विश्वास-प्रस्तुतिः
यद्-भक्ति-प्रचयात्मके दिन-मुखे दृष्टि-क्षमः क्षेत्रिणः,
क्षिप्रं संसृति-शर्वरीं क्षिपति यत्-सङ्कल्प-सूर्योदयः ।
तत्त्वैर् +++(तादात्म्येन)+++ अस्त्र-विभूषणैर् अधिगतः, स्वाधीन-नित्योन्नतिः
श्रीमान् अस्तु स मे समस्त-विपद्-उत्ताराय नारायणः ॥ १ ॥
+++(इति भक्ति-प्रतिपादनम्। )+++
मूलम् - १
यद्भक्तिप्रचयात्मके दिनमुखे दृष्टिक्षमः क्षेत्रिणः
क्षिप्रं संसृतिशर्वरीं क्षिपति यत्सङ्कल्पसूर्योदयः ।
तत्त्वैरस्त्रविभूषणैरधिगतः स्वाधीननित्योन्नतिः
श्रीमानस्तु स मे समस्तविपदुत्ताराय नारायणः ॥ १ ॥
प्रभावली - १
इह खलु वेदान्ताचार्यः सर्व-जगत्-प्रसिद्धः कवि-तार्किक-सिंह+अपर-गुण-नामधेयः वेङ्कटेश-गुरु-सार्वभौमः
संसार-दव-दहन-दन्दह्यमानं सकलं जनं विलोक्य
करुणया दोदूयमान-चेतास्
त्रय्यन्त-सुधा-रस-परिवाहेनाप्लावयिष्यन्
आलस्याद्य्-उपहत-मनस्कान् कोमल-बुद्धीन् अप्य् अनुजिघृक्षुः
सर्वोपनिषत्-सारार्थजातं सङ्कल्प-सूर्योदयाख्येन नाटकेन सङ्गृह्य विवक्षुर्
अविघ्न-परिसमात्य्-आदि-प्रयोजनस्य शिष्टाचार-प्राप्तस्य मङ्गलाचारस्य कर्तव्यतया
वाचनिक-वृत्त्या ऽभिमत-प्रार्थना-द्योतकम्
आशीर्वाद-रूपं मङ्गलम्
आदौ तावन् निबध्नाति श्लोक-द्वयेन ।
तत्र प्रथम-श्लोकेन भक्त्य्-उपायं निरूपयति ।
द्वितीयेन श्लोकेन प्रपत्त्य्-उपायम् इति विवेकः - यद् भक्तीति ।
नारायणो मे समस्त-विपद्-उत्तारायास्त्व् इत्य् अन्वयः ।
यत्-सङ्कल्प-सूर्योदयः यस्य श्रीमतो नारायणस्य भक्तिर् निदिध्यासनं,
तस्य प्रचयः दर्शन-समानाकार-रूप-परिपाक-विशेषः,
तद्-आत्मके दिन-मुखे प्रातः-काले दृष्टि-क्षमः
भक्तिमतां ज्ञान-गोचरः सन्
क्षेत्रिणः जीवस्य ; जात्येकवचनम् ;
संसृति-शर्वरीं संसार-रूप-रात्रिं क्षिप्रं प्रारब्ध-कर्मावसान
एवं क्षिपति निरस्यति ।
अथात्र यच्-छब्दोक्तां स्वाभीष्ट-देवताम्
उत्तरार्धे शृङ्ग-ग्राहिकया +++(→प्रत्यक्षं)+++ दर्शयति अस्त्रैर् इति ।
अस्त्राणि चक्रादीनि भूषणानि श्रीवत्सकौस्तुभादीनि ; अस्त्र-विभूषणायमानैस् तत्त्वैः प्रकृत्य्-आदिभिः पञ्च-विंशति-सङ्ख्यैर् उपलक्षितः ।
इत्थं-भावे तृतीया ।
अनेन भगवतो दिव्य-मङ्गलविग्रहः सूच्यते ।
अधिगता प्राप्ता स्वाधीना नित्या
उन्नतिः ज्ञानशक्त्यादि-गुण-सम्पत्तिः सर्वेश्वरता वा येन सः ।
यद् वा अस्त्र-भूषणैस् तत्त्वैर् अधिगता विदिता स्वाधीना नित्योन्नतिर् यस्य सः श्रीमान्नारायणः
मम समस्त विपदां प्रारिप्सितग्रन्थसमाप्ति-विघ्न-रूपादि-विपदाम् उत्ताराय उत्तरणं कर्तुं भवतु ।
यद्वा समस्तविपद्भयो मामुत्तारयितुम् अस्तु ।
पूर्वत्र शर्वरी-क्षेपणं सङ्कल्प-सूर्योदय-कर्तृकम् ;
उत्तरत्र समस्त-विपन्-निवर्तनम् ईश्वर-कर्तृकम् ।
अस्त्व् इति प्रार्थनाया लोट् ।
ऐहिक-सर्व-विपद्-अपेक्षया समस्त-शब्दप्रयोगः ।
अत्र नारायणशब्दं प्रयुञ्जानस्यायं भावः —
समस्तविपदुत्तार-प्रार्थनया मोक्षप्राप्तिरपि प्रार्थिता भवति ।
मोक्षप्रापकत्वं च “ब्रह्मविदाप्नोति परम्” इत्यादिश्रुतिभिः
पर-ब्रह्म-ज्ञानस्येत्य् आशङ्कय
“नारायण परं ब्रह्म " इत्य्-आदि-श्रुतेर् नारायण-शब्दार्थं पर्यालोचनया नारायणस्यैव परब्रह्मत्वम् इति ।
अयमत्र नारायण-शब्दार्थ-सङ्ग्रहः॥
रीयन्ते क्षीयन्त इति व्युत्पत्त्या र-शब्दः क्षयिष्णु-पदार्थवाचकः ;
स न भवतीति नग-नैकादि-शब्द-वन् न-समासे नर-शब्दो नित्य-पदार्थ-वाचकः ।
नित्याश् च पदार्थाः प्रकृति-काल-जीवादयः ।
अतो नर-शब्देन भगवत्-स्वरूप-व्यतिरिक्तम् उभय-विभूति-गतं सर्वम् अप्युच्यते ।
सर्वे पदार्थाः स्वरूपतः प्रवाहतया वा नित्याः ।
नार इत्य् अण्-प्रत्ययेन तत्-समूहा उच्यन्ते ।
- नाराणां नित्य-पदार्थ-समूहानाम् अयनम् आधार उपायश्चेति नारायणः ।
- यद्वा नारा अयनं वासस्थानं व्याप्यं च यस्येति नारायणः ।
अयनशब्दस्य तत्पुरुष-समासे पुंलिङ्गत्वं छान्दसम् ।
ईयतेऽनेनेति व्युत्पत्त्या अयनशब्द उपायवाचकः ।
ईयत इति कर्मव्युत्पत्त्या उपेयवाचकः ;
ईयते यत्रेत्य् अधिकरण-व्युत्पत्याधारत्वं व्याप्यत्वं चोच्यते ।
समास-द्वयेनान्तर्-बहिर्-व्याप्ती उक्ते ।
भक्त्य्-आदीनां साक्षान् मोक्षोपायत्वम् आशङ्कय
सिद्धोपायत्वं साध्योपायत्वं च नारायणस्यैवेति
नारायण-शब्दो दर्शयति ।
महाकवयश् च
“स स्वेनैव फल-प्रदः फलम् अपि स्वेनैव नारायणः”
इत्याहुः ।
“उपायः स्व-प्राप्तेर् उपनिषद्-अधीतः स भगवान्”
इत्युक्तरत्र वेदान्ताचार्याश्च वक्ष्यन्ति ।
उपायत्वादिकं सर्वं श्रीसहितस्यैवेत्य् अभिप्रेत्य श्रीमान् इत्य् उक्तम् ।
अत्र श्रीशब्देन निरुपाधिक-मङ्गल-रूपा जगन्-माता विष्णु-पत्नी लक्ष्मीर् उच्यते ।
श्रीशब्दस्य षोढा व्युत्पत्तिः प्रदर्शिता पूर्वाचार्यैः -
- स्वेतर-समस्त-देवैः स्व-स्व-कार्यार्थम् आश्रीयत इति श्रीः ।
- आश्रितार्थं स्वयं भगवन्तं नारायणम् आश्रयतीति श्रीः ।
- आश्रितानाम् आर्त-वाक्यं शृणोतीति श्रीः ।
- तच् च वाक्यं काले नारायणं श्रावयतीति श्रीः ।
- शृणात्य्+++(=चूर्णीकरोति)+++ आश्रित-दोषमिति च श्रीः ।
- श्रीणाति गुणैर् आश्रितान् इति च श्रीः ।
शृणाति दोषं, श्रीणाति च गुणैर् इत्य् अनिष्ट-निवर्तकत्वेष्टप्रापकत्वे उच्येते ।
अत एवास्या उपायत्वं सिद्धम् ।
“लक्ष्म्या सह हृषीकेशो
देव्या कारुण्य-रूपया । रक्षकः सर्व-सिद्धान्ते
वेदान्तेषु च गीयते ॥ "
इत्यादीन्य् अत्र प्रमाणवचनानि द्रष्टव्यानि ।
“अस्येशाना जगतो विष्णुपत्नी "
इति जगदीशानायाः श्रियः पतित्वेन
नारायणस्य परत्वं सुगमम् ।
लक्ष्मीसहितस्यैव रक्षकत्व-स्मृतेर् उपायत्वान्तर्भावश् च तस्याः सुगमः ।
अथ सर्वातिशायि-दिव्य-मङ्गल-विग्रहवत्वाद् अपि नारायण एव परं ब्रह्मेत्याह —
तत्त्वैरित्यादि ।
तत्त्वानाम् अस्त्र-भूषणत्वं श्री-विष्णु-पुराणे ऽस्त्र-भूषणाध्याये द्रष्टव्यम् ।
नित्योन्नतिः सर्वस्मात् परत्वम् ।
संसृतेर् दुर्-उच्छेदानाद्य्-अनन्त-कर्माख्याविद्या-सञ्चितत्वात्
कथं प्रार्थित-मोक्ष-प्रदत्वं भगवत
इत्य् अत आह यत्-सङ्कल्पेति ।
“तद्यथेषीक-तूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते "
“एवंविदि पापं कर्म न श्लिष्यते "
" तद्-अधिगम उत्तर-पूर्वाघयोर् अ-श्लेष-विनाशौ’
इति श्रुति-स्मृत्य्-आदिभिः
सर्व-पाप्मनां ब्रह्म-ज्ञानेनाश्लेष-विनाश-दर्शनान् नोक्त-दोष-प्रसङ्गः ।
सङ्कल्पस्य सूर्योदयत्व-रूपणेन तमः-स्थानीयानां कर्मणां क्षिप्र-विनाश्यत्वम् उपपद्यते ।
तञ् च सर्व-पाप-निवर्तकं ब्रह्म-ज्ञानं कीदृशम् इत्यपेक्षायां
भक्ति-प्रपत्ती वदन्
प्रथमं भक्ति दर्शयति- यद्भक्तीत्यादि ।
" स्नेहपूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते "
इत्युक्तत्वात् भक्ति-शब्देन प्रेम-रूप-निदिध्यासनं विवक्षितम् ।
दृष्टिक्षमः ; दर्शन-योग्यः, भगवत्-साक्षात्कार-समर्थन-क्षम इति वार्थः ।
क्षेत्रिण इत्यस्य काकाक्षिवद् उभयत्र सम्बन्धः ।
तथाचाव्याहत-सङ्कल्पो भगवान्
भक्ति-प्रीतः सन् जीव-मोक्षं सङ्कल्पयतीति भावः ।
अनेनैतत् प्रबन्ध-प्रतिपाद्यो जीव-मोक्षः सङ्क्षिप्तो भवति ॥ १ ॥
प्रभाविलासः - १
इह खलु भगवान् कवितार्किक-कण्ठीरवः
सर्व-तन्त्र-स्वतन्त्रः श्रीमान् वेङ्कटनाथनामा वेदान्ताचार्यः
श्रीमच्-छारीरक-भाष्यस्यातिगहन-गम्भीरतया पत्रायासम् असहमानान् शिष्यान् अवलोक्य
दयालुतया वेदान्तार्थ-जातं सुखेन प्रतिबोधयितुं
नाटकापदेशेन प्रकटयन्न्
आशीराद्य्-अन्यतमस्य
शिष्टाचारतया ऽऽशीर्वादरूपं मङ्गलमाचरति — यद्भक्तीत्यादिना ।
यत्-पद-द्वयेन नारायणः परामृश्यते ।
भक्ति-पदेन वेदनादि-पद-वाच्यं दर्शन-समानाकारं प्रीति-रूपापन्नं ध्रुवानुस्मरणम् उच्यते ।
तस्याः प्रचयो विश्लेष-भीरुता-लक्षणं स्थैर्यम् ।
“ स्थिरा भक्तिः सूते विपद्-उपरतिं पुंसि परमे " इति वक्ष्यमाणानुसारात् ।
भक्तिप्रचयस्य मोक्षं प्रत्य् अव्यवहित-साधनत्वं वक्तुं दिन-मुखत्व-रूपणम् ।
अत एव क्षिप्रं क्षिपतीत्युक्तिः ।
क्षेत्रिणः ; क्षेत्रम् इति प्रकृतिपरिणाम-भूतं शरीरम् उच्यते ।
" त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते । "
" इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ॥”
इति स्मरणात् ।
प्रशंसायाम् +++(क्षेत्रिणि)+++ इनिः, उपासनानुकूलत्वात् चरम-देहत्वाद् वा ।
दृष्टिक्षमः ; प्रत्यक्ष-सहः, साक्षात्कारः प्रदानसमर्थो वा ।
संसृतिः ; अविद्यासम्बन्धः ।
संसारहेतुभूतवासनानां निवृत्तिमभिप्रेत्य शर्वरीं क्षिपतीत्युक्तिः ।
सङ्कल्पः ; प्रसादरूप इच्छाविशेषः,
" तमक्रतुं पश्यति वीत-शोको धातुः प्रसादान् महिमानम् ईशम्” इति श्रुतेः ।
अस्त्रविभूषणैः ; अस्त्ररूपैर् विभूषण-रूपैश्च ।
तत्त्वैः ; प्रकृत्यादिभिः ।
अधिगतः ; आधिक्यं प्राप्तः ।
एवम् अचेतनवैलक्षण्यं संसारि-चेतन-वैलक्षण्यं चोक्तम् ।
अथ नित्यमुक्त-वैलक्षण्यम् आह - स्वाधीनेति ; स्वाधीना नित्या उन्नतिर्यस्य स तथोक्तः ।
उभयावधि-राहित्यं नित्यत्वम् ।
तेन मुक्त-व्यावृत्तिः ।
स्वाधीनेति नित्य-व्यावृत्तिः ।
यद्वा सकल-तत्त्व-शेषित्वं किम् अन्याधीनं,
किं वा भङ्गुरम् इत्य् आशङ्क्य नेत्याह – स्वाधीनेति ।
" न तस्येशे कश्चन
तस्य नाम महद् यशः
नित्यो नित्यानां
चेतनश् चेतनानाम् "
इति च श्रुतेः ।
यद् वा अधिगता प्राप्ता स्वाधीना नित्योन्नतिर् यस्येति विग्रहः1 ।
तत्त्वानाम् अस्त्रादि-रूपत्वम् अभियुक्तैर् उक्तम्-
“चेतश् चक्रति, चेतना+++(=ज्ञानम्)+++ ऽसिर्; अमतिस् तत्+++(=खड्गस्य)+++-संवृतिर्, मालिका
भूतानि स्व-गुणैर्, +++(सात्त्विक-तामस+)+++अहं-कृति-युगं शङ्खेन शार्ङ्गायते । बाणाः खानि+++(=ज्ञानकर्मेन्द्रियाणि)+++ दशापि, कौस्तुभमणिर् जीवः, प्रधानं पुनः
श्रीवत्सं, कमलापते, तव गदाम् आहुर् महान्तं बुधाः ॥”
इति ।
श्रीमान् इति ; भूमनित्ययोगयोर् मतुप् । तद् उक्तम् —
“भूमनिन्दाप्रशंसासु
नित्ययोगेऽतिशायने
संसर्गेऽस्तिविवक्षायां
भवन्ति मतुबादयः ॥”
“अप्रमेयं हि” इति । भूमत्वं चास्या भर्तुर् अप्य् अतिशयाधायकत्वम् ।
तच् च तत् तेजो यस्य सा जनकात्मजा " इत्यादाव् उक्तम् ।
नित्य-योगस् तु-
“नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी " " अनन्या राघवेणाहं भास्करेण प्रभा यथा” इत्यादावुक्तम् । सः ; पूर्वं यच्छब्दद्वयनिर्दिष्टः । नारायणः ; नारा आपः, " आपो नारा इति प्रोक्ताः " इत्युक्तेः, अयनं स्थानं यस्य सः । ’ यमन्तः समुद्रे कवयो वयन्ति " इति श्रुतेः । “नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः” इत्युक्तेर्नाराणां तत्त्वानामयनमिति वा । समासद्वये - नोभयव्याप्तिरुक्ता, " अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " इति श्रुतेः । विपच्छब्देन गर्भजन्मजरामरणस्वर्गनरकाध्यात्मिकादयः ; तदवान्तरभेदाः समस्तशब्दोक्ताः “।
एवं श्रौतमाशीरूपं मङ्गलमाचरितम् । श्लोकादौ मगणयवर्णाभ्यां च मङ्गलं सूचितम् । तदुक्तं चमत्कारचन्द्रिकायाम् – “ क्षेमं सर्वगुरुर्दत्ते मगणो भूमिदैवतः " इति । " मकारः क्षेमकृद्यस्तु श्रीदो रेफस्तु दाहकृत् " इति च । अर्थाच्छास्त्रप्रतिपाद्यार्थसङ्ग्रहः कृतः – तत्त्वैरस्त्र विभूषणैरधिगत इति सकलतत्त्वशेषित्वोक्त्या समन्वयाध्यायार्थः सङ्गृहीतः ; स्वाधीन नित्योन्नतिरित्यविरोधलक्षणार्थः ; यद्भक्तिरिति साधनलक्षणार्थः ; संसृतिशर्वरीं क्षिपतीति फललक्षणार्थः ; तत्त्वैरिति लीलाविभूतियोगः ; श्रीमानिति नित्य विभूति - योगः सौलभ्यं च श्रियो नित्यघटितत्वात् ; नारायण इति परत्वोभयलिङ्गत्वे । परपक्षप्रतिक्षेपश्चार्थिकः । भक्तेर्मोक्ष हेतुत्वोक्तथा ज्ञानमात्रस्य मोक्षहेतुत्ववादिनो मायिनो निरस्ताः । ईश्वरस्य फलप्रदत्वोक्तया कर्ममीमांसका निरस्ताः । प्रधानादेः पारतन्त्र्योक्तया साङ्ख्या निरस्ताः । स्वाधीनोन्नतिरिति उत्तीर्णब्रह्मवादिनः, नित्योन्नतिरिति क्षणिकाः, नारायण इति हैरण्यगर्भपाशुपतादयो निरस्ताः । काव्यार्थसूचकत्वं च नान्दीश्लोकस्याङ्गीकुर्वन्ति केचित् -” काव्यार्थसूचकैर्वर्णैर्नान्दीश्लोकः प्रशस्यते " इति । विद्यानाथेनाप्युक्तम् – " अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम् " इति । तस्यैषा दिक्-भक्तिदृष्टिशब्दाभ्यां बुद्धयनुप्रविष्टा विवेकव्यवसायसुमतिप्रभृतय उक्ताः ; संसृतिपदेन संसारहेतुभूता मोहादयो विवक्षिताः ; क्षेत्रीति वंशद्वयकूटस्थोक्तिः ; क्षिपतीति युद्धे मोहादिवधो लक्षित इति । इयमष्टादशपदा नान्दी विज्ञेया । तदुक्तमभिनवगुप्ताचार्यैः-
।
" नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृता ।
षड्भिः षोडशभिर्वापि चतुर्भिस्त्रिभिरेव वा ॥
अष्टादशपदैर्वापि द्वाविंशतिपदैस्तथा ।
शङ्खचक्राब्जचन्द्रेन्द्र कोककैरवशंसिनी ।
त्र्यश्रा वा चतुरश्रा वा तालमार्गानुसारिणी ॥ "
इति । अष्टादशपदनान्द्यास्त्रिषट्करूपत्वात् त्र्यश्रतालानुसारित्वम् । नारायणश्रीपदाभ्यां शङ्खचक्रादिसम्बन्धो ज्ञापितः । द्वितीयव्याख्याने सप्तदशपदत्वेन सङ्ख्यानियमाभावो द्रष्टव्यः । उक्तं च सरस्वतीविलासे - " पदादिनियमोऽपि न” इति । श्लोकद्वयेन पादस्यैव पदत्वमतानुसारेणाष्टपदा वा नान्दी विज्ञेया ।
अत्र श्लोके दिनमुखशर्वरीसूर्योदयानामुपमानानां भक्तिप्रचयसंसृतिसङ्कल्परूपोपमेयतया रूपणात् रूपकालङ्कारः ।
“ उपमेयतया यस्मिन्नुपचारप्रयोगतः ।
उपमानं निरूप्येत रूपकं तन्निरूपितम् ॥”
इति लक्षणात् । वैदर्भी रीतिः । असमासा हि सा । तल्लक्षणं तत्रैव-
" रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः ।
रीङ् गतावित्यतो धातोरियं रीतिरितीर्यते ॥
असमासा समासेन मध्यमेन विभूषिता ।
अतिदीर्घसमासा च मिश्रा चेति चतुर्विधा ॥
इति । अत्र सुकरसमासत्वमेवासमासत्वं नाम । तदुक्तं तत्रैव-
“द्वयोस्त्रयाणां वा पदानां समासेऽपि सहृदयचित्तानामनुद्वेगदायित्वेनासमासत्वमेव " इति ॥ १ ॥
विश्वास-प्रस्तुतिः
अपि च,2
लक्ष्ये +++(→आत्मसमर्पणोचिते नारायणे)+++ यत्र श्रुति+++(=श्रवणम्|वेदाः)+++-मित-+++(भगवद्-)+++गुण+++(=पक्षे सूत्रम्)++++आकृष्टि-लब्धावधानैः
प्रत्यग्+++(→स्वस्मै स्वयम् भासमानो जीवात्म|पूजित|विपरीत)+++-बाणः +++(सम्प्रदाय-प्राप्त-रहस्यार्थ-सहित-)+++प्रणव+++(←पक्षे नव)+++-धनुषा +++(←“ओम् इत्यात्मानं युञ्जीत”)+++ सत्त्ववद्भिः +++(महाविश्वासादिभिः→)+++ प्र-युक्तः ।
+++(लक्ष्यस्य)+++ मध्ये-वक्षः स्फुरति +++(कौस्तुभ-लोहित)+++महसा+++(←पक्षे धर्म-भूत-ज्ञानेन)+++ +++(कङ्क|शास्त्र-)+++पत्र-लः +++(जीवाधिदैवत-)+++कौस्तुभात्मा +++(←पक्षे बाण-शल्य-वर्णेन)+++,
+++(स लक्ष्यैक-भूतः)+++ पद्मा-कान्तः स भवतु दया-दुग्ध-सिन्धुः श्रियै+++(→सताम् आत्मज्ञानाय)+++ वः3 ॥ २ ॥+++(5)+++
+++(इति प्रपत्ति-प्रतिपादनम्। )+++
मूलम् - २
अपि च,2
लक्ष्ये यत्र श्रुतिमितगुणाकृष्टिलब्धावधानैः
प्रत्यग्बाणः प्रणवधनुषा सत्त्ववद्भिः प्रयुक्तः ।
मध्येवक्षः स्फुरति महसा पत्रलः कौस्तुभात्मा
पद्माकान्तः स भवतु दयादुग्धसिन्धुः श्रियै वः3 ॥ २ ॥
प्रभावली - २
“अथ नाना शब्दादि-भेदात्” इति सूत्रेण
सूत्रकार-सूचितायाः " ओम् इत्य् आत्मानं युञ्जीत ” इति प्रतिपादितायाः प्रपत्तेर्
भगवत्-प्रसादोपायत्वं दर्शयति - लक्ष्य इति ।
यत्र लक्ष्ये श्रीमति नारायणे
श्रुति-मित-गुणाकृष्टि-लब्धावधानैः सत्त्ववद्भिः
प्रणव-धनुषा प्रयुक्तः कौस्तुभात्मा प्रत्यग्बाणः
मध्येवक्षः स्फुरति
दया-दुग्ध-सिन्धुः स नारायणः
वः श्रियै अस्त्व् इति सम्बन्धः ।
यत्र लक्ष्ये शरव्ये नारायणे ;
लक्ष्य इत्य्-अनेन भगवत आत्म-समर्पण-विषयत्वं सूच्यते ।
" ब्रह्म तल्-लक्ष्यम् उच्यते " इति ह्य् उक्तम् ।
शरव्यतारोपणेन तद्-एक-मनस्कत्व-सूचनया
देवतान्तर-भजन-निरास-रूपानन्य-गतित्वं फलितम् ।
श्रुति-मित-गुणाकृष्टि-लब्धावधानैः ;
श्रुतिषु मितानां प्रतिपन्नानां गुणानां ज्ञान-शक्ति-करुणादीनाम् आकृष्टिर् आकर्षणम् उपसंहारः,
तत्र लब्धावधानैः प्राप्तैकाग्र्यैः ।
अन्यत्र श्रोत्रपर्यन्तज्याकर्षणे लब्धाभ्यासैः ।
सत्त्ववद्भिः ; सत्त्व-गुणवद्भिः, सात्त्विकैर् इति यावत् ।
अन्यत्र बलवद्भिः ।
प्रणव-धनुषा ; प्रणवस्य धनुष्ट्व-रूपणं मार्गण-समर्पण साधनत्वात् ;
“ओम् इत्यात्मानं युञ्जीत” इति हि श्रुतिः ।
युञ्जीत समर्पयेद् इत्य् अर्थः ।
प्रयुक्तः ; प्रकर्षेण समर्पितः ।
युञ्जीतेति श्रुतिसूचनाया ऽत्र युजि-धातु-प्रयोगः ।
प्र-शब्देनात्र महाविश्वासो गम्यते ।
प्रत्यग्-बाणः ; प्रत्यग्-आत्मा बाण इव, जीवात्मरूपो बाणः ।
प्रत्यक्त्वं स्वस्मै स्वयं भासमानत्वम् ।
प्रत्यगात्मनो बाणत्वेन रूपणं
भगवति समर्प्यमाणत्वात् ।
मध्येवक्षः ; वक्षसो मध्ये लक्ष्यभूतब्रह्मणो वक्षसीत्यर्थः ।
महसा ; कौस्तुभ-कान्त्या ।
पत्रलः ; कङ्क-पत्रवान् ।
कौस्तुभात्मा ; कौस्तुभ आत्मा स्वरूपं यस्य, कौस्तुभस्य जीवात्माधि-देवतात्वात् ।
अन्यत्र कौस्तुभस्यात्मेवात्मा यस्य ।
तेन लोहितत्वम् उक्तं भवति ।
स्फुरति ; सदोज्ज्वलो वर्तते ।
दयैव दुग्धं पयः ; तस्य सिन्धुत्व-रूपणेनापारत्वं गम्यते ।
स पद्माकान्तः ; अनेन प्रपत्ति-विषयो भगवान्
श्रियः पतिर् एवेति सूचितम् ।
वः श्रियै ; एतत्-प्रबन्धस्य पठने श्रवणे च प्रवृत्तानां वः ऐहिकामुष्मिक-रूप-सर्व-सम्पत्-समृद्ध्यै भवत्व्
इत्य् आशीर्वादः ॥ २ ॥
प्रभाविलासः - २
एवं सप्रपञ्चं भजनं निरूपितम् ।
अथ प्रपदनं निरूपयति - लक्ष्य इति ।
प्रसिद्ध-परामर्शिना यत्-पदेन
" यतो वा इमानि भूतानि जायन्ते "
“ यः सर्वज्ञः सर्ववित्” इत्य्-आदि-वेदान्त-प्रसिद्धं ब्रह्माभिधीयते ।+++(4)+++
यत्र लक्ष्ये ; शरव्ये
" लक्षं लक्ष्यं शरव्यं च " इत्यमरः ।
श्रुतिषु वेदान्तेषु मिताः प्रमिता गुणाः सर्वज्ञत्वादयो यस्य
स ईश्वरः,
तस्याकृष्टिर् आकर्षणं वशीकरणमिति यावत्
तस्यां लब्धम् अवधानं कौशलं येषां तैः ।
अन्यत्र श्रुतिमितं श्रवण-पर्यन्तम् ;
" वेदे श्रवसि च श्रुतिः " इत्यमरः ।
गुणस्य मौर्व्या आकृष्टाव् आकर्षणे लब्धावधानैः ।
प्रत्यग्-बाणः ; प्रत्यग्-आत्मैव बाणः,
समर्प्यमाण-पदार्थ इति यावत् ।
अन्यत्र पूजितो बाणः ।
“अञ्चु गतिपूजनयोः " इति धातुः ।
प्रणवधनुषा ; प्रणव एव धनुः समर्पण साधनं तेन ।
साधनत्वं चास्यानुष्ठेयार्थप्रकाशकत्वात्
" ब्रह्मणे त्वा महस ओम् इत्य् आत्मानं युञ्जीत "
इति प्रथन-लवनादिवन् मन्त्र-रूपत्वात् ।
अन्यत्राभिनव-धनुषा दृढेनेति यावत् ।
सत्त्ववद्भिः ; सात्त्विकैः बलवद्भिश् च ।
महसा ; धर्म-भूत-ज्ञानेन । पत्रलः ; व्यापनशीलः ।
अन्यत्र महसा तेजसा युक्तः ।
पत्रलः पत्रवान् ।
कौस्तुभात्मा ; कौस्तुभस्वरूपः ।
अन्यत्र वज्रमयः ।
पद्माकान्त इति मन्त्र-रत्नोक्त श्रीमच्-छब्दार्थो विवृतः ।
अनेन रक्षकत्व-सामर्थ्यं प्रतीतम् ।
अथ श्रीसम्बन्धोत्तेजितं सानुक्रोशत्वम् आह – दयेति ।
तेन शरण्यत्वोपयुक्त-गुणा उक्ताः,
“सानुक्रोशे समर्थे प्रपदनम् ऋषिभिः स्मर्यते ऽभीष्टसिद्ध्यै " इत्य् उक्तत्वात् ।
दुग्ध-सिन्धुर् इति निरतिशय-भोग्यत्वं व्यज्यते ।
श्रियै ; " सा हि श्रीरमृता सताम् ।” इत्युक्त-त्रय्य्-अन्त-सार-भूत-पुरुषार्थाय । अत्र
" प्रणवो धनुः, शरो ह्य् आत्मा,
ब्रह्म तल्-लक्ष्यम् उच्यते ।
अप्रमत्तेन वेद्धव्यं
शरवत् तन्मयो भवेत् ॥ “+++(5)+++
इति श्रुत्य्-अर्थोऽभिप्रेतः ।
तन्मय इति तद्-अपृथक्-सिद्धत्वम्, तत्साम्यापत्तिर् इति यावत् -
न पुनर् ऐक्यम् ।
अत एव ’ मध्येवक्षः स्फुरति ’ इत्युक्तम् ।
न च “ब्रह्म वेद ब्रह्मैव भवति” इति वाक्यान्तरावगतैक्य-स्वारस्याद्
ऐक्यम् एव वक्तव्यम्
इति वाच्यम्,
तत्रापि “विष्णुर् एव भूत्वेमान् लोकान् अभिजयति” इत्यादिवत् साम्य-मात्र-परत्वात्,
" निरञ्जनः परमं साम्यम् उपैति ” इति श्रुत्य्-अन्तरानुगुण्यात्,
“सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता” इति मुक्तौ भेद-श्रवणाच् च ।
एवं " प्रसत्त्यै तस्योक्ते प्रपदन-निदिध्यासन-गती "
इति वक्ष्यमाणानुसारेण भक्ति-प्रपत्त्योर् अपवर्ग-साधनत्वम् उपपादितम् ।
न च “नान्यः पन्था अयनाय विद्यते " इति श्रुतेः
प्रपत्तेर् न पृथग् उपायतेति वाच्यम्,
तस्या अपि ज्ञान-विशेषत्वेन पार्थक्याभावात् ;
दहरादि-विद्या-भेदवत् विद्या-भेदेनाविरोधाच् चेति ।
इयं चाष्टादश-पदा नान्दी ।
पद्मा-पदेन चन्द्र-सम्बन्धो व्यञ्जितः ।
तद् उक्तम् -
‘नान्दीश्लोको विधातव्यश्
चन्द्रनामाङ्क एव सः ।
अतो हि चन्द्र-सम्बन्धो
लक्ष्यते व्यज्यतेऽथवा ॥’
इति ।
श्लेषानुप्राणितो रूपकालङ्कारभेदः ।
पाञ्चाली रीतिः ॥ २ ॥