०२ उपोद्घातः - सूत्रधारः

सभ्यादेशः

विश्वास-प्रस्तुतिः

(नान्द्यन्ते)

सूत्रधारः -

आदिष्टो ऽस्मि +++(→आर्यमिश्रैः)+++

निखिल-सुरासुर-
कोटीर+++(=किरीट)+++-कोटि-मणि-किरण12-निकर-
नीराजित-पाद-पीठस्य3
शरणागत-परित्राण–सप्त+++(-व्याहृति)+++-तन्तु+++(=यज्ञ)+++–दीक्षितस्य
सरसी-रुह-वासिनी-सहचरित-धर्मणः
संसरण-दव-दहन-ताप-निर्वापण-महाबलाहकस्य4
सर्वेश्वरस्य भगवतः

श्रीरङ्ग–वृष-गिरि+++(=तिरुपति)+++–सत्य-व्रत+++(=काञ्च्यां यथोक्तकारि)+++–यदु-गिरि–पृरुषोत्तम+++(=जगन्नाथ)+++-पाण्डुरङ्ग-प्रभृतिषु दिव्याभिव्यक्ति-देशेषु

यथाभिमत-यात्रोत्सव-सेवा-हेवाक+++(=काङ्क्षा)+++-विहित-
गतागत-चटुल5+++(=चञ्चल)+++-चरण-नलिन–धूली-पटल–पवित्रित-क्ष्मा-तलैः,

यद्-ऋच्छया मरुद्-वृधा+++(=कावेरी)+++ऽन्तरीप+++(=द्वीप)+++-मध्य-मध्यासीनैः +++(→श्रीरङ्गे)+++,6
शेष-शेषाशन-गरुड-निर्विशेषैः,
अ-शेष-जन-सम्भावनीयैः, अ-सम्भवद्-अवद्य+++(=पाप)+++-गन्धैः,
अभिजन-विद्या-समुचित-7सदाचार-शील-शालिभिः,

अनादि-माया-महावर्त-बम्भ्रम्यमाण-
बाह्य8-कथक-रम्भा+++(=कदली)+++-वन-मथन-गन्ध-सिन्धुरैः,

अधिजिगमिषित-मुक्ति-घण्टा-पथैः,

अखण्ड-दिङ्-मण्डल-शिखण्डकैः,
औपनिषद-रहस्योपदेश-देशिकैः,9
अवगत-सकल-कला-कलापैः, 10
अत्रभवद्भिर् (+++(प्रबोध-चन्द्रोदयाख्य-)+++असमीचीन-पराङ्मुखैर्) आर्य-मिश्रैः। यद् उत -

ललित-मनसां प्रीत्यै बिभ्रद्–रसान्तर-भूमिकाम्
अन्-अवम-गुणो यस्मिन् नाटये,, +++(शान्ताखः)+++ रसो नवमः स्थितः । जनन-पदवी-जङ्घाल+++(=धावक)++++आर्ति–च्छिदानुगुणी-भवन्11
नट-परिषदा तेनास्वादं सताम् उपचिन्व् इति ॥ ३ ॥

मूलम् - ३

(नान्द्यन्ते)

सूत्रधारः - आदिष्टोऽस्मि निखिलसुरासुरकोटीरकोटिमणिकिरण12 ‘निकरनीराजितपादपीठस्य3 शरणागतपरित्राणसप्ततन्तुदीक्षितस्य सरसी-
रुहवासिनीसहचरितधर्मणः संसरणदवदहनतापनिर्वापण ‘महाबलाहकस्य4 सर्वेश्वरस्य भगवतः श्रीरङ्गवृषगिरिसत्यव्रतयदुगिरिपृरुषोत्तमपाण्डुरङ्गप्रभृतिषु दिव्याभिव्यक्तिदेशेषु यथाभिमतयात्रोत्सव सेवाहेवाकविहितगतागतचटुल’5 चरणनलिन धूलीपटलपवित्रितक्ष्मातलैः, यदृच्छया मरुद्वृधान्तरीपमध्यमध्यासीनैः,6 शेषशेषाशनगरुडनिर्विशेषैः,
अशेषजनसम्भावनीयैः, असम्भवदवद्यगन्धैः, अभिजनविद्या ‘समुचित-7 सदाचारशीलशालिभिः, अनादिमायामहावर्तबम्भ्रम्यमाणबाह्य’8 कथकरम्भावनमथनगन्धसिन्धुरैः, अधिजिगमिषितमुक्तिघण्टापथैः,

[[१६]]

अखण्डदिङ्मण्डलशिखण्डकैः, औपनिषदरहस्योपदेशदेशिकैः ‘,9 अवगतसकलकलाकलापैः, 10 अत्रभवद्भिरार्यमिश्रैः । यदुत-

[[१७]]

ललितमनसां प्रीत्यै बिभ्रद्रसान्तर भूमिका-

मनवमगुणो यस्मिन्नाटये रसो नवमः स्थितः ।

जननपदवीजङ्घालार्तिच्छिदानुगुणीभव-11

न्नटपरिषदा तेनास्वादं सतामुपचिन्विति ॥ ३ ॥

प्रभावली - ३

एवं मङ्गलमारचय्याथ पूर्वरङ्गापरपर्यायमामुखं नामाङ्ग साङ्गमारभ्यतेनान्द्यन्त इति । नान्दी रङ्गस्थलपूजा ; तदवसाने सूत्रधारः नाट्याचार्यः प्रविश्याहेति शेषः । किमाहेत्यत्राह - आदिष्टोऽस्मीत्यादि । ’ तेनास्वादं सतामुपचिनु’ इत्यादिष्टोऽस्मीत्यन्वयः ! आदिश्यमानोऽस्मीत्यर्थः । " धातुसम्बन्धे प्रत्ययाः " इति वर्तमानधात्वर्थसम्बन्धादयथाकालविहितोऽपि निष्ठाप्रत्ययो वर्त -

1 सकल क.

2 किरण omitted - ग.

पादपद्मस्य व.

मानार्थ एव साधुर्भवति । प्रथमं भगवतः सर्वनियन्तृत्वमाह - निखिलेति । कोटीरं किरीटम्, तस्य कोटयोऽग्राणि तत्रस्था मणयः नीलरत्नादयः । नीरा- जितम् ; मङ्गलारात्रिकविषयीकृतम् । संश्रितरक्षणैकस्वभावतामाह — शरणागतेति । परित्राणमेव सप्ततन्तुर् मखः, तत्र दीक्षितस्य दीक्षां प्रविष्टस्य ; दीक्षाशब्देन संश्रितासंरक्षणसंरक्षणयोहनिवृद्धी भगवत एवेति सूच्यते । दीक्षावैकल्यसाकल्यफलभाक्त्वं यजमानस्यैव । शरणागतपरित्राणं च लक्ष्मीविशिष्टस्यैवेत्याहसरसीरुहेति । सरसीरुहवासिन्या सह चरितो धर्मः संश्रितरक्षणाख्यो येन सः । " धर्मादनिच् केवलात् ” इत्यनिच् । सह सार्धं चरितधर्मेति “सुप्सुपा” इति समासः । श्रियः पत्युरेव मोक्षप्रदत्वमाह - संसरणेति ।

चदुल omitted. मध्य omitted—क.

महा omitted.

निर्वापणम् ; उपशमनम्, मोक्षप्रदानमित्यर्थः । उभयविभूतिमत्त्वमाह - सर्वेश्वरस्येति । निखिलहेय प्रत्यनीककल्याणैकतानत्वमाह – भगवत इति । भग इत्यंशेन कल्याणास्पदत्वं वदित्यंशेन निखिलहेयप्रत्यनीकत्वं चोच्यत इति विवेकः । स्वयंव्यक्तस्थानान्युद्दिशति - श्रीरङ्गेत्यादि ।
सर्वदिव्यक्षेत्राणाम् आदिमतया निरतिशयवैभवतया च श्रीरङ्गक्षेत्रस्य प्रथममुद्देशः । अनन्तरं वृषगिरीति श्रीयादवाद्रि-वेङ्कटाद्रयोस् तन्त्रेणोद्देशः । तदनु सत्यव्रत-क्षेत्रस्य हस्तिगिर्यपराभिधानस्य । तदनु यदुगिरेर् - दक्षिणबदरिकाश्रमापरनामधेयस्य ।
पुरुषोत्तमं नाम जगन्नाथस्थानम् ।
पाण्डुरङ्गं विजयपुरपश्चिमभागे भीमरथीतीरे विट्ठलेश्वरस्थानं यत्र कृष्णो निवसति ।
प्रभृतिशब्देन कुम्भकोणादयः सङ्गृहीताः । दिव्याश्च ते अभिव्यक्तिदेशाः अर्चावतारस्थानानि तेषु । यथेष्टं भगवद्यात्रा एवोत्सवाः ; यात्राश्चोत्सवाश्चेति वा ;

# कुदृष्टि added before, घ,

* विद्या omitted.
,

तत्र हेवाको ऽभिलाषः, तेन विहितं गतागतम्, तेन चटुलं चञ्चलं यच्चरणनलिनम् तस्य धूलीपटलैः समूहैः पवित्रितं सञ्जातपवित्रम् ; यद्वा पवित्रं क्रियत इति पवित्रितम् ; " तत्करोति" इति ण्यन्तानिष्ठा । यह- च्छया ; दैववशतः । मरुद्वृधा ; कावेरी ; तस्या अन्तरीपं मध्यदेशः ; श्रीरङ्गक्षेत्रमित्यर्थः । अनेनार्यमिश्राणाम् अनवरत-भगवत्-सेवापरत्वं व्यज्यते । अथात्रैवैषा मुक्तवत्संसारवैमुख्यमाह शेषेति । शेषोऽनन्तः । भगवच्छेषमेवाशनं यस्य स शेषाशनः विष्वक्सेनः सेनाधिनाथः । सदा भगवदङ्गसुखानुभवरूपातिशयात् शेषस्य प्रथममुद्देशः । समस्तभरनिर्वहणात् गरुडात्पूर्वं विष्वक्सेनस्योद्देशः । इतरवैमुख्यपूर्व भगवदनुभव परत्वे निर्विशेषैः । अशेषजनाः ; कर्मज्ञानादिनिष्ठाः । यद्वा देवर्षिप्रमुखाः । हेयगुणराहित्यमाह - असम्भवदिति । भगवन्मुक्तवदविद्य मानदोषगन्धैः ; गन्धशब्दो वासनापरः । वैदिकधर्मनिष्ठामाह - अभिजनेति । अभिजनः कुलं, विद्या वेदान्ताधिगमः ; तयोः समुचितो यः सदाचारः, तथा शीलं स्वभावः तच्छालिनः । दुर्वादिनिरसनमाह - अनादीति । अनादिर्या माया सैव महाजलभ्रमः । बाह्यकथकाः ; बाह्यकुदृष्टयः । गन्ध- सिन्धुराः ; मत्तगजाः । मोक्षे त्वरामाह – अधीति ।

1 " एतद्वै महोपनिषदं देवानां गुह्यम्" इत्युक्तप्रपदन तत्त्वोपदेशदेशिकैरिति साम्प्रदायिकोsस्यार्थः ।

’ अनवरतपरिचितगान्धर्वविद्याप्रसादितपरमपृरुषैः added before– क, ख.

अधिजिगमिषितः प्राप्तुमिष्टः मुक्तेर्घण्टापथः अर्चिरादिमार्गः यैः । भूमण्डलभूषणत्वमाह – अखण्डेति । अखण्डं दिमण्डलं भूवलयं तस्य शिखण्डकैः काकपक्षस्थानीयैः ; काकपक्षाभावे मुण्डितं शिगे यथा न शोभते तद्वदेषामभावे भूमण्डलमपीति भावः । वेदान्तसम्प्रदायप्रवर्तकत्वमाह– औपनिषदेति । उपनिषत्सम्बन्धि औपनिषदम् रहस्यं तात्पर्यार्थः, तदुपदेशेन देशिकत्वं प्राप्तैः । वेदान्तव्यतिरिक्तसकलशास्त्रहृदयवेदित्वमाह अवगतेति । सकलशब्देन शब्दतर्कमीमांसाकाव्यनाटकालङ्कारादि गृह्यते । कलापः ; समूहः । अत्रभवद्भिरित्येकं पदं पूज्यवाचि । किमादिष्टमित्यत्राह - यदुतेति । सतामुपचिन्विति यत् तदादिष्टमित्यन्वयः । यच्छन्दोक्तं दर्शयति-ललितेति । यस्मिन्नाट्ये ललितमनसा कोमल-

1 छिदा नृगुणी - ख. ग. ड.

3
चेतसा, त्रिवर्गनिष्ठानामित्यर्थः । प्रीत्यै ; प्रीत्यर्थम् । रसान्तरस्य ; शृङ्गारादेः । भूमिकां वेषपरिग्रह विभ्रत् । अनवमगुणः ; अनवमश्वासौ गुणश्च, उत्कृष्टगुणः । नवमो रसः शान्तिरसः । स्थितः ; स्थायी भवति । नवमस्यानवमत्वं न सम्भवतीति विरोधद्योतकोऽपिशब्दः । जननपदवी ; संसारमार्गः । तत्र जङ्घालानां जङ्घाबलवताम् ; सततसञ्चरणेऽपि श्रमरहितानामिति यावत् । अनवरतं सञ्चरतामिति भावः । आर्ति छिनत्तीति आर्तिच्छित् तेन । क्विपि तृतीया । नृगुणाः ; विवेकमोहादयः । नटपरिषद्भवन्तः पात्रीभवन्तो नृगुणा यत्र तेनेत्यर्थः । यद्वा छिदानुगुणीभवदिति पाठः । आर्तिच्छिदाया छेदने अनुगुणीभवन्ती अनुरूपीभवन्ती नटपरिषत् विवेकादिपात्रपरिषत् यस्मिन्निति । तेन ; नाटकेन । सताम् ; सात्त्विकानाम । आस्वादम् ; प्रीतिम् । उपचिनु ; सम्पादयेति ॥ ३ ॥

प्रभाविलासः - ३

नान्द्यन्त इति । उक्तलक्षणा नान्दी पूर्वरङ्गस्याङ्गम् । पूर्वरङ्गलक्षण

सरस्वतीविलास उक्तम् -

यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।

कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥ "

इति । तस्याङ्गानि द्वाविंशतिः प्रत्याहारावर्जनादीनि । तेषां मध्येऽन्येषामनुपयोगात् पद्यरूपाया नान्धा एवोपयोगः । तदुक्तं वसन्तराजीये–

“ यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके ।

तेषामवश्यकर्तव्या नान्दी नन्दीश्वरप्रिया ॥
इति । नान्द्यन्त इति ; नान्दीं प्रयुज्य पूर्वसूत्रधारे विनिर्गते द्वितीयसूत्रधारो नटाख्यः प्रविशतीति शेषः । तदुक्तं दशरूपके-

"

तत्पूर्वकं विधायादौ सूत्रधारे विनिर्गते ।

प्रविशेत्तद्वदपरः कार्यमास्थापयन्नटः ॥

""

इति । " प्रथमं पूर्वरङ्गः स्यात्ततः प्रस्तावनेति च " इति क्रमप्राप्तां प्रस्तावनां विवक्षुस्तदङ्गभूतां प्ररोचनामाह - आदिष्ट इत्यादिना । प्ररोचनालक्षणं तु
" निवेदनं प्रयोज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैर्वर्णैः सभायाश्चानुरञ्जनम् । कविकाव्यनटादीनां प्रशंसा च प्ररोचना ॥

इति । तत्रादिष्ट इति प्रयोज्यनिवेदनं सूचितम् । एवन्नाटकं त्वयाभिनेतव्यमित्यादेशख्यापनं प्रयोज्य निवेदनम् । कोटीराणि ; किरीटानि, तेषां कोटिः अग्रम्, शतलक्षसङ्ख्या वा । सप्ततन्तुः ; यज्ञः । सरसीरुह- वासिनी ; लक्ष्मीः ; तया सह चरितो धर्मों येन तस्य । निर्वापणम् ; निवर्तनम् प्रशमनमिति यावत् । वलाहकः ; मेघः । हेवाकः ; अभि-
" द्वीपोऽस्त्रिया-

लाषः । मरुद्धा ; कावेरी । अन्तरीपः ; द्वीपः । मन्तरीपम् " इत्यमरः । शेषाशनः ; विष्वक्सेनः । असम्भवदवद्यगन्धैः ; असम्भावितदोषलेशैः । अभिजनः ; वंशः । शीलम् ; सत्स्वभावः । " शीलं स्वभावे सद्वृत्ते " इत्यमरः । अनादिमाया ; कर्मरूपाविद्या । रम्भा -

,
[[१७]]

वनम् कदलीवनम् । सिन्धुरः ; गजः । अधिजिगमिषितः ; प्राप्तुमिष्टः । शिखण्डकः ; शिरोभूषणम् । अत्रभवद्भिः ; पूज्यैः । ललितेति । ललितमनसाम् ; त्रिवर्गनिष्ठानाम् । रसान्तराणि शृङ्गारादीनि । भूमिका ; वेषपरिग्रहः । अनवमा अहीना गुणा यस्य सः । नवमो रसः ; शान्तरसः । अनवमोऽपि नवम इति विरोधाभासोऽलङ्कारः । " आभासत्वे विरोधस्य विरोधाभास इष्यते " इति लक्षणान् । स च व्यञ्जकाप्रयोगात् गम्यः । जननपदव्यां संसारमार्गे जङ्घालानामत्यन्तं सञ्चरतामार्ते पीडायाः छिदायाः छेदनस्यानुगुणीभवन्ती नटपरिषत्
विवेकादिपात्रसमूहो यस्मिंस्तत् तथोक्तम् । मोहादीनां हेयतया ज्ञातव्यखेनानुगुण्यम् । नृगुणीभवदिति पाठे नटपरिषदो नृगुणभवनासम्भवेन च्चिप्रत्ययोपपत्तिः । आस्वादम् ; रुचिम् । उपचिनु कुरु । इत्यादिष्टोऽस्मीति पूर्वेण सबन्धः । अत्र निखिलसुरासुरेत्यादिना संस्कृतबाहुल्येन भारती वृत्तिरपि निरूपिता । तदुक्तम् -

"

;

भारतीं वृत्तिमाश्रित्य कुर्यात् प्रस्तावनाविधि ।

"

भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥ ” इति ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रतिगृहीता12 च मया
भरत-मतोपाध्यायस्य सन्-मार्ग-वर्धनस्यान्तेवासिनः13 सन्तोष-पालक-नामधेयस्य शैलूष-चक्रवर्तिनः पुत्रेण
प्रतिभट–कुशी-लव–कुञ्जर-कण्ठीरवेण
वैकुण्ठ-विनोदिना
सप्रतिज्ञं विदुषाम् आज्ञा
दिव्य प्रयोग दिदृक्षा-दत्त-क्षणा विचक्षणाश् च समुदिताः सामाजिकाः14

तथा हि–

[[१९]]

अवधारित-नाट्य-देशि-मार्गैर्
असमीचीन-पराङ्-मुखैर् अमीभिः ।
भरतागम-दैवतैर् इवैषा15
परिषत् सम्प्रति भासते महद्भिः ॥ ४ ॥

मूलम् - ४

प्रतिगृहीता12 च मया भरतमतोपाध्यायस्य सन्मार्गवर्धनस्यान्तेवासिनः13 सन्तोषपालकनामधेयस्य शैलूषचक्रवर्तिनः पुत्रेण प्रति-
भटकुशीलवकुञ्जरकण्ठीरवेण वैकुण्ठविनोदिना सप्रतिज्ञं विदुषामाज्ञा । दिव्य प्रयोग दिदृक्षादत्तक्षणा विचक्षणाश्च समुदिताः सामाजिकाः14

तथा हि–

[[१९]]

अवधारितनाट्यदेशिमागैंरसमीचीनपराङ्मुखैरमीभिः ।

भरतागम दैवतैरिवैषा15 परिषत् सम्प्रतिभासते महद्भिः ॥ ४ ॥

प्रभावली - ४

आर्यमिश्रैर् आदिष्टेन त्वया किं कृतमित्यत्राह — परिगृहीता च मयेति । परिग्रहणे हेतूनुपन्यस्यति - भरतेत्यादिना । भरतशास्त्रोपाध्यायस्य गुरोः

1 परिगृहीता,

2 सन्मार्गसंवर्धनस्य – क.
सन्मार्गवर्धनाख्यस्यान्तेवासी शिष्यः सन्तोषपालकनामधेयो मम पिता ; सोऽपि शैलूषानां नटाना चक्रवर्ती भवति । तस्य पुत्रेण मया । भरतमतोपाध्यायप्रशिष्यस्य शैलूषचक्रवर्तिपुत्रस्य मम परिषदादेशपरिग्रह उचित इति भावः । हेत्वन्तरं चाह – प्रतिभटेति । प्रतिभटशैलूषकुञ्जरसिह इति बिरुदवत इति भावः । स्वनामधेयमाह — वैकुण्ठविनोदिनेति । वैकुण्ठं श्रियः पति वैकुण्ठभक्ताश्च विनोदयति नाटयेनेति वैकुण्ठविनोदी । अपरिग्रहे वैकुण्ठविनोदित्वं भज्येतेति भावः । सप्रतिज्ञं च परिगृहीता ; यदि तादृशेन नाटकेन सतां प्रीति नोपचिन्वीय, तदा पूर्वागत बिरुदं त्यक्ष्यामीति प्रतिज्ञापूर्वकं गृहीता सतामाज्ञा कथमतिलङ्घयेतेति भावः । परिगृहीता चेत्ततः परित्यज्यतामित्यत्राह - दिव्येति । दिव्यप्रयोगः ; अपूर्वनाटकम् । तद्दिदृक्षाया दत्तावसराः सावधाना इत्यर्थः । सामाजिकाः ; सभ्याः । समुदिताः ; सङ्घीभूतास्तिष्ठन्ति । तत् कथं परित्यक्तुं शक्यत इति भावः । सामाजिकाना समुदितत्वं प्रतिपादयति— तथाहीति । अवधारितेति । नाट्यं च
देशिव मार्गश्च । आङ्गिकादिचतुर्विधाभिनयेन धीरोदात्ताद्यवस्थानुकरणं नाव्यम् । ताललयैकस्वभावं केवलाङ्गविक्षेपमात्रं नृत्तम् । देशिरभिनयात्मिका । भावाश्रयं नृत्तं मार्गः । अवधारिताः निश्चिताः नाट्यदेशिमार्गाख्यनृत्तविशेषाः यैस्ते । असमीचीनेषु ; लक्षणरहितेषु नृत्तेषु पराङ्मुखैः । अत एव भरतशास्त्र -

दैवतैरिव स्थितैः अमीभिः महद्भिः परिषत् गोष्ठी सम्प्रतिभासते । तत उदासितुमशक्यमिति भावः ॥ ४ ॥

प्रभाविलासः - ४

प्रतिगृहीतेत्यादि । सन्मार्गवर्धनस्येति गुरोः सञ्ज्ञा । तस्यान्तेवासिनः शिष्यस्य । शैलूषकुशीलवशब्दौ नटवाचकौ । कण्ठीरवपदेन, कवितार्किककण्ठीरवो व्यञ्जितः । तेन कविप्रशंसारूपं प्ररोचनाङ्गमुक्तम् । वैकुण्ठो विष्णुः । वैकुण्ठविनोदिनेति सञ्ज्ञा । दिव्यप्रयोगेति काव्यप्रशंसारूपं प्ररोचनाङ्गमुक्तम् । दत्तक्षणाः ; दत्तावसराः । अनेन कालरूपं प्ररोचनाङ्गमुक्तम् । समुदिताः ; सङ्घीभूताः । अवधारितैति । नाट्यदेशि मार्गलक्षणान्युक्तानि सङ्गीतशास्त्रे -
" नाट्यशब्दो रसे मुख्यो रसाभिव्यक्तिकारणम् ।

चतुर्धाभिनयोपेतं लक्षणावृत्तिबोधकैः । नर्तनं नाट्यमित्युक्तम् । ” इति, गात्रविक्षेपमात्रं तु सर्वाभिनयवर्जितम् । आङ्गिकोक्तप्रकारेण नृत्तं देशीति कथ्यते ॥ आङ्गिकाभिनयैरेव भावानेव व्यनक्ति यत् ।

6

नृत्तं तन्मार्गशब्देन प्रसिद्धं मार्गवेदिनाम् ॥ "

इति च । चतुर्धाभिनयलक्षणं तत्रैवोक्तम्


“ आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकोऽपरः । चतुर्षाभिनयस्तस्मिन्नाङ्गिकोऽङ्गः प्रदर्शितः ।

वाचा विरचितः काव्यनाटकादिषु वाचिकः । आहार्यो हारकेयूरकिरीटादिविभूषणम् ।

सात्त्विकः सात्त्विकैर्भावैर्भावुकेन विभावितः ॥

1

इति । असमीचीने ; असद्वादे, पराङ्मुखैः । तेन सभासदां लक्षणं सूचितम् । उक्तं च सङ्गीतरत्नाकरे-

"

मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः । अगर्वा रसभावज्ञास्तौर्यत्रितयकोविदाः ।
असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः ।

आनन्दरसनिष्यन्दहृदयाः स्युः सभासदः ॥ "

[[२१]]

इति । अत्रासमीचीनपराङ्मुखैरिति मोहादिविरोधिविवेकादिपात्रसूचनायुक्तं सभानुरञ्जनं नाम प्ररोचना कथितम् । एषेति पुरोवर्तिपरामर्शात् देशलक्षणं प्ररोचनाङ्गमुक्तम् ॥ ४ ॥

सूत्र-धार-शरणागतिः

विश्वास-प्रस्तुतिः

तद् अहम् अशेष-विद्या-स्थान-सम्पद्-उपलम्भनीम्,
अभूत-पूर्व–बहु-विध–भूमिका-परिग्रहे ऽप्य् अतिरस्कृत-पारम्याम्
अनवबोध–जल-धि–कुक्षिम्-भरीम्,16
अनन्य-भक्त्य्-उन्मीलनीम्,17
आदिमां देवताम् अभिगच्छामि18 -

[[२२]]

प्राची सन्ध्या काचिद् अन्तर् निशायाः+++(5)+++
प्रज्ञा-दृष्टेर् अञ्जन-श्रीर् अपूर्वा ।
वक्त्री वेदान् भातु मे वाजि-वक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ५ ॥

मूलम् - ५

तदहमशेष विद्यास्थान सम्पदुपलम्भनीम्, अभूतपूर्वबहुविध-

भूमिकापरिग्रहेऽप्यतिरस्कृतपारम्याम्

अनवबोधजलधिकुक्षिम्भरीम्,16 अनन्यभक्त्युन्मीलनीम्,17 आदिमां देवतामभिगच्छामि18

[[२२]]

प्राची सन्ध्या काचिदन्तर्निशायाः

प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।

वक्त्री वेदान् भातु मे वाजिवक्त्रा

वागीशाख्या वासुदेवस्य मूर्तिः ॥ ५ ॥

प्रभावली - ५

पारम्यं तिरस्कृतं स्यादित्यत्राह - अभूतेति । भूतपूर्वा न भवन्तीत्यभूतपूर्वाः ; पूर्वमपरिगृहीताः प्रतिजन्म नूतना इत्यर्थः, बहुविधा हंसहयग्रीवमत्स्यकूर्मादिरूपा भूमिका वेषपरिग्रहा अवतारा इत्यर्थः । तत्परिग्रहेऽप्यसङ्कुचित सर्वेश्वरभावाम् । अनवबोधजलधिकुक्षिम्भरीम् ; स्वविषयाज्ञानादिनाशनीम् । अन्यभक्त्युन्मूलनीम् ; स्ववैलक्षण्यज्ञापनेनान्यदेवताभक्त्युच्छेदनीम् । अभिगमप्रकारः प्रदर्श्यते - प्राचीति । अन्तर्निशा ; अज्ञानम् । अज्ञानाख्यरात्रेः प्रातः सन्ध्या, तन्निरासिकेत्यर्थः । प्रज्ञादृष्टिः ; कालत्रयविषयगोचरा बुद्धिः । प्रज्ञा त्रैकालिकी मता " इत्युक्तेः । सैव दृष्टिः, तस्या अञ्जनश्रीः, दृष्टि वर्धयन्ती । अपूर्वा ; अन्यादृशी । अञ्जनं चेत् नीलमेव ; इयं चाञ्जनश्रीः शुभ्रवर्णा । वेदान् वक्त्री ; वेदानामाद्योपदेष्ट्री । तृन्नन्तत्वात् “न लोक " इति षष्ठीप्रतिषेधः । वाजिवक्त्रा संयोगोपधत्वात् ङीषभावः ; हयमुखी । वागीश इत्याख्या यस्याः सा । वासुदेवस्य मूर्तिः मे भातु ; मम मनसि स्फुरत्वित्यर्थः ॥ ५ ॥

प्रभाविलासः - ५

तदहमिति । विद्यास्थानानि ; अष्टादश विद्याः । उपलम्भनीम् ; सम्पादिकाम् । पारम्यम् ; परत्वम् । कुक्षिम्भरीम् ; भक्षिकां, निवर्तिकामिति

तर्हि कि कर्तव्यमित्यत्राह - तदहमिति । तत् ; तस्मात् । आदिमां देवतां हयग्रीवमूर्ति भगवन्तमभिगच्छामि, उपास इत्यर्थः । कीदृशीम् — अशेषेति । अशेषाणा विद्यास्थानसम्पदाम् ; " अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ ” आयुर्वेदाद्युपवेदाश्चत्वारश्चेत्यष्टादश विद्यास्थानानि । उपलम्भनीम् ; उपलम्भस्थानभूताम् ; सम्प्रदायप्रवर्तनीमित्यर्थः । एवञ्च तत्तद्विद्योपलम्भनार्थ तत्तदवतारपरिग्रहे बहुविधजन्मपरिग्रहे जीवात्मन इव
यावत् । आदिमाम् प्रथमावतारभूताम् । प्राचीति । अन्तर्निशा ; अन्तर्व्याप्ताज्ञानरूपा निशा, तस्याः । बाह्यतमो निवर्तकप्रसिद्धसन्ध्यावैलक्षण्यं काचिदित्युक्तम् । अपूर्वा ; अलौकिकतत्त्वसाक्षात्कारजननी । वक्त्री ; वचनशीला । वेदान ; “न लोक” इत्यादिना षष्ठीनिषेधः । साक्षाद्भगवदवतार एव, नांशावतार इति वक्तुं वागीशाख्येत्युक्तिः । सञ्ज्ञामात्रमेव भिद्यत इति भावः ॥ ५ ॥

विश्वास-प्रस्तुतिः

[[२३]]

(सविनयम्19 अञ्जलिं बद्ध्वा)

देवो नः शुभम् आतनोतु दशधा निर्वर्तयन् भूमिकां
रङ्गे धामनि लब्ध-निर्भर-रसैर् अध्यक्षितो भावुकैः ।
यद्-भावेषु पृथग्-विधेष्व् अनुगुणान् भावान् स्वयं बिभ्रती
यद्-धर्मैर् इह धर्मिणी विहरते नानाकृतिर् नायिका ॥ ६ ॥

मूलम् - ६

[[२३]]

( ’ सविनयम्19 अञ्जलिं बद्ध्वा)

देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां

रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।

यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती

यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ ६ ॥

प्रभावली - ६

एवं वाक्सिद्धये प्रथमं हयग्रीवमभिगम्याथ नटसमाधिना रङ्गिणोऽभिशास्ते देव इति । दशधा भूमिकां निर्वर्तयन् ; निर्वर्तयितुम् ; क्षणहेत्वोः " इति तुमर्थे शतृप्रत्ययः । दशधा ;

" नाटकं सप्रकरणम् दिदशप्रकारान् रूपकभेदान् निर्वर्तयितुम् । रङ्गे धामनि ; श्रीरङ्गक्षेत्रे थले च । लब्धनिर्भर रसैः ; प्राप्तभगवदैकान्त्यप्रीतिभिः । अन्यत्रानुस्थायिभूतैः शृङ्गारादिरसैः । भावुकैः ; ब्रह्मविद्भिः ; अपरत्र सामाजिकैः ।
अध्यक्षितः ; साक्षात्कृतः । देवः ; श्रीमान्नारायणः ; अन्यत्र भूमिकादिभिः क्रीडन् नटपुरुषः । नोऽस्माकं शुभं श्रेयः आतनोतु ; आनाट्यसमाप्ति करोतु । पृथग्विधेषु ; अंशावेशादि भेदभिन्नेषु । यद्भावेषु ; यस्य भगवतो भावेषु अवतारेषु चेष्टासु लीलासु वा । तदनुगुणान् भावान् ; अवतारान् चेष्टाः
ला वा । स्वयमपि बिभ्रती । अत एव नानाकृतिः “देवत्वे देवदेहेयं नुष्यत्वे च मानुषी " इत्युक्तरीत्या देवमनुष्यादिरूपिणी । नायिका लक्ष्मीः । ह; लीलाविभूत्याम् । यस्य भगवतो धर्मैः संश्रितरक्षणादिभिः धर्मिणी ; यमपि धर्मवती । विहते क्रीडति स शुभमातनोतु । अन्यत्र पृथग्विधेषु ङ्गप्रत्यङ्गादिभेदभिन्नेषु यस्य नटस्य भावेषु अङ्गहारेषु स्वयमपि तदनुकूलानङ्गरान् बिभ्रती नानाकृतिः नायिका नटी इह नृत्ते यद्धर्मैः धीरोदात्ताद्यवस्थानुरणरूपैः स्वयमपि तद्धर्मिणी तदनुरूपाकारवतो विहरते नृत्यति ॥ ६ ॥

प्रभाविलासः - ६

देव इति । दीव्यति भूतसर्गपरिपालनादिना क्रीडतीति देवो यणः । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव " इति नोक्तेः, दिवधातोः क्रीडार्थकत्वात् ; " दिव्यो

देव एको नारायणः " श्रुतेः । अन्यत्र नाटये नटराजः, “ देवः सुरे घने राज्ञि " इतिः । भूमिकाम् ; अवतारम् ;

अवतारम् ; अन्यत्र वेषपरिग्रहम् । दशधा ; " अजायमानो बहुधा विजायते " इति श्रुतेः । निर्वर्तयन् ; आदयन् । रङ्गे धामनि ; श्रीरङ्गे नाट्यस्थाने च । लब्धो निर्भरो

यैस्ते लब्धनिर्भररसाः । रसो ब्रह्म ; " रसो वै सः । रसं ह्येवायं बानन्दी भवति” इति श्रुतेः । यद्वा निर्भररसो भरसमर्पणरागः ।
अन्यत्र रसः शृङ्गारादिः । भावुकैः ; श्रवणादिनिपुणैः, भक्तैश्च । यद्भावेषु यस्यावतारेषु । नाट्यपक्षे भावो नाम व्यापारविशेषः ।

तदुक्तम् -

“ वागङ्गसत्त्वाभिनयैर्मुखरागोपशोभितैः ।

भावयन्नान्तरं भावं व्यापारो भाव इष्यते ॥

इति । यद्धर्मैः ; यस्य धर्मैः शरणागतरक्षणादिभिः ; आङ्गिकवाचिकादि - धर्मैश्च । धर्मिणीः तद्धर्मानुकूलधर्मवती । तच्च

" विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥”

इति श्रीरामोक्त्या तदनुकूलेन सीतावचनेन च दर्शितम् -

" विदितः स हि धर्मज्ञः शरणागतवत्सलः ।

तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥

“पापानां वा शुभानां वा वधार्हाणां लवङ्गम ।

कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥”

इति । नानाकृतिः ; देवादिदेहपरिग्रहवती । तदुक्तम्-

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।

विष्णोदेहानुरूपां वै करोत्येषात्मनस्तनुम् ॥
ति । अन्यत्र तद्वेषसमुचितवेषसंस्थानवती । नायिका ; सर्वलोकेश्वरी, ईश्वरीं सर्वभूतानाम् " " अस्येशाना जगतो विष्णुपत्नी " इति च तेः । अन्यत्र नटी नायिका । विहरते ; विलासमनुभवति । अत्रेष्ट - वतानटपरिवृढयोः प्रस्तुतत्वेन श्लेषालङ्कारः । तदुक्तम्-

" एकरूपेण वाक्येन द्वयोर्वर्णनमर्थयोः !

तन्त्रेण यः स हि श्लेषः सोऽयं नैकविधो भवेत् ॥”

ति । वैदर्भी रीतिः । अनेन नटप्रशंसानामकं प्ररोचनाङ्गमुक्तम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

(मुहूर्तम् इव स्थित्वा, ध्यानम् अभिनीय सोल्लासम् )
सोऽहम् इदानीं
स्वाधीन-सर्व-तत्त्व-सत्ताकस्य+++(←स्थित्यादेर् अपि)+++ स्व-तन्त्र-दैवतस्य कृपया कटाक्षितः

श्रुति-किरीट-विहार-जुषा धिया
सुरभिताम् इह नाटक-पद्धतिम् । मुहुर् अवेक्ष्य विवेकम् उपघ्नयन्+++(=नाटकाश्रयं कुर्वन्)+++
मतम् अपश्चिमयामि+++(=पुरस् करोमि)+++ +++(रामानुजादि-)+++विपश्चिताम् ॥ ७ ॥
+++(द्रुतविलम्बितम्)+++

मूलम् - ७

(मुहूर्तमिव स्थित्वा ध्यानमभिनीय सोल्लासम् ) सोऽहमिदानीं

स्वाधीन सर्वतत्त्वसत्ताकस्य स्वतन्त्रदैवतस्य कृपया कटाक्षितः

श्रुतिकिरीटविहारजुषा धिया सुरभितामिह नाटकपद्धतिम् ।
मुहुरवेक्ष्य विवेकमुपघ्नयन् मतमपश्चिमयामि विपश्चिताम् ॥ ७ ॥

प्रभावली - ७

मुहूर्तम् इवेति ।
देवता-ध्यानाभिनयार्थं मुहूर्तं निश्चलं तूष्णीं स्थित्वा ।
शब्दो वाक्यालङ्कारे ।
स्थितिवेलायां ध्यानम् अभिनीय,
ध्यानात् देवताकटाक्षं चापनीय ।
सोल्लासम् ; उल्लासो हर्षसम्भ्रमः । आहेति शेषः ।
किमित्यत्राह– सोऽहम् इति ।

कथम् इदं निर्वहामीति सन्दिहान-मानसोऽहम् ?
सर्वपदार्थानां सत्ता ; स्वरूपलाभः ।
स्थित्य्-आदीनाम् अप्य्-उपलक्षणम् इदम् ।
सा स्वाधीना यस्य । अत एव स्वतन्त्र-दैवतस्य श्रियः पत्युः ।
कृपया कटाक्षितः विषयीकृतोऽस्मीति ।
अत ; आदिष्टं निर्वहामीत्याह – श्रुतीति ।

श्रुतेः किरीटानि वेदान्ताः ।
तत्र विहारः परिशीलनम् ।
वेदान्तपरिशीलनभाजा धिया ज्ञानेन सुरभितां
वेदान्तार्थ-गन्धिनीम् इत्य् अर्थः ।
नाटक-सरणिम् इदानीं मुहुर् आलोच्य
विवेकं नाट्यस्याश्रयं कुर्वन्न्
अहं विपश्चितां श्रीभाष्यकार-यामुन–नाथ-मुनि–शठ-रिपु–बोधायनादीनां सिद्धान्तम् अपश्चिमयामि ; प्रधानयामि ।
अपश्चिमम् मुख्यम् ;
सर्ववेदान्तविपश्चिता्-आंसिद्धान्तेभ्यो मुख्यतया प्रकाशयामीत्यर्थः ॥ ७ ॥

प्रभाविलासः - ७

मुहूर्तम् इत्य् आरभ्य कृपया कटाक्षित इत्यन्तं स्पष्टम् ।
श्रुतीति ।
श्रुतिकिरीटम् ; श्रुतिशिरोऽलङ्कारभूत ईश्वरः ।
तत्र विहारजुषा तत्प्रवणया ।
यद्वा किरीटपदेन शिरांसि लक्ष्यन्ते वेदान्त-प्रवणयेत्यर्थः ।
वेदान्त-वासना-भूयस्त्वं वक्तुं सुरभिताम् इत्युक्तम् ।
विवेकम् उपघ्नयन् ; अन्तिकाश्रयं कुर्वन् -
नायकं कुर्वन्न् इति यावत् ।
“उपघ्नश् चान्तिकाश्रयः” इत्यमरः ।
अनेन “कवि-काव्य-नटादीनाम्” इत्य्-आदि-पद-सङ्गृहीतं नायक-प्रशंसा-रूपं प्ररोचनाङ्गम् उक्तम् ।
विपश्चिताम् ; टङ्क-द्रमिड–गुह-देव–यामुन-रामानुज-प्रभृतीनाम् । मतम् अपश्चिमयामि पुरस्करोमि ॥ ७ ॥

रूपक-परिचयः

विश्वास-प्रस्तुतिः

(नेपथ्याभिमुखम् अवलोक्य) आद्रियतां तावद् इयम् आर्यया रङ्गभूमिः ।
(प्रविश्य)

नटी - ( सविनयम् ) अय्य, एससि । आणविज्जउ - पिअप्पेसणो एसो परिअणो । ( आर्य, एषा ऽस्मि । आज्ञाप्यतां - प्रिय-प्रेषण एष परिजनः +++(5)+++)

सूत्रधारः - आर्ये, अपि नाम सत्त्वोपपन्न-सामाजिक-समादिष्ट–नाटक-साधन–समुचित-भूमिका-परिग्रहे20 सन्नह्यन्ति कुशलाः21 कुशी-लवाः ?

नटी – अय्य, कलचलण-दिठ्ठिकप्पा खु एदे अय्यस्स ।
किं ण तुह चितिए22 तूरन्ति ? एदम् उण परिपृच्छम्मि23 -
किण्णामअं कीरिसं रूवअम् अहिणेदुम् आरद्वन्ति24
( कर-चरण-दृष्टि-कल्पाः खल्व् एते आर्यस्य । किं न तव चिन्तिते त्वरन्ते?
एतत् पुनः परिपृच्छामि
किं-नामकं कीदृशं रूपकम् अभिनेतुम् आरब्धम् इति)

सूत्रधारः - आर्ये, किं न जानासि सङ्कल्प-सूर्योदयाख्यं नायकी-कृत-विवेकं नवीनं नाटकम् ?

भावं विदन्ति परम् +++(ब्रह्म)+++ अत्र परावर-ज्ञाः
प्रज्ञा-धनाः प्रगुण-नूतन-संविधानम् ।
यस्मिन् गुणास् तनु-भृतः सद्-असत्-प्रकारा
पात्री भवन्त्य् अनुगुणैर् अधिदैवतैः स्वैः ॥ ८ ॥

मूलम् - ८

(नेपथ्याभिमुखमवलोक्य) आद्रियतां तावदियमार्यया रङ्गभूमिः ।
(प्रविश्य)

नटी - ( सविनयम् ) अय्य, एससि । आणविज्जउ पि-

अप्पेसणो एसो परिअणो ।

( आर्य, एषास्मि । आज्ञाप्यतां प्रियप्रेषण एष परिजनः )
सूत्रधारः - आर्ये, अपि नाम सत्त्वोपपन्नसामाजिक-

समादिष्टनाटकसाधनसमुचितभूमिकापरिग्रहे20 सन्नह्यन्ति कुशलाः21 कुशीलवाः ?
नटी – अय्य, कलचलणदिठ्ठिकप्पा खु एदे अय्यस्स । किं ण तुह चितिए22 तूरन्ति ? एदम् उण परिपृच्छम्मि23 - किण्णामअं कीरिसं रूवअम् अहिणेदुम् आरद्वन्ति24

( करचरणदृष्टिकल्पाः खल्वेते आर्यस्य । किं न तव चिन्तिते त्वरन्ते? एतत् पुनः परिपृच्छामि किन्नामकं कीदृशं रूपकमभिनेतुमारब्धमिति)
सूत्रधारः - आर्ये, किं न जानासि सङ्कल्पसूर्योदयाख्यं नायकीकृत विवेकं नवीनं नाटकम् ?

भावं विदन्ति परमत्र परावरज्ञाः

प्रज्ञाधनाः प्रगुणनूतन संविधानम् ।

यस्मिन् गुणास्तनुभृतः सदसत्प्रकारा

पात्रीभवन्त्यनुगुणैरधिदैवतैः स्वैः ॥ ८ ॥

प्रभावली - ८

नेपथ्येति । नेपथ्यं नाम पात्रमज्जीकरणार्था तिरस्करिणी । आहेति शेषः । किमियत्राह - आद्रियतामिति । प्रथममायया नव्या त्वया इयं
रङ्गभूमिः नृत्तस्थली आद्रियतामङ्गीक्रियताम् ; नृत्तभूमिमागच्छेत्यर्थः । अथ नटी रङ्गभूमि प्रविश्याहेति शेषः । अय्य एस-आर्य एवास्मि । अहमागतास्मीत्यर्थः । आगविज्जड - आज्ञाप्यताम् । पिअप्पेसणो - प्रियम्प्रेषणः, आज्ञापनप्रियः । एसो – एष । परिणो — परिजनः । आज्ञापने प्रीतिमटी तव परिजनभूताहं त्वया कस्मिश्चित्कर्तव्ये आज्ञाप्यतामित्यर्थः ।
" म्लेच्छा भीरपुलिन्दानामपभ्रंशादि भाषितम् ।

स्त्रीणां प्राकृतभाषैव विशिष्टानां च संस्कृतम् ॥”

इति वचनात् नट्याः प्राकृतभाषाप्रयोगः । सूत्रधार आह— आर्ये अपि नामेति । सत्त्वोपपन्नाः सात्विकाः ये सामाजिकाः सभ्याः, तदादिष्टस्य नाटकस्य साधने निर्वहणे समुचितो यो भूमिकापरिग्रहः वेषपरिग्रहः, तत्र कुशलाः कुशीलवा नटाः सन्नह्यन्ति । अपि नामेति प्रश्ने अव्ययसमुदायः । नटी तदुत्तरमाह -कल-

1 नाटक omitted-ख. ध; नाट्या.

1

कुशलाः omitted कप्रस्तावना
चलणेति । नीचपात्राणां प्राकृतभाषाप्रयोगः । करचरणदृष्टिकल्पाः खलु ; अवयववत्परतन्त्राः । एदे एते ; परिजनभूता वयमित्यर्थः । अय्यस्स आयस्य नटोपाध्यायस्य । तुम्ह भासिए - तव भाषिते ; त्वयोक्तकार्य इत्यर्थः । किण्ण तूरन्ति - कि न त्वरन्ते । त्वरां कथं न कुर्वन्तीत्यर्थः । एवम् इत्यादि ।

1 तुझ भासिए)


’ पुच्छम्मि प्रभावलीसम्मतः पाठः । ३. आदि ठन्ति – ख.

8 आणत्तंवि
एवम् उण पुच्छम्मि - एतत्पुनः पृच्छामि । किं गामअं-किन्नामकम् । कीरिसं कीदृशम ; किं कारकं, त्रिवर्गविषयं मोक्षविषयं पूर्वमपूर्व वेति भावः । रूवअं – रूपकं नाटकम् । अहिणेदुं -अभिनेतुम् । आणत्तन्ति - आज्ञप्तमिति ; सदस्यैरिति पृच्छामीति सम्बन्धः । ततः सूत्रधार आह - आर्ये इत्यादि । एवमुत्तरत्रापि द्रष्टव्यम् । आर्ये नटि । पूज्यतयोक्तिरियम् । नायकीकृतः ; प्रधानपात्रीकृतः, विवेकः परावग्तस्त्रादिविवेचनाख्यो नृणा गुणः यत्र तत् । नूतनं नाटकं किं न जानासि ? उक्तं नाटकं विविच्य दर्शयति-भावमिति । अत्र ; अस्मिन्नाटके । परावरज्ञाः परः परमात्मा अवरो जीवः ; परावरतत्त्व-

,
लक्षणज्ञाः । यद्वा - परे ब्रह्मन्द्रादयोऽवरे अर्वाचीना यस्येति परावरः पर- " तस्मिन् दृष्टे परावरे " इत्युक्तेः । त स्वरूप स्वभावादिभिर्जानन्तीति तथोक्ताः ; ब्रह्मवेद इत्यर्थः । प्रज्ञाधना’ ; ज्ञानिनः । पग्म् ; केवलम् । प्रगुण- नूननसंविधानम् ; प्रकृष्टगुणनया अपूर्व सविधान निर्माणं यस्मिस्तम् । भावमभनयं विदन्ति । एतन्नाटकाभिनय ब्रह्मविद एव जानन्ति नान्ये । यत्र ; यस्मिन्नाटके सङ्कल्पसूर्योदये । तनुभृत ; जीवात्मनः । सदसत्प्रकारा गुणाः ; विवेकादयः मेोहादयश्चानुगुणैः स्वानुरूपैः स्वैरविदैवते तत्तद्रुगाधिष्ठातृदेवततुभिः पात्रीभवन्ति पात्राणि भवन्ति । " नर्तकान् पात्र मत्याहुताधारतया बुधाः” इत्युक्तेः । यद्वा अधिदेवतैः सह पात्रीभवन्तीति ॥ ८ ॥

प्रभाविलासः - ८

नेपथ्येति । नेपथ्यं नाम रङ्गस्थलव्यतिरिक्तं यवनिकान्तरितं
वर्णिकादिग्रहणयोग्यं नटवर्गस्थानम् । तदुक्तम् - " कुशीलवकुटुम्बस्य गृहं

नेपथ्यमिष्यते " इति । एवम् –

“अङ्गान्यस्याश्च भरताश्चत्वारीति बभाषिरे । प्ररोचनामुखं चेति वीथी प्रहसने अपि ॥ "

इत्युक्तप्रकारेण प्रस्तावनाङ्गे प्ररोचना निरूपिता । अथामुखं निरूपयति

  • आद्रियतामित्यादिना ।

सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ।

स्वकार्य प्रस्तुताक्षेपिचित्रोक्त्या यत्तदामुखम् ॥

इति लक्षणात् । आर्ययेति ; नटीसूत्रधारौ परस्परमार्यपदवाच्यौ । तदुक्तम् ‘विप्रामात्या प्रजास्त्वार्या नटीसूत्रकृतौ मिथः " इति । प्रविश्य नटीति नटीलक्षणमुक्तं भावप्रकाशे-
“चतुरातोद्यभेदज्ञा तत्कलासु विशारदा ।

करणाभिनयज्ञा च सर्वभाषाविचक्षणा ।

नटानुयोक्त्री कृत्येषु नटस्य गृहिणी नटी ॥”

इति । “ स्त्रीविदूषकबालानां शूद्राणां प्राकृतं वचः" इति प्राकृतभाषामाश्रित्याह- अय्येति । प्रियप्रेषण इति ; प्रियं प्रेषणं यस्य सः । नायककविप्रशंसारूपं सूत्रधारकृत्यमाह — सूत्रधार इत्यादिना । तल्लक्षणं भावप्रकाशे—-

आसूत्रयन् गुणान्नेतुः कवेरपि च वस्तुनः । रङ्गप्रसाधनप्रौढः सूत्रधार इहोच्यते ॥

इति । भरतागमानुमतं प्रश्नरूपसन्धिमाह—अपि नामेति । तदुक्तम्-
" प्रश्नो दूतिश्च लेख्यं च नेपथ्योक्तिस्तथैव च ।

आकाशवचनं चेति विज्ञेयाः पञ्च सन्धयः ॥ "

इति । नामेत्यभ्युपगमे । " नाम प्रकाश्यसम्भाव्यकुत्साभ्युपगमेषु च " इति विश्वः । सत्त्वोपपन्नाः ; सात्त्विकाः । कुशीलवाः ; नटविशेषाः ।

" भूमिकाभिरनेकाभिः कर्मवागङ्गचेष्टितैः ।

यथाप्रकृतिसन्धानकुशलास्ते कुशीलवाः ॥
इति लक्षणात् । रूपकमिति ; नायकादेर्नटे रूपणोक्तेः । तदुक्तम्–

यथा मुखादौ पद्मादेरारोपाद्रूपकप्रथा ।

तथैव नायकारोपो नटे रूपकमुच्यते ॥ "

इति । आर्ये किं न जानासीति श्रुतिकिरीटेति व्यञ्जितं किं न जानासीत्यर्थः । भावमिति । परे ब्रह्मादयोऽवरे यस्मात् स परावरः । सकलशासिता विष्णुः । तं जानन्तीति तथोक्ताः । अत्र ; वेदान्तनाटके ।
[[३१]]

प्रतिपाद्यं परम् ; समाभ्यधिकरहितम् । प्रगुणनूतन संविधानम् प्रकृष्टाभिनवाचवतारादिरचना विशेषम् । भावम् भगवदनुभावम् । विदन्ति ; अन्ये न जानन्तीत्यर्थः ।

" अवजानन्ति मां मूढा मानुषीं तनुमास्थितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ॥

""

इत्युक्तेः । यस्मिन् ; नाटके । तनुभृतः ; जगच्छरीरकस्य " तत्सर्वं वै हरेस्तनुः " इति स्मरणात् । सदसत्प्रकाराः ; सत्प्रकारा अद्वारकतया स्थिताः सङ्कल्पादयः कृपादयश्च ; असलकाराः सद्वारकतया स्थिता विवेकव्यवसायमोहादयः ; पात्रीभवन्ति । यद्वा परावरज्ञाः परावरतत्त्ववेदिनोऽत्र भावं तात्पर्यं शान्तिरसस्थायिभावं वा विदन्ति । यस्मिन् तनुभृतः संसारिणो जीवम्य सदसत्प्रकाराः साधुरूपा विवेकादयः असाधुरूपा मोहादयश्च पात्रीभवन्ति । अचेतनानां कथं पात्रीभाव इत्यत आह-अधि- दैवतैरिति ; अधिष्ठानदेवतावतां गुणानां पात्रतेत्यर्थः ॥ ८ ॥

विश्वास-प्रस्तुतिः

अपि च

विवेक-प्रागल्भ्य–स्फुरित-रण-वीर-व्यतिकरः
पर-ब्रह्मोदन्त–प्रकटित–दया-वीर-विभवः25
प्रबुद्ध-क्षेत्र-ज्ञः स्थिति-घटित-शान्ताकृतिर् अभूत्
प्रयोगश् चित्रोऽयं भव-रस-भुजाम् अप्य् अभिमतः ॥ ९ ॥

मूलम् - ९

अपि च

विवेकप्रागल्भ्यस्फुरितरणवीरव्यतिकरः ।

परब्रह्मोदन्तप्रकटितदयावीरविभवः25

प्रबुद्धक्षेत्रज्ञः स्थितिघटितशान्ताकृतिरभूत्

प्रयोगश्चित्रोऽयं भवरसभुजामप्यभिमतः ॥ ९ ॥

प्रभावली - ९

पुनर् अपि नाटकं संसारिणाम् अप्य् अभिमततयोपस्तौति — अपि चेति ।
चित्रः ; नाना-प्रकारः ; आश्चर्य-रूपी वा ।
अयं प्रयोगः ; सकल्पसूर्योदयाख्यं नाटकम् ।
भवरसभुजां संसारिणामप्यभिमतो भवति ।
आश्चर्यत्वे हेतु नानाप्रकारं दर्शयति विवेकेत्यादि
विवेकस्य प्रागल्भ्यं महामोह-विजयः, तेन प्रकाशितं रणवीरस्य - इदं दानवीरस्याप्युपलक्षणम् । एतेन युद्धवीरदयावीरदानवीरभेदेन त्रिविधोऽपि वीरोऽत्र वर्णितः । शान्तवीरयोर्व्यतिकराच्च चित्रत्वं भाव्यम् ।
"

धीरोद्धतस्य नायकस्य व्यतिकरः सम्पर्को यस्मिन् । परब्रह्मणः ; श्रीमन्नारायणस्योदन्तेनात्मना मुमुक्षासम्पादनरूपप्रवृत्त्या प्रकटितः दयावीरस्य धीरोदात्तस्य नायकस्य विभवो यस्मिन् । प्रबुद्धस्य क्षेत्रज्ञस्यात्मनः स्थितिरवस्थानं, तेन घटिता सम्पादिता शान्ताकृतिः धीरशान्तस्याकृतिर्यस्मिन् । सोऽयं प्रयोगचित्रोऽभूत् । अतः संसारिणामप्यभिमत इति ॥ ९ ॥

प्रभाविलासः - ९

मात्मा ;
वीरशान्तादिरसानां तत्र तत्राभिव्यक्त्या विचित्रोऽयं प्रयोग इत्याह– विवेकेति । विवेकस्य प्रागल्भ्येन स्फुरितोऽभिव्यक्तो रणे वीरस्य atreसस्य व्यतिकरः सम्पर्कों यस्य सः । परब्रह्मणः श्रीमन्नारायणस्योदन्ताः प्रह्लाद विभीषणपरित्राण हिरण्यरावणवधादिवृत्तान्ताः तैः प्रकटितो ञ्जितो दयायाः करुणारसस्य वीरस्य वीररसस्य च विभवो यत्र सः । प्रबुद्धस्य क्षेत्रज्ञस्य स्थित्या शीतोष्णसहनाद्यवस्थानेन घटिता अभिव्यक्ता शान्ताकृतिः शान्तरसाकारो यत्र सः । भवरसः ; संसाररसः शृङ्गारादिः " शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः " इत्यमरः । यद्वा प्रागल्भ्येति शौर्यादिसङ्ग्रहः । तेन वीररसानुभावोक्तिः । तदुक्तं भरतेन -
“सामादीनामुपायानां यथावद्विनियोजनम् ।

विज्ञत्वं धैर्यशौर्ये च शौर्य त्यागो यथोचितम् ।

भाषणं हावगम्भीरवाक्यं चेत्येवमादयः ॥

सर्वे गर्वानुभावाः स्युः । " इति ।

[[३३]]

उदन्तशब्देन श्रीरामराज्यनाश सीतावियोगादयः । तेन करुणा-

विभवोक्तिः । तत्रैव

/

" इष्टबन्धुवियोगश्च श्रीनाशो वधवन्धने । व्यसनप्रभवोऽनर्थः सुतादिनिधनं तथा । देशभङ्गादयश्चैते श्रुता यद्वा विलोकिताः ।

विभावाः सम्मताः पुंसामुत्तमानां पराश्रिताः ॥ "

इति । क्षेत्रज्ञस्थितीति पदेन शान्तरसविभावोक्तिः,

" संसारभीरुता दोषदर्शनं विषयेषु च ।

योगिसङ्गो मुनीनां च कृपाशमदमक्षमाः ॥

इत्याद्युक्तेः ॥ ९ ॥

विश्वास-प्रस्तुतिः

अमुष्य तावद् अतिशयोक्ताव् अवधिम् अपि न सम्भावयामि ।
कति कति न सम्भवन्त्य् अकूपारे26 शङ्खाः ।
किं ते परिष्कृत-पुरुषोत्तम-पाणि-पद्मः पाञ्चजन्यः ? किं च,

ये लोकान् इह वञ्चयन्ति27 विरलोदञ्चचन्-महः-कञ्चुकास्
ते तिष्ठन्तु महद्-गृहेषु मणयः किं तैर् इदं चिन्त्यताम्
श्रीवत्स-प्रतिवेश-दीप-रुचिना +++(कौस्तुभेन)+++ सार्धं किम् आभाष्यते
पद्मोल्लासन-दर्पणेन मणिना, प्रत्नेषु रत्नेष्व् अपि ॥ १० ॥ +++(5)+++

मूलम् - १०

अमुष्य तावदतिशयोक्ताववधिमपि न सम्भावयामि । कति कति न सम्भवन्त्यकूपारे26 शङ्खाः । किं ते परिष्कृत पुरुषोत्तमपाणिपद्मः पाञ्चजन्यः ? किं च,

ये लोकानिह वञ्चयन्ति27 विरलोदञ्चचन्महः कञ्चुका-

स्ते तिष्ठन्तु महद्गृहेषु मणयः किं तैरिदं चिन्त्यताम् ।

श्रीवत्सप्रतिवेशदीपरुचिना सार्धं किमाभाष्यते

पद्मोल्लासनदर्पणेन मणिना प्रत्नेषु रत्नेष्वपि ॥ १० ॥

प्रभावली - १०

एवं प्रयोगस्यावयवशोभामुक्त्वा समुदायशोभामाह – अमुष्येत्यादि । अमुष्य ; नाटकस्य । अतिशयोक्तौ ; अतिशयवर्णने । कति कति न सम्भ- वन्ति ; बहवः सम्भवन्तीत्यर्थः । किमिति ; पुरुषोत्तमस्य पाणिपद्मं परिष्कृतं येन स पाञ्चजन्यः कि ते भवन्तीति शेषः । उक्तमेवार्थं भङ्गयन्तरेणाह - किञ्चेत्यादि । ये लोकानिति । ये मणयः विरलं स्वल्प यथा तथोदञ्चन्महांस्येव कञ्चुकं संवरणकोशः येषा ते ; अल्पतेजस इत्यर्थः । इह जगति जनान् मूढान् वञ्चयन्ति ; ‘अयमेव श्लाघ्यः’ इति स्वविषयव्यामोहनं जनयन्ति ; ते महतां वञ्चकानां गृहेष्वेव तिष्ठन्तु । तैः कि प्रयोजनम् ? इदं वक्ष्यमाणं

चिन्त्यताम् । वक्ष्यमाणं दर्शयति — श्रीवत्सेति । श्रीवत्सो नाम भगवद्वक्ष- स्तिलकम् ; तस्य प्रतिवेशदीपरुचिना प्रतिगृहदीपायमानेन । यद्वा श्रीवत्से प्रतिवेशः छायया प्रवेशः, प्रतिफलनमित्यर्थः ; तेन दीपस्य रुचिरिव रुचिर्यस्य तेन । पद्माया उल्लासनं विलासः, तत्र विभ्रमालोकने दर्पणेन मुकुरेण मुकुर स्थानीयेन । विष्णुवक्षःस्थलभूषणेन लक्ष्मीदर्पणेनेति दिव्यदम्पत्योरुपकारातिशयः सूच्यते ।

[[३६]] तेन मणिना कौस्तुभेन सह प्रत्नेषु पुराणेष्वपि रत्नेषु ब्रह्मादिभिर्धियमाणेषु कश्चिदेकोऽपि मणिः स्यमन्तकादिराभाध्यते तत्सदृशत्वेन वर्ण्यते किम् ? नेत्यर्थः ॥ १० ॥

प्रभाविलासः - १०

अमुष्येति । अवधिम् ; निरूपकम् । अकूपारे ; समुद्रे । परिष्कृत - पुरुषोत्तमपाणिपद्मपाञ्चजन्यपदैः परस्परमलङ्कार्यालङ्कारकभाव उक्तः । प्रयोगातिशय वैलक्षण्यमन्यापदेशेनाह – ये लोकानिति । अविरलं सान्द्रं यथा भवेति तथा उदञ्चन्ति महांस्येव कञ्चुकानि दृषत्त्वाच्छादकानि येषां ते तथोक्ताः, मण्यामासा इत्यर्थः । एतेन शाकुन्तलमुरारिनाटकप्रभृतीनामाभासत्वमुक्तम् । शाकुन्तलप्रभृतयो हि शृङ्गाररसैकपरा भगवद्गुणानुभवरहिताश्च । मुरारिप्रमुखास्तु भगवद्गुणानुभवेऽपि वीराद्याभासरसपरतया शान्तरसप्रतिपादनविधुरा इति भावः । महद्गृहेषु महतां गृहेषु । प्रत्नेषु ; पुरातनेषु ।

;
रत्नेषु स्यमन्तकादिषु । श्रीवत्स एव प्रतिवेशः प्रतिगृहं तत्र दीपरुचिना भासकप्रभारूपेण । अनेन मण्यन्तरवदस्य दृषत्त्वरूपजडांशो व्यावृत्तः । पद्माया लक्ष्म्या उल्लासनानि विलासाः, तेषा दर्पणेन । अत्र दर्पणग्रहणेन प्रभावयवानामतिश्लिष्टत्वमुक्तम्, प्रभामात्रे प्रतिबिम्बादर्शनात् । अत एव चन्द्रे भूच्छायाप्रसिद्धिः । तथा च श्रुतिः – " यददश्चन्द्रमसि कृष्णम् " इति । दर्शनेनेति पाठे दृश्यतेऽत्रेति दर्पणमेव लक्ष्यते । मणिना ; कौस्तुभाख्येन । अनेन भगवत्स्वरूपरूपगुण विभूति विग्रहपत्नीपरिजनादिबहुप्रपञ्चनपरस्यास्य प्रयोगस्य निष्प्रपञ्चनिः श्रीकचिन्मात्राभिनयवद्भयः प्रबोधचन्द्रोदय । दिभ्यो वैलक्षण्यमुक्तम् । यद्वा पूर्वार्धेन प्रबोधचन्द्रोदयादिवैलक्षण्यम्, उत्तरार्धेन शाकुन्तलमुरारिप्रभृतिवैलक्षण्यं चेति द्रष्टव्यम् । अत्र कौस्तुभरूपा प्रस्तुतवर्णनेन प्रस्तुतकाव्यप्रतिपाद्यवस्तुसूचनादवलगितं नामामुखाङ्ग-

मुक्तम् । तदुक्तम्

"”

अप्रस्तुतार्थकथनात् क्रियते सूचनं तु यत् । पात्रस्य वस्तुनो वापि नाम्नावलगितं हि तत् ॥

इति ॥ १० ॥

विश्वास-प्रस्तुतिः

इतश् चायम् अतीव बहु मन्तव्यः । यतः28

अपदिश्य+++(=व्याजीकृत्य)+++ किम् अप्य् +++(रूपकम् इति)+++ अ-शेष+++(-जन)+++-गुप्त्यै
निगमान्तेषु निरूढ-गौरवेण ।
प्रविभक्त-हिताहितः प्रयोगः29
कविना कारुणिकेन कल्पितोऽसौ ॥ ११ ॥

मूलम् - ११

इतश्चायमतीव बहु मन्तव्यः । यतः28

अपदिश्य किमप्यशेषगुप्त्यै निगमान्तेषु निरूढगौरवेण ।

प्रविभक्तहिताहितः प्रयोगः29 कविना कारुणिकेन कल्पितोऽसौ ॥ ११ ॥

प्रभावली - ११

अथ प्रयोगस्य वक्तृवैलक्षण्यं बहुधा दर्शयति ।
वक्तृवैलक्षण्यादव्ययं बहुमन्तव्य इत्याह- इतश्चेति ।
यस्माद् अयं प्रयोगः कारुणिकेन कविना कल्पितः, इतश्चेत्यर्थः ।
अपदिश्येति ।
किमप्यपदिश्य = व्याजीकृत्य ;
कान्तासम्मितत्वेनाध्यात्म-ज्ञानम् उपदेष्टव्यम् इत्य् अभिप्रायेण ।
अशेषगुत्यै ; सर्वजन-संरक्षणाय । वेदान्तेषु निरूढं प्रसिद्धं गौरवमाचार्यत्वं यस्य, वेदान्ताचार्येणेत्यर्थः । कविः क्रान्तदर्शी अतिक्रान्तदर्शी । भूतभविष्यवर्तमान सर्ववस्तुसाक्षात्कर्त्रा गुरुणा । प्रविभक्तः प्रतिपादितः त्याज्योपादेयार्थी यस्मिन् असौ प्रयोगः नाटकं कल्पितः निर्मितः ॥ ११ ॥

प्रभाविलासः - ११

पुरा किल केनचित् प्रबोधचन्द्रोदयाख्यनाटकाभिनयेन वञ्चितं जनमवलोक्य श्रीरङ्गस्थ महाजनैः श्रीरङ्गराजदिव्याज्ञया वेदान्ताचार्यमानाय्य वेदान्ताचार्यपदेऽभिषिच्य सङ्कल्पसूर्योदयाख्यं प्रबन्धं कारयित्वा यवनिकां प्रसार्य दर्शितमिति सम्प्रदायः । तमिममाह - अपदिश्येति । किमपि ; आज्ञारूपम् । प्रयोजनं तु लोकानुग्रह एवेत्याह– अशेषेति । प्रबन्धकरणे सामर्थ्यमाह - निगमान्तेष्विति । प्रविभक्ते हिताहिते यस्मिन्

। सः । लोकानुग्रहे निमित्तमाह — कारुणिकेनेति ॥ ११ ॥

कवि-परिचयः

विश्वास-प्रस्तुतिः

नटी - ( सकौतुकम् )30 अय्य, कस्स उण करणो पओओ एसो ?
जत्थ बहुमाणेण अह्मेसु वि पअडिअ-पक्खवाआ एसा परिसआ ।
( आर्य, कस्य पुनः कवेः प्रयोग एषः -
यत्र बहु-मानेनास्मास्व् अपि प्रकटित-पक्षपातैषा परिषत् ?)

सूत्रधारः - आर्ये, किं न श्रुतम् इदं ते ।

अस्ति खलु समस्तलोक-सम्भावनीयस्य31
विश्वातिशायिनो विश्वामित्र-गोत्र-भूषणस्य
विशुद्ध-विद्या-विहार3233-पुण्डरीकस्य
पुण्डरीकाक्ष-सोम-सुत्–सम्भवस्यानन्त-गुण-शेवधेर्+++(=निधेर्)+++ अनन्त-सूरेर्
आत्म-सम्भवः श्रीरङ्गराज-दिव्याज्ञा-लब्ध-वेदान्ताचार्य-पदः
कवितार्किकसिंह इति प्रख्यात-गुण-समाख्यः
छात्र-जन-निबद्ध-जैत्र-ध्वज-प्रसाधित–दश-दिशा-सौधः
सर्व-तन्त्र–सङ्कट-प्रशमन-विशङ्कट+++(=विशाल)+++-मतिः
श्रीमद्-वेकटनाथो नाम कविः ।

गौड-वैदर्भ-पाञ्चाल-
मालाकारां सरस्वतीम् ।
यस्य नित्यं प्रशंसन्ति
सन्तः सौरभ-वेदिनः ॥ १२ ॥

मूलम् - १२

नटी - ( सकौतुकम् )30 अय्य, कस्स उण करणो पओओ एसो ?
जत्थ बहुमाणेण अह्मेसु वि पअडि अपक्खवाआ एसा परिसआ ।

( आर्य, कस्य पुनः कवेः प्रयोग एषः ? यत्र बहुमानेनास्मास्वपि प्रकटितपक्षपातैषा परिषत् ।)

सूत्रधारः - आर्ये, किं न श्रुतमिदं ते । अस्ति खलु समस्तलोकसम्भावनीयस्य31 विश्वातिशायिनो विश्वामित्र गोत्रभूषणस्य विशुद्धविद्याविहार3233 पुण्डरीकस्य पुण्डरीकाक्षसोमसुत्सम्भवस्यानन्त-
-गुणशेवधेरनन्तसूरेरात्मसम्भवः श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यपदः कवितार्किकसिंह इति प्रख्यातगुणसमाख्यः छात्रजननिबद्धजैत्रध्वजप्रसाधितदशदिशासौधः सर्वतन्त्रसङ्कटप्रशमनविशङ्कटमतिः श्रीमद्वेकटनाथो नाम कविः ।
गौडवैदर्भ पाञ्चालमालाकारां सरस्वतीम् ।

यस्य नित्यं प्रशंसन्ति सन्तः सौरभवेदिनः ॥ १२ ॥

प्रभावली - १२

1 यतः omitted, ग.

2 हिताहितप्रयोगः – व.

;
अथास्य कवेरभिजनवृत्तविद्यादि वर्णयितुं नव्या आकाङ्क्षामुद्भावयतिनटीत्यादि । अय्य - आर्य । कस्स - कस्य । उण पुनः । कइणो – कवेः । पओओ - प्रयोगः । एसो - एषः । जत्थ-यत्र । बहुमाणेण – बहुमानेन । अम्हेसु - अस्मासु । वि-अपि । पअडिअपक्खवाआ - - प्रकटितपक्षपाता । एसा - एषा । परिसआ - परिषत् । पक्षपातः प्रीतिः । श्रीमान् वैङ्कटनाथार्यः स्वप्रशंसा विमुखोऽपि नाटकसमय सिद्धत्वेनावर्जनीयत्वात् सूत्रधारमुखेन स्ववैभवं प्रकटयति - आर्ये इत्यादिना । इदम् ; वक्ष्यमाणम् । वेङ्कट-

[[३८]] नाथो नाम कविरस्तीति ते त्वया न श्रुतं किम् ? । अस्ति खल्वित्यादि । प्रथमं त्रिपुरुषमभिजन श्रेष्ठघमाह – समस्तेति । लोकः ; जनः, सर्वजनपूजनीयस्य । विशुद्धा या विद्या अध्यात्मविद्या, तस्या विहरणपुण्डरीकस्य ; विहारस्थानभूतस्येत्यर्थः । पुण्डरीकाक्षसोमयाजिनः पुत्रस्य । अनन्तानामसङ्ख्यातानां गुणानां शमदमादीनां शेवधेर्निधिभूतस्य । अनन्तसूरेः ; अनन्ताचार्यस्य । आत्मसम्भवः ; श्रीरङ्गराजस्य दिव्याज्ञया प्राप्तवेदान्ताचार्य इति गुणनामधेयः । पुरा खलु वेङ्कटेशगुरुः श्रीरङ्गराजसन्निधौ दुर्जयदुर्वादिनो वादेन जित्वा सन्तुष्टेन श्रीरङ्गराजेन वेदान्ताचार्योऽयमित्युक्त इत्यैतिह्यमस्ति । अत एवाधिकरणसारावल्याम्–

" विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां

वेदान्ताचार्य सञ्ज्ञामवहितबहुवित्सार्थमन्वर्थयामि । "

;

इत्यन्वर्थतया स्वेनैवोक्तम् । समाख्या नाम ; प्रख्यातगुणनामधेयः । अस्य शिष्यप्रशिष्यैदिग्विजयः कृत इत्याह-छात्रजनेति । छात्राः ; शिष्याः । तैरेव ‘जैत्रध्वजैरलङ्कृतदशदिक्सौधः । सर्वतन्त्राणा वेदान्तमीमासाशब्दन्यायशास्त्रादीनाप्रस्तावना
यः सङ्कटः दुर्वादिकल्पितः क्षोभः, तस्य प्रशमने विपुलमतिः । वेदान्ते कुदृष्टिभिः कृतः क्षोभः शतदूषणीतत्वमुक्ताकलापादिभिः प्रशमितः । मीमासाया सेश्वरमीमांसया, न्यायशास्त्रे न्यायपरिशुद्धया । एवमन्यदप्यूह्यम् । तस्य कविता - वैलक्षण्यमाह – गौडेति । गौडः अतिकठिनशब्द सन्दर्भरूपः पाकविशेषः । पाञ्चालो नामातिकोमलशब्दसन्दर्भरूपः सः । वैदर्भः अनतिकठिनकोमलशब्दसन्दर्भरूपः सः । गौडादित्रिविधमालाकारा यस्य सरस्वतीं सौरभवेदिनः कवितासौरभवेदिनः सन्तः नित्यं प्रशंसन्ति ॥ १२ ॥

प्रभाविलासः - १२

किं न श्रुतमिति । श्रुतिकिरीटेत्यादिना निगमान्तेष्वित्यादिना चोक्तमित्यर्थः । अस्तीति । विशुद्धविद्यायाः ; तरुण्या इति व्यज्यते । विहार पुण्डरीकः ; लीला दिग्गजः, व्याघ्रशाबो वा ।

" व्याघ्रशाबे पुण्ड-
रीकः " इति निघण्टुः । सोमसुत् सोमयाजी । शेवधिः ; निधिः । " निधिर्ना शेवधिः" इत्यमरः । लब्धः वेदान्ताचार्यपदः वेदान्ताचार्य-

। सुखासनं यस्य सः । गुणसमाख्यः ; गुणकृतनामधेयः । छात्राः ; शिष्याः । प्रसाधितः ; अलङ्कृतः । छात्रजना एव निबद्धा जैत्रध्वजाः, तैः प्रसाधिता दशदिशासौधाः यस्य सः । विशङ्कटमतिः ; विपुलबुद्धिः । " विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्" इत्यमरः ।
गौडेति । गौडादयो रीतयोऽधस्तादुक्ताः “ असमाससमासेन " इत्यादि - लक्षणोदाहरणेन । अतिदीर्घसमासा गौडी । असमासा वैदर्भी । मध्यमसमासा पाञ्चाली । सन्तः ; निर्मत्सराः । सौरभवेदिनः ; अलङ्कारशास्त्रसाराभिज्ञाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

+++(त्रिशङ्कूद्धारे)+++ अन्येन्द्रकं भुवनम् अन्यद् अनिन्द्रकं वा
कर्तुं क्षमे कविर् अभूद् अयम् अन्ववाये ।
जन्म द्वितीयम् ऋषिभिः कथितं यतः सा
देवी च विश्वजननी यद्-अनन्य-गोत्रा +++(‘सावित्र्या ऋषिर् विश्वामित्रः’)+++ ॥ १३ ॥

मूलम् - १३

अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा

कर्तुं क्षमे कविरभूदयमन्ववाये ।

जन्म द्वितीयमृषिभिः कथितं यतः सा

देवी च विश्वजननी यदनन्यगोत्रा ॥ १३ ॥

प्रभावली - १३

अस्य गोत्रतः श्रेष्ठ्यं प्रशंसति - अन्येति ।
भुवनं सर्वम् अन्येन्द्रकं वर्तमानेन्द्रादन्येन्द्रविशिष्टं कर्तुं क्षमे समर्थे । अनिन्द्रकम् ; इन्द्ररहितं वा कर्तुं क्षमे

“अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः” इत्युक्तं कुपितेन विश्वामित्रेण बालकाण्डे ।

अन्ववाये ; विश्वमित्रवंश इत्यर्थः ।
अयं कविः ; श्रीवेङ्कटनाथनामाभूत् ।

किं च ऋषिभिर्मन्वादिभिः ।
द्वितीयं जन्म ; विप्राणामुपनयनाख्यं विद्याजन्म ।
यतः ; यद्-उपदेशाद्-धेतोः, याम् आश्रित्य ; ल्यब्लोपे पञ्चमी । कथितम् ; उपदिष्टम् ।
सा ; गायत्रीदेवी । यद्-अनन्यगोत्रा ; येन कविना एकगोत्रा ; ‘सावित्र्या ऋषिर् विश्वामित्रः’ इत्युक्तेः ।
सर्वेषा द्विजत्व-हेतु-भूता गायत्री येन सहैकवंशसमुद्भूता
तादृक्प्रभावोऽयं वेङ्कटेशगुरुरिति ॥ १३ ॥

प्रभाविलासः - १३

अन्येन्द्रकमिति । भुवनमन्येन्द्रकम् ; विद्यमानभुवनस्येन्द्रान्तरमित्यर्थः । अन्यद्वा ; भुवनमित्यनुवर्तते । अन्यत् ; सेन्द्रकं भुवनान्तरमित्यर्थः । अनिन्द्रकं वा विद्यमानभुवनमनिन्द्रकं वेत्यर्थः । अनेन
" अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः " इति विवृतम् तत्र हि – लोको वा स्यात् ; सेन्द्रकं लोकान्तरं वा स्यादित्यर्थः । अनिन्द्रकः ; विद्यमानलोक एवानिन्द्रकः स्यादित्यर्थः । यतः यस्या गायत्र्या उपदेशात् ; ’ विश्वामित्र ऋषिः सविता देवता’ इति गायत्र्या विश्वामित्रर्षिकत्वात् अनन्यगोत्रेत्युक्तम् । न तु तद्गोत्रत्वात,

। साङ्ख्यायन गोत्रत्वात् ॥ १३ ॥

विश्वास-प्रस्तुतिः

अपि च ;

वित्रासिनी विबुध-वैरि-वरूथिनीनां
पद्मासनेन परिचार-विधौ प्रयुक्ता ।
उत्प्रेक्ष्यते बुधजनैर् उपपत्ति-भूम्ना
घण्टा हरेः समजनिष्ट यद्-आत्मनेति ॥ १४ ॥

मूलम् - १४

अपि च ;

वित्रासिनी विबुधवैरिवरूथिनीनां पद्मासनेन परिचारविधौ प्रयुक्ता । उत्प्रेक्ष्यते बुधजनैरुपपत्तिभूम्ना घण्टा हरेः समजनिष्ट यदात्मनेति ॥ १४ ॥

प्रभावली - १४

नित्यसूर्यवतार विशेषतोऽपि श्रेष्ठयमाह - अपि चेत्यादि । विबुधवैरिवरूथिनीनां वित्रासिनी ; " आवाहनार्थ देवाना त्रासनार्थं सुरद्विषाम् । घण्टां निनादयेत्" इत्युक्त्या असुरवित्रासिनी भवति घण्टा । परिचारविधौ ;
समाराधनकर्मणि । प्रयुक्ता ; कल्पिता । हरेः श्रीवेङ्कटनाथस्य घण्टा यदात्मना यद्रूपेणावततारेति बुधजनैः ज्ञानिभिः उपपत्तिभूम्ना युक्तिबाहुल्येन वेदान्ताचार्यकसर्वतन्त्रस्वातन्त्र्यादिमहिमदर्शनादिरूपेणोत्प्रेक्ष्यते निश्चीयते । अत्रैवमैतिह्यम्-

" वेदान्ताचार्यजननी
वरपुत्राभिलाषिणी ।
स्वप्ने श्रीवेङ्कटेशेन
दत्ता घण्टा निगीर्य सा ॥
दधार गर्भमतुलं
द्वादशाब्दं पतिव्रता ।
ततो जज्ञे गुरुरयं
वेदान्ताचार्यशेखरः ॥ ”

इति ॥ १४ ॥

प्रभाविलासः - १४

तस्याः

पुरा किल वेदान्ताचार्यमातुः पुत्रमिच्छन्त्याः श्रीशः स्वाराधनघण्टां स्वप्ने प्रादादिति लोकगाथा । तामभिप्रेत्याह - वित्रासिनीति । विबुधवैरिणो राक्षसाः, तेषां वरूथिन्यः सेनाः । अन्यत्र कुदृष्टिवर्गाः ।
तासां वित्रासिनी । पद्मासनेन प्रयुक्ता चतुर्मुखेन समर्पिता । अन्यत्र श्रियः पत्या दत्ता । उपपत्तयः ; विबुधवैरिवित्रासकत्वकै कर्योपयुक्तत्वादयः, तेषां भूना बाहुल्येन । यद्वा उक्तोपपत्तिद्वयसामर्थ्येनेत्यर्थः । यदात्मना यस्य वेदान्ताचार्यस्यात्मना स्वरूपेण । घण्टानादो रक्षोघ्न इति प्रसिद्धिः । श्लोषालङ्कारः ॥ १४ ॥

विश्वास-प्रस्तुतिः

स च34 ;

विंशत्य्-अब्दे विश्रुत-नाना-विध-विद्यस्
त्रिंशद्-वारं श्रावित-शारीरक-भाष्यः ।
श्रेयः श्रीमान् वेङ्कट-नाथः श्रुति-पथ्यं
नाथ-प्रीत्यै नाटकम् अर्थ्यं व्यधितैतत् ॥ १५ ॥

+++(मत्तमयूरम् इति च्छन्दः। )+++

मूलम् - १५

स च34 ;

विंशत्यब्दे विश्रुतनानाविधविद्य -
स्त्रिंशद्वारं श्रावितशारीरकभाष्यः ।
श्रेयः श्रीमान् वेङ्कटनाथः श्रुतिपथ्यं
नाथप्रीत्यै नाटकमर्थ्यं व्यधितैतत् ॥ १५ ॥

प्रभावली - १५

तस्यासाधारणभुदन्त कथयन् स एवेदं नाटकं कृतवानित्याह-स चेत्यादि । स च ; वेङ्कटनाथः । विंशतेरब्दानां समाहारः विंशत्यब्दम्, तत्रैव 1 विश्रुताः विशेषेण पठिताः सतात्पर्य गृहीताः नानाविधाः श्रुतिस्मृतिपुराणषडङ्गमीमासान्यायविस्तर शब्दकाव्यनाटकालङ्कारज्योतिष बाहटादिरूपाः विद्याः शास्त्राणि येन । ततः परं त्रिशद्वारं श्रावितं पाठितं शारीरकभाष्यं श्रीभाष्याख्यं।

श्रुतप्रकाशिकाया सह येन सः । श्रीमान् ; ज्ञानभक्तिवैराग्यविद्यासदाचारसम्पन्नः । नाथप्रीत्यै ; श्रीरङ्गनाथप्रीत्यर्थम् । अर्थ्यम् ; महार्थगर्भितम् । श्रेयः ; प्रशस्ततरम् । श्रुतिपथ्यम् ; श्रोत्रहितम्, उपनिषदामनुकूलं वा । एतन्नाटकम् ; सङ्कल्पसूर्योदयाख्यम् । व्यक्ति ; निरमिमीत ॥ १५ ॥

प्रभाविलासः - १५

विंशतीति । त्रिंशद्वारश्रावितभाष्यत्वं न विंशत्यब्दान्तर्भूतम् ।
किन्तु नाटकप्रणयनकालावधीत सम्प्रदायः । श्रेयः ; अत्युत्कृष्टम् । प्रशस्यशब्दादीयसुनि “प्रशस्यस्य श्रः " इति श्रादेशे श्रेय इति रूपम् । श्रेयो-

। निमित्तमिति वार्थः । श्रुतिपथ्यम् श्रव्यं वेदहितकारि वा ; " वेदे श्रवसि च श्रुतिः " इत्यमरः । एतादृश दिव्य प्रयोगप्रवर्तकत्वं भागधेयातिशयायत्तमिति निबन्धारमभिष्टौति - श्रीमानिति ; " अन्तरिक्षगतः श्रीमान् " " स तु नागवरः श्रीमान् " इतिवत् । अर्थ्यम् ; अर्थादनपेतम् । व्यधित ; कृतवान् ॥ १५ ॥

रूपक-विषयौचित्यम्

विश्वास-प्रस्तुतिः

नटी - अय्य, कहं णाम एदस्य35 एअन्तणिअमन्तवि- आणसन्दिअमाणसन्स कक्कस अरतक्ककुलिसणिस्सुठ्ठिअ36 पासण्डहुमसण्डा भारई अह्मारिसकेलिजोग्गं रूवअं कुणज्ज ?
( आर्य, कथं नामैतस्यैकान्त-निगमान्त-वितान-सन्दित+++(=अवच्छिन्न)+++-मानसस्य
कर्कशतर-तर्क-कुलिश– निस्त्रुटित-पाषण्ड-द्रुम-षण्डा भारती
अस्मादृश-केलि-योग्यं रूपकं कुर्यात् ?)

सूत्रधारः - ( 37 सान्तर्-हासम् ) यद् एतद् उभयम् आर्या +++(प्रश्नेन)+++ पर्यनुयुङ्क्ते,
तत्र तावद् आदौ
किम् एनम् अ-प्रसक्त-निखिल-करण-व्यापारम्
अनुभवैकतान-मानसम् अत्यन्त-निभृतावस्थं38 निबद्धारम् अवधारयसि?
अथापि39 ब्रूमः –

मनु-व्यास-प्राचेतस-परिषद्-अर्हा क्वचिद् इयं
सुधा-सिक्ता सूक्तिः स्वयम् उदयम् अन्विच्छति जने ।
निरुन्ध्युः के विन्ध्याचल-विकट-सन्ध्या-नट-जटा-
परिभ्रान्ता पङ्गोर् उपरि यदि गङ्गा निपतति ॥ १६ ॥+++(5)+++

मूलम् - १६

नटी - अय्य, कहं णाम एदस्य35 एअन्तणिअमन्तवि- आणसन्दिअमाणसन्स कक्कस अरतक्ककुलिसणिस्सुठ्ठिअ36 पासण्डहुमसण्डा भारई अह्मारिसकेलिजोग्गं रूवअं कुणज्ज ?
( आर्य, कथं नामैतस्यैकान्तनिगमान्तवितानसन्दितमानसस्य कर्कशतर तर्ककुलिशनिस्त्रुटितपाषण्डद्रुमषण्डा भारती अस्मादृशकेलियोग्यं रूपकं कुर्यात् ?)

सूत्रधारः - ( 37 सान्तर्हासम् ) यदेतदुभयमार्या पर्यनुयुङ्क्ते, तत्र तावदादौ किमेनमप्रसक्तनिखिलकरणव्यापारमनुभवैकतानमानसमत्यन्तनिभृतावस्थं38 निबद्धा रमवधारयसि । अथापि39 ब्रूमः –
मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियं

सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।

निरुन्ध्युः के विन्ध्याचलविकटसन्ध्यानटजटा-

परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ १६ ॥

प्रभावली - १६

एवं प्रयोगकर्तृवैभवं श्रुत्वा नटी वेदान्तैकप्रवणस्य तस्य दुर्वादिगवसर्वकषा वाग्वृत्तिरस्मन्नाट्ययोग्यं रूपकं कथं कुर्यादिति पृच्छति-नटीत्यादि । अय्य कहं णाम - आर्य कथ नाम । एद्स्स - एतस्य । एअन्तणिअनन्त- एकान्तनिगमान्त । विआणसन्दिअमाणसस्म - वितानसन्दितमानस्य । सन्दितं
सम्बद्धम् । कक्कसअर - कर्कशतर । तक्ककुलिस – तर्ककुलिश । निस्सुठ्ठिअ ; निस्त्रुटित । पासण्डदुमसण्डा भारई - पाषण्डद्रुमषण्डा भारती । अम्हारिसकेलिजोग - अस्मादृशकेलियोग्यम् । रूपअं — रूपकम् । कुणज्ज — कुर्यात् । अत्र प्रश्नद्वयमभिप्रेतम् । एकान्ततो निगमान्तबद्धमनस्कस्य कथं कवितारचनेच्छा ? इच्छायामपि प्रगल्भवाग्वृत्तेः कथं ललितनाटकनिर्माणमिति । सान्तर्हासम् ; प्रश्नद्वयस्यापि सुपरिहरत्वात् अन्तर्हासविशिष्टं यथा तथाह — यदेतदिति । उभयम् ; अत्यन्तनिभृतावस्थस्य कथं कवितासक्तिः ? कठिनवाग्वृत्तेः कथं ललितप्रयोग रचनेति यदेतदुभयं परिपृच्छसि । तत्रादौ विशेषणे । निबन्धारम् ; प्रबन्धकर्तारम् । अप्रसक्तनिखिलकरणव्यापारम् ; परित्यक्तवैषयिकव्यवहारम् । अनुभवे ; ब्रह्मानुभवे । एकतानमानसम् ; एकाग्रचित्तम् । अत्यन्तनिभृता- वस्थम् ; अनभिमतविधिनिषेधमर्यादं किमवधारसीति शेषः । अथापि ; तथाविधं
यद्यवधारयसि तथापीत्यर्थः । मन्त्रिति । तथाविधस्यापि मन्त्रयन्त्रादीन् विना केवल भगवत्प्रसादात् पराङ्कुशादीनामिव कविता लब्धा चेत् केन निवारयितुं शक्यत इत्याह । मनुव्यासप्राचेतसपरिषद ; तत्प्रभावदर्शीति भावः । ब्रह्मविदामपि मनुव्यासादीना महाभारतादिप्रबन्धनिर्माणदर्शनादित्यभिप्रायेणोक्तम् । सुधासिक्ता ; अमृतसिक्तेवातिस्वादुतमा । इयं सूक्तिः ; प्रयोगरूपदिव्यसूक्तिः 1 कचिज्जने ; कस्मिंश्चित्पुरुषे । स्वयमेवोदयमन्विच्छति चेत् केन निवारयितुं शक्यत इति भावः । अर्थान्तरन्यासेन तद् द्रढयति - निरुन्ध्युरिति । विन्ध्याचलवत् विकटायां विशालायां सन्ध्यानटस्य रुद्रस्य जटायां परिभ्रान्ता गङ्गा पोरुपरि यदि निपतति तां के निरुन्ध्युः । पङ्गुश्च प्रेक्षकाश्च निपातयितृ दैवं चेत्येतेषु के निरोद्धुं शक्ताः । न कोऽपीत्यर्थः ॥ १६ ॥

प्रभाविलासः - १६

सन्दितम् ; लग्मम् । उभयम् ; एतस्येत्यादि कर्कशेत्यादि च । एकतानम् अनन्यवृत्ति । निबन्धारम् ग्रन्थकर्तारम् । प्रथमपर्यनु-
योगस्योत्तरमाह -मन्विति । स्वयमुदये मन्वादय एव निदर्शनमिति भावः । विन्ध्याचलवत् विकटाः विस्तृता दुष्प्रवेशा वा । सन्ध्यानटस्य रुद्रस्य या जटाः, तासु परिभ्रान्ता ॥ १६ ॥

विश्वास-प्रस्तुतिः

अन्यद् अपि निध्यायतु भवती-

गम्भीर-भीषण-गतिर् गिरि-खण्डनादौ40
चूडापदं पशुपतेर् अपि घूर्णयन्ती
स्वादु-प्रसन्न-सुभगानि41 वसुं-धरायां
स्रोतांसि दर्शयति किं न सुर-स्रवन्ती ॥ १७ ॥+++(5)+++

मूलम् - १७

अन्यदपि निध्यायतु भवती-

गम्भीरभीषणगतिर्गिरिखण्डनादौ40

चूडापदं पशुपतेरपि घूर्णयन्ती । स्वादुप्रसन्नसुभगानि41 वसुन्धरायां

स्रोतांसि दर्शयति किं न सुरस्रवन्ती ॥ १७ ॥

प्रभाविलासः - १७

द्वितीयस्योत्तरमाह— गम्भीरेति । स्रोतांसीति बहुवचनन

सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।
सीता चालकनन्दा च वङ्क्षुर्भद्रेति वै क्रमात् ॥

इति श्रीविष्णुपुराणोक्तिः स्मारिता । एवं प्रश्नोत्तरपरम्परारूपमुद्धात्यकं नाम वीथ्यङ्गमुक्तम् । तदुक्तं विद्यानाथेन -

वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः ।
उद्घात्य कावलगिने प्रपञ्चत्रिगते छलम् ॥
वाक्केत्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ १७ ॥

प्रभावली - १७

द्वितीयां शङ्कां निवारयति - अन्यदपीति । अन्यदपि ; द्वितीयशङ्कायाः परिहाररूपमन्यदपीदं निध्यायतु पश्यतु । गम्भीरेत्यादि । गिरिखण्डनादौ ; गिरीणां हिमवदादीनां खण्डनादौ । आदिशब्दादभिघातोत्प्लवनादि गृह्यते । तत्र विषये गम्भीरा अगाधा भीपणा भयङ्करा गतिर्यस्याः सा । पशुपतेः चूडापदं शिरोऽपि भ्रामयन्ती गङ्गा । वसुन्धरायां ; भूमौ स्वादूनि प्रसन्नानि सुभगानि च स्रोतांसि प्रवाहान् कि न दर्शयति दर्शयत्येव । तथा दुर्वादिखण्डनादौ तन्मनोभ्रमणे च कर्कशतरवाग्वृत्तेरप्यस्य कवेर्नाटकविषये ललिता वाक् प्रसरतीति भावः ॥ १७ ॥

शान्त-रसौचित्यम्

विश्वास-प्रस्तुतिः

नटी - ( सानन्दम्) जुत्तम् एव्व एदं वाहिदम् अय्यस्स ।
तह वि सन्तो णाम रसो णत्थित्ति गन्धव्वाअमदेसिएहिं समत्थिज्जइ ।
ता एत्थ कहं तारिसस्स रसस्स णिवेसो ?
( युक्तम् एवैतत् व्याहृतम् आर्यस्य ।
तथापि शान्तो नाम रसो नास्तीति
गन्धर्वागम-देशिकैः समर्थ्यते ।
तस्माद् अत्र कथं तादृशस्य रसम्य निवेशः?)

सूत्रधारः – (सावज्ञाऽवहित्थम्+++(=गोपनम्)+++) आर्ये, न खलु सम्भावयामि तान् अहं भरत-मत-पारदृश्वनः । (विमृश्य )

अथवा तादृशान् सभ्यान्
मत्वा जगति दुर्लभान् ।
शङ्के शान्ति-रसोल्लासम्
अशक्यम् अभिमेनिरे42 ॥ १८ ॥+++(4)+++

मूलम् - १८

नटी ( सानन्दम्) जुत्तम् एव्व एदं वाहिदम् अय्यस्स । तह वि सन्तो णाम रसो णत्थित्ति गन्धव्वाअमदेसिएहिं समत्थिज्जइ । ता एत्थ कहं तारिसस्स रसस्स णिवेसो ?

( युक्तमेवैतत् व्याहृतमार्यस्य । तथापि शान्तो नाम रसो नान्तीति गन्धर्वागमदेशिकैः समर्थ्यते । तस्मादत्र कथं तादृशस्य रसस्य निवेशः १)

सूत्रधारः – (सावज्ञावहित्थम्) आर्ये, न खलु सम्भावयामि

तानहं भरतमतपारदृश्वनः । (विमृश्य ) अथवा तादृशान् सभ्यान् मत्वा जगति दुर्लभान् ।

शङ्के शान्तिरसोल्लासमशक्यमभिमेनिरे42 ॥ १८ ॥

प्रभावली - १८

सानन्दम् ; संशयोच्छेदात् । जुत्तम् एव्व— युक्तमेव । एवं वाहितं- एतद्व्याहृतम् । अय्यस्स - आर्यस्य । सहवि - तथापि । सन्तो णाम रसो शान्तो नाम रसः । णत्थित्ति–नास्तीति । गन्धव्वा अमदेसिएहिं ; गन्धर्वागमदेशिकैः भरतमताचार्यैः । समत्थिज्जइ – समर्थ्यते । ता - तस्मात् । एत्थ - अत्र । कहं कथम् । नाग्सिम्म - तादृशस्य । रसस्स - रसस्य । णिवेसोनिवेशः । मावज्ञावहित्यमाह । भग्नमताचार्यविषया अवज्ञा अनादरः । अवहित्था नढाकार गोपनम् । तत्सहितं यथा तथा । तान् शान्तरसाभाववादिनः भरतमताचार्यान् न गणयामि खलु । इदमवज्ञावचनम् । विमृश्य ; शान्तरसा- आलोच्य । अथवेति तदाकारगोपवचनम् । तादृशान् ; शान्तन् सभ्यान् जगति दुर्लभान् मत्वा शान्तिरसाभिनय मशक्यतया इति शङ्के विचारयामि । न तु वस्तुतः शान्तिरसाभावादित्यर्थः ॥ १८ ॥

प्रभाविलासः - १८

इति गन्धर्वागमे -

..

शान्तम्य शमसाध्यत्वान्नटे च तदसम्भवात् । अष्टावेव रसा नाटयेष्विति केचिदचूचुदन् ॥ "

इत्यादि । अवज्ञा ; शान्तरसा नास्तीति श्रवणकृता । अवहित्था ; भरताचार्यैरुक्तमित्यवज्ञागोपनम् । " अवहित्था कारगुप्तिः” इत्यमरः । एवमन्योन्यवाक्याधिक्यरूपमधिबलं नामामुखाङ्गमुक्तम् । आकारगोपन फलमाह - । तादृशान् ; शान्तरसनिष्ठान् । दुर्लभान् मत्वेत्यनेन “नटे च " इति विवृतम् । कुत एतदवगम्यतेः प्रकरणादिति ब्रूमः

तत्रैव-

" शृङ्गारवीरकरुणा रौद्रहास्यभयानकाः ।

बीभत्सश्चाद्भुतः शान्तो नवधेति रसाः स्मृताः ॥

शान्तरसस्य विभावादिकथनाच्च । अनेन श्लोकेन रसवशादुक्तानरूपमवलगितं नामामुखाङ्गमुक्तम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

अपि43 च ; ;

अ-सभ्य-परिपाटिकाम् अधिकरोति शृङ्गारिता
परस्पर-तिरस्कृतिं परिचिनोति वीरायितम् ।
+++(अनुपपन्नार्थ-दर्शकत्वात्)+++ विरुद्धगतिर् अद्भुतस्, तद् अलम् अल्पसारैः परैः
शम् अस्तु परिशिष्यते शमित-चित्त-खेदो +++(हि)+++ रसः ॥ १९ ॥

मूलम् - १९

अपि43 च ; ;

असभ्यपरिपाटिकामधिकरोति शृङ्गारिता
परस्परतिरस्कृतिं परिचिनोति वीरायितम् ।
विरुद्धगतिरद्भुतस्तदलमल्पसारैः परैः
शमस्तु परिशिष्यते शमितचित्तखेदो रसः ॥ १९ ॥

प्रभावली - १९

शान्तिरस एव सतां मनोहरत्वान्मुख्यः । शृङ्गारादिरसास्तुच्छा पिचेत्यादि । शृङ्गारिता ; शृङ्गाररसवत्ता ; शृङ्गाररस इत्यर्थः ।.

असभ्यं ; सभायोग्यं न भवति । असभ्यस्य पद्धतिमधिकरोति ; आश्रयत इत्यर्थः । वीरायितम् ; वीरवदाचरितम् ; वीररस इत्यर्थः । परस्परतिरस्कृतिम् ; वीराणामन्योन्याभिभवम् । परिचिनोति ; प्रकाशयतीत्यर्थः । अत्र वीरः शृङ्गार इति वक्तुमुचितत्वेऽपि शृङ्गारिता वीरायितमिति निर्देशादिदं ज्ञाप्यते - शृङ्गारादिरसान्तु नस्वरूपतोऽसभ्याः ; किं त्वाश्रयविषयविशेषादिति । अन्यथा पराङ्कुशादिप्रबन्धानां चिन्तयन्त्यादिवृत्तीना चासभ्यत्वप्रसङ्गः । अद्भुतः ; अद्भुतरसः । विरुद्धगतिः ; अनुपपन्नार्थ-दर्शकत्वात् । तत् ; तस्मात् । अल्पसारैः ; तुच्छैः । परेः ; बीभत्सादिरसैः अलम् । शमो रसः ; शान्तिरस एव । शमिवचित्त- खेदः ; मनोदुःखशामकः । रसत्वेन परिशिष्यते ; परिशेषात् शान्तिरेव रसः, नान्य इत्यर्थः । अन्यरसानां चित्तखेदकरत्वमप्युक्तं भवति ॥ १९ ॥

प्रभाविलासः - १९

तिमथने रसान्तराणामाभासतया शान्तरस एव परिशिष्यत असभ्येति । परिपाटिकाम् ; रीतिम् । शृङ्गारिता ; शृङ्गार-
रसवत्ता । वीरायितम् ; वीरवदाचरितम् । परैः करुणहास्यादिभिः । शमितचित्तखेद इति परिशेषहेतुः । शृङ्गारहास्य बीभत्सेषु शिष्टगर्हाकृतः वेद्र ?। वीरे तिरस्कारकृतः । अद्भुतेऽनुपपत्तिकृतः । रौद्रे भयानके च भयं भीताद्धि जायते " इति न्यायकृतः । करुणे खेदरूपो दोषः । शान्तरसे नोक्तदोषा इत्यर्थः । उक्तं च शृङ्गारशास्त्रे -

न यत्र दुःखं न सुखं न चिन्ता
न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः
सर्वेषु भावेषु समप्रमाणः ॥

इति ॥ १९ ॥

शान्तस्य सार्वजनिक-प्रस्तुतिः

विश्वास-प्रस्तुतिः

नटी - अय्य,44 होदु णाम सणअसणन्दणादिमुणिअणसङ्गहीदो सो वि तारिसो रसो । तह वि 45 कहं णिष्पन्दणि हिलकलणणिप्पादणिज्जजोअप्पहाणो एसो सव्वजणपेक्खणिज्जेण णाडअउत्तन्तेण46 सम्पाइज्जइ ?

( आर्य, भवतु नाम सनक-सनन्दनादि-मुनि-जन-सङ्गृहीतः सोऽपि तादृशो रसः ।
तथा ऽपि, कथं निष्पन्द-निखिल-करण–निष्पादनीय–योग-प्रधान एष
सर्वजन-प्रेक्षणीयेन नाटक-वृत्तान्तेन सम्पाद्यते ? )

सूत्रधारः - आर्ये, मैवं वादीः ।
न हि वयम् अवधूत-निखिल-धर्माणाम् अलेपकानां मतम् अभिनेष्यामः,
येनैवम् आशङ्कसे ।
सन्ति47 खलु भगवता गीताचार्येण
सहस्रशः प्रतिपादिताः
सात्त्विकेन त्यागेन परिकर्मिता
निवृत्ति-धर्म-पद्धति-नियता विविधा व्यापाराः,
यद्-अभिनयेन रङ्गोपजीविनाम् आजीवावकाशः ।+++(5)+++

अपि चेदं निशमयतु, निशामयतु वा नाट्य-वैभवं भवती । श्रूयते हि -

न तच्छास्त्रं न सा विद्या
न तच्छिल्पं न ताः कलाः । नासौ योगो न तज्-ज्ञानं
नाटके यन् न दृश्यते ॥ २० ॥+++(4)+++

मूलम् - २०

नटी - अय्य,44 होदु णाम सणअसणन्दणादिमुणिअणसङ्गहीदो सो वि तारिसो रसो । तह वि 45 कहं णिष्पन्दणि हिलकलणणिप्पादणिज्जजोअप्पहाणो एसो सव्वजणपेक्खणिज्जेण णाडअउत्तन्तेण46 सम्पाइज्जइ ?

( आर्य, भवतु नाम सनकसनन्दनादिमुनिजनसङ्गृहीतः सोऽपि तादृशो रसः । तथापि कथं निष्पन्दनिखिलकरण निष्पादनीययोगप्रधान एष सर्वजन प्रेक्षणीयेन नाटकवृत्तान्तेन सम्पाद्यते ? )

सूत्रधारः - आर्ये, मैवं वादीः ।
न हि वयम् अवधूत-निखिल-धर्माणाम् अ-लेपकानां मतम् अभिनेष्यामः,
येनैवम् आशङ्कसे ।
सन्ति47 खलु भगवता गीताचार्येण
सहस्रशः प्रतिपादिताः
सात्त्विकेन त्यागेन परिकर्मिता
निवृत्ति-धर्म–पद्धति-नियता विविधा व्यापाराः,
यद्-अभिनयेन रङ्गोपजीविनाम् आजीवावकाशः ।
अपिचेदं निशमयतु+++(=शृणोतु)+++ निशामयतु+++(=पश्यतु)+++ वा नाट्यवैभवं भवती । श्रूयते हि -

न तच्छास्त्रं न सा विद्या
न तच्छिल्पं न ताः कलाः । नासौ योगो न तज्ज् ञानं
नाटके यन्न दृश्यते ॥ २० ॥

प्रभावली - २०

नदीत्यादि । अय्य होदु णाम —आर्य भवतु नाम । भवतु नामेति शान्तिरसस्याङ्गीकारः । सणअसणन्दणादिमुणिअणसङ्गहीदो - सनकसनन्दनादिमुनिजनसङ्गृहीतः । सङ्गृहीतः ; परिगृहीतः । सो वि तारिसी रसो-सोऽपि तादृशो रसः । सनकादिपरिगृहीतत्वात् शान्तिरसोऽप्यस्तु नाम । तह वितथापि । कहूं – कथम् । णिप्पन्दणिहिलकलणणिप्पा अणिज्जजोअप्पहाणी एसो —— निष्पन्दनिखिलकरणनिष्पादनीययोगप्रधान एषः ; शान्तिरस इत्यर्थः । सव्वजणपेक्खणिज्जेण सर्वजनप्रेक्षणीयेम । णाडअउत्तन्तेण – नाटकवृत्तान्तेन ।
;

सम्पाइज्जइ - सम्पाधते । न हि वयमित्यादि । अवधूतनिखिलधर्माणाम् ; त्यक्तश्रुतिस्मृतिधर्माणाम् । अलेपकानाम् धर्मत्यागेऽपि पापलेपो नास्तीति वादिनां सारख्यादीना केषाञ्चित् । आशङ्कसे ; आशङ्कां करोषि । किन्तु इति विशेषः । सन्तीत्यादि । साहित्रकेन त्यागेन ;

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्का फलं चैव स त्यागः माविको मतः ॥

इत्युक्तेन क्रियामाणेषु कर्मसु स्वस्य स्वतन्त्रकर्तृत्वादिन्यागरूपेण सात्त्विकन्यागेनालङ्कृताः । निवृत्तिधर्मेति ; निवृत्तिधर्मो मोक्षधर्मः । विविधाः ; अभि-

i गमनोपलेपनमालाबन्धनदीपारोपणादयः । यदभिनयेन ; येषामनुकरणेन । रङ्गो- पजीविनाम् ; नर्तकानाम । आजीवस्य ; जीविकायाः अवकाशः । अथ नाटकवैभवं दर्शयति-अपिचेत्यादि । निशमयतु ; शृणोतु शब्दतः । निशाम्यतु ; पश्यतु अर्धत इति भावः । श्रूयते ; लोके परम्परया, श्रुतौ कचिदिति

इति ।
वा । न तदिति । नाटके नाटये यन्न दृश्यते नाभिनीयते तच्छास्त्रमप्यशास्त्रम् । शास्त्रशब्दोऽत्र वेदपर्यायः । विद्याशब्देन वेदाङ्गान्युच्यन्ते । शिल्पम् ; आयुर्वेदादि। कलाः ; चतुःषष्टिसङ्ख्याताः ऋग्यजुः सामादयः । योगः ; यमनियमादिः । ज्ञानम् ; ब्रह्मज्ञानम् । अत्रान्योन्यान्तर्भावेऽपि गोबलीवर्दन्यायो व्यवस्थापकः । विद्यादयोऽपि नाटकाविषयत्वे विद्या न भवन्तीत्यर्थः ॥ २० ॥

प्रभाविलासः - २०

न हीति । अलेपकाः ; साङ्ख्याः । गीताचार्यः ; श्रीकृष्णः । सात्त्विकेन त्यागेन फलसङ्गत्यागेन,
’ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥

इत्यभिधानात् । रङ्गोपजीविनाम् ; नटानाम् ; श्रीरङ्गनित्यवासिनां श्रीवैष्णवासराणां च । आजीवः ; देहयात्रा, आत्मसत्ता च । निशमयतु ; शृणोतु । निशामयतु ; पश्यतु । नाटकाभिनयान है लोके किमपि वस्तु
नास्तीत्यत्रामृतानन्दीयश्लोकमुदाहरति न तदिति । विद्यापदेन ब्रह्मविद्योच्यते । कला इतीतरविद्याः ॥ २० ॥

स्व-प्रदर्शने विस्रम्भः

विश्वास-प्रस्तुतिः

नटी – अइदुक्खरमारद्धं तुह्मेहिम् ।
अहम् उण इत्थिआ- सुहाव48 घोलन्तहिअआ मश्वर49 गहगहिआदो पडिपक्खपण्डिअजणादो भअकम्पिदशि ।

( अतिदुष्करम् आरब्धं युष्माभिः ।
अहं पुनः स्त्री-स्वभाव-घूर्णमान-हृदया
मत्सर-ग्रह-गृहीतात् प्रतिपक्ष-पण्डित-जनाद्
भयकम्पिता ऽस्मि ।)

सूत्रधारः - आर्ये, अलं कातर्येण ।
अद्य खल्व् अस्माकम् अभिमुखं भाग-धेयम् । तथा हि-

लक्षण-समृद्धिर् अनघा
रस-परिपोषश् च स-हृदय-ग्राह्यः । सम्पतति नाटकेऽस्मिन्
स एष शैलूष-सुकृत-परिपाकः ॥ २१ ॥

मूलम् - २१

नटी – अइदुक्खरमारद्धं तुह्मेहिम् । अहम् उण इत्थिआ-

सुहाव48 घोलन्तहिअआ मश्वर49 गहगहिआदो पडिपक्खपण्डिअजणादो भअकम्पिदशि ।

( अतिदुष्करमारब्धं युष्माभिः । अहं पुनः स्त्रीस्वभावघूर्णमानहृदया मत्सरग्रहगृहीतात्प्रतिपक्षपण्डितजनाद्भयकम्पितास्मि ।)
सूत्रधारः - आर्ये, अलं कातर्येण । अद्य खल्वस्माकमभिमुखं भागधेयम् । तथा हि-

लक्षणसमृद्धिरनघा रसपरिपोषश्च सहृदयग्राह्यः ।

सम्पतति नाटकेऽस्मिन् स एष शैलूषसुकृतपरिपाकः ॥ २१ ॥

प्रभावली - २१

अथ प्रतिपक्षजनाद्भयमाशङ्कते — नटीत्यादि । अइदुक्खरं - अतिदुष्करम् । आरर्द्ध - आरब्धम् । तुम्हेहिं – युष्माभिः । अहम् उण० अहं पुनः । इत्थिन्

। आसुहाव डोलन्त हिअआ ; स्त्रीस्वभावडोलायमानहृदया । भैश्वरग्गहगह ra त्सरग्रहगृहीतात् । पडिपक्खपण्डिअजणादो — प्रतिपक्ष पण्डिवञ्जमाम व सयाक
पिदह्नि - भयकम्पितास्सि । भागधेयम् ; भाग्यम्, अभिमुखं भवति । उक्तं प्रतिपादयति - तथाहीत्यादिना । अस्मिन् नाटके ; सङ्कल्पसूर्योदये । अनघा ; दोषरहिता । लक्षणानां नाटकलक्षणाना समृद्धिः पौष्कल्यम् । सहृदयाः ; मात्सर्यरहिताः । तैर्गृह्यमाणो रसाना शृङ्गारादीना परिपोषः समृद्धिः सम्पतति संसृष्टो भवति । स एष शैलूषाणां नर्तकानां सुकृतपरिपाकविशेषः खलु ॥ २१ ॥

प्रभाविलासः - २१

लक्षणेति । लक्षणसमृद्धिः ; चतुःषष्टयङ्गसम्पत्तिः । सहृदयग्राह्यः ; रसभावनाचतुरवेद्यः ॥ २१ ॥

विश्वास-प्रस्तुतिः

किं च ;

विद्या-सम्पन्-निधिर् अवहितो वेङ्कटेशः कवीन्द्रः, सिद्धारम्भश् चिरम् अभिनये मामकः पात्र-वर्गः।
प्रख्यातेयं परिषद् अनघा पक्ष-पातानभिज्ञा,
रामादीनां कुल-धनम् इदं रङ्गतां याति रङ्गम् ॥ २२ ॥+++(4)+++

मूलम् - २२

किञ्च ;

विद्यासम्पन्निधिरवहितो वेङ्कटेशः कवीन्द्रः

सिद्धारम्भश्विरमभिनये मामकः पात्रवर्गः

प्रख्यातेयं परिषदनघा पक्षपातानभिज्ञा

रामादीनां कुलधनमिदं रङ्गतां याति रङ्गम् ॥ २२ ॥

प्रभावली - २२

सामग्रयन्तरमप्याह - विद्येति । विद्यासम्पदा निधिः वेङ्कटेशः कवीन्द्रः श्रीमान्वेदान्ताचार्यः अवहितः सावधानः सन्निहितो वर्तते । मामकः पात्रवर्गश्च ; मदीयः पात्राणामभिनेतॄणां वर्गश्च चिरमभिनये नटने सिद्धारम्भः प्राप्त - बहुपरिचयः । इयं परिषश्च अनघा हेयगुणरहिता पक्षपातरहितेति प्रख्याता ।

"
रामादीनाम् ; इक्ष्वाकुवंश्यानां कुलधनभूतमिद बङ्गं श्रीरङ्ग रङ्गता नृत्तस्थानता याति । इतः परं किमपेक्षणीयमित्यर्थः ॥ २२ ॥

प्रभाविलासः - २२

साधनान्तरानुकूल्यमाह – विद्येति । अवहितः प्रमादरहितः । अनघा ; दोषारोपरहिता । तत्र हेतुमाह - पक्षपातेति । कुलधनमित्यनेन
[[५३]]

लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः " इति श्रीरामायणोक्तिः स्मारिता ॥ २२ ॥

विश्वास-प्रस्तुतिः

अन्यच् च भवत्या भावनीयम् -

शम-धन-निधिं सत्त्व-प्रायं प्रयोगम् अ-योगिनः
स्व-गुण-वशतः स्तोतुं यद् वा वरीव्रतु50 +++(←वृ)+++ निन्दितुम् ।
किम् इह बहुभिः, किं नश् छिन्नं, न विश्वम् अनीश्वरं
तद्-उपनिहिता जाग्रत्य् एवं चतुर्-दश +++(→आदित्यचन्द्राव् अनिलोऽनलश्च …)+++ साक्षिणः ॥ २३ ॥+++(5)+++

मूलम् - २३

अन्यच्च भवत्या भावनीयम् -

शमदमनिधिं सत्त्वप्रायं प्रयोगमयोगिनः

स्वगुणवशतः स्तोतुं यद्वा वरीव्रतु50 निन्दितुम् ।

किमिह बहुभिः किं नश्छिन्नं न विश्वमनीश्वरं

तदुपनिहिता जाग्रत्येवं चतुर्दश साक्षिणः ॥ २३ ॥

प्रभावली - २३

अन्यदपीति । श्रीवेङ्कटेशगुरुः स्वाभिप्रायं नटवाक्येन प्रकाशयतिशमधनेति । अयोगिनः ; अब्रह्मविदः, अशान्ताश्च । शमधनाः ; शान्ताः मुनयः, तेषा निधिवदभिमतम् । सन्त्वप्रायम् ; सत्त्वगुणप्रचुरं सत्त्वस्य प्रचुरप्रतिपादकमित्यर्थः । इमं प्रयोगम ; नाटकम् । स्वगुणवशनः ; स्वकीयराजसतामसगुणवशात् । स्तोतुं वरीव्रतु ; भृशं वृण्वताम् ; स्तोतुमारभन्ताम् । यद्व। निन्दितुं गर्हितुमारभन्ताम् । तेषा स्तुतिर्न स्तुतिः ; निन्दा च न निन्देत्यर्थः । इह ; [[५४]] अस्मिन् विषये । किं बहुभिः प्रलापैः । किं नश्छिन्नम् ; तन्निन्दादिभिरस्माकं का वा हानिः । इदं विश्वमनीश्वरं न भवति ; विश्वेश्वरो भगवानस्य सौष्ठवं जानाति । एवम् ; किञ्च । तदुपनिहिताः ; तेन जगति स्थापिताः । चतुर्दश साक्षिणः ; “आदित्यचन्द्रौ” इत्यारभ्य " धर्मश्च जानाति नरस्य वृत्तम् इत्युक्ता लोकसाक्षिणो जाग्रति जानन्तीत्यर्थः ॥ २३ ॥

प्रभाविलासः - २३

रामधनेत्यादि । अत्र शमेत्यात्मगुणानां दमादीनामप्युपलक्षणम् । शमादय एव धनं, तस्य निधिरावासः तम् । सत्त्वप्रायम् ; सत्त्वप्रकृतिविवेकादिपात्रचुरम् । तेन चासात्त्विक मोहादेरप्रचुरता गम्यते । अयोगिनः ; राजसतामसप्रकृतयः । स्वगुणेति ; गुणशब्देन राजसतामसगुणों विवक्षितौ । वरीव्रतु ; वृञ् वरणे इति धातुः । इह लोके । बहुभिः ;। अयोगिभिः किं कार्यमित्यर्थः । नः अस्माकम् । किं छिन्नम् ; किं
न्यूनम् । तदुपनिहिताः ; ईश्वराज्ञावर्तिनः " भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादभिश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति " इति श्रुतेः । साक्षिणः ; आदित्यादयः । तदुक्तम् -

" आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं दिशश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥

इति ॥ २३ ॥

विश्वास-प्रस्तुतिः

अपि च51
नूनम् अ-तर्कितोपनता अ-चिर-द्युति-वद् आरम्भ-समय-नियतावसाना52 मनीषिणाम् ईर्ष्यादयः । अथवा ;

मौनं बिभ्रतु मत्सरेण नमितास् तूर्णं त एव ध्रुवं
+++(रोमाञ्चनतः)+++ कालोन्निद्र-कदम्ब+++(-पुष्प)+++-गोल-वपुषः कम्प-स्फुरन्-मौलयः ।
किञ्चिद्-व्रीडित-कुञ्चिताक्षम् अवशाद् उत्तान-दत्ताननाः
प्रस्तोष्यन्त्य् अवधिं प्रयोग-पदवी-सारस्य सारस्य नः ॥ २४ ॥

मूलम् - २४

अपि च51 नूनमतर्कितोपनता अचिरद्युतिवदारम्भ समयनियतावसाना52 मनीषिणामीर्ष्यादयः । अथवा ;
मौनं बिभ्रतु मत्सरेण नमितास्तूर्णं त एव ध्रुवं

कालोन्निद्रकदम्बगोलवपुषः कम्पस्फुरन्मौलयः ।
किञ्चिद्व्रीडितकुञ्चिताक्षमवशादुत्तानदत्ताननाः

प्रस्तोष्यन्त्यवधिं प्रयोगपदवीसारस्य सारस्य नः ॥ २४ ॥

प्रभावली - २४

अयोगिनाम् अपीर्ष्यादयः क्षणिका इत्याह–अपिचेत्यादि ।
अतर्कितोपनताः ; अवशादागता अपि । अचिरद्युतिवत् ; विद्युद्वत् । उत्पत्तिक्षण एव नियतावसानाः ; जातमात्रा एव नष्टा भवन्तीत्यर्थः । ईर्ष्या ; आसूया । आदिशब्दोऽत्र द्वेषादिपरः ।
दीर्घमत्सरत्वेऽपि प्रयोगपदवीसारस्यातिशयादवशादिमं
प्रयोग-प्रशंसिष्यन्तीत्याह – अथवेति ।
मत्सरेण नमिताः ; मत्सराक्रान्ततया प्रथमं नमितशिरसः प्रतिपक्ष पण्डिताः प्रयोगप्रस्तावे मौनं बिभ्रतु । सम्भावनाया लोट् । अनन्तरं त एव ; मौनिन एव । तूर्णम् ; क्षणात् ।
कालोन्निद्रकदम्बगोलवपुषो भवन्ति ध्रुवम् ;
कालोन्निद्राणां कदम्बपुष्पाणां गोलवत् संस्थानवत् रोमाञ्चितवपुषो भवन्ति । अनन्तरं कम्पेन स्फुरन्मौलयश्च भवन्ति । अवशात् शिरः कम्पं कुर्वन्तीत्यर्थः । अनन्तरमवशाद्वलात्कारतः किञ्चिद् व्रीडितमीषलज्जान्वितं कुञ्चितं तिर्यक्कूणितमक्षि यस्मिन् कर्मणि तद्यथा तथा । उत्तानं यथा तथा दत्तमाननं यैस्ते । सलज्जमुद्यताननाः सन्तः लज्जा परित्यज्य नः अस्माकं प्रयोगपद्धतेः यत्सारस्यं सरसत्वं, तस्य यः सारः श्लाध्याशः, तस्यावधिमुत्कर्ष सीमानं प्रस्तोष्यन्ति प्रस्तावं करिष्यन्ति । ध्रुवं निश्चितमिति ॥ २४ ॥

प्रभाविलासः - २४

"

विवेकिनां क्वचित् प्रमादात् प्रवृत्तमपि मात्सर्यं शीघ्रं निवर्तिष्यत इत्याशयेनाह – अपिचेति । अचिरद्युतिः ; विद्युत् । आरम्भसमय- नियतावसानाः ; आरम्भसमय एव नियतमवसानं नाशो येषां तथोक्ताः । तत्क्षणानिवृत्तावपि प्रयोगचातुर्यविशेषदर्शनक्रमेण मात्सर्यनिवृत्तिक्रममभिनयन् पक्षान्तरमवलम्बते - अथवेति । प्रथमं तावत् मा-
त्सर्यौत्कटयेन स्तम्भीभावमाह - मौनमिति । सुहृदां प्रयोगविस्मयनीयत्वं पक्षपातादिना सेत्स्यति ; द्विषतां तु याथातथ्येनैवेत्याशयेनाह - त एवेति । स्तम्भौत्कटयेन बाह्यव्यापारविलम्बेऽप्यान्तरव्यापारस्याविलम्बमाह– तूर्ण-

मिति ।

" आत्मा वेद शुभाशुभम् " इति स्वहृदयसंवादं तावत् प्रतिजानाति - ध्रुवमिति । अथ किञ्चिदान्तरविलयनेन पुलकोद्भेदमाह - कालोनिद्रेति । काले वर्षाकाले उन्निद्राणि यानि कदम्बपुष्पाणि तेषां गोलवत् पालीवत् सूक्ष्मकण्टकितं वपुर्येषां ते तथोक्ताः । अत्र कालग्रहणं पुष्पबाहुल्यकथनार्थम् । अनेन रसाभिव्यञ्जकसात्त्विकभाव उक्तः । पुनः प्रयोगसारस्यातिशयदर्शनपारवश्येन बाह्यचेष्टामाह - कम्पेति । कम्पेन शिरः कम्पेन स्फुरन्तश्चलन्तो मौलयः किरीटानि येषां ते तथोक्ताः । विरोधिनां प्राबल्यं दर्शयितुं मौलिग्रहणम् । किरीटख चितरत्नप्रभाचलनव्यञ्जनार्थं स्फुरदित्युक्तम् । हन्तेषां प्रयोगमहत्त्वमविज्ञाय वृथा मात्सर्ये कृतमिति क्रमेण ब्रीडा जातेत्याह— किञ्चिद्व्रीडितेति । अनन्तरं
दर्शनौत्सुक्येनाकारगोपनसम्भवेन किञ्चिन्नेत्र सञ्चारमाहकुञ्चितेति । आकारगोपनाशक्त्या ब्रीडात्यागोऽनिच्छतोऽपि सेत्स्यतीत्याह - अवशादिति । सुहृन्मुखावलोकनादिनानुमोदन पूर्व कमवलोकनमाह —— उत्तानदत्तेति । क्रमेण सवासनमात्सर्यनिवृत्तिफलमाह — प्रस्तोष्यन्तीति । अवधिम् ; अतिशयकाष्ठाम् । प्रयोगपदवीसारस्यस्य ; प्रयोगमार्गसरसतायाः, सारः स्थिरांशः

सारो बले स्थिरांशे च " इति निघण्टुः, तस्य ॥ २४ ॥

विश्वास-प्रस्तुतिः

सन्तु वा निरन्तर-नियमित-मत्सर-नीरन्ध्र+++(→सान्द्र)+++-हृदया निर्विकाराः ;

तथापि53 सर्वथा तावत्,

उपवेदम् उदार-धीः स्व-नाम्ना
भरतः सूचित-भाव-राग-तालम् ।
यम् उदाहरति स्म विश्व-भोग्यं54
तद्-अभिज्ञैर् अ-बहिष्-कृता वयं स्मः ॥ २५ ॥

मूलम् - २५

सन्तु वा निरन्तरनियमितमत्सरनीरन्ध्रहृदया निर्विकाराः ;

तथापि53 सर्वथा तावत्,

उपवेदमुदारधीः स्वनाम्ना भरतः सूचितभावरागतालम् ।

यमुदाहरति स्म विश्वभोग्यं54 तदभिज्ञैरबहिष्कृता वयं स्मः ॥ २५ ॥

प्रभावली - २५

वयं च सर्वथा भरतशास्त्रपरिज्ञानवन्त इत्याहसर्वथेत्यादि । उदारधीः ; महाबुद्धिः । भरतः ; भरतशास्त्रकूटस्थः । स्वनान्ना ; भरत इति त्र्यक्षरेण ।
सूचितभावरागतालम् यथाक्रमं सूचिता भावरागतालाध्याया यस्मिन् । यमुप- वेदम् ; गान्धर्ववेदम् । विश्वगुहयै उदाहरति स्म, उदाहृतवान् । तदभिज्ञैः ;

। गान्धर्ववेदाभिज्ञैः । वयमबहिष्कृताः स्मः ; अन्तरङ्गतया स्वीकृताः स्म इत्यर्थः ॥ २५ ॥

प्रभाविलासः - २५

भरतशास्त्रस्यापि सम्यगालोचितत्वात् तत्प्रविष्टैरपि न रन्ध्रगवेषणस्यावसर इत्याह – उपवेदमिति । उपवेदम् ; सामवेदोपवेदम्, ‘साम-
वेदस्य गान्धर्ववेद उपवेदः’ इति चरणव्यूहोक्तेः । स्वनाम्ना ; भरतात वर्णत्रयरूपेण रागिविरागिसाधारण्येन विश्वगोप्तेत्युक्तम् । तदभिज्ञैः ; अनवरतपरिचितगान्धर्वविद्याविनोदन प्रसादितपरमपुरुषैरित्यर्थः । अबहि- ष्कृताः ; बहिष्कृतेभ्योऽन्ये ; बहुकृता इति यावत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

नटी - अय्य, एव्वम् एदम् । तह वि सुअगुरुएस बहुसु विरुद्धेसु छिद्दं गवेसन्तेसु कहम् अप्पमत्तेहिम् अह्मेहिं पडिण्णादं णिव्वहणिज्जं ?
( आर्य, एवम् एतत् ।
तथापि श्रुत-गुरुकेषु+++(←बहुव्रीहिः)+++ बहुषु विरुद्धेषु55 छिद्रं गवेषयत्सु
कथम् अप्रमत्तैर् अस्माभिः प्रतिज्ञातं निर्वहणीयम् ? )

सूत्रधारः - अयि परगुण-सन्तोषिणि,
श्रुत-बाहुल्ये तव केयम् आस्था ?
अथवा अवधारित-परमार्थानाम् अप्य्
अवगत-संवादनार्थम् उत्तरोत्तरं परिप्रश्नाः प्रवर्तन्ते ।+++(4)+++
भवतु56 नाम ।
विशुद्ध-विद्यांस् तावत् बहु मन्यस्व57

दृश्यते हि ;

भूयसीर् अपि कलाः कलङ्किताः
प्राप्य कश्चिद् अपचीयते शनैः ।
एकया ऽपि कलया विशुद्धया
योऽपि कोऽपि भजते गिरीशताम्+++(=गिरि|गिर् + ईशताम्)+++ ॥ २६ ॥ +++(5)+++

मूलम् - २६

नटी - अय्य, एव्वम् एदम् । तह वि सुअगुरुएस बहुसु विरुद्धेसु छिद्दं गवेसन्तेसु कहम् अप्पमत्तेहिम् अह्मेहिं पडिण्णादं णिव्वह-

णिज्जं ?

( आर्य, एवमेतत् । तथापि श्रुतगुरुकेषु बहुषु विरुद्धेषु55 छिद्रं गवेषयत्सु कथमप्रमत्तैरस्माभिः प्रतिज्ञातं निर्वहणीयम् ? )
सूत्रधारः - अयि परगुणसन्तोषिणि, श्रुतबाहुल्ये तव केयमास्था । अथवा अवधारितपरमार्थानामप्यवगतसंवादनार्थमुत्तरोत्तरं परिप्रश्नाः प्रवर्तन्ते । भवतु56 नाम । विशुद्धविद्यांस्तावत् बहुमन्यस्व57

दृश्यते हि ;

भूयसीरपि कलाः कलङ्किताः

प्राप्य कश्चिदपचीयते शनैः ।
एकयापि कलया विशुद्धया

योऽपि कोऽपि भजते गिरीशताम् ॥ २६ ॥

प्रभावली - २६

बहुशास्त्रश्रवणवद्भयः प्रतिपक्षेभ्यो भयं शङ्कते नदीत्यादि । एव्वम् एवं- एवमेतत् । तवि — तथापि । सुअगुरुपसु श्रुतगुरुकेषु ; बहुश्रुतेष्वित्यर्थः । बहुसु - बहुषु । विरुद्धेसु ; प्रतिपक्षेषु । छिद्दं गवेसन्तेसु - छिद्र गवेषयत्सु । कहूं ; कथम् । अप्पमत्तेर्हि — अप्रमत्तैः ; सावधानैरित्यर्थः । अह्मेहिं – अस्माभिः । पडिण्णादं - प्रतिज्ञातम् । णिव्वहणिज्जं निर्वहणीयम । अयीत्यव्ययं सम्बोधने ।

[[५८]] परगुणसन्तोषिणीत्यनेन स्वकीयगुणान् न श्लाघस इति द्योत्यते । श्रुतबाहुल्ये ; शास्त्रश्रवणबाहुल्ये । केयमास्था ; को वायमादरः । ज्ञातपरमार्थानामपि ज्ञातार्थस्थिरीकरणायोत्तरोत्तरमज्ञवत्प्रश्नाः प्रवर्तन्ते । त्वयापि तथा क्रियत इति भावः । भवतु नाम ; प्रश्नाः प्रवर्तन्ता नाम । तत्तिष्ठतु । विशुद्धविद्यान ; दृढपरिचितविद्यान् । तावत् ; प्रथमम् । बहु ; अधिकान् मन्यस्व । अशुद्धविद्येभ्य इति शेषः । अशुद्धविद्या नाम बहुश्रुतत्वेऽप्यदृढपरिचितविद्याः । उक्तमर्थ लोके सदृष्टान्तं सन्दर्शयति — दृश्यते हीति । कश्चित ; पुरुषः चन्द्रश्च । कलङ्किताः ; कलङ्कयुक्ताः शङ्काकलङ्किताश्व । भूयसीः ; बह्वीः । कलाः ; विद्याः षोडशकलाश्च । प्राप्यापि ; अधिकयापि । शनैः ; क्रमेण । अपचीयते ; हीयते, अन्यत्र क्षीणो भवति।
कलङ्कितत्वे सम्पूर्णकलत्वम् अप्य् अपचयहेतुर् एव भवति । योऽपि कोऽपि ; यः कश्चिदपि, अज्ञातकुलगोत्रोऽपि । विशुद्धया ; कलङ्करहितया शङ्कादिरहितया च । एकया ऽपि कलया धृतया, गिरीशतां गिराम् ईशः गिरीशः, तत्तां, रुद्रतां सर्वज्ञतां च भजते ॥ २६ ॥

प्रभाविलासः - २६

विदग्धेषु निपुणेषु । भूयसीरिति । कलाः ; विद्याः, षोडशांशकला शिल्पे कालभेदे विद्यायां षोडशांशके " इति निघण्टुः । कलङ्किताः ; सलान्छनाः, सविचिकित्सादिकाश्च । गिरी-

भागांश्च ।
शताम् ; वागीश्वरताम्, अन्यत्र शिवताम् । उभयत्रापि शशाङ्कतच्छेखरौ निदर्शितौ ॥ २६ ॥

परिषत्-प्रबोधनम्

विश्वास-प्रस्तुतिः

तद् अहम् इदानीं
पराशर-पाराशर्यादि-बहु-मताम्
अ–बहु-मत–दुर्विनीत-जन–चित्त-वृत्तिम्
अन्-अवरत–परिचित–गान्धर्व-विद्या–विनोदन-प्रसादित–परम-पुरुषां
परावर-तत्त्व-याथात्म्य-वेदिनीम् एतां परिषदम्
एक-तानयामि

(स-प्रश्रयम् अञ्जलिं बद्धा) शृण्वन्त्य् आर्य मिश्राः58 -

विवेक-प्रारम्भे विमत-मत-भङ्ग-प्रयतने
मुमुक्षा-संसिद्धौ मुर-मथन-योगे च सफले ।
मुखादीन् +++(सन्धीन्)+++ निध्यातुं निभृतम् इह नाट्ये कृत-मुखैर्
भवद्भिः स्थातव्यं भरत-मत-धौरेय-मतिभिः ॥ २७ ॥

मूलम् - २७

तदहमिदानीं पराशरपाराशर्यादिबहुमताम् अबहुमतदुर्विनीतजनचित्तवृत्तिम् अनवरतपरिचितगान्धर्वविद्याविनोदनप्रसादितपरमपुरुषां परावरतत्त्वयाथात्म्य वेदिनीमेतां परिषदमेकतानयामि । (सप्रश्रयमञ्जलिं बद्धा) शृण्वन्त्यार्य मिश्राः58 -
विवेकप्रारम्भे विमतमतभङ्गप्रयतने

मुमुक्षासंसिद्धौ मुरमथनयोगे च सफले ।

मुखादीनि ध्यातुं निभृतमिह नाट्ये कृतमुखै–

र्भवद्भिः स्थातव्यं भरतमतधौरेयमतिभिः ॥ २७ ॥

प्रभावली - २७

एवं नटीं समाधाय स्वस्योत्तर कृत्यमाह – तदहमिति । ततः ; तस्मात्, एवं निर्णयात् । बहुमताम् ; पूज्यतमाम् । अबहुमतदुर्जनचित्तवृत्तिम् ; अनादृतदुर्जनमनोवृत्तिम् । अनवरतेति ; सततं परिचितं परिचरणरूपेण कृतं गान्धर्वविद्याया विनोदनं तेन प्रसादितः परमपुरुषो यया ताम् । एकतानयामि ; अनन्यवृत्ति
करोमि ; अभिमुखीकरोमि । सप्रश्रयम् ; सविनयम् । विवेकेति । विवेकस्य नायकस्य प्रारम्भे जीवस्य निःश्रेयसप्रापणरूपे उद्योगे बीजारम्भसमन्वयात्मके प्रथमेऽङ्के । विमतानां निःश्रेयसप्राप्तिविरुद्धानां मताना बाह्यकुदृष्टिमतानां भङ्गस्य प्रयतने बिन्दुयत्नसमन्वयरूपे द्वितीयेऽङ्के । मुमुक्षायाः मोक्षेच्छायाः संसिद्धौ सम्भवे पताकाप्रात्याशासमन्वयरूपे तृतीयचतुर्थपश्च पषष्ठसप्तमाष्टमेष्वङ्गेषु । सफले ; मोक्षलाभसहिते कार्यफलागमसमन्वयरूपदशमाङ्कार्थसहिते । मुरमथनस्य योगे समाधौ ; प्रकरीनियताप्तिसमन्वयरूपे नवमे चाङ्के । मुखादीन् ; मुखप्रतिमुख-गर्भावमर्शोपसंहृत्याख्यान् पञ्च सन्धीन् । निध्यातुम ; निरीक्षितुम् । इह ; नाटये । कृतमुखैः ; कुशलैः कृतावधानैरित्यर्थः । भरतमतधौरेयमतिभिः ; भरतशास्त्र धुरीणैरित्यर्थः । भवद्भिर्निभृतं स्थातव्यम् ; निश्चलं, सावधानमिति यावत् ; स्थातव्यमिति प्रार्थना ॥ २७ ॥

प्रभाविलासः - २७

तदहमिति । एकतानयामि ; अनन्यवृत्तिं करोमि " ‘एकतानोऽनन्यवृत्तिः “*

इत्यमरः । प्रबन्धप्रमेयं सङ्क्षेपतो दर्शयन् सामाजिकानाम्

1

सावधानतां प्रार्थयते - विवेकेति । विवेकप्रारम्भः ; पुरुषमोचनोद्योगः । अयमत्र प्रतिपाद्यसङ्ग्रहः — प्रथमेऽङ्के पुरुषमोचनोद्योगः । द्वितीये परपक्षभङ्गः । तृतीये मुक्त्युपायारम्भः । चतुर्थे कामादिव्यूहभङ्गः । पञ्चमे दम्भाद्युपालम्भः । षष्ठे स्थान विशेषसङ्ग्रहः । सप्तमे शुभाश्रय निर्धारणम् । अष्टमे मोहादिभङ्गः । नवमे समाधिसम्भवः । दशमे निःश्रेयसलाभ इति । एवं काव्यप्रतिपाद्येषु श्लोककण्ठेोक्तेषूपलक्षितेषु च मुखादीन् “मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः” इत्युक्तसन्धीन् । निध्यातुम् ; निरीक्षितुम् । इह नाट्ये कृतमुखैः ; कुशलैः " कृतमुखः कृती कुशलः " इत्यमरः । भवद्भिः निभृतं निश्चलं स्थातव्यम् । अत्र विवेकप्रारम्भ इत्यादिसप्तम्यन्तपदपञ्चकेन आरम्भयत्नप्राप्त्याशा नियताप्तिफलागमा उच्यन्ते । एषु पञ्चसु मुखादीनां
नां क्रमेण पञ्च सन्धय इति विज्ञेयम् । ननु दशाङ्कस्य रूपकस्य कथं ताकत्वमिति चेत्, “नाटकेऽङ्का न कर्तव्याः पञ्चन्यूना दशाधिकाः हृति “पञ्चादिदशपर्यन्तमङ्काः कार्या यथोचितम् " इति च शास्त्रादिति ब्रूमः । त चात्र शृङ्गाररसस्याप्राधान्यान्न नाटकतेति वाच्यम्, वीररस प्राधान्ये- sपि नाटकतोपपत्तेः । तदुक्तं विद्यानाथेन " शृङ्गारवीरयोरन्यतरस्य प्राधान्यम्” इति । न चैवं शान्तरसस्य प्राधान्यक्षतिः, शान्तरसोद्दीपक विवेकव्यापार विशेषव्यञ्जितवीररसस्य तद्वेषधारित्वात् । अत एव विवेकप्रारम्भ इत्याद्युक्तम् । शृङ्गारवेषधारिशान्तरसप्राधान्येऽपि तत्प्राधान्यानपायाच्च । अत एव रसान्तरभूमिकां विश्रदित्युक्तम् । वक्ष्यति च " मुनिः शान्तिव्याजान्मुखरयति शृङ्गारनिगमम् " इति । न च विरोधिरससमावेशे चमत्कारहानिः आश्रयभेदरसान्तरव्यवधानस्मर्यमाणत्वमात्राङ्गत्वादिभिर्विरोधपरिहारात् । तदुक्तं काव्यप्रकाशे-

" आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः ।

रसान्तरेणान्तरितो नैरन्तर्ये तु यो रसः ॥

स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥

इति ॥ २७ ॥

विश्वास-प्रस्तुतिः

(नेपथ्ये)

समय-नियतैः प्रयोगैः
सत्-पथ-सीमाम् अन्-उज्झतो विदुषः ।
किरणैर् इव दिवस-
कृतः क्षिप्यन्ते तामसारम्भाः ॥ २८ ॥+++(4)+++

मूलम् - २८

(नेपथ्ये)

समयनियतैः प्रयोगैः सत्पथसीमामनुज्झतो विदुषः ।

किरणैरिव दिवसकृतः क्षिप्यन्ते तामसारम्भाः ॥ २८ ॥

प्रभावली - २८

[[६२]]

क्षणं तु

इति ।
मत्र पञ्चसन्धिश्लोक लक्षणानि –

" बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः । आरम्भयनप्रात्याशानियताप्तिफलागमाः ॥ मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः । '

इति । बीजाद्यारम्भादिसमन्वये प्रत्येकं सङ्घयः पञ्च भवन्ति । एषां स्वरूपलक्षणाङ्गानि दशरूपके द्रष्टव्यानि । अथौद्वातिक गीति दर्शयति । इयं ध्रुवागीतिर् इत्युच्यते । नेपथ्ये इति ; तिरस्करिण्याम् । समय इति । सत्पथः ; एकत्र सन्मार्गः ; अन्यत्र सतां नक्षत्राणां मार्गः आकाशः । सीमा ; मर्यादा ।

से
मन्नुज्झतः ; अनुसरतः । विदुषः ; विपश्चितः । नटपक्षे नाट्यशास्त्रज्ञस्य ।

भागवतविषये उपासकस्य प्रपन्नस्य च । समयनियतैः ; नटपक्षे भरतशास्त्रसंसद्धैः । उपासकविषये प्रपन्नविषये च स्ववर्णाश्रमाद्युचितैः । आदिशब्दासद्धान्तो गृह्यते । सूर्यपक्षे समयशब्दः कालपरः, तत्र नियमः, तं प्राप्तैः । योगः नाट्यप्रयोगः । उपासकपक्षे प्रकृष्टयोगैः । प्रपन्नपक्षे अभिगमनाद्यष्टानैः । तामसारम्भाः ; तामसाना नटापशदानामारम्भाः प्रवृत्तयः । उपासकपक्षे तमोमूलानि पापानि तेषां प्रवृत्तयः । प्रपन्नपक्षे तामसानां तमोमूलानामन्याभिगमनादीनां प्रवृत्तयः व्यापाराः । सूर्यपक्षे तमः सम्बन्धिन आरम्भाः व्यापाराः क्षिप्यन्ते । विवेकपक्षेऽपि सत्पथसीमा साविकमार्गमर्यादामनुल्लङ्घ-

[[६४]]
यतो विदुषो विवेकस्य तत्तदवसरप्रयुक्तः प्रयोगैः कामादीना विजयव्यापारः तामसस्य महामोहादेरारम्भाः सन्नाहाः निरस्यन्त इति ॥ २८ ॥

प्रभाविलासः - २८

अथ पात्रप्रवेशसूचिकां प्रावेशिक ध्रुवामाह - समयेति । ध्रुवाल-

" प्रथयति पात्रविशेषं सामाजिकजनमनांसि रञ्जयति ।

अनुसन्दधाति च रसं पात्रविशेषे धवा गीतिः ॥

पावेशिकी चान्तरा स्यात् परिक्रमणिका तथा । अवस्थितिर्निष्क्रमणी पञ्च स्युः पञ्चसन्धिषु ॥

इति । प्रावेशिकी नाम प्रवेशप्रयोजना । समयेति । समयनियतैः ; भरतशास्त्रनियतैः, योगशास्त्र नियतैःः उदयादिकालनियतैः । प्रयोगैः ; पात्राभिनयैः, प्रकृष्टध्यानैः, सञ्चारैः । सत्पथसीमाम् ; भरतमार्गमर्यादां, योग-

[[६३]]

मर्यादां, नक्षत्रमार्गमर्यादां च । " सन्नक्षत्रमुडुर्न ना " इति निघण्टुः ।

विदुषः ; कुशलस्य विपश्चितश्च । तामसारम्भाः ; अनभिज्ञनटारम्भाः, महाद्यारम्भाः, अन्धकारारम्भा । क्षिप्यन्ते निरस्यन्ते । एवमस्मद्वत्तिपर्गिक वृत्तिं चेति वक्ष्यमाणानुसारेण विवृतम् । समयनियतैः ; सद्धान्तनियतैः व्यवयवनिग्रहाष्टकादिनियमवद्भिः । प्रयोगैः ; युक्तिभिः । उत्पथसीमाम् समीचीन सिद्धान्तमर्यादाम् । अनुज्झतो विदुषः ; वादकुशलस्य । तामसानाम् ; तामसप्रकृतीनां कुदृष्टिप्रभृतीनां कथकानाम् आरम्भाः प्रारम्भाः क्षिप्यन्ते । सत्पथसीमाम् ; नीतिमर्यादामनुज्झतो विदुषोऽभिज्ञस्य विजिगीषोः समयनियतैः ; शरदादिकालनियतैः प्रयोगैर्दण्डाद्युपायैस्तामसारम्भा अनभिज्ञसपत्त्रारम्भा । सत्पथसीमां मन्वाद्युक्ताचारमर्यादामनुज्झितः समयनियतैः प्रातः कालादिनियतैः प्रयोगैर्नित्यनैमित्तिक कर्मानुष्ठानैः तामसारम्भाः तमः कार्याणि दुरितानि क्षिप्यन्ते । " नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्” इत्यादिशास्त्रादिति दिक् ।
समयाः शपथाचारकालसिद्धान्तसंविदः । " योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु । "

इति चामरः । अनेन त्रिगर्त नामामुखाङ्गमुक्तम् । “ श्रुतिसाम्यादनेकार्ययोजनं त्रिगतं मतम् " इति लक्षणात् ॥ २८ ॥

विश्वास-प्रस्तुतिः

सूत्रधारः - (कर्णे दत्वा, सानन्दम् )
आर्ये सम्यग् अवधार्यताम् अस्मद्-वृत्तिम्
आपवर्गिकीं वृत्तिं च
तन्त्रयन्तीयम् औद्घातिकी59 गीतिः । ततश् च

दुर्जनं प्रतिपक्षं च
दूर-दृष्टिर् अयं जनः ।
विवेकश् च महा-मोहं
विजेतुं प्रभविष्यतः ॥ २९ ॥

मूलम् - २९

सूत्रधारः - (कर्णे दत्वा, सानन्दम् ) आर्ये सम्यगवधार्य तामस्मद्वृत्तिमापवर्गिकीं वृत्तिं च तन्त्रयन्तीयम् औद्घातिकी59 गीतिः । ततश्च

दुर्जनं प्रतिपक्षं च दूरदृष्टिरयं जनः ।

विवेकश्च महामोहं विजेतुं प्रभविष्यतः ॥ २९ ॥

प्रभावली - २९

कर्ण दत्वा ; कर्णतः श्रुत्वेत्यर्थः । सानन्दम् ; स्वविजयसूचनादिति भावः । अवधार्यताम् ; दृढ श्रूयताम् । अस्माकं वृत्तिम् ; वृत्तान्तम् । आपवर्गिकी वृत्तिम् ; मोक्षमार्गकथा च । सन्त्रयन्ती ; तन्त्रेणैकेनैव प्रयोगेण प्रकाशयन्ती । औद्धातिकी ; उपक्रमसम्बन्धिनी, उपक्रमार्था ध्रुवा गीतिरित्यर्थः ।

"

ध्रुवा गीतिः प्रयोगादौ वक्ष्यमाणार्थसूचनी " इत्युक्तेः । ततः ; अस्मादुपश्रुतिबलात् । दुर्जनमिति । दूरदृष्टिः ; दीर्घदृष्टिः । इदं स्वस्य विवेकस्य च
विशेषणम् । अयं जनः ; अहमित्यर्थः ; विवेकश्च । दुर्जनम् ; दुष्टं प्रतिपक्षं शत्रुं प्रतिभटकुशीलवं महामोहं च । विजेतुं प्रभविष्यतः ; समर्थों भविष्यतः । अत्र विवेकस्योपादानं स्वस्य दृष्टान्ततया ॥ २९ ॥

प्रभाविलासः - २९

तन्त्रयन्ती ; तन्त्रेण ज्ञापयन्ती । औपोद्धातिकी ; आरम्भसम्बन्धिनी । पात्रप्रवेशसूचकं कथोद्धातं प्रयोगातिशयं चामुखाङ्गं प्रस्तौति — दुर्जनमिति ।

तदुक्तम्-


" त्रीण्यङ्गान्यामुखस्यास्य कथोद्घातः प्रवर्तकः ।

प्रयोगातिशयश्चेति पात्रक्षेपस्य हेतवः ॥

[[६५]]

इति । दूरदृष्टिः ; विमृश्यकारी । अत्र अयं जनो विवेकश्चेति द्वे वस्तुनी प्रतिपदद्योतकेन चकारेणैकस्यां प्रभविष्यतिक्रियायां समुच्चीयेते इति समुच्चयालङ्कारः । " द्रव्यादीनामनेकेषां द्रव्यादौ विनिवेशनम् । समुच्चयः स्यात् " इति लक्षणात् ॥ २९ ॥

विश्वास-प्रस्तुतिः

(नेपथे)

कः खल्व् असौ कुशी-लव-कुलाङ्गारः+++(→दाहकः)+++

कर-तल-कलित–कठोर-मधुर-धन्वनि60
सुरभि-सुकुमार-चित्र-पुङ्खे वित्रासित-निखिल-वैरि-जने
मयि61 जीवति

सकल-सुरासुर–मुनि-मनुज–चित्त-वृत्ति–सार्व-भौमस्य दुर्मति-सह-धर्म-चारिणो
रण-रङ्ग-महा-नटस्य देवस्य महा-मोहस्य
विवक्षानर्हं किम् अपि

विपक्ष-सकाशाद् आशंसते62

सूत्रधारः - ( समय-सम्भ्रमं परिवृत्य पश्यन् )
आर्ये, कोऽयम् अमर्ष-मद-सम्प्लवाद् अभ्यधिक-लोहिताक्षः63 स-सहाय
इत एवाऽभिवर्तते ?

आः, कष्टम् अवधारितम् । अयं हि-

अपवर्ग-विरुद्धेषु
त्रिषु वर्गेषु तिष्ठताम् ।
प्रधान-पुरुषार्थस्य +++(कामाख्यस्य)+++
+++(धर्मार्थकाम इति क्रमेण)+++ पश्चिमस्याधिदैवतम् ॥ ३० ॥

मूलम् - ३०

(नेपथ्थे)

कः खल्वसौ कुशीलवकुलाङ्गारः करतलकलितकठोरमधुरधन्वनि60 सुरभिसुकुमारचित्रपुङ्खे वित्रासितनिखिलवैरिजने मयि61 जीवति सकलसुरासुरमुनिमनुजचित्तवृत्तिसार्वभौमस्य दुर्मतिसहधर्मचारिणो
रणरङ्गमहानटस्य देवस्य महामोहस्य विवक्षानर्हं किमपि विपक्षसकाशादाशंसते62

सूत्रधारः - ( समयसम्भ्रमं परिवृत्य पश्यन् ) आर्ये, कोऽय-
ममर्षमद सम्प्लवादभ्यधिकलोहिताक्षः63 ससहाय इत एवाऽभिवर्तते ?

आः, कष्टमवधारितम् । अयं हि-

अपवर्गविरुद्धेषु त्रिषु वर्गेषु तिष्ठताम् ।

प्रधानपुरुषार्थस्य पश्चिमस्याधिदैवतम् ॥ ३० ॥

प्रभावली - ३०

पुनश् च नेपथ्ये काम-पात्र-प्रवेशः - कः खल्वित्यादि ।
को वायं नट-कुल-विनाशकः
महा-मोहस्य विपक्षात् पराजयम् आशास्त इत्यन्वयः ।
कुलस्याङ्गारः उल्का ; कुलदाहक इत्यर्थः । कार्यतः कठोरं निष्ठुरं स्वरूपतो मधुरं ललितम् । सुरभीणि सुगन्धीनि सुकुमाराणि अतिमृदूनि पुष्पाण्येव चित्रपुङ्खाः बाणा यस्य तस्मिन् ; मयीति शेषः । अथ महामोहं प्रशंसति - सकलेत्यादि । चित्रवृत्त्याः सार्वभौमस्य सर्वभूमिमाक्रान्तवतः । दुर्मतिः ;

[[६६]] मोक्षदोषदृष्टिः सैव सहधर्मचारिणी यस्य तस्य । रण एव रङ्गं नृत्तस्थानं तत्र महानटः, नटचक्रवर्तीति यावत् । रुद्रोऽपि । अनेन समरव्यापारोऽस्य लीलैवेति गम्यते । देवस्य सर्वेभ्यो दीप्तिमतः । विवक्षानर्हम् ; वक्तुमिच्छाया अप्ययोग्यम् । किमपि पराजयमित्यर्थः । विपक्षः ; विवेकः । आशंसते ; प्रार्थयते ॥ भयेन सम्भ्रमः सम्भ्रान्तत्वं यस्मिस्तथा । परिवृत्य ; पृष्ठभागाभिमुखो भवन् । आर्ये इति नटीं सम्बोधयति । कोऽयमिति ; दूरत्वात् सन्दिग्धे । अमर्षस्य सम्प्लवः सम्प्रसरः । ससहायः ; रतिवसन्तसहितः । इतोऽभिवर्तते ; अत्रागच्छति । अथ काम इति निश्चयात् वदति -आः कष्टमवधारितमिति । आः इति मनः पीडायाम् । कष्टम् ; पापमस्माभिश्चिन्ति - तम् । अयमागच्छन् काम इत्याह–अयं हीति । अयम् ; पुरस्ताद् दृश्यमानः ।
अपवर्गेति । अपवर्गस्य मोक्षस्य विरुद्धेषु प्रतिकूलेषु ; " पुण्यपापे विधूय” इत्युक्तेः । इतरयोः प्रातिकूल्यं सुगमम् । त्रिषु वर्गेषु ; धर्मार्थकामेषु । तिष्ठताम् ; त्रैवर्गिकाणाम् । प्रधान-पुरुषार्थस्य ; धर्मस्यार्थस्य च काम-साधनत्वात् तत्-प्राधान्यम् । पश्चिमस्य ; शास्त्रेषु धर्मार्थकामेष्व् इति चरमतयोपात्तस्य, शास्त्रतो निष्कृष्टस्य चेति भावः, " सङ्गं त्यजेत मिथुनव्रतिना मुमुक्षुः इत्युक्तेः । तस्य कामपुरुषार्थस्य अधिदैवतम् ; अभिमानि दैवतम् । काम इति यावत् ॥ ३० ॥

प्रभाविलासः - ३०

नेपथ्य इति नेपथ्योक्तिर्नाम सन्धिः कथितः । कः खल्वसा- विति ; प्रयोगातिशयाख्यमङ्गं दर्शितम् । तदुक्तम्-
" एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।

पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥

इति । ‘विवेकश्च महामोहं विजेतुं प्रभविष्यतः’ इति सूत्रधारेणोक्ते विवक्षानर्हं किमपि विपक्षसकाशादाशंसते ’ इति वाक्यार्थे गृहीत्वा प्रवृत्तत्वात् कथोद्धाताख्यमङ्गं दर्शितम् । तदुक्तम् -

""

स्वेतिवृत्तसमं वाक्यमथवा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्धातोद्विधैव सः ॥

इति । - वित्रासित निखिल वैरिजन इति असम्बद्ध कथाप्रायः प्रलापो नामामुखाङ्गं निरूपितम् । ‘ कः खलु ’ इत्यादिवाक्यस्य सहसोपस्थितत्वात् प्रस्तुतविरोधित्वात् गण्डं नामामुखाङ्गं दर्शितम् । " नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि वा " इति वचनात् पात्रप्रवेशं सूचयति – सूत्रधार इत्या-

[[६७]]

दिना । सम्प्लवः ; सम्पर्क । अपवर्गेति । प्रधानपुरुषार्थस्य ; धर्मकामहेतुभूतस्यार्थपुरुषार्थस्य । पश्चिमस्य कामस्य । उभयोर्विशेषणविशेष्यभावे-

नान्वयो वा ॥ ३० ॥

विश्वास-प्रस्तुतिः

किञ्च ;

+++(अर्धनारीरूपेणापि)+++ अर्धावशेषित-महेश्वर-पौरुषोऽयं
वर्गं तृतीयम् अवधीरयतां +++(शिक्षणेन)+++ विनेता ।
रत्या सलील-परिरम्भण-लोलगत्या
पुष्पायुधः +++(रत्य्-आलिङ्गन-)+++पुलकितैक-भुजो ऽभ्युपैति ॥ ३१ ॥

मूलम् - ३१

किञ्च ;

अर्धावशेषितमहेश्वरपौरुषोऽयं

वर्गं तृतीयमवधीरयतां विनेता ।

रत्या सलीलपरिरम्भणलोलगत्या

पुष्पायुधः पुलकितैकभुजोऽभ्युपैति ॥ ३१ ॥

प्रभावली - ३१

[[६८]] तस्य प्रभावमाह - अर्धेति । अर्धम् अवशेषितं महेश्वरस्य पौरुषं पुरुषपराक्रमं च येन सः । अनेनास्यार्धनारीरूपं कृतमिति भावः । कामपारवश्यादुमायाः स्वशरीरेऽर्व दत्तवानित्यर्थः । तृतीयं वर्गम् ; कामपुरुषार्थम् । अवधीरयताम् ; अवजानताम् । विनेता ; शिक्षकः । पुनस्तत्र प्रवर्तयितेत्यर्थः । अयं पुष्पायुधः सलीलं परिरम्भणेन अन्योन्यालिङ्गनेन लोला स्खलिता गतिः यस्याः सा तया रत्या सह पुलकित एको भुजो यस्य स सन् । अभ्युपैति ; इत भागच्छति ॥ ३१ ॥

प्रभाविलासः - ३१

अर्धेति । अर्धमवशेषितं महेश्वरस्य पौरुषं पुंस्त्वं पराक्रमश्च येन सः। तृतीयं वर्गम् ; काम पुरुषार्थम् । अवधीरयताम् ; तिरस्कुर्वताम् । विनेता ; शिक्षकः । अत्र दोषाणामेव गुणत्वकथनात् मृदवं नामामुखाङ्गं कथितम् । दोषा गुणा गुणा दोषा यत्र स्युर्मुदवं हि तत्" इति लक्षणात् । पुलकितैकभुजः ; रत्यालिङ्गितप्रदेशे रोमाञ्चितभुजः । अनेन सात्त्विकभाव उक्तः । तदुक्तं सङ्गीतरत्नाकरेस्तम्भः स्वेदश्व रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयावष्टौ भावाश्च सात्त्विकाः ॥

इति ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तद् इह वयं त्वरितम् अपसृत्य
कालोपपन्न-कामोत्सव-विहार-सङ्कुले जीवलोके
संवलित-गुप्त-वृत्तयः समनन्तर-करणीयम् आचरामः ।

( इति निष्क्रान्तौ)

इति प्रस्तावना॥

मूलम्

तद् इह वयं त्वरितम् अपसृत्य
कालोपपन्न-कामोत्सव-विहार-सङ्कुले जीवलोके
संवलित-गुप्त-वृत्तयः समनन्तर-करणीयम् आचरामः ।

( इति निष्क्रान्तौ)

इति प्रस्तावना॥

प्रभावली

अथ नटयोस्ततो भयान् निष्क्रान्तिमाह तदिति ।
तत् ; तस्मात् । इह ; इदानीम् । अपसृत्य ; इतो निर्गत्य । कालप्राप्त-कामोत्सव-लीला-निबिडे जीवलोके संवलिताः संश्लिष्टाः गुप्तवृत्तयश्च सन्तः । यद्वा संवलितं निवर्तनं, तेन गुप्तवृत्तयः । समनन्तरं यत्कृत्यं, तदाचराम इति निर्गतौ । प्रस्तावना ; नाटकस्योपक्रमणमित्यर्थः ॥

प्रभाविलासः

भावः,
प्रस्तावनेति । प्रस्तावना साङ्गं निरूपितेत्यर्थः । उक्ताङ्गेषु केषाञ्चिदनुक्तावपि साङ्गत्वमेव । तदुक्तम्-

“अज्ञेनान्यतमेनैषा पात्रमाक्षिप्य सूत्रधृत् ।

अनन्तरं तु निष्क्रामेत् सैषा प्रस्तावना मता ॥ "

इति ॥


  1. सकल ——क ↩︎ ↩︎

  2. किरण–omitted—ग ↩︎ ↩︎

  3. पादपद्मस्य—च ↩︎ ↩︎

  4. महा omitted–ग ↩︎ ↩︎

  5. चटुल omitted—ग ↩︎ ↩︎

  6. मध्य omitted—क ↩︎ ↩︎

  7. विद्या omitted—ड ↩︎ ↩︎

  8. कुदृष्टि added before ↩︎ ↩︎

  9. “एतद्वै महोपनिषदं देवानां गुह्यम्” इत्युक्तप्रपदनतत्त्वोपदेशदेशिकैरिति साम्प्रदायिकोऽस्यार्थः। ↩︎ ↩︎

  10. अनवरतपरिचितगान्धर्वविद्याप्रसादितपरमपुरुषैः added before —क,ख ↩︎ ↩︎

  11. नृगुणी—ख,ग,ड ↩︎ ↩︎

  12. परिगृहीता— ग ↩︎ ↩︎

  13. संवर्धनस्य—क ↩︎ ↩︎

  14. सर्वे added before—-ग ↩︎ ↩︎

  15. देशिकैरिव—–क ↩︎ ↩︎

  16. अबोध—क,ख ↩︎ ↩︎

  17. अन्यभक्त्युन्मीलनीम्म् इति प्रभावलीसम्मतः पाठः । ↩︎ ↩︎

  18. (सप्रणामम्) added after—–ढ ↩︎ ↩︎

  19. सविनयम् omitted ——–क ↩︎ ↩︎

  20. नाटक omitted—ख, प; नाट्य —ग ↩︎ ↩︎

  21. कुशलाः omitted—क ↩︎ ↩︎

  22. तुह्म भासिए– प्रभावलीसम्मतः पाठः ↩︎ ↩︎

  23. पुच्छम्मि – ditto ↩︎ ↩︎

  24. आणत्तन्ति —ditto ; आदिट्ठन्ति —ख ↩︎ ↩︎

  25. इदं दान-वीरस्याप्य् उपलक्षणम् ।
    एतेन युद्धवीर दया-वीर–दान-वीर–भेदेन विविधोऽपि वीरोऽत्र वर्णितः ।
    शान्त-वीरयोः व्यतिकराच् च चित्रत्वं भाव्यम् । ↩︎ ↩︎

  26. न सन्त्य—ग ↩︎ ↩︎

  27. न्त्यविरल—क,ख,ग ↩︎ ↩︎

  28. यतः omitted—क,ग ↩︎ ↩︎

  29. हिताहितप्रयोगः —-घ ↩︎ ↩︎

  30. सकौतुकम् omitted —क,ख,घ ↩︎ ↩︎

  31. सकल—ग ↩︎ ↩︎

  32. देवतान्तरस्पर्शविधुरा विशुद्धयाजिसमादृता सात्त्वतनिष्ठापरिकर्मिताध्यात्मविद्येत्यर्थः। ↩︎ ↩︎

  33. विहरण—–इति प्रभावलीसम्मतः पाठः ↩︎ ↩︎

  34. स च —omitted–च ↩︎ ↩︎

  35. एअस्स—च,क ↩︎ ↩︎

  36. णिम्मूलिअ—–ड,च,छ ↩︎ ↩︎

  37. सान्तर्हासम् omitted—च ↩︎ ↩︎

  38. अप्रवृत्त—घ,ड,छ ↩︎ ↩︎

  39. तथापि—क ↩︎ ↩︎

  40. दम्भोलि—–ख ↩︎ ↩︎

  41. सलिलानि—क,घ ↩︎ ↩︎

  42. ति मेनिरे ↩︎ ↩︎

  43. अपि च —-omitted—क,ख,ड अन्यदपि चैतदाकर्णयतु भवती यदेतदौपनि added after—ड ↩︎ ↩︎

  44. अय्य omitted—क,ग ↩︎ ↩︎

  45. कहम् उण—-ख ↩︎ ↩︎

  46. णडउत्तन्तेण—–ग ↩︎ ↩︎

  47. कितु सन्ति इति प्रभावलीसम्मतः पाठः ↩︎ ↩︎

  48. ढोलन्त——क↩︎ ↩︎

  49. चञ्चल—-ख ↩︎ ↩︎

  50. “वृञ् वरणे” इति धातोः यङ्लुगन्तस्य प्रथमपुरुषबहुवचने वरीव्रतु इति रूपम् । ↩︎ ↩︎

  51. अपि च —-omitted —क,ग ↩︎ ↩︎

  52. समय omitted—-क,ख ↩︎ ↩︎

  53. तथापि omitted—क ↩︎ ↩︎

  54. विह्वगुप्त्यै—-क ; विश्वगोप्तेति प्रभाविलाससम्मतः पाठः । ↩︎ ↩︎

  55. विदग्धेषु इति प्रभाविलाससम्मतः पाठः। ↩︎ ↩︎

  56. भवतु नाम —omitted—क ↩︎ ↩︎

  57. विद्यां बहुमन्यस्व—–क ↩︎ ↩︎

  58. शृण्वन्त्यार्य मिश्राः omitted—-ग ↩︎ ↩︎

  59. औपोद्घातिकी——–च, छ ↩︎ ↩︎

  60. कुसुमधन्विनि—–घ ↩︎ ↩︎

  61. मयि —omitted——- क,ख,ग ↩︎ ↩︎

  62. आशङ्कते —–क ↩︎ ↩︎

  63. मद —omitted—क,ख ↩︎ ↩︎