तो गुहाभ्यन्तरे

पन्थानं तु महाजनस्य निपुणः प्रत्यञ्चमध्यञ्चति ॥ ९० ॥

प्रभावली - ९०

एवं स्वमतस्य विशिष्टपरिग्रहादादर्तव्यत्वमुक्तम् ; तदेव महर्षिभाषितेनापि

[[१८०]] द्रढयति– महाजन इत्यादिना । महान्तो जनाः यं मार्गं परिगृह्णन्ति स एव घण्टापथ इति महर्षिवचनमस्तीति शेषः । अत्र हेतुत्वेन

" तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना न चानृषेर्दर्शनमस्ति किचित् ।

धर्मस्य तत्वं निहितं गुहाया महाजनो येन गतः स पन्थाः ॥ "

इति श्लोकस्य पूर्वपादत्रयार्थ दर्शयति– दृश्यत इत्यादिना । तन्महर्षिभाषितमेव दृश्यते । तर्क इति ; तर्कशास्त्रस्य कुत्रचित्पर्यवसानं नास्ति, केनचिन्निश्चितस्यार्थस्यान्येन दूषितत्वात् । अनेन " तर्कोऽप्रतिष्ठः ” इत्ययमंशी व्याख्यातः ।
तर्हि वेदेनार्थनिश्चयोऽस्त्वित्यत्राह - प्रभवतीति ।
त्रय्या ; वेदत्रयेणापि ; इदम् उपनिषदाम् उपलक्षणम् ।
पुरुषस्येति शेषः ।
वैयाकुली ; व्याकुलस्य भावः । व्याकुलत्वमेव सिध्यति ।
विप्रकीर्णत्वे तु नार्थप्रतिपादनमिति भावः । ऋषिगिरः ; कणादकपिलाक्षपादायुक्तयः । मिथः क्षताः ; अन्योन्यं विरुद्धत्वात् व्याहताः । क्षोभं कालुष्यं यान्ति ; नार्थनिश्वये प्रभवन्ति । क्षुद्रोक्तयः ; चार्वाक बौद्धायुक्तयः किं पुनः ; मिथः क्षताः क्षोभं यान्तीति किमु वक्तव्यमित्यर्थः । इत्थम् ; उक्तप्रकारेण । तत्रार्थविनिश्चयस्तु गुहाभ्यन्तरे विनिक्षिप्तः । गुहाया निक्षिप्तत्वात् ज्ञातुमशक्यः । किमिव ? निधिरिव । गुहाभ्यन्तरे निहितो निधिः केनापि
न ज्ञायते । तर्हि कि कर्तव्यमित्यत आह पन्थानम् इति । निपुणः ; चतुरः । महाजनस्य पन्थानं तु महता नाथयतिवरादीनां मतमेव ।
कीदृशम् ? प्रत्यञ्चम् आत्मोन्मुखम् । अध्यञ्चति ; अधिगच्छति । तत्त्वविनिश्चायकत्वेन परिगृह्णातीत्यर्थः ॥ ९० ॥

प्रभाविलासः - ९०

" धर्मज्ञसमय प्रमाणं वेदाश्च" इत्यापस्तम्बोक्तिमभिसन्धायाहमहाजन इति । तर्क इति । वेदास्त्रयः त्रयी । वैयाकुली ; व्याकुलत्वम् ।
क्षताः ; विरुद्धाः । क्षुद्रोक्तयः ; आधुनिकवचनानि । प्रत्यञ्चम् ; प्राचीनम् । अध्यश्चति ; पूजयति । अत्र

" तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना न चानृषेस्तत्त्वविनिर्णयोऽस्ति ।

धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥

इति श्लोकोऽनुसन्धेयः ॥ ९० ॥

विश्वास-प्रस्तुतिः

महान्तश् च
व्यास-वाल्मीकि-मनु-बृहस्पति-शुक-शौनक-प्रभृतयः
प्रवदन्त्य् अस्माकम् अध्वानम्।52
तिष्ठन्त्व् एते बहवः53
अयं पुनर् एकोऽपि,

+++(“ प्रदिशतु भगवान् अशेषपुंसां
हरिर् अपजन्म-जरादिकां समृद्धिम् । " इत्य् उक्त्या )+++
अपजन्म-जरादिकां समृद्धिं
कृपया सम्मुखयन्न् अ-शेष-पुंसाम् । पर-दैवत-पारमार्थ्य-वेदी
परिगृह्णातु54 पराशरः स्वयं नः ॥ ९१ ॥

मूलम् - ९१

महान्तश्च व्यासवाल्मीकिमनुबृहस्पतिशुकशौनकप्रभृतयः

प्रवदन्त्यस्माकमध्वानम्।52 तिष्ठन्त्वेते बहवः53 । अयं पुनरेकोऽपि,

अपजन्मजरादिकां समृद्धिं कृपया सम्मुखयन्नशेषपुंसाम् ।

परदैवतपारमार्थ्यवेदी परिगृह्णातु54 पराशरः स्वयं नः ॥ ९१ ॥

प्रभावली - ९१

महान्तश्च क इत्यत आहमहान्त इति । प्रभृतिशब्देन नारदभीष्मदाल्भ्यादयो नाथादयश्च गृह्यन्ते । अस्माकम् अस्मदीयम् । अध्वानम् ; वेदमार्गम् । तिष्ठन्त्वित्यादि । एते ; व्यासवाल्मीक्यादयः । अयं पुनरेको- ऽप्यलम् ; परतत्त्वनिर्णय इति शेषः । अपजन्मेतिः अपगतानि जन्मजरामर - णादीनि यस्यास्ताम् । समृद्धिम ; मोक्षसम्पदम् । स्वयमेव ; केवलकृपया । अशेष-

[[१८२]] पुंसां सम्मुखयन् ; भगवतः प्रार्थयन्
" अशेषपुंसां हरिर् अपजन्म-जरादिकां समृद्धिम् " इति पुराणान्ते प्रार्थितवान् । परदैवतं ति ; परस्य सर्वस्मात् परस्य दैवतस्य विष्णोः पारमार्थ्यं जगत्कारणत्वमुमुक्षूपास्यत्वमोक्षप्रदत्वादिरूपं पारम्यस्वभावं वेत्तुं शीलमस्यास्तीति सः । " देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ” इति पुलस्त्यवसिष्ठवरप्रदानेन लब्धदेवतापारमार्थ्यज्ञानवानित्यर्थः । नः ; तत्त्वनिर्णये सन्दिहानानस्मान् । परिगृह्णातु ; स्वीकरोतु ।

परः पराणा परः" इत्यादिना विष्णोः पारम्यं यतः प्रतिपादितवान्, अतः तत्स्वीकृता वयमित्यर्थः । परान् बाह्यकुदृष्टीन् प्रमाणशरैः आशृणाति हिनस्तीति पराशर इति निर्वचनात् । तत्स्वीकृतानामस्माकं तन्मतमेव प्रामाणिकमित्यर्थः ॥ ९१ ॥

प्रभाविलासः - ९१

૮૬

‘यद्वै किञ्च मनुरवदत्तद्वेषजम्" इति प्रसिद्धया मनुग्रहणम् । मनुर्हि " आपो नारा इति प्रोक्ताः " इत्युपक्रम्य " प्रशासितारं सर्वेषाम् " इत्यन्तेन तत्त्वनिर्णये प्रवृत्तः । अपजन्मेति । समृद्धिम् ; मुक्तैश्वर्यम् । सम्मुखयन् ; अभिमुखयन् । अशेषपुंसामिति ; “ प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम् । " इति पराशरोक्तिः स्मारिता । तेन निरुपाधिककारुणिकत्वं व्यज्यते । परदैवतपारमार्थ्य वेदीति ;
पुराणसंहितावक्ता भवान् वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥

इति पुलस्त्यवरदानं स्मारितम् । परान् वेददेवतानिन्दकान् आ समन्तात् शृणातीति पराशरः । शू हिंसायामिति धातुः ; पराङकुशपरकालादिशब्दवत् । एवमुद्भेदो नाम मुखसन्धेरङ्गं दर्शितम् । " गूढबीजप्रकाशनमुद्भेदः इति लक्षणात् ॥ ९१ ॥

सर्वागम-सारः

विश्वास-प्रस्तुतिः

सुमतिः - अय्यउत्त,55 अणुत्तरम् एवम् उत्तरम् ।
अज्ज उण अनन्त-साहण-णिअमन्त-णिरूवण-विलम्बम् असहन्तस्स
तुरन्तहिअअस्स चेअणस्य सव्वाअमसारं सङ्कलऊण
दंसेदुं तुमं पत्थमि ।

( आर्य-पुत्र, अनुत्तरम् एतद् उत्तरम् ।
अद्य पुनर् अनन्त-साधन–निगमान्त-निरूपण-विलम्बम् अ-सहमानस्य
त्वरमाण-हृदयस्य चेतनस्य
सर्वागम-सारं सङ्कलय्य
दर्शयितुं त्वां प्रार्थयामि
।)

राजा – साधु विचिन्तितं भवत्या ।
तद् इदं प्रदर्शयामि-

स्व-सङ्कल्पोपघ्न–त्रि-विध–+++(बद्ध-मुक्त-नित्य-रूप-)+++चिद्–+++(प्रकृति-काल-नित्यविभूति-रूप-)+++अ-चिद्-वस्तु-विततिः,
पुम्-अर्थानाम् एकः स्वयम् इह चतुर्णां प्रसव-भूः
शुभ-स्रोतो-भाजां श्रुति-परिषदां श्री-पतिर् असाव्
अनन्तः सिन्धूनाम् उदधिर् इव विश्रान्ति-विषयः ॥ ९२ ॥

मूलम् - ९२

सुमतिः - अय्यउत्त,55 अणुत्तरम् एवम् उत्तरम् । अज्ज उण अनन्तसाहणणिअमन्तणिरूवणविलम्ब असहन्तस्स तुरन्तहिअअस्स

चेअणस्य सव्वाअमसारं सङ्कलऊण दंसेदुं तुमं पत्थमि ।

( आर्यपुत्र, अनुत्तरमेतदुत्तरम् । अद्य पुनरनन्तसाधननिग-

मान्तनिरूपणविलम्बमसहमानस्य त्वरमाणहृदयस्य चेतनस्य सर्वा-

गमसारं सङ्कलय्य दर्शयितुं त्वां प्रार्थयामि ।)

राजा – साधु विचिन्तितं भवत्या । तदिदं प्रदर्शयामि-

स्वसङ्कल्पोपघ्नत्रिविधचिदचिद्वस्तुविततिः

पुमर्थानामेकः स्वयमिह चतुर्णां प्रसवभूः ।
शुभस्रोतोभाजां श्रुतिपरिषदां श्रीपतिरसा-

वनन्तः सिन्धूनामुदधिरिव विश्रान्तिविषयः ॥ ९२ ॥

प्रभावली - ९२

अणुत्तरमित्यादि । अणुत्तरं - अनुत्तरम् ; उपरि वक्तव्यान्तररहितम् । एवं

सानन्दं added before च, छ,
"

उत्तरं - एतदुत्तरम् । इदं प्रत्युत्तर वचनम् । अथ “ अनन्तशास्त्रं बहु वेदितव्यम्" इत्युक्तप्रकारेण शास्त्रपाठे अलसानां सर्वागमसारं सङ्गृह्य दर्शयितव्यमिति प्रार्थयते-अज्ज उण इत्यादिना । अज्जरण अद्य पुनः । अणतसाहणणिअमन्त निरूवणविलम्ब - अनन्तसाधननिगमान्तनिरूपणविलम्बम् । अनन्तसाधनानां बहुपरिकराणा निगमान्ताना निरूपणं विचारः, तद्रूपं विलम्बम् । असहन्तस्स - असहमानस्य । तुरन्त हिअअस्सत्वरमाणहृदयस्य । चेअणस्स- चेतनस्य ; चेतनार्थमित्यर्थः । सव्वाअमसारं सर्वागमसारम् । सङ्कलऊणसकलय्य । दंसेदुं दर्शयितुम् । तुमं — त्वाम् । पत्थेमि-प्रार्थयामि । तदिदम् ; सर्वागमसारम् । स्वसङ्कल्पेति ।

[[१८४]]

अत्र “ सर्वे वेदा यत्पदमामनन्ति " इत्याद्य् अनुरोधेन
श्रियः पतिरेव वेदान्तवेद्य इत्याह ।
स्वसङ्कल्प एव उपन्न आश्रयो यस्याः सा त्रिविधानां चिदचिद्वस्तूनां विततिः सङ्घातो यस्य सः । अनेन

स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं कि च । तत्सृष्टा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्

इत्यादिश्रुत्यर्थ उक्तः । पुनः कीदृश इत्यत आह– पुमर्थानामित्यादि । इह ; जगति । चतुर्णां पुमर्थानाम् ; धर्मार्थकाममोक्षाणाम् । स्वयम् ; स्वरूपेण, न देवतान्तरशरीरत्वेन । एक एव प्रसवभूः ; उत्पत्तिस्थानम् । अनेन “एको बहूनां यो विदधाति कामान्" इत्यादेरर्थ उक्तः । अनन्तः ; त्रिविधपरिच्छेदरहितः । एवम्भूतः श्रीपतिरेव शुभस्रोतोभाजां सिन्धूनामुदधिरिव शुभस्त्रोतोमाजामुपनिषदाम्, शुभस्रोतांसि ब्रह्मोपा सनानि प्रतिपाद्यानि यासां तासामुपनिषदाम्, विश्रान्तिविषयः ; पर्यवसानभूमिः । अनेन हिरण्यगर्भशिवेन्द्रान्यादिशब्दानामुपनिषद्गतानाम् " तदेवाग्निस्तद्वायुः " इति प्रक्रियया श्रीपतिरेव पर्यवसानस्थलमिति सूचितम् ॥ ९२ ॥

प्रभाविलासः - ९२

अय्यउत्तेत्यादि । एवं सम्भेदो नाम मुखसन्धेरङ्गमुक्तम्, “बीज-
[[१८३]]

गुणप्रोत्साहः सम्भेदः " इति लक्षणात् । स्वसङ्कल्पेति । स्वसङ्कल्पः उपन्नः अन्तिकाश्रयो येषां ते च ते त्रिविधचिदचितश्च बद्धमुक्तनित्याः प्रकृतिकालनित्यविभूतयश्च । तेषां वस्तूनां विततिर्यस्य सः । भेदस्य पारमार्थ्य दर्शयितुं वस्तुग्रहणम् । स्वसङ्कल्पोपन्नेति विततिविशेषणं वा । अत्र

। एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः " इति श्रुतिरभिप्रेता । पुमर्थानां प्रसवभूरिति । " इष्टापूर्ते बहुधा जातं
जायमानं विश्वं बिभर्ति भुवनस्य नाभिः " इति श्रुत्यर्थोऽभिप्रेतः । शुभाश्च ताः स्रोतोभाजश्च तासाम् । हितानुशासनत्वाच्छुभत्वम् । विस्तृतत्वात् स्रोतोभाक्त्वम् । अनन्त इति रूढ्या देवताविशेषनिश्चयः । " सत्यं ज्ञानमनन्तं ब्रह्म " इत्यत्रानन्तशब्दः पुंलिङ्गद्वितीयैकवचनान्त इति श्रुतप्रकाशिकोक्तत्वात् । योगवृत्त्या त्रिविधपरिच्छेद राहित्यमुक्तम् । देवताविशेष निर्णय लिङ्गमाह - श्रीपतिरिति ; " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ” इति श्रुतेः । विश्रान्तिविषयः

। तात्पर्यभूमिः । " नेव हि कामस्यान्तोऽस्ति न समुद्रस्य " इति श्रुतिप्रसिध्द्या अब्रनन्तत्वोक्तिः । अत्र सङ्क्षेपो नाम गुणः, सङ्क्षेपस्तु समासोक्तिरनल्पस्यापि वस्तुनः" इति लक्षणात् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

अपि च ;

परः पद्माकान्तः प्रणिपतनम् अस्मिन् हिततमं
शुभस् तत् सङ्कल्पश् चुलकयति संसार-जल-धिम् ।
झट् इत्य् एवं प्रज्ञाम् उपजनयता केनचिदसाव्
अविद्या-वेतालीम् अतिपतति मन्त्रेण पुरुषः ॥ ९३ ॥+++(4)+++

मूलम् - ९३

अपि च ;

परः पद्माकान्तः प्रणिपतनमस्मिन् हिततमं

शुभस्तत्सङ्कल्पश्चुलकयति संसारजलधिम् ।

झटित्येवं प्रज्ञामुपजनयता केनचिदसा-

वविद्यावेतालीमतिपतति मन्त्रेण पुरुषः ॥ ९३ ॥

प्रभावली - ९३

एवं प्राप्यदेवताविशेषनिर्धारणं कृतम् । अथ तत्त्वहितपुरुषार्थान् सङ्गृह्य दर्शयति — अपिचेत्यादि । पद्माकान्त एव परतत्त्वम् । अतः अस्मिन् ; पद्माकान्ते । प्रणिपतनम् ; भक्तिः प्रपदनं च । हिततमम् ; अतिशयेन हितम् । मोक्षोपायभूत भगवत्प्रसादहेतुरित्यर्थः । प्रसन्नश्च भगवान् संसारसागरशोषणाय सङ्कल्पयतीत्याह - शुभ इति । शुभः सङ्कल्प इत्यनेन संसारहेतुः ’ क्षिपामि इति सङ्कल्पो व्यावर्त्यते । स च " सर्वपापेभ्यो मोक्षयिष्यामि " इति सङ्कल्पः । चुलकयति ; चलकीकृत्य पिबति । भगवतः ससारविमोचने द्वारमाहझटितीति । शीघ्रमेव मोक्षोपयुक्तं ज्ञानं जनयता केनचिन्मन्त्रेण सदाचार्योपदिष्टेन मूलमन्त्रादिना । असौ पुरुषः ; मुमुक्षुः । अविद्यावेतालीम् ; देहात्माभिमानरूपपिशाचिकाम् । अतिपतति ; अतिक्रामति ॥ ९३ ॥

प्रभाविलासः - ९३

पर इति । परः ; उत्कृष्टः ।

[[१८५]]

ब्रह्मविदाप्नोति परम् " " तत्त्वं नारायणः परः " इति श्रुतेः । अस्मिन् परे ब्रह्मणि । तत्सङ्कल्पः ; ब्रह्मणः सङ्कल्पः । चुलकयति ; प्रसृतिमात्रं करोति ; नाशयतीति यावत् । मन्त्ररत्नाख्येन । सकृदनुष्ठितस्यैव पुरुषार्थनिमित्ततया झटितीत्युक्तिः । अत एव विलम्ब कारिमन्त्रान्तरवैलक्षण्यं केनचिदित्युक्तम् । वेताली ; पिशाची । अतिपतति ; अतिक्रामति ॥ ९३ ॥

विश्वास-प्रस्तुतिः

किन्तु ;

प्रिये, सम्मित-मतीनाम् अपि
चित्त-समाधान-हेतुः सङ्ग्रहो दर्शितः ।

धृत-निगम-कवच-गूढाः
कष्टं सम्प्रति कु-दृष्टयः केचित् ।
छलयन्ति +++([तत्-तत्त्वाऽपहरणेन] )+++ सौगतादीन्
स्यालोपालम्भ-तुल्यया वाचा ॥ ९४ ॥+++(4)+++

मूलम् - ९४

किन्तु ;

प्रिये, सम्मितमतीनामपि चित्तसमाधानहेतुः सङ्ग्रहो दर्शितः ।

धृतनिगमकवचगूढाः कष्टं सम्प्रति कुदृष्टयः केचित् ।

छलयन्ति सौगतादीन् स्यालोपालम्भतुल्यया वाचा ॥ ९४ ॥

प्रभावली - ९४

[[१८६]]
सम्मितमतीनामपि ; अबहुश्रुतानामपीत्यर्थः । ननु सम्प्रहेणैवालमित्या-

। शङ्कय बाह्यकुदृष्टिवचोभिर्मनसः क्षोभानुत्पादाय वेदान्तश्रवणं कर्तव्यमित्याह – किन्त्वित्यादिना । यद्यपि सङ्ग्रहो दर्शितः ; अथापीत्यर्थः । अथ कुदृष्टीना बाह्यमतानुसरणं दर्शयति– धृतेति । धृतं यन्निगमाख्यं कवचं तेन निगूढाः प्रच्छन्नाः । अवैदिकत्वप्रच्छादनाय वेदं परिगृह्णन्ति । अथापि तदुक्तं सर्वमपलपन्तीत्यर्थः । सम्प्रति ; कलियुगे । केचित् कुदृष्टयः ; शङ्करादयः । स्यालोपालम्भतुल्यया वाचा ; स्यालः पत्नीसोदरः ।
तस्योपालम्भः दूषणं यथा सहृदयं न भवति,
एवं कुदृष्टीनां बाह्यदूषणमपि ; अन्ततस्तन्मतस्वीकारात् ।
तद्-दूषण-रूपया वाचा
स्वावैदिकत्वं परिहृत्य
तान् सौगतादीन् बाह्यान् छलयन्ति ;
छद्मना अन्यैरज्ञातं यथा तथा अनुसरन्ति ;
तद्-उक्त-जगन्-मिथ्यात्वादिकम् अनुकुर्वन्ति । कष्टं तद् इति शेषः । यथोक्तं यादव-प्रकाशेन–

“वेदो ऽनृतो बुद्ध-कृतागमोऽनृतः
प्रामाण्यम् एतस्य च तस्य चानृतम् ।
भोक्तानृतो बुद्धिफले तथानृते
यूयं च बौद्धाश्च समानसंविदः ॥ "

इति । समानसंविदः समानज्ञाना इत्यर्थः ॥ ९४ ॥

प्रभाविलासः - ९४

मन्त्रेण ; ।
सम्मितमतीनाम् ; अल्पबुद्धीनाम् । धृतेति । निगमाख्येन कवचेन गूढाः ।
स्यालः ; पत्नीसोदरः । उपालम्भः ; दूषणगर्भपरिहासः ।
छलयन्ति ; व्याजेनानुकुर्वन्ति । सौगतानां शङ्करादीनां च मतैक्येऽपि ते परस्परं दृष्यदुषणभावं विडम्बयन्तीति भावः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

अथ च विस्तरेण प्रतिविधिर् अस्य
वेदान्तेषु विपुल-मतिभिर् अनुसन्धीयते
दृष्टम् एव खलु विदुषां समास-व्यास-धारणम् ।

सुमतिः - सुठु भणिअम् अय्यउत्तेण ।
एवं वि तेहिं तेहिं महेसिमएहिं तहिं वि तारिसेहिं
परिज्जन्ता णिअमन्ता
चोराकिट्टगोधणसरिसा होन्तित्ति
सम्पण्णसद्धसा मह चिन्ता ।

(सुष्ठु भणितम् आर्यपुत्रेण ।
एवम् अपि तैस् तैर् महर्षि-मतैस् तर्कैर् अपि तादृशैः
प्रतार्यमाणा निगमान्ताश्
चोराकृष्ट-गो-धन-सदृशा भवन्तीति
सम्पन्न-साध्वसा मम चिन्ता ।)

राजा – अलमतिशङ्कया ;

अ-विप्लुत-परिग्रह–स्मृति-शतैक-कण्ठी श्रुतिः
स्व-भक्ति-विकल-+++(कपिलादि-)+++स्मृतीः56 स्वपनतो+++(=स्वप्नतो)+++ ऽपि न प्रेक्षते । स्वतः प्रमिति-साधनी, सुदृढ-तर्क-गुप्ता च सा
रुणद्धि पुनर् अ-प्रतिष्ठित–कु-तर्क-कोलाहलम् ॥ ९५ ॥

मूलम् - ९५

अथ च विस्तरेण प्रतिविधिरस्य वेदान्तेषु विपुलमतिभिरनुसन्धीयते । दृष्टमेव खलु विदुषां समासव्यासधारणम् ।

सुमतिः - सुठु भणिअम् अय्यउत्तेण । एवं वि तेहिं तेहिं महेसिमएहिं तहिं वि तारिसेहिं परिज्जन्ता णिअमन्ता चोराकिट्टगोधणसरिसा होन्तित्ति सम्पण्णसद्धसा मह चिन्ता ।

(सुष्ठु भणितमार्यपुत्रेण । एवमपि तैस्तैर्महर्षिमतैस्तर्कैरपि तादृशैः प्रतार्यमाणा निगमान्ताश्चोराकृष्टगोधनसदृशा भवन्तीति सम्पन्नसाध्वसा मम चिन्ता ।)
राजा – अलमतिशङ्कया ;

अविप्लुतपरिग्रहस्मृतिशतैककण्ठी श्रुतिः

स्वभक्तिविकलस्मृतीः56 स्वपनतोऽपि न प्रेक्षते ।

स्वतः प्रमितिसाधनी सुदृढतर्कगुप्ता च सा

रुणद्धि पुनरप्रतिष्ठितकुतर्ककोलाहलम् ॥ ९५ ॥

प्रभावली - ९५

अथ च ; अत एवेत्यर्थः । विपुलमतिभिः ; शास्त्रक्षोदसहबुद्धिभिः । अस्य ; कुदृष्टिमतस्य । प्रतिविधिः ; प्रत्युत्तराणि, दूषणानीत्यर्थः । विस्तरे- णानुसन्धीयते ; वेदान्तश्रवणं कुर्वन्तीत्यर्थः । अत्र प्रमाणं दर्शयति- इष्टमेवेति । अनेन " इष्टं हि विदुषां लोके समासव्यासधारणम्” इति महाभारतवचनं स्मारित भवति । मन्दमतीना सङ्ग्रहो विपुलमतीनामसङ्ग्रहो वेदान्तपरिचयश्च कर्तव्य इत्युक्तं भवति । अतस्तन्मतानुगुण्येनानेकधार्थप्रतिपादनादित्थमिति श्रुत्यर्थो निर्णेतुमशक्य इति चोदयति — सुट्टु भणिअम् इत्यादि । सुठु भणिअम् अय्यउत्तेण - सुष्ठु भणितमार्यपुत्रेण । एवं वि - एवमपि । तेहिं तेहिं - तैस्तैः । मद्देसिम एहिं — महर्षिमतैः । तक्केहिं वि तारिसेहिं - तर्केरपि तादृशैः । परिज्जता - प्रतार्यमाणाः । णिअनन्ता - निगमान्ताः ।

[[१८८]]
.

त्यर्थः । ननु श्रुतिमूलतर्कसनाथकापिलादिस्मृतिविरोधात् श्रुतिरप्रमाणं भवत्वित्यत्राह — स्वतः प्रमितिसाधनीति । स्वत एव प्रमितिसाधनत्वात् श्रुतेः स्मृत्यविरोधानपेक्षत्वमित्यर्थः । नन्वेवं सति तर्केऽप्यपेक्षाभावात् मीमांसाद्वयस्यानारम्भणीयताप्रसङ्गः । मैवम् । मीमांसाया वेदेतिकर्तव्यतात्वात् तदनुग्रहापेक्षत्वेऽपि न स्वाङ्गं स्वव्यवधायकमिति न्यायेन तदपेक्षत्वस्य न स्वतः प्रामाण्यविरोधः । तदेतदाह - सुदृढतर्कगुप्ता च सेति । सुदृढस्तर्कः मीमांसा ; तदपेक्षत्वस्य प्रतिमतभङ्गे विनीयोग इति भावः । एवं मीमासोपबृंहिता सती अप्रतिष्ठितम् अनवस्थितं कुतर्क कोलाहलं प्रतिरुणद्धि ; निवर्तयति ॥ ९५ ॥

प्रभाविलासः - ९५

[[१८७]]

प्रतिविधिः ; प्रतीकारः । समासः सङ्ग्रहः । व्यासः ; विस्तरः । अनेन " इष्टं हि विदुषां लोके समासव्यासधारणम्” इति स्मारितम् । चोराकुष्टेति । चोराहृतधनं स्वामिनं न प्राप्नोतीति तत्सादृश्यमुक्तम् ।
अविप्लुतेति । अविप्लुतपरिग्रहाणाम् अविगीतमहाजनपरिग्रहाणां स्मृतीनां मन्वादिस्मृतीनां शतेन । तेन कपिलादिस्मृतीनां महाजनपरिग्रहाभावेन विगीतत्वमुक्तम्, " इतरेषां चानुपलब्धेः " इति सूत्रकारोक्तेः । एककण्ठी ; ऐकार्थ्यं प्राप्ता श्रुतिः । स्वभक्तिविकलस्मृतीः ; स्वविरुद्धार्थाभिधायि-कापिलादि-स्मृतीः । स्वपनतः ; स्वमतोऽपि । न प्रेक्षते ; ऐककण्ठ्यं न प्राप्नोति ननु कापिलादिस्मृतिविरुद्धा श्रुतिरेवानादरणीयेत्यत आह — स्वत इति । प्रभावली

चोराकिट्ठगोधणसरिसा चोराकृष्टगोधनसदृशाः । होन्तित्ति – भवन्तीति । सम्पण्णसद्धसा – सम्पन्नसाध्वसा । मह चिन्ता - मम चिन्ता । यथोक्तं मनुना - " बिभेत्यल्प श्रुताद्वेदो मामयं प्रतरिष्यति” इति । यथा तस्करापहृतं गोधनं स्वामिनं न प्राप्नोति, एवं तैस्तैर्वादिभिः स्वस्वमतानुगुणमपहृतार्था वेदान्ताः स्वभावसिद्धमर्थ न प्राप्नुवन्तीत्यर्थः । परिहरति- अविप्लुतेति । अविप्लुतः अनुपद्रुतः परिग्रहः विशिष्टपरिग्रहः यासा, ताश्च ताः स्मृतयश्च, तासां शतेनैककण्ठी एकार्थप्रतिपादिका ; मन्वादिस्मृतिभिरुपबृंहितेत्यर्थः । स्वभक्तिविकलाः ; स्वस्था भक्तिहीनाः,

स्वस्था भक्तिहीनाः, स्वविरुद्धार्थाभिधायिनी रित्यर्थः । स्मृतीः ; कापिलादिस्मृतीः । स्वपनतः ; स्वप्नेऽपि नावलोकयति ; तदनुगुणा न भवतीत्यर्थः । अथापि प्रतिपन्नार्थस्य तद्बाधितत्वेन श्रुतेः प्रामाण्याभावशङ्का स्यादित्यत आह– स्वत इति । बाधाबाधानपेक्षं श्रुतिः स्वत एव प्रमा साधयती-

[[१८९]]

स्मृतीनां श्रुतिमूलकतया प्रामाण्यम् ; श्रुतेस्तु नान्याधीनमिति भावः । वैपरीत्यं किं न स्यादित्यत आह-सुदृढेति । श्रुतेः स्वतः प्रामाण्यमन्येषां तन्मूलकत्वेन प्रामाण्यं च प्रमाणलक्षण एव सोपपत्तिकमभियुक्तनिरूपितमिति भावः । अनेन कापिलादिस्मृतेरनुकूलतर्काभावः प्रतिकूलतर्कपराहतिश्वोक्ता । ननु तत्तन्मतस्यैस्तत्र तत्र तर्का निरूपिता इत्यत आह – अप्रतिष्ठितेति । ते तर्काभासा इत्यर्थः ॥ ९५ ॥

विजय-घोषः

विश्वास-प्रस्तुतिः

(नेपथ्ये)

मूल-च्छेद-भयोज्झितेन महता मोहेन दुर्मेधसा
कंसेन प्रभुर् उग्रसेन इव नः कारागृहे स्थापितः
विख्यातेन विवेक-भूमि-पतिना विश्वोपकारार्थिना
कृष्णेनेव बलोत्तरेण घृणिना57 मुक्त-श्रियं58 प्राप्स्यति ॥ ९६ ॥+++(4)+++

मूलम् - ९६

(नेपथ्ये)

मूलच्छेदभयोज्झितेन महता मोहेन दुर्मेधसा

कंसेन प्रभुरुग्रसेन इव नः कारागृहे स्थापितः ।
विख्यातेन विवेकभूमिपतिना विश्वोपकारार्थिना

कृष्णेनेव बलोत्तरेण घृणिना57 मुक्तश्रियं58 प्राप्स्यति ॥ ९६ ॥

प्रभावली - ९६

अथ विवेकस्याशरीरवचः श्रवणं वर्णयति-मूलच्छेदेत्यादि । मूलच्छेदो भविष्यतीति भयरहितेन, स्वविनाशमविगणयतेत्यर्थः । दुर्मेधसा ; दुर्बुद्धिना

[[१९०]]
कंसेन उग्रसेन इव प्रभुः जीवात्मा कारागृहे संसारे स्थापितः । अन्यत्रार्थः स्पष्टः । विख्यातेन ; वेदान्तप्रसिद्धेन । विश्वोपकारमर्थितुं शीलवता कृष्णेन वसुदेवसुतेनेव । बलोत्तरेण ; बलवता ; अन्यत्र बलः बलरामः उत्तरो ज्येष्ठो यस्य तेन । घृणिना ; कृपालुना । मुक्तानां श्रियं मोक्षसम्पदम् । अन्यत्र कारागृहान्मुक्तः श्रियं राज्यलक्ष्मीम् । अत्र पक्षे मुक्तः श्रियमिति पदद्वयम् ॥ ९६ ॥

प्रभाविलासः - ९६

मूलच्छेदेति । मूलच्छेदो भविष्यतीति भयेनोज्झितेन ; तथाविधसामर्थ्याभावात् पुनरुद्बोधयिष्यतीत्याशया वा ‘मरणे सति किं भयम्’ इति न्यायाद्वेति भावः । उभयत्र तुल्यमेतत् । प्रभुः पुरुषो राजा च । कारागृहे ; संसार इत्यर्थः ।
तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् । तावन्मोहोऽङ्घ्रिनिगलो यावत्कृष्ण न ते जनाः ॥ ”

इति स्मरणात् । अन्यत्र

" शूरसेनं च पितरं यदुभोजान्धकाधिपम् ।

स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ॥

इति स्मारितम् । बलोत्तरेण ; बलिष्ठेन ; अन्यत्र बलरामानुजेनेत्यर्थः । मुक्तश्रियम् ; मुक्तैश्वर्यम् । कारागृहमोचनसम्पदं च ॥ ९६ ॥

विश्वास-प्रस्तुतिः

राजा - ( कर्णे दत्वा सानन्दम् ) प्रिये,
श्रूयते सेयम् अ-कृत्रिम-सरस्वती+++(→वेदा)+++ +ईवाऽवितथ-वादिन्य्-अ-शरीरिणी भारती ।

सुमतिः - ( सानन्दम् ) अय्यउत्त,
तिअसभासिअं खु एदम् ।
ण खु कहं वि अलिअं होज्ज ।

(आर्यपुत्र, त्रि-दश-भाषितं खल्व् एतत् ।
न खलु कथम् अप्य् अलीकं भवेत् ।)

राजा - प्रिये, सर्वथा तावत् त्वत्-सहायस्य मे
हस्तगतैव विजय-सिद्धिः । अपि च ;

रिपु-गण-विजिगीषा–बिन्दु-लेशो ऽप्य् असौ मे
मधु-जिद्-अनुजिघृक्षा–वाहिनी-वर्धितात्मा
सफलयितुम् अधीष्टे साधु सम्प्लावयिष्यन्
यति-गण-बहुमान्यं59 यत्न-सन्तान-वृक्षम् ॥ ९७ ॥+++(4)+++

मूलम् - ९७

राजा - ( कर्णे दत्वा सानन्दम् ) प्रिये, श्रूयते सेयमकृत्रिम सरस्वतीवा वितथवादिन्यशरीरिणी भारती ।

सुमतिः - ( सानन्दम् ) अय्यउत्त, तिअसभासिअं खु एदम् । ण खु कहं वि अलिअं होज्ज ।
(आर्यपुत्र, त्रिदशभाषितं खल्वेतत् । न खलु कथमप्यलीकं भवेत् ।) राजा - प्रिये, सर्वथा तावत् त्वत्सहायस्य मे हस्तगतैव विजयसिद्धिः । अपि च ;

रिपुगणविजिगीषाविन्दुलेशोऽप्यसौ मे

मधुजिदनुजिघृक्षावाहिनीवर्धितात्मा ।

सफलयितुमधीष्टे साधु सम्प्लावयिष्यन्

यतिगणबहुमान्यं59 यत्नसन्तानवृक्षम् ॥ ९७ ॥

प्रभावली - ९७

कर्णे दत्वेति । कर्णेन श्रुत्वेत्यर्थः ।
अकृत्रिमसरस्वती ; वेदवागिव ।
अवितथवादिनी ; सत्यवादिनी । श्रूयते

1 महता,

किलेत्यन्वयः । तिअसेत्यादि ।

  • मुक्तिश्रियं — डच, छ.प्रथमोऽङ्क.
    तिअसभासिअं खु-त्रिदशभाषितं खलु । एदम् एतत् । णरवु ; न खलु । कहं वि– कथमपि । अलिअं होज्ज ; अलीकम् अनृतं भवेत् । त्वत्सहायस्य ; सुमतिसहायस्य । अथोत्तराङ्ककृत्यं सूचयति - रिपुगणेति । रिपुगणाना बाह्यकुदृष्टिरूपाणा विजिगीषायाः मढीयायाः विन्दुलेशोऽपि अत्यल्पविजिगीषापीत्यर्थः । मधुजितः अनुजिघृक्षैव नदी, तया वर्धितस्वरूपः ; भगवत्कृपाबलसहितो भूत्वेत्यर्थः । मुनिगणबहुमान्यम् ; मुनिगणानां बहुमतिविषयम् । यत्नसन्तान-

'

1

[[१९२]]
वृक्षम् ; परपक्षप्रतिक्षेपे यो यज्ञः उद्योगः, स एव सन्तानवृक्षः कल्पतरुः, तम् । पूर्वाचार्यबहुमतिविषयमस्मदुद्योगमित्यर्थः । सम्प्लावयिष्यन् ; आप्लावयिष्यन् सेचयिष्यन् । साधु सफलयितुं सफलीकर्तु निर्वाहयितुमित्यर्थः । अधीष्टे ; शक्नोति । यथा कश्चित् जलबिन्दुः वाहिनीसंवर्धितः संयमिजनाभिमतं कञ्चन वृक्षमाप्लावयन् सफलयति, तद्वत् ॥ ९७ ॥

प्रभाविलासः - ९७

[[१९१]]

रिपुगणेति । रिपवः बाह्यशत्रवः, तेषां गणस्य विजिगीषैव, बिन्दुलेशः कर्ता । मधुजितः भगवतः अनुजिघृक्षा अनुग्रहेच्छेव वाहिनी नदी, तया वर्षितात्मा सन् । यतेर्भाष्यकारस्य गणस्य शीर्षसम्बन्धियामुनप्रभृतिसमूहस्य पादसम्बन्धिचतुःसप्ततिमुख्यगणस्य च बहुमान्यं बहुमानार्हम् । यत्नः पुरुषमोचनोद्योगः, स एव सन्तानवृक्षः कल्पतरुः । तं सफलयितुमधीष्टे ; समर्थो भवति । अस्मदिच्छा लेशमात्रेणेश्वर एवाभिमतं सफलयतीत्यर्थः । अत्र रिपुगण विजिगीषारूपः " अवान्तरार्थ " इत्यादि वक्ष्यमाणलक्षणो बिन्दुर्भगवत्कृपैधितो भूत्वा प्रयत्नस्तु " इत्याद्युक्तरूप-
यत्नं सफलयितुं बिन्दुयत्नसमन्वयरूपे द्वितीयेऽङ्के प्रतिमुखसन्धिना निर्वर्तयितुमधीष्ट इत्युत्तराङ्कनिधीयमानाङ्गप्रकारश्च निर्दिष्टो भवति । अत्र करणं नाम मुखसन्धेरङ्गमपि प्रदर्शितम् । “बीजानुगुणप्रस्तुतकार्यारम्भः करणम्” इति

लक्षणात् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

(पुनर् नेपथ्ये दुन्दुभि-ध्वनिः)

उभौ - (कर्णं दत्तः)

सुमतिः - ( सविस्मयम् ) अय्यउत्त,

कुलवइमोक्खणूसबमिअङ्गकहा कहिआ
णवसमरूसुआ विण अ होइ गइन्दघडा ।
तह विजुअन्त हों तथणइण्णुणिह कणिओ
कह कह को वि हन्त णिहिलं मुहलेइ णहम् ॥

(आर्यपुत्र,

कुल-पति-मोक्षणोत्सव-मृदङ्ग-कथा कदा?
नव-समरोत्सुकापि न च भवति गजेन्द्र-घटा+++(=समूहः)+++ ।
तथापि युगान्त-भवत्-स्तनयित्नु-निभ-क्वणितः
कथं कथं कोऽपि हन्त निखिलं मुखरयति नभः ) ॥ ९८ ॥

मूलम् - ९८

(पुनर्नेपथ्ये दुन्दुभिध्वनिः)

उभौ - (कर्णं दत्तः)

सुमतिः - ( सविस्मयम् ) अय्यउत्त,

कुलवइमोक्खणूसबमिअङ्गकहा कहिआ

णवसमरूसुआ विण अ होइ गइन्दघडा ।

तह विजुअन्त हों तथणइण्णुणिह कणिओ

कह कह को वि हन्त णिहिलं मुहलेइ णहम् ॥

(आर्यपुत्र,

कुलपतिमोक्षणोत्सवमृदङ्गकथा कदा

नवसमरोत्सुकापि न च भवति गजेन्द्रघटा ।
तथापि युगान्तभवत्स्तनयित्नुनिभक्वणितः

कथं कथं कोऽपि हन्त निखिलं मुखरयति नभः ) ॥ ९८ ॥

प्रभावली - ९८

दुन्दुभिध्वनिः ; अभूदिति शेषः । कर्णे दत्तः ; आकर्णयत इत्यर्थः । कुलवइइत्यादिः प्राकृत श्लोकः । कहिआ इति प्रथमपादान्तः । कणिओ इति तृतीय-
"

पादान्तः । कुलवइमोक्खणूसव - कुलपतिमोक्षणोत्सव । अत्र कुलपतिः पुरुषः, विवेकादिकुलत्रयस्य कूटस्थत्वात्, तस्य मोक्षण संसारान्मोचनं, स एवोत्सवः । तत्र मिअङ्गकहा कहिआ - मृदङ्गकथा कदा ; मृदङ्गवाद्यप्रसङ्गः, तद्ध्वनिरित्यर्थः । कदा भविष्यति ; इदानीं सा योग्या न भवतीति भावः । णवसमरूसुआ वि ; नवसमरोत्सुकापि । ण अ होइ ; न च भवति । गइन्दघडा ; गजेन्द्रघटा, गजेन्द्राणां घटा बृन्दं न च भवति ; गजेन्द्रघटाबृंहितं च न भवतीत्यर्थः, सम्प्रत्यस्माकं महामोहादिभिर्युद्धप्रसङ्गाभावात् । तह वि ; तथापि कुलपति - मोक्षणमहामोहसमराभावेऽपीत्यर्थः । जुअन्नहोन्त — युगान्तभवत् । थणइण्णुणि- अक्कणिओ ; स्तनयित्नुनिभक्कणितः । वलाहकध्वनिनैकप्रमाणो युगान्तमेघगर्जितसदृशप्रमाणः कोऽपि ध्वनिरिति शेषः । कह कह ; कथं कथम् । हन्तेत्याश्चर्ये । णिहिलं हं ; निखिलं नमः । मुहलेइ ; मुखरयति, ध्वनिविशिष्टं करोति ॥ ९८ ॥

प्रभाविलासः - ९८

घटा ; समूहः । " करिणां घटना घटा” इत्यमरः । कदा ;

[[१९३]]

मोहविजयानन्तरभावित्वान्नेदानीं प्रस्तुतेत्यर्थः । अत्र निर्णयात्मक ऊहो " ऊहो वितर्कः स द्वेधा निर्णया निर्णयात्मकः " इति

नामालङ्कारः, लक्षणात् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

राजा - प्रिये, अस्मद्-विजय-सन्नाह-सन्धुक्षकैर् अमर-पतिभिर्
अयम् अभिहन्यते दुन्दुभिः
तद् इह स्थापित-स्वपक्षैर् अस्माभिः
परपक्ष-प्रतिक्षेपे प्रयतितव्यम्

( इत्युभौ परिक्रम्य निष्क्रान्तौ)

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
सङ्कल्पसूर्योदये स्वपक्षप्रकाशो नाम प्रथमोऽङ्कः । ॥ ९९ ॥

मूलम् - ९९

राजा - प्रिये, अस्मद्विजयसन्नाहसन्धुक्षकैरमरपतिभिरय-
-मभिहन्यते दुन्दुभिः । तदिह स्थापित स्वपक्षैरस्माभिः परपक्ष-

प्रतिक्षेपे प्रयतितव्यम् ।

( इत्युभौ परिक्रम्य निष्क्रान्तौ)

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदये स्वपक्षप्रकाशो नाम प्रथमोऽङ्कः । ॥ ९९ ॥

प्रभावली - ९९

अस्मद्विजयसन्नाहसन्धुक्षकैः ; अस्माकं यो महामोहादिविजयः, तत्सन्नाहाभिवर्धकैरित्यर्थः । स्थापितः स्वपक्षः श्रीपतिरेव जगत्कारणं मुमुक्षूपास्यो मुक्ति-

[[१९४]] प्रदश्वेत्येवंरूपः यैः । प्रतिपक्षप्रतिक्षेपे ; उत्तरत्र बाह्यकुदृष्टिनिरासे महामोहादिविजये च । प्रयतितव्यम् ; प्रयत्नः कर्तव्यः । इति निर्गच्छतः ।

इत्थं बीजारम्भसमन्वयरूपेऽस्मिन्नङ्के साङ्गो मुखसधिरुक्तः । अङ्गानि " उपक्षेपः परिकरः" इत्यादीनि । तेषां लक्षणादिकथनं मुमुक्षूणामत्यन्तानपेक्षितत्वान्नोदाहृतम् । उत्तरत्रापि अङ्काङ्गलक्षणानि दशरूपकादौ द्रष्टव्यानीति

प्रतन्यन्ते ।

इति श्रीनृसिंहराजविरचितायां सङ्कल्पसूर्योदयव्याख्याया प्रभावल्या स्वपक्षप्रकाशः प्रथमोऽङ्कः । ॥ ९९ ॥

प्रभाविलासः - ९९

सन्धुक्षकैः ; उद्दीपकैः । निष्क्रान्तावित्यङ्काङ्गोक्तिः । तदुक्तम्-

“ एकाहचरितैकार्थयुक्तमासन्ननायकम् ।

पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ॥
इति । प्रथमोऽङ्क इति । अङ्कत्वं चास्य प्रत्यक्ष विवेकचरितत्वात् पुरुषमोचनोद्योगस्य पुनः पुनरनुसन्धानान्नानासंविधानरसाश्रयत्वाच्च । तदुक्तम्-

प्रत्यक्षनेतृचरितो बिन्दुव्यक्ति पुरस्कृतः ।

अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ” इति ।

इति श्रीसङ्कल्पसूर्योदयव्याख्याने अहोबिलाचार्यविरचिते60 प्रभाविलासा-

ख्याने स्वपक्षस्थापनं नाम प्रथमोऽङ्कः ।॥ ९९ ॥


  1. विषयवन—-क ↩︎ ↩︎

  2. पापारोपेण—-क ↩︎

  3. प्रलपति—-ख ↩︎

  4. णिम्मलेसु वि omitted—क ↩︎ ↩︎

  5. हन्त omitted—-क ↩︎

  6. ौन्मत्तप्रलापः——-क ↩︎

  7. स^अम्प^अ-स्वयम्प्रभ इति प्रभावलीसम्मतः पाठः। ↩︎ ↩︎

  8. सङ्कड—-घ ↩︎ ↩︎

  9. सूक्ष्मदर्शिनि—-omitted—-क ↩︎ ↩︎

  10. एव्वम् एदं omitted —क ↩︎ ↩︎

  11. लच्छीवल्लहेण—omitted–घ द च ↩︎ ↩︎

  12. दुम्मि^ओ—क ; तावि^ओ इति प्रभावली पाठः ↩︎ ↩︎

  13. द्योपराधेन—–ग, च ↩︎ ↩︎

  14. अथवा—-घ ↩︎

  15. लम्भिज्ज^इत्ति—क ↩︎ ↩︎

  16. मोक्षिष्यमाणः—-क ↩︎

  17. मत्सकाशमादौ—–क ↩︎

  18. आश्रितः—-ग, ड, च ↩︎

  19. “अथ यदिदमस्मिन् ब्रह्मपुरे” इतिश्रुत्यर्थोऽप्यत्र विवक्षितः। शरीरमपि न स्वकीयमिति भावः। ↩︎

  20. परसम्मते—ग ↩︎

  21. वेट्टिअ—-क ↩︎ ↩︎

  22. दर्शिनि—–क ↩︎ ↩︎

  23. प्रबोधापि—–क ↩︎

  24. बद्धदसा——-क, ग ↩︎ ↩︎

  25. प्रतिपन्नमेवेति प्रभावली पाठः। ↩︎ ↩︎

  26. घटिता—-घ ↩︎ ↩︎

  27. आस्थाय—–ग, ड ↩︎

  28. सो—–ड ↩︎

  29. मुणिअज्जो—–ग ↩︎

  30. निरीक्षया——ग ↩︎

  31. अभ्युपपद्यते—–ड ↩︎

  32. दशान्तिमाः——-ध, ड, च ↩︎ ↩︎

  33. “तस्यैवम्” इति श्रुतौ आत्मा यजमानः, श्रद्धा पत्नीत्युक्तम् । अत्र तु विवेको यजमानः, सुमतिः पत्नी, आत्मा हविरिति विनिमयः कृत इति ज्ञेयम् । ↩︎ ↩︎

  34. " ब्रह्मणे स्वा महस ओम् " इत्यत्रत्यब्रह्मशब्दार्थ विशृणोति — भगवानितीति ज्ञेयम् । ↩︎ ↩︎

  35. प्रिये——घ ↩︎ ↩︎

  36. स्वामिनि—-क ↩︎ ↩︎

  37. इयं हि omitted—ca ↩︎

  38. न्येका——-च, छ ↩︎

  39. विअ omitted—–ढ, च ↩︎ ↩︎

  40. दृशा क, घ, च ↩︎ ↩︎

  41. संरब्धः——-क,ग ↩︎

  42. विराध्यतु इति प्रभावली पाठः ↩︎ ↩︎

  43. पुनः ↩︎ ↩︎

  44. सृष्टिस्थितिमति——–क ↩︎ ↩︎

  45. पूर्त्यै—-ध ↩︎ ↩︎

  46. सुरगणानिति बहुवचनेन सम्भूयापि सुरगणाः सर्वे मोक्षदाने असमर्था इति व्यज्यते । अतएव प्रालेयैरिति दृष्टान्तेऽपि बहुवचनम् । ↩︎

  47. ननु न सहस्रमप्यालेख्य दिवाकराः—छ ↩︎

  48. कस्य—-च ↩︎

  49. नारायणानाम्—-क ↩︎ ↩︎

  50. विहितैः—-च ↩︎ ↩︎

  51. स्वान्ते—–ग ↩︎ ↩︎

  52. प्रवर्तयन्त्य——-क,ख,ड ↩︎ ↩︎

  53. महर्षयः—-क ↩︎ ↩︎

  54. परिगृह्णाति—–च ↩︎ ↩︎

  55. सानन्दम् added before—-च, छ ↩︎ ↩︎

  56. विकलां स्मृतिं—–क ↩︎ ↩︎

  57. महता—–ग ↩︎ ↩︎

  58. मुक्तिश्रियं—-ड,च,छ ↩︎ ↩︎

  59. मुनिगणेति प्रभावलीपाठः ↩︎ ↩︎

  60. अहोबिलनाम्ना विदुषा विरचिते——-A ↩︎