उत्सव-प्रवर्तनम्
विश्वास-प्रस्तुतिः
[[६९]]
(विष्कम्भः॥ ततः प्रविशति वसन्त-दत्त-हस्तः कान्ता-सेवितः कामः)
कामः - ( ’ कः खलु ’ इत्यादि पुनः पठित्वा ) रे रे, भरत-कुल-पांसन,
दर+++(=ईषन्)+++-नमित–मनो-ज्ञ–भ्रू-लता-चाप-भाजां
तरल-हृदय-लक्ष्ये तादृश-स्नेह-दिग्धे ।
कुवलय-नयनानां कूणिते+++(=कुचिते)+++ लोचनास्त्रे
शरणयतु विवेकः कां दिशं कान्दिशीकः ॥ ३२ ॥
मूलम् - ३२
विष्कम्भः
(ततः प्रविशति वसन्तदत्तहस्तः कान्तासेवितः1 कामः)
कामः - ( ’ कः खलु ’ इत्यादि पुनः पठित्वा ) रे रे, भरत-2
कुलपांसन,
दरनमितमनोज्ञभ्रूलताचापभाजां
तरलहृदयलक्ष्ये तादृशस्नेहदिग्धे ।
कुवलयनयनानां कूणिते लोचनास्त्रे
शरणयतु विवेकः कां दिशं कान्दिशीकः ॥ ३२ ॥
प्रभावली - ३२
प्रविशति ; रङ्गस्थलीमिति शेषः । ’ कः खल्वसौ कुशीलवकुलाङ्गारः’ इत्यादि पुनः पठित्वा वदति—-रे रे इत्यादि । रे रे इत्यधिक्षिप्यामन्त्रणे अव्ययम् । वीप्सायां द्विरुक्तिः । भरतकुलस्य पासनो दूषकः । अपसृतमपि लक्षीकृत्योक्तिः । दरनमितेति । दरम् ईषन् नमिता मनोज्ञा भ्रूलतैव चापः तद्भाजाम् । कुवलयनयनानाम् ; स्त्रीणाम् । लोचनास्त्रे कीदृशे ? तरलाना चपलानां हृदयं मनो लक्ष्यं शरव्यं यस्य तस्मिन् । तादृशेन निरतिशयेन स्नेहेनानुरागेण ; अन्यत्र स्नेहो विषतैलम् । स्नेहप्रकाशकत्वाच्चक्षुषः तद्दिग्धत्वम् । कूणिते, अर्धसङ्कुचिते ;
[[७२]] अर्धवीक्षणविशिष्टे सति । विवेकः कान्दिशीकः भयद्भुतः सन् का दिशं शरणयतु ; आश्रयतु । न काचिदपीति भावः ॥ ३२ ॥
प्रभाविलासः - ३२
“विष्कम्भ चूलिकाङ्कास्य प्रवेशाङ्कावतारणैः ।
एभिः सूच्यं सूचयित्वा दृश्यमः प्रदर्शयेत् ॥ "
इति दशरूपकोक्तेष्वङ्काङ्गेषु विष्कम्भमारभते – ततः प्रविशतीत्यादिना । तल्लक्षणसुक्तं प्रतापरुद्रीये. - " सङ्क्षेपार्थस्तु विष्कम्भः " इति । दरेति ।
[[७१]]
दरनमितेत्यन्तः सार उक्तः । मनोज्ञेति ग्रन्थिराहित्यम् । भ्रूलतेत्याजैवम् । तरलहृदयलक्ष्य इति धानुष्ककौशलम् “उत्कर्षः स हि धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले " इति शाकुन्तलोक्तेः । स्नेहदिग्ध इति ; स्नेहः प्रेम । तल्लक्षणं च-
" विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥
"
इति । तत्स्वरूपम् ’ अहमस्यैव, अयं ममैव’ इत्येवंरूपम् । तादृशेति प्रेम्ण एव प्रणयावस्थां सूचयति । तदुक्तं रमापतिना - " प्रेमैवातिशये काष्ठामापन्नः प्रणयो मतः " इति । अनेन तस्यान्यानपसरणीयतालक्षण। गाढानुरागतापत्तिरुक्ता । अन्यत्र तादृशेति मर्मस्पृक् । दिग्ध इति विषलेपः । मदनो मूर्च्छानन्तरावस्थायां कुवलयं प्रयुङ्क्त इति कामशास्त्र - प्रसिद्धया कुवलयग्रहणम् । कूणितम् ; अर्धनिमीलितम् ; धनुषा योजितं च । लोचनानामस्त्रत्वोक्त्यातिदूरलक्ष्यवे घित्वशीघ्रगामित्वामोघत्वान्युक्तानि । कां- दिशीकः ; भयद्भुतः । कां दिशं शरणयतु न कामपि, शरण्याभावादित्यर्थः । अत्र कुवलयनयनानामित्यालम्बनविभावोक्तिः, नायिकानायकयो-
रेवालम्बनविभावत्वात् । दरनमितेत्यादिरालम्बनगुणः, “आलम्बनगुणो रूपयौवनादिरुदाहृतः” इति शृङ्गारतिलकोक्तेः । कूणित इति तचेष्टारूपोदीपनविभावः, " तचेष्टा यौवनोद्भूतहावभावादिका मताः " इति लक्षणात् । लोचनास्त्र इत्यनुभाव उक्तः ; " कार्यभूतोऽनुभावः स्यात् कटाक्षादिः शरीरजः " इति लक्षणात् । उक्तविभावानुभावैरेव सात्त्विकसञ्चारिभावा आक्षिप्यन्ते, समुदितानामेव रसाभिव्यञ्जकत्वात् । एतैश्च शृङ्गाररसो व्यङ्ग्यः । तदुक्तं दशरूपके–
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्यायी भावो रसः स्मृतः ॥
इति । अयं चासंलक्ष्यक्रमव्यङ्ग्यध्वनिपर्याय उत्तमकाव्यभेदः । भावतदाभासभावशान्त्यादिरक्रमः " इति काव्यप्रकाशोक्तेः । कैशिकी वृत्तिः “ शब्दार्थयोर्मृदुत्वेन कैशिकी वृत्तिरिष्यते " इति लक्षणात् । अत्र स्निग्धाल्पपदप्रमाणत्वं सन्दर्भमृदुत्वम् । शृङ्गाररसत्वादर्थमृदुत्वम् " मृदू शृङ्गार करुणौ " इत्युक्तत्वात् । अत्र शृङ्गारादीनां भूमिकामात्रत्वोक्त्या शान्तरसानुकूल्येन योजयन्ति । तत्रेयं दिकू - दरनमितम् न सम्यक् भङ्गभयात् । लतेति मृदुत्वोक्तिः । तरलहृदयान्येव लक्ष्याणि, न धीरहृदयानि । अतो विवेकः कां दिशं शरणयतु ; न कामपि, अतिधीरत्वादिति भावः । तेन शान्तरसो व्यङ्ग्यः । न च विरुद्धसमावेशः, अङ्गिनो वीररसस्य स्फुरणात् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वसन्तः - (स्वगतम् ) उत्पथ-मनोरथो ऽयम् उपचित-मदो3 विषम-बाणः ।
अहं पुनर् अपुनर्-आवृत्ति-वर्तनी-पथिकानाम् +++(मरणोत्तरार्चिरादिमार्गे)+++ आतिवाहिक-गणे परिगणितोऽपि
न सहसा परित्यक्तुं शक्नोमि चिरन्तनं चित्त-जन्म–सौहार्दम् । +++(4)+++
(प्रकाशम्) सखे मकर-ध्वज, एवम् एतत् ।
अहं पुनर् महा-राजस्य4 महा-मोहस्य
माङ्गलिकं विवेक-वित्रासनं
भावत्कं महोत्सवं प्रक्रमयामि ।
पश्यतु भवान्
चूडा-वेल्लित+++(=कम्पित)+++-चारु-हल्लक+++(-पुष्प)+++-भर-व्यालम्बि-लोलम्बकाः
क्रीडन्त्य् अत्र +++(लोलम्ब-ज-)+++हिरण्मयानि दधतः शृङ्गाणि शृङ्गारिणः ।
तन्व्-अङ्गी–कर-+++(भस्त्रिका-सहित-वेणु-)+++यन्त्र–यन्त्रण-कला–तन्त्र-क्षरद्-भस्त्रिका-
कस्तूरी+++(-जल)+++-परिवाह–मेदुर+++(=मांसल)+++-मिलज्-जम्बाल+++(=पङ्क)+++-लम्बालकाः ॥ ३३ ॥
मूलम् - ३३
वसन्तः - (स्वगतम् ) उत्पथमनोरथोऽयमुपचितमदो3 विषमबाणः । अहं पुनरपुनरावृत्तिवर्तनीपथिकानामातिवाहिकगणे परिगणितोऽपि न सहसा परित्यक्तुं शक्नोमि चिरन्तनं चित्तजन्मसौहार्दम् । (प्रकाशम्) सखे मकरध्वज, एवमेतत् । अहं पुनर्महाराजस्य4 महा-
मोहस्य माङ्गलिकं विवेकवित्रासनं भावत्कं महोत्सवं प्रक्रमयामि ।
पश्यतु भवान्
चूडावेल्लितचारुहल्लकभरव्यालम्बिलोलम्बकाः
क्रीडन्त्यत्र हिरण्मयानि दधतः शृङ्गाणि शृङ्गारिणः ।
तन्वङ्गीकरयन्त्रयन्त्रणकलातन्त्रक्षरद्भस्त्रिका-
कस्तूरीपरिवाहमेदुरमिलज्जम्बाललम्बालकाः ॥ ३३ ॥
प्रभावली - ३३
अथ वसन्तः स्वगतम् आत्मगतं यथा तथा आलोचयति - उत्पथेत्यादिना । उत्पथमनोरथः ; उद्धृतः । उपचितमदः ; प्रवृद्धगर्वः । स्ववृत्ति दर्शयति — अहं पुनरित्यादिना । वस्तुत आतिवाहिकगणान्तर्भूतेनापि मया चिरप्रवृत्तं कामेन सह सौहार्दं सहसा त्यक्तुं न शक्यम्, अनुचितं चेत्याह- अपुनरावृत्तीति । अपुनरावृत्तिवर्तनी ; अर्चिरादिगतिः । तत्पथिकाः मुच्यमानाः । आतिवाहिकगणः ; अर्चिर्दिनपूर्वपक्षादिदेवतागणः । तत्र उदब्यासाब्द इति कालसामान्यग्रहणेन गृहीतोऽपीत्यर्थः । चिरन्तनम् ; चिरपरिचितम् । न शक्नोमि अन्ततस्त्यक्ष्याम्येवेति भावः ।
[[७४]]
अथ प्रकाश प्रकटमाह - एवमेतदिति । दरनमितेत्यादि यदुक्तं तत्सत्यमेवेत्यर्थः । स्वकृत्यं निवेदयति - अहं पुनरिति । माङ्गलिकम् ; मङ्गलप्रयोजनकम् । भावत्कम् ; भवतः सम्बन्धिनं, त्वद्विजयप्रकाशकमित्यर्थः । प्रक्रमयामि । चूडेति ।
अत्र शृङ्गारिणो भोगिनः क्रीडन्ति वसन्तोत्सवं कुर्वन्ति ; पश्येत्यन्वयः । शृङ्गारिणो विशेषयति-चूडेति । चूडा केशबन्धः ; तत्र वेल्लितानि प्रथितानि यानि चारुहल्लकानि कल्हार-कुसुमानि तेषां भरे समूहे व्यालम्बिनो लम्बमानाः लोलम्बा भृङ्गाः येषा ते । समासान्तः कः । हिरण्यविकारभूतानि शृङ्गाणि जलासेचनयन्त्राणि गवादीनां श्रृङ्गाणि दधतो धारयन्तः । पुनरपि विशिनष्टि - तन्वङ्गीति । तन्वङ्गयो युवत्यः, तासां करा एव यन्त्राणि भस्त्रिका-पीडन-साधनानि तेषां यन्त्रण-कला “प्रेरणव्यापारः, तया तन्त्रेण
[[७६]]
" ओजः कान्ति
युगपत्क्षरन्त्यः सेचयन्त्यो या भस्त्रिकाः चर्मनिर्मिता इतयः, तत्सम्बन्धी यः कस्तूरी-परिवाहः कस्तूरिकारूप-जलप्रवाहः तेन मेदुरं मांसलं यथा तथा, मिलज्-जम्बालाः संश्लिष्ट-पङ्काः । अत एव लम्बाः लम्बमानाः अलकाः चूर्णकुन्तलाः येषां ते सन्तः क्रीडन्तीति ॥ ३३ ॥
प्रभाविलासः - ३३
अपुनरावृत्तिवर्तनी ; अर्चिरादिमार्गः । तत्र पथिकानाम् ; मुक्तानाम् । आतिवाहिकाः ; मुक्तान् स्वं स्वं देशमतिवाहयन्तीत्यातिवाहिकाः । सौहार्दम् ; हितान्वेषित्वहितकारित्वे ;
" दुःखे विपत्तिसम्मोहे कार्ये कालात्ययेऽपि च ।
हितान्वेषी च हितकृद्यः सुहृत् सोऽभिधीयते ॥
इत्युक्तत्वात् । माङ्गलिकम् ; मङ्गलप्रयोजनकम् । भावत्कम् ; भवत्सम्बन्धिनम् । अथ शृङ्गाररसोद्दीपन विभावानाह – चूडेत्यादिना । ते च सङ्गीतरत्नाकरे-
" तत्तद्योग्यो ऽप्यलङ्कारः केयूरकटकादिकः । समयोऽपि वसन्तादिर्विषयाश्चन्दनादयः । गीतादयश्च देशोऽपि रम्यहर्म्यवनादिकः । कान्तानुसरणं हंसयुग्मचित्रादिदर्शनम् । जलकेलीत्येवमाद्याः श्रुता यद्वा विलोकिताः ।
विभावत्वेन विख्याता रसे शृङ्गारनामनि ॥ "
इति । चूडेत्यादि । चूडायां केशबन्धे वेल्लिते ग्रथिते चारुहल्लकानां प्रत्यग्ररक्तसन्ध्यकानां भरे समूहे व्यालम्बिनो लोलम्बा भ्रमरा येषां ते तथोक्ताः । तन्वङ्गीनां करा एव यन्त्राणि जलनिर्गमसाघनानि तेषां
[[७५]]
यन्त्रणे पीडने कला व्यापारस्तस्य तन्त्रं करणम् " तन्त्रं स्वराष्ट्रव्यापारे” इति वैजयन्ती ।
तेन क्षरता निःसरता भस्त्रिकासु प्रवेशिकासु कस्तूरीपरिवाहेण मेदुरं सान्द्रं यथा तथा मिलता संसृजता जम्बालेन पङ्केन लम्बा अलका येषां ते तथोक्ताः ।
यद्वा चूडेत्यादि । चूडाया केशपाशे, " शिखा चूडा केशपाशः " इत्यमरः । तिर्यगूर्ध्वबद्धकेशबन्ध इत्यर्थः । वेल्लिते प्रथिते, " वेल्लिते प्रथिते समे " इति निघण्टुः । चारूणां प्रत्यग्राणां हल्लकानां रक्तसन्ध्यकानाम्, " हल्लकं रक्तसन्ध्यकम् " इत्यमरः । भरः प्राग्भारः । तत्र व्यालम्बिन उपरि सञ्चरन्तो लोलम्बाश् चञ्चरीका येषां 1 " चञ्चरीको लोलम्बेन्दिन्दिरावपि " इत्यमरः । तेनान्तरा नीलोत्पल-शबलितत्वं व्यङ्ग्यमिति भ्रान्तिमद्-अलङ्कारध्वनिः ।
हिरण्मयानि ; हिरण्यविकारभूतानि । शृङ्गाणि ; विषाणानि । हिरण्ययानीति पाठेऽपि स एवार्थः । दधतः ; धारयन्तः । तन्वङ्गीनाम् ; शातोदरीणाम् ।
तेन प्रत्यालीढस्थित्यादिषु शरीरलाघवं व्यञ्जितम् ।
करा एव यन्त्राणि जलनिर्गमसाधनानि, तेषां यन्त्रणे पीडने, कला व्यापारः, तस्य तन्त्रं करणम्, तेन क्षरता निःसरता, भस्त्रिकासु प्रवेशिकासु कस्तूरी-परिवाहेण मेदुरं सान्द्रं यथा तथा ते मिलता संसृजता जम्बालेन पङ्केन लम्बा अलका येषां ते तथोक्ताः ।
यद्वा तन्वङ्गीनां करे स्थितानि यन्त्राणि तेषां यन्त्रणं, ग्रहणं तस्य कला व्यापरः, तस्यास् तन्त्रं करणं, तेन क्षरता, भस्त्रिकासु प्रवेशिकासु स्थिता कस्तूरी कस्तूरीमिश्रजलं तस्य परिवाहो धारासम्पातः ; यद्यपि “जलोच्छ्रासः परी वाहः " इति परीवाहशब्दो जलोच्छ्रासपर्यायः, तथापि लक्षणयात्र तदुक्तिः ; तेन मेदुरं सान्द्रं यथा तथा मिलता संसृजता प्रश्लिष्टेनेति यावत् ; जम्बालेन पङ्केन लम्बा अलकाश् चूर्णकुन्तला येषां ते । अत्र भस्त्रिका एव यन्त्राणि ।
अथवा यन्त्रशब्देन वेणु-यन्त्र–भस्त्रिका-यन्त्र–दोहन-स्वर्ण-रजत-कुण्डिकादीनि गृह्यन्ते । भस्त्रिकेति जलपूरितके ।
ताभ्यां वेणु-यन्त्रादिषु कस्तूरी पूरयित्वा
परस्परं सेचनं चक्रुरिति ज्ञेयम् ।
विभावादयः स्पष्टाः ।
अत्र शृङ्गाररसो व्यङ्ग्यः । यद्यप्यत्र विभावादीनां न साकल्येनाभिधानं, तथाप्येकतरोक्तावन्येषामाक्षेपः । तदुक्तं काव्यप्रकाशे " तेषामसाधारणत्वादन्यतरद्वयाक्षेपकत्वेनेति नानैकान्तिकत्वम्” इति । अत्र श्लोके ओजःकान्तिगुणौ । तदुक्तम्—
ओजः समासबाहुल्यमेतद् द्वेधा निगद्यते । समासानामदीर्घाणां प्राचुर्यात् प्रथमं भवेत् ।
समासस्यातिदीर्घत्वाद् द्वितीयं गौडसम्मतम् ॥
इति । " कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः " इति । बन्धस्यात्युज्ज्वलत्वं छाया । इयमेवोक्तगुणवती गौडी रीतिः,
[[७७]]
गुणोपेता गौडीया रीतिरिष्यते " इति लक्षणात् । अत्र प्रबन्धे रसगुणालङ्काररीतिवृत्तिप्रभृतीनां दिङ्मात्रेणैकत्र प्रदर्शनेऽपि यथोचितमुत्तरत्र द्रष्टव्यमिति विस्तरभयान्न लिख्यते । अत्र चूडावेल्लितेत्यनेन योग्यालङ्काररूप उद्दीपनविभाव उक्तः । कस्तूरीति विषयोद्दीपनोक्तिः । तन्वङ्गीति कान्तानुसरणम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कामः - साधु वसन्त, साधु । विशेषतश् चैतत् +++(उत्सव-प्रवर्तनम्)+++।
सर्वथा विजित एवासौ विवेक-हतकः -
यद् इहावधीरित-+++(मुक्ति-प्रद-)+++त्रिविष्टप-विहार-कान्तारेषु मरुद्-वृद्धान्तरीप+++(=द्वीप)++++उपान्त5-भागेषु महोत्सवारम्भः ।
इह च,
उन्निद्राम्बु-ज-वाटिकाम् उभयतो6 रोधो-निरोधोल्ललत्-
स्रोतः-सम्भृत-सारणी–शत-कृत–स्व-च्छन्द-कच्छ+++(=तीर)++++आप्लवाम् ।
खेलच्-चोल-वधू–विधूत-कबरी–शैवालिताम्+++(=moss-इताम्)+++ अन्वहं
पश्येम प्लवमान-हंस-मिथुन-स्मेरां कवेरात्मजाम् ॥ ३४ ॥+++(4)+++
मूलम् - ३४
कामः साधु वसन्त, साधु । विशेषतश्चैतत् । सर्वथा विजित एवासौ विवेकहतकः । यदिहावधीरितत्रिविष्टपविहार कान्तारेषु मरुवृद्धान्तरीपोपान्त5भागेषु महोत्सवारम्भः । इह च,
उन्निद्राम्बुजवाटिकामुभयतो6 रोधोनिरोधोल्लल-
त्स्रोतः सम्भृतसारणीशतकृत स्वच्छन्दकच्छाप्लवाम् ।
खेलच्चोलवधूविधूतकबरीशैवालितामन्वहं
पश्येम प्लवमानहंसमिथुनस्मेरां कवेरात्मजाम् ॥ ३४ ॥
प्रभावली - ३४
भो वसन्त साधु साधु ; अत्यन्तसमीचीनोऽसि । सन्तोषहेतुका वीप्सा । एतद्-उत्सव-प्रवर्तनं च विशेषतः समीचीनम् । एवं सति सर्वथा विजितप्राय एव विवेकहतकः । हतकः ; मृतप्रायस्तुच्छ इत्यर्थः । विजित एवेत्यत्र हेतुमुपन्यस्यति - यदिदमिति । अवधीरितेति । निराकृतानि स्वर्गलीलोद्यानानि यैस्तेषु
श्रीरङ्गक्षेत्र-प्रदेशेष्व् अतिभोग्यस्थलेषूत्सवारम्भात्
मुक्तिक्षेत्रप्रधानभूतेष्व् अस्मद्-विजयावह-महोत्सव-प्रवर्तनात्
जितप्राय एवेति भावः । आरम्भः कृत इति यदिदमस्ति, अतः सर्वथा विजित एवेति सम्बन्धः । विवेकनिरोधनार्थमत्रैव नियतवासं कुर्म इत्याह-
[[७८]]
इह चेत्यादिना । इह श्रीरङ्गक्षेत्रे कावेरीं पश्येम चेति चस्यान्वयः । उन्निद्रेति । उन्निद्रा या अम्बुजवाटिका नलिनवीथिका, तामुभयतः उभयपार्श्वतः, रोधोभ्यां निरोधात् उल्ललन्ति उद्गच्छन्ति यानि स्रोतासि तैः सम्भृतं सम्पादितं यत्सारणीशतं, सारण्यः कुल्याः, तासां शतं तेन कृतः स्वच्छन्दः कच्छस्य तीरदेशस्याप्लवः समन्तात्सेको यया सा । यद्वा उन्निद्रा अम्बुजवाटिका यस्यास्ताम् । अस्मिन् पक्षे उभयतोरोधेत्याद्येकं पदम् ; पूर्ववदर्थः । खेलदित्यादि । खेलन्त्यः स्वस्मिन् क्रीडन्त्यः याचोलवध्वः, तासा विधूताभिः कबरीभिः शैवालिता सञ्जातशैवलाम् । प्लवमानानि यानि हंसाना मिथुनानि, तैः स्मेरा मन्दहासशीला कवेरात्मजाम् इह स्थित्वान्वहं पश्येमेत्यन्वयः । अत्र
चोलवधूकबरी शैवालत्वेन, हंसमिथुनं मन्दहासत्वेन चोत्प्रेक्ष्यते । शैवालरूपणेनान्तः कालुष्यं व्यज्यते । कावेरी नायिका रोधसान्तर्हितं कच्छाख्यं पुरुष पद्मिनीसक्तं ज्ञात्वा कालुष्यात्सारणीशतरूपस्वपरिजनमुखेनास्य जडतामापाद्य स्वयं स्मयमाना तिष्ठतीति कल्पितनायिकासमाधिरपि भावनीयः ॥ ३४ ॥
प्रभाविलासः - ३४
विवेकहतकः ; विवेकापशदः । अवधीरितानि तिरस्कृतानि त्रिविष्टपविहारकान्ताराणि स्वर्गक्रीडास्थानानि यैस्तेषु । कान्तरम् ; दुर्गमं वर्त्म । " कान्तारं वर्त्म दुर्गमम् " इत्यमरः । मरुता वर्धत इति मरुद्वृषा
कावेरी । उन्निद्रेति । वाटिकाः श्रेणी । यद्यपि " अमात्यगणिकागेहोपवने वृक्षवाटिका " इति विशेषितम्, तथापि सामान्यलक्षणया तथोक्तिः । उभयतः पार्श्वयोः रोधसोस्तीरयोर्निरोधेनोल्ललद्भिरुद्गच्छद्भिः स्त्रोतोभिः प्रवाहैः सम्भृतानां सारणीनामल्पकुल्यानां शतेन कृतः स्वच्छन्दो निरवग्रहः कच्छानामनूपानामाप्लवो यस्याः सा तथोक्ताम् । खेलन्तीनां क्रीडमानानां चोलवधूनां विधूताभिः श्लथनेन प्रसारिताभिः कबरीभिः शैवालितां सञ्जातशैवालाम् । अत्राम्बुजशैवालस्मेरात्मजापदैः स्त्रीलिङ्गसामर्थ्येन च नायिकाप्रतीतेर्वस्तुना वस्तुध्वनिः । अम्बुजपदेन मुखप्रतीतिः । वाक्यतात्पर्य-
[[७९]]
विषयतया तु रसध्वनिः । तत्र खेलदिति जलकेल्युद्दीपनं हंस मिथुनोद्दीपनं च । भारती वृत्तिः, “मृद्वर्थप्रौढसन्दर्भा भारती वृत्तिरिष्यते " इति लक्षणात् । साधु वसन्तेति कालोद्दीपनम् । अवधीरितेत्यादिना देशरूपोद्दीपनोक्तिः ॥ ३४ ॥
प्रतिपक्ष-दुर्जयता-विक्षेपः
विश्वास-प्रस्तुतिः
रतिः – अय्यउत्त, आपाअमहुरो एसो महूसवोम् । एहिं किल अम्हकुलसामिणो महामोहस्स अणिवारिणिज्जेण केण वि विहिणा अमोहारम्भो विवेओ दुज्जओ पडिपक्खोत्ति धूविअं7 मे हिअअम् ।
( आर्यपुत्र, आपात-मधुर एष महोत्सवः ।
इदानीं किल अस्मत्-कुल-स्वामिनो महा-मोहस्यानिवारणीयेन केनापि विधिना
अमोघारम्भो विवेको, दुर्जयः प्रतिपक्ष इति धूपितं8 मे हृदयम् ।)
कामः - बाले विषम-शर-जीवितेश्वरि9 विलासिनी-देवते,
किम् इति नाम समग्र-बल–जेतव्य-लब्ध्या सन्तोष्टव्ये ऽपि
भावित-स्त्री-चापला विवेक-वैभवं वर्णयसि ?
पश्यतु भवती-
कर-धृत-ललितेक्षु-धन्वनो मे
भ्रमर-गुणार्पित-पुष्प-मार्गणस्य ।
मरुद्-अनल-शरोऽपि मेरु-धन्वा
क्षणम् अतिलङ्घित-शासनः कथं स्यात् ॥ ३५ ॥
मूलम् - ३५
रतिः – अय्यउत्त, आपाअमहुरो एसो महूसवोम् । एहिं किल अम्हकुलसामिणो महामोहस्स अणिवारिणिज्जेण केण वि विहिणा अमोहारम्भो विवेओ दुज्जओ पडिपक्खोत्ति धूविअं7 मे हिअअम् ।
( आर्यपुत्र, आपातमधुर एष महोत्सवः । इदानीं किल अस्मत्कुलस्वामिनो महामोहस्यानिवारणीयेन केनापि विधिना अमोघारम्भो विवेको दुर्जयः प्रतिपक्ष इति धूपितं8 मे हृदयम् ।)
कामः - बाले विषमशरजीवितेश्वरि9 विलासिनीदेवते, किमिति नाम समग्रबलजेतव्यलब्ध्या सन्तोष्टव्येऽपि भावितस्त्रीचापला
विवेकवैभवं वर्णयसि ? पश्यतु भवती-
करधृतललितेक्षुधन्वनो मे
भ्रमरगुणार्पितपुष्पमार्गणस्य ।
मरुदनलशरोऽपि मेरुधन्वा
क्षणमतिलङ्घितशासनः कथं स्यात् ॥ ३५ ॥
प्रभावली - ३५
अय्यउत्त ; आर्यपुत्र । आर्यपुत्रेति भर्तुः सबोधनं गृहिण्याः । श्रीरामायणे सीता रामं प्रति " आर्यपुत्रेति भाषिणी ” इत्युच्यते । आवाअमहुरो - आपातमधुरः । एसो महूसवो - एष महोत्सवः । आपात उपरिप्लवः ;
1 दुक्खिअ - ख; धूमिअं - छ.
[[८०]] }
अन्ततो मधुरत्वं नास्तीत्यर्थः । तत्र हेतुमाह-एहिम् इत्यादिना । एहि किल— इदानीं किल । अम्हकुलसामिणो - अस्मत्कुलस्वामिनः । महामोहस्समहामोहस्य । अणिवारणिज्जेण अनिवारणीयेन । केण वि - केनापि ।
। विहिणा - विधिना । अमोहारम्भो-अमोघारम्भः । विवेओ - विवेकः । दुज्जओदुर्जयः । पडिपक्खोत्ति – प्रतिपक्ष इति । धूविअं धूपितं, सन्तप्तमित्यर्थः । मे — मम । हिअअं - हृदयम् । तां प्रतिवदति कामः विषमशरेति । विषमशरस्य ममेत्यर्थः, जीवितेश्वरि ; प्राणेश्वरि । विलासिन्यः ; युवतयः, तासा देवते स्वामिनि ।
किमिति नाम ; किं कारणम् । विवेकवैभवं वर्णयसीत्यन्वयः । समग्रबलेति । समग्रबलः सम्पूर्णशक्तिश्वासौ जेतव्यः शत्रुश्व, तस्य लब्ध्या सन्तोष्टव्ये सन्तोषे कर्तव्ये सति । हीनबलशत्रुत्वं वीराणा दुःखायेति भावः । एवं स्थिते सति त्वं विभावितस्त्रीचापला ; प्रकाशितस्त्रीचापल्या सती वर्णयसि । वर्णने स्त्रीचापल्यमेव हेतुरिति भावः । विवेकस्य शत्रोस्तुच्छस्याविद्यमानं वैभवं स्वयं वर्णयति । एवं चपला भवती मम पराक्रमं पश्येत्याह — पश्यतु भवतीति । सुकुमारायुधपरिकरवतोऽपि ममाज्ञां कठोरायुधपरिकरोऽपि शिवो नात्येतुं शक्त इत्याहकरेति ।
[[८१]]
करधृतं ललितेक्षुरूपं धन्व यस्य । भ्रमररूपे गुणे ज्यायामर्पिताः प्रतिसंहिताः पुष्परूपा मार्गणा येन तस्य मम । मरुत् वायुः, तद्विशिष्टोऽनलः शरः त्रिपुरदहने यस्य सः । मेरुः धन्व10 यस्य स सन्नपि क्षणं ममातिलङ्घितशासनः कथं भवेत् ; अतिलड् घितमच्छासनः कथं स्यादित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । क्षणमपि ममाज्ञा लङ्घयितुं न शक्त इत्यर्थः । अत एव अर्धनारीश्वरो वर्तत इति भावः ॥ ३५ ॥
प्रभाविलासः - ३५
विषमशरो जीवितेश्वरो यस्याः सा । जीवितेश्वरो नायकभेदः ।
तदुक्तम्–
" भजते यः प्रियामिष्टैः शयनासनवस्त्रकैः ।
अभीष्टाभिश्च लीलाभिर्जीवितेशः स ईरितः ॥
इति । समग्रं बलं यस्य स एव जेतव्यः, तस्य लब्ध्या । भावितः ;
सम्भावितः । करेति । इक्षुधन्वन इक्षुचापस्य पुष्पबाणस्य मम वायुवह्निबाणो मेरुधन्वा त्र्यम्बकोsप्याज्ञां नोल्लङ्घते, किं पुनर्विवेकादय इति भावः । " अग्निमनीकं सोमं शल्यं विष्णुं तेजनं तेऽब्रुवन्” इत्यादिश्रुतिप्रसिद्धघा मरुदनलशर इत्युक्तम् । मेरुधनुष्ट्रादिकं त्रिपुरविजये महाभारते प्रसिद्धम् । व्यतिरेकस्तु क्षणं क्षणमात्रमेव कथमतिलङ्घितशासनः स्यात् । किन्तु सर्व - दातिलङ्घितशासन एव, मेरुचापादिप्रबलसाधनत्वादिति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
वसन्तः - सखि +++(रते)+++, सत्यम् एवैतत् ।
मा खल्व् इदं विकत्थनम् अवमंस्थाः11 ।
न12 हि जगति भवति मशको मातङ्गस्य प्रतिस्पर्धी ।
अथवा न खलु भवती विश्व-वृत्तान्त-वैदेशिकी -
दृष्टचर एव हि त्वत्-प्रियस्यासौ वीरायित-वृत्तान्तः । तथा हि-
वहति महिलाम्,, आद्यो वेधास्,, त्रयी-मुखरैर् मुखैर्
वर-तनुतया वामो भागः शिवस्य विवर्तते ।
तद् अपि परमं तत्त्वं +++(कृष्णाख्यं)+++ गोपी-जनस्य वशं-वदं,
मदन-कदनैर् न क्लिश्यन्ते कथं त्व् इतरे जनाः ॥ ३६ ॥
+++(अनेन पितामहस्यापि नित्ययुवत्वम् 🙂)+++
मूलम् - ३६
वसन्तः - सखि, सत्यमेवैतत् । मा खल्विदं विकत्थनमवमंस्थाः11 । न12 हि जगति भवति मशको मातङ्गस्य प्रतिस्पर्धी ।
अथवा न खलु भवती विश्ववृत्तान्तवैदेशिकी । दृष्टचर एव हि त्वत्प्रियस्यासौ वीरायितवृत्तान्तः । तथा हि-
वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखै-
र्वरतनुतया वामो भागः शिवस्य विवर्तते ।
तदपि परमं तत्त्वं गोपीजनस्य वशंवदं
मदनकदनैर्न क्लिश्यन्ते कथं त्वितरे जनाः ॥ ३६ ॥
प्रभावली - ३६
1
मंस्थाः – क. ख.
2
adds before this, the stanza
विकस्वरसुरद्रुम etc. which is found in act 4, stanza 13.
3 धन्वशब्दोऽत्र धनुः पर्यायः ।
[[८२]] सखीति रत्याः सम्बोधनम् । इदं कामोक्तं वचनं विकत्थनमात्मश्लाघावचनमिति मावमंस्थाः । न हीति । मशकाः ; क्लिन्नाक्ष्णा चक्षुः समीपे पतन्तः क्षुद्रजन्तवः । ते यथा मातङ्गस्य गजस्य प्रतिस्पर्धिनः प्रतिभटा न भवन्ति, तथा विबेकोऽपि कामस्येत्यर्थः । इममर्थम जानत्यास्तव मया वक्तव्यम् त्वं तु सर्ववृत्तान्तवेदिनीत्याह–अथवेति । विश्ववृत्तान्तस्य वैदेशिकी विदेशस्था न खल्वसि । दृष्टचरः ; पूर्वमेव दृष्टः । वीरायित्तवृत्तान्तः पराक्रमवृत्तान्तः । तदुपपादयति– वहतीति । आद्यो वेधाः ; नवप्रजापतीनामाद्यो ब्रह्मा । त्रयी- मुखरैः ; वेदत्रयध्वनिमुखरितैः मुखैः महिलां वनितां सरस्वतीं वहति । त्रयी-
;
मुखरैरिति ब्रह्मणश्छान्दसत्वं ख्याप्यते । शिवस्य वामो भागः पार्श्वः वरतनुतया स्त्रीरूपेण विवर्तते विकृतं वर्तते । " यच्छौचनिःसृत" इत्यादिप्रसिद्धिद्योतनाय शिवस्येत्युक्तम् । विवर्तो नाम पूर्वावस्थाविरुद्धावस्थान्तरापत्तिः । " यदि मे ब्रह्मचर्य स्यात् " इति प्रसिद्धया तदपि परमं तत्त्वमित्युच्यते ; कृष्ण एव हि लोकानाम् ” इत्युक्तः कृष्णश्च । गोपीजनस्य वशंवदं गोपीजनाधीनं जातम् । अनेन त्रिषु मूर्तिषु मध्ये कस्यचिन्मुखं कस्यचिदर्धं शरीरं कस्यचित्सर्वाङ्गमपि कान्तायत्तं जातम् ; किमुतेतरेषामित्युक्तिवैचित्री । तदुक्तम् —
आ हृदयादा वदनादा मौलेः शौरिधातृगिरिशाः ।
चित्रं यत्र निमग्ना जयति रसः कोऽपि जीवातुः ॥
इति ॥ ३६ ॥
प्रभाविलासः - ३६
विकत्थनम् ; आत्मश्लाघा । मावमंस्थाः ; विकत्थनमेवेति व्यज्यते ।
मातङ्गस्येति विवेको व्यज्यते । वैदेशिकी ; विदूरस्था, अज्ञेति यावत् । दृष्टचर एवः ; त्र्यम्बक नेत्रोन्मीलनादिष्विति ध्वन्यते । सर्वत्र यथाश्रुतेन
मदनस्तुतिः ।
"
यत्र वातेन नीयन्ते कुञ्जराः षष्टिहायनाः ।
गावस्तत्र न गण्यन्ते मशकेषु तु का कथा ॥
इत्येतन्मनसि कृत्वाह— वहतीति । महिलाम् ; स्त्रियम् आद्यो वेधाः ; चतुर्मुखः । मुखरैः ; शब्दायमानैः ।
सरस्वतीम् । वरतनुतया ; स्त्रीरूपेण । विवर्तते ; परिणमति । तदपि ; अखिल हेयविरुद्धतया प्रसिद्ध-
मपि । परमं तत्त्वम् ; " तत्त्वं नारायणः परः " इति श्रुतिरत्राभिप्रेता । कदनम् ; युद्धम् । इतरे ; विवेकादयः । मध्यकैशिकी वृत्तिः । तदुक्तम्
मृद्वर्थषत्प्रौढार्थसन्दर्भा मध्यकैशिकी " इति ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कामः - साधु वसन्त, साधु । कालानुरूप-वादी खल्व् असि ।
विश्वं युवति-सात्-कर्तुं
भवता दत्त-सायके ।
विवेकः किं नु वर्तेत
विपक्षे मयि संस्थिते13 ॥ ३७ ॥
मूलम् - ३७
कामः साधु वसन्त, साधु । कालानुरूपवादी खल्वसि ।
विश्वं युवतिसात्कर्तुं भवता दत्तसायके ।
विवेकः किं नु वर्तेत विपक्षे मयि संस्थिते13 ॥ ३७ ॥
प्रभावली - ३७
[[८४]] कालानुरूपवादी ; तत्तत्कालयोग्यवादी । कामादिसम्बन्धादेवं वदसीति भावः । विश्वमिति । विश्वं जगत्साकल्येन युवत्यधीनं कर्तुं त्वया दत्तसायके विपक्षभूते मयि संस्थिते विवेकः कि तु वर्तेत ; न वर्तेतैव । मयि संस्थिते मृते सति वर्तेतेति व्यङ्ग्योऽर्थः ॥ ३७ ॥
प्रभाविलासः - ३७
विश्वमिति । युवतिसात्कर्तुम् ; युवत्यधीनं कर्तुम् । अधीनार्थे
सात्प्रत्ययः । किं नु वर्तेतेति काकुः ; न वर्तेतैवेत्यर्थः । न वर्तेत किम् 2 वर्तेतैवेति व्यज्यते ॥ ३७ ॥
विषय-प्रलोभः
विश्वास-प्रस्तुतिः
रतिः - अय्यउत्त, एव्वम् एदम् । तह वि विसमट्ठिरसण्ठाणवेरग्गदुग्गप्पडिठ्ठओ अप्पमत्तेर्हि समदमप्पमुहेहिम् अमचेहिम् अहिरक्खिओ सअम् असहाअसूरो अणवा असाहसो अ विपक्खो किं णाम कहिआ काहिचित्ति कलुसिअहिअअम्हि ।
( आर्यपुत्र, एवम् एतत्।
तथापि विषम–स्थिर-संस्थान–वैराग्य-दुर्ग–प्रतिष्ठितो
ऽप्रमत्तैः शम-दम-प्रमुखैर् अमात्यैर् अभिरक्षितः
स्वयम् अ-सहाय-शूरो ऽनपाय-साहसश् च विपक्षः
किं नाम कदा करिष्यतीति कलुषित-हृदयास्मि॥
कामः – अयि भीरु,
अलम् अतिशङ्कया ।
नूनं विपक्ष-पक्ष-पाति–बालिश-जन-विप्रलब्धा
स्व-यूथ्य-वैभवं न निर्धारयसि ।
पश्य तावत् विश्व-विजयिनस् त्वत्-प्रियस्य मे
जगत्-त्रय-प्रसिद्धं जैत्रम् उपकरणम्—
वपुर् अप्रतिमं नितम्बिनीनां
दृढ-सौन्दर्य-गुणं दर+++(=ईषद्)++++अवनम्रम् ।
श्रवणावधि-नेत्र-चित्र-पुङ्खं
धनुर् आद्यं मम मुष्टि-मेय-मध्यम् ॥ ३८ ॥+++(5)+++
मूलम् - ३८
रतिः - अय्यउत्त, एव्वम् एदम् । तह वि विसमट्ठिरसण्ठाणवेरग्गदुग्गप्पडिठ्ठओ अप्पमत्तेर्हि समदमप्पमुहेहिम् अमचेहिम् अहिरक्खिओ सअम् असहाअसूरो अणवा असाहसो अ विपक्खो किं णाम कहिआ काहिचित्ति कलुसिअहिअअम्हि ।
( आर्यपुत्र, एवमेतत्। तथापि विषम स्थिरसंस्थानवैराग्यदुर्गप्रतिष्ठितोऽप्रमत्तैः शमदमप्रमुखैरमात्यैरभिरक्षितः स्वयमसहायशूरोऽनपायसाहसश्च विपक्षः किं नाम कदा करिष्यतीति कलुषितहृदयास्मि
कामः – अयि भीरु, अलमतिशङ्कया । नूनं विपक्षपक्षपातिबालिशजनविप्रलब्धा स्वयूथ्यवैभवं न निर्धारयसि । पश्य तावत् विश्वविजयिनस्त्वत्प्रियस्य मे जगत्त्रयप्रसिद्धं जैत्रमुपकरणम्—
वपुरप्रतिमं नितम्बिनीनां दृढसौन्दर्यगुणं दरावनम्रम् ।
श्रवणावधिनेत्रचित्रपुङ्खं धनुराद्यं मम मुष्टिमेयमध्यम् ॥ ३८ ॥
प्रभावली - ३८
प्रकारान्तरेण रतिर्भयं शङ्कते – वह वीति । तह वि— तथापि । विसमट्ठिरसण्ठाण – विषम स्थिर संस्थान । वेरग्गदुग्गप्पडिट्ठिओ - वैराग्यदुर्गप्रतिष्ठितः । वैराग्यदुर्गस्य विषमत्वं शत्रुभिर्दुरारोहत्वम् । स्थिरत्वमक्षोभ्यत्वम् । अप्प - मत्तेहिं- अप्रमत्तैः । समदमप्पमुहेहिं - शमदमप्रमुखैः । अमचेहिं - अमात्यैः । अहिर क्खिओ - अभिरक्षितः । सअम् असहाअसूरोस्वयमसहायशूरः । अणवा- असाहसी - अनपायसाहसः । विपक्खो - विपक्षः । किं णामकि नाम । कइआ-
कदा । काहित्तित्ति-करिष्यतीति । कलुसिअहिअअह्नि - कलुषितहृदयास्मि । भीरु ; भयशीले। अतिशङ्का ; असम्भावितविषये शङ्का । नूनमित्यादि । विप्र- लब्धा ; वञ्चिता । स्वयूथ्यानां स्ववर्याणामस्मत्प्रमुखाना वैभवं न निश्चिनोषि । जैत्रमुपकरणम् ; जयशीलं साधनम् । वपुरिति । अप्रतिममिति वपुषो धनुषो वा
[[८६]]
विशेषणम् । दृढेति । सौन्दर्याख्यगुणविशिष्टम् । गुणः ; मौर्वी । दरावनम्रम् ; ईषदवनतम् । श्रवणावधि यन्त्रं तदेव चित्रपुङ्खो बाणो यस्य । मुष्टिप्राह्यमध्यं मम आदिमं धनुः । इक्षुपुष्पादयस्तदनन्तरभूता इति भावः ॥ ३८ ॥
प्रभाविलासः - ३८
स्थिरं संस्थानं यस्य तत् । विषमं च तत् स्थिरसंस्थानं च । तत् वैराग्यमेव दुर्गे, तत्र प्रतिष्ठितः । विषमं दुःसाधम् । विप्रलब्धा ; वञ्चिता । त्वत्प्रियस्येत्यत्र प्रिय इति नायकविशेष उक्तः ;
"
सत्यवागार्जवमतिरुपकुर्वन् प्रियं वदन् ।
भजते यः स्वयं प्रीतः प्रियः स भवति स्त्रियाः ॥
टन्द
इत्युक्तत्वात् । जैत्रम् ; जयशीलम् । वपुरिति । दृढसौन्दर्यमेव गुणो मौर्वी यस्य । दृढसौन्दर्यगुण एव गुण इति श्लिष्टरूपकम् । चित्रपुङ्खः ; बाणः । दरावनम्रम् ; स्तनभरादित्यभिसन्धिः ।
स्तनभरादित्यभिसन्धिः । " स्तनभरनतमन्तर्ब्रह्म सञ्चिन्तयामि " इति हि वक्ष्यते । आद्यं धनुः ; अस्मत्पुष्पधनुरारोपणात् पूर्वमेव स्त्रीणा विभ्रमैरेव विश्वं जितमित्यर्थ ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अपि च,
शैलीं विलोपयति, शान्तिम् अधः करोति
व्रीडां व्युदस्यति, विरक्तिम् अपह्नुते च ।
कर्णामृतं किम् अपि तत् कल-भाषिणीनां
नामापि किं न विकरोति निशम्यमानम् ॥ ३९ ॥+++(5)+++
मूलम् - ३९
अपि च,
शैलीं विलोपयति शान्तिमधः करोति
व्रीडां व्युदस्यति विरक्तिमपह्नुते च ।
कर्णामृतं किमपि तत्कलभाषिणीनां
नामापि किं न विकरोति निशम्यमानम् ॥ ३९ ॥
प्रभावली - ३९
स्त्रिय एव मम जगज्जयोपकरणमित्युक्तम् । तदेवोपपादयस्तद्वैभवमाह- अपिचेति । कलभाषिणीनां कलमधुरभाषिणीनां स्त्रीणा तन्नामापि निशम्यमानमाकर्ण्यमानं किमपि कर्णामृतं सत् कि न विकरोति । किं कर्म विकारं न प्रापयति, सर्व जनं विकारयत्येव । कर्मापेक्षया किशब्दस्य नपुंसकत्वम् । विकारं विवृणोति - शैलीमित्यादि । शीलं सद्वृत्तमेव शैली । स्वार्थेऽणि ङीप् । निशमयितुः पुरुषस्य विलोपयति ; प्रथममाचारभ्रंशं करोति ; विषयतृष्णामुत्पादयति । ततः शान्तिमधः करोति । व्रीडां व्युदस्यति ; लज्जा त्याजयति । विरक्ति विद्यमानं संसारवैराग्यं क्रमेण विनाशयति ॥ ३९ ॥
प्रभाविलासः - ३९
शौलीमिति । शैलीम् ; सद्वृत्तिम् । निशम्यमानम् ; अवशेन श्रुतिप्राप्तम् । नामापि कीदृशं तन्नामेत्यत्राह - कलभाषिणीनामिति । कलभाषिणी ; कीरवाणी मज्जुभाषिणीत्यादिकमर्थः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
वसन्तः - ननु कैमुतिकम् एतत् -
यद् इदं योषितां यद्-ऋच्छा-कीर्तन-श्रवणादिकम् अपि
चित्त-सङ्क्षोभ-हेतुर् इति ।
तिष्ठतु गुणावमर्शः स्त्रीणाम्
आलोकनादिभिः सार्धम् ।
दोषानुचिन्तनार्था स्मृतिर् अपि
दूरीकरोति वैराग्यम् ॥ ४० ॥+++(4)+++
मूलम् - ४०
वसन्तः - ननु कैमुतिकमेतत् यदिदं योषितां यदृच्छाकीर्तनश्रवणादिकमपि चित्तसङ्क्षोभ हेतुरिति ।
तिष्ठतु गुणावमर्शः स्त्रीणामालोकनादिभिः सार्धम् ।
दोषानुचिन्तनार्था स्मृतिरपि दूरीकरोति वैराग्यम् ॥ ४० ॥
प्रभावली - ४०
कैमुतिकम् ; कैमुतिकन्यायसिद्धम् । एतत् ; वक्ष्यमाणं चित्तसक्षोभ हेतुरिति यदस्ति, एतत् । तच्छदस्थाने एतच्छन्दस्य प्रयोगः । किमपेक्षया कैमुतिकन्यायसिद्धमित्यत्राह — तिष्ठत्विति । स्त्रीणामालोकनादिभिः आलोकप्रसङ्गसम्भाषणादिभिः सह गुणावमर्शः सौन्दर्यादिगुणविचारस्तिष्ठतु ; पुरुषं विकारयतीत्ययमर्थस्तिष्ठतु । दोषानुचिन्तनार्था ;
“ स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्स्रवन्मूत्रक्लिन्नं करिवरशिरःस्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् " ॥
इति दोषविचाराय स्त्रीणां स्मृतिः स्मरणमपि पुरुषस्य वैराग्यं दूरीकरोति ; दूरतो निरस्यति । स्त्रीणां दृष्टानुभूतदोषचिन्तनस्मृतेरपि वैराग्यनाशकत्वे तासा गुणविचारार्था स्मृतिश्चित्तसङ्क्षोभ हेतुरितीदं न वक्तव्यमित्यर्थः ॥ ४० ॥
प्रभाविलासः - ४०
[[८७]]
तिष्ठत्विति । गुणावमर्शः ; सौन्दर्यादिगुणवर्णनम् । आदिपदेन भाषणलीलापरिहासकेलिपरिरम्भा उच्यन्ते । दोषानुचिन्तनं “ स्तनौ मांसग्रन्थी " इत्यादिचिन्तैवार्थः प्रयोजनं यस्याः सा ॥ ४० ॥
विश्वास-प्रस्तुतिः
अपि च प्रभूत-मद-मेदुरात्मनो
विषयाटवीषु विविधासु धावतः ।
स्व-बलेन हन्त मनसो निवर्तनं
बिस+++(=पद्म)+++-तन्तुनेव सुर-दन्ति-यन्त्रणम् ॥ ४१ ॥+++(5)+++
मूलम् - ४१
अपि च प्रभूतमदमेदुरात्मनो
विषयाटवीषु विविधासु धावतः ।
स्वबलेन हन्त मनसो निवर्तनं
बिसतन्तुनेव सुरदन्तियन्त्रणम् ॥ ४१ ॥
प्रभावली - ४१
स्त्र्यादिविषये चरतो मानसस्य स्वशक्त्या नियमनमशक्यमिति सदृष्टान्तं दर्शयति-अपिचेति । अपि च ; किचेत्यर्थः । प्रभूतेन बहुलेन मदेन गर्वेण मदोद्रमेन च मेदुरः मासलः सान्द्र इत्यर्थः, आत्मा मनो यस्य तस्य । विषयाः शब्दस्पर्शादय एवाटव्यः । विविधासु ; नानाविधासु । शब्दादय आश्रयभेदाद्बहुविधाः । तासु धावतः वेगेन सञ्चरतः मनसः स्वबलेन भगवत्कृपां विना केवल स्वयत्नेन, शब्दादिभ्यो निवर्तनं नियमनं न शक्यते । किमिव ? बिसतन्तुना पद्मनालसूत्रेण सुरदन्तिन ऐरावतस्य चरणबन्धनमिवाशक्यम् ॥ ४१ ॥
प्रभाविलासः - ४१
अस्तु मनश्चापल्यं त्वदुक्तम् । तन्निरोधे विरक्तिरप्रतिबन्धेत्याशङ्क्य सापि न सिध्यतीत्याह-अपिचेति । मदेन मेदुरः सान्द्र आत्मा
स्वरूपं यस्य तस्य । यन्त्रणम् ; बन्धनम् ॥ ४१ ॥
योगि-दौर्बल्यम्
विश्वास-प्रस्तुतिः
रतिः - अय्यउत्त, दिडभूमिविग्भमस मुम्मूलणक्खमाणं जो- ईसराणं दिट्ठि परिहरन्तेण तुए परक्कमणिज्जम् ।
( आर्यपुत्र, दृढ-भूमि-विभ्रम-समुन्मूलन-क्षमाणां योगीश्वराणां
दृष्टिं परिहरता त्वया पराक्रमणीयम् ।)
कामः - (विहस्य) प्रिये, पश्यामि चक्षुषीव ते
चेतस्य् अपि कातर्यम् ।
योजयामि खल्व् अहं योगीश्वरान् अपि युवति-योगीश्वर-पादे ।+++(5)+++
सु-भग-परुषैर् मद्-अस्त्रैः
कीलितम् अन्योन्य-कवचितैकार्धम् ।
किं न विदितं भवत्या
किम् अपि मिथः स्यूत-जीवितं मिथुनम् ॥ ४२ ॥+++(5)+++
मूलम् - ४२
रतिः - अय्यउत्त, दिडभूमिविग्भमस मुम्मूलणक्खमाणं जो- ईसराणं दिट्ठि परिहरन्तेण तुए परक्कमणिज्जम् ।
( आर्यपुत्र, दृढभूमिविभ्रमसमुन्मूलनक्षमाणां योगीश्वराणां दृष्टिं परिहरता त्वया पराक्रमणीयम् ।)
कामः - (विहस्य) प्रिये, पश्यामि चक्षुषीव ते चेतस्यपि कातर्यम् । योजयामि खल्वहं योगीश्वरानपि युवतियोगीश्वरपादे ।
सुभगपरुषैर्मदस्त्रैः कीलितमन्योन्यकवचितैकार्धम् ।
किं न विदितं भवत्या किमपि मिथः स्यूतजीवितं मिथुनम् ॥ ४२ ॥
प्रभावली - ४२
अथ भर्तुः सावधानतामुपदिशति — दृढभूमीत्यादि । दृढभूमिविभ्रम- समुन्मूलनक्षमाणाम् ; दृढा भूमिरावासस्थानं येषा तेषा विभ्रमाणा, विशिष्टो भ्रमः देहात्मभ्रमादिकमुच्यते, तेषां समुन्मूलनं मूलेन सहोत्पाटनम् ; तत्र समर्थानामित्यर्थः । विहस्य ; सावधानतोपदेशात् । स्वसामर्थ्यमाह-योज -
यामीति । युवतय एव योगीश्वराः । उक्तमर्थं दर्शयति - सुभगेति । स्वरूपतः सुभगैः, कार्यतः परुषैः, ममास्त्रैः अन्योन्यं कवचितं कवचायितम् एकार्धमेकपार्श्व यस्मिस्तद्यथा तथा कीलितं बद्धम् । मिथः स्यूतजीवितम् ; अन्योन्यायत्तजीवितम् । किमपि मिथुनम् ; उमाशङ्कररूपं स्त्रीपुंसयुगलं भवत्या किं न विदितम् । सर्वलोकविदितमिति भावः । स्यूतं प्रोतम् ॥ ४२ ॥
प्रभाविलासः - ४२
दृढभूमिः ; दृढस्थानः स्थिर इति यावत् । विभ्रमविशेषण-
[[८९]]
मिदम् । विभ्रमः देहात्माद्यभिमानः । अत्र शिवनेत्रोन्मीलनं ध्वनितम् । एवं ध्वनितार्थस्वीकारेण सोऽपि शिवः पश्चाद्वशीकृत इत्याह – सुभगेति । अस्त्राणां कुसुमरूपतया सुभगत्वम् । रागिबाधकतया परुषत्वम् । कीलि- तम् ; स्यूतम् । कवचितं तिरोभावितमेकमधैं यस्य तत्तथोक्तम् । न केवलं शरीरम्, प्राणा अपि कीलिता एवेत्याहमिथ इति । दलद्वयविच्छेदे जीवनमपि दुर्लभमिति भावः । मिथुनम् ; अर्धनारीश्वराख्यम् ॥ ४२ ॥
प्रज्ञा-दौर्लभ्यम्
विश्वास-प्रस्तुतिः
रतिः – अय्यउत्त, अवहारिअं मए तुह माहप्पम् । दाणि उण दीहबुद्धिबलेण देव्वदिण्णहत्थेण जमणिअमप्पमुहबहुसहा असम्पण्णेण अहण्डुच्चाहपहुत्तणमन्तसत्तिणा सत्तणा काहे किं होज्जन्त्ति पबलपवणाहआ कअली विअ तरलअरह्नि । पसिद्धं खु पण्णाबलं मोक्खपेरन्ताणम् अइदुक्खराणं सिद्धीणं साहणं ति ।
( आर्यपुत्र, अवधारितं मया तव माहात्म्यम् ।
इदानीं पुनर्
दीर्घ-बुद्धि-बलेन दैव-दत्त-हस्तेन
यम-नियम-प्रमुख–बहु-सहाय-सम्पन्नेन
+अखण्डोत्साह-प्रभुत्व–मन्त्रशक्तिना शत्रुणा
कदा किं भवेद् इति
प्रबल-पवनाहता कदलीव तरलतरा ऽस्मि ।
प्रसिद्धं खलु -
“प्रज्ञा-बलं मोक्ष-पर्यन्तानाम् अतिदुष्कराणां सिद्धीनां साधनम्”
इति ।)
कामः - ( स-रोष-हासम् ) अयि मुग्धे मञ्जु-भाषिणि,
गुञ्जन्-मधु-कर–शिञ्जिनी-संहित–विश्व-लक्ष्य–विषम-विशिखस्य
नित्य-विजय-जागरूकस्य त्वत्-प्रियस्य मम सन्निधौ
का पुनः प्रज्ञा14 ?
केन वा कस्य वा मुक्तिर् भवित्री ।
किम् इति +++(द्व्य्-अक्षर-)+++नाम-मध्य इव
भवत्या +++(स्थूले)+++ मानसेऽपि सौक्ष्म्यं नालक्ष्यते ?
(विहस्य) प्रिये, हन्त विदितम् एतत् ।
नूनम् इदानीं स्तन-तट-गतं स्थौल्यम् एतद्
अन्तर् अपि सङ्क्रान्तम्15 ।
अथवा अ-विचारित-रमणीयम् अबला-जन-स्वाभाव्यं भवत्याम् अपि वर्तते ।
सम्पश्यतां भवती-
मया ऽऽदिष्टः क्रोधः प्रथयति किम् अप्य् आन्ध्यम् अथ च
स्मृति-भ्रंशः सेद्धा विघटयति बुद्धिं सपदि सः ।
तया मुक्तः क्षेत्री तमसि गहने विन्दति लयं
तथा भूते किं वा +++(प्रज्ञादि-मोक्षपर्यन्तेषु)+++ जनयति16 विवेको जड-मतिः ॥ ४३ ॥
मूलम् - ४३
रतिः – अय्यउत्त, अवहारिअं मए तुह माहप्पम् । दाणि उण दीहबुद्धिबलेण देव्वदिण्णहत्थेण जमणिअमप्पमुहबहुसहा असम्पण्णेण अहण्डुच्चाहपहुत्तणमन्तसत्तिणा सत्तणा काहे किं होज्जन्त्ति पबलपवणाहआ कअली विअ तरलअरह्नि । पसिद्धं खु पण्णाबलं मोक्खपेरन्ताणम् अइदुक्खराणं सिद्धीणं साहणं ति ।
( आर्यपुत्र, अवधारितं मया तव माहात्म्यम् । इदानीं पुनः दीर्घबुद्धिबलेन दैवदत्तहस्तेन यमनियमप्रमुखबहुसहायसंपन्नेन अखण्डोत्साहप्रभुत्वमन्त्रशक्तिना शत्रुणा कदा किं भवेदिति प्रबलपवनाहता कदलिकेव तरलतरास्मि । प्रसिद्धं खलु प्रज्ञाबलं मोक्षपर्यन्तानामतिदुष्कराणां सिद्धीनां साधनमिति ।)
कामः - ( सरोषहासम् ) अयि मुग्धे मञ्जुभाषिणि, गुञ्जन्मधुकर शिञ्जिनीसंहितविश्वलक्ष्य विषमविशिखस्य नित्यविजयजागरूकस्य त्वत्प्रियस्य मम सन्निधौ का पुनः प्रज्ञा14 । केन वा कस्य वा मुक्तिर्भवित्री । किमिति नाम मध्य इव भवत्या मानसेऽपि सौक्ष्म्यं नालक्ष्यते ? (विहस्य) प्रिये, हन्त विदितमेतत् । नूनमिदानीं स्तनतटगतं स्थौल्यमेतदन्तरपि सङ्क्रान्तम्15 । अथवा अविचारितरमणीयमबलाजनस्वाभाव्यं भवत्यामपि वर्तते । सम्पश्यतां
भवती-
मयादिष्टः क्रोधः प्रथयति किमप्यान्ध्यमथ च
स्मृतिभ्रंशः सेद्धा विघटयति बुद्धिं सपदि सः ।
तया मुक्तः क्षेत्री तमसि गहने विन्दति लयं
तथा भूते किं वा जनयति16 विवेको जडमतिः ॥ ४३ ॥
प्रभावली - ४३
[[९०]]
सरोषहासम् ; शत्रुप्रशंसनाद्रोषस्तत एव च हासो यस्मिंस्तत्तथा । अथ रतिं परिहसति — अतिमुग्धे इत्यादिना । अतिमुग्धे ; अतिकोमलमनस्के इति भावः । मञ्जुभाषिणि ; तथापि तव वचन मनो हरतीति भावः । गुञ्जदित्यादि । गुञ्जन्तो व्यक्तं शब्दायमाना मधुकरा एव शिञ्जिनी धनुर्ज्या, तस्या संहिताः स्थानं प्रापिता विश्वलक्षाः जगच्छरव्याः बाणा यस्य । नित्यं विजये जागरूकस्य
2 स्तनतटगतमेतत्स्थौल्यमन्तरेऽपि सङ्क्रामति - क, ग,
स्वद्वल्लभस्य मम । का प्रज्ञा, मोक्षविषयिणी बुद्धिः कीदृशी, नास्तीत्यर्थः । केन साधनेन कस्य वा पुरुषस्य मुक्तिर्भविष्यति । सर्वे गगनकुसुमवदत्यन्तासम्भाव्यमित्यर्थः । सौक्ष्म्याभावात् परिहसति — किमित्यादि । अयि प्रिये, भवत्या मध्ये यथा सौक्ष्म्यं दृश्यते, तथा मानसे बुद्धावपीत्यर्थः, सौक्ष्म्यं सूक्ष्मता न दृश्यते । विहस्य तदुत्प्रेक्षते – तव मनसः स्थूलत्वस्य मूलं मया विदितमित्यर्थः । नूनमित्युत्प्रेक्षते । बहिः स्थितयोः स्तनयोर्गतमिदं स्थूलत्वमन्तर्मनस्यपि सङ्क्रान्तमिति । अविचारितरमणीयम् ; आपातमनोहरं स्त्रीणा स्वाभाव्यं स्वभावः तद्भवत्यामपि वर्तते । तद्विहाय मम सामर्थ्य पश्येत्याह - मयादिष्ट इत्यादिना । मया कामेनादिष्टः प्रहितः क्रोधः, “ कामात् क्रोधोऽभिजायते " इत्युक्तेः ।
[[९२]] ;
कामालाभात् क्रोधप्रवृत्तिः । कोपप्रवृत्तेः पुरुषस्य किमपि वाचामगोचरम् । आन्ध्यम्, कार्याकार्यविवेकज्ञानाभावं प्रथयति विस्तारयति । अथ चः क्रोधान्ध्यप्रात्यनन्तरम् । स्मृतिभ्रंशः सेद्धा ; सम्मोहद्वारा स्मृतिभ्रंशः सेत्स्यति । सम्मोहः अज्ञानम् । सः ; स्मृतिभ्रंशः बुद्धि प्रज्ञा शीघ्रं विघटयति शिथिलयति । तया प्रज्ञया मुक्तः जीवः गहने तमसि अज्ञाने संसारे विलयं नाशं विन्दति । तथा भूते पुंसि ; इत्थम्भावमापन्ने । मन्दमतिः विवेकः किं जनयति ; प्रज्ञादि-मोक्षपर्यन्तेषु किं वा जनयितुं शक्नोति, न किमपीत्यर्थः । प्रज्ञाबलान्मोक्षसिद्धिरिति यत् त्वयोक्तं तत् सत्यम् ; मम मन्त्रशक्त्या प्रज्ञैव नोत्पद्यत इति भावः । अत्र
" सङ्गात्सञ्जायते कामः
कामात्क्रोधोऽभिजायते ।
क्रोधाद्भवति सम्मोहः
सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो
बुद्धिनाशात्प्रणश्यति ॥ "
इति श्रीभगवद्गीतावचनमनुसन्धेयम् ॥ ४३ ॥
प्रभाविलासः - ४३
दीर्घबुद्धिबलेन ; विमर्शवता । उत्साहादीनां विवेकमूलतया
तदुक्तिः । प्रज्ञावलम् ; ब्रह्मज्ञानसामर्थ्यम् । शिञ्जिनी ; मौर्वी । गुञ्जन्तश्चरन्तश्च ते मधुकराश्च त एव शिञ्जिनी, तया संहिता संयोजितेत्यादिरर्थः ।
" सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते 1
क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ "
[[९१]]
इति श्रीगीतोत्तमनुसन्धत्ते - मयेति । अत्र मयेति काम उक्तः । कामो नाम सङ्गस्य विपाकावस्था, पुरुषो यां दशामापन्नो विषयान भुक्त्वा स्थातुं न शक्नोति । मया क्रोध इति कार्यकारणभाव उक्तः । कामे वर्तमाने विषये चासन्निहिते क्रोधो भवतीत्यर्थः । स च क्रोधः सन्निहितसकलपुरुष - विषय इत्याह— आदिष्ट इति । आ समन्तादभितो दिष्ट इत्यर्थः । अत अभिजायते " इत्युक्तम् । ईश्वरोऽपि क्रोधमभिनयन् कस्मिंश्चिदेव रक्षसि मुह्यति - “सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम् " इति । आन्ध्यम् ; कृत्याकृत्य विवेकशून्यताम् । अनेन मोहशब्दो विवृतः ।
एव समित्युपसर्गार्थमाह —— किमपीति । पश्चाद्विषयसन्निधानेऽप्यनिवृत्तमित्यर्थः । अथ चेत्यानन्तर्येण स्मृतिभ्रंशं प्रति सम्मोहस्य प्रयोजकत्वमुक्तम् । सावान्तव्यापारात् सम्मोहादित्यर्थः । अभाषि चावान्तरव्यापारः - " तया सर्वे करोति” इति । स्मर्यते च - " क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्यागुरूनपि " इति । स्मृतिभ्रंशः ; प्रारम्वेन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशः सेद्धा सिद्धो भवति । सः ; स्मृतिभ्रंशः । बुद्धिं विघटयति ; अत्र बुद्धिपदेनेतः पूर्वमात्मदर्शनासिद्धेर्भविष्यदात्मदर्शनस्य नाशा योग्यत्वात् तल्लिप्सया कृतस्तदुपायानुष्ठानाध्यवसायो विवक्षितः । प्रणश्यतीति प्रतीकं व्याचष्टे - तमसीति । आत्मनः स्वरूपनाशासम्भवात् यथावस्थिताकारानुपलम्भ एवात्र विनाश इति भावः । लयम् ; लीनताम् । तथा भूते ; एवं सति । किं वा जनयति ; न किमपीत्यर्थः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तद् एवम् अ-सह्य-वेगम् अस्मद्-व्यूहं
विवेकामात्याः शम-दमादयो न प्रसहिष्यन्ते ।
स्वयं च दुर्जयो
निखिल-सुरासुर-कोटीर+++(=जटा)+++-विन्यस्त-वाम-पादो17
महा-मोहः ।
न हि भवति तरक्षुर्+++(=hyena)+++ मृग-राजस्य18 परिपन्थी19 ।
परस्य पुरुषस्येव +++(→शङ्ख-चक्र-गदा-शार्ङ्ग-खड्गानीव)+++
पञ्चभिश् च ममायुधैः ।
समयेषु विमथ्यन्ते
सत्त्ववन्तोऽपि शत्रवः ॥ ४४ ॥
मूलम् - ४४
तदेवमसह्यवेगमस्मद्व्यूहं विवेकामात्याः शमदमादयो न प्रस-
हिष्यन्ते । स्वयं च दुर्जयो निखिलसुरासुरकोटीरविन्यस्तवामपादो17
महामोहः । न हि भवति तरक्षुर्मृगराजस्य18 परिपन्थी19 ।
परस्य पुरुषस्येव पञ्चभिश्च ममायुधैः ।
समयेषु विमथ्यन्ते सत्त्ववन्तोऽपि शत्रवः ॥ ४४ ॥
प्रभावली - ४४
(विष्कम्भः)
अस्मद्वयूहम ; अस्माकं बलविन्यासम् । सोढुं न समर्था भविष्यन्ति । स्वयं शूरस्य महामोहस्यास्मदपेक्षापि नास्तीत्याह – स्वयं चेति । तरक्षुः ; मृगादनः । परिपन्थी ; प्रतिभटः । स्वस्यापि शत्रुविध्वंसकत्वमाह - परस्येति । परस्य पुरुषस्य ; पुरुषोत्तमस्य विष्णोरिव । ममापि पञ्चभिरायुधैः ; शङ्खचक्रादिवत् अरविन्दाशोकादिभिः । अतिबलवन्तोऽपि शत्रवः समयेषु तत्तदवसरेषु विमथ्यन्ते निरस्यन्ते ॥ ४४ ॥
प्रभाविलासः - ४४
[[९३]]
न हीत्यादि । तरक्षुः ; क्षुद्रव्याघ्रः । परस्येति । पञ्चभिश्च ममायुधैः ; अरविन्दाशोकचूतनवमल्लिकानीलोत्पलैः । अन्यत्र शङ्खचक्रगदाखड्गशार्ङ्गैः । समयेषु ; वसन्तादिकालेषु, धर्मविप्लवेषु च । सच्चवन्तः सात्त्विकाः, बलवन्तश्च । शत्रवः ; विवेकादयः, असुराश्च ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अपि च,
अलम् इह विबुधाद्यैर् - आगम-ग्राह्य-वाचो
मुनि-परिषदि धर्मान् गायतो मुक्ति-हेतून् ।
तपसि नियत-वृत्तेस् तस्य +++(नर-नारायणावतारे)+++ देवस्य शान्तिं
+++(अप्सरो-गर्व-भङ्गाय)+++ जनित-युवति-रत्नं+++(→ऊर्वशीं)+++ दर्शयत्य् ऊरु-काण्डम् ॥ ४५ ॥
मूलम् - ४५
अपि च,
अलमिह विबुधाद्यैरागमग्राह्यवाचो
मुनिपरिषदि धर्मान् गायतो मुक्तिहेतून् ।
तपसि नियतवृत्तेस्तस्य देवस्य शान्तिं
जनितयुवतिरत्नं दर्शयत्यूरुकाण्डम् ॥ ४५ ॥
प्रभावली - ४५
किं बहूक्त्या । बदरिकाश्रमतापसो नारायणोऽपि मया जित इत्याह- [[९४]] अलमिहेति ।
इह ; अस्मिन् जगति । मच्-छत्रु-विमथनप्रसङ्गे
विबुधाद्यैः सुरासुरगन्धर्वाद्यैः कीर्तितैर् अलम् ।
आगमवत् ग्राह्या स्वीकार्या वाचो यस्य तस्य ;
आगमवद् ग्राह्याणि वाचो वचनानि येषा तान् वा ।
धर्मान् धर्मशास्त्राणि ।
मुक्ति-हेतून् मुनीनां परिषदि गायत उपदिशतः ।
तपसि आत्म-ध्याने नियतवृत्तेः तस्य देवस्य श्रीमतो नारायणस्य ; शान्तिम् ; विषयाद्विरक्तिम् ।
जनित-युवतिरत्नम् ; युवतिरत्नम् ; ऊर्वशीम् । सृष्टोर्वशीकम् । ऊरुकाण्डमेव ; सक्थि-दण्डमेव दर्शयति । शान्तिर्यद्यस्ति स्त्रीसृष्टिर्विरुध्येतेति भावः । तत्राप्यूरुतः सृष्टिर्विशेषतो विरुद्धा । मुक्ति हेतून धर्मान् ; निवृत्तिधर्मानित्यर्थः ॥ ४५ ॥
प्रभाविलासः - ४५
पुरा किल नर-नारायणावतारे
नारायण-समाधि-भङ्गार्थम् इन्द्र-प्रेषिते ऽप्सरोगणे स्वाभिरूप्य-गर्विते
नारायणेन तद्-गर्वापनयनायोरु-प्रदेशात् स्त्री-रत्नं निष्पाद्य दर्शितम् इति
भागवतादिषु प्रसिद्धम् ।
तदेतत् स्वानुकूल्येनानु-सङ्धत्ते - अलमिति । विबुधाद्यैः ; इन्द्रादिभिः । अलमिति प्रतिषेधे । तेषाम् मदधीनता स्पष्टेत्यर्थः । आगमग्राह्यवाचः ; वेदतुल्यवचसः । अनेन पाञ्चरात्रोपदेशो लक्षितः । धर्मान् निवृत्तिधर्मान् । " निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् " इति युक्तम् । गायतः ; उपदिशतः । वाचैव धर्मबोधनम्, मनस् त्व् अन्यथेति गान-पदं प्रयुञ्जानस्य भावः । देवस्य ; नारायणस्य, “दिव्यो देव एको नारायणः " इति श्रुतेः । शान्तिम् ; इन्द्रिय-निग्रहम् । जनितं युवतिरत्नं येन तत् तथोक्तम् । रत्नशब्दः श्रेष्ठवाची ।
" जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते " इति निघण्टुः ।
ऊरुकाण्डं कर्तृ-शान्तिं दर्शयतीत्यन्वयः ॥ ४५ ॥
वैर-मूलम्
विश्वास-प्रस्तुतिः
रतिः – अय्यउत्त, सम्भावेमि सच्चं तुह भासिअम् । अन्बह्मकीडम् अप्पडिहअं खु तुह माहप्पम् । एदम् उण अण्णाअपुवम् आणवेदु अय्यो ।
( आर्यपुत्र सम्भावयामि सत्यं तव भाषितम् ।
आब्रह्मकीटम् अप्रतिहतं खलु तव माहात्म्यम् ।
एतत् पुनर् अज्ञात-पूर्वम् आज्ञापयत्व् आर्यपुत्रः । )
कामः– किं तत् ?
रतिः – विवेअप्पहुदीणं महामोहम्पहुदीणम् अ
मिअन्दमाअङ्गाणं विअ किण्णिमित्तं वेरन्ति ।
(विवेक-प्रभृतीनां महा-मोह-प्रभृतीनां च
मृगेन्द्र-मातङ्गानाम् इव किन्-निमित्तं वैरम् इति । )
कामः - प्रिये, आकर्ण्यताम् इदम् आदितः प्रभृति-
त्रि-गुण-घटिताद् भोक्तुर् +++(जीवाद्)+++ बुद्धिः सती तद्-अनुव्रता
समय-नियतोच्छ्रायं +++(सत्त्व-रजस्-तमसा)+++ त्रेधा कुलं समजीजनत् ।
प्रथमम् इह तद् भोग-द्वेष्यं +++(सत्त्व-प्रधानं)+++ विवेक-पुरःसरं
द्वितयम् इतरज् जुष्टं राग-प्रमोद-मुखं मिथः ॥ ४६ ॥
मूलम् - ४६
रतिः – अय्यउत्त, सम्भावेमि सच्चं तुह भासिअम् । अन्बह्मकीडम् अप्पडिहअं खु तुह माहप्पम् । एदम् उण अण्णाअपुत्रम् आणवेदु अय्यो ।
( आर्यपुत्र सम्भावयामि सत्यं तव भाषितम् । आब्रह्मकीटम-
प्रतिहतं खलु तव माहात्म्यम् । एतत्पुनरज्ञातपूर्वमाज्ञापयत्वार्यपुत्रः । )
कामः– किं तत् ?
रतिः – विवेअप्पहुदीणं महामोहम्प हुदीणम् अ मिअन्दमा- अङ्गाणं विअ किण्णिमित्तं वेरन्ति ।
(विवेकप्रभृतीनां महामोहप्रभृतीनां च मृगेन्द्रमातङ्गानामिव
किन्निमित्तं वैरमिति । )
कामः प्रिये, आकर्ण्यतामिदमादितः प्रभृति-
त्रिगुणघटिताद्भोक्तुर्बुद्धिः सती तदनुव्रता
समयनियतोच्छ्रायं त्रेधा कुलं समजीजनत् ।
प्रथममिह तद्भोगद्वेष्यं विवेकपुरःसरं
द्वितयमितरज्जुष्टं रागप्रमोदमुखं मिथः ॥ ४६ ॥
प्रभावली - ४६
सम्भावेमीत्यादि । सम्भावेमि - सम्भावयामि । ससत्यम् । तुह भासि- अं तव भाषितम् । अब्बह्मकीडं - आब्रह्मकीटम् । अप्पडिहअं- अप्रतिहतम् । खुखलु । तुह माह पन्तव माहात्म्यम् । एवम् उण - एतत्पुनः । अण्णाअपुव्वं- अज्ञातपूर्वम् । आणवेदु - आज्ञापयतु । अय्यउत्तोभार्यपुत्रः । किं तत् ; अज्ञातपूर्व वृत्तान्तम् । विवेअप्पहुदीणमित्यादि । विवेअप्पहुदीर्णविवेकप्रभृतीनाम् । महामोहप्पहुदीणं - महामोहप्रभृतीनाम् । विअ - अपि । मिअन्दमादङ्गाणं विभमृगेन्द्रमातङ्गानामिव सिहगजानामिव । किण्णिमित्तं वेरन्ति - किनिमित्तं वैरमिति । अत्र मृगेन्द्रमातङ्गानामिति शाश्वतिकविरोधदर्शने दृष्टान्तीकुर्वत्या विवेकादीनां मृगेन्द्रत्वं महामोहादीनां मातङ्गत्व च शब्दशक्त्या प्रतिपादितमिति विधिनैव विवेकादीनां बाधकत्वमितरेषां बाध्यत्वं च सूचितमिति भावः ।
[[९६]]
पृष्टं प्रतिवक्तुमुपक्रमते - त्रिगुणघटितेति । तदनुव्रता ; भोक्तुर्धर्मत्वात् तदविनाभूता । बुद्धिः ; मतिरेव । सती ; पत्नी । त्रिगुणघटितात् ; त्रयाणां गुणाना समाहारस्- त्रिगुणम् ; पात्रादित्वात् ङीप्प्रतिषेधः । यद्वा त्रयो गुणा यस्येति त्रिगुण प्रधानम्, तेन घटितात् सम्बद्धात् । भोक्तुः ; जीवात् । समयनियतोच्छ्रायम् ; सत्त्व-रजस्-तमसा तत्-तत्-समयेषु नियत उच्छ्राय उन्नतिर्यस्य तत् । कुलं त्रेधा समजीजनत् ।
इह ; अस्मिन् कुलत्रये ।
प्रथमम् ; सत्त्वप्रधानं विवेकपुरःसरम् । तद्-भोगो द्देष्यो यस्य तत् । यद्वा तद्भोगस्य द्वेष्यं शत्रुरिति तत्संसारपराङ्मुखं भवतीत्यर्थः । रागमुखं प्रमोहमुखं च इतरत् ; द्वितीयं तृतीयं च कुलम् । मिथः अन्योन्यं च जुष्टं सङ्गतं भवति ॥ ४६ ॥
प्रभाविलासः - ४६
"
[[९५]]
वैरस्य निदानं वक्तुं विवेकमोहादीनामुत्पत्तिं निरूपयति-
त्रिगुणेति । त्रिगुणघटितात् ; त्रिगुणात्मकप्रकृतिसंसर्गिणः । भोक्तुः ; जीवात् । भोक्तृत्वमेवास्य स्वाभाविकं निरूपकं चेति तस्य प्रवृत्तिनिमित्ततया निर्देशः । बुद्धिः ; धर्मभूतज्ञानम् । सती ; पुरुषान्तरानुभवानह । अनेन स्वप्रकाशत्वमुक्तम् । स्वतः स्वस्मै भासमानत्वं हि तत् । अनुव्रता ; नित्यमनुसृत्य स्थिता । “ न हि द्रष्टुर्हष्टेर्विपरिलोपो विद्यते " " न विज्ञातुर्विज्ञानेर्विपरिलोपो विद्यते " इति श्रुतेः । समयनियतोच्छ्रायम् ; तत्तत्कालनियतौन्नत्यम् ; सत्त्वाद्यभिव्यक्तिकालनियताभिव्यक्तिकमित्यर्थः । तदुक्तमेकादशे-
" पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः ।
कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसावृतम् ॥
इति । त्रैविध्यमेव विशिनष्टि – प्रथममिति । स्वहेतुभूतसत्त्वगुणप्राथम्येन
विवेकादेः प्राथम्यम्
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
इति श्रीगीतोतेः । अत्र ज्ञानमिति विवेकज्ञानमुच्यते, न सामान्यम् ; लोभस्यापि तद्विशेषत्वेन पौनरुक्त्यात् । तद्भोगद्वेष्यम् ; तस्य पुरुषस्य भोगो द्वेष्यो यस्येति बहुव्रीहिः । पुरःसरमुखशब्दाभ्यां शमदमकामक्रोधादयो गृह्यन्ते । तदुक्तमेकादशे-
" शमो दमस्तितिक्षा च तपः सत्यं धृतिः स्मृतिः ।
तुष्टिस्त्यागोऽस्पृहा श्रद्धा हीर्दया धीः स्वनिर्वृतिः ॥ काम ईहा मदस्तृष्णा दम्भः स्तम्भो भिदा सुखम् । मदोत्साहौ यशः प्रीतिहस्यं वीर्यं बलोद्यमौ ॥ क्रोधो लोभोऽनृतं हिंसा याच्या दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्रा शान्तिरनुद्यमः । सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः ।
वृत्तयो वर्णितप्रायाः सन्निपातं ततः शृणु ॥ "
इति । विष्णुभक्त्यादेरपि सत्त्वादिप्रकृतिकत्वं तत्रैवोक्तम्-
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव वा ।
[[९८]] यदा चाशिष आशास्य मां भजेत स्वकर्मभिः । तं रजः प्रकृतिं विद्याद्धिसामाशास्य तामसम् ॥
इति, " सात्त्विक्याध्यात्मिकी श्रद्धा” इति च । रागप्रमोदमुखमिति ; रागमुखं प्रमोहमेखं चेत्यर्थः । मिथो जुष्टम् अनुकूलप्रकृतिकत्वादिति
भावः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अत्र विवेको महामोहश् च समान-शीलाभिः प्रकृतिभिर् अभिषिक्तौ राजन्यौ ।+++(5)+++
तयोर् अपि,
मोहस्य धर्म-पत्नी दुर्मतिर् अपवर्ग-दोष-दृष्टिमयी ।
विषय-रस-दोष-दृष्टिः सुमतिर् अनन्या विवेकस्य ॥ ४७ ॥
मूलम् - ४७
अत्र विवेको महामोहश्च समानशीलाभिः प्रकृतिभिरभि-
षिक्तौ राजन्यौ । तयोरपि,
मोहस्य धर्मपत्नी दुर्मतिरपवर्गदोषदृष्टिमयी ।
विषय रसदोषदृष्टिः सुमतिरनन्या विवेकस्य ॥ ४७ ॥
प्रभावली - ४७
अन ; कुलत्रये । समानशीलाभिः ; विवेकस्य समानशीलाः शमदमा दय ; महामोहम्य कामक्रोधादयः । गुणतः समानशीलाभिः । प्रकृतिभिः ; प्रजाभिः । राजन्यौ ; राजानौ । मोहस्येति । आर्या वृत्तम् । दुर्मतेः स्वरूपमाह - अपवर्गेति । अपवर्गे दोषदर्शनरूपा । सुमतेः स्वरूपमाह - विषयेति । विषयाः शब्दादयः । रसोऽनुभवः । तत्र दर्शनम् । अनन्या अनुकूला ॥ ४७ ॥
प्रभाविलासः - ४७
समानशीलाभिः ; समानस्वभावाभिः । प्रकृतिभिः ; अमात्यादिभिः ।
" प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे ।
छन्दः कारणगुह्येषु जन्त्वमात्यादिमातृषु ॥ "
1
इति निघण्टुः । दुर्मतिसुमती लक्षयति — मोहस्येति । अपवर्गे दोषदर्शनं दुर्मतिः । विषयरसे दोषदर्शनं सुमतिरित्यर्थः । अनन्या ; भार्या ॥ ४७ ॥
विश्वास-प्रस्तुतिः
रतिः - तदो तदो ।
(ततस्ततः)
कामः - 20 ततश् च रजः-प्रधाना रागादयस्
तमः-प्रसूतेः संसार–चक्र-वर्तिनो महा-मोहस्य
दैत्यानुकूल21–रक्षः-कुल-न्यायेन साचिव्यम् आचरन्ति ।
सत्त्व-सम्भवं तु विवेक-कुलम् अ-सहायम् अल्प-सारं च
जगति वर्तते ।
जनकश् चास्माकं क्षेत्र-ज्ञः+++(=जीवः)+++ स्वयं मध्य-स्थ–स्व-भावोऽपि
सह-धर्म-चारिण्या देव्या बुद्ध्या सहाद्य यावद्
अस्मासु बहुलं दत्त-दृष्टिः ।
तद् इदम् अ-सहमाना नित्य-नृशंसा विवेकादयो
जाति-वादिन+++(=स्व-व्याघातकोत्तरवादिन)+++ इव स्व-भङ्गम् अप्य् अनुमन्यमानाः
पुरुषस्य भोगं तत्-संवर्धकान् अस्मांश् चोत्सादयितुम् ईहन्ते ।
अस्मत्-तातेन चानादि-भुक्तायां प्रकृतौ
विविधान् दोषान् उद्घाट्य
तातं च तस्याम् उपजनित-वैराग्यं
केनचिद् उपायेन विघटय्य22
महाप्रस्थानेनापुनर्-आवर्तिनं कर्तुम् आरभन्ते23 ।
तथा मर्कट-रक्षः-पती महापातकिनौ सुग्रीव-विभीषणौ स्वकुलोत्सादने प्रमाणयन्ति[^91] ।
(न च तद्-आरम्भ-समये तातस्य दुर्दशा शक्या वर्णयितुम् । अयं खलु,
जात्य्-अन्धः परदोष-दृष्टिषु परीवादेषु मूकाग्र-णीः
बाधिर्य-प्रथमावतार-सरणिर् निन्दा-समाकर्णने ।
स्त्री-प्रायः पर-दार-संग्रह-विधौ तद्वत् परावर्जने
संपद्येत समीक्षणेऽपि विकलः पापैर् विवेकादिभिः ॥)
अत एवास्माभिर् अपि परित्यक्त-सौभ्रात्रैस्
तेऽमी दुरात्मानो जिघांस्यन्ते ।
ततः24 प्रवृत्ति-निवृत्ति-पद्धती समाश्रित्य
वयं च ते च संयतिष्यामहे ।
तदा तदा तु25 सत्त्वप्रधानं कुलं
ज्योतिर्-इङ्गण+++(=खद्योत-कीट)+++-ज्योतिर् इव द्युमणि-किरणैर् अस्माभिर् अभिभूयते ।
सौहार्दम् इत्थम् अनवाप्य सहोदराणाम्
आसीत् स्व-मूल-गुण-भेद-वशाद् विरोधः ।
एक–प्रजा-पति-भुवाम् अपि वैर-बन्धः
स्वात्मावधिः स्वयम् उदेति सुरासुराणाम् ॥ ४८ ॥+++(5)+++
मूलम् - ४८
रतिः तदो तदो ।
(ततस्ततः)
कामः - 20 ततश्च रजःप्रधाना रागादयस्तमःप्रसूतेः संसारचक्रवर्तिनो महामोहस्य दैत्यानुकूल21 रक्षःकुलन्यायेन साचिव्यमाचरन्ति । सत्त्वसम्भवं तु विवेककुलमसहायमल्पसारं च जगति वर्तते । जनकश्चास्माकं क्षेत्रज्ञः स्वयं मध्यस्थस्वभावोऽपि सहधर्मचारिण्या देव्या बुद्धचा सहाद्य यावदस्मासु बहुलं दत्तदृष्टिः । तदिदमसहमाना नित्यनृशंसा विवेकादयो जातिवादिन इव स्वभङ्गमप्यनुमन्यमानाः पुरुषस्य भोगं तत्संवर्धकानस्मांश्चोत्सादयितुमीहन्ते ।
अस्मत्तातेन चानादिभुक्तायां प्रकृतौ विविधान् दोषानुद्धाट्य तातं च तस्यामुपजनितवैराग्यं केनचिदुपायेन विघटय्य22 महाप्रस्थानेनापुनरावर्तिनं कर्तुमारभन्ते23 । तथा मर्कटरक्षःपती महापातकिनौ सुग्रीवविभीषणौ स्वकुलोत्सादने प्रमाणयन्ति[^91] ।
(न च तदारम्भसमये तातस्य दुर्दशा शक्या वर्णयितुम् । अयं खलु,
जात्यन्धः परदोषदृष्टिषु परीवादेषु मूकाग्रणीः बाधिर्यप्रथमावतारसरणिर्निन्दासमाकर्णने । स्त्रीप्रायः परदारसंग्रहविधौ तद्वत्परावर्जने संपद्येत समीक्षणेऽपि विकलः पापैर्विवेकादिभिः ॥ ४८ ॥)
अत एवास्माभिरपि परित्यक्त सौभ्रात्रैस्तेऽमी दुरात्मानो जिघांस्यन्ते । ततः24 प्रवृत्तिनिवृत्तिपद्धती समाश्रित्य वयं च ते च संयतिष्यामहे । तदा
तदा तु25 सत्त्वप्रधानं कुलं ज्योतिरिङ्गणज्योतिरिव द्युमणिकिरणैरस्माभि-
रभिभूयते ।
सौहार्दमित्थमनवाप्य सहोदराणा-
मासीत्स्वमूलगुणभेदवशाद्विरोधः ।
एकप्रजापतिभुवामपि वैरबन्धः
स्वात्मावधिः स्वयमुदेति सुरासुराणाम् ॥ ४८ ॥
प्रभावली - ४८
[[९९]]
तदो सदो - ततस्ततः । परवृत्तान्तं कथयेत्यर्थः । रागादय इति । तमः प्रसूतिरुत्पत्तिस्थानं यस्य तस्य महामोहस्य । संसारचक्रं वर्तयतीति संसारचक्रवर्ती । यद्वा संसारस्य चक्रवर्ती सार्वभौमः । रक्षः कुलं दैत्यानुकूलं यथा भवति तथा तन्यायेन । साचिव्यम् ; सचिवत्वं, साहाय्यमिति यावत् । सत्त्वं सम्भव उत्पत्तिस्थानं यस्य तत् । विवेककुलमसहायम् ; कुलान्तरसाचित्र्यरहितम् । अत एवाल्पबलम् । क्षेत्रज्ञः ; जीवः । अद्य यावत् ; एतद्दिनावधीत्यर्थः । बहुलम् ; अधिकम् । दत्तदृष्टिः ; दत्ताभिमुख्यः । नित्यनुशंसाः ; आश्रितचातुकाः ।
जातिवादिनः ; स्व-व्याघातकोत्तरवादिन इव । पुरुषस्य ; भोक्तुः । उत्सादयितुं नाशयितुमुद्युञ्जते । अनादिकालमारभ्य भुक्तायां विविधान् दोषान्
[[१००]]
अल्पास्थिरत्वादिदोषान् उद्घाट्य प्रकाश्य तस्यां प्रकृतौ जातवैराग्यं विघटय्य विघटनं कारयित्वा अपुनरावर्तिनं पुनरावृत्तिरहितं कर्तुम् । मर्कटपतिः सुग्रीवः । रक्षः पति ;
विभीषणः । उत्सादनविषये प्रमाणयन्ति ; प्रमाणतया उदाहरन्ति । अत एव स्वकुलोत्सादने प्रवृत्ततया । ते ; विवेकादयोऽपि । हन्तुमिष्यन्ते । ततः प्रभृति ; तत आरभ्येत्यर्थः । वयम ; प्रवृत्तिपद्धतिमाश्रिताः ।
दृष्टान्तः
ते च निवृत्तिपद्धतिमाश्रिताः । संयतिष्यामहे ; सन्नद्धा भविष्यामः । सत्रप्रधानं सत्त्वमूलं कुलं विवेकसम्बन्धि गोत्रम् । ज्योतिरिङ्गणः ; खद्योतः । तज्योतिरिव द्युमणिसदृश किरणैः अस्माभिः परिभूयते । सहोदराणां कथं विरोधः सञ्जात इत्यत्र समाधि दृष्टान्तेनोपपादयति– सौहार्दमिति । इत्थम् ; उक्तप्रकारेण । सहोदराणामपि विवेकादीना महामोहादीनां च सौहार्द स्नेहमप्राप्यैव स्वस्वकारणभूतसत्त्वादिगुणवशाद्विरोधः संवृत्तः । एक एव कश्यपप्रजापतिः, तस्माज्जातानामपि सुराणामसुराणा च । स्वात्मावधिः ; स्वस्वरूपमवधिर्यस्य स इत्यर्थः । वैरबन्धः ; बध्यत इति बन्धः ; वैररूपो बन्धविशेषः । स्वयम् ; निर्निबन्धनमुदेति हि । तद्वत् ॥ ४८ ॥
प्रभाविलासः - ४८
दैत्याः दितिगर्भजाः । अद्य यावत् एतद्दिनावधि । स्वव्या-
घातकमुत्तरं जातिः । अनादिभुक्तायामिति भुजिष्यासमाधिः । अपुनरावर्तिनमिति भर्त्सनोक्तिः संसारबन्धरहित मित्यर्थः । प्रवृत्तिपद्धतिः संसारमार्गः । निवृत्तिपद्धतिर्मोक्षमार्गः । ज्योतिरिङ्गणः ; खद्योतः ।
[[१०१]]
विरोधं सनिदर्शनमाह – सौहार्दमिति । सहोदराणामिति एकमातृप्रसूतत्वमुक्तम् । एकप्रजापतिभुवामिति एक पितृकत्वमात्रोक्तिः, तेषां भिन्नोदरत्वात् । प्रजापतिः कश्यपः । अत्र निदर्शनालङ्कारः, प्रोक्तसिद्ध्यै यः सिद्धेऽर्थे सा निदर्शना " इति लक्षणात् ॥ ४८ ॥
सन्ध्य्-असम्भवः
विश्वास-प्रस्तुतिः
रतिः - सन्तं पावं सन्तं पावम् ।
पुत्ता एव्व पिदुणो भोअं विणासेन्ति26 ।
तह27 कहं सोअरा एव्व इअरेअर विद्धंसणलं पडहि- अआ होन्ति ।
णाह किं ण होज्ज ताणं तुम्हाणं वि समरदुद्दसाणिवारणसाहणं28 सन्धिः
( शान्तं पापं, शान्तं पापम् ।
पुत्रा एव पितुर् भोगं विनाशयन्ति29 ।
तथा कथं सोदरा एवेतरेतर-विध्वंसन-लम्पट-हृदया भवन्ति ।
नाथ, किं न भवेत् तेषां युष्माकम् अपि समर-दुर्दशा निवारण-साधनं सन्धिः ?)
कामः — मुग्धे, कथञ्चिद् अपि नात्र सन्धिः सम्भाव्यते ।
स्वतः30 सत्त्व-विहीनानां
सत्तयैवापराध्यताम्31 ।
कथङ्-कारं प्रतीकारः
कल्प-कोटि-शतैर् अपि ॥ ४९ ॥+++(4)+++
मूलम् - ४९
रतिः - सन्तं पावं सन्तं पावम् । पुत्ता एव्व पिदुणो भोअं विणासेन्ति26 । तह27 कहं सोअरा एव्व इअरेअर विद्धंसणलं पडहि- अआ होन्ति । णाह किं ण होज्ज ताणं तुम्हाणं वि समरदुद्दसाणिवारणसाहणं28 सन्धिः
( शान्तं पापं शान्तं पापम् । पुत्रा एव पितुर्भोगं विनाशयन्ति29 । तथा कथं सोदरा एवेतरेतर विध्वंसनलम्पटहृदया भवन्ति । नाथ, किं न भवेत्तेषां युष्माकमपि समरदुर्दशा निवारणसाधनं सन्धिः ?)
कामः — मुग्धे, कथञ्चिदपि नात्र सन्धिः सम्भाव्यते ।
स्वतः30 सत्त्वविहीनानां सत्तयैवापराध्यताम्31 ।
कथङ्कारं प्रतीकारः कल्पकोटिशतैरपि ॥ ४९ ॥
प्रभावली - ४९
[[१०२]]
सन्तं पावं - शान्तं पापम् । दुर्वार्ताश्रवणजनितपापस्य शान्तिः प्राथ्यतेपापं शान्तमस्त्विति । पुत्ता एव्व पुत्रा एव । पिदुणो भोअं पितुर्भोगम् । विणासेन्ति - विनाशयन्ति । कहं सोअरा एव्व कथं सोदरा एव । इअरेअर- इतरेतर । विद्धंसणलम्पडहिअआ होन्ति-विध्वंसनलम्पटहृदया भवन्ति । नाहनाथ । किं ण होज्ज-किं न भवेत् । ताणं तुम्हाणं वि तेषां युष्माकमपि ।
समग्दुद्दसाणिवारणसाहणं सन्धिसमरदुर्दशानिवारणसाधनं सन्धिः । अत्र ; अस्मिन् विषये । कथञ्चिदपि ; केनापि प्रकारेण । न सम्भाव्यते ; न सम्पद्यते । इदमेवोपपादयति-सत इति ।
सत्त्व-विहीनानाम् ; असतां दुर्जनानां च ।
सत्तयैव ; स्वसद्भावेनैव । अपराध्यतः ; अपराधं कुर्वतः ।
सतः ; विद्यमानस्य सत्पुरुषस्य च ।
" अन्यथैवङ्कथमित्थंसु सिद्धाप्रयोगश्चेत् " इति णमुल् ।
तमःप्रकाशयोरिव सदसतोः प्रयुक्तो विरोधस्तदन्यतरासद्भावमन्तरेण दुष्परिहर इति भावः ॥ ४९ ॥
प्रभाविलासः - ४९
सन्ध्यनुपपत्तिमेव निदर्शनेनाभिव्यनक्ति स्वत इति स्वभावत
[[१०३]]
एव । सत्त्वविहीनानां प्रतीकारः ; अविरोधः । यद्वा सतः सात्त्विकस्य । सत्तयैवापराध्यत इति पाठः ; स्वरूपमेव विरोधनिमित्तमिति तन्निवृत्तिमन्तरेण न प्रतीकारसम्भव इत्यर्थः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अपि च,32
प्रतिपुरुष-विभक्त-मूर्ति-भेदा
वयम् इतरे च मिथः प्रतीप-वृत्ताः ।
क्वचिद् अधिकरणे समापतन्तः
सुतनु दधीमहि वध्य-घातकत्वम्33 ॥ ५० ॥
मूलम् - ५०
अपि च,32
प्रतिपुरुषविभक्तमूर्तिभेदा
वयमितरे च मिथः प्रतीपवृत्ताः ।
क्वचिदधिकरणे समापतन्तः
सुतनु दधीमहि वध्यघातकत्वम्33 ॥ ५० ॥
प्रभावली - ५०
।
सन्धिर्न भवतीत्युक्तम् ; इदानीं कथञ्चित्सम्भवेऽप्यन्यतरहानिः स्यादित्याह — प्रतिपुरुषेत्यादि । यद्वा ननु व्यधिकरणासक्तानां भवतां तेषां च विरोध एव कथमित्याशङ्क्य यत्र सामानाधिकरण्यं तत्र विरोधः स्यादित्याह - प्रतिपुरुषेति । पुरुषे पुरुषे प्रतिपुरुषम् । विभक्तस्वरूपभेदाः वयं महा-
[[१०४]] मोहादयः इतरे विवेकादयश्च । मिथः ; अन्योन्यम् । प्रतीपवृत्ताः ; प्रतिकूलवर्तिनः क्वचित् एकस्मिन् अधिकरणे सङ्गताः सन्तः, हे सुतनु वध्यत्वं धातुकत्वं च वयं दधीमहि धारयामः ॥ ५० ॥
प्रभाविलासः - ५०
प्रतिपुरुषेति । पुरुषे पुरुषे ; अधिकरणभेदादित्यर्थः । विभक्तो मूर्तिभेदो व्यक्तिभेदो येषां ते तथोक्ताः । यद्वा प्रतिपुरुषं पुरुषं पुरुषं
प्रति विभक्तः कालभेदेनेत्यर्थः, मूर्तिभेदो येषां ते तथोक्ताः । वयमितरे च मिथः प्रतीपवृत्ताः ; अन्योन्यं प्रतिकूलव्यापाराः सन्तः । क्वचित् ; एकस्मिन् कालरूपे देशरूपे च । वध्यघातुकत्वम् ; वध्यत्वं घातुकत्वं चेत्यर्थः ॥ ५० ॥
विश्वास-प्रस्तुतिः
न34 खल्व् अर्थ-काम-पराणाम् अस्माकं
नारायण-परायणैः35 कथायाम् अपि सङ्गतिर् उपपद्यते ।
किञ् च यथा-कथञ्चिद् उपपद्यमानम् अप्य्
अखण्ड-वैरि-खण्डन-पण्डितो महामोहः
कथञ्चिद् अपि सन्धिं नानुमन्यते ।
अहं वा कथम् अ-सहाय-वीरस् तम् अनुमन्ये?
न36 खलु क्षुधितोऽपि शार्दूलः
कदाचिद् अपि शाद्वलम्+++(=नव-गृण-भुवम्)+++ अत्ति ।
मूलम् - ५१
न34 खल्वर्थकामपराणामस्माकं नारायणपरायणैः35 कथायामपि सङ्गतिरुपपद्यते । किञ्च यथाकथञ्चिदुपपद्यमानमप्यखण्डवैरिखण्डनपण्डितो महामोहः कथञ्चिदपि सन्धिं नानुमन्यते । अहं वा कथमसहायवीरस्तमनुमन्ये । न36 खलु क्षुधितोऽपि शार्दूलः कदाचिदपि शाद्वलमत्ति ।
प्रभावली - ५१
इममर्थमुपपादयतिन खल्विति । कथायामपि सङ्गतिः ; अघटितव्यवहार आख्यायिकादिषु वक्तुं शक्यते । इयं तु सङ्गतिर्न तत्रापीति भावः ।
कथञ्चिदुपपद्यमानमपीति । अखण्डा ये वैरिणः । कथञ्चिदपि ; सर्वप्रकारेणापि सन्धिं नानुमन्यते । यद्यपि कामादीनां क्वचिद्विहितविषये विवेकादिभिः सङ्गतिः सम्भवति, तथापि कुत्रापि महामोहस्य सन्धिर्नास्त्येवेति भावः । अहं वेति । तम् सन्धिम् । विहितविषयः कामः कामो न भवतीति भावः । शाद्वलम् ; तृणम् ; विवेकादिभिर्युध्मद्विजये क उपायः सम्मन्त्रित इति पृच्छतिको उणेत्यादि । को उणकः पुनः । तेहिं कुलग्घेहिं तैः कुलन्तैः विवेकादिभिः । महाबलाणं तुम्हाणं वि - महावलाना युष्माकमपि । उम्मूलणे- उन्मूलने ; उन्मूलनमुत्सादनम् । उवाओ सम्मन्तिओ उपायः सम्मन्त्रितः, विचारितः । अनुद्घाटनीयम् ; अप्रकाशनीयम् । राजकुलम् ; राजवर्गः । स्त्रीषु विशेषतो न प्रकाशनीयम्, स्त्रीणा चापल्यादिति भावः । हस्तौ सङ्गृह्य ; कामस्य पाणी गृहीत्वेत्यर्थः ।
प्रभाविलासः - ५१
न खल्विति । अत्र
" अद्य प्रभृति हे लोका
यूयं यूयं वयं वयम् ।
अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥
नास्ति सङ्गतिर् अस्माकं
युष्माकं च परस्परम् ।
वयं तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः ॥"+++(5)+++
[[१०५]]
इति वचनम् अनुसन्धेयम् ।
प्रतिपक्ष-तन्त्रम्
विश्वास-प्रस्तुतिः
रतिः – अय्यउत्त, को उण तेहिं कुलग्घेहिं महाबलाणं तुम्हाणं वि उम्मूलणे उवाओ सम्मन्तिओ37 ?
( कः पुनस् तैः कुलघ्नैर्
महाबलानां युष्माकम् अप्य् उन्मूलने उपायः सम्मन्त्रितः ?)
कामः – अयि भीरु, अनुद्घाटनीयम् इदं राज-कुल-रहस्यम् ;
विशेषतः स्त्रीषु ।
रतिः – ( हस्तौ38 सङ्गृह्य) अय्यउत्त, साविदोसि मए पिअ सहेण वसन्तेण अ । सच्चं विवरिज्जउ राअउलरहस्सम् ।
(आर्यपुत्र, शापितोऽसि मया प्रिय-सखेन वसन्तेन च ।
सत्यं विव्रियतां राज-कुल-रहस्यम् ।) \
वसन्त:- (स्वगतम्)39 किम् अत्र विवरणीयम् ?
दुष्-परिहरः खल्व् अ-निर्धारित-कालो नियति-विपर्यासः ।
(प्रकाशम्) सखे मकरध्वज,
+++(न-कार्य-सहित-)+++मनो-रथ–समर्थानां
महा-मोह-विरोधिनाम् ।
मन्त्र-भेदनम् अस्माभिः
कार्यं तत्-परिपन्थिभिः ॥ ५१ ॥
मूलम्
रतिः – अय्यउत्त, को उण तेहिं कुलग्घेहिं महाबलाणं तुम्हाणं वि उम्मूलणे उवाओ सम्मन्तिओ37 ?
( कः पुनस्तैः कुलघ्नैर्महाबलानां युष्माकमप्युन्मूलने उपायः
सम्मन्त्रितः ?)
कामः – अयि भीरु, अनुद्घाटनीयमिदं राजकुलरहस्यम् ; विशेषतः स्त्रीषु ।
रतिः – ( हस्तौ38 सङ्गृह्य) अय्यउत्त, साविदोसि मए पिअ सहेण वसन्तेण अ । सच्चं विवरिज्जउ राअउलरहस्सम् ।
(आर्यपुत्र, शापितोऽसि मया प्रियसखेन वसन्तेन च । सत्यं विव्रियतां राजकुलरहस्यम् ।)
वसन्त:- (स्वगतम्)39 किमत्र विवरणीयम् ? दुष्परिहरः खल्वनिर्धारितकालो नियतिविपर्यासः ।
(प्रकाशम्) सखे मकरध्वज,
मनोरथसमर्थानां महामोह विरोधिनाम् ।
मन्त्रभेदनमस्माभिः कार्यं तत्परिपन्थिभिः ॥ ५१ ॥
प्रभावली - ५१
साविदोसि मए - शापितोऽसि मया । पिअसण वसन्तेण अप्रियसखेन वसन्तेन च । सचं विवरिज्जउसत्यं विव्रियताम् ।
[[१०६]]
राअउलरहस्सं - राजकुलरहस्यम् । न कुत्रापि प्रकाशयामीति शेषः ।
स्वान्तर्गतं यथा तथा ।
अनिर्धारितकालः, ईश्वरैकसमधिगम्यत्वाद् अस्य ।
नियतिविपर्यासः ; भाग्यविपर्ययः ।
प्रकाशमाह । शत्रूणां मन्त्रभेदनमस्माभिः कार्यमित्याह - मनोरथेति । मनोरथमात्रसमर्थानाम्, न तु कार्यतः ।
विरोधिनाम् ; विवेकादीनाम्
। तस्यं विवेकस्य परिपन्थिभिः शत्रुभिः ।
मन्त्रस्य विचारस्य भेदनं भेदः ॥ ५१ ॥
प्रभाविलासः - ५१
अनुद्घाटनीयः ; अप्रकटनीयः ।
नियतिविपर्यासः ; दैवप्रातिकूल्यम् ।
मनोरथेति । मनोरथ एव समर्थाः, न तु कार्यनिर्वाहे ।
चिन्तितार्थ-निर्वहण-समर्थानाम् इति ध्वनिः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
कामः - प्रिये, कथयामि तर्हि ।
अस्ति खल्व्
अनभिज्ञ-कुल-सार्वभौम–विवेक-हतक–
मूलाकर्तृत्वाभिमानादि–नाना-विध-विषम-दृष्टि-सह-कृतः
कश्चिद् अस्मत्-कुलाभिचार-काङ्क्षिभिर् उपनिषद्-ऊषर-निष्ठैः कैश्चिन् निष्ठुरैर् अनुष्ठीयमानो
निवृत्ति-सञ्ज्ञको धर्मः,
यन्-निष्ठस्य पुरुषस्य
पर-दोष-दर्शनादिष्व् अन्ध-बधिर-मूक-षण्डादिवद् अत्यन्तम्40 अवसन्नावस्थानम् आकर्ण्यते ।
तेन च निष्प्रतिक्रियेण केनचिद् अवग्रहेणेव पुरुषम् आविशता बुद्धिः सङ्गंस्यते ।
तस्मात् किल तत्-सङ्गमाद्
अस्मत्-कुल-प्रद्वेष-दूषित-हृदया प्रशान्त-मधुर-वेष-प्रच्छन्ना भव-रस-भोग–भीम-रथी41+++(=अपमृत्युकालविशेषः)+++ परभक्त्य्-अपर-पर्याया ब्रह्मराक्षसी प्रादुर्भविष्यति ।
तथा हि
गुण-त्रेतोन्मेष-क्रम-परिणतानन्त-विकृतिः
क्वचित् काले बुद्धिः +++(रागादि-विवेकादि-)+++कुल-युगल–कूट-स्थ+++(→जीव)+++–गृहिणी ।
अतिक्रूराऽत्यन्त-प्रलय-विधि-दुर्-मन्त्र-परुषां
पुरा+++(=समीपकाले)+++ भीमाकारां सृजति परभक्तिं परवती+++(=पराधीना)+++ ॥ ५२ ॥
मूलम् - ५२
कामः - प्रिये, कथयामि तर्हि । अस्ति खल्वनभिज्ञकुल- \
सार्वभौम विवेकहतक मूलाकर्तृत्वाभिमानादिनानाविधविषमदृष्टिसहकृतः कश्चिदस्मत्कुलाभिचारकाङ्क्षिभिरुपनिषदूषरनिष्ठैः कैश्चिन्निष्ठुरैरनुष्ठीयमानो निवृत्तिसञ्ज्ञको धर्मः । यन्निष्ठस्य पुरुषस्य परदोषदर्शनादिष्वन्धबधिरमूकषण्डादिवदत्यन्त40 मवसन्नावस्थानमाकर्ण्यते । तेन च निष्प्रतिक्रियेण केनचिदवग्रहेणेव पुरुषमाविशता बुद्धिः सङ्गंस्यते । तस्मात् किल तत्सङ्गमादस्मत्कुलप्रद्वेषदूषितहृदया प्रशान्त-
-मधुरवेषप्रच्छन्ना भवरसभोगभीमरथी41 परभक्त्यपरपर्याया ब्रह्मराक्षसी
प्रादुर्भविष्यति । तथा हि
;
गुणत्रेतोन्मेषक्रमपरिणतानन्तविकृतिः
क्वचित्काले बुद्धिः कुलयुगलकूटस्थगृहिणी ।
अतिक्रूरात्यन्तप्रलयविधिदुर्मन्त्रपरुषां
पुरा भीमाकारां सृजति परभक्तिं परवती ॥ ५२ ॥
प्रभावली - ५२
तर्हि ; अतिनिर्बन्धे इत्यर्थः । तद्वक्तुमुपक्रमते अस्ति खल्वित्यादिना । अनभिज्ञानाम् ; अज्ञातस्वनाशानाम् । विवेकमूलः ; विवेकहेतुः । अकर्तृत्वाभिमानादीति ; अत्र भगवत एव स्वतन्त्रकर्तृत्वं, न ममेत्ययमकर्तृत्वाभिमानः । आदिशब्देन सङ्गत्याग उच्यते । स एव नानाविधा विषमदृष्टिः दुर्ज्ञानं तत्सह।
कृतः । अभिचार: ; विनाशः । उपनिषदामूषरत्वं निःसारत्वात् । तच्च तत्र ब्रह्मणो विवक्षितत्वाभावात् । तन्निष्ठैः ; वेदान्तिभिः । निष्ठुरैः ; निर्दयैः, पुत्रकलत्रादित्यागेनेति भावः । निवृत्त्याख्यो धर्मः ; मोक्षार्थं क्रियमाणो धर्मः निवृत्तिधर्मः । यन्निष्ठस्य ; निवृत्तिधर्मनिष्ठस्य । दोषाणां दर्शने अन्धवत् ; श्रवणें बधिरवत् ; परस्त्रीगमने षण्डवत् ; षण्डो नपुंसकः ; परदोषकथने मूकवत् ; आदिशब्देन परदोषचिन्तने अचिद्वत् । अवसन्नम् ; कृशम् । ततश्च निवृत्तिधर्मसह कृतबुद्धिसहितस्य परभक्तिः सम्भवतीत्याहतेन चेत्यादि । तेन च ; निवृत्तिधर्मेण । निष्प्रतिक्रियेण ; निष्प्रतीकारेण, निवर्तयितुमशक्येनेत्यर्थः । अवग्रहेण ; पिशाचेनेव । पुरुषमाविशता ; पिशाचवत् पुरुषमाविशता । बुद्धि: ; कूटस्थगृहिणी प्रज्ञा सङ्गता भविष्यति । तस्मात ; पुरुषात् । तत्सङ्गमात् ; बुद्धेर्निवृत्तिधर्मसङ्गमः पुरुषद्वारेणेति न व्यभिचारदोषशङ्का । परभक्तिविशेष्यते-अस्मत्कुलेत्यादिना । परभक्तिर्महामोहादिकुलद्वेषिणी । प्रशान्तेन मधुरेण च वेषेण प्रच्छन्ना । भीमरथी ; आत्मनो भवरसानुभवविषये भीमरथी । भीमरथी नाम पुरुषस्य कश्चिद् अपमृत्युकालविशेषः,
" या सप्तसप्ततितमे वर्षे मासि च सप्तमे ।
दिने तु सप्तमे घोरा रात्रिर्भीमरथी हि सा ॥ "
इत्युक्ता ।
संसारभोगस्यापमृत्युभूतेत्यर्थः । परभक्त्यपरनामधेयवती ब्रह्मराक्षसी ; ब्राह्मणी दुष्कर्मवशात् राक्षसता प्राप्ता तथोक्ता । उत्पत्स्यत इत्यर्थः । यथा– प्रमाणं कदाचित् बुद्धिर्नियतिवशात् सत्त्वोत्तरा भूत्वा भगवति भक्तिमुत्पाद्यात्मनो मुक्ति साधयतीत्याह-गुणत्रेतेति । गुणानां सत्त्वरजस्तमसां त्रेतं त्रयं, तस्योन्मेषक्रमेणोत्पत्तिक्रमेण परिणता जायमाना अनन्ता बहुविधा विकृतयो यस्याः सा । कुलयुगलस्य रागादिकुलस्य महामोहान्तर्गतत्वात् कुलयुगलमित्युक्तिः, तस्य कूटस्थो जीवः, तस्य पत्नी बुद्धिः । परवती ; पराधीना । यद्वा भगवदायत्ता सती । क्वचित्काले ; जायमानकालकटाक्षसन्धुक्षिताचार्यप्रसस्यनन्तरकाले । अतिक्रूरेत्यादि । कुलक्षयकरत्वादतिक्रूरत्वम् । अत्यन्तप्रलयः ; मोक्षः । तस्य विधाने यो दुर्मन्त्रो दुष्टाचारः, तेन निष्ठुराम् । यद्वा दुर्मन्त्रः अष्टाक्षरमन्त्रः । तेन दुरभिभवाम्, " यत्राष्टाक्षरसंसिद्धः " इत्याद्युक्तेः । भीमा- काराम् ; भयङ्करवपुषम् । परभक्तिम् ; " दर्शनं परभक्तिः स्यात्
इति
[[११०]] भगवत्साक्षात्काररूपाम् । पुरा सृजति ; अनन्तरं स्रक्ष्यतीत्यर्थः । "
" यावत्पुरा" इति ऌडर्थे लट् ॥ ५२ ॥
प्रभाविलासः - ५२
अनभिज्ञेति । धर्मभूतविवेकज्ञाने ज्ञानभूतधर्मान्तराभावो व्यज्यते । \
[[१०७]]
अकर्तृत्वाभिमानादीत्यादिशब्देन श्रीगीतोक्तादम्भित्वादिकं गृह्यते । परदोषदर्शनादिषु इत्यत्रादिपदेन पारदार्यादिकं गृह्यते । आकर्ण्यत इति ;
‘परद्रव्येषु जात्यन्धाः परदारेष्वपुंसकाः ।
परीवादेषु ये मूकास्त एव दयिता मम ॥ "
इत्यादिष्विति भावः । सङ्गंस्यते ; सङ्गता भविष्यति । भीमरथी ; गण्ड-
विशेषः । तदुक्तम्-
सप्तत्याः सप्तमे वर्षे सप्तमे मासि सप्तमी ।
रात्रिर्भीमरथी नाम नृणां प्राणापहारिणी ॥
इति । ब्रह्मराक्षसीति ; अवग्रहसङ्गमात् ब्रह्मराक्षसीजननं युक्तमित्यर्थः । उक्तमेवार्थ सङ्कलय्याह – गुणत्रेतेति । गुणानां त्रेता त्रित्वम् । यद्यप्यमित्रये त्रेताशब्दः प्रयुज्यते, तथापि षण्डपरिषदादीनां समूहसामान्ये प्रयोगवत् प्रयोगोऽत्र द्रष्टव्यः । तस्या उन्मेषक्रमः क्रमोन्मेष इत्यर्थः । तेन परिणता अनन्ता विकृतयो यस्याः सा । तदुक्तमेकादशे-
" यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् ।
;
तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥
यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥
यदा जयेद्रजः सत्त्वं तमोमूढं जडं लयम् ।
युज्यते शोकमोहाभ्यां निद्रया हिंसयाशया ॥ "
[[१०९]]
इति । कुलयुगलकूटस्थस्य ; पुरुषस्य गृहिणी । परवती ; परतन्त्रा । क्वचित् काले ; यादृच्छिकादिसुकृतसमये । अतिक्रूरस्य ; अतिदुर्ललितस्य । कामादिविरोधितयातिक्रूरत्वोक्तिः । अत्यन्तप्रलयस्य समूलविनाशस्य मुक्तेविधौ करणे दुर्मन्त्रेण दुर्विचारेण दुर्लभाष्टाक्षरेण च परुषाम् । पुरा
सृजति स्रक्ष्यति । " यावत्पुरानिपातयोर्लट् " इति लट् । अत्र रौद्ररसशान्तरसयोः संसृष्टिः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ततश् च
प्रव्रज्यादि-युता परत्र पुरुषे पातिव्रतीं बिभ्रती
भक्तिः सा प्रतिरुद्ध-सर्व-करणं42 घोरं तपस् तप्यते ।
तुष्टा तेन जनार्दनस्य करुणा कुर्वीत तत्-किङ्करं
कञ्चित् कैटभ-कोटि-कल्पम् असुरम्, …
( इत्य् अर्धोक्ते विरमति)
[[१११]]
वसन्तः - (स्वगतम् ) स खलु सङ्कल्प–सूर्यः ; ‘निर्मूलनस् त्वेष नः’ इति शेषः । अन्यथा तु पूरयामि । ( प्रकाशम्)
शेषं पुनर् दुर्वचम् ॥ ५३ ॥+++(4)+++
मूलम् - ५३
ततश्च
प्रव्रज्यादियुता परत्र पुरुषे पातिव्रतीं बिभ्रती
भक्तिः सा प्रतिरुद्धसर्वकरणं42 घोरं तपस्तप्यते ।
तुष्टा तेन जनार्दनस्य करुणा कुर्वीत तत्किङ्करं
कञ्चित्कैटभकोटिकल्पमसुरम्
( इत्यर्धोक्ते विरमति)
[[१११]]
वसन्तः - (स्वगतम् ) स खलु सङ्कल्पसूर्यः ; ‘निर्मूलनस्त्वेष नः’ इति शेषः । अन्यथा तु पूरयामि । ( प्रकाशम्)
शेषं पुनर्दुर्वचम् ॥ ५३ ॥
प्रभावली - ५३
अथ परभक्तिकृत्यं तत्फलं चाह – प्रव्रज्येति । प्रव्रज्या विषयविरागः आदिशब्दात् त्याज्योपादेयज्ञानादयो गृह्यन्ते । परत्र पुरुषे ; परमपुरुषे । पातिप्रतीम् ; पतिव्रताभावम् । बिभ्रती सा भक्तिः प्रतिरुद्धसर्वकरणं प्रतिरुद्धानि प्रत्याहृतानि सर्वेन्द्रियाणि तेषा व्यापारा यस्मिन् कर्मणि तथा । घोरं तपस्तप्यते ;
उपासनात्मकं तप आर्जयतीत्यर्थः । " तपस्तपःकर्मकस्यैव " इति कर्मवद्भावः । तेन तपसा तुष्टा प्रीता जनार्दनस्य करुणा कैटभकोटिकल्पं कैटभासुरकोटिपराक्रमं कञ्चित् असुरं सकल्पसूर्यमिति यावत् । खबाधकत्वादसुरत्वोक्तिः । तत्किकरं परभक्तिविधेयं कुर्वीतेति । अर्धोक्ते ; श्लोकस्य समापनात्पूर्वमेव । विरमति, तूष्णीम्भूतोऽभवत् । लज्जया भीत्या वा विरतिः । आत्मविनाशकथनमनुचितमिति वाक्यशेषं नापूरयदित्यर्थः । वसन्तस्तु स्वमनसि तदभिधानपूर्वकं वाक्यशेषं यथावदापूर्य रत्याः शङ्कान्तरनिवारणाय प्रकारान्तरेण स्वयमेव कामवाक्यशेषं पूरयति — स खल्वित्यादिना । निर्मूलनः ; संहर्ता । नन्द्यादिस्वात् ल्युः । वक्तुम् अशक्यं दुर्वचम् ॥ ५३ ॥
प्रभाविलासः - ५३
परभक्तेरवस्थान्तरापत्तिमाह — प्रव्रज्येति । प्रव्रज्या ; तुर्याश्रमः । आदिपदेनानशनादिकमुच्यते । तदुक्तं यतिप्रकरणे -
"
अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् ।
लब्ध्वा न हृष्येद्धृतिमानुभयं दैवयन्त्रितम् ॥ एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीडश्वात्मरतिरात्मवान् समदर्शनः ॥ पुरसङ्घान् प्रजासार्थान् भिक्षार्थं प्रविशश्चरेत् । पुण्यदेश सरिच्छैलवर्णाश्रमरतिर्महीम् ॥ "
इति । परत्र पुरुषे ; पुरुषोत्तमे । प्रव्रजिताया अन्यपुरुषे पातित्रत्यमुचितमिति परिहासोक्तिः । प्रतिरुद्ध सर्वकरणमिति विषयान्तरनिरोधः । तप
इत्यैकाग्र्यमुक्तम्, " मनसश्चेन्द्रियाणां च यैकाग्र्यं परमं तपः " इति स्मरणात् । अनेन संश्लेषभीरुतालक्षणावस्थोच्यते । तेन तपसा । तत्त्किं-
1 } करम् ; तस्या भक्तेः किङ्करम् । जनार्दनस्य करुणा कञ्चिदसुरं तत्किङ्करं कुर्वीतेत्यन्वयः । अत्र भयानकशान्तरसयोरङ्गाङ्गिभावेन सङ्करः ॥ ५३ ॥
भयापकरणम्
विश्वास-प्रस्तुतिः
रतिः - (स-भय-सम्भ्रमम् ) णाह, परिरक्ख परिरक्ख ।
( नाथ, परिरक्ष परिरक्ष ।)
( इति भर्तारम् आश्लिष्यति ।)
कामः – (गाढम् उपगुह्य, अ-भुक्त-पूर्वम् इव43 निर्वेशं नाटयन्, आत्मगतम्)
जनित-वलय-भङ्गे दत्त-हारावमर्दे
मुषित-निखिल-खेदे मोह-सन्तोष-हेतौ ।
स-चकित-परिरम्भे साम्प्रतं44 कातराक्ष्यास्
त्यजति युगल+++(=द्वित्व)+++-चिन्ताम् +++(परिरब्ध-)+++अङ्गयोर् अन्तरात्मा ॥ ५४ ॥+++(4)+++
मूलम् - ५४
रतिः - (सभयसम्भ्रमम् ) णाह, परिरक्ख परिरक्ख । ( नाथ, परिरक्ष परिरक्ष 1)
( इति भर्तारमाश्लिष्यति )
कामः – (गाढमुपगुह्य, अभुक्तपूर्वमिव43 निर्वेशं नाटयन,
आत्मगतम्)
जनितवलयभङ्गे दत्तहारावमर्दे
मुषितनिखिलखेदे मोहसन्तोष हेतौ ।
सचकित परिरम्भे साम्प्रतं44 कातराक्ष्या-
स्त्यजति युगलचिन्तामङ्गयोरन्तरात्मा ॥ ५४ ॥
प्रभावली - ५४
[[११२]]
भयप्रयुक्तः सम्भ्रमः । णाह - नाथ । परिरक्ख — परिरक्ष । निर्वशम् ; सुखोपभोगम् । नाटयन् ; अभिनयन् ।
स्वगतमनुसन्धत्ते — जनितेति । कातराक्ष्याः ; अधीरनेत्रायाः प्रियायाः रत्याः । सचकित परिरम्भे ; भयसम्भ्रमसहितं यथा तथा आलिङ्गने ।
पुनः कीदृशे ? वलयानां कटकानां भङ्गो जनितो यस्मिन् ।
दत्तहारावमर्दे ; हारस्यावमर्दों विच्छेदः दत्तः कृतो यस्मिन् । मुषितः निखिलः खेदः स्वस्थ परिश्रमः यस्मिन् । मोहस्य सन्तोषस्य च हेतौ कारणभूते ।
साम्प्रतम् अन्तरात्मा ; मनः ।
अङ्गयोः ; स्वपरशरीरयोः । युगलचिन्ताम् ; द्वन्द्व-चिन्ताम् ; इमे द्वे इति चिन्ताम् । त्यजति ; इयं रति, अयं काम इति बुद्धिरेकत्वमेव भावयति । यथोपासकः स्वपरमात्मानावेकत्वेन भावयति
तद्वत् ॥ ५४ ॥
प्रभाविलासः - ५४
अपूर्वमिव निर्देशमिति । अपूर्वम् ; गाढपरिरम्भणे स्वयं प्रवृत्तत्वात् । निर्वेशम् सुखानुभवम् । " निर्देशो भृतिभोगयोः " इत्यमरः । जनितेति । दत्तहारावमर्दे ; दत्तो हाराणामवमर्दस्टनं स्तनकाठिन्येन स्फोटनं वा यत्र । यद्वा हेति सुखनिर्वेशाभिनयः । तस्य रावः शब्दः । तस्य मर्दों मेलनं यत्र । अङ्गयोः ; शरीरयोः । अन्तरात्मा ; मनः । युगल चिन्ताम् ; ‘ममेदं तवेदम्’ इति चिन्तां त्यजति । सुखरागातिश-
[[११३]]
याविर्भावेन तन्मयत्वापत्त्या बाह्यविषयक ज्ञानाभावेनैक्यज्ञानाभावादेवानिर्वचनीया सुखपरवशतेति भावः । अत्र सम्भोगशृङ्गारः ।
अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि स सम्भोग उदाहृतः ॥
इति लक्षणात् । तात्कालिकी जातिरलङ्कारः ।
16
"
नानावस्थासु सिद्धानि यानि रूपाणि वस्तुनः । साक्षाद्विदधती तानि जातिरित्यभिधीयते ॥ "
इति लक्षणात् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
( प्रकाशम्) सखि, महा-मोह–सैनिक-धुरन्-धरस्य मकर-ध्वजस्य
मम प्रेयसी सती मा भैषीः ।
समाश्वसिहि, समाश्वसिहि ।
इदं खल्व् ऐन्द्र-जालिक-नगर–निगरण-प्रायम्
अ-निपुण45-नैगमिक46-रथ्या-पुरुष-निर्मितं किम् अप्य् ऐतिह्यम् ।
तथा हि—
कु-वृत्तम् इति कौक्कुटं +++(←बालाद् ग्रहणं)+++ व्रतम् अधिक्षिपद्भिस् तथा
सुधा-कर–शत-क्रतु–प्रभृतिभिः स्वयं चस्खले +++(बृहस्पति-पत्नी–गौतम-पत्नी-ग्रहणेन)+++ ।
नदद्-भ्रमर-पङ्क्तिके नमति कार्मुके मामके
विरक्ति-गृह-देहलीं क इह दोहली+++(=दोहदी, सेच्छः)+++ वीक्षते ॥ ५५ ॥+++(4)+++
मूलम् - ५५
( प्रकाशम्) सखि, महामोह सैनिकधुरन्धरस्य मकरध्वजस्य मम प्रेयसी सती मा भैषीः । समाश्वसिहि समाश्वसिहि । इदं खल्वै-
न्द्रजालिकनगर निगरणप्रायमनिपुण45 नैगमिक46 रथ्यापुरुषनिर्मितं किम-
प्यैतिह्यम् । तथा हि—
कुवृत्तमिति कौक्कुटं व्रतमधिक्षिपद्भिस्तथा
सुधाकरशतक्रतुप्रभृतिभिः स्वयं चस्खले ।
;
नदद्भ्रमरपङ्क्तिके नमति कार्मुके मामके
विरक्तिगृहदेहलीं क इह दोहली वीक्षते ॥ ५५ ॥
प्रभावली - ५५
प्रेयसी प्रियतमा । समाश्वसिहि ; निर्भया भवेत्यर्थः । परभक्तिप्रादुर्भावादिकमसत्यमित्याह – इदमिति । ऐन्द्रजालिकम् ; इन्द्रजालद्दृष्टं यन्नगर-
[[११४]]
निगरणं पत्तननिगरणं तत्सदृशम्। केन कल्पितमित्यत्राह - अनिपुणेति । अनिपुणः ; जडः । नैगमिकः ; वैदिकः । स एव रथ्यापुरुषः ; अध्वग इत्यर्थः । तेन कल्पितम् । किमपि ; तुच्छम् । श्रेष्ठपत्तनवीथीगत पुरुषकल्पितमिति च । तदेवोपपादयति — कुवृत्तमिति । कौक्कुटं व्रतम् ; कामशास्त्रानुष्ठानम् । प्रसह्योपभोगमित्यर्थः । कुत्रुत्तमित्यधिक्षिपद्भिः ; निन्दद्भिरेव । सुधाकरः चन्द्रः, तेन तारायां, शतक्रतुः इन्द्रः, तेनाहल्यादौ स्वयमात्मना तथा वाचामगोचरं यथा तथा चस्खले स्खलितं, विपरीतमनुष्ठितमित्यर्थः । चन्द्राद्बृहस्पतिपत्न्यां पारदारिकेण मार्गेण खलु बुधोत्पत्तिः । इन्द्रस्य तु " अहल्याये जार" इति वेदप्रसिद्धं स्खलनम् । ब्रह्मरुद्रादयोऽपि मम शासनमतिक्रमितुं न शक्ता इत्यभिप्रायेणाह -
नददिति । नदन्ती गुञ्जन्ती भ्रमरभङ्क्तिर्यम्मिन् ज्यात्वेन तस्मिन् । मामके कार्मुके किञ्चिन्नमति क इव को वा विरक्तिगृहस्य देहलीं प्रघाणदेशं दोहली कौतूहली सन् । दोहली ; दोहलायाददातीति, दोहलं पुण्यपापरूपं कर्म तद्वान् दोहली ; कर्मी । “ला आदाने” । वीक्षते ; वीक्षितुमप्यशक्त इत्यर्थः ॥ ५५ ॥
प्रभाविलासः - ५५
ऐन्द्रजालिकेति । इन्द्रजाललक्षणम् -
‘यद्देशकालापारोक्ष्यं परोक्षस्यैव वस्तुनः ।
मन्त्रौषधादिभिः सोऽयमिन्द्रजाल इतीरितः ॥
इति । नैगमिकरथ्या नागरिकपतोलिः ; वेदान्तमार्ग इति ध्वनिः । नैगमस्तूपनिषदि धृनौ वणिजि नागरे " इति रत्नमालायाम् ।
कुवृत्तमिति । कुवृत्तम् ; दुराचारः । कौक्कुटं व्रतम् ; बलाद् ग्रहणम् । सुधाकरो बृहस्पतिपत्नीं तारां बलाज्जहारेति शतक्रतुरहल्यां जहारेति च तदुपादानम् । धार्मिकताविडम्बनाय शतक्रतुपदोपादानम् । प्रभृतिपदेन चतुर्मुखादयः । चस्खले ; [[११५]] स्खलितम् । भावे लिट । विरक्तिगृहदेहलीम् ; विरक्तिगृहाङ्गणभूमिम् । दोहली ; कुतुकी । को वा वीक्षते ; न कोऽपीत्यर्थः । कश्चन वीक्षत इति च व्यज्यते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तिष्ठन्तु वा मादृशा47 महाबला मन्त्रिणः ।
प्रमादालस्य-निद्रादि-
विविध-व्यूह-विग्रहः ।
प्रज्ञावरण-घोरात्मा
मोहः केन विजेष्यते ॥ ५६ ॥
मूलम् - ५६
तिष्ठन्तु वा मादृशा47 महाबला मन्त्रिणः ।
प्रमादालस्यनिद्रादिविविधव्यूहविग्रहः ।
प्रज्ञावरणघोरात्मा मोहः केन विजेष्यते ॥ ५६ ॥
प्रभावली - ५६
महामोहविजयस्तु केनापि न शक्यत इत्याह — तिष्ठन्तु वेति । मया सदृशा महाबला महामोहस्य मन्त्रिवर्गाः क्रोधलोभदम्भादयस्तिष्ठन्तु । मोहस्य स्वरूपमाह - प्रमादेति । प्रमादः ; अनवधानता । आलस्यम् ; कायव्यापाराक्षमत्वम् । निद्रा ; प्रसिद्धा । आदिशब्देन संशयविपर्ययादिः । एवंरूपो विविधो
माहशा omitted च. छ.
[[११६]] व्यूहः सन्निवेशः विग्रहः स्वरूपं यस्य सः । प्रज्ञाया आवरणमाच्छादनमेव घोर आत्मा स्वभावो यस्य सः । केन विजेतुं शक्यते ॥ ५६ ॥
प्रभाविलासः - ५६
प्रमादेति । प्रमादः ; अनवधानता । आलस्यम् ; कर्मस्वदक्षता । आदिशब्देन शोकचापल्यादिकं गृह्यते । तैः कृतो विविधव्यूहविग्रहः अनेकचक्रव्यूहादिसन्निवेशः । यद्वा विविधव्यूहेन साधनेन विग्रहः शत्रुकर्म - ककलहो यस्य सः । प्रज्ञावरणेन घोर आत्मा स्वरूपं यस्य सः । केनेति
काकुः । न केनापीत्यर्थः । केनापि विजेष्यत इति च व्यज्यते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
रतिः – (स्वगतम् ) विहिवसेण विवरीअं भणिअम् अय्यउत्तेण । (प्रकाशम्) होज्ज मङ्गलं महाराअस्स ।
( +++(“मोहः केन विजेष्यते” इत्य्-अत्र कर्तरी-प्रयोगार्थ-ग्रहणेन)+++ विधि-वशेन विपरीतं भणितम् आर्य-पुत्रेण । भूयान् मङ्गलं महा-राजस्य ।)
वसन्तः—-
अयि मन्मथ-पत्नि मा स्म भैषीर्
ननु मोहादिषु संस्थितेषु+++(→पक्षे समाप्तेषु)+++ सत्सु ।
प्रकृतिं+++(= पक्षे स्वभावं)+++ पुरुषः प्रपित्समानः
प्रतिपद्येत विरक्तितो+++(=पक्षे विरक्त्या)+++ विमुक्तिम् ॥ ५७ ॥+++(4)+++
मूलम् - ५७
रतिः – (स्वगतम् ) विहिवसेण विवरीअं भणिअम् अय्य- उत्तेण । (प्रकाशम्) होज्ज मङ्गलं महाराअस्स ।
( विधिवशेन विपरीतं भणितमार्यपुत्रेण । भूयान्मङ्गलं
महाराजस्य ।)
वसन्तः—-
अयि मन्मथपत्नि मा स्म भैषी-
र्ननु मोहादिषु संस्थितेषु सत्सु ।
प्रकृतिं पुरुषः प्रपित्समानः
प्रतिपद्येत विरक्तितो विमुक्तिम् ॥ ५७ ॥
प्रभावली - ५७
विहिवसेण - विधिवशेन दौर्भाग्यवशात् । विवरीअं भणिअं - विपरीतं भणितम् । अय्यउत्तेण ; आर्यपुत्रेण, कामेन ।
अनवहिताज्ञ-क्लीब-मूर्ख-प्राय सैनिकत्वात्
केन हेतुना विजयी भविष्यतीत्य् अर्थस्फुरणात् ।
यद्वा विजेष्यत इति कर्मणि प्रयोगेण वाक्ययोजना ;
केनचित्तु जेतुं शक्यत इत्यर्थः प्रतीयते । होजभूयात् । महाराअस्स महाराजस्य, महामोहस्येत्यर्थः । अयीति सख्याः सम्बोधनम् । भो मन्मथपत्नि मा भैषीः । मोहादिषु संस्थितेषु सम्यक्
तिष्ठत्सु सत्सु पुरुषो जीवः प्रकृतिं मूलप्रकृतिं प्राप्तुमिच्छन् विरक्तितः विरक्तिसकाशात् विमुक्तिं प्रपद्येत । विरक्त्या व्यक्तो भवेदेवेत्यर्थः ।
यद्वा विरक्तितो हेतोः विमुक्तिम् मोक्षं प्रपद्येत ।
ननु प्रतिपद्येतेति काका अर्थनिर्वाहः ।
विपरीतार्थस्तु संस्थितेषु मृतेषु पुरुषः प्रकृतिं स्वभावम् अपहतपाप्मत्वादिकं प्रपित्समानः विरक्तितः विरक्तिमाश्रित्य ; ल्यब्लोपे पञ्चमी ; विमुक्तिं माक्षं प्रतिपद्येतेति ॥ ५७ ॥
प्रभाविलासः - ५७
विपरीतं भणितम् ; विनाशकालत्वात् विवक्षाननुकूलार्थमिति ध्वनिः । महाराजस्य ; मोहस्य, विवेकस्येति ध्वनिः । अयीति । मोहादिषु संस्थितेषु सम्यक् स्थितेषु । प्रकृतिम् ; पूर्ववैषयिक वासनाम् । प्रपित्समानः प्रपत्तुमिच्छन् ।
" प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति " ११७
इति स्मरणात् । विरक्तितः ; वैराग्यात् । विमुक्ति विमोचनं प्रतिपद्येत । वैराग्यं परित्यजतीत्यर्थः ।
व्यञ्जनार्थस्तु -
मोहादिषु संस्थितेषु परिसमाप्तेषु, नष्टेष्विति यावत्
" अदक्षिणो यागः संस्थाप्यः " " प्रतिसन्तिष्ठते " इत्यादिषु समाप्त्यर्थतावगमात् ।
प्रकृतिम् अपहतपाप्मत्वादिस्वभावं प्रपित्समानो विरक्तितो वैराग्याद्धेतोः विमुक्तिमपवर्गे प्रतिपद्येतेति च ।
अयं च शब्दार्थोभयशक्तिमूलो ध्वनिभेदः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
रतिः – ( आत्मगतम्) आः ! वसन्तभासिअं वि विवरीअं विअ दीसह ।
[आः! वसन्त-भाषितम् अपि विपरीतम् इव दृश्यते ।]
(प्रकाशम्)
अय्यउत्त, किं विवेअस्स णत्थि विवेओ, अमच्चाणं वा तस्स समदमप्पमुहाणं ? पुरिसे खु पइदिं मोत्तूण गए अम्हाणं ताणं वि अविसेससुलहम् ओसाणम् ।
( आर्यपुत्र, किं विवेकस्य नास्ति विवेकः,
अमात्यानां वा तस्य शम-दम-प्रमुखानाम् ?
पुरुषे खलु प्रकृतिं मुक्त्वा गते
अस्माकं तेषाम् अपि अ-विशेष–सु-लभम् अवसानम् ।)
कामः - एवम् एतत् ।
अस्मद्-उन्मेषम् अ-सहमानाः पुनर् एते पापाः
प्रज्ञा-चक्षुषि क्वचित् पुरुषे साक्षिणि
कुल-द्वय-मूल-कूलङ्कषासु कुहनासु+++(=कपटेषु)+++
गहनम् ईहन्ते48 ।
सर्वथा मूढ-चेतसश् चैते मोघ-कर्माणो भविष्यन्ति । यतः,
प्रसुप्तान् अपि युद्धेन
सुग्रीव-सुभटान् इव ।
कर्म-शक्तिर् अनुच्छेद्या
पुनर् उद्बोधयिष्यति49 ॥ ५८ ॥
मूलम् - ५८
रतिः – ( आत्मगतम्) आः ! वसन्तभासिअं वि विवरीअं
विअ दीसह । (प्रकाशम्) अय्यउत्त, किं विवेअस्स णत्थि विवेओ, अमच्चाणं वा तस्स समदमप्पमुहाणं ? पुरिसे खु पइदिं मोत्तूण गए अम्हाणं ताणं वि अविसेससुलहम् ओसाणम् ।
( आर्यपुत्र, किं विवेकस्य नास्ति विवेकः, अमात्यानां वा तस्य शमदमप्रमुखानाम् ? पुरुषे खलु प्रकृतिं मुक्त्वा गते अस्माकं तेषामपि अविशेषसुलभमवसानम् ।)
कामः - एवमेतत् । अस्मदुन्मेषमसहमानाः पुनरेते पापाः प्रज्ञाचक्षुषि क्वचित्पुरुषे साक्षिणि कुलद्वयमूलकूलङ्कषासु कुहनासु गहनमीहन्ते48 । सर्वथा मूढचेतसश्चैते मोघकर्माणो भविष्यन्ति । यतः,
प्रसुप्तानपि युद्धेन सुग्रीवसुभटानिव ।
कर्मशक्तिरनुच्छेद्या ‘पुनरुद्बोधयिष्यति49 ॥ ५८ ॥
प्रभावली - ५८
आः इति मनःपीडायाम् । वसन्तभासिअं वि वसन्तभाषितमपि । विवरीअं विअ दीसइ - विपरीतमिव दृश्यते । विवेअस्स - विवेकस्य । णत्थि
1 विवेओ - नास्ति विवेकः । इति प्रश्नः । विवेकस्य पुन्धर्मत्वात् तस्य विवेको धर्मो नास्ति स्वभावतः । अमश्चाणं वा तस्स अमात्यानां वा तस्य । तस्य ; विवेकस्य । शमदमप्रमुखानां विवेकाभावमुपपादयति - पुरिसे इत्यादिना । पुरिसे खु-पुरुषे
[[११८]] खलु । पइदि मोत्तूण गए - प्रकृति मुक्त्वा विमुच्य गते सति । अम्हाणं ताणं वि अस्माकं तेषामपि । अविसेससुलहम् अवसाणम् अविशेषसुलभमवसानम् । अवसानं विनाशः । उन्मेषम् ; अभिवृद्धिम् । पापाः ; विवेकादयः । ;
प्रज्ञाचक्षुषि ; ज्ञानलोचने ; अन्ध इत्यपि ध्वनिः । क्वचित् ; कस्मिश्चिज्जीवे । साक्षिणि ; मध्यस्थे विषये । कुलद्वयमूलकूलङ्कषासु ; कुलद्वयस्य स्वकुलस्यास्मत्कुलस्य च यन्मूलं कन्दं तस्य कूलङ्कषासु विहतिकरीषु । कुहनासु कुटिलकृत्येषु । गहनम् ; अन्यैरज्ञातं यथा तथा । ईहन्ते ; चेष्टन्ते । मोघकर्माणः ; व्यर्थप्रयासाः । तत्र हेतुमाह–यत इत्यादि । यतः ; यस्मा-
स्कारणात् । युद्धेन मृतानपि सुग्रीवसुभटान् वानरानिव । कर्मणः शक्तिः ; कार्यकरणसामर्थ्यम् । अनुच्छेद्या ; अनिवारणीया । पुनरप्युद्बोधयिष्यति ; जीवयिष्यति महामोहादीनिति शेषः ॥ ५८ ॥
प्रभाविलासः - ५८
व्यञ्जितमर्थमभिसन्धायाह - आः वसन्तेति । आः पीडार्थे ।
एते पापा इति ; अपापा इति च व्यज्यते । प्रज्ञाचक्षुषि ; अन्धे । तस्यैव साक्षित्वमिति परिहासोक्तिः । ज्ञानलोचन इति व्यज्यते । कुहनासु ; कपटेषु । गाहनम् ; प्रवेशम् । अमूढचेतसः, अमोधकर्माण इति च ध्वनिः । प्रसुप्तानिति । " देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् " इति
[[११९]]
प्रसिद्धया सुग्रीवसुभटानिवेत्युक्तिः । कर्मशक्तिः ; कर्मवासना । पुनरुद्धो- धयिष्यति ; मोहादीनिति शेषः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
(नेपथ्ये)
कोऽसौ विपर्यस्त-दृष्टिर् अनुग्रहैक-नियत-कौतुकान्
अस्मान् एव पापान् 50 प्रलपति ?
रे रे दुर्विनीत दुराचार,
निष्पन्द-निगलित–कूट-स्थानां+++(=देवानां)+++ नृशंस-वृत्तीनां51 वः प्रतिक्षेपे
पुरुषस्य निरस्त-निखिल-दुःख–निरतिशयानन्द-प्रापणे
तदा ऽपि तद्-बुद्ध्य्-अनुप्रवेशेन स्व-कुल-सञ्जीवने च
दनुज-मथन-52-दयाधीन-वृत्तयो वयं प्रवर्तामहे ।
अस्ति चौपनिषदोऽयम् उद्घोषः-
स्वाधीन-संसरण-नाट्य-निरूढ-वृत्तेः
सन्तोषितः प्रणति-भूमिकया ऽस्य पुंसः ।
स्थाने विधास्यति विभुः +++(ईश्वर-मात्रोचित-श्रीवत्सादि-)+++स्थिर-चिह्न-भेदं
क्रीडा-नटः स भगवान् कृपया53 स्वसाम्यम् ॥ ५९ ॥
मूलम् - ५९
(नेपथ्ये)
कोऽसौ विपर्यस्तदृष्टिरनुग्रहैकनियत कौतुकानस्मानेव पापान्50 प्रलपति । रे रे दुर्विनीत दुराचार, निष्पन्दनिगलितकूटस्थानां नृशंसवृत्तीनां51 वः प्रतिक्षेपे पुरुषस्य निरस्त निखिलदुःखनिरतिशयानन्दप्रापणे तदापि तद्बुद्ध्यनुप्रवेशेन स्वकुलसञ्जीवने च दनुजमथन-52 दयाधीनवृत्तयो वयं प्रवर्तामहे । अस्ति चौपनिषदोऽयमुद्घोषः-
स्वाधीनसंसरणनाट्यनिरूढवृत्तेः संतोषितः प्रणतभूमिकयाऽस्य पुंसः ।
स्थाने विधास्यति विभुः स्थिरचिह्नभेदं क्रीडानटस्य भगवान्कृपया53 स्वसाम्यम् ॥ ५९ ॥
प्रभावली - ५९
एवं पूर्वपक्षं कामादिपात्रैरुपन्यस्य, अथ विवेकादिपात्रैः सिद्धान्तं वक्तुमुपक्रमते - नेपथ्य इत्यादि । विपर्यस्तदृष्टिः ; विपरीतदृष्टिः । अस्मत्तातेन
[[१२०]] चानादिभुक्तायामित्यादिनोक्तस्य दूषणस्योत्तरमाह - अनुग्रहेति । पितुरनुप्रहे एकस्मिन्ननुकूलकरणे निरतान् । दुर्विनीत ; विनीतोऽहमिति दुरभिमानिन् । स्वकृत्यमाह - निष्पन्देत्यादिना ।
निश्चेष्टं यथा तथा निगलेन बद्धः कूटस्थः प्रत्यगात्मा यैस्तेषाम् । नृशम्मा कूरा वृत्तिर्येषां तेषां वो निरसने पुरुषस्य कूटस्थस्य निरस्तानि निखिलानि दुःखानि यस्मिंस्तस्य निरतिशयानन्दस्य मोक्षानन्दस्य प्रापणे च । जातिवादिन इवेत्याद्युक्तस्योत्तरमाह – तदापीति । तदापि ; मोक्षदशायामपि । तद्बुद्धधनुप्रवेशेन ; पुरुषबुद्धयनुप्रवेशेन । मुक्तिदशायामप्यप्राकृता विवेकादयः सन्तीति भावः । अस्मत्कुलसञ्जीवने च ; त्रिष्वपि कृत्येषु । दनुजेत्यादि । ननु दनुजमथनदयाधीनवृत्तयो वयमित्युक्तम् ; तथापि बीजाङ्कुरन्यायादनाद्यविद्ययानन्तजन्मार्जितकर्मणामनुच्छेद्यत्वात् केवलकृपया तन्निबर्हणे वैषम्यादिप्रसङ्गाच्च कथं मुक्तिरित्याशङ्कय तत्र प्रमाणमाह- अस्ति चेत्यादि । ब्रह्म वेद ब्रह्मैव भवति " ; " निरञ्जनः परमं साम्यमुपैति " इन्याथा उपनिषद एवं मुक्तिप्राप्तिमुद्घोषयन्तीत्यर्थः । तदेवोपपत्त्या दर्शयति - स्वाधीनेति ।
विभुः प्रभुः समर्थः भगवान् ।
स्वाधीनं स्वायत्तं [[१२१]] यथाकर्म फलप्रदानात्
संसरणम् एव नाटयं
तत्र निरूढा चिरपरिचयादतिचतुरा वृत्तिर् यस्य । क्रीडानटस्य ; भगवल्लीलार्थनटस्य । अस्य पुंसः प्रणतभूमिकया ; अनन्तजन्मभूमिकामध्ये दैवादुपनीतभागवतवेषपरिग्रहेण प्रणतवेषपरिग्रहमात्रेण । सन्तोषितो भगवान् ; भगवच्छब्देन स्वकृपैव ददाति । प्रणतभूमिकादि व्याजमात्रमिति द्योत्यते । स्थिर-चिह्नभेदम् ; श्रीवत्स-कौस्तुभादि-स्वासाधारणाकार-व्यतिरेकेण स्थिरः अपहत-पाप्मत्वाद्य्-अष्ट-गुणकत्वादि-चिह्न-भेदो यस्य तत् । स्वसा- स्यम् ; साधर्म्य विधास्यति । स्थाने ; परमपदे । यथा कश्चित् सम्राट्
[[१२२]] नानाभूमिकामध्ये स्वाभीष्टजनभूमिका साजात्येनाभिनयतो नटस्य सप्ताङ्गप्रदानादिना स्वसाम्यं विदधाति तद्वदिति भावः ॥ ५९ ॥
प्रभाविलासः - ५९
भरतागमोक्त मनुसन्धिमाह – नेपथ्य इति । वः प्रतिक्षेप इति ; वासनाविच्छेद इत्यर्थः । अनेन पुनरुद्बोधयिष्यतीत्येतत् प्रत्युक्तम् । पुत्रा एव पितुर्भोगं विनाशयन्तीति यदुक्तं तत्रोत्तरमाह - पुरुषस्येति । यश्वोक्तमस्माकं तेषामप्यविशेषसुलभमवसानमिति तत् प्रत्याह - तद्बुद्धयनुप्रवेशेनेति । यद्यपि मोहप्रमादनिद्रादीनामननुप्रवेशेऽपि कामक्रोधादीनामनुप्रवेशः, तथापि तेषां क्षुद्रपुरुषार्थविषयतया विषयपरित्यागेन विषयिपरि-
त्यागो वर्जनीय इति न विरुद्धम् ।
" परमं साम्यमुपैति " इति श्रुतिं मनसि कृत्वाह– स्वाधीनेति । विभुः ; इश्वरः । स्वशब्देन चेतनकर्मोच्यते । ईश्वरो वा । " उन्निनीषति, अधो निनीषति" इति श्रुतेः । संसरणम् ; देवमनुष्यादिशरीरपरिग्रहः, तदेव नाटयं तत्र निरूढा वृत्तिः वर्तनं यस्य तस्य । अनेनानुरूपभूमिकापरिग्रहे तदभिनये च कौशलमुक्तम् । अनन्तजन्मसन्ताने वितथेऽपि कस्मिंश्चिदेव जन्मनि पुरुषार्थलाभ इत्याशयेनाह - प्रणतेति । तदुक्तम्-
वृथैव भवतो याता निष्फला जन्मसन्ततिः ।
तस्यामन्यतमं जन्म सञ्चिन्त्य शरणं व्रज ।
इति । भूमिकयेति ; वेषपरिग्रहमात्रेणापि पुरुषार्थः सेत्स्यतीत्युक्तम् " मित्रभावेन्न सम्प्राप्तत् " इतिवत् । सन्तोषित इति ; ईश्वरप्रसादस्यैव मोक्षसाधनत्वमुक्तम् ।
स्थिरचिह्नभेदम् ।
स्थिराणि शङ्ख-चक्रादीनि चिह्नानि
भेदः संसारिभ्यो वैलक्षण्यं यस्य तत् ।
तद्-उक्तम् " मुक्तानां लक्षणं ह्य् एतच् श्वेत-द्वीप-निवासिनाम्" इति ।
यद् वा स्थिर-चिह्नानां लक्ष्मीपतित्व-जगद्-व्यापारादीनां भेदो यथा तथेति ।
" जगद्व्यापारवर्जम् " इति सूत्रम् ।
“विना श्रीवत्सकौस्तुभौ " इति स्मृतिः ।
स्वसाम्यम् ; अपहतपाप्मत्वादिकम् । स्थाने परमपदाख्यलोके । युक्तमिति वा । यथा लोके सार्वभौमो राजा कस्यचिन्नटपरिवृढस्य विचित्रबहुभूमिकापरिग्रहे कयाचिद्भूमिकया तोषितः
स्वकीयच्छत्रचामराद्यसाधारणचिह्नानि स्वस्थाने प्रयच्छति तद्वत् । अत्र वाक्यस्यासम्बद्धार्थाभिधायकता मा प्रसाङ्क्षीदित्यप्राकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्प्य इत्युपमालङ्कारो व्यङ्ग्यः । तल्लक्षणम् –
"
प्रसिद्धेरनुरोधेन सादृश्यं यत्र धर्मतः ।
प्रतीतं कथितं वा स्यादर्थयोरुपमा हि सा ॥
इति । अत एव न रूपकम् । कवितायाः कवितात्पर्यानुसारादर्थव्यक्तिर्नाम गुणः । " अध्याहारानपेक्षत्वमर्थव्यक्तिरुदाहृता " इति लक्षणात् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ततश्च,
रिपु-मथन-कृतं यशो महीयः
पितृ-परिरक्षण-सम्भृतश् च धर्मः ।
अभिमत-घटनोद्भवश् च हर्षः
सपदि विधास्यति सन्निधिं स्वयं नः ॥ ६० ॥
मूलम् - ६०
ततश्च,
रिपुमथनकृतं यशो महीयः पितृपरिरक्षणसम्भृतश्च धर्मः ।
अभिमतघटनोद्भवश्च हर्षः सपदि विधास्यति सन्निधिं स्वयं नः ॥ ६० ॥
प्रभावली - ६०
ईश्वर एव सर्वनिर्वाहकश्चेत् तव किमर्थोऽयं यत्न इत्याशङ्कयाह - ततश्चेति । ततश्च ; ईश्वररक्षणे व्याजानुष्ठानादित्यर्थः । नः ; अस्माकम । अभिमतस्येष्टस्य घटनात् सञ्जातो हर्षश्च । यशोधर्महर्षविशेषास्तत्क्षणं स्वयमेव सन्निधिं विधास्यन्ति ॥ ६० ॥
प्रभाविलासः - ६०
रिपुमथनेति । अभिमत घटना ; स्वीकृतार्थनिर्वाहः ॥ ६० ॥
विश्वास-प्रस्तुतिः
कामः — (सभयावहित्थम् अवलोक्य)
प्रिये, मोह-परिपन्थि-पक्ष-मूर्धाभिषिक्तः स्वयमसौ विवेकः
सह-धर्म-चारिण्या सुमत्या सह
+अभ्यमित्रीय +++(अमित्राभिमुखः)+++ उपसर्पति । ( मुहूर्तं निर्वर्ण्य) ।
अयं हि-
मुकुलयति विवित्सां मोह-विध्वंसम् इच्छन्,
विमृशति निगमान्तान्, वीक्षते मोक्ष-धर्मान् ।
निशमयति च गीतां नित्यम् एकान्तभक्त्या,
गुण-परिषद्-अवेक्षी गुप्त-मन्त्रो ब् ॥ ६१ ॥+++(4)+++
मूलम् - ६१
कामः — (सभयावहित्थमवलोक्य) प्रिये, मोहपरिपन्थिपक्षमूर्धाभिषिक्तः स्वयमसौ विवेकः सहधर्मचारिण्या सुमत्या
सहाभ्यमित्रीय उपसर्पति ।
(प्रिये, मोहपरिपन्थिपक्षे मूर्धामिषिक्तः स्वयमसौ स्वसहधर्मचारिण्या सुमत्या सहाभ्यमित्रीण उपसर्पति ।)
( मुहूर्तं निर्वर्ण्य) । अयं हि-
मुकुलयति विवित्सां मोहविध्वंसमिच्छन् विमृशति निगमान्तान्वीक्षते मोक्षधर्मान् ।
निशमयति च गीतां नित्यमेकान्तभक्त्या गुणपरिषदवेक्षी गुप्तमन्त्रो विवेकः ॥ ६१ ॥
प्रभावली - ६१
सभयावहित्थम् ; भयाकार निगूहनसहितं यथा तथा । विवेकमवलोक्य
रतिमाह – प्रिये इत्यादि । मोहस्य परिपन्थिपक्षे शत्रुपक्षे । अभ्यमित्रीयः ; अमित्राभिमुखं गच्छन् । विवेकस्वरूपमाह - अयं हीत्यादि । विवित्साम् ; वेत्तुं लब्धुमिच्छाम्, ख्यातिलाभ पूजाविषयेच्छा मित्यर्थः । यद्वा मोहादिविध्वंसनसाधना दिला भेच्छाम् । मुकुलयति ; उत्पादयति । इच्छन्निति " लक्षणहेत्वोः "
[[१२४]] ;
;
इति शतृप्रत्ययः । गीताम् ; भगवद्गीताम् । एकान्तभक्त्या अनन्यभक्त्या । गुणपरिषदवेक्षी ; शमदमादिगुणसमूहावेक्षी, गुणग्राही वा । गुप्तमन्त्रः ; गुप्तविचारः । विवित्सामुकुलनादि विवेकस्वरूपमित्यर्थः ॥ ६१ ॥
प्रभाविलासः - ६१
[[१२३]]
अभ्यमित्रीयः ; अमित्राभिमुखः । मुकुलयतीति । विवित्साम् ; वित्तेच्छाम् । मुकुलयति ; सङ्कोचयति । निगमान्तान् वेदान्तान् । विमृशति ; विशेषतो विचारयति । अनधीत विप्रकीर्णशाखान्तरोपबृंहकस्मृतीतिहासपुराणैः सहालोचयतीत्यर्थः । मोक्षधर्मान् ; मुक्तिधर्मान् ; अनभिसंहितफलकर्माणीत्यर्थः । सपरिकरवेदान्तविमर्शनेनैव श्रीगीतार्थश्रवणे सिद्धेऽपि गीतामिति पुनरुपादानं प्रस्तुताङ्कस्य चरमोपायप्रधानत्वज्ञापनार्थम् । गीताशास्त्रं हि प्रधानतः प्रपदनतात्पर्यकम् । नित्यमेकान्तभक्त्येति शास्त्रार्थस्य याथात्म्यावबोधनेऽन्तरङ्गसामग्री दर्शिता " शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् " इति स्मरणात् । गुणपरिषत् ; शमादि- गुणसमूहः ; ईशगुणा वा । गुप्तमन्त्र इति ; " गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत्” इति स्मृत्यर्थोऽभिप्रेतः । अन्यत्र विवित्साम् ; वित्ते रागम् ।
मुकुलयति ; प्राप्तकाले व्ययसङ्कोचं न करोतीत्यर्थः । मोहविध्वंसम् ; अविवेकरिपुविनाशम् । निगमान्तान् प्रातिदेश्यकार्यनिश्चयान् " निगमो निश्चये पुर्यो पथिभेदे वणिक्पथे " इति निघण्टुः । विमृशति ; चारमुखेन जानाति । मोक्षधर्मान् कारागृहप्रवेशितस्वकीयप्रधानपुरुषादिमोचनोपायान् । गीतामिति ; तत्रोक्तो धर्मयुद्धादिरुच्यते " धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते " इति ह्युक्तम् । गुणपरिषत् ; सन्धिविग्रहादिगुणसमूहः । गुप्तमन्त्रः ; अप्रकाशितराजरहस्यः । अत्र प्रस्तुतविवेक विशेषणतौल्येनाप्रस्तुतराजप्रतीतेः समासोक्त्यलङ्कार’ ।
विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिना ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥
इति लक्षणात् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
अपि च,54
+++(अत्र विशेषणेषु श्लेषाः -)+++
प्रत्यङ्-मुखीं सुमति-दीप्तिम् इह प्रचिन्वन्
प्राप्तोदयो ऽप्य् अ-मित-राग-बलोपपन्नः ।
क्षाम्यन्न् अहङ्कृतिमयीम् अवशो हिमानीं+++(=नीहरं)+++
भास्वान् असौ भजति विष्णु-पदं विवेकः ॥ ६२ ॥
मूलम् - ६२
अपि च,54
प्रत्यङ्मुखीं सुमतिदीप्तिमिह प्रचिन्वन्
प्राप्तोदयोऽप्यमितरागबलोपपन्नः ।
क्षाम्यन्नहङ्कृतिमयीमवशो55 हिमानीं
भास्वानसौ भजति विष्णुपदं विवेकः ॥ ६२ ॥
प्रभावली - ६२
प्रत्यङ्मुखीमिति ।
अत्र विवेकस्य उदेतुर् भास्वतश् च श्लेषो ध्वन्यते । प्रत्यङ्मुखीम् ; परावरतत्स्वाभिमुखीम् । अन्यत्र पश्चिमाभिमुखीम् । सुमतिदीप्तिम् ;
सुमत्याः कान्तिम् । इह ; संसारे । प्रचिन्वन् ; कुर्वन् । अन्यत्र दीप्ति प्रभाम् । प्राप्तोदयः ; अधिगताभ्युदयः, लब्धैश्वर्यः । अपिर्विरोधे । अन्यत्र लब्धोदयः पर्वतात् । अमितरागबलोपपन्नः ; अमितोऽविद्यमान इति यावत् । रागोऽनुरागः। [[१२६]] अन्यत्र रागः । तस्य बलेनोपपन्नः । ऐश्वर्यवतो रागो नास्तीति विरोधद्योतकोऽपि - शब्दः । अयं विवेकः प्राप्तोदयः लब्धात्मप्रकाशः । अमितरागबलोपपन्नः वैतृष्ण्येनामितमप्रमितं रागबलं तेनोपपन्न इति तात्त्विकार्थः । उदयकालत्वात् बहुलरागयुक्तश्च । अहङ्कृतिमयीम् ; अहङ्कारात्मिकाम् । अन्यत्र सूर्यप्रकाशोऽपि स्वेन निवारित इत्यभिमानात्मिकाम् । क्षाम्यन् ; शमयन्, शमनायेति यावत् । " लक्षणहेत्वोः " इति शतृप्रत्ययः । अवशः ; भक्तिपर - वशः । अन्यत्रेश्वराधीनवृत्तिः । भास्वान् ; शोभमानः । अन्यत्र सूर्यः ।
विष्णुपदम् ; भगवत्पादारविन्दम् । अन्यत्र आकाशम् । भजति ; सेवते । अन्यत्र गच्छति ॥ ६२ ॥
प्रभाविलासः - ६२
प्रत्यङ्मुखीमिति । प्रत्यङ्मुखीम् प्रत्यगात्मप्रवणाम्, प्रतीचीप्रवणां च । सुमतिदीप्तिम् ; सुबुद्धिवैशद्यम्, अन्यत्र प्रभाम् । प्राप्तोदयः [[१२५]] प्राप्ताभ्युदयः, प्राप्ताविर्भावश्च । रागः ; मुक्त्यभिलाषः, विषयाभिलाषो वा, आरुण्यं च । तस्य बलमतिशयः । हिमानीम् ; हिमसंहतिम् । क्षाम्यन् ; सहमानः । भास्वान् ; तेजस्वी, अन्यत्र सूर्यः । विष्णुपदम् ; हरिचरणम्, आकाशं च । अत्र विवेकस्याङ्कुरितावस्थोक्ता, रागमानादिसंहननात् । तेन चोत्तराङ्कनिरूपणीयबीजाख्य वस्तू पक्षिप्तम्, “ स्तोकोद्दिष्टः कार्यहेतुः " इति लक्षणात् । इदमत्र ज्ञातव्यम् — सर्वत्र नाटके प्रतिपाद्यं वस्तु द्विविधम् ; सूच्यमसूच्यं चेति । तत्र सूच्यं द्विविधम् - नीरसं सरसं चेति । असूच्यं द्विविधम् हश्यं श्रव्यं चेति । श्रव्यं च द्विविधम् - स्वगतं प्रकाशं चेति । तत्र प्रकाशं द्विविधम्सर्वप्रकाशं नियतप्रकाशं चेति । नियतप्रकाशं च द्विविधम् जनान्तिकम् अपवारितं चेति ।
तत्र द्विविधमपि सूच्यं विष्कम्भे निरूपितम्
शृङ्गाराद्यभिनयेन कथासङ्घटनेन च
प्रकारद्वयसम्भवात् ।
असूच्यभेदास्त्वङ्के निरूप्यन्ते । तदुक्तम्–
वस्तु सूच्या सूच्यभेदाद् द्विधाद्यं सूचितं भवेत् । विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारकैःः 11
सूच्यं द्वितीयं तु भवेद्रसभावाढ्यगुम्भनम् ।
प्रपञ्चयेदसूच्यं तदः पञ्चषपात्रकैः ॥
कथितं तद् द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् । द्विधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥ स्वगतं स्वैकविज्ञेयं प्रकाशं तु द्विधा भवेत् । सर्वप्रकाशं नियतप्रकाशं चेति भेदतः ॥ सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । द्वितीयं तदनेकेष्वेकस्यैव श्रवणोचितम् ।
द्विधा विभिद्यते तच्च जनान्तमपवारितम् ॥
इति ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तन् न साम्प्रतम्
अस्माभिर् अ-प्राप्त-समयैर् अ-सहायैश् च
+अरातिसन्निधाव् आत्मानं प्रकाशयितुम् ।
( इति समित्र-कलत्रं निष्क्रान्तः)
इति मिश्र-विष्कम्भः
मूलम् - ६३
तन्न साम्प्रतमस्माभिरप्राप्तसमयैरसहायैश्चारातिसन्निधावात्मानं
प्रकाशयितुम् ।
( इति समित्रकलत्रं निष्क्रान्तः)
इति मिश्रविष्कम्भः
प्रभावली - ६३
उत्तरत्र विवेकपात्रप्रवेश सूचनायेह विवेकप्रस्तावः स्वनिर्गमनसूचनाय । तन्न साम्प्रतम् ; न युक्तम् । अप्राप्तसमयैः ; अनागतकालैः । प्रकाशयितुं न साम्प्रतमिति मत्वा । मित्रम् ; वसन्तः । कलत्रम् ; रतिः । इति मिश्रविष्कम्भ इति ; प्राकृतमिश्र उक्त इति शेषः ॥
इति मिश्रविष्कम्भः
प्रभाविलासः - ६३
तन्नेति । न साम्प्रतम् ; न युक्तम् । इति मिश्रविष्कम्भ इति । मिश्रत्वं संस्कृतप्राकृतभाषासम्मिश्रत्वम् । यदुक्तम्
शुद्धो मिश्रश्व स द्वेधा मध्यपात्रप्रयोजितः । शुद्धो भवति मिश्रस्तु नीचपात्रप्रयोजितः । प्रधानादवरं मध्यं नायकादिरुदात्तवाकू । नीचं स्यादनुदात्तोक्ति नारीपरिजनादिकम् ॥
इति । उदात्तानुदात्तशब्दौ संस्कृतप्राकृतवचनौ ॥
इति मिश्रविष्कम्भः
[[१२७]]
-
समेतः—-च ↩︎
-
पाप added before—-ka ↩︎
-
अधुना विजृम्भते for उपचितन्द्H=====क ; उन्मादी for उपचितमदः – ख ↩︎ ↩︎
-
विषमशर एवं जीवितेश्वरः, तस्य स्त्रीति पुंयोगे ङीष् । अथवा विषमशरस्य जीवितमीष्टे इति औणादिको वरटू । टित्वात् डीप् । ↩︎ ↩︎
-
धन्वशब्दोऽत्र धनुः पर्यायः ↩︎
-
घ adds before this, the stanza विकस्वरपिकद्रुम etc. which is in Act 4, stanza 13. ↩︎ ↩︎
-
अयशो—-क, ख ↩︎