[[सर्वसाक्षात्काराख्यटीका-सङ्कल्पसूर्योदयः Source: EB]]
[
**श्रीः**
टीकापरिशिष्टम्
कतिपयपदव्याकृत्यैव स्युरर्थसुखग्रहे निखिलवचसां, व्युत्पन्नाश्चेत्, स्वयं प्रभविष्णवः।
इति कृतमहासंक्षेपेण स्फुटप्रतिपत्तये विविदिषुवुधप्रीत्यै किञ्चित् विशिष्य विलिख्यते॥
पु. 1. यद्भक्तिप्रचयेति। यस्मिन् नारायणए भक्तिर्यद्भक्तिः। तद्विषयकभक्तेः प्रचयो नाम अभिवृद्धिः संकल्पप्राग्भावितयाऽपेक्षितावस्था। न त्वन्तिमप्रत्ययान्तनिष्पत्तिः। “तदधिगम उत्तरपूर्वाघयोश्लेषविनाशौ"इति प्रारम्भ एव संकल्पस्योक्तत्वात्। सा चावस्था भक्तिशब्दस्य प्रीतिरूपापन्नध्यानपरत्वात् प्रीतेश्त कश्रवणप्रभृति तारतम्येनानुवर्तनात् दर्शनसमानाकारत्वस्य प्रीतिरूपापन्नत्वोक्ति मात्रेणालाभात् स्यात् दर्शनरूपतैव। यद्वा दशमांके 36 “तदपि किमपि प्रयुक्तं नः प्रतीक्षणमर्हति"इत्यादिना तदेकप्राप्यकत्वाध्यवसायदार्ढ्यपरीक्षणपर्यन्तविलम्बस्य दर्शिंतत्वात् ततः तकपरमेव संकल्पभावात् दर्शनसमानाकारायां प्रीतिरूपापन्नध्यानरूपायां भक्तावेव अधिकारिण्येकभक्तित्वसाधकः सोप्यंशोऽपेक्षित इति स एव प्रचयः। दिनमुखे इत्यत्र “स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले” इत्युक्तमप्यनुसंधेयम्। दिनञ्च मुक्तिरेव मधुविद्यायाम्, `सकृद्दिवा हैवास्मै भवति’इति मुक्तेरविच्छिन्नदिनरूपत्वोक्तेः। क्षेत्रिणः बद्धजीवस्य। “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते"इति महाभॄतादिमयं शरीरं क्षेत्रमिति गीयमानत्वात्। सद्य इत्यप्रयुज्य क्षिप्रमिति प्रयोगात् संकल्पानन्तरं किञ्चित्कालप्रतीक्षयैव मोक्षं लभत इति दर्शितम्। स च प्रारब्धकर्ममावसानपर्यन्तः कालः भक्त्युत्पत्तिर्यत्र जन्मनि तस्यैव प्रारब्धकर्मान्तिमजन्मत्वे तदवसानमात्ररूपः। प्रारब्धफलजन्मान्तरप्रसक्तौ तु अन्यदेवान्तिमम्। जन्मान्तरारम्भकप्रारब्धशेषोऽपि भक्तियोगनिष्ठेन अवताररहस्यचिन्तनरूपसहकारिमेलने नाशयितुं शक्यत इति च दशमांके दर्शितमेवाऽचार्यैः। संसृतिशर्वरीं क्षिपति। यद्यपि चन्द्रोऽपि प्रकारशकर्ता, अथापि स तम एव कामं निरुन्ध्यात्। न तु शर्वरीं क्षिपेत्, तस्य तत्प्रियत्वात्। तमोगुणनाशे भूम्ना जातेऽपि सत्त्वरजस्संश्लेष्टस्य न मुक्तिरूपः प्रबोधः यथा अन्धकारक्षयेऽपि शर्वरीस्थितौ न वासरवतीं प्रबोधः। अत्र शर्वरीक्षपणासमर्थतया सूचितो भवति (प्रबोध) चन्द्रः, योऽन्ततो गत्वा सूचनीयो नान्द्याम्। तत्त्वैरस्त्रविभूषणैरिति। अत्र वि. पु. 1.22. “आत्मानमस्य जगतो निर्लेपमगुणात्मकन्। बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः। श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम्। प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे। भूतादिमिन्द्रियादिञ्च द्विधाऽहङ्कारमीश्वरः। बिभर्ति शंखरूपेण शार्ङ्करूपेण च स्थितम्। चलत्खरूपमत्यन्तं जवेनान्तरितानिलम्। चक्रखरूपञ्च मनो धत्ते विष्णुकरे स्थितम्। पञ्चरूपा तु या माला वैजयन्ती गदाभृतः। सा भूतहेतुसंघाता भूतमाला च वै द्विज। यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै। शरूपाण्यशेषाणि तान् धत्ते जनार्दनः। बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम्। विद्यामयं तु तज्ज्ञानमविद्याकोशसंस्थितम्। इत्थं पुमान् प्रधानञ्च बुद्ध्यहङ्कारमेव च। भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च। विद्याविद्ये च मैत्रेय सर्वमेतत् समाश्रितम्। अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः। बिभतिं मायारूपेणोऽसौ श्रेयसे प्राणिनां हरिः॥“इति। भगवन्तमाश्रिताः कौस्तुभादयो नित्यसूरय एव। ते जीव-प्रकृति-प्राकृततत्तदूस्त्वभिमानिन इति एतत्प्रघट्टकतात्पर्वम्। अनेन विष्णुरेव सर्वेश्वर इति सिद्धम्। एवमस्त्रभूषणात्मकत्वं “पुरुडनम् मणिवरमाह"इति श्रीमद्रहस्यत्रयसारगाथायां स्पष्टं निर्दिष्टमिति तत्रापि द्रष्टव्यम्॥
अत्र संकल्पसूर्योदये श्रीदेशिकग्रन्थान्तरगताः श्लोकाः के इति पुटान्तरे स्पष्टमवगमितमस्ति। तेषां श्लोकानामर्थो विशदं तत्तद्ग्रन्थव्याख्यानत एवावसेयः। अत्र तु अप्रतिपत्तिनिरासायपेक्षितं यावत् संग्रहेणालेखि। सुभाषितनीवीश्लेकानामत्र निविष्टानां संभाविता अनेकेऽर्थाः तत्रास्मत्कृतायां नानार्थदर्शन्यामेव द्रष्टव्याः।
7, नाट्यदेशिमार्गादिपदानामर्थः अत्रैव पुस्तके काव्यतत्त्वमिति शीर्षकपूर्वं विवृतोऽनुसंधेयः।
15. संदितेति। यथा भिन्नमिति शब्दवाच्यार्थप्रतिकोटिरूपोऽर्थः संभिन्नमिति पदेनोच्यते, तथा दितं पृथक्कृतमित्येतत्प्रतिकोटिभूतं स्यूतं बद्धम् अपृथग्भूतमित्यर्थः संदितमिति पदेनोच्यते।
19. अलं कातर्येण। कातर्यं कातरत्वं भूतत्वम्। भयं मा भूदित्यर्थः। अलं कातर्यमिति प्रयोगे भयं पर्याप्तमित्यर्थः। स्यात्। तृतीयाप्रयोगे तु तन्निषेधोऽलंशब्दार्थः।
26. `ततः प्रविशति वसन्तदत्तहस्तः कान्तासमेतः कामः’इति पठनीयम्। कान्तासमेत इति पदं भ्रष्टं मेलनीयम्।
40. कथञ्चिदपीति, ग्रन्थान्त इति च अष्टमांकवक्ष्यमाणं विवक्षितम्। तत्र एकादशे श्लोके `दीयन्तामिह दक्षिणापथभुवो यावत् कलेरत्ययः’इति स्वल्पेनैवांशेनय विवेके स्वतृप्तिं दर्शयत्यपि तावदपि नानुमतं महामोहेनेति तत्रैव स्पष्टम्।
60. प्रतिपन्नाभेवेति। ज्ञातवतीमेवेत्यर्थः। कर्तरि क्तः। एवं प्रयोगः प्राच्यग्रन्थेषु शांकरभाष्यादिष्वतिप्रसिद्ध।
64. अपराजितामिति। श्रीवैकुण्ठनागर्याः अपराजितेति नाम। “अपराजिता पूः” इति छान्दोग्ये दहरविद्यायाम्। “याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्खता"इति चाभियुक्ताः।
146. अन्ते द्रष्टव्यम्।
157. टीकाप्रथमपंक्तौ अन्यशब्द इति अशुद्धम्। अन्तशब्द इति पाठ्यम्।
170. विरक्तीति। विरक्तिः वैराग्यम्। तत्कर्तृकपरिरम्भणेन तदाश्लेषेण ग्लपिताः सर्वाः दुर्वासाः यस्य सः। निवृत्तिपथजाङ्घिकः। प्रवृत्तिमार्ग इति मार्गद्वयं प्रसिद्धम्। काम्यकर्मानुष्ठानं प्रवृत्तिमार्गः। निष्कामकर्मानुष्ठानं नवृत्तिमार्गः। “प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्। निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्”। अतो निवृत्तिः निर्व्यापारतेति न मन्तव्यम्। मुमुक्षुकर्तव्यकर्मकलापरूपे निवृत्तिपथे जाङ्घिकः अतिविगेन गच्छन्। सर्वं सम्यगनुतिष्ठन् इत्यर्थः। तेन निभृता निश्चला आत्मैकप्रवणा चित्तवृत्तिर्यस्य सः। एवं भूत्वा संसिध्यति।
180. विशृंखलकलिन्दजाजलतरङ्गभङ्गावलीमलीमसम्- विशृंखलायाः प्रतिबन्धकरहितायाः वेगेन प्रवहन्त्याः कालिन्द्याः– यमुनायाः जलस्य तरङ्गाः वीचयः तेषां भङ्गाः शकलाः तरङ्गोपरितरङ्गपातजनिताः खण्डभूता वीचयः तदावली तत्परम्परा। तद्वत् मलीमसम् मलिनं नीलम्।
245. 5-35. भवतीमिति। संनिवेशः तत्तदवयवसंस्थानम्। भावः स्वाभिविकी संनिहितमनुष्येषु रागद्वेषादिरूपा चित्तवृत्तिः वीक्षितं दर्शनप्रकारः। चेष्टितं हस्तचेष्टादि। इदं सर्वं स्वपत्न्याः यथाऽनुभूतम्, तथा पश्यत्ययं दर्प एतस्यां तत्पत्न्याम्। तस्मादाहानुभूतचरीमिति। मया भुक्तपूर्वामिति वास्तवार्थः। आपातार्थस्तु दृष्टपूर्वामिति। तर्हि यथाग्रहणमेव निर्धार्यतामित्यत्राह वेषस्त्विति। तापसवेषो व्यक्त्यन्तरभ्रमं जनयन् निर्धारणप्रतिबन्धक इत्यर्थः।
252. 5-42. परेति। अनवरतमनुभूतायाः कुहनायाः यत् परेषां धन महमपहर्तुमेव व्याप्रियमाणचित्तत्वमनार्जवञ्च प्रागनुभूतम्, तत् तथैव लक्ष्यत इति इयमाश्रमस्वामिपत्नी कुहनैव। तथाऽयमपि डम्भ एव, तदीयस्य पशुवधपरिशेषनामयज्ञत्वस्योपसलम्भात्। यस्य यज्ञस्य अयथावदनुष्ठानात् शास्त्रचोदितफलहेत्वं नास्ति, विशस्यमानस्य च पशोरजादेर्देवलोकप्रापकत्वमपि नास्ति। तस्य पशुवधरूपपापहेतुत्वमेव प्रत्युत। यज्ञः कृत इति ख्यातिमात्रं फलं तदुद्दिष्टं भवेत्। तथायज्ञानुष्ठायिनो डाम्भिका एव हि।
257. 5-77. हृदये क्रोशति आक्रोशवति देहातिरिक्तात्मसद्
भावमाक्षिपति सति `असुराणां ह्येषोपनिषत्’ इत्युपनिषद्रहस्यरूपं यत् स्वमतमानुभविकं देहात्मग्रहणरूपम्, तद्विपरीतार्थनटनं क्रियते अनार्जवात् सर्वैरप्यास्तिकम्मन्यैः। वयं तु गुरुवशा उपनिदधीनमतयश्चेति।
259. 5-50. वरतनुः युवतिः। साक्षात् वरतनुदर्शनं वा भिक्तौ शिल्पिहस्तसंपाद्यवरतनुचित्रं वा नापेक्षितम्। तत्तन्मनसि वासनात्मना निरूपढं रूपमेव समार्धिं शिथिलयति। केषाम् ? तपसि रतानामपि, आगमनिष्णातानामपि, समाधिपूर्वांगभूतयमादिसंपन्नानामपि।
290. 6-25. नवेति। नवे यौवने कामचारो नारीणां दुर्भदान्धत्वात्। तदेव यौवनमपत्यहेतुरपि। स्वतो जात्यन्तरसंगमादपत्योत्पत्त्या जातिभ्रंशः। एवमपि सर्वाऽपि नारी एवम्भूतेति न। पारम्पर्येण पतिव्रताविशिष्टस्य कुलस्यापि दर्शनादित्यर्थः।
344. पं.12. आस्माक इति। उपयुक्तपारायणे द्रष्टव्यः।
433. 8-69. जिघांसेति। जिघांसा हन्तुमिच्छा जाया यस्य क्रोधस्य स जिघांसाजानिः। प्रबोधचन्द्रोदये क्रोधस्य जाया हिंसेत्युक्तम्। तदत्र निष्टम्। किंतु जिघांसाया एव जायात्वमिति।
146. 2-97. वादाहवमहारथः इति। असंख्येयवादिसंधेऽप्येक एव सन् सर्वान् जेतुं समर्थ इति अस्यात्र महारथत्वम्। भारते उद्योगपर्वणि 165 अध्याये भीष्मेण रथातिरथमहारथानां स्वसैन्यगतानां मध्ये केषाञ्चित् प्राधान्येन निर्देशः कृतः। रथे स्थिता योद्वारो रथाः, तदपेक्षया अतिरथः श्रेयान्। उपरि (167) “हन्यादेकरथैनैव देवगन्धर्वमानुषान्। एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान्। पौरवो राजशार्दूल तव राजन् महारथः"इति भीष्मवाक्ये असंख्येयान् रिपून् एको य आक्रमते स महारथ इति ज्ञायते। लोके महारथलक्षणमेवमाहुः “आत्मानं सारथिञ्चाश्वान् रक्षन् युध्येत यो नरः। स महारथसंज्ञः स्यात् इत्याहुर्नीतिकोविदाः"इति। अत्रेदं वक्तव्यम्, यो हि सारथिमश्वांश्च तुल्यं रक्षितु मसमर्थः, तस्य युद्धे रथमारोढुमेव नाधिकारः। ईदृशस्वल्पसामर्थ्यमात्रेण महारथत्वं न शोभते। एवं हि सति एतदपेक्षया निकृष्टयोः रथातिरथयोः कियान् पराक्रमः। अतोऽत्रोदाहृते श्लोके, `स महान् रथसंज्ञः स्यात्’ इति पाठो युक्तः। महत्त्वञ्च तस्य चतुरङ्गसैन्ये अश्वगजारोहियोधापेक्षया। रथाश्वसारथिरपूर्वस्वरक्षणसमर्थः रथनामा। अधिकैः रथिभिः सह योद्धा अतिरथः। एवञ्च महारथलक्षणम्, “एको दशसहस्राणि योधयेत् यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः” इत्युचज्यमानं युज्यतेतराम्। अतः आत्मानं सारथिमिति पूर्वोक्तश्लोकोदाहरणं व्याख्यातृदर्शितं प्रसिद्धपाठानुरोधेन। तन्नूनं रथसंज्ञकपुरुषलक्षणमेव भवितुमर्हति।
रहस्यत्रयसारश्लोकाः केचिदत्रत्याः एतद्ग्रन्थापेक्षया तद्ग्रन्थ एव सम्यभङ्निवेशार्हा लक्ष्यन्ते। अतो ग्रन्थस्यास्य यौवने कृतत्वेऽपि तस्य च बहुकालानन्तरभावित्वेऽपि तत्रत्या एव श्लोकाः पश्चादत्र निवेशिताः स्युः। एवं बहुग्रन्थश्लोकघटनादयं ग्रन्थो विस्तृतः पश्चादिति कश्चिदभ्यूहः॥
एवं यथाशक्ति विमृश्य युक्तं जिघृक्षतां सर्वविनिर्णयोऽत्र।
नाल्पेन कालेन भवेदितीह विरम्भते तत् सुधियो यतन्ताम्॥
***************************************************************
.
अनिष्टनिवृत्तिः प्रागुक्ता अथेष्टप्राप्तिमाह लक्ष्ये इति। स्वस्येष्टमर्थितं प्राक्। परेभ्यः (सामाजिकेभ्योपि) इष्टमर्थयते। यद्यपि मुण्डकोपनिषदि, `प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्’ इति श्रवणात् अक्षरविद्यारूपभक्तियोगाङ्गत्वमेव प्रणवस्य ज्ञायते, अथापि तैतिरियान्ते, ओमित्यात्मानं युञ्जीतेति न्यासप्रकरणे विहिततया न्यासविद्याङ्गत्वमप्युक्तमिति तद्ग्रहणमिह। प्रागेव भक्तियोगस्योक्तत्वात्। यस्मिन् पद्माकान्तरूपे लक्ष्ये प्रत्यक् जीवात्मरूपो बाणः प्रयुक्तः समर्पितः प्रेरितः प्रकर्षेण महाविश्वासेन युञ्जीतेति विधिमनुसृत्य योजितश्च न लक्ष्यं त्यजति। मध्येवक्षः भगवद्वक्षसो मध्ये स्फुरति। बाणस्य वक्ष एवोद्दिश्य प्रयोगो भवति; न तथाऽत्र। अथापि वक्षस्संबन्धोऽस्यपि स्थितप्राय इत्याशयेन, वक्षसि प्रयुक्त इति नोक्तम्। मन्त्रप्रयोक्तुर्बाणप्रयोक्तुश्च साम्यं पदद्वयेन श्लेषमूलं दर्शितं श्रुतिती। बाणप्रयोक्तृपक्षे क्षोत्रपर्यन्तज्याकर्षणेन सावधानत्वं बलरूपसत्त्ववत्त्वञ्च। प्रकृतपक्षे वेदवेदितभगवद्गुणाकृष्टया भवत्परत्वं सत्त्वगुणवत्त्वञ्चेत्यर्थभेदो भाव्यः। बाणस्य पत्रमस्ति। अत्र महः ज्ञानम्। तदेव विस्तृतत्वात् पत्रम्। कौस्तुभस्य सर्वजीवाभिमानित्वात् अस्य जीवस्य कौस्तुभात्मता। श्रियै– मोक्षानुभवकैभङ्कर्यसमृद्धये; सामाजिकानां रसानुभवसमृद्धये च। अकिञ्चने स्वयं भरस्वीकारेण फलप्रदानं दयाधिक्यनिबन्धनमिति ज्ञापयितुं दयादुग्धसिन्धुरित्युक्तम्। दुग्धसिन्धुः क्षीरसागरः। आत्मसमर्पणस्य भक्तप्रपन्नोभयसाधारण्यं भाव्यम्।
नान्द्यन्ते। नान्दी रङ्गविघ्नशान्तये क्रियमाणा पूजा। तत्र पद्यस्य वाचिकस्य प्राधान्यम्। सामाजिकानामानन्दनाय नाट्यारम्भात् नन्दत्वेन रूपेण पूज्यदेवता भाव्यते। स नन्दः, `आनन्दो नन्दनो नन्दः’ इत्युक्तः, इह रङ्गचन्द्र एव भवितुमर्हति। देवतान्तरपरैरुच्यमानं त्वन्यत्। पूजायाः पद्यप्रतिपाद्यविषयकत्वं हि तत्र तत्र युक्तम्। अभिनेयं दृश्यं तस्य कर्तारं प्रतिपाद्यमन्यञ्च प्रस्तौतीति प्रस्तावना। दृष्ट्वा सर्वे लोकाः प्रियहितं भजन्त्विति प्रवृत्तैर्महद्भिर्नटसंघनेतारं प्रति आदिष्टं विज्ञापयति आदिष्ट इति। मोक्षोपयोगिनाटकाभिनये प्रेरणं यैरधिकारिभिः स्यात्, तान् निर्दिशन् श्रीहरेरेव प्रणामः सूच्यते। सप्ततन्तुः यागः। सपत्नीकस्यैव दीक्षाधिकारादाह सरसीति। लक्ष्मीपतेरित्यर्थः। वलाहकः मेघः। सत्यव्रतं काञ्ची। पुरुषोत्तमः जगन्नाथस्थानम्। दिव्येति देशविशेषणम्। दिव्यसूरिगाथारहितदेशस्यापि दिव्यत्वमिष्टम्। अभिव्यक्तीत्यर्चापरम्। हेवाकः आस्था। नाटकस्य श्रीरफङ्ग एव करणात् रंगस्य रंगत्वौचित्याच्च तत्रैवाभिनयं दर्शयितुं मरुद्वृधेति। मरुद्वृधा कावेरी। अन्तरीपं द्वीपं श्रीरङ्गमेव। उभयतः प्रवाहात्। शेषाशनः भगवद्भुक्तशिष्टैकभोजी विष्वक्सेनः। निर्विशेषैः तुल्यैः। अभिजनः सद्वंशजन्म। समुचितः देशकालानुगुणः। महावर्तः महाजलभ्रमिः। रम्भा कदली। नाटके तद्विवेचनादेवमुक्तम्। शिखण्डकैः शिरोभूषणैः।
आदेष्टार उक्ताः; आदिष्टमाह यदिति। ललिते आपातरमणीये त्रिवर्गे येषां मनः-तत् स्वयमपि ललितं कायक्लेशेन्द्रियनिरोध
प्रथमोऽङ्कः
आदेष्टारः उक्ताः आदिष्टमाह यदिति। ललिते आपातरमणीये त्रिवर्गे येषां मनः- तत् स्वयमपि ललितं कायक्लेशोन्द्रियनिरोधाद्यसहम्। तादृग्जनप्रीत्युपयोगितया वीरश्रृंगारादिपरिणामं शान्तिरस एव लभते। तस्यैकस्यैव शाश्वतत्वात्। सोऽयं नवमत्वेन गणितोऽप्यनवमः आदित्वात्, अवद्येन रहितत्वाच्च। स स्वस्वरूपेण स्थितो यत्र नाटके, तेनाऽऽस्वादम् उपचिनु-पोषय। संसारमार्गे धावतामार्तिच्छेदकं तत् स्यात्। तत्र पात्राणि शुभाशुभमनुष्यगुणा एव। नटाः नृगुणीभूय तन्नामकाः नटन्त्विति।
ननु शान्तिरस एव शृंगारादिरसरूपेण परिणमतीति कथमिति चेत्- `एको रसः करुण एव निमित्तभेदात्’इति भवभूत्युक्तं कथम्। रसो वै सः इत्युच्यमानस्य ब्रह्मण एकस्यैव रसत्वात्, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीत्युक्त्या सर्वस्याप्यानन्दस्य तदेकदेशत्वमिति चेत्- तदेतत् शान्तिरसपक्षेऽपि तुल्यम्। अथवा किमनेनाद्वैतवासनावासितान्तःकरणकल्पितेन सर्वक्षोभेण। शान्तस्वात्मरूपेण स्थितिरेव जीवात्मनां प्रकृतिः। अन्यत् सर्वं विकृतिरिति श्रृङ्गारादेस्तद्भूमिकात्वम्। सत्यकामत्वसत्यसंकल्पत्वरूपाविर्भावमूलानुभाव्यपूर्णब्रह्मविभूत्येकदेशे विपरीतबुद्धिकल्पितोऽनुभवाभासः श्रृगारादिरिति विवेचनेऽपि तेषां शान्तिरसभूमिकात्वं सुगमम्।
आदिष्टानुष्ठाने सामर्थ्यसत्त्वात् आदेशः स्वीकृत इत्याह प्रतीति। तत्तन्नामधेयमेव तत्तत्प्रभावं दर्शयति। मन्मर्गवर्धनः, संतोषपालकः, वैकुण्ठविनोदीति तत्तन्नाम। शैलूषाः नाट्यकाराः। क्षणः निर्व्यापारता, व्यापारान्तरत्यागः। दिदृक्षा तेषां निर्व्यापारतां दत्तवती। क्षणः अवधानमिति वा॥ 3 ॥
सामाजिकवैचक्षण्यमुपपादयति अवधारितेति। नाट्यम्-अङ्ग-वाक्-अलंकारकृताभिनयसमाहारः, देशी तालाद्यनुसारी भावरहितोऽभिनयः, मार्गः भावप्रदर्शी। असमीचीने शास्त्रविरुद्धे अभिनये पराङ्मुखाः दिदृक्षारहिताः, उपेक्षकाः। आगमदैवतैरिव-आगमार्थाधिष्ठातृदेवतातुल्येः॥ 4 ॥
अभिनयस्य विद्यापूर्वकत्वात् विद्यादेवतामादौ प्रणमति, अथ नाट्यदेवताम्। विद्यास्थानानि अष्टादश वेदादीनि। चतुष्षष्टिकलाविद्यानामपि ग्रहणमिष्टम्। उपलम्भनीं प्रापिकाम्। अभूतपूर्वत्वं परमपदे अनादितयास्थित्यभावात्। अनवबोधः अज्ञानम्। कुक्षिम्भरीं भक्षिकाम्, निवर्तिकाम्। आदिमां नारायणस्यैवादिमत्वत्। दक्षिणमूर्तिः सरस्वती च पारम्यरहिता जीवत्वात्। हयग्रीवस्त्ववतारमूर्तित्वात् आदिमः विभवमूर्तिष्वादिमश्च। प्राचीति। वासुदेवस्य मूर्तिरादित्यमण्डलेपि काचिदस्ति। सा बाह्यनिशाप्राच्यसंध्या स्यात्। हयग्रीवमूर्तिः अन्तःकरणगताज्ञानरूपनिशायः निवर्तिका प्राची पूर्वासंध्या। परा हि संध्या निशां जनयति। काचित् सर्वकालस्थिता आरुण्यरहिता सिता। प्रज्ञारूपायाः दृष्टेः नेत्रस्य। अञ्जनेति। उक्तं हि, सिद्धाञ्जनेन भवतैव विभूषिताक्षाः। पश्यन्त्युपर्युपरीत्यादि। अपूर्वा। अः परवासुदेवोऽस्याः पूर्वः। स नीलः। तत इयं शुभ्रा। लोकेऽपि नानाकारमञ्जनं भवति। तद्विलक्षणा च। प्रतीक्षणलेपेऽप्यपचयरहिता च। वेदान् वक्त्री-चतुर्मुखायोपदेष्ट्री। तृन्नन्तत्वात् द्वितीयोपपत्तिः। वाजी हयसामान्यम्। तस्य वक्त्रमिव वक्त्रं मुखं यस्याः सा।
नाट्यं यथावन्निर्वर्तयितुं नाट्यदेवतां प्रार्थयते। यस्य नावनीतनाट्यं कालियफणनाट्यञ्च प्रसिद्धम्। तस्यावतारनाट्यानि अनन्तानीति स एव तद्देवता। स च प्रकृते रङ्गगतानां रङ्गनाथ एवेति। दशधेत्युपलक्षणम्। श्रीरङ्गे दशावतारसंनिधिसत्त्वात्तावन्मात्रोक्तिः। रंगे-श्रीरंगे नाट्यस्थाने च। रसः आनन्दः। भावुकाः भक्ताः नाट्यप्रेक्षकाश्च। अस्य नटस्य सर्वत्र नाट्ये नटीसाहित्यादपि अस्मत्कार्यानुकूल्यमधिकमिति भावेनाह यदिति। भावेषु अवतारेषु। पृथग्विधेषु व्यूहव्यूहान्तरविभवादिरूपेषु, देवमनुष्यादिसमानरूपेषु अंशावतारावेशावतारादिरूपेषु च। भावान्- अवतारान्। धर्मैः शरणागतरक्षणहितोपद्रेशादिभिः। नटपक्षे भावो वेषः चित्तवृत्तिश्च, धर्मः-अभिनयः। नानाकतिरिति पदं न पुनरुक्तम्, पृथग्विधभावभरणं प्रागुक्तं युक्तम् उपायत्वाद्याकारवत् पुरुषकारत्वाकारस्यापि सत्त्वात् क्षीरङ्गे मूर्तित्रयसद्भावाच्चेति बोधनार्थत्वात्। स्तनबाहुदृष्टिकल्पभूमिनीलादिग्रहणार्थत्वाच्च। नायिका रङ्गनायिका।
7. अधिजिगमिषितमुक्तघण्टापथैरादिष्टत्वात् विशिष्टाद्वैतमतगौरवं विशदीकार्यमित्याशयेनाह श्रुतीति। श्रुतिर्वेदः तत्किरीट ईश्वरो वेदान्तो वेत्याहुः। वस्तुतःश्रुतिर्वेदः। तच्छिरो वेदान्तः। तत्र किरीटं शारीरकादि। तत्र विहारं प्राप्तयेत्यर्थः। उपध्नयन् राजानमाश्रयं कलयन्। अपश्चिमयामि- अपश्चिमं करिष्यमि, सर्वप्रथमतया दर्शयिष्यामि। निर्गुणब्रह्मवादिनः सगुमब्रह्मतं निकृष्टं मन्यन्ते। तदभितस्य शशविषाणायमानत्वादिदमेव सर्वोत्कृष्टमिति भावः।
नेपथ्येति। यवनिकान्तरितं पात्राणां वेषपरिग्रहस्थानं नेपथ्यम्। गौरवपुरस्कारेण नटीमह्वयति। क्रियमाणमाज्ञापनं यस्येष्टम्, येन प्रतीक्ष्यमाणम्, स प्रियप्रेषणः। अपिनामेति (स्वाभिमतविषये) किमिति प्रश्नः। कुशीलवाः नटाः। परिपुच्छम्मि इति। शान्तिरसप्रधानं नाटकमिति विदितम्। प्रबोधचन्द्रोदयादयस्तु न पूर्वोक्तभावुकजनेष्टाः। अतः पृच्छामीत्यर्थः। किं न जानासीति। एवं विशिष्य निर्दिश्यैव भूमिकापरिग्रहे कुशीलवाः नियुक्ताः। तत् कथं न जानासीति भावः।
8. विवेकमोहादीनाममूर्तत्वात् गुणानां को वेषः, कथञ्च तदभुनय इति न शंकनीयमित्याशयेनाह भावमिति। अस्मत्कुशीलवा अपि परावरज्ञत्वात् भावम् अभिनयं अभिप्रायञ्च जानन्ति। अत्र संविधानं संघटनं सर्वं प्रगुणम् ऋजु श्रेष्ठं, नूतनम् अन्यकव्यनाघ्रातम्। तनुभृतः देहिनो जीवस्य ये गुणाः सदसद्रूपाः विवेकमोहादयः स्वरूपतोऽपात्रभूता अपि तत्तदभिमानिदेवतानां वेषवागादिसत्त्वात् तन्मुखेन पात्रीक्रियन्त इति। अत्र पूर्वार्धस्य, अस्य नाटकस्य परं भावं अवतीर्णस्य परमपुरुषस्य परं भावमिवाजानन्तोऽवजानन्तु, परावरज्ञास्तु विदन्तीत्यप्यर्थः।
9. तर्हि सामाजिकाः पञ्चषा एव भवेयुरित्यत्राह अपिचेति। वीररसोक्तिः शृंगारस्याप्युपलक्षणम्, रतिमदनादिपात्रप्रदर्शनात्। अप्रधानांशं प्रधानीकृत्य क्षुद्रा अपि कामं तृप्यन्तु। तद्रसप्रदर्शनस्याप्यत्रातिविचित्रत्वादिति भावः। वीरत्रैविध्यमिष्टं रणवीरो दयावीरो दानवीरश्चेति। दयावीरस्य विभवः दानवीरत्वमपि। ददामि बुद्धियोगम्, तेषामेवानुकम्पार्थमिति दयाधीनत्वात् दानस्य। विवेकस्य प्रागल्भ्येन प्रौढत्वाविष्कारिगुणेन वर्णितेन रणवीरस्य व्यतिकरः संबन्धः स्फुरितः यत्र, यत्र प्रबुद्धेन संपन्नज्ञानेन क्षेत्रज्ञेन घटिता शान्तस्य शान्तिरसस्य आकृतिः। वीरशब्दवत् शान्तशब्दो भावप्रधानः ॥ अमुष्य नाटकस्य। अकूपारे-समुद्रे। ते शंखाः पाञ्चजन्यः किम् पाञ्चजन्येन एकीभूताः समा वा किम् ।
10. उदाहरणान्तरं किञ्चेति। वञ्चयन्ति भ्रान्तान् कुर्वन्ति। महः- मणिकिरण एव कञ्चुकं तद्गतदोषावरणम् येषां मणीनाम्। महद्गृहेषु महतां गृहेषु। नव्यमणयः सन्तु अस्थिरकान्तयः। प्राचीनेष्वपि मणिषु कौस्तुभादपि प्राचीनस्य मणेः सत्त्वेपि न कौस्तुभसाभ्यं तत्रापि कथ्येत। अत एव तस्यैव श्रीवत्सस्य श्रियः स्थानस्य पुरतः तद्दीपवत् कल्पनम्। श्रीनिवासोरसि सूक्ष्मरूपयाः श्रियोऽस्माभिर्दर्शनं नूनमेतत्संनिधानात्। तथा पद्मोल्लासपोषकतद्दर्पणतया स्थापनञ्च। तद्वदिहं नाटकं भगवतो हृद्यं लक्ष्मीविलासदर्पणभूतश्च, न तु तन्नैर्गुण्यनिर्विभवत्वादिपरमन्यत् कथमपि ग्राह्यमिति भावः।
11. बहुरससमाहारत्वात् विषयतः, पाञ्चजन्यवत् कौस्तुभवच्च लक्ष्मीकान्तप्रियत्वाच्च श्लाघ्यत्वमुक्तम्। कर्तृगौरवादपि श्लाघ्य्तवं सूत्रधारः प्रस्तौति इतश्चेति। अपदिश्य किमपीति। पार्थव्याजेन परमात्माना गीतौपदेशवदेतत्। श्रव्यतत् दृश्यमपि काव्यं निर्मातव्यमिति मनीषायामन्यादृशमपि सुकरम्। प्रबोधचन्द्रोदयो निराकार्य इति चेत्, तं ग्रन्थमेवानूद्यासामञ्जस्यं सुवचम्। अतः ईदृशं किमपि प्रवृत्तिमुख्यकारणमिव स्फुरितमपि न मुख्यम्। लोकान् प्रति हिताहितविभजनं कार्यमित्येव मुख्यम्॥ निगमान्तेषु गौरवं गुरुत्वं वेदान्ताचार्यत्वं निरूढं यस्य तेन वेदान्ताचार्यबिरुदशालिना। एवं बाह्यादिशास्त्राण्युपेक्ष्य निगमान्तेष्वेव हिताहितविभाजकत्वरूपं गौरवमस्तीति निश्चितवतेत्यप्यर्थः।
पुण्डरीकस्येति। विद्याकर्तृकविहारमुख्यस्थानस्येत्यर्थः। पुण्डरीकं परं धाम। सोमसुत् सोमलतारसाभिषवकृत्। सोमयाजीति यावत्। शेवधेः निधेः । पदशब्दो नामपरः स्थानपरश्च। नेदं वेदान्ताचार्यत्वं संग्रहेण परमार्थसारोपदेषमात्रात्, किं तु तत्तदधिकार्यनुगुणग्रन्थनिर्मणात् सर्वपरमतनिरसनाच्च पुष्कलमिति दर्शयितुं कवीत्यादि। तत् दिव्याज्ञामूलम्, इदं तु सर्वमतविद्वज्जनघुष्टमित्याह प्रख्यातेति। गुणसमाख्या- गुणपौष्कल्यवाचिनी संज्ञा। संकटेति। न्यायमीमांसादितन्त्रेष्वर्वाचीनैरन्यथाऽन्यथा क्षोभितेषु तत्र तत्र महर्ष्यादिप्राचीनाशयप्रकाशनेन तत्तन्निष्ठान् जनान् यथावत् परिष्कृत्योज्जीवनविधानात् सर्वजनहितप्रवृत्ततया विशाला मतिरस्येत्यर्थः।
12. गौडमाला अतिकठिन-समासभूयिष्ठशब्दसंदर्भः। वैदर्भमाला ईषत्कठिनसंदर्भः, पाञ्चालमाला कोमलसंदर्भः। संदर्भस्य मालात्वेन रूपणात् तद्गुणस्य सौरभत्वोक्तिः।
13. कविरयं स्रष्टा वाग्मीत्युक्तम्, एतदन्वयस्याप्यपूर्वस्रष्टृत्वादिकमहा अन्येति। त्रिशंकुरक्षणप्रवृत्तेन विश्वामित्रेण देवेन्द्रे प्रतिकूले उक्तम् अन्यमिन्द्रं करिष्यामीति प्रथमम्। अथ मा भूत् ब्रह्मनियमितस्य बहिष्करणमिति कृपया, लोकोवास्यादनिन्दर्क इति अनिन्द्रकलोकान्तरसृष्टिरुद्दिष्टा। एवमुद्युक्तोऽपि देवप्रार्थनापारवश्यात् न ससर्ज, नव्यसप्तिर्षि नक्षत्रमालासृष्टिमात्रेणोपररामेत्याशयेन कर्तुंक्षमे इत्युक्तम्। तदेव हि सृष्टमद्यापि त्रिशंकुस्थानं भवति। यतः सावित्रीतः। सावित्रीगायत्र्युपदेशग्रहणमेव द्विजानां द्वितीयं जन्म। देवी विश्वजननीति ऋगेवप्रशस्यते, न तु देवता। यदनन्यगोत्रा यस्य कवेः सावित्र्याश्च जन्म एकस्मिन् गोत्रे। विष्वामित्रदृष्टत्वदस्याः।
14. कवेर्ज्ञानशक्त्यादिकमुक्तम्। अवताररूपत्वमप्याजन्मप्रसिद्धमस्यापरोऽतिशय इत्याह अपिचेति। वित्रासिनी विद्राविणी। `आवाहनार्थं देवानां त्रासनार्थं सुरद्विषाम्। धण्टां निनादयेत्’इति स्मृतिस्मारकं वित्रासिनीति पदम्। पारमेश्वरसंहितादौ घण्टामाहत्म्यं विस्तरेण द्रष्टव्यम्। विबुधाः प्रतिबुद्धाः ज्ञानिनः, देवाश्च। तद्वैरिणः बाह्यकुदृष्टयः असुरादयश्च। वरूथिनी-स्पर्धाप्रवृत्तः संघः, सेना च। पद्मासनः पद्मा यस्मिन् आस्ते स श्रीनिवासः ब्रह्मा च। परिचारः दिग्विजयार्थं परितः संचारः, पूजा च। प्रयुक्ता प्रेरिता प्रकर्षेण युक्ता च, श्रीनिवासाविष्टेति यावत्। घण्टापक्षे समर्पितेत्यर्थः। उत्प्रेक्ष्यते उत्कृष्टतयाऽनुमीयते। उन्नीयत इत्यनुक्त्वा उत्प्रेक्ष्यत इत्युक्तिः स्वयं स्वमहिमगोपनाय। वस्तुतो वेंकटेशावतारत्वे स्वयमनुभूयमाने, तददर्शिजनकृतमुत्प्रेक्षणमिति व्यञ्जनाय च। उपपत्तीनां साधकजुक्तीनां भॄम्ना बहुत्वेन। श्रीनिवासेनानन्तसूर्योह्वानम्, स्वप्नवृत्तम्,मन्दिरे घण्टाया अभावः आविष्टभगवद्वचनमित्यादि ग्राह्यम्। श्लोकत्रयगतानां यच्छब्दानां श्रीमद्वेंकटनाथो नामेति पूर्वेण संबन्धः। वेंकटनाथरूपत्वमेव तत्त्वम्। अन्योऽप्यन्वयः- वित्रासित्वविधिप्रयुक्तत्वविशिष्टा घण्टा प्रतिवादिवित्रासनाय श्रीनिवासेन प्रकर्षेण युक्ता यदात्मना समजनिष्ट, सः बुधजनैरुपपतिभूम्ना उत्- उत्कृष्टतया, उत् “स एष सर्वेभ्यः पाप्मभ्य उदितः"इति उन्नामकत्वेन प्रसिद्धपरमपुरुषतया प्रेक्ष्यते। तत् साक्षात् वेंकटेशावतार इति। एतदर्थमेवानन्तरश्लोकेऽपि श्रीमद्वेंकटनाथ इत्यस्याऽऽवर्तनम्।
सत्संप्रदायानुसारि-सदसद्विवेकोपयोगि-विलक्षणैतन्नाटकनिर्माणौपयिकसर्वसंपत्तिं निर्माणसमयञ्च निर्दिशति स चेति।
15. विंशतिरब्दा एव यस्मिन् काले अखण्डे निविष्टाः स विंशत्यब्दः तस्मिन्। विंशतिसंख्याकाब्दसमाहार इति वा। विशेषेण-तत्तत्साध्वसाधुविमर्शपुरस्सरं श्रुताः सर्वाः विद्या अवान्तरनानाभेदैः सह येन, यश्च श्रीभाष्यं शिष्येभ्यस्त्रिंशद्वरं प्रोवाच, स तावद्वारप्रवचनावसाने एतत् नाटकं व्यधित। तस्मादिदं श्रेयः मुख्यमोक्षोपायभूतम्। श्रुतिपथ्यम् अवश्यश्रोतव्यम् वेदमार्गादनपेतञ्च अर्थ्यं परमार्थात् प्रतिपाद्यत् प्रयोजनाच्चानपेतम्। अष्टाविंशे प्रवचने तत्त्वटीकानिर्माणम्, त्रिंशप्रवचनावसाने एतन्निर्माणम्। नूनमुपपञ्चाशे वयसि स्यात्।
कथमिति। एवं तर्हि अस्य वेदान्तविस्तरैकसंलग्नमनस्कत्वात् एतद्वाक् द्रुमषण्डखण्डकवज्रकठोरतर्ककठिना स्यात्। कथं तद्रूपकमेवमभिनयार्हम्। रूपकमिति दृश्यकाव्यसामान्यनाम।
उभयम् वेदान्तलग्नस्य कथं लौकिकबह्वर्थगर्भकवनकौशलमित्येकम्। तस्याभिनयदर्शनौपयिकं कोमलत्वं कथमिति द्वितीयम्। अत्र तावदादौ- प्रश्नद्वयमध्ये प्रथमं प्रथमप्रश्नविषये एवमित्यर्थः। अन्यत् द्वितीयं पृष्टम्। अयं भावः- प्रश्नममयुक्तम्, अस्य योगैकनिष्णातत्व-बाह्यदर्शित्वाद्यभावात्, तेन्निष्णातत्वेऽपि मनुव्यासादिषु तादृशात् भगवत्संकल्पात् तादृशपुरुषयादृच्छिककारुण्यवशात् अद्भुतरसमयश्रीसूक्त्युदयाच्च। अनेन प्राचेतसादेरिव विशिष्य महत्प्रेरणमप्यस्तीति ज्ञाप्यते। द्वितीयमप्ययुक्तम्। गङ्गाप्रवाहस्येव क्वचित् भीषणत्वस्य अन्यत्र सुखावगाहत्वस्य च संभावदिति। परिषदर्हा तदन्यदुर्लभेत्यर्थः। अथवा वेदान्तसन्दिमानसतादृशमुनिजनेष्विव संभवार्हेत्यर्थः। अन्विच्छति लभते, अनुस्यूतं वाञ्ठति च। विन्ध्याचलवत् विकटा विशाला नटस्य रुद्रस्य जटा। तस्यां परिभ्रान्ता ततो निष्क्रान्ता च।
17. गिरिखण्डनादौ-पर्वतभेदन्-भूम्युत्खनन-वृक्षभञ्जनाद्यवसरे। चूडापदं शिरः घूर्णयन्ती भ्रामयन्ती।
अवज्ञा तिरस्कारः। अवहित्था आकारगोपनम्। पारदर्शित्वेन न संभावयामि। 18. उल्लासं प्रदर्शनम्। कलिकलुषजनदृश्यनाटकमात्रार्थं शास्त्रप्रणेता भरतमुनिरिति ब्रूयादिति भावः।
19. शान्तिरसस्यैवाऽऽदरणीयरसत्वादपि तन्न युक्तमित्याह अपिचेति। असभ्यानां सभानर्हाणां कार्याणां गमनिकायामेव तिष्ठति शृंगारैकनिष्णातता। वीरायितं वीरवदाचरणं दयावीरदानवीरविलक्षणरणवीरचेष्टितं परस्परवैरस्यकरं द्वेषक्रोधवृद्धिकरं कथं सज्जनखाद्यम्। अद्भुतरसः परिचितविपरीतार्थदर्शी। हास्यभयानकादयः क्वाचित्काः भूरिजनादराविषयाः। शमस्तु सर्वपुरुषापेक्षितः स्थायी स्वाभाविकः रागद्वेषादेरनवसरात् दुःखदूरश्चेति।
शान्तेः रसत्वमेव नेति वादः क्षिप्तः। अथ स इष्यते मुनिमान्यतया, न नाटकान्वयस्तस्येत्यह अय्येति। शान्तिर्नाम निर्व्यापारतेति न मन्तव्यम्, कर्मत्यागिनामुपन्यासः सः निवृत्तिधमों विशिष्टकर्मसमुदाय एवेति प्रतिवक्ति। अलेपकाः नित्यनिर्लेप आत्मेति वादिनः। सात्त्विकत्यागः फलममताकर्तृत्वत्यागेन भगवत्यर्पणम्। आजीवः- आर्जनं देहयात्रा आत्मयात्रा च।
20. शास्त्रं विधायकमनुष्ठेधर्मशास्त्रादि। विद्या तत्त्वप्रतिपादकग्रन्थः। शिल्पं प्रतिमादि निर्माणबोधकम्। कलाः अविहिताद्भुतकार्यणि। योगः ध्यानम्। ज्ञानं सर्वविषयकम्। अलेपकीयमपि सर्वं नाटकान्वयीति भावः।
अथ, अन्यकुशीलवानभिनेयमप्यस्माभिरभिनेतुं शक्यत इति भवदाशयः। अतिसुकरांशाभिनयेऽपि दूषणपराः परे इति कथमीदृशस्य सम्यङ्निर्वर्तनमिति मदाशय इत्याह नटी।
नाटकाभासग्रहणे अभिनयोपयोगितया परिष्करणपरिश्रमी नटानाम्। अत्र तु नाटके सर्वं रमणीयमित्याह आर्ये इति । 21. शैलूषाः वेषधराः नटाः। 22. सिद्धारम्भः फलवत्प्रयत्रः, सिद्धं निष्पन्नमारब्धततत्कार्यं यस्य, आरब्धनिष्पादकः। रङ्गम् रङ्गविमानम्, तदन्वितपुरमिति यावत्। क्षेत्रमाहात्म्यात् निवृत्तिधर्भाभिनयः सम्यङ् निष्पद्येतेति भावः। 23. धनार्जनार्थेष्वभिनयेषु सर्वसामाजिकतृप्तिः प्रतीक्ष्या। नाथप्रीत्यै कृतं नाटकं तद्भक्तप्रीणनायाभिनीयते। अहृदयञ्चेत् केचिन्निन्दन्ति, तदसाधुत्वे साक्षिणः सन्तीति न नो हानिरित्याह शमेति। शमरूपस्य धनस्य स्थानम्। सत्त्वसंपन्नविवेकविजयकरत्वात्, सत्त्वप्रचुरम्। अयोगिनः निवृत्तिधर्मरूपेषु योगेष्वेकत्राप्यप्रवृत्ताः। वरीव्रतु भृशं वर्तन्ताम्। बहुभिः। वचनैरिति विशेष्यम्। प्रयोगद्रष्टृभिरिति वा। किं छिन्नम् का हानिः। नेत्यादि। ईश्वरो मुख्यसाक्षीति भाव। चतुर्दश। `आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं दिशश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्’ इत्युक्ता आदित्यादयः। आरम्भनियतावसानाः उत्पतिकाल एव विनाशिनः। अधिककालानुवृत्तावपि मनीषिदुर्गुणा नश्यन्तीत्याह यद्वेति। अमनीषिविषये वक्ष्यति सन्तुवेति। 24. नमिताः नम्रीकृतमुखाः। आननेति वक्ष्यमाणत्वात् मुखेति अर्थलभ्यम्। कालोन्निद्रकदम्बगोलवपुषः वर्षाकालविकसितनीपपुष्पमण्डलाकारतुल्यशरीराः गुणाखादवशात् युगपदापादशीर्षरोमाञ्चितशरीरा इति यावत्। अथेषद् व्रीडितेन लज्जया अर्धनिमीलितनेत्रं यथा तथा रसपारवश्यात् खयमुन्नतमुखाः एतन्नाटकप्रयोगमार्गस्य यत् सारस्यं सरसता तस्य सारः तस्य अवधिम् उत्कर्षं प्रस्तोष्यन्ति परेषु तूष्णीं भवत्स्वपि स्वयमेवाऽऽस्थया वक्तुं प्रवर्तिष्यन्ते। तैर्बूहक्तावपि एतत्सारस्यापरिच्छेद्यत्वात् सर्वं प्रस्तावतुल्यमेव॥
निर्विकाराः अन्तर्जातसारस्यानुभवसूचकबाह्येङ्गितरहिताः।
25. स्वनाम्ना स्वनामान्तर्गत भकाराद्यक्षरत्रयेण क्रमेण भावरागतालरूपार्थत्रयस्योपवेदार्थस्य स्वयं प्रवर्तक इति सूचयति। भावः अभिनयः। रागः गीतिः। तालं वाद्यम्। कतिषयासूयुजनहेतोर्न वयं कदापि बहिष्कृताः, किंतु अबहिः- अन्तः कृताः स्वगोष्ठ्यन्तर्भविताः। श्रुतगुरुकेषु। गुरु बहुश्रुतं यैस्तेषु। विरुद्धषु काम्यपरत्वकुदृष्टित्वादिवशात् सत्सम्प्रदनिष्ठैरनादृतेषु। श्रुतबाहल्ये अधीतानां शास्त्रणामनेकत्वे। तद्बहुत्वात् तादृशपुरुषोक्तौ विस्रन्भस्तेऽनुचित इत्यर्थः। अवगतसंवादनार्थम्- यत् तेषामुक्तौ अनौचित्यं त्वया निर्धारितम्, मयापि तथा निर्धार्यत इत्यैकरस्यविज्ञानार्थम्। प्रवर्तन्ते त्वया क्रियन्ते। तथाच ते ज्ञापनीयं न किञ्चिदिति भावः। गृहीतविद्याबाहुल्यमकिञ्चित्करम्। यावत् तावत् गृहीतम् तत्र संशयविपर्ययराहित्यमेवापेक्षितमित्याह विशुद्धेति।
26. कलाः विद्याः चन्द्रभागांश्च। अपचीयते क्षीयते, ज्ञानहीनो भवति। कश्चित् द्विजराजः। गिरीशताम् गिरि वाचि ईशतां स्वातन्त्रयं वाक्पतित्वम्, रूढ्या शिवत्वञ्च। कलानिधिरिति द्विजराज इति चोक्तः एकया तृप्तिमलभमानः उपर्युपरि भूतसीर्लभते। किं तेन। तासां सकलङ्कत्वात् क्रमेण क्षय एव। तद्वदेव बहुशास्त्रज्ञा अपि तत्रतत्रालब्धनिष्कर्षाः क्षीयन्ते। कलायाः शुद्धत्वे एकमात्रवत्त्वेऽपि गिरिशत्वमित्यत्र अस्मद्विरुद्धत्वाभिमतमतान्तरजनसामान्यमान्यः शिव एव निदर्शनमिति भावः। प्रकृतपरिषत्तु क्षुद्रदेवतापर-कुदृष्टिमतक्षोभितजनप्रियनाटकालङ्कारादिग्रन्थगतिपरवश्यवैदेशिकसन्मतदेशिकभूयिष्ठेति प्रारम्भ एवोक्तमित्याशयेनाह तदहमिति। आर्यमिश्राः अनेकशास्त्रविशुद्धवैदुष्यशालिनः शिष्टाः।
27. संग्रहेण नाटकादिविषयगणनपूर्वकं प्रार्थयते विवेकेति। नाटके हि मुखं प्रतिमुखं गर्भः अवमर्शः उपसंहारः (निर्वहणम्) इति पञ्च सन्धयः परिगण्यन्ते। पञ्च सन्धय एव क्रमेण बीजं बिन्दु पताका प्रकरी कार्यमिति, आरम्भः, यत्नः, प्राप्त्यशा नियताप्तिः फलागमः इति च संभेदादनतिभेदेन व्यवह्रियन्ते। श्लोके, योगे च सफले इत्यस्य `योगेऽस्य च फले’इति निर्देश एव पर्यवसानमिति क्रमेण पञ्चोक्तिरक्षता। तदर्थे पञ्चावराः दशपरमाः अङ्काः संमताः। तत्तत्सन्धिसमन्वयाय प्रकृतनाटकविषयानुसारेणेह पञ्च विषयाः क्रमेण प्रतिपाद्यन्ते- विवेकमहाराजस्य पुरुष (जीव) मोक्षप्रापणार्थं यथार्थमतज्ञानप्रदर्शनरूपः आरम्भः, प्रतिपक्षित्यवस्थापितपरमतभङ्गः, सुकृतविशेषाधीनवैराग्यमूलक निवृत्तिधर्मप्रवृत्त्यधीनसात्त्विकत्यागविशिष्ट सर्वकर्मानुष्ठानाभिवर्धिता ऐहिकामुष्मिकैश्वर्यकैवल्यकांक्षानुपप्लुता मुमुक्षा, भक्तियोगानुष्ठानम्, फलप्राप्तिश्चेति। तत्र सर्वं भरतशास्त्राभिमतलक्षणहानिं विनैव विलसतीति परिशीलनाय स्वयं निभृतं निश्चलं-मध्ये रंगक्षोभादिकमविधाय सावधानं भवन्त उपविश्य पश्यन्त्वित्यर्थः।
निध्यातुं स्पष्टं समन्विततया द्रष्टुम्। कृतमुखैः विद्वद्भिः अभिमुखभूतैश्च। तत्र प्रथमाङ्के प्रथमम्, द्वितीये द्वितीयम्, तृतीयादिषु बहुष्वङ्केषु तृतीयम्, नवामाङ्के चतुर्थम्, दशमाङ्के पञ्चममिति संग्रहेण भाव्यम्।
एवं सामाजिकेष्वभिमुखीकृतेषु आरम्भसूचिका गीतिः ध्रुवानाम्नी प्रवर्तते। तामाह नेपथ्य इति । 28. अस्य गीतिपद्यस्यार्थद्वयम्, किरणरूपोपमानान्वयितया पदानामर्थान्तरञ्च। तदर्थद्वये एको नटकार्याभिनयविषयः, अन्यो नाटकफलमोक्षकार्यविषयः। सत्पथसीमां भरतमार्गमर्यादामत्यजतः विदुषो नटस्य, तामसारम्भाः अज्ञनटव्यापाराः समये भरतमते नियतैः व्यवस्थतैः प्रयोगैः अभिनयैः क्षिप्यन्ते निरस्यन्ते। सावधानं समीचीनाभिनये क्रियमाणे आभासस्यानवकाश इति यावत्। द्वितीयोऽर्थो द्विधा। सत्पथसीमां योगिमादृतमार्गव्यवस्थामत्यजतः विदुषः विद्यानिष्ठस्य समयनियतैः योगशास्त्रस्थितैः प्रयोगैः प्रकृष्टैर्योगैः तामसारम्भाः रागमोहादिमूलकदुर्व्यापाराः क्षिप्यन्त इत्येकः प्रकारः अन्यस्तु विवेकविषयकः। सतः पुरुषस्य यः पन्थाः मोक्षमार्गः तत्सीमामत्यजतः विदुषः विवेकस्य राज्ञः समयनियतैः कामक्रोधादिजयसमयन्यवस्थितैः अभियोगप्रकारैः तामसारम्भाः महामोहोद्यमाः सर्वे क्षिष्यन्त इति। दिवसकृतः दिनकरस्य सूर्यस्य किरणैरिति दृयष्टन्तान्वय्यर्थस्तु- सत्पथस्य नक्षत्रमार्गस्य व्योम्नः सीमामत्यजतस्तस्य समयनियतैः प्रातःकालादिव्यवस्थितैः प्रयोगैः सञ्चारैः तामसारम्भाः- अन्धकारव्यापाराः क्षिष्यन्त इति। विवक्षितमर्थद्वयमेव अस्मद्वृत्तिमापवर्गिकवृत्तिञ्चेति उपरि निर्दिश्यते। तत्र अस्मत्पदं नटवाचि। आपवर्गिकवृत्तिं मोक्षार्थं जीवव्यापारं विवेकव्यापारञ्च। तन्त्रयन्ती सकृत्प्रयोगत एव दर्शयन्ती। उद्घातः आरम्भः।
यादृच्छिकं नेपथ्यवाक्यमुपश्रुतित्वेन भावयन् सूत्रधारो विश्वासमाविष्करोति। 29. दूरदृष्टिः दीर्घदर्शीं भविष्यद्विमर्शकुशलः। अयं जन इति स्वस्यैव निर्देशः। नटानां नेता सूत्रधारोऽहमिति यावत्। प्रतिपक्षं दुर्जनं प्रबोधचन्द्रोदयादिनाटकाभासनटपरं विजेतुं प्रभवति। चकारौ सूत्रधार विवेकमिथस्समुच्चायकौ। धर्मश्चार्थश्चेतिवात्। यद्वा प्रतिपक्षं पूर्वोक्तनटाभासं दुर्जनं स्वाभिनयनिन्दकसामाजिकजनञ्चेत्यर्थः। उत्तरार्धेन महामोहः प्रत्यर्थपार्थिव इति दर्शितम्।
कुशीलवानां नटानां कुलस्य अङ्गारः दाहकोऽग्निः। ननु पात्रभूतैः स्वेषां नटनार्थमागतत्वमनाविष्कार्यम्ष तत् कथमागच्छता कामेनास्य नटत्वमाविष्क्रियते॥ उच्यते। पूर्वश्लोके विवेकेन मोहजयवत् सुनटेन दुर्नटजयस्योक्तत्वात् अपात्रभूतेन सूतधारेण स्वस्य नटत्वमाविष्कृतमस्ति। इतः परं प्रविशद्धिः पात्रैः स्वस्वनटत्वाविष्करणस्यायुक्तत्वेऽपि प्रस्तावनायां पूर्वविषये एतदुक्तिर्हि न दोषाय। अथ चायमित्थं संबोधयन् स्वस्य नटत्वाभावं गमयन् एवं स्वाश्यमाविष्करोति- अरे कुशीलवापशद त्वया नटनमेवं कामं क्रियताम्। तत्तु मिथ्यानटनम्। विवेकेन विजयप्रसक्त्यभावात्। तदहं साक्षात्काम एव त्वदुक्तिनिथ्यात्वं निरूपयिष्यामीति। कुशीलवत्वेन तस्य संबोधनात् स्वस्य वास्तवमदनत्वमेव, न तु नटनमित्याविष्कृतमिति मन्तव्यम्। मधुरं धनुः इक्षुः। चित्रपुंखः शरः। तस्य सुरभित्वादिकं पुष्पत्वात्। चित्तवृत्तीनां कामक्रोधादिव्यापाराणां सार्वभौमस्य निर्वाहकस्य। सहधर्मचारिणः भर्तुः। दुर्मतिः राज्ञी। महानटस्येत्युक्तिः नटदूषणावसरे स्वाधिपे अतिशयितनटत्वरूपणौचित्यात्। विवक्षानर्हं वक्तुमनभिलषणीयम्। राजद्रोहस्येष्यमाणत्वायोगात्। अमर्षसंप्लवात्- अमर्षप्रवाहोपरिसंचाररूपात् संतरणात्। ससहायः- वसन्तसहितः। आः कष्टमिति पृथग्वाक्यम्। तत्र हेतुः अवधारितमिति। 30. अपवर्गविरुद्धेषु- मोक्षपुरुषार्थप्रतिकूलेषु। वर्गेष्विति। धर्मादीनां प्रत्येकं बहुत्वात् वर्गत्वेन व्यवहारः। तत्र तिष्ठताम् त्रिवर्गरतानां प्रधानतयाऽभिमतो यः पुरुषार्थः तस्य पश्चिमस्य। अन्ते तृतीयत्वेन गण्यमानत्वात्।
किञ्चेति दैवतत्वेनोक्तेन सह उत्तरश्लोकवक्ष्यमाणरतिसहित्यान्तविशेषणसमुच्चये। 31. अर्धात्मना अवशेषितं न्यूनीकृतं रुद्रस्य पौरुषं पुंस्त्वम्। बलमित्यपि। येन। सः। अतो ह्यर्धनारीश्वर आसीत्। तृतीयं पुरुषार्थवर्गं कामम् अवधीरयतां तिरस्कुर्वतां विनेता दण्डयिता भंगकरः। परिरम्भणं मदनकार्थम्। लोलत्वमास्थाप्रदर्शकत्वम्। पुलकितैकभुजः। येन भुजेन परिरभते तन्मात्रं पुलकितम्। अन्यभागानां रतिस्पर्शभाव्याभावात् दूनता। अभ्युपैति- अभिमुखं समीपे आयाति। कामोत्सवेति वसन्तकारितो महोत्सवो वक्ष्यते। संवलितगुप्तवृत्तयः संवलितेन कामिलोकसंश्लोषवशेन गुप्ता विवेकविजयार्थां वृत्तिर्येषामित्येकोऽर्थः। सूत्रधारस्य सर्वपात्रनटननिर्वाहकत्वात् महामोहपरिकरवेषादिकरणसंवलनेन गुप्ता रक्षिता वृत्तिः नाट्यजीवनं यैस्त इति वा।
विष्कम्भ इति। नाट्यारम्भो नटमुखेन प्रस्तावनायां कृतः। प्रथमाङ्ककृत्यं विवकोद्यमरूपं वक्ष्यते। तादृशोद्यमावश्यकत्वस्थापनाय गुणानां शात्रवादिकं प्रतिपक्षपात्रप्रवेशनमुखेनोपोद्घातरूपेणात्र ज्ञाप्यते। इत्यदीति। आशंसत इत्यन्तं वाक्यमेव। भरतकुलपांसनेति। विवेके जयसंबन्धप्रसक्तयभावात् कथं तथा त्वदुक्तिः तद्रूपनटनप्ररम्भश्चेत्यर्थः।
32. भ्रूलते एव चापे। सव्यसाचितोऽप्यतिशयः धनुर्द्वयधरणात्। तरलं चलमपि हृदयं लक्ष्यीक्रियते सामर्थ्यत्। स्नेहः अनुराग एव वाणलेपकतैलत्वेनाध्यवसीयते। कूणिते-वक्रे।लोचनं दर्शनमेवास्त्रम्। इदमतिदूरगामि। किच्चिन्मन्त्रणपूर्वकं प्रयोगादस्त्रममोघम्। तस्मिन् प्रस्थिते सति। कान्दिशीकः भयद्रुतोऽपि। कांदिशमिति। यत्र क्वचन गच्छन्नपि न मोक्ष्यत इति भावः।
वसन्तस्य अर्चिराद्यातिवाहिकगणान्तर्भूतोत्तरायणदेवताश्यतया सात्विकत्वात् मन्मथे दोषं पश्यतः आन्तराशयः स्वगतमित्युच्यते। विषमबाणः पञ्चबाणत्वात् अयुग्मसंख्याकबाणः बाधकत्वमपि वैषम्यम्।
33. युवानो युवतयश्च जलसेचनयन्त्रं हस्ते कृत्वा मिथः सेक्तुं प्रवृत्ता इत्याह। तत्र पुंसां (गवादि) शृंगरूपसेचनसाधनवत्त्वं स्त्रीणां भस्त्रिकावत्त्वञ्च। पुंसां शिखासु वेष्टितानि हल्लकानि कल्हाराणि। तत्र लम्बन्ते भ्रमराः। स्त्रीभिः करेणैव यन्त्रैण पीडनात् कस्तूरीमिश्रजलपरिवाहो भस्त्रिकातः क्षरति, तेन मेदुरत्वात् सपंका भवन्ति पुंसामलकाः। ईदृशास्ते स्वयं ताः सेक्तुं शृंगाणि धारयन्तीत्यर्थः। साध्विति। विशेषतश्चैतदित्यस्य प्रतिसंबन्धियच्छब्दघटितवाक्येन ज्ञापनम्। तयोरेकवाक्यता। तन्मध्ये सर्वथेत्य वान्तरवाक्यघटनमादरात्। सर्वथा एतद्विशेषसत्त्वेऽप्यसत्त्वेऽपि। हतकः दैवहतः अस्माभिर्हन्तव्यः हतप्रायः, हतसुखश्च। नन्दनादिवनानि अवधीरितानि कावेरीभूभागैः। अत्र वसन्तकार्यं हल्लकपुष्पसंभरणं क्रीडोपयोगितापसंपादनञ्च। जलमादाय क्रीडेयमुत्सवशेषभूता।
34. कालान्तरे प्रवाहाधिक्यात् इयं रीतिर्दुर्लभा। तादात्विके वसन्ते तु सञ्चारयोग्यः प्रवाहः। कच्छेशु कमलवर्धनात् कावेरी सर्वत्र विकसितपद्मश्रेणिः। कुल्याकरणात् पार्श्वद्वये रोधसा जलनिरोधात् स्रोतांसि प्रवहन्ति। तोयपूर्णकुल्याशतमुखेन तीरेष्वाप्लवो जलस्य क्रियते। चोलस्त्रियश्च कबरीः विसृज्य सधैर्यं स्नान्ति, प्रवाहस्य न्यूनत्वात्। हंसाश्च पुलिनसमीपे प्लवन्ते। तेषां धवलत्वात् कावेरीमन्दस्मितप्रायता। तस्मात् कामोद्दीपनं साधींयः कृतमिति।
अथ रतिः प्रतिपक्षिपक्षबलं प्रस्तौति। पुरुषान्तरेण तदुक्तौ कामः कुप्येत्। स्वप्रियाप्रश्नत्वात् स समादधाति। एतत्सल्लापतः शत्रुमित्रबलाबलादिविवेकः सामाजिकनाम्। धूपि(मि)तम् संजातधूमम्। अग्निर्न भवति चेत्, जीवेयमिति भावः। लब्ध्या लाभेन। संतोष्टव्येपि संतोषस्यावश्यकत्वेऽपि। भावितस्त्रीचापला- स्त्रीणां यद् बुद्धिचाञ्चल्यं तत् लब्धवती। स्त्रीस्वभावमभिनयसि किमित्यर्थः। 35. भ्रमर एव गुणः ज्या। मरुदनलेति। वायुसहिताग्नीत्यर्थः। अग्नेर्वायुसाहित्यं विना कार्यकरत्वायोगादर्थसिद्धतदुक्तिः। मेरुधन्वा-त्रपुरदाही रुद्रः। क्षणं क्षणमपि। वीरायितं वीरत्वाभिनयः वीरत्वैकदेशः। 36. अन्येषामपि प्रजापतीनां वेधशब्दवाच्यत्वमस्तीति आद्य इति विशेषणम्। वरतनुतया-स्त्रीत्वेन। शिवस्य वशिविपरीतस्य। तदपि अकर्मवश्यमपि। परमम् अनन्याधीनम्। अत्युत्कृष्टलक्ष्मीविशिष्टमपीति वा। गोपीजनस्य- परैः पुरुषवदुपेक्षितजनस्य। 1 पाo विपक्षे मयि संस्थिते।
37. युवतिसात् युवत्यधीनम्। दत्तसायके। पुष्पाणां चूतमल्लिकादीनां वसन्ताधीनत्वात्। विपक्षेऽपि मयि स्थिते। विपक्षे मयि स्थितेऽपि। अपिना महाराजमोहसमुच्चयो वा। विषमं दुष्प्रवेशं स्थिरसंस्थानं दुर्भेदाकारं यद् वैराग्यदुर्गं तत्रैव स्थित इत्यर्थः। विप्रलब्धा वञ्चिता, मिथ्याविषयं प्रतिबोधिता। 38. स्थिरमपि वैराग्यं विषयसंनिधौ अपैतीत्याशयेन प्रतिवक्ति वपुरिति। धनुषः दृढमौर्वीरूपगुणवत्त्वं नम्राग्रत्वं आकर्णकृष्टबाणसन्धानवत्त्वं वाममुष्टिग्राह्यतनुमध्यप्रदेशत्वञ्च भवति। तत्सर्वं युवतिवपुष्यपीति तस्य धनुष्ट्वम्। चित्रपुंखः बाणः। अनेन पद्येन `सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः’इति प्रबोधचन्द्रोदयोक्तसर्वकार्यसंग्रहोपि कृतः। तत्र विलोकनस्य बाधकत्वोक्तौ अन्येषां तथात्वस्य कैमुतिकन्यायसिद्धत्वात् तद् विवक्षितम्। सर्वस्य वपुः कार्यत्वाच्च।
भाषणञ्च द्विविधं संभाषणम् अन्यं प्रति भाषणञ्चेति। तत्र प्रथमस्य मोहकत्व कैमुत्यसिद्धमिति द्वितीयं मनसिकृत्य इदं धनुः टङ्कारमात्रेणापि हन्तीत्याशयेनाह शेलीमिति 39. भाषणादेरपि मोहकत्वं कैमुत्यसिद्धमिति नामापीत्यनेन दर्शयिष्यति। निरूपयिष्यति देषचिन्तनार्थस्मरणबलेन सर्वस्यास्य कैमुत्येन मोहकत्वम्। शैलीं शीलम्। शिलामयः शैल इतिवत् शीलमयः शैलः। तस्य भावः शैली। किमपि तदिति कलभाषिणीमुखनिष्यन्दग्रहणं युक्तम्। तुरीयपादः पृथग्वाक्यं भवितुमर्हति। परैः सह स्त्रीकर्तृकभाषणमुक्त्वा परकृतस्त्रीनामनिर्देशादेरपि बलमाह नामापीति। अपिना पूर्वोक्तानां मोहकत्वे कैमुत्यं सूचितम्। एतेनान्येषामपि मोहकत्वकैमुत्यं वसन्तो वक्ष्यति। विकरोति विकारं जनयति। योषितामिति। योषिद्विषयकेत्यर्थः॥ 40. प्रबोधचन्द्रोदये परिरम्भकेलीत्येषां यथार्हं व्युत्क्रमेण गणनं युक्तम्। आस्तामेतत्। तत्र स्मरणमपि कामिनीनामिति यदुक्तम्, तत् अनुकूलचिन्तनार्थस्मरणमेव न किंतु सामान्यमुखेनान्यदपीति परिष्कृत्य दर्शयति तिष्ठत्विति। गुणावमर्शः गुणविशिष्टतत्तद्व्यक्तिस्मरणम्। एवञ्च नामनिशमनोदेर्गुणस्मारकतयैव मोहकत्वमिति नेति भावः। दोषानुचिन्तनार्था-दोषस्य पश्चाच्चिन्तनार्थं पूर्वं क्रियमाणं धर्मिस्मरणमपीत्यर्थः। दोषचिन्तनं धर्मि स्मृत्वा, उत अस्मृत्वा। नान्त्यः असंभवात्। नाद्योपि तदैव वैराग्यहानेः। तत् कथं दोषचिन्तनम्। कथंतरामनुचिन्तनम्।
41. वपुरिति पद्यं चक्षुषो विषयसंनिधिपरम्, शैलीमिति पद्यं श्रोत्रस्य। एवमिन्द्रियादर्थप्राबल्यमुक्त्वा अर्थापेक्षया मनसः प्राबल्यं तिष्ठत्विति पद्येनाऽऽहं स्म। मनसो वासनादिबलाद्बलमाह अपिचेति। प्रभूतेन अधिकेन मदेन गर्वेण मदजलेन च मेदुरात्मनः व्यप्तस्वरूपस्येति मनोगजोभयविशेषणम्। अत आत्मशब्दो न मनोवाचि। धावत इत्यपि द्वयविशेषणम्। अनेन पद्येन दोषानुचिन्तनस्य जातस्यापि बलं नास्तीत्युक्तम्। सर्वं मनो मनसिजस्य ममाधीनमिति भावः।
योगीश्वरेषु तव पराक्रमो न कार्यकरः, प्रत्युत त्वया तद्दृष्टिगोचरस्थलादपसर्तव्यमिति पृच्छति रतिः। कातर्थं चलत्वं भयञ्च। युवतियोगीश्वरपदे इति। न योगनिष्णतत्वात् तेषां योगीश्वरत्वम्, किन्तु युवतियोगिनः- ताभिर्युक्ताः ये, तेषामीश्वरत्वात् सर्वदा युवतियुक्तत्वादिति कल्पयामीत्यर्थः। पदे स्थाने। तथा युवतियोगिनां यूनामीश्वरोऽहम्, मम पदे पादे योजयामीत्यप्यर्थः। एवं योगीश्वरान् पूज्यान् रुद्राख्यान्`इमे युवतियोगीश्वराः’ अर्धनारीश्वरा इति वाच्यान् करोमीत्यपि।
इदमेवोपर्याह सुभगेति 42.। स्वरूपतः सुकुमारत्वेऽपि कार्येण क्रुरैः ममास्त्रैः पुष्पैः कीलितम् अन्तःप्रवेश्य प्रहृतम्, उमाशरीरार्धस्य शिवशरीरार्धेन तिरोधानात् एवं विपरिवर्ताच्चान्योन्यकवचितम्, मिलितस्यैकशरीरवद्भावादुभोः प्राणवाय्वोरपि मिथस्संवलनात् स्यूतजीवितं मिथुनम् उभाशिवात्मकम्।
दीर्घं बहुकालपश्चाद्भाविपर्यन्तविषयकं बुद्धिबलं यस्य तेन। उत्साहः प्रभुत्वं मन्त्रणमिति शक्तित्रयं राज्ञ आवश्यकम्। तदिहाप्यस्तीत्याशयः। किं भवेदिति। चिन्तयेति शेषः। शिञ्जिनीज्या। तत्र संहितो विश्वलक्ष्यको विषमो विशिखः येन तस्य। मध्य इव। स्त्रियास्ते वलग्नस्य सूक्ष्मता दृष्टा युक्ता। मानसस्य सूक्ष्मत्वं (विचारक्षमत्वम्) आवश्यकम्। तत् कुतो नेति। तत्स्थैल्यकारणवर्णनव्याजेन स्तनतटं स्तौति नूनमिति। संपश्यताम् पश्यतु। मयेति 43.। अत्र, “संगात् संजायते कामः कामात् क्रोधोऽभिजायते। क्रोधात् भवति संमोहः संमोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशात् बिद्धिनाशो बुद्धिनाशात् प्रणश्यति” इति गीतावचनमनुसृत्यार्थो बोध्यः। तथाभूते विनष्ट। जडमतिः। तस्य महिषी सुमतिरिदानीं जडा संवृत्ता। तरक्षुः क्षुद्रव्याघ्रः॥ स्वस्य पुरुषोत्तमसाम्यं पञ्चायुधीमत्त्वेन दर्शयति 44. अस्यायुधानि अरविन्दादयः पञ्च बाणाः। सत्त्वं सत्त्वगुणः बलञ्च।
नारायणस्यापि मुनिवेषदशायामपि शान्तिर्नास्ति। कथमन्येषु शान्ततेत्याह अलमिति। विबुधाद्या विचार्या मा भूवन् दुर्बलत्वात्। आगमग्राह्यवाचः आगमत्वेनमान्यवाग्युक्तस्य मुक्तिहेतून् निवृत्तिधर्मान् गायतः अष्टाक्षरपूर्वं बदरिकाश्रमे। जनितयुवतिरत्रम्। उर्वशीमुत्पादितवतः शान्तिः कथम्। तदूरुकाण्डेनैव तदीयशान्तिर्ज्ञापिता। तस्य शान्तिर्नास्तीति ज्ञातमिति यावत्। ऊरौ युवतिमतः कीदृगिन्द्रियनिग्रहः। रम्भाद्यवमाननाय स्ववैराग्यज्ञापनार्योर्वशीसृष्टिर्नारायणेन कृता। अत्र कामस्तु अन्यथा कृत्वा दूषयति- यदूरुकाण्डास्पदा स्वर्वेश्यमणिरूर्वशी, स कथमुरु वशी स्यादिति।
इतः परं संभाषणमुखेन कक्ष्याद्वयतत्त्वज्ञापनम्। एकमातापितृजन्यानामेवात्र मिथः कलह इत्याह त्रीति 46. त्रयो गुणाः सत्त्वरजस्तमांसि यस्य, तत् प्रधानं प्रकृतिः। तद्घटितात् तद्युक्तात्, प्रकृत्या देहेन्द्रियविषयैः स्वकार्यैः संयोजिताद्वा भोक्तुः भोग्यत्रिगुणभोक्तृत्वापन्नात् बद्धात् जीवात्। तत्पत्री बुद्धिः धर्मभूतज्ञानाख्या सती तत्तत्पुरुषमात्रगता, तदनुव्रता तेन सहैव स्थिता तद्वत् स्वयम्प्रकाशा अजीजनत् कुलम्। तस्य त्रैविध्यं सत्त्वरजस्तमोरूपगुणत्रयान्यतमोन्मेषसमयैकभवदुन्मेषकत्वात्। यथा अतिशयितसत्त्वविशिष्टमनोयुक्ते जीवे तद्बुद्धौ विवेकादिपरिणामः। एवमतिशयितरजस्कत्वे रागादिपरिणामः, अतिशयिततमस्कत्वे मोहादिपरिणामः। `कामः संकल्पो विचिकित्सा’ इत्यारभ्य `सर्वं मन एव’इति श्रुत्युक्ततया रागादयो मनोगुणा इति न शङ्कनीयम्। मनोधीनत्वान्मन एवेत्युक्तम्। धर्मभूतज्ञानपरिणामरूपत्वात् सर्वेषामात्मगुणत्वमेव। तद्गुणोत्पादकतत्तन्मनोव्यापारेष्वपि कामादिशब्दो गौणतया प्रयुज्यते। धर्मभूतज्ञानस्य पत्रीत्वौचित्याय बुद्धिरिति स्त्रीलिङ्गशब्देन निर्देशः। परमपदेः तु सत्त्वरजस्तमोगुणरूपसहकार्यनधीनतया स्वयमेव धर्मभूतज्ञानपरिणामा भवन्ति। ते सर्वे भगवच्छेषतैकानुकूलाः। एषु गुणाधीनेष्वेव हिताहितद्वैविध्यमत्र श्लोके उक्तमिति ध्येयम्। तद्भोगद्वेष्यम्। भोगः सांसारिकानुभवः। तस्य जीवस्य भोगस्तद्भोगो द्वेष्यः तद्दुःखकरत्वात् यस्य तत् विवेकादिगुणजातं प्रतमं सत्त्वगुणाधीनं पृथक्। रजोधीनं रागादिकं तमोधीनं मोहादिकशञ्चेति कुलद्वयमन्योन्यसक्तम्। एवञ्चैतत्कुलद्वयस्य एकस्य विवेकादिकुलस्य च भ्रातृभूतस्य मिथो वैरमिति भावः।
47. मोहस्येति मोहो नाम विपरीतज्ञानम्। तत्पत्री दुर्मतिर्नाम मोक्षे दोषदृष्टिः। धर्मपत्रीति गौरवोक्तिः। विवेकस्तत्वयाथात्म्यज्ञानम्, तत्प्तरी सुमतिर्विषयानुभवदोषदृष्टरूपा (10.80.)श्लोकेऽपि द्रष्टव्यम्। निवृत्तधर्मव्यापृतेः पश्चात् एतत्कुलद्वयक्षयोगित्वात् तन्निगूहनेनाऽऽह अद्ययावदिति।
जातिवादिन इवेति। न्यायदर्शने वादप्रवृत्तानां छलं जातिर्निग्रहस्थानञ्चेति दोषत्रयं संभावितं दर्शितम्। तत्र यत् परदूषणर्थं प्रयुक्तमुत्तरं स्वस्यापि हानिकरत्वात् स्वव्याघातकं भवति, तत् उभयसाधारण्यरूपसामान्यात् जातिपदेन व्यवह्नियते। तादृशं वदन्त इवेत्यर्थः। अनादिभुक्तायामिति। बहुकालदत्तभोगायाः अन्ते ह्युपेक्ष
णं कृतघ्नतामेवापादयेत्। तस्मादपि दोषान्न बिभ्यतीति भावः। महाग्रस्थानेनेति। जीवितुमशक्ताः असहाया वृद्धाः बदरिकाश्रममतिलंघ्य यावन्मरणमुपर्युपरिगमनमेव कार्यमिति प्रस्थाय वनं प्रविशन्तीति श्रूयते, तद्वदिदमिति भावः। मर्कटाः वानराः। [नचेत्यादि, विवेकादिभिरित्यन्तः कुण्डलितोऽधिकपाठः, 51. श्लोकानन्तरमिदमर्थकं वाक्यं भविष्यति हि। तद्वत्। यथा जात्यन्धादिर्भवति क्वचिद्विषये, तथा क्वचिद्विषये विकलोपि भवति। कुत्रेति चेत्-परावर्जनेसमीक्षणेपि। परेषां स्वबशीकरणे, तदुचितोपायपरिशीलने च विकल इत्यर्थः स्यात् पूर्वं जात्यन्धत्वोक्त्या समीक्षणपदस्यात्र मनोव्यापारत्वं हि युक्तम्।] सौभ्रात्रं भ्रातेति स्नेहः। प्रवृत्तिपद्धतिः सांसारिकव्यापारः। निवृत्तिपद्धतिर्मोक्षार्थव्यापारः। संयतिष्यामहे योद्धुं प्रवर्तामहे। ज्योतिरिङ्गणः खद्योतः। स्वमूलगुणभेदवशात् स्वेषां कुलानां मूलभूताः सत्त्वादयो गुणाः, तद्वैलक्षण्यवशात्। एकः प्रजापतिः कश्यपः। स्वात्मावधिः सुरत्वासुरत्वरूपोपाधिस्थितिपर्यन्तः।
शान्तमिति। भवत्विति शेषः। पापमेव द्विविधं दर्शयति पुत्ता इति।
49. स्वत इति। श्लोकोऽयं सुभाषितनीव्यामपि। स्वत इत्यत्र सत इति, उपरि अपराध्यतः इति च पाठभेदः। स्वतः- स्वरूपेण। साक्षादिति यावत्। सत्त्वविहीनानां तेजसा सह तिमिरस्येव अन्येन सह साक्षात् स्थितिमलभमानानाम्। औष्ण्यस्य जल इव परम्परया स्थितिर्न दोषाय। सत्तयैव स्वसत्तामात्रेण अपराध्यतताम् अन्यस्थितिमसहमानानां च वस्तूनां कथं प्रतीकारः विरोधपरिहारः। अन्योऽप्यर्थः- सत्त्वेन सज्जनत्वेन हीनानाम् असज्जनानां सत्तयैव अन्यसज्जनत्वमेव हेतूकृत्य अपराध्यतां तद्बाधकानां कथं स्वतः प्रतीकारः प्रबलहेतुना विना स्वभावतो वारणं न भवतीति। सतः अपराध्यतः इति पाठे-सत्त्वविहीनानाम् असात्त्विकानां यः सत्तयैवापराध्यति। यस्य स्थितिमात्रमपि ते स्वविषये कृतमपराधं मन्यन्ते इत्यर्थः। तस्य सतः सत्पुरुषस्य कथं प्रतीकारः दोषान्मोचनं न भवतीति। एवं सत्त्वहीनानां राजसतामसानां सतां हेतूकृत्य तदसहनेन योऽपराध्यति सन्, तस्य ततो निवृत्तिः कथमित्यपि। विवेकादीनां मोहादीनाञ्च सामानाधिकरण्यस्य दुर्घटत्वात् विरोध एवेति भावः।
तर्हि कुलद्वयमपि विभिन्नं स्थलंप्राप्य जीवत्वित्यत्राह अपिचप्रतिपुरुषेति। 50. तत्तत्पुरुषभेदेन धर्मभूतज्ञानभेदात् तत्रतत्र विवेकादयो मोहरागादयश्च भिन्ना एव। तत्रतत्र कुलद्वयसामानाधिकरण्यं न भवति। ईश्वरनित्यमुक्तगतधर्मभूतज्ञानानां विवेकादिरूपेणैव परिणामात् मोहादिरूपेण परिणामाभावात् तेषामसपत्नं राज्यम्। बद्धजीवरूपे त्वधिकरणे उभयप्रसक्त्या एकप्रवेशे अन्यस्य वध आवश्यक इति दुर्वारो विरोधः। इदमत्राऽऽकूतम्- नित्यविभूत्याद्यभिमानिनस्ते तद्गतान् आत्मन आश्रित्य सुखं जीवन्तः किमर्थं लीलाविभूतिगतान् आत्मनोऽपि आक्रामन्ति। अत्र वा ऽस्माकं राज्यमस्त्विति वयं प्रवर्तामहे। अतो नास्माकं दोष इति। एवं रतिं प्रीणयति कामः।
नन्वत्रापि विभूतौ कतिपयानन् विसृज्यैव सुखं जीवतेत्यत्राह किञ्चेति। इदं ग्रन्थान्ते विवेकेन महामोहं प्रति प्रेषितया वार्तया ज्ञास्यते। शाद्वलं तृणम्। तस्मादत्र कोऽपि जीवो विवेकवशगो मा भूत्। तथा सति तत्रास्मत्स्थित्ययोगादित्या स्माको निर्णय इति भावः। महाबलानामिति। अविद्याकर्मवासनारुचिप्रकृतिसंबन्धचक्रप्रवर्तकत्वमनादितयैव हि भवद्गतमिति भावः। किमत्र विवरणीयमिति। विवरणीयं न वेति चिन्तयामीत्यर्थः। विंवरणीयमेवेति वक्ति दुरिति। अचिरार्दिदेवतानुप्रविष्टतयाऽस्यैवं बुद्ध्युदयः।
51. मन्त्रभेदनाभावे ते स्वमनोरथं समर्थयेरन्-सार्थं कुर्युः। ते मनोरथमात्रे समर्था-अलब्धफलाः कार्याः। अतस्तन्मन्त्रितं सर्व विदवितमासीदिति यथा ते जानीयुः, तथाकरणाय स्त्रियं प्रति तन्मन्त्रणोक्तिर्युक्तेति भावः। अकर्तृत्वाभिमानादीति। नाहं कर्ता, न मे कर्म, न मे फलमिति कर्तृत्वममताफलत्यागेत्यर्थः। विषमदृष्टित्वं कर्तृत्वादौ प्रत्यक्षे तदभावाभिमानस्यातथ्यत्वात्। उपनिषदॄषरेति। त्यागेनैके अमृतत्वमानशुः, यज्ञेन दानेन तपसाऽनाशकेनेत्याद्युपनिषदामत एव प्रत्यक्षविरुद्धार्थप्रतिपादकत्वात् सस्यानुत्पादकभूमितुल्यत्वम्। अतो निवृत्तिधर्मवादेन प्रवृत्तिधर्मान्निवर्तरं पुरुषस्य क्षेमभंगायैवेति दूषणे तात्पर्यम्। निष्परतिक्रियेण परिहाररहितेन, अपरिहार्येण। भीमरथीति। बाधिकेति यावत्। “सप्तत्याः सप्तमे वर्षे सप्तमे मासि सप्तमी। रात्रिर्भीमरथी नाम नृणां प्राणापहारिणी” इत्यक्ता रात्रिर्भू(र्भै) मरथीत्युच्यते। अद्य यावत् युष्मत्पक्षस्था बुद्धिः परभक्त्युत्पादनात् वार्यतामिति चेत्, आह गुणत्रेतेति 52. सत्त्वादिगुणत्रये कदा कस्योन्मेष इति दुर्विज्ञानम्। विवेकादिजनकत्ववत् भक्तिजनकत्वमपि दुर्वारमिति भावः। अत्यन्तप्रलयः महाविनाशः। पुरा सृजति स्रक्ष्यति। यावत्पुरनिपातयोर्ल्ट। अत्र त्रेतेति अग्नित्रयवाचकशब्दप्रयोगात् सत्त्वादिगुणत्रिकस्य वैदिकाग्नित्वरूपणावगमात् विकृतियागपरविकृतिपदप्रयोगात् कूटस्थगृहिणीति पतिपत्रीनिर्देशात् विधिमन्त्रादिपदबलाच्च अग्नित्रयसाध्याभिचारविशेषरूप विकृतियागं यथाविधि दुर्मन्त्रप्रयोगेणानुष्ठाय कृत्यातुल्यां काञ्चन व्यक्तिं भक्तिनाम्ना जनयतीत्यर्थोऽवगम्यते। तत्त्वार्थस्तु अत्यन्तप्रलयो मोक्षः तदर्थो विधिः उपासनविधिरिति। तदर्थप्रणवादिमन्त्राणामेव दुर्मन्त्रत्वेन निन्दनम्। प्रलयविधानविषयदुरालोचनमित्यप्यर्थः। परुषत्वं बलवत्त्वम्। परमशब्दवत् भीमशब्दः। भीर्मा भूत् यदाकारे स भीमः तां भीमकाराम्। परवती पराधीना पत्यधीना, परमात्मविषयिणी च। भक्तेरत्यन्तप्रलयहेतुत्व कथमित्यत्र प्रसादकरुणोल्लाससंकल्पक्रमेणेत्याह प्रव्रज्येति। 53. प्रव्रज्या संन्यासः। आदिना देहधारणमात्रार्थव्यापृतत्वमुच्यते। परत्र पुरुषे परमपुरुषे। अहो अव्यभिचारिभक्तिः परपुरुषप्रवणोति निन्दनार्थं श्लोषसंपत्तये परपुरुषेति प्रयोगः। भक्तिः प्रीतिरूपापन्नचिन्तनम्। श्रवणप्रभृति प्रीतिरूपत्वं नायमात्मेति श्रुतिसिद्धम्। भक्त्या शास्त्राद्वेद्मीति च। प्रतिरुद्धसर्वकरणं घोरं तप इति योगजन्यदर्शनसमानाकारध्यानमुच्यते। तुष्टेति प्रसादः। जनार्दनस्य सर्वजनहिंसकस्य। जनः उपजनः जन्म, तन्निवर्तकस्येति वास्तवार्थः।. तत्किंकरं भक्त्युद्दिष्टकार्यकरम्। कैटभेत्यादिना संकल्पस्य निन्दा। संकल्पेति। 10-20 पद्ये अहं संकल्पसूर्योदय इति संकल्पेन वक्ष्यमाणत्वात् संकल्पशब्दस्य सूर्योदयशब्देन समास इति ज्ञायते। अत्र सूर्यशब्देन। अनतिभेदादुभयं युक्तम्। वस्तुतोऽत्रापि संकल्पसूर्योदय इत्येव पाठः। 87 पद्ये संकल्पसूर्यविभवेनेत्यस्ति।
54. कातराक्षी चञ्चलनेत्रा। तादृशरतिकृते। चकितं भयं तत्सहिते तदधीने परिरम्भे आलिङ्गने। तद्विशेषणं पूर्वार्धम्। अवमर्दः हारमुक्तानां संमर्दकृतोऽपचयस्तनुभावः। मोहः `न बाह्यं किञ्चन वेद नान्तरम्’ इत्यज्ञानम्, संतोषः सुखम् उभयहेतौ। अन्तरात्मा मनः अङ्गद्वयमेकत्वेन भावयति। यद्वा परमात्मापि नौ एकत्वेन मन्यते इत्यर्थः। ऐन्द्रजालिकं तद्विद्याकृतं यत् नगरस्य मुखान्तः प्रवेशनं तत्तुल्यम्। नैगमिकः वेदवित्। स एव नगररथ्यापुरुषः नियतनिवासरहितः। ऐन्द्रजालिकोऽपि रथ्यापुरुष एव। नैगमिकरथ्या वेदवीथी, तत्र चरन् पुरुष इति तत्त्वार्थः। 55. कौक्कुटं व्रतम् यथा कुक्कुटः स्वस्त्रियं तस्या अनिच्छायामपि कामाधिक्येनानुभवति, तथाक्रमणमित्यर्थः। सुधाकरः चन्द्रस्तारां बृहस्पतिपत्नीम्, शतक्रतुरिन्द्रो गौतमधर्मपत्रीमहल्यामाचस्कन्द। चस्खले स्वोपदेशविरुद्धं कृतं कामवश्यत्वात्। भ्रमरपंक्तिर्मौर्वीस्थाने। देहलीं गृहबाह्यान्तरस्थानमध्यभूमिम्। दोहली कौतुकी। वरिक्तिगृहप्रथमाङ्कणप्रवेशार्थप्रेक्षणमपि न कुर्यादित्यर्थः। व्यूहविग्रहः यूहनिविष्टाः मूर्तयः। प्रज्ञाया आवरणमेव भयङ्करं स्वकीयं निद्रादिसाधारणं स्वरूपं यस्य म मोहः। विधिवशेन दौर्भाग्यवशेन यदृच्छया। विजेष्यते इति विपूर्वात् जेरात्मनेपदविधानात् कर्तर्यपि प्रयोगो भवति। एवञ्च केन हेतुना मोहो जयं प्राप्स्यतीत्यर्थप्रतीत्या विपरीतत्वम्। केनेति प्रयोगे विवेकेनेत्यपि स्फुरति। कर्मणि प्रयोगस्तु कामेष्टः। कामवत् वसन्तोपि विधिवशात् विपरीतार्थप्रत्यायकं वाक्यं प्रयुंक्ते अयीति 57। पूर्व(37) श्लोके संस्थिते इति पदं न, तत्र रत्या विपरीतत्वानाविष्कारात्। मोहादिषु सम्यक्स्थितेषु, जीवः विरक्त्या गृहीतोपि पुनः मूलप्रकृतिभोगेच्छुः वैराग्याद्भ्रंशं लभेतेति तद्विवक्षितार्थः। अर्थान्तरं स्फुरति- मोहादिषु नष्टेषु जीवः स्वप्रकृतिं- स्वस्वरूपं लब्धुमिच्छन् विरक्तिसहकारवशात् भजेत संसारान्मुक्तिमिति। तदिदं रतिर्बुद्धवती। अविशेषेति। शमदमविवेकादयोपि गुणाः कामक्रोधादिवत् देहेन्द्रियादिमति पुरुष एव जायमानाः। अतो मोक्षे देहेन्द्रियाद्यपाये कामाद्यविशेषम् एषामप्यवसानमेव हीत्यर्थः। स्वनाशमपि सोढ्वा परनाशं कामयमाना इमे मत्सरिण इत्याह एवमिति। प्रज्ञाचक्षुषीत्यस्य भक्तिरूपचक्षुष्मति, अन्धे इत्यर्थद्वयम्। पुरुषस्यान्धत्वात् निर्व्यापारत्वरूपसाक्षित्वच्चैतद्व्यापारनिरोधको नास्तीति वक्तव्यम्। पुरुषे अन्धत्वनिर्व्यापारत्वयोः स्पष्टोक्त्यसंभवात् श्लेषेण तत्कथनम्। भक्तिरूपचक्षुषः साक्षाद्द्रष्ट्टत्वरूपसाक्षित्वस्य च सद्भाव एव वास्तवः। सर्वथेति। अमूढचेतसः अमोघकर्मण इत्यपि पदच्छेदानुगुणः प्रयोगः। सर्वमिदं स्वस्य सत्यवाचित्वरक्षणाय। कुहनासु कपटेषु। गहनमीहन्ते परैरज्ञेयं यथा तथा प्रवर्तन्ते। गाहनं प्रवेशम् ईहन्ते इच्छन्तीति वा। मृतपतितानामप्युत्थितिर्भवेत् मोहादीनाम्, लंकायां रणे मृतानां वानराणामिन्द्रप्रसादेन जीवनवदित्याह प्रसुप्तानपीति 58. । अत एव हि कामो दग्धोपि जीवति॥
यदृच्छया समागच्छन् विवेकः एत पापाः इति कामोक्तिमाकर्ण्य स्वस्य हितकरत्वमाविष्करोति आकर्णनस्थल एव स्थित्वा। तदाह नेपथ्य इति। विपर्यस्तदृष्टिः विपरीतबद्धिः, हितपरेष्वहितपरत्वारोपात्। कूटस्थः कुलत्रयकूटस्थः कूटस्थ एव नित्यनिर्विकारस्वरूपात्मैव निष्पन्दं चलनरहितं यथा तथा निगलितः पुण्यपापात्मकशृङ्खलाद्वयबद्धः। अत एव निष्पन्दता, उभयतोऽपि बन्धे स्पन्दायोगात्। बद्धावस्थायां जीवात्मनो भूतमनः सबन्धं विना गमनशक्तिर्नास्तीति युक्तं निष्पन्दत्वम्। पुरषभोगघातकत्वरूपदोषं परिहरति आनन्दप्रापण इति। `जातिवादिन इव स्वभङ्गमप्यनुमन्यमानाः’ इति पूर्वोक्तं निरस्यति तदापीति। मोक्षेऽपि तद्बुद्धौ धर्मभूतज्ञाने भगवच्छेषत्वानुगुणदर्शनविवेकव्यवसायभक्तिसुमतिसंकल्पकैंकर्येच्छादिशुद्धकुलासंख्यवृद्धिसद्भावत् न भङ्गः। परमतेषु हि बहुषु तद्दोषप्रसक्तिः, नास्मत्सिद्धान्ते इति भावः। एवं द्वयोः प्रवृत्तयोः स्वस्यैव विजयं विवेक आविष्करोति दनुजमथनदयेति। ननु निरतिशयनन्दस्वरूपलाभरूपकैवल्ये कोऽसौ संकल्पव्यवसायादिबुद्धिपरिणामः, तथासति तारतम्यात् रागद्वेषाद्यवश्यम्भावात् तत्प्रतिक्षेपश्च न सिध्यतीत्यत्र-जीवपरभेद-नित्यविभूति-तत्परमसाम्यादि-प्रमाणप्रदर्शनेन सिद्धान्तिसंमते मोक्षे इतरवैलक्षण्यं व्यनक्ति अस्तिचेति। 60. स्वाधीनेति। अयं भावः- यावदयं स्वात्मानं स्वतन्त्रनटत्वेनामन्यत, तावत् अक्लिश्यत। यदा तु महानटाधीनत्वं निश्चित्य प्रणतवेषमगृह्णात्। तदा स विभुः एतं विवेकिनं बुध्वा क्लेशं परिहरति। प्रणतेर्विवेकमूलकत्वात्, प्रणतिपरतया स्थितिरेव तत्त्वमिति सिद्ध्या`स्वातन्त्र्यं न मोक्षः किंतु जीवपरचिह्णभेदस्थैर्यात् पारतन्त्र्यमेव। तथापि न दुःखम् विभुसाम्यरूपात्वात्’इति निश्चेतव्यमिति। स्वाधीनेत्यत्र स्वपदं जीवपरम्, यदि स्वतन्त्रोऽहं संसरामीति स्वात्मापहारचैर्यनिष्ठजीवस्थितिदर्शकं तत्। वस्तुस्थितिपरत्वे तु परमात्मपरम्। संसरणनाट्यं नानाजन्मलाभः। अनेन जन्मराहित्यमेव स्वरूपमिति दर्शितम्। निरूढवृत्तेः। इयमेवास्माकं पुष्कलं प्रणतत्वं तु परमपदं एवेति भावः। मित्रभावेनेति रीत्याऽपि स दयते। जीवः सुनिश्चितभगवच्छेषत्वोऽपि वासनावशात् स्वातन्त्र्यं तदातदा गृह्णाति संसार इति वेषतुल्यमेतत्। स्थाने भ्रान्तिप्रसक्तिरहिस्थले परमपदे। स्थाने युक्तमिदं यत् नटेन नाट्यातिशयदर्शनेन माननमित्यपि। स्थिरचिह्नभेदम् स्वस्य जीवानाञ्च मिथोभेदकानि चिह्नानि बहूनि, जगत्कार्यव्यापृतत्व-सर्वान्तरात्मत्वश्रीभूम्यादिपतित्व-नित्यविभूतिशेषित्वादेः जीवेष्वसंभवात्, शेषत्व-पारतन्त्र्यादेश्च परमात्मन्यभावात्। एवञ्च स्वसाम्यं भोगमात्रसान्यम्। क्रीडानटस्येति षष्ठ्यन्तपाठः प्रायिकः। क्रीडानटः इत्यपि पाठः। आद्यापाठे भगवत्क्रीडाव्यापारवशात् नटीभूतस्येत्यर्थः। पुंसो विशेषणम्। दूरान्वयः। अन्त्यपाठे क्रीडया नटीभूतः नानावतारभाक्पर उच्यते। जीवनाट्यपरिहारार्थं भगवतापि नाट्यस्वीकारः। विभुरिति नित्यविभूत्याद्यैश्वर्यं क्रीडानट इति जगद्व्यापारः, भगवानिति गुणपौष्कल्यमिति वैलक्षण्यप्रदर्शनम्। 61. संभृतः संपादितः। मध्यमोद्देशेन प्रवृत्तौ अन्यद्वयमानुषङ्गिकम्।
अभ्यमित्रीयः। अभ्यमित्रीण इति पाo। अमित्रास्मदभिमुखः। अमित्रो मोहः। अमित्रीयः कामादिः। सः अभिमुखीकृतो येन स इति वा। अपसरिष्यन् तच्छेषतया स्वस्य शत्रुशक्तिविज्ञानं प्रकाशयति अयंहीति। अमित्राभियोगार्थाकारसंपत्तिरपि राजनि ज्ञाप्यते। 61. विवित्सा वेत्तुं लब्धुं प्रतिग्रहीतुमिच्छा, तन्मुकुलनमिति वैराम्यमुक्तम्। मोहेत्यादिना शास्त्रार्थज्ञानमुक्तम्। वीक्षते इति मुमुक्षुत्वम्। भारतान्तर्गकतमोक्षधर्मभागवैधर्म्येण निष्कृष्य सर्वनिवृत्तिधर्मानुष्ठापनप्रवृत्ततया भगवन्मुखोद्गततया चाभ्यादरादाह निशमयतिचेति। गुणपरिषत् सोक्षप्रदभगवत्कल्याणगुणगणः। उपायाङ्गभूतमन्त्रतदर्था प्रकाशनं मन्त्रगोपनम्। अनेन श्लोकेन अभ्यमित्रीयराजधर्मा अपि प्रकाश्यन्ते। तत्र विवित्सामुकुलनम् अनुकीलेभ्यो भृत्यादिभ्यः सम्यग्दानम्। मोहः प्रति नृपः। अयं न सुराजेति विपरीतज्ञानध्वंसायेत्यर्थो वा। निगमो नगरम्, तत्प्रान्तान्। सर्वदेशवृत्तं चारमुखात् विचारयति। परबन्दीकृतान् परक्रान्तस्थलानि च मोक्तुमुपायान् पश्यति। तत्रतत्र जनैरुच्यमानां वार्ताञ्च यथावत् शृणोति चारगृहीतार्थयार्थ्यजिज्ञासया। तत्रतत्र स्थितान् अनुकीलान् (रामो वालिवानराणआं रावणसैन्यसाहाय्यप्रसक्तिवारणाय मार्गे सुग्रीवमिव, राक्षसेषु विभूषणमिव च) स्वीचिकीर्षति। स्वकृतं मन्त्रणं सम्यक् कगोपयति चेत्युक्तं भवति॥
62. रतिकामादीनां रात्रावेव समृद्ध्या सूर्योदये अपाय इति कृत्वा विवेकं सूर्यत्वेन वर्णयति प्रत्यगिति। उदयप्राक्क्षणे प्राच्यामुद्गताः। सूर्यदीप्तयः प्रतीचीं दिशं प्रति प्रसरन्ति। अथोदय प्राप्तिः। उदिते मण्डले तदा अधिकारुण्यस्थितिः। कञ्चित् कालं हिममध्ये स्थित्वा क्रमेण आकाशोपरि सूर्यस्याऽऽगमनमिति क्रमः। विष्णुपदं गगनम्। विवेकोऽपि विषयदोषदृष्टिरूपसुमतिं प्रत्यवछब्दवाच्यात्मविषयां करोति। उदयः अभिवृद्धिः। मितेषु अल्पेषु पुमर्थेषु यद् रागबलं तदुपन्नो न भवतीति अमितरागबलोपपन्नता। अमिते अपरिमिते ब्रह्मणि रागबलाच्च। अहंकाररूपवासनाम् अनादित्वादनुवर्तमानां सहते क्रमेण निवर्तयिष्यन्। विष्णुपदं भगवच्चरणं शरणं गच्छति। राजा च दीप्ततेजाः सूर्य इव प्रतापं स्ववैरिप्रतिकूलं वर्धयितुं लब्धाभ्युदयः स्वस्मिन् अधिकानुरक्तसैन्योपपन्नः अहंकारप्रचुरां परसेनां समये शमयितुं क्षममाणः क्रमेण, नूनमसुरहन्ता विष्णुरेवायम् इति पदं विरुदम् अपदानं भजतीति ज्ञाप्यमिह। एवं प्रवेक्ष्यत्पात्रप्रदर्शन कृतम्। पक्षद्वय-तद्बलाबलतत्साम्प्रतिकपरिस्थितिप्रदर्शनमेवं विष्कम्भेन कृतम्, अथ प्रथमाङ्कमुख्यार्थ उच्यते॥
पूर्वं रेरेदुर्विनीतेति रोषो दर्शितः। तदपक्रमणात् क्रमेण शान्तिमेष्यन् आह सविमर्शमिति। कन्दर्पस्य मन्मथस्य वटुत्वं युक्तायुक्तविचारौपयिकावस्थाराहित्यम्। परिबदति-दूषयति। मोहाख्यराजवश्यत्वादेवमाह, न तु स्वयं गर्वात् तन्न साम्प्रतमस्माभिरसहायैरित्युक्त्वा निष्क्रमणादित्याशयेनाह अथवेति। पश्यतीति श्लोकः सुभाणितनीव्यामपि। अत्र मोहस्य प्रतिनृपत्वात् तद्ग्रहणं युक्तम्। असतः अविद्यमानान्। सतः विद्यमानान्। स्वस्मिन् विपरीतम् असतो गुणान् पश्यति स्वात्मानं गुणाढ्यत्वेन मन्यते। सतश्च दोषान् न पश्यति। यदि तावत् असतः सत्त्वेन प्रदर्शनमञ्जनस्वभावः, गुणस्याप्यसतः तथा प्रदर्शनं स्यात्। यदि दोषस्य सत्त्वेन, गुणस्य चासत्त्वेन प्रदर्शनं स्वभावः, स्वस्मिन्नपि स स्वभावः स्यात्। अतोऽस्य विलक्षणो महिमेति। यदि जनसामान्ये मोहवश्यता, का कथा मोहराजभृत्यस्य मदनस्य। विरूपाः विकृताकाराः। यथादृष्टेति। सुमतित्वात् यथार्थदर्शित्वं निश्चितम्, इदानीमिदमप्यवगतमिति भावः। 64. सुमतेः सम्यग्ज्ञानस्य निर्धूतदोषत्वं संशयनाशात् विपरीतज्ञानधीनप्रवृत्तिमूलकेष्टहान्यनिष्टहानादिदोषापायाच्च। निरवधीत्यादि। मोक्षप्रापणक्षमित्यर्थः। तस्याः गुणाः, “ग्रहणं धारणञ्चैव स्मरणं प्रतिपादनम्। ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः” इत्युक्ताः। अलंकारः उत्कृष्टवस्तुविषयकत्वम्। भावः भावना तदधीनप्रवृत्तिः। रसः प्रवृत्त्यर्था इच्छा, फलानुभवोऽपि वा। कविफणितिः कविकार्यं काव्यम्। तत्र शब्ददोषार्थदोषरहितत्वं तत्तत्कव्यपेक्षितपुरुषार्थप्रदत्वं प्रसादादिगुण-उपमाद्यलंकार-ध्वन्यादिभाव-शृङ्गारादिरसवत्त्वञ्च ग्राह्यम्। सांसिद्धिकसुहृदः सहजस्निग्धस्य, सांसिद्धिकं यथातथा सुहृदः। परानुग्रहव्रतम्- भगवदनुग्रहार्थं व्रतम्।
65. आरम्भे पुरुषमोचनार्थोपक्रमे। उपक्रमे कृते भगवान् स्वयमेव यतते दयया क्रमेण सर्वलम्भनाय। वहिररातीन् सत्कार्यविरोधिनो जनान्। अन्तररातीन् कामक्रोधादीन्। समाधौ आधाय योगमग्नं कृत्वा। प्राप्तनियमः कृतव्रतः। अनेन श्लोकेन एतदङ्ककार्यो मुखसंधिरदर्शि।
नित्येत्यादिस्वभावइत्यन्तमेकं पदं यतः कृतम्, अतो नित्येत्यादीनां स्वभावपदान्वयः प्रतीयते। यद्वा स्वयंप्रकाश इत्यन्तस्य सर्वजनदर्शनयोग्यस्वभावपदेन सह कर्मधारयः। ननु आत्मस्वरूपस्य सर्वदर्शनविषयत्वाभावात् नित्यनिर्मलेत्यादिकं सर्वजनान्वयि भवतु। तदा नित्यत्वादिविशिष्टाः ये जनाः नित्याः मुक्ताश्च तैः सर्वैर्दर्शनयोग्य इत्यर्थ इति॥ नैवम्, तदापि सर्वजनेषु नित्यत्वाद्यनन्वयात्। दुष्टामानपि तद्दर्शनयोग्यत्वात् दुःखसागरनिमग्नत्वेन सह तस्याविरोधात्, प्रकृते विरोधोद्भावनाय नित्यत्वादेर्बद्धे पुरुष एव वर्णनीयत्वाच्च। पृथक्पदतयापि पाठः। तदयमर्थः- नित्यः- अविनाशी निर्मलः अपहतपाप्मा। महानन्दः वैषयिकानन्दातिशाय्यनन्दस्वरूपः। शान्तः अशनायाद्यूर्मिषट्करहितः। सर्वजनदर्शनयोग्यस्वभावः। जनेत्युपलक्षणम्। सर्वसाक्षात्काररूपपरिणामार्हधर्मभूतज्ञानविशिष्ट इत्यर्थः। सर्वेषां स्वरूपयोग्यत्तासत्त्वाद्वा। सर्वैर्मुक्तात्मभिर्द्रष्टुं शक्य इति वा, दर्शनयोग्यत्वं प्रियत्वमिति वा। तदा च सर्वानुकूल इत्यर्थः। पश्यत्विति। नित्यनिर्दोषत्वादिकं दुःखसागरनिमग्नत्वञ्च मिथोविरुद्धमेकस्मिम् कथमिति तव प्रश्नः। आद्यं वेदोक्तम्, अन्त्यं प्रत्यक्षदृष्टम्। नित्यनिर्दोषत्वं वास्तवं चेत्, द्वितीयं मिथ्येत्यद्वैतिमतं स्यात्। जगतः सत्यत्वात् अन्त्यस्वीकारे, वेदोऽप्रमाणमिति स्यात्। अत उभयं प्रामाणिकं यथा भवेत्, तथा व्रवीमीति भावः। 66. तथैवाह स्वतइति। स्वतः प्राप्तं स्वाभाविकम्। भावेषु पदार्थेषु। नियतीत्यादि। पूर्वसमापतितकारणवशादित्यर्थः। प्रकृत्या पूर्वोक्तस्वाभाविकाकारसहिततया। उपधिः उपाधिः। तत् तस्मात्, कारणात्- एवं लोके दृष्टात्वात्। उपरुन्धे-बध्नाति। गलति-पुरुषात् अपैति। वस्तूनां स्वाभाविक एवाऽऽकारः यत्किञ्चित्कारणवशात् तिरोहितो भवति। यथा मणीनां प्रसृमरप्रभाकत्वस्वभावः मलादिकृतावरणवशात् न लक्ष्यते। आवरणे अपनीते स्वभावः स्फुटो भवति- तद्वत् जीवस्य कारणान्तरोपनिपाताभावे दोषप्रसक्तिरहितस्य सर्वदेशव्यापनार्हधर्मभूतज्ञानवत एव अनाद्यविद्यापरपर्यायपुण्यपापरूपकर्मवशात् तत्स्वभावतिरोधानम्। तच्च कर्ममलमपनीयते चेत्, अथ यथावत् स्यादिति भावः। `निर्दोषस्वभावे जीवे दोषाणामप्रसक्त्या आरोपिता एव दोषाः, न तु वास्तवाः। यथा स्फटिकसमीपे जपाकुसुमे सति स्फटिके लौहित्यप्रतीतिः, तत्र जपाकुसुमप्रभायां विततायामेव लौहित्यम्, न तु वस्तुतः सन्ति’इति केचित् संसारित्वमुपपादयन्ति। तदिदं सांख्याद्वैत्यादिमतं न युक्तम्। अविद्यमानवोषप्रतीतिरूपो दोषः कस्य। जीवस्य वा अन्तःकरणस्य वा। आद्ये निर्दोषस्व्भावे स दोषः कथम्। अविशेषात् सर्वमिष्टप्रायम्। अन्त्ये मुक्त्यर्थप्रयत्नोपि न कार्यः। सति हि दोषे मोचनार्था प्रवृत्तिः। अतः अस्वाभाविककारणान्तरवशात् वस्तुत एव जातो दोषो निवर्त्यते। यथा शुद्धस्यापि देहस्य यदृच्छया दुराहारसमापतितमनारोग्यमौषधेनापनीयते, अथ स्वास्थ्यं स्वस्वरूपे स्थितिर्देहस्य, तथा जीवस्य मुक्तकाले स्वस्थतेति अस्मत्सिद्धान्तपरमार्थः।
67. भगवतो देवीद्वयं लीला दया च। त्रिवर्गप्रवर्तकत्वापवर्गप्रवर्तकत्वरूपाकारभेदात् मिथः कलहः। प्रभोश्च दक्षिणनायकत्वात् लीलादयाभ्यां स्वस्य परिगृह्यमाणत्वे कौतुकादुभयपरवशः व्याजलाभपर्यन्तं लीलानुकूलस्सन् स्वेनैव लक्षितं दृष्टं प्रदर्शितं संपादितं यत् अज्ञातसुकृतादि, तत्र निविष्टान् तद्व्याजेन पाति। स व्याजो घुणक्षतलिपिवत् जायते। यथा कश्चिद्घुणः दार्वाघाटः पत्राघाटो वा दारु पत्रं वा क्षिणोति। तत्र रेखा जायमाना घुणस्याभिसन्ध्यभावेपि यदृच्छया अक्षरवद्भवति। तद्वदस्मदप्रतीक्षितमेव सुकृतमस्माभिर्लभ्यत इति। तद्व्याजव्याजेन लीलां विहाय दयामनुरुन्धे।
68. नन्वज्ञातसुकृतादिकमेव कुतस्तेन प्राङ्नोत्पादितमित्यात्राह सुखेति। नास्माभिः कर्मगतिरन्यथाकर्तुं पार्यते। व्यत्ययः द्वयोरनुभाव्ययोर्मिथः कालपरिवर्तनम्। विनिमयः स्वं कर्मान्यस्मै दत्वा तत्कर्मस्वीकारः। निवर्तनं फलदानात् वारणम्। इदं सर्वमशक्यम्। तस्मादेतावत्कालनन्तरं तद्भवनमेव कर्मक्रमायत्तमिति भावः। स्वयं प्राप्ताल्लीलारसं भवन्तमनुभवेत्, न तु स्वयं लीलारसानुभवायान्यथाकुर्यात्। तथासति वैषम्यदोषापतेः। तस्य निर्दोषत्वात्॥ सुमतिराह अज्ञातसुकृतादौ जाते हि स रक्षेत्, अनादिकाले एतावदनुत्पन्नस्य कथमितः परमुत्पत्तिः। यदृच्छासुकृतभक्तिप्रवतीनामपूर्वतयोत्पत्तिर्दुर्वचा। यत् यत् कार्यं तत् सर्वं स्वपूर्वकालोत्पन्नस्वसजातीयकमिति कार्याणां प्रवाहानादित्वात्। वर्षातपादिष्वेवं दर्शनात्। धाता यथापूर्वमकल्पयदिति हि श्रुतिः। अथ यदि प्रागमि कदाचित् भक्तिपर्यन्तानामुत्पन्नता, तर्हि ततो न कुतो मोक्षः। अतस्तेषामकारणत्वमेव। अतोऽपूर्वत्वेऽनुत्तरत्वमपीति पूर्वपक्षिभावः। अनधिगतेति। भक्तिप्रपत्तिपर्यन्तानां प्रागनुत्पन्नानामुत्पत्तौ प्रमाणतोवगम्यमानायां तद्विरोध्यनुमानं दुस्स्थमिति भावः। एवं शंकमानयास्ते मतिवैकल्यरूपदोषं नाहं मन्ये, किं तु विषयगहनत्वमेव, ईदृशार्थमीमांसनस्य महद्भिरपि क्रियमाणत्वादिति तत्प्रशंसनायाह अथवेति।
69. श्वेताश्वतरोपनिषदि`ब्रह्मवादिनो वदन्ति, किं कारणं ब्रह्म’ इत्युपक्रम्य, कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति बहुपक्षोपन्यासस्य ब्रह्मविद्भिरेवोद्भाव्यमानत्रया वर्णनात् तवापि ईदृशविषये शंकनं स्थैर्यसंपत्तये युक्तमिति भावः। विस्तरस्तत्रास्मदुपस्कारे। कालादिवस्तुमध्ये किं वा, `कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठा’इति जगदुत्पतिस्थितिलयविषये कारणं ब्रह्म स्यादिति श्लोकार्थः।
70. न केवलं प्रमाणविरोधादेव त्वदुक्तानुमानभङ्गः। वेदप्रमाणादररहितैः प्रत्यक्षानुमात्रस्वीकारिभिर्वौद्धादिभिरपि अपूर्वोपायबलाज्जीवानां मुक्तेरिष्टतया प्रागनुत्पन्नानामेव भक्त्यादीनामुत्पतेरंगीकार्यत्वात्। पूर्वोत्पन्नसजातीयस्यैवोत्पत्तिरित्यनुमानमयुक्तञ्च। शतवर्षजीविनः शततमे वर्षे तत्प्रागलब्धापूवभोगलाभात् अदृष्टाश्रुताद्भुतपदार्थोत्पतेरनेकधादर्शनाच्च। जायमानं सर्वं पूर्वविजातीयमेव भवतीति नियमो न प्रामाणिक इति तु युक्तम्, न तु सजातीयमेव भवतीति। कर्मवैचित्र्यात् प्रायो मिथो वैजात्यस्यैव लोके दर्शनाच्च। किञ्च भक्तिप्रपतिरूपोपायोत्पत्तिरपि प्रागासीदेव पुरुषान्तरेषु। एतत्पुरुषेपि पूर्वमुत्पन्नत्वे सत्येव इदानीमप्युत्पत्तिर्युक्तेति निबन्धनं तु निर्मूलमिति भावेनाह कर्मेति। आदिना वासनारुचिप्रकृतिसंबन्धानां ग्रहणम्। विपक्तिः विपाकः। सर्वेति। चार्वाकेतर सर्वेत्यर्थः। अनाद्यात्मवादिसर्वेति यावत्। एवं मुक्त्यादिवादिनानामतसत्त्वेऽपि मुक्तिर्वक्ष्यमाणरीत्यैवति तदुचितमेव मतं ग्राह्यमधिगत प्रमाणतर्कसरणिभिरित्याशयेनेदं विविच्याह तदिति। तया विपक्त्या लब्धः स्वावकाशः यया तया प्रथमगुरोर्भगवतः कृपया पूर्वोक्तदेव्या विषयीक्रियमाणो यो भवति, स निधिं लभते। यथा बहवो गर्भदरिद्राः अकाण्डे संपदं निधिं लभ्यते, तद्वते्।इत्थं पूर्वोक्तप्रकारेण। विपश्चित् तत्त्वविज्ञानोपायभूतज्ञान-पूर्णज्ञानविकासशाली संपन्निधिर्भवितेति। प्रवाह इत्यनेन कूलप्राप्तिवत् अपूर्वलाभौचित्यमदर्शि।
मुक्तैश्वर्यप्राप्तये पुरुषस्यापेक्षितां दशां दर्शयति स चेति। 71. लालप्यत इत्यत्रैतदन्वयः मत्समक्षमिति। विवेकस्य प्रादुर्भूतत्वादित्यर्थः। लालप्यते भृशं लपतिः, रावणादितिरस्कारेण रामप्राप्तिवार्तामिव मोक्षव्यवहारमेव करोति। श्रीमद्रामायणस्याध्यात्मार्थप्रतिपादकत्वसंप्रदायमनुसृत्यायं श्लोकः। स्मर्यते च- “दशेन्द्रियाननं घोरं यो मनोरजनीचरम्। विवेकशरजालेन शमं नयति योगिनाम्"इति। रामः शरैर्दशाननं रावणं जघानेत्यनेन, भगवान् विवेकोत्पादनेन दशेन्द्रियाक्रान्तं योगिमनः शमयतीत्यर्थो ग्राह्य इत्येतावत् इतो विदितम्। तत्र रावणेन सीतायाः लंकायां निरोधनस्य मनः क्रियमाणजीवपीडनतुल्यत्वावगमात् सीतायाः जीवत्वं वियुक्तसीतासंयोजकस्य हनुमतः आचार्यत्वञ्च औचित्यात् परिकल्प्य अध्यात्मार्थपोषणं संप्रदाये कृतम्। तदिदं सर्वमिह स्पष्टम्। इन्द्रियाण्येव दश आननानि। मन ए नक्तञ्चरो रावणः। तन्मनो देहे इत्यर्थः। अप्राकृतो हि भवादुत्तरणे सत्येव। तत्र मनोराक्षसस्य नावकाशः। अद्यत्वे एतस्मिन् सुकृतविपक्तिलब्धे जन्मनि। प्रख्यापितार्थः अनन्यमनस्करक्षापेक्षिरक्षणोन्मुखः स इति विशदज्ञापितपरमार्थः। यस्मै अर्थः पुरुषार्थः प्रख्यापितः, सः। तथा यस्यार्थपरिस्थित्यादिः रामतुल्याय भगवते निवेदितः स इत्यर्थस्यापि स्वीकारे न्यस्तभरत्वमप्युक्तं भवेत्। विदेहराजतनयान्यायेन जानकीवत्।
72. रावणाननैर्दशभिः सीतायाः बाध्यमानत्वं रामायणे न विशदम्। तथा स्वोपजीवित्वादिन्द्रियाणां स्वबाधकत्वं कथमिति शंका च भवति। ईदृशविवेकेऽप्यपशात् परिभूयत इति च वक्तव्यम्। अतो लौकिकदुष्टराजदृष्टान्तनेन तदुपजीविदुर्मन्त्रितुल्यत्वमिन्द्रियेष्वाह बहुलेति। बहुलदुरितद्वारे नवद्वारे देहे दुरितप्रवशः सुलभः। ब्राह्मे परब्रह्मान्तर्यामिके पुरे देहे। यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेति श्रुतिः। परित्यादि जीवात्म-नरपत्युभयसाधारणम्। जीवात्मनः परमात्मसंमतं रवातन्त्त्र्यं कर्तव्यकार्यविषयज्ञानतदिछाप्रयत्नरूपम्। स्वमत्या घटितं मेलितं तु अनन्याधीनत्वम्। ततः अयन्त्रितम् अनिवार्यं सर्वं चेष्टितं व्यापारः। नरपतेरपि, नश्यत्वयमेवमिति पररैभिमतं स्वमत्या धनमदादिना घटितं स्वातन्त्र्यम्। स्वे स्वे कार्ये। एकैकोऽपि मन्त्री विषमत्वात् स्वकार्यसाधनाय तमाकर्षति। तथेन्द्रियमपि तत्तत् स्वस्वविषयदर्शनश्रवणस्पर्शनादौ जीवम्। विगृह्य-स्पर्धया। एकेन्द्रियकार्यकाले अन्येन्द्रियकार्यायोगात् विग्रहः- विरोधः उक्तः।
एव्वमिति। पुरुषोऽप्रमत्तो भूत्वा निर्गन्तुं कुतो निच्छतीत्यर्थः। देहात्माभिमानस्यानादित्वात् देहातिरिक्तात्मज्ञानदाढर्याभावात् देहेऽत्यन्तानुरक्तः निर्मलमणिभितिर्यथा चित्रं स्वगतमपृथक्सिद्ध्या वहति, तथा देहमादरेण वहति, तत् कथं निर्गन्तुमिच्छेदित्याह अनादिरिति 73. स्थिरेति। यादवाभ्युदये प्रथमसर्गे`क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम्। एको विश्वमिदं चित्रं विभुः श्रीमान् अजीजनत्’इत्युक्तम्, तत्र सप्तदशे (104), `जातिवर्णरचनाविचित्रितं विश्वचित्रमुदमीलयद् भवान्। आत्मभित्तिनियतस्थिराश्रयः तूलिकां त्रिगुणलक्षणं वहन्’इत्युक्तञ्चात्रानुसंधेयम्। तत्राऽऽद्ये क्रीडा तूलिकात्वेनोक्ता। द्वितीये त्रिगुणस्य प्रधानस्य तूलिकात्वं ज्ञायते। प्रकृतश्लोकेऽपि। तत्र स्वस्मिन् इति निर्दिष्टमेव आत्मभित्तिशब्देनोपात्तम्। अत्र तु जीवात्मा भित्तिः कृता। तत्र जीवात्मनामपि शरीरकोटिनिवेशनेन परस्वरूपस्य भित्तित्वमिष्टमुपादानस्य। अत्र तु जीवस्य जङ्गमस्थावरनानादेहभाक्त्वनिरूपणानुरोधात् भित्तित्वरूपणम्। सर्वत्र क्रीडैव तूलिका चित्रलेखिनी। त्रिगुणं तु तद्गृहीतं रञ्जकद्रव्यम्। तूलिकायास्तद्युक्तत्वात् त्रिगुणतूलिकेति निर्देश इति भाव्यम्। यद्यच्चित्रं भित्तौ क्रियते, तत्तत् भित्तिर्यथा वहति, न तु तदपनेतुमिच्छति, तथाऽयं जीवः। प्रत्युत सुमृष्टभित्तिवत् स्फुटधारणात् वहने वाञ्छाऽप्यस्तीति वक्तव्यमिति। अत्र चित्रं शरीरम्। चितो जीवस्य त्रं रक्षकमिति च चित्त्रता। तत् यथाकर्म कदाचित् स्थिरं स्थावरम्, कदाचित् त्रसं जङ्गमम्। तस्योदयः उत्पत्तिरभिवृद्धिश्च दृश्यः शोभनः त्रिविधरागबलात्। पुत्रैषणा, वितैषणा, लोकैषणेति रागत्कयम्, धर्मर्थकामभेदेन वा। ऐश्वर्यकैवल्यमोक्षभेदेनेत्यपि सुवचम् मुक्त्यर्थगृहीतशरीरेपि प्रायो देहात्माभिमानरस्य तद्वहनरुचेश्च सत्त्वात्। त्रियुग्मगुणः षड्गुणः परमात्मा। स एव शिल्पी। अयं शिल्पी ज्ञानशक्तिवलैश्वर्यवीर्यतेजोविशिष्टः षड्विधभावविकारापन्नवस्तुशिल्पनसमर्थश्च। त्रिगुणं सत्त्विरजस्तमोविशिष्टं प्रकृतिद्रव्यम्, तद्युक्ततूलिका क्रीडारूपा। एतद्गुणत्रयवशादेव चित्रस्य त्रिविधरागवत्त्वमिव लोहितशुक्लकृष्णरूपभॄतकार्यत्वात् देहस्य त्रिरूपता। विविच्यविनिवेशितम् यदा यदा यत् यत् युक्तम्, तदातदा तत् तत् शिल्पिना निवेश्यते। तथा च शिल्पिनोऽतिनुपुणत्वात् स्वस्य च भित्तिभूतस्यातिस्वच्छत्वात् रञ्जकद्रव्यस्य च त्रिगुणस्यात्यन्तदर्शनीयत्वात् नवनवत्वाच्च ततो निर्गमनं दुष्करमिति भावः।
दुर्वृत्तपतिप्रतिबोधनं पतिव्रताकृत्यमिति सुमतिर्मन्वाना पृच्छति इदीनति। 74. कर्मिपुरुषाधीनत्वात् धर्मभूतज्ञानरूपबुद्धिरतिसंकुचिता किं कुर्यादित्याह विवेकः। निभृता प्रसरणरहिता। म्लानाकारा विषयग्रहणवेलायामेव प्रकाशमानत्वात् तदभावादप्रकाशा। मायायोगात् प्रकृतिसंबन्धात्। मलिनितरुचौ तिरोहितसत्यकामत्वसत्यसंकल्पत्वगुणे सति। तुल्यशीला संकल्पानुभवादिपरिणामाक्षमा। रवेर्दूरगतत्ववत् आत्मनो बुद्धिं विहाय गतत्वं कथमिति चेत्-स्वयं बुद्ध्यविषयत्वादेव। एतत्क्लेशपरिहाराय द्वितीयो दृष्टान्तः।
विशंकां विगतसंदेहां विगतभयाञ्च। (75.) दुरिति। कर्मणामनादित्वात् पूर्णोपरमायोगात् परिपाकस्य स्थैर्यं दुष्परिहरम्। भविनः प्रमाथी संसारिजींवहिंसकः। प्रभवति प्रकर्षेण भवति। स्वतन्त्रस्येच्छारूपा शक्तिः लीलाघटिता संसारे पातनाय क्षमते। सैव दयाघटिता तस्मादुत्तार्य रमते। लीला सोपाधिका, दया निरूपाधिका। उपधिमास्थाय व्याजं परिगृह्य। आधायेति पाठे व्याजस्यापि तदधीनत्वं ज्ञाष्यम्। कोऽसौ व्याज इति पृच्छति सुमतिः। उपधिरेव कथं भवतीत्याशयः। तस्य जायमानकटाक्षमूलकत्वमादावाह, अथ विवरिष्यति। 76. मदनमत्सगौ रागद्वेषौ। मानः अहंकारः। मयटा प्राचुर्यवाचिना अज्ञातसुकृतादिस्वल्पशुभांशसद्भावः सूच्यते। अन्यथा जायमानकटाक्षायोगात्। पिशाचेत्यनेनास्वाभाविकत्वं दर्शितम्। नराः पुरुषः। नरेन्द्रः पुरुषोत्तमः। तस्य निगमसिद्धत्वं शास्त्रयोगनित्वात्। निगमे नगरे सिद्धः प्रसिद्धः सिद्धिभाक् च नरेन्द्रः वैद्यः पिशाचोच्चाटकः। निपुणपद्धतिं प्रतिबुद्धानां मार्गं स्वस्थमनस्कताञ्च। 77. वृष्टेः सुधात्वममरत्वसंपादकत्वात्। जीवस्याचार्यकटाक्षरूपामृतसिक्तत्वे सिद्धे, निर्मलज्ञानशमदमानुष्ठानादयः। पूर्वश्लोके आचार्यप्राप्तिप्राक्तनांशकथनम्। अत्रोपायानुष्ठानप्राक्तनांशकथनम्॥ अथोपायसिद्धिमाह स्वाधीनेति। 78. पुरुषस्य ऐहिकफल इव वासनयैव स्वर्गलोकवासः स वस्तुगत्या पुरुषः तत्र स्थितानां वयमवशात् अस्वाधीनतया (स्वाधीनेतरतया) पतिष्यामः इति भीतेरावश्यकत्वात्। अत ईदृशवासार्थपाशाकर्षणं यत्, तद्विषययन्त्रणाभिः मुहुस्तन्निवर्तनव्यापारैः यः तदर्थकर्माणि विहाय किंकर्तव्यतामूढो विक्षिप्तमना भवति, तस्य दयानिधौ भगवति प्राप्यत्वबुद्ध्यधीनप्रेम जायते। ततो भक्तियोगः संपत्स्यत इति।
भक्तियोगनिष्ठानां सर्वेषां साधारणं कार्यमात्मस्वरूपसमर्पणमितीदं तस्य यागत्वरूपणेनाह अत्रचान्तरेति। अन्तरा मध्ये। 79. आत्मस्वरूपसमर्पणस्य देहात्मविवेक-आत्मपरमात्मविवेककार्यत्वात्प विवेको यष्टा। फलान्तरे दोषदृष्टिरूपा सुमति- पत्नी। शमदमादीनां प्रातिकूल्यवर्जनादिरूपतयाऽपेक्षितानाम् अध्वर्य्वादिऋत्विग्भावः। अकस्मात् कारणं विना फलमनुद्दिश्य। (अनेन फलसमर्पणमपि कर्तव्यं दर्शितम्) एतदात्मसमर्पणगर्भे भक्तियोगे निष्पन्ने प्रारब्धकर्मानुभवेऽवसिते, सञ्चितकर्मनिवृत्त्या मुक्तिस्थानं प्राप्नोति। 80. एकमेकं व्याजमुक्त्वा व्याजान्तरं प्रपत्तिमहा इदमपीति। “मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम्। अकिञ्चने भरन्यासस्त्वदिकोऽङ्गितया स्थितः।“इति विशेषमाह स्वरक्षणभरार्पणोति। वेदोक्तमन्यत् सत्रं सहस्रसंवत्सरादिपर्यन्ताधिककालव्यापि। इदं तु धानुष्ककार्यशरप्रेरणवत् क्षणिकम्। एवं प्रपन्नस्य क्षेत्रिणः `एषा सा वैदिकी निष्ठा ह्यपायापायमध्यमा’इत्युक्ता स्थितिः उपायकर्मनिषिद्वकर्मत्यागेन कैंकर्यरूपनित्यनैमित्तिककर्मानुष्ठानमात्ररूपा भगवदिष्टा। सर्वसंहारसमर्थस्येदं सर्वपापविमोक्षणं कियन्मात्रमित्याशयेनाह जगदिति। दुरितं प्रारब्धविशिष्टसञ्चितरूपम्। इयती कृपा लक्ष्म्यायत्ता।
झटिति न भवतीत्येतावता नाविस्रम्भः कार्यः। कदाचिदवश्यं भविष्यतीत्येतावताऽपि संतोष्टव्यम्। झाटित्यापेक्षिणां तदुचितोपायपरिशीलनमस्तु इत्याशयेनाह राजा देवीति। यथागमम्। `एतमितः प्रेत्याभिसंभवितास्मि इति यस्य स्यादद्धा, न विचिकित्साऽस्ति’इत्यादिश्रुतिप्रामण्यात्। यथान्यायम्- आश्रितानामखिलप्रतिबन्धकनिवर्तनेनैहिकमपीष्टं ददत् भक्तच्छन्दानुवर्तीं महाकारुणिकः कथं क्रन्दन्तमुपेक्षेतेत्यादियुक्त्तया च। इह हि दोषभूयिष्ठस्थलेऽपि स्वानुभवं पोषयन् समये मुक्तिं दिशात्विति प्रवृतौ हि। प्रीतिरूपश्रवणमननोपासन-निरन्तरध्यान-दर्शनसमानाकारज्ञान-तदनुवृत्तिरूपपर्वक्रमविषयककरुणाक्रमदर्शनेन करुणायाः अधिरोहिणी(निःश्रेणि)त्वोक्तिः। समिन्धते `अनश्नन्नन्योऽभिचाकशीति’ इत्युक्तभगवद्दशामाप्नुवन्ति। तद्विप्रास इति पदेन बद्धपुरुषविषयत्वप्रतीतेः॥ लीलादेव्याः पुरुतः करुणायाः कियद्बलमित्यत्राह स्वयमिति। भगवतो लीलापारवश्यमौपाधिकम्। स्वाभाविककरुणापारवश्येन तदुपशमोऽवश्यम्भावीति भावः। इदानीम्- आर्तप्रपन्नविषये सद्यः। अन्यदा-भक्तविषये अनुभाव्यप्रारब्धावसाने।
83. निश्श्रेणित्वेनोक्तां करुणामारोहणश्रमशंकापनोदाय राजपथत्वेन वर्णयति अविरलेति। गुणाः सौलभ्यसौशील्यादयः अविरला सान्द्रा छाया। मायाभूतं तमोद्रव्यमेवान्धकारः, तद्वारणी। रजोगुणमूलकं पापमेव धूल्यधीनः कर्दमः तद्रहिता। आध्यात्मिकादयस्त्रयः तापा एव सौर्यभौभाग्नेया स्तापाः तद्विहीना। दयामूर्तिः वर्तनी-दयारूपसरणिः। कण्
टकाः क्षुद्रशत्रवः सूच्यग्राणि च। निगमः ब्रह्मपुरं चरमं शरीरम्। वहति याति। तदार्म्भ वैकुण्ठनागरप्र्यन्तव्याप्ता। वहति मुमुक्षुं नयतीति वा। अपराजितामिति प्राप्यस्थलस्याक्षयत्वानुपद्रवत्वाद्युक्तिः।
उक्तावत्यन्तमाधुर्यात् अनुष्ठानेऽत्यन्तकटुत्वाच्च किमिदमुपच्छन्दनमिति पृच्छति सुमतिः। मया श्रुत्यर्थस्यैव कथनात् तस्य चाबाधितत्वान्नैवं वक्तव्यमित्याह राजा। स्वार्जितसत्कर्महानिं प्रियाहानिञ्च कोऽपि न सहेत। अन्यथात्वे तदुभयपीडितः स्यामिति शपथकरणेन विश्वासमुत्पादयति।
84. दैष्टिक्येन दिष्टं भाग्यं तदस्तीति वादी दैष्टिकाः, तस्य कर्म दैष्टक्यम्। सर्वं शुभकर्म। आर्त्विज्यमितिवत्। प्रामाणिकार्थबाधचिन्ताऽपि प्रत्यक्षे जाते नानुवर्तते। अतः प्रत्यक्षं भाव्याह त्वयेति। अद्य किं न दृश्यत इत्यत्राह स्वपनेति। स्वापे कथं दर्शनमिति भावः। कथमद्य स्वाप इत्यत्राहोन्मीलितेति। धीरुपा दृक् इदानीं निमीलनवती। भगवत्संकल्पशक्तेः तीव्रमुमुक्षासापेक्षत्वात् इदानीं तददर्शनम्। नीव्रता च जीवे आक्रान्दवति सत्येव। आक्रन्दश्च तनुभृतः ग्राहगृहीतोऽहमिति भये सत्येव। अहंकारो देहात्मधीः नक्र इति बुद्धिः परीक्षकाणामेव भवति। यो ह्यनिच्छन् द्रष्टम्, अक्षि च निमीलयन् ब्रूयात्, नास्ति वस्तु मया तददर्शनादिति, तस्यैवेदं सुमतिवचनमिति भावः। संरम्भ इत्यत्र संरम्भ्य इति पाठः स्यात्। संरम्भयतीति णिजन्तात् कर्मप्रत्ययः। मुमुक्षया तीव्रया संरभवत्तया कर्तव्यः संकल्पमहिमेत्यर्थः। लौकिकसदीश्वरादावपि दृष्टं सुजनसार्वभौमे निश्शङ्कमवतरति। तत् कथमवित्रम्भः। तदिदमूहनं प्रत्यक्षतुल्यं निर्बाधमिति भावेनाह अथवेति। साधारण इति। प्रपत्तिकर्मभूतेन सर्वेण रक्षणं कार्यम्। प्रपन्नः सर्वोऽपि रक्ष्यः। तत्रापवादो नास्तीति भावः। दीन इति। 85. दीनो वा दृप्तो वा भवतु, अपरधी वा अनपराधी वा भवतु, रक्ष्य एवेत्यर्थः। दीनः आर्तः। दृप्तः ईषद्विंलम्बेन फलं प्रेप्सुः। अपराध्यतु परं घोरापराधी भवतु। व्यावर्ततां वा ततः। अपराधिव्यावृत्तः अनपराधी। एवं शास्त्रसिद्धमर्थमनुष्ठानपारम्पर्येणावश्यानुष्ठेयं दर्शयति सद्भिरिति। स्थाप्यते इत्यन्तेन वाक्यं समाप्य विश्वामित्रेत्यादि पृथग्वाक्यं वा सद्भिरित्यादि घण्टापथ इत्यन्तमेकमेव वाक्यं वा। विश्वामित्रादिसदाचारसिद्धं तथात्वमस्य पथः। तत्तदुदाहरणश्शेफादिरक्षक इति रामायणे बालकाण्डे। कपोतवृत्तं युद्धकाण्डे युद्धकाण्डे राघवोक्तं (भारते) विस्तरेण (इ.स.)। राघवः रामो रक्षक इति काकविभीषणादिवृत्ते। रघुर्ब्राह्मणं रक्षन् राक्षसं प्रत्याह स्म, `शरणागतहन्तॄणां शुद्धिः कापि न विद्यते (इति. समु.41.)इति।’ व्योमाध्वगप्रेयस्यः देवपत्न्यः। ताभिस्त्वष्टा रक्षितः। तथा च श्रुतिः (तै.सं.6-5-8) “देवा वै त्वष्टारमजिघांसन्। स पत्नीः प्रापद्यत। तं न प्रतिप्रायिच्छन्। तस्मात्, अपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति"इति। नालीडजङ्घो नाम बको गौतमब्राह्मणरक्षक इति भारते (शा.167)। (सुभा-नी-1-10)। (भा.उ.12) बृहस्पतिः शचीमिन्द्रपदारूढनहुषदुराक्रमणात् ररक्षः। प्रभृतिशब्देन शिबिवानरादिग्रहणम्। तत्र श्येनकपोतीयोपाख्यानादिकमनुसंधेयम्। वानरवृत्तम् अभियप्रदानसारे `कपोतो वानश्रेष्ठ’ इत्यत्रैतदाचार्यवेदितम्। शकनत इति प्रयोगात् यथाशक्तिरक्षणं कार्यम्। सर्वथाप्यशक्तौ तु न दोष इति।
जगत्कारणं पुराणपुरुष एव श्रीमान् मोक्षप्रदः इत्यस्मिन् सुनिष्पन्नेऽपि विषये लोकजाड्यं फलप्राप्तिभाग्याभावनिबन्धनामित्याह पुरेति 86.। अत्र आवेध इत्याकारप्रश्लोषोऽनपेक्षितः। पुरा सूत इत्यन्वये कालसंकोचनं स्यात्। स्थितिमतीत्यस्य स्थितिकर्तरीत्यर्थवर्णनं सृष्टेरित्यस्य वर्गस्येत्यर्थवर्णनमित्यादि क्लिष्टम्। सृष्टेरिति पञ्चमी पुरेत्यत्रान्वेति। वेधस्स्तम्बौ आद्यन्तौ पूर्वोत्तरावधी येषां तेषां जीवानां कसर्जनात् पूर्वं स्थितिमति-स्वयं स्थिते इत्यर्थः। अनेन “पूर्वोऽस्मित् सर्वस्मात् सर्वान् पाप्मन औषत्"इति श्रुत-सर्वपूर्वत्वपाप्मदाहकत्वरूपार्थपरत्वं पुरुषसूक्तवेद्यस्य श्रीपतेर्दर्शितम्। तादृशपरमपुरुषविषयकानन्यभक्तिः पाप्मदाहरूपविपदुपरतिहेतुः। ईदृशमुक्त्यभिलाषे सति तदर्थं तत्सृष्टास्थिरसुरार्चनं निष्फलम्। अन्यत्वाविशेषात् तद्गमान्तर्गत एको वा गणो वा न कार्यकरः। न हि पिपासाशमनं हिमेन भवति। शीतसलिलोत्पन्नस्यापि हिमस्य यथा नोदन्याशामकत्वम्, तथा तदुत्पन्नानां प्रजानां सर्वासाम्, स्वयं तप्तत्वादल्पत्वाच्चेत्यर्थः। श्रीपत्यतिरिक्तमर्चतो जडस्य उदन्याशमनार्थप्रालेयपानवाञ्छिपुरुषैक्यकथनमुभयोः साम्यधिया। उदाहरणान्तरेण विशदयति नखल्विति। आलोख्यं चित्रपटः। 87. चित्रलिखितसूर्यतुल्या भवन्ति देवगणाः तत्संकल्पाश्च। नरकासुरनाशकश्रीशसंकल्पसूर्य एवाज्ञानान्धकारनिवर्तक इति। विभवेनेति। संकल्पसूर्योदय इत्यत्र उदयशब्दस्याभ्युदयार्थकत्वे उभयस्य पर्यायता। जगत्कारणं पुरुषो मोक्षप्रद इत्यस्तु। तादृशः पुरुषः शिवादिर्न किमिति शंकते सुमतिः। डोलायते डोलेवाऽऽचरति-कोटिद्वयं गाहते। निष्ठा-नितरां स्थितिः नारायणेनियम्यते-नारायणेतरस्माद्व्यावर्त्यते। यथायथं कस्यचिन्नारायणे, अन्यस्यान्यत्रेत्यनन्यभक्तिता स्यादिति भावः। वेदविप्रकेशवानाम्।“वेदो विप्रः केशवश्चैकराशिः” इति हि स्मर्यते। एकमितिरूपकार्यानुप्रवेशादैकरश्यम्। तदाह मेयमिति। 88. मेयं मानमिति सामान्ये नपुंसकम्। मातृत्वस्य चैतनैकान्तत्वात् तत्र न तत्प्रसक्तिः। सत्त्वनिष्ठा इति। विप्रशब्दार्थश्च दर्शितः, `विष्णुं क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी’इति। एतन्निर्णयहेतुसत्त्वनिष्ठाविरहे विप्रत्वं न, नतरां वैपरीत्यवादे। ईदृशनिर्धारणौपयिकनैपुण्याभावे ब्रह्मणैः किं कार्यमित्यत्राह शास्त्राणीति 89। असमर्थैर्महर्षिनिर्णयमनुसृत्य निर्णयवद्भिरेव भाव्यमिति भावः। `सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते’ इति स हो वाच व्यासः पाराशर्यः। सर्वोपनिषदादिवेदमात्रालोडनेऽपीदमेव सत्यम्। एतन्मत-परमतयुक्तिबलाबलविचारेऽपीदमेव सत्यम्। इतिहासपुराणादि स्मृतिगतिसमीक्षणेऽपीदमेव सत्यम्। सर्ववेदसर्वदेवसततप्रत्यक्षपरिचयबृंहितस्वानुभवदर्शने चेदमेव समक्षमुद्धृत्य भुजं मया वक्तव्यं भवति इत्युपदिशतः वेदवादिनः व्यस्तवेदात् पाराशर्यादप्यन्यः को भविष्यति मीमांसकः। तत् स एव महाजनः। श्रुतिमूलकस्यापि तत्त्वस्य `मुनीनामप्यहं व्यासः’इति मननसामर्थ्यमानितमहाजनपरित्यक्तरीत्या निर्णयो न युक्त इति वदन् उदाहृतं वचनं विवृणोति तर्क इति 90.। नात्र वेदार्थनिर्णयाङ्गतर्कदूषणम्। किंतु स्वतन्त्रस्य तर्कस्य। त्रय्याऽपि अमीमांसितया मनसो व्याकुलत्वं प्रकर्षेण भवति। बादर्यौडुलोम्यादिमुनिवचनानि त्याज्यानि भवन्ति। तत्त्वनिश्चयः सिद्धसाध्यरूपधर्मद्वयतत्त्वनिर्णयः। महाजनस्य प्रत्यक्षितपरावरस्याप्रकम्प्यमननशक्तेः पन्थानं निर्णयं प्रत्यञ्चं परप्रतिक्षेपसमर्थं प्राच्यस्थाने लब्धोदयम् ऋजुपुरःप्रसरम्। प्राच्योदयभाजो हि सूर्यकिरणाः प्रतीच्यां प्रसरन्तः ऋजवः प्रत्यञ्चो भवन्ति, न तिर्यञ्च। तथा प्राचीनस्थानप्राप्तो निर्णयः प्रत्यगात्मविषयो भवन् प्रत्यङ् भवतीति बोध्यम्। अध्यञ्चति अधिगच्छति। 91. अपजन्मेति। `स दिशतु भगवान् अशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम्’ इति तत्पुराणान्ते। परदैवतपारमार्थ्यं श्रीनारायणस्यैव परमपुरुषार्थत्वम्। विचारितञ्च तत्र (वि.पु. 2-14) कः परमार्थ इति। देवतापारमार्थ्यञ्चेति च तत्रैव। देवतातिरिक्तस्याचेतनस्य चेतनसामान्यस्य वा न परमपुरुषार्थता, नाप्यदेवताभूतस्य निर्गुणत्वेन कल्पितस्य। नः श्रीपतिरेव मुक्तिप्रद इति वदतोऽस्मान्। शक्ततमः उपनिषन्मात्रतो निर्णयेत्। स्मृतिसापेक्षः मन्वादिस्मृतिसहकारेण। अशक्ततमः महनीयकृतोपदेशमात्रेणेति भावः।
अनुत्तरम् न विद्यते एतस्मादुत्तरं श्रेयः उपर्याक्षेपश्च तत्। अप्रतिक्षेप्यमिति यावत्। अनन्तेति। अनन्तैः साधनैर्युक्त्यादिभिर्यत् निगमान्तानां निरूपणं निर्णयव्यापारः तेन विलम्बमित्यर्थः। महाजनपथं प्रागुक्तं निष्कृष्य ब्रूहीति यावत्। बुभुक्षुमुमुक्षुसाधारण्येनाह स्वेति 92.। फलान्तरार्थिभिरष्येकान्तितया वर्तनं युक्तम्, तदतिरिक्तदेवातासंकल्पार्थव्यापारः स्वरूपानुचित इति। तद्विहायान्यार्चनेऽप्यन्ततोऽस्यैवाराध्यत्वफलप्रदत्वे, अन्तर्यामित्वात्। तदत्रोत्तरार्धोक्तम्। त्रिविधत्वं चितां नित्यमुक्तबद्धभेदेन। अचितां कालप्रकृतिनित्यविभूतिभेदेन। तद्विस्तारस्य भगवत्संकल्प एव उपघ्नवृक्षवत् स्थितः। शुभस्रोतोभाजाम् पुण्यप्रतिपादकवाक्यरूपाणाम्॥ मुमुक्षुविषये विशिष्याह पर इति 93.। एवंप्रज्ञाम् ईदृशनिष्कर्षम्। उपजनयता मन्त्रेण- मन्त्रोच्चारणपूर्वकप्रपदनेन। संग्रहोपदेश एव सर्वेषां पर्याप्तः, किमधिकेन विस्तृतग्रन्थेनेति सुमतिशंकां परिहर्तुमाह प्रिये इति। 94. धृतेति। धृतेन वेदरूपेण कवचेन गूढाः। तेन स्वात्मानं गोपयन्तः। स्वात्मनो बौद्धत्वादिकमप्रकाशं कुर्वन्तः॥ कुदृष्टयः शंकरभास्करादयः। सौगतादीन् बौद्धजैनादिन् छलयन्ति व्याजदूषणविषयीकुर्वन्ति। वस्तुतः तत्पक्ष्यास्तत्पोषका एवेति भावः। स्यालोपालम्भेति। जामाता स्यालमभिमानातिशयात् दूषयन्निव लक्ष्यमाणोऽपि न दूषयति। किंतु श्लाघत एव भंग्या। एवमिति भावः। यद्वा छलयन्ति बौद्धवाक्यं छलरूपं कल्पयन्ति। तैर्वेदवाक्यों गृहीत्वा इदमसत् जगतो मिथ्यात्वादिति वाक्ये प्रयुक्ते, अद्वैतिन आहुः `त्वद्वाक्यं छलम् अर्थान्तरकल्पनया दूषणात्। वेदस्यापि मिथ्यत्वा एव हि तात्पर्यम्, अत एव सृष्टिक्रमाव्यवस्थेति इति भावः।’ इदानीं स्यालोपालम्भो नाम स्यालवाक्यप्रतिषेधः। यथा स्यालो वदति, जामाता कति दिनानीह स्थास्यतीति माता पृच्छति, तस्माद् गमिष्यसि किमिति। तत्र जामाता प्रत्यह-नैवमाशयः। माससंख्यया स्थातव्यम्, न तु दिनसंख्ययेति किल सा मन्यतेइति। इति रीत्या भाव्यम्। समासव्यासधारणम्। “इष्टं हि विदुषां लोके समासव्यासधारणम्”। संग्रहविस्तकरणमिति यावत्। चोरेति। गोस्वामिपरम्परानुपयोगिन इत्यर्थः। अयं सुमतिप्रश्नः समन्वयाध्यायश्रवणानन्तरम् अविरोधाध्यायक्षवणात् प्राक् उत्पन्नशंकारूपः। एतत्समाधानं विरुद्धस्मृतितर्कोभयनिरासिना द्वितीयाध्ययेन कृतमिति मनसिकृत्य तं विषयमाह राजा। 96. अविप्लुतपरिग्रहाः स्मृतयः-मन्वादिस्मृतयः। अनेन `एतेनशिष्टापरिग्रहा’इति सूत्रं स्मारितम्। स्वभक्तिविकलस्मृतीः श्रुतिस्वरसार्थ एव ग्राह्य इति गौरवबुद्धिरहितकापिलादिस्मृतीः। रूपनतोऽपि-स्वप्नेऽपि। स्मृतिसापेक्षनिर्णममयत्वेऽपि न तत्स्मृतिग्रहणमिति भावः। स्वत इति। तर्को द्विविधः वेदार्थनिर्णयाय तदितिकर्तव्यताभूतः स्वतन्त्रश्चेति। प्रथमः सुदृढतर्कः। द्वितीयः तर्काप्रतिष्ठानादपीति दूषितः इति भावः। पुनः त्वर्थे।
नेपथ्य इति। नानामतक्षोभमूलचिन्ताकुलचित्तसमाधानाय साधुवर्त्मस्थापनपरेण भगवता कदाचिदशरीरिणी वाक् आविष्क्रियते। इति समये तामाकाशे उत्पद्यमानां दर्शयन्ति नेपथ्यगता इत्यर्थः।
मूलच्छेदभयोज्झितेनेति। उग्रसेनबन्धनावसरेऽवश्यं कंसेन भेतव्यम्, मदभिवृद्धये मया क्रियमाणमिदं मत्स्वरूपनाशायैव भविष्यतीति। तादृशभयरहितेन यथा कंसेन कृतम्, तथा मोहेनेत्यर्थः। दुर्मेधसा दुर्मतिसहितेन। नः प्रभुः अस्मादिष्टो जीवः प्रभुत्वार्हः। कारागृहे संसारे। विश्वोपकारार्थिना। कृष्णो लोकक्षेमाय कंसमवधीत्। विवेकोपि सर्वप्रकारमुपकारं पुरुषे अपेक्षते। कृष्णो बलरामानुजत्वात् बलोत्तरः। अयमपि `नायमात्मा बलहीनेन लभ्यः’इति धैर्यविशिष्टः। स घृणी दयालुः। विवेकस्य लोके घृणा जुगुप्सा। मुक्तश्रियम्। उग्रसेनः कारागृहप्रवेशकाले स्वमुक्तां श्रियं पुनः प्राप। जीवः मुक्तस्य या श्रीः तां प्राप्स्यति। मुक्तः इति पाठे मोचित इत्यर्थः।
97. बिन्दुपदेन प्रतिमुखसन्धेर्द्वितीयस्येह प्रक्रमसूचनम्। यत्रशब्देन च, बिन्दुयत्रसमन्वय इति तस्य व्यवहारात्। रिपवः मतान्तरस्थाः तत्प्रेरकमोहादयश्च। विजिगीषा जेतुमिच्छा। अनुजिघृक्षा अनुग्रहैच्छा, सैव वाहिनी नदी। अधीष्टे अधिकं समर्थो भवति। यत्नः मुक्तयुपायानुष्ठानप्रयत्नः। स एव सन्तानवृक्षः कल्पवृक्षः।
दत्त इति दाधातौ लट्प्रथमपुरुषद्विवचनम्। कर्णं दत्तः-श्रृणुतः। कुलेति 98.। कोऽयं ध्वनिः, न तावत् अयम् अन्ततोऽस्मत्प्रतीक्षितः पुरुषस्य संसारमोचनमृदङ्गध्वनिः, तस्य महामोहजये निष्पन्ने बहुकालपश्चाद्भावित्वात्। न च युद्धप्रेत्साहकध्वनिः, चिरप्रतीक्षितमोहसमरात् प्राक् वादाहवरूपसमरस्य नवस्य कस्यचित् प्रतीक्ष्यमाणत्वात्। न च तदर्थ एव ध्वनिः। तदर्थगजबृन्दघटनेन सेनाव्यूहानन्तरं हि स स्यात्। न च ते प्रतिवादिनो गजाः विन्ध्याटव्यां मदमुदितो मातङ्गगणस्तिष्ठतीत्युक्तरीतिकाः इह समूढाः सन्ति, न च तद्विजयी सिंहोऽप्यगतः। न च मया तदर्थं चिकीर्षितं काञ्चनपद्मार्चनं प्रक्रान्तम्। अतः कोऽयं ध्वनिरिति न बुध्यते। नूनं विजयसूचक एव ध्वनिः, प्रलयध्वनिसाम्येन प्रतिपक्षिसंहारसूचकत्वात् इत्यर्थः। अत्र गजघटासिंहपदप्रयोगतः कवितार्किकसिंह-श्रीदेशिकप्रतीक्षणं ज्ञाप्यते।
अनुकूलो देवलोकदुन्दुभिध्वनिरिति समाधत्ते राजा। परपक्षप्रतिक्षेपे मतान्तरनिरासे। अयमेव ह्याद्यः समरश्चिकीर्षितः। अनेन द्वितीयाङ्ककार्यमपि ज्ञापितम्। परिक्रम्य किञ्चिदटित्वा।
इत्यभिनवदेशिक वात्स्य वीरराघवाचार्य कृते
सर्वसाक्षात्काराख्ये टिप्पणे प्रथमोऽङ्कः।
***********************************************************
.
द्वितीयोऽङ्कः
द्वितीयेऽङ्के परमतप्रतिक्षेपः। तत्र विचारणा उपयुज्यते। कृते प्रतिक्षेपे स्वपक्षे श्रद्धा भवति। अतस्तयोः पात्रयोः प्रवेशके प्रवेशः। प्रवेशको नाम नीचपात्रद्वारा वृत्तवर्तिष्यमाणकथांशप्रदर्शनम्। श्रद्धाविचारणे राज्ञ्याः सुमत्याः आदेशकर्यौ। श्रद्धा नाम कर्तव्ये सादरा त्वरा। विचारणा नाम युक्तायुक्तपरिशीलना। सुमतिकर्तृकपूजार्थत्वरा श्रद्धापात्रेण दर्श्यते, व्यवसायकर्तव्यः प्रतिपक्षबिजयार्थो विचारः विचारणयेति तदौचित्यम्। इदमेव दर्शयति, वत्सदर्शनोत्सुका वत्सलेव त्वरमाणेति। उपरि विचारणा च `प्रतिपक्षाणामेकेन निर्मूलनं त्वया कथमाशंसितम्’इति विचारयति। श्रद्धा च श्रद्धापयति, `यत् सत्यं तदेव नित्यं भवति’इत्यादिना।
श्रमेत्यादि त्वराप्रदर्शकं विशेषणम्। वत्सला धेनुः तद्दृष्टन्तकरणं त्वरायाम्। “वत्सांसाभ्यां कामबले”। वत्सं कामयत इति वत्सला। श्रमजलबिन्दून् वर्णयति मुहेति। सुभगाः- रम्याः छविः कान्तिः। पुल्ला विकसिता। यौवनलतात्वेन श्रद्धाविषयं वर्णनम्।
एकमुखेति। अविप्लुतपरिग्रहस्मृतिशतैकण्ठतयेत्यर्थः। प्रतिक्षेपभावितेति। प्रतिक्षेपार्थं कृतेत्यर्थः। दोहलं कौतुकम्। प्रमदावनम् स्त्रीयथेच्छसंचारार्हमुपवनम्। तिष्ठति। प्रतीक्षमाणेत्यर्थसिद्धम्।
मन्दाकिन्या श्रमपरिहारमाशंसते कच्छेति। भारत्या सत्या प्रतिपक्षश्रमपरिहाराशंसनसूचनमनेन। कच्छेन जलोपान्तप्रदेशेन उत्तंसितः स्वशिरोभूषणतया कृतः। वासान्तिका माधवी लता। उद्गारः निष्क्रमः। रोधोन्तरं कूलमध्यप्रदेशः। सञ्चरसमासिद्धाइ इति माकारे दीर्घ आवश्यकः वृत्तानुसाराय। तत्र श्रमसिद्धानीत्येव छायां पठन्ति केचित्। श्रमेण आसिद्धानीति विग्रहो दीर्घानुसारात्। संसिद्धानीत्यर्थे समासिद्धानीति आङुपसृष्टच्छायापाठोपि भवेत्। कदा दुःखानि मन्दानि करिष्यति मन्दीकरिष्यतत्यर्थः। तदा हि मन्दाकिनीति नाम स्यादन्विर्थम्। मन्दम् भवति अकं दुःखमस्याः संबन्धे इति मन्दाकिनीति इति भावः। भरितेति पुलिनविशेषणम्। मधुमथनपदसरिदित्यस्य गङ्गेत्यर्थः। स्वलवचनवत् तीक्ष्णाः उष्णकरस्य सूर्यस्य किरणाः। खलवचनेति प्रतिपक्षिवाक्यान्यपि गृह्यन्ते। क्षणान्तरे। एकेन क्षणेन संतापमुपशमय्य समनन्तरमेण । सन्तापशमनानुकूलत्वं स्थलस्य दर्शयति एदे इति। प्राग्भारः आधिक्यम्। मानेति। असमर्थानामिति शेषः। मीनलाच्छनः मन्मथः। तस्य वाणभूतानां पुष्पाणाम् उत्करं समूहम्। धम्मिल्लः केशबन्धः। मुञ्चन्तीति। त्वयाऽप्येभिः पुष्पैः स्वयमलंकरणं देव्याः सुमत्या अलंकरणञ्च युक्तमिति च भावः। सहायस्येति बहुव्रीहिः। प्रमुखसिद्धन्तेति। तत्प्रभृतीनां ये सिद्धान्ताः तेषाभित्यर्थः। कुहकः छद्म अनार्जवम्। तत्सहिताः वादिनः बाह्यः। कुमतयः कुदृष्टयः। हालिकेति। हलेन व्याप्रियमाणाः कृषीवलाः। ते जम्बुकदर्शने जाते स्वकार्यं परित्यज्य तदनुधावने लगन्ति। तथा प्रकृते पुंसो योगादिभञ्जनार्थमित्युक्तं भवति। तमेव सेनापतिं व्यवसायमेव।
यदिति। संनाह इति यत् इति इतिशब्दाध्याहारः। बृहस्पतिः चार्वाकमतसूत्रप्रणेता।
दृश्यमान इति। सूर्यसंगमः दिवसरूपकालसापेक्षः। दवानल उत्पादकद्रव्यादिसापेक्षः प्रायो वर्षास्वसंभावित्तश्च। प्रभञ्जनस्तु सदागतिर्न तथेति विमृश्यैवं क्रमादरः। प्राग्भारः आधिक्यम्। शैलेन तुलितं पर्वतसमानाकारं तूलोत्करं ततूलराशिम्। प्रेक्षमाणः दर्शनमात्रेण। विचिकित्सा संशयः। अविलम्बितकृतं शीघ्रनिष्पादितं प्रेषणम् आज्ञाकृत्यं मया यस्यास्ताम्।
कठिनतराणाम् अतीवाच्छेद्यानां पुण्यपापरूप्राक्तनकर्मणामेव पाशानां रज्जूनां कोटिसंख्या भिर्निबिडं यथा तथा बद्धस्य अत एव मुधाव्यापारैः सांसारिककर्मभिः अधिकमोहं प्राप्तस्य जीवस्य मोक्षणमेव व्रतम्, तत्र कृतसंकल्पस्य मम विवेकस्य। कृताकृतप्रत्यवेक्षणेन कियन् कृतं कियत् कर्तव्यमिति परिशीलनेन। समय इति। व्यवसायसाहाय्यमद्याऽऽवष्यकमिति भावः। सविषादमिति। सर्वेषां सुनिरसत्वेऽपि अनेकमतोपाताधीनबहुजनक्षोभदर्शनेन अर्जुनस्येव विषादः। 5. जडेति। निरापराधेषु सत्सु आरोप्यस्यापि कारणस्याभावेऽपि वैरं वहन्तीति भगवतः कोपे जाते, `क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु’इत्युत्पन्नात् तस्मादेव कोपात् दुर्मतप्रवर्तकतया जनित्वा कलहार्थमेव सिद्धान्ताभासान् जडमतिबहुलेऽस्मिन् प्रकल्प्य प्रगम्भाः साडम्बरं पाठयन्ति। वस्तुतः तत्कृताः प्रबन्धाः प्रलपनस्य अनर्थकवचनस्य प्रकारभेदा एव-पर्याया एव। एवमपि प्रायो जगतो जडमतित्वात् तारतम्यपरिशीलिनसामर्थ्याभावत् विपरीतग्रहणप्रवणत्वाच्च मोहितत्वं वर्धते अहो इत्यर्थः।
आकाशे इति। आकाशे स्वमुखमुन्नमय्य महामोहसंबोधनम्। इदच्च महावीरस्य रपुषु वात्सल्यात् प्राप्तम्। अपशदेति पृथक्पदम्। तुच्छेत्यर्थः। अन्यथा मुख्यमहामोहोऽन्य इति स्यात्। 6. सर्वत इति। प्रतिकूलानां सर्वत्रोपस्थितिः, अनुकूलस्य अन्वेषणेऽप्यलभ्यत्वं लोकदृष्टमिति भावः। करवीरः मारकौषधिविशेषः। सागरमेखला पूर्णा भूमिः। मृग्यमाणदशाम् अन्वेषणीयताम्। उपप्लवः उपद्रवः। अत्रत्या एव श्लोकाः हयग्रीवस्तोत्रे निवेशिताः। 7. स्वतः सिद्धम् अनन्याधीनस्थितिकम्। शुद्धीभूतलोकत्रयम्। प्रथमविशेषणेन इतरवाग्देवतादीनामेतदधीनत्वं ज्ञापितम्। द्वितीयेन रजस्तमोरहितमूर्तित्वम्। तृतीयेन, सुधया लेपकद्रव्येण सर्वधवलीकरणवत् सुधया अमृतेन मुमूर्षुजनाप्यायनवत् ज्ञानिसामान्यस्य (सर्वलोकस्थितस्यापि) एतदधीनवैभवत्वम्। हेषा हयघोषः। हलहलेति तदनुकरणम्। स वैदैरनुविहितः अनुसृतः। वेदध्वनिः हयग्रीवयध्वनिमनुकरोति। तेन तद्वत् पावनो भवति च। तथा हेषाहलहलमनुग्राह्यजनविषये जातमनुसृत्य तस्मिन् तर्य्यन्ता अप्याविर्भवन्ति च। तत्फलमाह हताशेषावद्यमिति। सर्वबाह्यकुदृष्टिनिरासकम् ततो मोक्षप्रतिबन्धकनिरासकञ्च। अनेन हयवदनः प्रतिवादिनिरासके पुरुषसिंहे हलहलमुखेन वेदान्तमाविर्भाव्य सर्वं मतं निरस्यतु इति प्रकृते प्रार्थितं भवति। हलहलम्। वर्णाः सर्वे हल् अहल् उभयरूपाः। ईडीमहि-स्तुवीमहि। महः ज्योतिः अप्राकृतरूपम् इतरतेजोविलक्षणम्॥ 8. प्रकृतोपयोगातिशयात् त्रय्यन्तकीर्तनेऽपि सर्ववेदमयत्वमेव स्वाभाविकमित्यमुसंधाय हेषामुखेन प्रकृतापेक्षितं विशदं प्रार्थयते समिति। सामर्ग्यजुश्शब्दाः वैदिकमन्त्रेषु रूढाः। वेदचतुष्टयगततद्ग्रहणम्। ब्राह्मणरूपेतभागोपलक्षणमेतत्। हयगीवमन्त्रनुसारेणैवं प्रयोगः। अत एव च साम्नामित्यादिबहुवचनम्। तत्तन्मन्त्रघटितानेकवेदानामेव सामादिशब्दार्थत्वं वा। ऋग्बाहुल्यादथर्ववेदोऽपि ऋग्वेद इति केचित्। शान्तिकादिकर्मपरोऽथर्ववेदः लयः प्रत्यूहानामित्युक्त इत्यन्ये। समाहारः समुदायः। प्रतिपदं पर्यायः। धाम-तेजः, शक्तिः, स्थानं वा। प्रत्यूहानां-विघ्नानां लय इति सर्वेष्टप्रतिबन्धकनिवर्तकब्राह्मणवाक्यरूपता वा तद्बोध्यसर्वविधकर्मरूपता वा विवक्षिता। ज्ञानकाण्डार्थरूपता चोपरितनपदेन। कथादर्षेण वादल्पवितण्डारूपकथाकरणे स्वात्कर्षाभिमानेन क्षोभं प्राप्नुवतां वादिनां कुलस्य यः कोलाहलः अस्फुटशब्दराशिः, तदधीनं जडमतिजगदन्तर्गतमज्ञानं तमः हेषाहलहलोऽयं हरतु॥ अनरण्यः इक्ष्वाकुवंश्यो राजा। स रावणं युद्धे शशाप, यदि दानहोमतपः प्रजापालनादि मया यथावत् कृतम्, मम वचः सत्यं भवतु, रामो दाशरथित्वेनोत्पद्य हे रावण ते प्राणान् हरत्विति। शाप इव, विवेकेन महामोहविध्वंस इत्युपनिषद्वोऽपि सत्य इत्यर्थः। 9. मतान्तरप्रतिक्षेपात् पूर्वस्थितिः त्वयेत्यादिपूर्वार्धोक्ता, प्रतिक्षेपात्परा तु उत्तरार्धे 10. महामोहश्रद्धा राजसतामसकार्यविषयत्वरा। लम्पटाः आसक्ताः। तदनन्यधीः भगवदभिमतकार्यैकविषयकज्ञानः। प्रहरणनयेन। प्रहरणम् आयुधम्। विवेकः कर्ता, व्यवसायः करणमिति विवेकस्य प्राधान्यम्। 11. प्रमाणादिभिः। प्रमाणानि प्रत्यक्षानुमानागमरूपाणि। आदिना मीमांसान्यायानां ग्रहणम्। जातस्य विवेकस्य स्थैर्यमेतद्बोहुसमावेशकृतम्। शौर्यं मूलान्तरजातज्ञानबाधकत्वम्। स्वायत्तसिद्धित्वं स्वाधीनवास्तवार्थप्रकाशत्वम्। यौद्धुर्नृपस्य च स्थैर्यं शौर्यं संपत्सिद्धिश्चापेक्षितानि। इत्थं सति एवं प्रतिमतनिरसनपूर्वस्वार्थसिद्धिलाभे, भगवच्चिन्तरूपफलस्रोतः प्रतिघातरहितं प्रवक्ष्यति। एवं परिपतत्प्रवाहकस्य ते, या सत्ता स्वरूपलाभः, या अवस्थितिः दृढमवस्थानं प्रतिपक्षाणां पुरस्तात्, या वृत्तिः चिन्तनादिप्रवाहः, तत्र सर्वत्र स्थैर्यशौर्यफलेशषूक्तेषु अनुचरोऽहमित्यर्थः। विवेकः प्रमाणाधीनं ज्ञानम्। व्यवसायः तत्सहजः प्रामाण्यनिश्चियः अप्रामाण्यशंकापरिपन्थी। अहं वेति। रामस्य लक्ष्मणवत् विवेकस्य व्यवसायो जन्मप्रभृति सहस्तितः, सीता पश्चाद्विलम्बेन प्राप्ता, विवेके जातेपि विषयदोषदृष्टिरपि किञ्चिद्विलम्बेनैव भवति। अत्र, `न च सीता त्वया हीना न चाहमपि राघवः। मुहूर्तमपि जींवावो जलान्मस्त्याविवोद्धृतौ’इति रामायणवचनमनुस्मारितम्। अत्र वाशब्दप्रयोगात् जीवाव इति द्विवचनमयुक्तमिति चेत्- न, मूलानुरोधेन वाकारस्य चकारार्थपरत्वात्। मूले नञ्द्वयस्य कथमन्वयः, न न जीवाव इत्युक्तौ विपरीतापत्तेरिति चेत्- उच्यते। न च सीता त्वया हीनेति पृथग्वाक्यम्। सीता न त्वया विसृज्यते। एवमेवाहमपि न विसर्जनीय इति ज्ञापनार्थं तत्। न चाहमपीत्यत्र चकारः पूर्ववाक्यार्थसमुच्चये। अपिशब्दः सीतासमुच्चये। सीता चाहञ्च जलोद्धृतमत्स्यवत् मुहूर्तमपि न जीवाव इति द्वितीयवाक्यार्थः। अत्रायं द्वितीयवाक्यार्थ एवानुस्मारितः। वाशब्देन उभयोस्तदनधीनत्वाभावे अविशिषो व्यज्यते।
सुकरनिवारणत्वबुद्धिदार्ढ्यपूर्वकं परमतस्थितिं वर्णयति अमुरेति। 12. आदिना राक्षसपरिग्रहः। आसुरराक्षससर्गरूपमनुष्या विवक्षिताः। विहिता इति। त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारयेति शैवविषयः पाद्मे पुराणे। बौद्धजैनविषयो विष्णुपुराणे। प्रमितावतीतसमया इति। यथावस्थितप्रमितिजनने समयानां सिद्धान्तानामन्येषां निवृत्तेः तत्समयस्य कालस्यातीतत्वम्। यत् तत्त्वज्ञानेन बाधितार्थकम्, तस्य अतीतकाल-कालातीत-कालात्ययापदिष्टपदैर्व्यवहारो न्यायदर्शने। सर्वे बाध्यन्त इत्युक्तं भवति। तपनेति। तिमिरस्य तमसः सूर्येणैवापनेयत्वात् संनिहिते सूर्ये न भवति प्रसरः। प्रमित्युत्पादनेन तथा परसमयाः परिहार्या इति। प्रचरन्ति तपनस्य विवेकस्यासंनिकर्षात्। विवेकसंनिधाने अपनीता भविष्यन्तीति। जगदन्तरतः लोकान्तराले।
मधुमथनेति। अर्णवान्महार्णवे निर्घोषोऽधिकः मन्दरेण मथनेऽतितराम्। अशक्तान् देवासुरान् अपसार्यं यदा स्वयं भगवान् सहस्रेण भुजैर्ममन्थ, तदाऽतितमाम्। निरर्थकत्वं वाच्याभावात् फलाभावाच्च। वशिकाः क्षुद्राः अल्पकालभाविनः। तदमी इति। इमे गजाः सिंहेन हिंसनीयाः। आगमिष्यतः पात्रस्य कवितार्किकसिंहत्वभावनया एवमुक्तम्। सिंहस्य गजहनने दंष्ट्रानखरावपेक्षितौ, महारण्ये च सिंहवासः। अत्र कः सिंह इत्यादिविमर्शे आह साधनेत्यादि। सिद्धान्तस्य प्रमाणमूलत्वात् तत्पराक्रम एव सिंहः। वादिना स्वपक्षसाधनं परपक्षदूषणञ्चोपपत्त्या कर्तव्यम्। तदुभयमेव मुख्यद्रंष्ट्राद्वयम्। नखराश्च पञ्च भवन्ति। पञ्चविधास्तर्काः परखण्डने भवन्तीति त एव नखाः। के ते इति चेति- आत्माश्रयः,अन्योन्याश्रयः, चक्रकम्, अनवस्था, अनिष्टप्रसंगश्चेति। प्रतिवाद्युपपादितविषये यत्र स्वस्य स्वापेक्षा प्रसज्यते, तत्रात्माश्रयः। यत्र प्रथमस्य द्वितीयापैक्षा, तृतीयादेश्च पुनः प्रथमापैक्षा, तत्र चक्रकम्। आपादनस्यानवसानमनवस्था। ईदृशानिष्टातिरिक्तानिष्टापादनं पञ्चमस्तर्कः, तर्हि धूमोऽपि न स्यादित्यादिः इति। यथासंभवमेषां प्रदर्शनं दूषणाय कार्यम्। आरण्यकम् अध्यात्मभागः। तदेवारण्यसमूह इति श्लिष्टरूपकम्। कण्ठीरवः सिंहः। रम्भावनं कदलीवनम्। वैतण्डिकाः वितण्डख्यकथावादिनः। वितण्डाः नाम स्वपक्षस्थापनां विहाय परपक्षविदलनमात्रार्थः शब्दराशिः। त एव वेतण्डाः गजाः। गुरुशिष्यप्रवेशं सूचयति सेनापतिः नियुक्त इति। देवीप्रेषितविचारणामुखेनप्रतिवादिबृन्दप्रक्रमं श्रुत्वा नियुक्त इत्यर्थः। राज्ञा कृतस्य गुरुप्रार्थनस्य नियोगत्वेन भावनं सेनापतिना गौरवेण कृतम्। सिद्धान्तमाश्रित्यैव वादः प्रवर्तत इति सिद्धान्तस्य गुरुत्वम्। गुरत्वात् तस्य प्राधान्येन निर्दिशः। असौ…. सीमामिति पाठे, असौ सिद्धान्तः सवादः कथा रूपो यः संग्रामः तत्सीमां तदर्थभूप्रदेशम्
आसीदति आयातीत्यर्थः। एषा— सीमेति पाठे, वादिन आगतत्वात् वादरूपा चर्या आसीदति शीघ्रं प्रचलिष्यतीत्यर्थः। सीमेति पदं निरवशेषं विचारणं भविष्यति, वक्तुः समर्थत्वादिति ज्ञापनाय प्रयुक्तम्। विवेकेन दूरे स्थित्वा गुरुशिष्यसंवादश्रवणम्, उपसर्पणं तु पश्चादिति ज्ञापनाय स्थलभेदप्रदर्शी सीमामिति पाठः श्रेयात्। गुरुशिष्येति। पूर्वं वादकर्तुः कथकवेतण्डकण्ठीरवत्वनिर्देशात् उपवीतिनमित्यादिना श्रीभाष्यकार-तद्ग्रन्थश्रीभाष्यादेः स्पष्टकथनाच्च श्रीरामानुजवेदान्तदेषिकावेव गुरुशिष्यत्वाभिमताविति संप्रदायो निर्बाधः। एवं करणेन स्वस्य साक्षात् श्रीभाष्यकारान्तेवासित्वम् इष्टं कालविप्रकर्षाद् दुष्करमालोच्याचार्यैः कथायां संघटनेन मनश्शान्तिः संपादितेत्यपि वदन्ति। अत एव स्वस्यैव गुरुत्वेन स्वशिष्येष्वन्यतमस्यैव वावदूकत्वेन च कल्पनं नाचार्येष्टमासीत् साक्षात् स्वगुरोरेव सिद्धान्तत्वेनाकल्पनञ्चातएवेति। वस्तुतोऽस्य सिद्धान्तस्य रामानुजसिद्धन्ततयैव प्रसिद्ध्या तदाविष्यरणानुरूपतया श्रीभाष्यकाराणमेवात्र घटनम्, न पूर्वेषां परेषां वा। गुरोर्गृहस्थत्वे च स एव साक्षात् वादं प्रवर्तयेद् वक्ष्यमाणरीत्येति न शिष्यापेक्षा स्यात्। स्वेनैव विभवे सर्वप्रतिवादिनिरासस्य कृतत्वात् स्वस्यैव वादत्वाभ्यनुज्ञानम्। शुभमतिभिरसौ वेंकटेशोऽभिषिक्त एव च प्रत्ययितः प्रत्यर्थिभिः प्रार्थितः। स्थूणानिखनमेति। संचालनं संपाद्य निखनने हि स्थूणा निष्कम्पा भवति, तथा तत्तत्प्रतिवादिकृतं चालनं निष्कम्पत्वाय श्रद्धादार्ढ्यय भवतीति। महिमाऽयं गुरोरेवेत्याह शिष्यः भगवन्निति।
काणादाः श्रुत्युक्तं धर्ममिच्छन्तः तत्त्वमन्यथा वदन्तस्तार्किकाः। शाक्याः बौद्धाः बाह्याः तत्त्वाचारद्वयत्यागिनः। पाषण्डाः वैदिका इव भूत्वा अन्यविधपरतत्त्वाचारैकश्रद्धाः सर्वथा प्रमाणखण्डिताः। त्रयीधर्मः कर्म उपासनञ्च। विष्णुनेति, दत्तात्रेयस्यांशावतारत्वेन परिगणनात्। न केवलं दत्तात्रेयानुष्ठानमात्रेण, किंतु विष्णुरूपस्य परमतनिराकरणस्य च संबन्धौचित्यादपि स्वप्रवृत्तिर्युक्तेत्याह गुरुः असुरा इति। शस्त्रपाणित्ववत् शास्त्रपाणित्वमपि विष्णो रूपमेव। प्रथममुपेन्द्रादौ साक्षादसुरादिविजयाय द्वितीयं परदेवतापारमार्थ्यप्रतिष्ठापनाय व्यासपराशरादौ। रूपमिदमश्रित्य शिष्येभ्यो व्याथ्यानेन प्रबन्धप्रणयनेन च असुरप्रायान् साक्षाज्जिगीषामि। वादप्रस्थाने तु भवादृशप्रेरणेन विजिगीषे इति भावः। एताक्दर्थलाभाय आयुष्मन्निति संबोधनम्। अत्र कार्ये यथार्हमन्वयं संपाद्य आयुः सफलं कुर्वित्याशयः। मोक्षाश्रमस्य परमैकान्तिवैष्णवत्वाव्यभिचारात् यतोर्विष्णुत्वेन प्रशंसा धर्मशास्त्रेषु तदनुरोधेनाह विष्णुरूपीति। 13. युगान्तरयत्यपेक्ष्याऽस्य यतीन्द्रस्य विशेषमाह शरणेति। शरणागतानां सार्थात् संघान् वाहयति वर्धयतीति तादृशम्। शिखयाशेखरिणं पतिं यतीनामिति यतिराजसप्ततिपाठः। यतीशमीडे इत्यपि क्रियेत, यदि यतिराजसप्तताविव अत्र स्तोत्रार्थप्रवृत्तिः स्यात्। अत्र तु जयसिद्ध्यर्थं सेवनम्। तदनुरुध्यानुगृह्णाति प्रतीति। 14. कल्याणानि प्रवचन-प्रबन्धन-शिष्यसमृद्धि-ध्यान-कैंकर्यादीनि। दिव्यशक्तीति। परमतनिराकरणोचितसर्वतत्त्वज्ञानप्रतिपादनाद्यनुगुणशक्तीत्यर्थः। परमतनिरासः परत्त्वानुभवशेषतयैवोद्दिष्ट इति तदनुग्रहं करोति अविश्रान्तेति। 15. कलुषपदात् विषमपदं साधीयः। स्वं शुद्धप्रत्यगात्मस्वरूपं सर्वज्ञम्। गुणाः विभावश्च ब्रह्मणः। तेषामासञ्जनेन मेलनेन कनत् प्रकाशमानं महानन्दो ब्रह्म। तस्य मधुसहित क्षीरन्यायेन येऽनुभवाः तत्परिवाहाः अन्तः अमान्तो निर्गताः प्रवाहाः कैंकर्यपर्यवासायिनः (परमतनिरसनमपि तदन्तर्गतम्) मनसि आविर्भवन्तु॥ अर्जुनवत् जयं निश्चित्य अधर्मभिया पृच्छति शिष्यः। षापिष्ठपादपेति। कङ्कगृध्रनिषेवितश्मशानवृक्षेत्यर्थः। `वादेन ब्राह्मणं जित्वा हृष्टो भवति यो द्विजः’ इति पूर्वार्धप्रत्यभिज्ञानात्। `श्मशाने जायते वृक्षः कंकगृध्रनिषेवितः’ इत्युत्तरार्धम्। जातिः अनुलोमप्रतिलोमरूपा। प्रवरः गोत्रप्रवर्तकर्षिः। चरणं शाखा। विषयः लोकरक्षार्थो वेदिकः तदन्य इत्यादिः। परिगृहीतनियमः संन्यासिधर्मः। कौशिकस्य तु `अहं नियममातिष्ठे’इति तदुक्तरूपः। गृहस्थास्यापि कश्चिन्नियमः श्रेंयानित्याह दूरे 16. इति। वादस्यैव शिष्यत्वात् वादात्मेत्युक्तम्। स्थिरे वादे आत्मा मनो यस्य स इत्यर्थान्तरञ्च। निरुन्धि निरोधं कुरु। वीतरागकथेति। वेिजिगीषादिरूपं रागं विना तत्त्वबुभुत्सयैव विवदन्ते यदि, तत्र स्वयं जल्पादिकं न कुर्यादिति नियमः। प्रतिवादिनोऽन्यथात्वे तु स्वस्य जयप्राप्त्यनभिलाषेपि वेदार्थो जयतीत्येतत्प्रदर्शनाय तदादरणं युक्तमिति भावः। तत्त्वेति। “तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहणार्थं कण्टकशाखावरणवत्"इति न्यायसूत्रम्। वलातिवलाम्यामिति। “न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः। न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऋताः” इति ह्युक्तम्। विश्वाचार्येण अनेकशिष्यसंपन्नेन। मितम्पचे अल्पज्ञानशकने। 17. निष्णातं निमज्जनं भावे क्तः। तत इति प्रत्ययः। शिष्या इति श्रीभाष्यकारः स्वकालमारभ्य श्रीदेशिककालमभिव्याप्य स्थितान् सर्वान् गृह्णति। अस्मत्परम्परायां षिक्षाधिकग्राहिणः शिष्या आसन्, सन्ति च। तत्र तेषां मध्ये। निर्भरः पूर्वः प्रसरः व्याप्तिः ग्राहकत्वम्। परिष्कारिणः परिष्कारं सुशिक्षितं निर्दोषगन्धं निष्कृष्टव्यवहारं कुर्वतः। प्रत्ययितः अयं यथावत्सिद्धान्तवेदीति जयेदिति च प्रत्ययविषयः। सर्वेषामित्यर्थसिद्धम्।
स्वाभिमते इति। ननु आचार्याभिमतः सिद्धान्त एक एव। तत् कोऽयं प्रश्न इति चेत्- नैवम्। अत्यन्तरहस्यं वादगोष्ठ्यां नोद्धोषणीयमिति तत्संनिकृष्टार्थमात्रं कथनीयमित्याशयः कदाचित् स्यादिति मन्यते। अत एव हि मोक्षार्थप्रपत्तिरूपार्थो गीताभाष्ये न प्रादर्शि। समानतन्त्र इति। उभयाभ्युपेतशास्त्रार्थे इत्यर्थः। वेदवाक्यादेः प्रमेयनिरूपणे प्रसक्ते उभयाभ्युपेतार्थे स्थित्वा तद्विरोधप्रदर्शनेनायुक्तार्थवारणं कार्यम्। बाह्यैः सह विवादे तु वेदार्थं मनसि निर्धार्य तत्स्थापनार्थो वादः धार्य इति भावः। इदं सानतन्त्रम्, अयमेव वेदान्तार्थ इति निर्णयः कथमित्यत्राह तत्रापीति। अस्मद्ग्रन्थेषु एकस्यार्थविचारे प्रसक्ते अन्यो ग्रन्थः समानतन्त्रतया ग्राह्यः। एवं निष्कृष्टे सिद्धान्ते स्थित्वा सर्वे परे निरसनीयाः इति यथा, तथा ब्रह्मसूत्रश्रीपाञ्चरात्रप्रामाण्यादिविषयसयूथ्यकलहे भारतादिसमानतन्त्रग्रहणेनार्थवर्णनं कार्यम्। असयूथ्यश्चेत्, तत्प्रमाणीकरणायोगात् वेदान्तसिद्धान्तस्थाकतपनपर्यवसायी कथाप्रकार आदर्तव्य इति। देशिकेति। श्रीमन्नाथयामुनमहापूर्णादीत्यर्थः। पञ्चषाः। वेदार्थसंग्रह-श्रीभाष्य-वेदान्तदीप-वेदान्तसार-गीताभाष्याणि पञ्च। प्रकृतानुपयोगात् सगद्यस्य नित्यस्यैकत्वविवक्षया षष्ठत्वेन गणना। 18. गुणगरिमा सत्त्वगुणपौष्कल्यम्। यद्व्स्तु स्फुरतीत्यन्बयः। तदिति। यावद्विशेषणविशिष्टतया स्फुरति, तावत्सु ईषदंशेऽपि नान्यथात्वम्। ऋषिः कपिलादिरयथाग्राहितया ब्रह्मसूत्रदर्शितः। गत्यन्तरं गृणाति- वेदान्तसिद्धन्तं विहाय निर्वाहान्तरं कथयेत्। विकल्प्य- विकल्पनौयानेककोट्यालीढं सत्। विकल्पते- नाना भवतीत्यतो ल्यप्। 19. क्षणकर्कशा श्रवणावसरे क्षणकाले दुर्भेवत् प्रतीता। प्रलपनेति। प्रलपनं निरर्थकः असंबद्धश्च शब्दराशिः। अलीकार्थप्रकाशनं तस्य गुणीभूतम्- उपकारकम्। तेन पत्रला निबिडा। युवतिहृदयक्रूरेति। यतिराजः स्वस्य संन्यासकारणं स्मरतीव। संन्यासादेव हि इदानीं जिगीषुरषि साक्षात्स्वयं कथायां न प्रवर्ते इति स्वात्मनि विमृशतीव। 21. संक्षिप्तमिति श्लोकः स्वकृतसर्वग्रन्थविषयतया तत्त्वमुक्ताकलापे आचार्याभिमतः इह स्वाचार्ययतिराजग्रन्थविषयकतयाऽनुसंघीयते। श्रीदेशिकमप्रन्थविषयकत्वे श्लोकार्थः स्पष्टः। प्रकृते यतिराजग्रन्थपरत्वात् संक्षिप्तमिति दीपसरयोः, विस्तृतमिति श्रीभाष्यस्य, सावधानप्रियमिति तत्रत्यकठिनभागस्य, प्राधान्येनेति वेदार्थसंग्रहादेश्च ग्रहणम्। इदं सर्वं पूर्वमेव पञ्चषाः प्रबन्धाः प्रावन्धिषत इत्युक्तमेव किल, किमर्थं पुनर्वचनमिति चेत्- गहनभागेऽप्यवधानार्यम्। अथ वा शिष्यस्तव एवात्र क्रियते- भवता यत् प्रणीतं संक्षिप्तं विस्तृतं वेत्येव नानाविधम्, तत् सर्वं भवदीयमपि, गुरुजनानुग्रहेद्धत्वात् भाषणंनः अस्मद्भाषणमेव। अस्मादौयपञ्चषप्रबन्धेष्विव भवद्ग्रन्थेष्वपि मदनुग्रहायत्तत्वात् मदीयत्वबुद्धिर्मेऽस्तीति तत्रोक्तविषयग्रहणेनैव वादिनो भवता जय्या इत्यादिशति। एवञ्च न पौनरुक्त्यदोषोऽपि। अथ स्वपरसर्वशिष्यग्रन्थानामपि मूलं श्रीभाष्यमेवेति स्तौति शिष्यः॥ 22. लोके दीपः स्नेहेन तैलेन दशां वर्तिमनपायमवसिच्यानुभूयते, शरणं गृहमागतानां तेनार्धरात्रेऽपि प्रीणनं भवति- तथा भाष्यमपि मनोदेहस्वास्थादिदशायामनपायेन स्नेहेन भक्तयाऽवसेकात् अनुभॄयते महद्भिः यत् शरणागतत्राणार्थं भाविचं प्रणीतमित्यर्थः। इदमेकमेवालं सर्वलाभायेत्याह असत्तामिति 23. असत्ता ब्रह्मज्ञानराहित्यम्। तमः इतराज्ञानादिहेतुतमोगुणम्। उच्छृङ्खलयितुम्- निष्प्रतिबन्धं कर्तुम्। पदमाधातुम् पदं निक्षेपयितुम्। प्रभवतीत्यत्रान्वयः। स्तवोऽयं यत्प्रश्नशेषभूतः, तमाह तथापीति। पारिप्लवमतिः चञ्चलबुद्धिः। अधिगतप्रमुषितं पूर्वं ज्ञातं पश्चाद्विस्मृतम्। 24. आदिश्य-इदं मा कुरु इत्युपदिश्य। अन्यथानियमयन् अन्तर्यामीभूत्वा निषिद्ध एव प्रेयन् ईश्वरः कथमाप्तः। इदं कुरु इति नित्यकर्मादि उपदिश्य, तदर्थे काले कार्यान्तरे
प्रेरयंश्चेत्यप्यर्थः। ननु पूर्वजन्मापतितपापवशात् निषिद्धे प्रवर्तते इति चेत्- तत्र पृच्छति सामग्रीति। मा कुर इति निषेधः किं प्रवर्तमानं प्रति, उताप्रवर्तमानम्। नाद्यः, पापबलात् प्रवृत्तस्य निवारयितुमशक्यत्वात्। नान्त्यः, वैयर्थ्यादिति भावः। स्वच्छाभावितदुष्कृतस्येति। अन्तर्यामिणा स्वेन प्रेरणादेवोत्पादितपापे पुरुषे दण्डः शिक्षा कथमित्यर्थः। प्रश्नत्रयं प्रतिवक्ति गुरुरेकेनैव वाक्येन।
कर्मोपधिः सावधिरिति समाधानं सर्वत्र। पुण्यं पापञ्च पुंसः पूर्वपूर्वकर्मायतं न स्वाभाविकम्। एवमुपधिभूतं कर्म केषांचित् माकुर्विति उपदेशश्रवणे निवर्तत इति दृष्टम्। इदमपि सावधित्वम्। अत उपदेशः सफलः। यस्तु श्रुत्वापि प्रवर्तते, तस्य रुचिं दृष्ट्वैवान्तर्यामी नियमयति तदिष्टपूरणार्थम्,मातृवत् प्रियकारित्वात्। अतो नाप्तत्वहानिः। निषिद्धे प्रवृत्तस्य पुंसो यत् कर्म, तस्य सावधित्वम् उत्तरावधिभूवेच्छाप्रवृत्तिदर्शनानन्तरभावितया दण्डोऽप्युपपन्नः। एवं दण्डे प्राप्त एव तत् कर्म सावधि भवति। क्षीयते, निषिद्धकर्मणः दण्ड-प्रायश्चित्तरूपान्यरावध्यवश्यम्भावादिति भावः। नन्वेवं प्रश्नः शिष्येण किमर्थं कृत इति चेत्- वादकथायामेतद्विषये प्रस्तुते वक्तव्यांशनिष्कर्षणार्थम्। अनेन विषयान्तरे सर्वत्र निष्कर्षस्थितिरपि निवेदिता भवति। लोके पूर्वपक्षिणो बहुविधाः- जीवानुभाव्यफलानां पूर्वपूर्वकर्मायत्तस्वोक्तौ अनवस्था प्रसज्यते। अतोऽयमन्धपरम्परान्यायस्त्याज्यः। फलव्यवस्था तु यादृच्छिकी। न तत्र किञ्चित् कारणमिति देहात्मवादिनश्वार्वाकाः। पूर्वपूर्वकर्म विना ईश्वरस्वीकारे तस्य वैषम्यादिर्दोषः। कर्मस्वीकारे तत एव कार्यसिद्धौ व्यर्थ ईश्वर इति निरीश्वरवादिनः। सिद्धान्तिनश्च ईश्वर- कर्मोभयस्वीकारिणः। फलस्य कर्मजन्यत्वं नाम कर्मस्वरूपाधीनशासकप्रौतिकोपान्यतरजन्यत्वभेवेति नेश्वरत्यागः शवयवचन उपरि वादोपयोगी।
परिमितं- कर्मोपधौ सावधौ इत्यक्षराणां परिमितत्वात्। गहनं दुर्ग्रहम्। गम्भीरम् अगाधम्। यावद्यावद् विमृश्यते तावत्तावद् दत्तावकाशम्। 25. इदमिति। अयं वर्तमानः कालः प्रथमः यस्मिन् कर्मणि तत्। इदंप्रथमं यथा तथा संभवतः कुमतिजालस्य नवीनयुक्तीनां यतीश्वयुक्तयाविर्भावकालेऽनवस्थितानामपि निवर्तिका इत्यर्थः। गोबलीवर्दन्याये नाद्वैतदूषणप्राधान्यमबलब्याह मृषेति। जीवातवः जीवनौषधभॄताः। चिरन्तनसरस्वत्यः श्रुतयः तासामेव स्त्रीणां चिकुरबन्धः उपनिषद्वाक्यजातम्। सैरन्ध्रिकाः तत्परिष्करणार्थस्त्रियः उपनिषद्वाक्यरूपान् चिकुरान् विकीर्णान् त्रेधा भेदाभेदघटकश्रुतिरूपेण विभज्यान्योन्ययोजनात् अशैथिल्यसंपादिकाः।
26. परैस्तन्मतानां मानितत्वमेतन्मताज्ञानादित्याह॥ चिन्तामात्रफलकाः दुरर्थास्तत्र। सिद्धतटिन्या गंगया चूडावत् चूडापदं शिरः यस्य स शिवः। मञ्जूषिकामिति । मण्डूकसंचारस्याप्यपर्याप्तामित्यर्थः।
परिमितं कतिपयमात्रगृहीतम् परिमितग्रन्थोक्तञ्च।
27. कुमतिविहितानां ग्रन्थनां ये ग्रन्थयः शिथिलभागगतशैथिल्यपरिहाराय कन्थाग्रथनवत् ग्रथनार्थविहिताः व्याख्यारूपाः प्राचीननवीनप्रस्थानभिन्नाः ग्रन्थाः तैः प्रभूते लब्धाधिवये मतान्तरे आग्रहयुक्तमनसः अल्पां परिमितवर्णां पश्यन्तु। विकटेति। विशालेत्यर्थः। भगवतः कौस्तुभवत् हृद्यमिदं यतिराजमप्तमिति भावः। कुलगिरितुलारोहे-साम्यवैषम्यावधारणार्ये कुलाचलस्य तुलायामेकस्मिन् धटे आरोहः, कौस्तुभस्य च घटान्तरे आरोह इत्येवं तेन सह तुलारोहे॥ कियान् भावी- न्यूनगुरुत्वाश्रय एव भवति। तावता न निकर्ष इति भावः। नन्वेवं भगवतो हृद्यत्वेऽपि लोके प्रचारो न भविष्यतीत्यत्राह स्थविरेति 28. नागरिकलोकनिरन्तरश्लाध्यमानस्याविवेकिसंघे प्रचाराभावो न दोषायेति भावः। स्थविराः प्राचीना अनादयः। स्थेयत्वं विवादपदविषयनिर्णायकत्वम्। क्षोभः सदसदनिर्वचनीयत्वादिसंभवभ्रमः। रसेति। रसश्च परिमलश्व कर्पूरगौ। तच्छ्लाघाघोषेण पुटभेदनं भिद्यमानं भवति। घोषो नगरव्यापीति यावत्। कर्पूरार्घमित्येव प्राक्तनः पाठः। अर्घो मूल्यम्। तत्र रसपरिमलयोरभावात् कथं बहुव्रीहिसमास इति चेत्- उच्यते। अर्घो हि मूल्यम्-तस्य लाभस्थानं पत्तनम्। अतो षष्ठीबहुव्रीहौ यत्संबन्धि यल्लाभस्थानं पुटभेदनं कर्पूरसंबन्धिरसादिघोषेण स्फुटत्, तमिति सुवचमेव। अथवा रसपरिमलश्लाघाया घोषः श्लेघाघोषः। यस्येति षष्ठ्याः घोषेऽन्वयः। एवंरसः, एवंपरिमल इति श्लाघापूर्वकेण यादृशमूल्यविषयघोषेण पुटभेदनं स्फुटदित्यर्थः समञ्जसः। अस्यैतावन्मूल्यमिति मूल्यस्यापि घोषणं हि लोके सहजम्। एवमपि लवणवणिजो न बुध्यन्त इति चित्रमिति भावः। तृतीयपादेन यतिराजमतस्य विवेकिलोकविशिष्टादरविषयत्वमस्तीति दर्शितम्। अन्ये क्षिपन्तु वा भजन्तु वा। किं तेन। ते हि भजन्तोऽपि स्वमताधिकगौरवार्हमिति न ज्ञास्यन्ति, कर्पूरभाग्लवणवणिग्वत्। अतो भजनमप्यनादरणीयम्। किमित्यभिमन्वते। न्याय्योऽयमर्घ इति न जानन्तीत्यर्थः। यद्वा किमित्येतावान् अर्घः, ? लवणखण्डस्य दृढत्वात् कर्पूरखण्डस्याल्पत्ववत् अदार्ढ्यस्मापि सत्त्वादित्मेव मंस्यन्त इति।
ग्रन्थस्याल्पपरिमाणत्वेन शंका निरस्ता। अथ नवीनत्वप्रयुक्तशंकामुपक्षिपति। भगवत इति पदं स्वयं गौरवाय तत्प्रयुक्तपदान्तरस्थाने योजितम्। तैस्तु भवत इति वा एतस्येति वा प्रयुक्तं स्यात्। आदरणीयं प्राक्तनत्वात्, अनादरणीयं नवीनत्वादित्यनुमानद्वयमप्याभास इत्याह किञ्चिदिति। 30.। अत्र पादुकापरित्राणे (8) `तेन तत् ते च’इति पाठः। `तेन तत् तेन’इति च पाठान्तरम्। प्रकृतपाठेत्वयमर्थः। किञ्चिद्वस्तु केनचित् पुरुषेण प्रतिहतविषयं बाधितविषयं तदवृत्तिधर्मवत्तया दृष्टम्। त्वेन अन्येन पुंसा तत्त्वेन यथार्थधर्मवत्तयाः दृष्टम्। तैस्तैः प्रथमद्वितीयपक्षानुयायिभिर्विभिर्न्नः द्वे च उपादायिषाताम् तत्तन्मतं स्वीकृतमित्यर्थः। अत्र केनचिदित्यस्य दुष्टेन करणेनेति, त्वेनेत्यस्य दोषरहितेन करणेनेति च अर्थोऽपि भवेत्। तदा तैस्तैः पुरुषैरित्यस्य पूर्वार्ध एवान्वयः स्यात्। त्वशब्दोऽन्यपर्यायः। द्वितयमपि मिथोविरुद्धं द्वयमपि, सत्- अवाधितमिति प्रमत्त एव वदेत्। तत् तस्मात् अर्थ्यम् अर्थादनपेतं यत् तत् प्रत्येतव्यम्। प्राक्तनत्वनूतनत्वे तु न आदरणानादरणप्रयोजके। अत एव ह्यद्वैतिभिरपच्छेदन्यायः सर्वत्र सञ्चार्यते। तदात्वे इति। सभापर्वणि 86.14 श्लोके आयतिञ्च तदात्वञ्चते शब्दाविमौ प्रयुक्तौ। यादवाभ्युदये प्रथमर्गेऽप्ययं श्लोकः। अर्थसंस्पर्शीति। पूर्वं हि ग्रन्थरूपशब्दराशिप्राच्यत्वनव्यत्वचिन्तयैव दोषवादः। 31. चूडा शिरोभूषणम्, तत्पदं शिरः। श्रुतिश्रेणीशिरोभिरुपनिषद्भिर्बहुमते। यद्वा श्रुतिश्रेणीचूडेति पदेन बिरुदेन बहुमते। तावकमते इति। लक्ष्मणमते इति यतिराजसप्ततौ। स्वहस्तेनेति। यदि कश्चित् स्वहस्तेन पंकपिण्डानादाय गगनं लिम्पेत्, स पंकस्तद्गात्र एव गलेत्, न तु गगने निर्मले स्यात्। तथा परैरुद्भाव्यमानाः दोषाः परपक्षेष्वेव पतन्ति। 32. तत्पक्षे पतन्तु मा वा। न कथमप्येतद्भङ्ग इत्याह निमीलयत्विति। श्लोकः सुभाषितनीव्यामपि। तिरस्कृतः अस्तंगमितः अभिभूततेजस्को वा। श्रवः श्रोत्रं स्वं स्थगयतु पिदधातु। परभृतः पिकः। ध्वांक्षति काको भवति। भ्रमतु मण्डलाकारेण। तदा तस्य क्षितिर्भ्रमतीति बुद्धिर्यद्यपि भवति, तावता भूमेर्न भ्रमणम्। ये भूमेः सर्वदा भ्रमणमिच्छन्ति, तेऽपि इदमतिशयितं भ्रमणं सदिति न मन्यन्ते इति ज्ञापयितुं बम्भ्रमीतीत्युक्तम्। कदर्थयतु पीडयतु। नभ इति शेषः। क्षुभ्यतीति पाठोऽप्यस्ति। बालिश इति पदं कथयेति पदञ्च प्रतिपादं संबध्येत। ननु सुभाषितनीव्यां कथयेति सामान्यपुरुषाभिमुख्येन प्रयुक्तं स्यात्। इह गुरुं प्रति वचने कथं मध्यमपुरुषः। न। पूर्वश्लोके तावकमते इत्युक्ततया तदनुसारेण मध्वमपुरुषे दोषाभावात्। सभ्यञ्चेत्यत्र सभ्यञ्चमिति स्थितः पाठः सम्यगिव। सभ्यञ्चेति पाठमवलब्य सभ्यो नाम जयापजयोः संभावनादण्डविधायक इति व्याख्यातम्, व्यवसायेनोपरि क्रियमाणं कार्यमनुरुध्य। उपरि सभापतिः सेनापतिद्वितीय इत्यस्ति, न तु सभ्यद्वितीय इति। उदितः उदयं-दर्शनं प्राप्तः। उदित-आतप-रजन्यादि-पदैर्विवेकस्य सूर्यत्वमर्थसिद्धम्। स एष इत्यतश्च। 35. गुणश्रेयानिति। उक्तं हि 10. शमदममुखा इति श्लोके। अत ए चमूपतित्वम्॥ विवेकस्य चमूपतिरित्यन्वयः। स्थाधातोः प्रकाशनस्थेयाख्ययोश्चेति आत्मनेपदम्। वर्तनं धात्वर्थः। यथायथम् आशयप्रकाशनं विवादविषयनिर्णयार्थनिर्णयाध्यवसायश्च अत्मनेपदेनाऽऽख्यायते। अत्रात्मनेपदद्वयं तदर्थद्वयपरम्। विवादविषयनिर्णयाध्यवसायेन स्वपक्षे स्थितेभ्यः सभापतिसभिकादिभ्यः व्यवसायः आत्मानं- इत्थमितिव्यवासायमाविष्कर्तुं सज्जो वर्तत इत्यर्थः। उचित्तमिति पदेन दण्डग्रणामानुगुणस्थलं नास्तीति सूच्यते। शास्त्रार्थरक्षणविषयः प्रकृत उज्यते अपिचेति। 36. शाक्यः बौद्धः। औलूक्यः उलूकरूपधरशिवोपदिष्टतर्कप्रवर्तकः कणादः। अक्षपादः गौतमः। क्षपणकः जिनः। कपिलः सांख्यस्य वक्ता। अमर्त्यवन्द्यः बृहस्पतिः चार्वाकप्रणेता। हिरण्यगर्भग्रहणे तु योगमतप्रवर्तकत्वम्। अत्र मूलपुरुषाणामेवोक्तिः। अथ वेदत्वाक्यमीमांसका उच्यन्ते। अद्वैतिप्रभृतयो वस्तुतो व्याघ्राः। कवचं धरन्ति। तेन व्याघ्रमुखं गोमुखवत् कनति। तेन गाव इमे, न व्याघ्रा इति भ्रमो भवति। अत्र कवचं वेदचर्चारूपम्। एवं प्रच्छन्नबौद्धजैनादिग्रहणम्। बंहीयः बहुतरतया। पूर्वपूर्वापेक्षया आधिक्येनेति यावत्। बहुधा जायमानेन-साक्षात् आवेशरूपेण चावतरता विष्णुना। त्वां विवेकाख्यं महाराजमक्षतं रक्षता श्रुतिरियं त्वन्मुखेनाभिगुप्ता सती बाह्यकुदृष्टिकृतं क्षोभमतितरतीत्यर्थः। कलहमतितरन्त्यक्षता रक्षतात् त्वाम् इति पाठान्तरम्। श्रुतिमूलकत्वात् विवेकस्य आशीर्वादनिविष्टत्वाच्च वाक्यस्य तद् युक्तम्।तदा उपरि आशीर्वादपदं कुशलीभूया इति वाक्यमिव रक्षतादित्येतद्विवक्षितमपि संगृह्णाति। मीमांसापादुकान्ते रक्षतादित्येव पाठ एतच्छलोके। संमुखेति। अभिमुखेत्यर्थः। अत्रभवदित्येकं पदम्। आदेक्ष्यन् प्राक् उचितरीत्या स्तौति सौम्येति। 36. अत्र पात्रयेर्व्यक्तिः। प्रभुरिति। प्रवदतां कथां कुर्वतां बादल्पवितण्डासु यो वादः तत्त्वनिर्णयाय प्रवृत्तः प्रभुः भगवद्विभूतिभूतः, वादः प्रवदतामहमित्युक्तः स इति त्वं मे मतः। स वादः वादाभिमानी प्रभुस्त्वमिति वाऽन्वयः। मतोममेत्यनेन वादकथाया एव स्वाभिमतत्वमपि ज्ञाप्यते। `परिभव बाह्यमुखान् विरोधिनः’ इत्येतावदेव प्रकृतिम्। अथापि तदर्थप्रवृत्तेरुच्छृङ्ङ्खलत्वातिप्रसक्तत्वापत्तिभिया विवेकः स्वस्य राजत्वानुरूपं वक्तव्यान्तरमप्याह 37. सत्त्वेति। श्लोकोऽयं रहस्यग्रन्थेऽपि। तत्र माधवात्मजो राजा आचार्यैः प्रतिसमादिष्टः। तत्र सतांवृत्तिमित्यस्य सत्पुरुषाणां जीवनार्थक्षेत्रदानादिकं कुर्वित्यप्यर्थः। विनयादिस्वगुणेन सात्त्विकानुग्रहविषयो भव। सतांवृत्तिं सदाचारम्। त्रस्य त्रस्तो भव। तृणमिव भावय श्लाघनदूषणराहित्येन वर्तस्व। धाराधरैकान्तिनश्चातकस्य यो धर्मः, अन्यस्माज्जीवनाग्रहणम्, तद्ब्रतो भव। राज्ञा पूर्वं प्रथममित्युक्तत्वात् तत्र मुख्यस्य बाह्यमुखप्रतिवादिपरिवनप्रेरणस्याकृतत्वाच्च तदवधानाय सेनापतिराह अवधारय भूय इति।
38. परिचरेति। पूर्वोक्तं प्रसादनं प्रणामानुवर्तनादिमात्रम्, अत्र किंकरत्वमुच्यते। अयमिति भगवदुक्तवाक्यमित्यर्थः। अनेन अन्यदपि किञ्चिद् वक्ष्यतीति ज्ञापितमिति जानामीति सूचितम्। प्रत्यंशखण्डनविस्तरस्य नायमवसर इत्याशयेनाऽऽदिशति प्रमाणेति। 39. स्थालीपुलाकनीत्येत्यस्य विमर्दनेऽन्वयः। एकैकस्थालीगतं पुलाकमेकं गृहीत्वा विमर्दने सर्वपरिस्थितिरावेद्यते। प्रतिकथकवाक्येऽपि राज्ञः सहसा दोषग्रहणं नास्तीति ज्ञापनाय स्थालीपुलाक। सुवर्णखणअडसाम्यकथनम्। कौतस्कुतान् कुतः कुत इति हेत्वाकांक्षान् वादिनः। 40. जयतीति। लोकहितार्थशैलशाखिसूर्यचन्द्रेन्द्रधर्माणां गुरौ समुच्चयः। वाहिनी नदी। सर्वाण्यपि विद्यास्थानानि मेघादाप इव यतीन्द्रशैले पतित्वा दुष्टेष्वंशेषु निवृत्तेषु वेदवेदान्तार्थोपस्करणौपयिकशुद्धिमत्तया ततो नदीरूपेण प्रावहन्। एवं सर्वविद्याशोधकत्वं दर्शितम्। प्रतिवादिवाक्यं नेपथ्ये 41.। स्वयं परैरनिगृहीततया स्थित्वा अनाभासन्यायप्रयोगं चिकीर्षतां तर्कशास्त्रपठनं मुख्यमिति तस्य प्रथमनिर्देशः। संस्कृतभाषया व्यवहारे विवक्षितार्थवाचकसाधुशब्दविज्ञानमपेक्षितमिति व्याकारणस्य द्वितीयता। विशिष्य वैदिकार्थविचारे तद्विचारपरिचयः कार्यकर इति मीमांसाऽपि गृह्यते तन्त्रेति। तन्त्रति तर्कव्याकरणभिन्नसर्वग्रहणं वा। तर्कादिशिक्षितत्वं सर्वसाधारणधर्मः। तत्तन्मतलब्धपौरुषत्वमसाधारणम्। अपिना कुदृष्टिपक्षग्रहः। तूलायेत्यादि। तूलादितुल्यादरमपि न कुर्म इत्यर्थः। राज्ञा सत्त्वस्थानित्याद्युक्तं परिभवेत्युक्तञ्च पूर्वार्धोत्तरार्धयोरनुसंदधाति शिष्यः यतीश्वरेति 42. सरस्वती सूक्तिः। तत्सुरभितत्वं तत्सूक्तितदर्थविषयकानुभववासनानिर्भरत्वम्। प्रणतिशालिना नम्रेण। पूर्वं प्रणामान्वितेनेति वा। तदन्येति। यतीश्वरसरस्वतीसौरभात्मकमतान्येत्यर्थः। तन्मतकृतेन दुर्मदेन क्रुद्धनाम्। तैः, तूलायापि तृणाय वा न मन्यामह इति स्वेषां प्रतिभटेषु निकृष्टाभिमानवत्त्वमुक्तम्। तावता निर्कषस्य वास्तवत्वं न सिद्ध्यति। मया तु पदं शिरसि निक्षिप्यते। तत् तेषां निकर्षः तेषामन्येषाञ्च प्रत्यक्ष इत्याशयेन लक्ष्यत्रामित्युक्तम्। हनूमत एव। `दासोऽहं कोसलेन्द्रस्य……. न रावणसहस्रं मे’इति लंकायां गर्जितं हि तेन। विकत्थनमिति पदं विमृशति गुरुः। विकत्थनम् आत्मश्लाघनम्। तद् यदि अविद्यमानगुणारोपेण, तदा किल विकत्थनं स्यात्। इह तु गुणोऽस्त्येव। व्यक्तिभेदेन विनयतत्त्यागवचनं न विकत्थनम्। जितवताऽप्यनेन वस्तुस्तेषां शिरसि न पदं निक्षेप्स्यत इत्यालोच्यैतदुक्तिः किमिति भावः। वल्गितं चेष्टितम्। किं न शोभते। शोभत एव। आत्मश्लाघनेति। स्थितस्यापि गुणस्य स्वयंकथनमयुक्तमिति हृदयम्। दर्शनञ्चेति। हयग्रीवहेषात्वपरसिद्धान्तपरासकत्वोक्त्या प्रथमश्लोकेऽपि दर्शनस्तवः सिद्ध्यति। हृत्पद्मेति विशेषणेन साक्षाद्वादेन विजय उच्यते, गुरुमुखोद्गतवाक्यानामेव हेषात्वरूपणात्। उत्तरार्धेन ग्रन्थमुखेन परपरासनम्। दिग्रूपेषु सौधेष्वाबद्धाः ध्वजपटाः। ग्रन्थानां पटत्वरूपणम्। जयध्वजपट्टिकेति अन्यत्रोक्तत्वात्। स्फातिः वृद्धिः वेगः। तत्तत्सिद्धान्तस्य संबन्धिनः विषयपुञ्जा एव तूलस्तबकाः। वर्तनी मार्गः। ननु गुरपंक्तेः कृत्स्नायास्तथात्वे यतीश्वरसरस्वतीति किमिति विशिष्योक्तिरित्येतत्समाधित्सया किञ्चेति प्रयुज्य दर्शनस्तवं प्रधानीकृत्याह नाथेति 45. । नाथस्य जागन्नाथस्य श्रुतेश्च य आश्लेषः ईषदपि मिथोविश्लेषाभावः, तेन सनाथनात् श्रुतेर्जगतश्च नाथवत्त्वापादनात्। अस्य छिदमित्यत्रान्वयः। नाथमुनिपरम्परागाढसंबन्धेन स्वसिद्धान्तस्य नाथवत्त्वापादनादित्यर्थे तु प्राचीनामित्यत्रान्वयः। उक्तं हि नाथोपज्ञं प्रवृत्तमिति। नयपद्धतिम्। नयः नयगणरूपा कृत्स्ना मीमांसा। तस्य प्राचीनव्याख्यारीतिरेव पद्धतिः बहुक्षुण्णा। तां विध्यपूर्वशेषत्वादिशोधनेन आकृत्यधिकरणारुणाधिकरण-देवताधिकरणादिपरिष्करणेन ईश्वरस्थापनेन च निरीश्वरमीमांसककल्पितनवमार्गनिराकरणम् पूर्वमीमांसां, श्रीभाष्यादिभिरुत्तरमीमांसाञ्च यथावत् प्राचीकशत् यतिपतिः। तेन श्रुतेरीश्वरपरत्वाभाववादः, ईश्वरसत्त्वेऽपि तदैतम्पर्यं विहाय निर्गुणब्रह्मपरत्वस्य, अथवा ब्रह्मणः प्रमेयत्वापत्तिभिया स्वयम्प्रकाशस्य प्रकाशनीयत्वाभावेन सर्वविधब्रह्मतात्पर्याभावस्य च यो वादोऽद्वैतिकृतः, स च निराकृत इति वैधव्यखेदच्छेदसिद्धिः। प्राचीकशदिति। अत्र लृङ्प्रयोगाभावेऽपि तदर्थोऽर्थसिद्धः। प्राकाशयिष्यन्न चेदिति वा पाठ्यम्। प्राचीकशदिति वाक्यं समाप्य, नैषचेत् इति पृथक्करणमपि स्यात् मा वा। उत्तार्धे स्यादित्यध्याहार्यम्। तत्र अभविष्यदित्येव वाऽध्याहारः। प्राचीकशदिति शब्दनिष्पत्तौ माधवीयं कश कशि इत्यत्र। हासपदीकृतः परिहृत इति बहुसंमतपाठः। क्लृप्त इत्येतद्रीतिबलाच्च। इतिहासपुराणविस्तरेण सगुणब्रह्मनिष्णातत्वात् व्यासः शोचनीयः कृतोऽद्वैतिभिः। `मायामात्रं तु’ `आत्मेति तु’इति अद्वैतानुगुणसूत्रशकलादिकं व्यासग्रन्थे दृश्यम् तावदपि नास्तीति गुणाभिरामरामैकपरत्वात् वाल्मीकि परिहर्तव्यः। श्रीभागवतेऽपि श्रुति गीताद्यनुकूल-प्रतिकूलसंकरात् केलिशुक एव शुकः। बोधायनस्तु सर्वथा विशिष्टाद्वैतानुकूलब्याख्याकारः `वृत्तिकृतस्तु’ इत्येव खण्डित एवेति बाध एव तस्येति परे उपन्यस्य सर्वानप्यवञ्चयिष्यन्, यदि न यतिपतिः श्रीभाष्यमरचयिष्यदिति भावः। मुधाबाधयेति मुधाशब्देन परकृतबाधस्य व्यर्थत्वमशवयत्वं स्वाभिमतं कविराविष्करोति। यतिराजावतारात् प्राक् व्यासादयः एवं कृता एवासन्निति व्यञ्जनार्थम् भवेत् अभविष्यदित्याद्यप्रयोगः। एवञ्च एकान्बयेन, प्राक् हासपदीकृतो व्यासः, मानसात् परिहृतः प्राचेतसश्च, केलिशुकतया क्लृप्तः शुकश्च, सः- साक्षादनूद्य खण्डितो बोधायनश्च मुधाबाधायैव पश्चादपि स्युरित्यर्थोऽपि। सनाथनश्रुतीति पाठे सनाथनः इति पदच्छेदः। यतिपतिविशेषणम्। सनाथीकर्तेति कर्तरि ल्युट्॥ सनातनेति पाठे आश्लेषपदस्य आश्लेषणेन छिदमित्यन्वयः।
46. तच्छब्दौ गुरुपरौ। तस्य वस्तु पुत्रदारादि, वास्तु गृहम्, आदिना संबन्धिजनादिपरिग्रहः। गुणवति शिष्ये। किं न विन्देत्? विन्देदिति। यद्वा किं कीदृशं निधानं निधिं न विन्देत् धन-ज्ञान-मोक्ष भगवद्भागवतानुग्रहादिकं सर्वं विन्देदिति। मतान्तरपुरुषगतगुरुभक्तेर्निधिप्रापकत्वाभावमालोच्य शिष्य आह देवेति। तदत्रेति। तद्बलमत्र, नान्यत्रास्तीत्यर्थः। संपश्यतामित्यात्मनेपदं कर्माप्रयोगात्। 47. निराबाधाः ईषदपि बाधरहिताः। इदं मुख्यं मतान्तरवैलक्षण्यम्। प्राचीनमुनिव्याख्यानुसारित्वमाह बोधायनेति। तदाह वृत्तिकार इति हि तत्र तत्र दर्शितम्। निष्यन्दः अनुवादः। विशुद्धिः विषयासांकर्यम्। तेनाधिकरणानां मिथो भेदः। तेन विषयभेदेऽप्यैकाधिकरण्यं विषयैवयेऽपि अधिकरणभेदश्च परमत इवेहि नेत्यर्थः। मुखैः तर्कैः। धमनिः नाडिः। रसः द्रवसारः। प्रबन्धेन युक्ततया अर्थप्रतिपादनं नाडीं विद्ध्वा रसमिवानिद्राणां प्रज्ञां स्फुरन्तीं प्रसारयति। अत्र भिषजा शीघ्रारोग्यसंपत्तये भेषजरसं पात्रे निक्षिप्य अकुण्ठेन सूचीमुखेन शरीरान्तर्नाडीं भित्त्वा रसप्रेरणं क्रियमाणं ध्वन्यते। आचार्यस्य वैद्यस्यार्वाचीनवैद्यवैदुष्यमपि॥ ग्रन्थगौरवं प्रोक्तम्, सिद्धान्तगौरवं दर्शयति दृष्टे 48. इति। दृष्टस्य प्रत्यक्षमाणसिद्धस्य अपह्नवः अपलापो मतान्तरे, जगन्मिथ्यात्वस्वीकारात्। गुणगुण्यादेरभेदत्य कैश्चिदुक्तैः। ज्ञानज्ञानिभेदस्य बहुभिर्निषेधाच्च। वस्तूनामिव धर्मधर्मिभावादिना भेदस्यापि प्रत्यक्षसिद्धत्वात् तदपलापो न युक्त इति ब्रूमः। अनुमितिविषये अनुमानैकसाध्ये। प्रत्यक्षगम्यमपि तदभावे कदाचिदनुमीयते, एवं शब्दवेद्यमपि। प्रत्यक्षेण वा प्रत्यक्षमूलकशब्देन वा यद् बाध्येत्, तदनुमातुं न शक्यम्। अतः प्रत्यक्षागमानवगतः प्रत्यक्षागमाबाधितश्च यो भवति, स एवानुमेयः। तत्रापि लघुपक्षेणान्यथासिद्धौ गुरुभूतांशस्य साधनायोगात् लघुभूतमेवानुमेयं भवति। अत एव गोत्वं गवेतरभेदः गवाकृतिरित्येषां शब्दभेदेऽप्यैक्यमेव, तावतैव निर्वाहात्। विशेष्यविशेषणोभयातिरिक्तः समवायरूपः संबन्धोऽपि नेष्यते अन्ततः संबन्धं विनैव विशिष्टव्यवहारस्य निर्वाह्यत्वात् अनावश्यकत्वात्। अभावस्य स्वरूपमेव संबन्ध इति तार्किकैरुक्तत्वाच्च। एवं त्रसरेण्बधिकः सूक्ष्मः परमाणुर्नेष्यते। ईश्वरादिसिद्धिर्वेदादिति च तत एवोच्यते। घटादिप्रत्यक्षोपपत्तये अन्तः करणनिर्गमः, विषयेषु प्रसरणमित्यादिकल्पनं नेष्यते इत्येव द्रष्टव्यम्। शास्त्रेणैव निर्घार्योऽर्थः स्वर्गादिलोक-देवतादिविग्रह सर्वेश्वर-तद्गुण-विग्रहविभवव्यापारादिः। तदसत्यत्वावादो मुखान्तरेण नास्तिक्यमेव। नाथोपज्ञम्। परमतनिरासेन विशिष्टाद्वैतप्रमेयसाधनाय न्यायतत्त्वाख्यं शास्त्रं निर्मितवता श्रीभगवन्नाथमुनिना प्रत्यक्षतो युक्तितः शास्त्राच्च पूर्वोक्तप्रमाणात्, योगसाक्षात्कृतवकुलभूषणमुनिमताच्च प्रथमतोऽवधारितमथाविच्छेदेन प्रवृत्तम्, तत्पौत्रैण तच्छिष्यप्रशिष्येण श्रीभगवद्यानुनमुनिना प्रबन्धैरष्टभिरभिवर्धितम्, गीताशरीरकप्रत्यक्षरव्याख्यानेन परकीयार्थानुपपत्तिप्रदर्शनेन परमताप्रामाणिकत्वस्य स्वमतप्रामाणिकत्वस्य च शरीरात्मभावदिरूपप्रतितन्त्रसिद्धान्त प्रकटव्युत्पादनपूर्वकं निरूपणात् यतीन्द्रैः श्रीभगवद्रामानुजमुनिभिः सम्यक्त्रातमिदमेवास्मादादरणीयं दर्शनम्, अखिलतमः कर्शनत्वादित्यर्थः। अन्यतु सर्वं प्रमाणापेतं तमोमूलञ्चेति।
किमुच्यत इति। कःसंदेहः। अत्र न किञ्चिद् वक्तव्यम्। सत्यं भवदुक्तमित्यर्थः। राजानमिति। उक्तार्थस्य विकत्थनरूपतायास्तदुक्तत्वादिति भावः। गुरुणा, `किनशोभते’इत्युक्तत्वात् राजा शिक्षितस्सन् अनुमन्यते पठ्यतामिति। तत्र वामपादे तत्र तत्र न्यासात् पूर्वं कुट्टाककटकार्पणमप्यालोचितमस्तीति। वीप्साभिप्रायः। समासादितेति। समासादितानां सर्वविद्यानां निधेरित्यर्थः। निधिपदं न व्यर्थम्, भाग्यशालिजनग्राह्यतायाः स्फोरणात्। यद्वा विद्यारूपाः निधयः सर्वे समासादिताः येनेति विग्राह्यम् संव्यवहारेण सहभाषणेनेत्यर्थः। ननु वादस्य करिष्यमाणता संशयस्यापनेष्यमाणता च स्थितैवेति किमित्येवमिह राज्ञोच्यत इति चेन्न-पूर्णनिष्कर्षपर्यन्तवादः कार्य इत्यत्र तात्पर्यात्। यद्वा तैस्तर्कव्याकृत्याद्यभिज्ञत्वमाघोष्यते। भवतः सर्वविद्यानिधित्वेऽपि तेषां तत्र संशयः स्यात्। वेदान्तमात्रवेदित्वबुद्धिः स्यात्। सर्वशास्त्रपारगत्वं परेभ्यो वाच्यम्। किञ्च तेषां विपश्चिदपश्चिमत्वात् तत्तन्मते भवदवधारिताधिकांशावधारणं तैः कृतमस्ति चेत्, भवता क्रियमाणं दूषणं न स्थायि भवेत्। अतस्तैः संव्यवहारमादौ कृत्वा तदवधारितं ज्ञात्वा दूषणं वाच्यम्। अतस्तेनतेनागत्य तत्तन्मतरहस्यमुपन्ययतामित्यर्थः। शिष्यः स्वस्य सर्वविद्याज्ञानपौष्कल्यम्, संव्यवाहारानावश्यकत्वञ्चाह। राज्ञोऽपि संशयः स्यादित्यालोच्य निशमयतु निपुणमेतन्महाराज इत्युक्तम्। कणचरणः। चर भक्षणे। कणाद इत्यर्थः। तत्कथा वैशेषिकदर्शनम्। आक्षपादं गौतमीयंन्यायदर्शनम्। शिशिक्षे इति पूर्वापरानुसारात् कर्तरि लिडुत्तमपुरुषः। अहं गृहीतवान् इत्यर्थः। ननु कथं शिक्षणस्य परोक्षत्वमिति चेत्-गौतमपक्षस्य स्वीकर्तुं शक्यतया अर्वाचीनव्याख्यानोक्तरीतौ निरसनीयांशः स्थितो नाक्षपादीयः। अतोऽर्वाचीनगतिशिक्षणं मत्कृतं न साक्षादाक्षपादमित्याशेयेन वास्तवाक्षपादाशयशिक्षणापह्नवः। विना शिक्षणं तत् निर्धार्यत इति हृद्गतम्। मीमांसामांसलात्मा। शरीरस्य मांसैरिव मनसो मीमांसाज्ञानैः पुष्टिः। मुहुः पुनः पुनः सांख्यशास्त्र-योगशास्त्रप्रवचनमकरवम्। इह-एवं रीत्या उक्तानेकशास्त्रपरिचयाधिवयेन सर्वशास्त्रपूर्णनिष्कर्षेऽस्माकं सति। यतीन्द्रत्रुटिताः छिन्नपातिताः ये अपार्थशास्त्रान्तररूपाः कण्टकिवृक्षकान्ताराः तत्रैव इत्थं पान्थैः पर्याप्तं पर्यचैषमित्यादिमदुक्तरीत्या संचरमाणैऋ स्स्वलद्गतिभिः अज्ञानान्धकारमध्यगतत्वात् बहिरागन्तुमशक्तैरेभिर्वादिभिस्सह नः चिन्तनीयं संव्यवहारणीयं, तथा तैर्वादिभिरस्मदाक्षेपोपरि नस्स्समाधानाय परिशीलनीयं वा किं तनीयः-अत्यल्पमपि नास्ति। अधिकपरिचयशल्यस्मदाक्षेपसमाधानमेभिर्नशक्यं कर्तुमित्यर्थः। पूर्वपक्षिभिर्व्याकृतेरुक्तत्वेऽपि इह तदनुक्तिः यत्प्रधानप्रमेयकं शास्त्रं तस्य प्रमेयस्य वेदान्त विरोधे तच्छास्त्रेण सह वादः। तर्कादिप्रमेयैः सहेव व्याकरणप्रमेय साधुशब्दनिष्कर्षेण सह विरोधाप्रसक्तेः शिक्षादिवत् तस्योपजीव्यत्वात् न तस्य गणनीयतेति। स्वस्यानेकभाषानैपुण्यमुपरि वक्ष्यते च। अस्य श्लोकस्य आशयान्तरं केचिदाचार्या आहुः- पर्याप्तमित्यादिपूर्णार्धं तत्तद्वाद्युक्त्यनुवादः। न तु स्वपाण्डित्यप्रकटनम्। तथा च काणादादिमतप्रवीणत्वादि कथयन्तो ये इत्थं मृषातन्त्रपान्था भवन्ति, तैर्नश्चिन्तनीयं न किञ्चिदिति॥ पूर्वार्धेन स्वस्य सर्वतन्त्रप्रावीण्यं वक्तव्यत्वादुच्यते। इत्थमिति पदेन च स्वस्येव तेषामपि तदभिप्रायवत्त्वमुच्यत इति सुवचमिति तथैव योजितम्।
यतीन्द्रग्रन्थमात्रे अधीतिनोऽपि सर्वपरविजये पर्याप्ता इत्याह यदीति। अविद्यातमः- प्रत्यूषम् अज्ञानान्धकारनिवर्तकप्रातः कालरूपम्। प्रतितन्त्रं यतीन्द्रसिद्धान्तासाधारणार्थं श्रीमन्नः- रायणपारम्यं तस्य तदितरसर्वनिरूपितात्मत्वं शब्दानां तत्पर्यन्तविशिष्टवाचित्वं तस्य सर्वकर्मसमाराध्यत्वं भक्तिप्रपत्तिवशीकार्यत्वं भोगसाम्यप्रदत्वं प्रकृति– तदतिरिक्तनित्यविभूतिनित्यसमृद्धिरित्यादिकम्। हेवाकः कुतूहलम्, येन हेहे इति वाग् भवति। मुखान्येव दुन्दुभयः। मुखान्येव दुन्दुभिस्थाने। युगलवादः द्वयोरेव वादिप्रतिवादिनोः कथाप्रस्तावः। तत्तत्सिद्धान्तदोषप्रकाराणां विभिन्नत्वात् पृथक्पृथगेवोपन्यसनीयत्वादिति भावः। वारयत्विति। कोलाहलादिति शेषः। तस्यैवोपरिकरणात्। अयमसावित्यत्र अयमतः इति पाठः स्यात्। अथवा अयम् अत्रत्यः असौ तत्सविधस्थस्सन् इत्यस्तु। सर्वानपि प्रति युगपद् वक्तव्यं यथार्हं समुदाय्दूषणमप्यस्तीत्याशयेन शिष्योऽन्तर्हसन् आह।
52. अध्यक्षमिति। प्रत्यक्षप्रमाणं शब्दप्रमाणञ्चानुमानरूपतर्कप्रमाणापेक्षया लघु इति ये अनुमानेनैव मतं स्थापयितुं प्रवर्तन्ते बौद्धादयः, तेषामयं मोह एव। नहि तर्कमात्रस्य तत्त्वसिद्धिफलकत्वम्, तस्याप्रतिष्ठितत्वात्। अतो मेधामात्रेण मतसिद्धिर्न भवति। सन्तु नाम बाह्या इमे लघिष्ठाः। अन्ये कतिचन कुदृष्टयो मानं श्रुतिप्रमाणं सेतुं साधकं मन्यमाना अपि, वयमेव प्रवीणा इति अहं काराख्ये माने स्थिताः सभानर्हाप्रामाणिकाभासवावयकदम्बावरुद्धतया दन्तुरेण मुखेनैव सभ्यान् सत्त्वगुणाधीनयथावस्थितज्ञानशालिनः पुरुषानपि जेतुं व्यवस्यन्ति। हंहो कष्टम्। लघिष्ठा इत्यस्योपर्यन्वयो वा। पाठान्तरानुरोधात्, का शंका शंकरादेरित्यद्यनुसाराच्च। दुर्जनाः दुष्टजन्मानः।
53. बाधादिभिः- वाधविरोधव्यभिचारासिद्ध्यादिभिर्हेतुदोषर्यैथायथं तत्तद्धेतुनिगसः। निजागमाः- स्वबुद्धिकल्पिताः वाक्यराशयः, बौद्धाद्यागमाः। प्रागल्भ्यं प्रौढत्वाभिमानः। संभूय न प्रभूताः एकैकस्पैव पर्याप्तत्वात् मेलने अधिका इति न। मेलनेऽपि न पर्याप्ताः।
54. वशिकतटिन्यः क्षुद्रनद्यः अधिकवर्षसमये परं प्रवहन्त्यः। आरम्भमात्रे अद्भुतमुपान्यस्य पश्चादसामर्थ्यादुपरमन्तीति भावः। अपभ्रश्यद्भिः अर्थापेतैः शब्दजालैराडम्बरप्रदर्शिनः उपन्यसनक्रमैः उदग्रकुतूहलान् विपश्चित्त्वभ्रान्त्यास अद्भुतं वक्ष्यन्तीति श्रवणोत्सुकान् बालान् स्वमतस्थान् अज्ञान् स्वसहायीकुर्वन्ति। उपलनिकरग्रासेति। तदुपन्यासशब्दराशयः कर्णे पतन्तः मुखनिविष्टोपलशकलबलवदास्वाद्यन्ते इत्यर्थः। सृगालेति। पूर्वं महामोहसमीहितं पिशाचविवाह इति, प्रतिवादिकोलाहलः गर्दभगानमिति चोक्तम्। अस्मिन् गाने महामोहानुबन्धिकामक्रोधादिबाललीलायाः जम्बुकविस्मयत्वकल्पनेह कृता। प्रबादं `वादः प्रवदतामहम्’इत्युक्तं प्रवदतां कर्म प्रवादः। मिथ इति। वेदान्तिनिरसनाय मेलनकाले मिथः श्लाघां कुर्वन्ति। तेन माद्यन्ति आरूढगर्वा भवन्ति। अत्ताः तेषामेवेष्टम् अन्यकृतश्लाघाश्रवणसमयभावि आत्मविकत्थनम्। सज्जनतिरस्कृत वात् तन्मा भूदित्यर्थः। मिथ श्लघां स्वयंश्ल घाञ्च विसृज्य प्रत्येकं वादे सन्नह्यतामित्युक्तं भवति। अनुप्रसृतौ तद्गमनानुगुणं पश्चात्कर्तव्ये प्रकृष्टगमने। युष्मन्मते एकतमस्य प्रामाणिकत्वेऽपि सर्वेषां श्लाघनमलीकविकत्थनञ्च न युक्तमिति भावः।
56. माहाराष्ट्रीमिति। हास्याम् तत्तद्माषारीत्याऽप्यपशब्दमयत्वात्। तत्तद्देशे संस्कृतापभ्रंशतया जाता या भाषाः, तत्र ग्रन्था विलिखताः तैरागमत्वेन वेदतुल्यं मान्यन्ते। तत्तद्भाषावेदिनः दैव्याः भाषया व्यवहारे समार्था असमर्थाश्च स्युरित्याशयः। यथारुचि प्रतिवाद्यपेक्षानुरोधेन। भवत्प्रसादगोचरत्यत्रावधानं विधाय प्रशसति सेनापतिः। कुम्भसंभूतयः अगस्त्याः। परिपक्त्रिमा परिपक्वा प्रमित्याः भारत्याश्व संपत्। कौतस्कुतत्वेनातीव प्रसिद्धा अपि सुधियां पुग्स्त त् कुत इति प्रष्टुमप्रगल्भा भवन्तीति यावत्। सर्वस्यापि निर्वचनस्य खण्डनेनैव स्वपक्षसिद्धिं मन्वानस्य वैतण्डिकस्य खण्डखाद्यकर्तृप्रभृतदेः कलहोऽपि शाम्यतीत्ययाह विकल्पेति। 58.। श्रुतिपथं श्रुत्यभिमतवस्तुखरूपस्वभावादिकम्। विघटयन्नित्यस्य कलहं प्रति विशेषणत्वम्। यदृच्छानिर्दिष्टे। एतत्खण्डनानुद्देशेनोच्चरितेऽपि। यतिनृपतिशब्दे भाष्यकारीयसदसन्निरूपकवाक्ये। यतिनृपतिरिति नाम्नि वा। प्रतिकथका एव वेतण्डाः गजाः, तत्सेनायाः यो धृष्टव्यापारः स एव व्यतिमथनसंरम्भः वाद्युक्तसर्वविषयनिराससाहसात्मा कलहः। स विरमति। अद्वैतिनः सर्वे वैतण्डिका एव, मिथ्येति वदन्ति, सत्यमिति चरन्ति।
दंसितस्य संजातकवचस्य। आहवनिर्वाहौपयिकं बलमप्यस्तीत्याह उपरितश्नश्लोकेन।
59. अर्थ्या यथावस्थितार्थादनपेता। संयमिनां पत्या राजन्वती यतीन्द्ररूपसुराजयुक्ता। अत्याहितं (प्रतिकथकमतप्राबल्यशंकारुप) महाभयम्। सुधा सारस्वतश्रीभाष्यादिप्रतिपाद्यार्थजातम्। उत्तरार्धेन संसारनिवृत्तिहेतुत्वोक्त्या अत्याहितच्छेदिनेति पदेनान्यद्वक्तव्यम्। ननु निरन्तरभगवदनुभवरूपभक्तिभरितयतीन्द्रोपदेशरसास्वादपराणां तादृशरसानुभावनेन सर्वचित्तद्रवीकरणचुञ्चुपदकदम्बगुम्भनगवीण्येऽपि, तच्छ्रवणमात्रेण कतिपयपृथग्वाद्यपगमेऽपि जिगीषासंरब्धकौतस्कुतविकल्पकल्पनाकबलनाभावात् जयन्तीत्युक्तो लोकाभिनन्द्यो जयो न भवदित्याशंकायां श्रीभाष्यकारशिष्यपरम्परायां सर्वत्र तत्त्वनिर्णय-मधुरोपदेशरूपनिधिद्वयसद्भावं वास्तवत्वात् स्वीकृत्य स्वस्मिन् सर्वपरविजयौपयिकस्य विशेषांशस्यापि सद्भावमाह विस्तरेण। कटकेषु वादिव्यूहरूपसेनानिवेश्स्थलेषु। अहंकारः सर्वदुर्वादिनिरसनसमर्थोऽहमिति बुद्धिः। 60. यतीन्द्रपद्धतिजुषामिति। नः अन्येषाञ्चेति शेषः। आजानशुद्धा आजन्मशुद्धा। मतान्तरस्थानामिव कञ्चित् कालमन्यथा भूत्वा पश्चाद्विचारेण यथार्थग्रहिणीति नेत्यर्थः। अव्याजं प्रयोजननिरपेक्षं जनानुग्रहैकोद्देश्यकम्। विदग्धं दुर्बुद्धिनिराससमर्थम्। मुग्धं सुन्दरशब्दसन्दर्भरूपम् भगवदनुभवमोहमेदुरं वा। मधुरं रसवत्तमम्। शाश्वतम् अबाध्यानाद्यनूद्यमानार्थकम्। छटा अनुस्यूतपरम्परा। शस्त्राशस्त्रि शस्त्रेण प्रवृत्तं युद्धम्। तद्विहारस्तर्कच्छटया। तेन संमृतः संपादितो रणास्वादो यत्र, तेषु॥ 60. यतीन्द्रपद्धतिजुषामिति वक्तुः शिष्यस्य हृद्गतं गुरुगौरवं सेनापतिः स्पष्टमाह 61. । एका दृष्टिः दया, “दयारूपदेशिकदृष्टिदंसितस्य"इति प्रागुक्तत्वात्। स्वकरेण स्पृशन् गात्रं मन्त्रविद्भावकयेत् दृशम् इति भरद्वाज इति चाहुः। प्रसिद्धा च श्रीवरदगुरोर्दृष्टिर्वक्तरि आचार्ये। द्वाभ्यामिति बाह्यचक्षुरुक्तिः। यथायथं विकल्पसमुच्चयग्रहणार्थं वापीत्युभयग्रहणमिव। तिसृभिर्दृष्टिभिरिति रुद्रदृष्टिग्रहणम्। अष्टाभिरिति चतुर्मुखस्य। सहस्रेणेति इन्द्रस्य। `यद्वा जायमानं हि पुरुषम्’इत्यत्र विष्णुब्रह्मरुद्रदृष्टीनामेव सात्त्विकराजसतामसत्वमेदात् कार्यकरत्ववर्णनात् इन्द्रस्याप्रसक्त्या सहस्राक्ष इह परमपुरुष एवास्तु। ननु विष्णुदृष्ट्यपेक्षयापि वैशिष्ट्यं गुरुदृष्टेः कथमित्यत्रोपपादयितुमाह अध्यासीनेति 62. हयग्रीव सिंहासनत्वेन भावितं यस्य गुरोः जिह्वाग्रप्रध्यासीनेन तेन विलसद्भवति, तादृशाचार्यापेक्षया अध्यासीनत्व, तत्सिंहासनभूतस्वजिह्वाग्रकत्वादिना सत्यपि भेदे सा देवता न गुरुरूपदेवताधिका। यतः स्वरूपेणाशक्ता सा नारयणाख्या देवता गुरुभूमिका गृह्णति। तत् सिद्धमाचार्यस्यैवाधिकत्वम्। आहुश्च, “न ह्यम्पयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः"इति। अतो जायमानदशायां भगवत्कटाक्ष एतत्संपादनार्थमिति। अतो नारः आचार्यः विष्णोर्लोकोद्धारे अयनमिति स नारायणः। यदा तु `साक्षत्न्नारायणो देव’इति वचनाद्गुरुभगवतोरक्यैम्, तदापि गुरुमूर्तिरेव समधिका, न तु तदन्या विष्णुमूर्तिरिति भावः।
अलमिहेति सेनापतिश्लोकं श्रुत्वा कोलाहलशमनेन वादिसमुद्योगो यावता कालेन, तावदेव संल्लाषो वृत्तः, अथ आगमनसमयं निरीक्ष्य गुरुराह। नियमिताः। कोलाहलादिति शेषः। प्रथमवादिनः सांख्या इति बुद्ध्वा गुरुः शिष्यमनुशास्ति-पकृतिपुरुषतत्त्वस्वरूपादिविषयेऽस्माकं तेषाञ्च भेदसत्त्वेऽपि अप्रधानतया तदुपेक्ष्य मुख्यांशखण्डने प्रेरणाय शृणु इति, मयाऽनूद्यमानमिति शेषः। संप्रतीति। अस्मिन् काल इत्यर्थ। अप्राचीनमिति स्यात्।
63. कपिलादयो महाभारतप्रसिद्धाः। बहुग्रहणमीश्वरविषये अल्पोक्ति-अनुक्ति-निषेवोक्तिक्रमेण अज्ञानविजृम्भणं तत्रेति ज्ञापनाय। न पठन्तीत्यनेन जानतामप्यपठनमघादेव। तत्त्वसंख्यानात् संख्यमि त्युक्त्वा स्थितासंख्यानस्यायुक्तत्वात्। अनुशासनं श्रुत्वा शिष्यः वादप्रारम्भात् प्राक्कर्तव्यमनुतिष्ठति।
64. अक्षय्यशान्तीति। भवत्संनिधानात् वादिनामपीदानीं यथार्हं शान्तिरविर्भवत्विति भावः। अक्षय्येति इतररसवैलक्षण्योक्तिः। भवतां शान्तिरसाभङ्गाय वादिनो रङ्गे न प्रवेश्यन्त इति च सूच्यते। कामम् प्रकारम् अत्यर्थम्। अत्र वादिनां निरासः न तान् आहूय तैः सह संव्यवाहरेण, किं तु तन्मतदूषणे सभ्यसभापतिप्रभृतीनां पुरस्तादुपन्यस्यमाने ते अन्तः स्थित्वा श्रुत्वा असाध्यत्वनिश्चयादषसरन्तीति ध्येयम्। 65. दृष्टिगोचरप्रपञ्चानन्तर्भूतः प्रकृत्यपरपर्यायं प्रधानं पुरुषञ्च कथं स्वीकुर्वन्ति। अनुमानादिति चेत्, किमनुमानापेक्षयाऽपि शास्त्रं दुर्बलम्। अथ श्रोतृबुद्धिप्रसादायानुमानप्रयोगेऽपि प्रकृतिमहदहङ्कारादिकं वा निर्विकारचैतन्यात्मकजीवतत्त्वं वा श्रुतिं निवा न सुग्रहमित्येवाशय इति चेत्– कतिपयश्रुतिगम्यतदिष्टौ श्रुतिसहस्रचूडामणेः कथं त्यागः? यदि तर्कैः श्रुतिसहस्रान्यथाकरणम्, चार्वाकबौद्धादिकृतं प्रकृतिपुरुषापहरणमप्येष्टव्यम्। कुतर्कशतेन कर्कशैः कठिनैः पुरुषैः। पाटच्चराः तस्कराः कुतर्कापहारिणः, प्रकृतिर्मा भूत्- अचेतन एव जातु चैतन्यमस्तु इत्यादिवादिनः॥
सांख्यानां वैदिकानां चित्तप्रसादं दृष्ट्वा संतुष्यन् सेनापतिराह देवेति।
66. सांख्याः सांख्यमतस्थयिनो वादिनः आर्यवचसा शिष्यश्लोकश्रवणेन विगतसंरम्भाः ईश्वरपरवेदवाक्यजातान्यथाकरणसंरम्भरहिताः पतिंविश्वस्येति श्रुतिमभ्युपगम्य संख्याने पञ्चविंशत्वं तस्य मन्यन्ते। `तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः’ इति भारतानुरोधाद्वा, आत्मसामान्यं पञ्चविंशत्वेन परिगणय्य, स द्विविधः जीवः परश्चैति, जीवाः नाना, पर एकः इति वक्तुं शक्यमिति विचिन्त्य वा। तत्र केचित् जीवतोऽत्यन्तवैलक्षण्यं दृष्ट्वा षड्विंशत्वेनैव गणयन्ति। जीवानां पुष्करपलाशवन्ननिर्लेपानां जीवत्वनिर्वाहकत्रिगुणप्रकृतिवत् ईश्वरस्यापि तथाभूतस्येश्वरत्वनिर्वाहकं शुद्धसत्त्वमन्यदेष्टव्यमिति विचिन्त्य ततोऽधिकतया सप्तविंशत्वेन गणयन्त्यन्ते। श्रुतिं च, `तं षड्विंशकमित्याहुः सप्तविंशमथापरे। पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः’ इतीमां दर्शयन्ति। अत्र कालस्य पृथग्द्रव्यत्वात् तद्गणनया सप्तविंशत्ववाद इति केचित्। तस्य प्रकारतैकस्वभावतया मुख्यद्रव्यत्वं निगीश्वरसांख्यैः नादृतमिति, ईश्वरविचारावसरे विशिष्य तत्प्रस्तावो मा भूदिति च चिन्तायां प्राग्व्याख्यतरीतिरस्तु। प्रायिकः संवादः–स्वेनैकाभिप्रायकत्वं यस्य, तस्मिन् योगसमये योगसिद्धान्ते सिद्धः परिच्छिन्नैश्वर्यः अचेतनशुद्धसत्त्वबुद्धिकृतैश्वर्यः ईश्वरः, तस्मिन् पक्षेण- आदरेण प्रणिहितचक्षुषाम्। योगसमयसिद्धो यः पक्षः, तस्मिन् प्रणिहितचक्षुषामिति वा। अनेन योगसिद्धान्तवादार्थसमागतगोष्ठीनिविष्टत्वं स्फोर्यते। प्रतिवक्तव्यमित्यत्र वाक्यच्छेदः, आदिश्यतामित्यम्य द्विकर्मकत्वाभावे। औपनिषदवादी। तं त्वौपनिषदं पुरुषं पृच्छामीत्युपनिषदुक्तस्वाभाविकानवधिकैश्वर्य महापुरुषं स्थापयन् शिष्यः। योगगोष्ठीनिविष्टान् योगांश्चैकहेलया निरस्यति। 67. य इति अपतन्त्रे इति। ध्यानविधोक्तावपि ध्येयस्यान्यथाकरणादिति भावः। प्रतिफलनेति। यथा जीवानां शुद्धानां दर्पणवत्स्वच्छेऽन्तःकरणे प्रतिफलनात् तद्गतधर्माधर्मरागद्वेषसुखदुःखाद्यारोपः, तथा अतिस्वच्छसत्त्वरूपेन्तःकरणे प्रतिफलनादेव ईश्वरत्वोपयोगि सर्वम्। अत एव निर्गुणं सांख्यमिति सर्वथैव स्वाभाविक गुणराहित्यं श्रूयते इति तदाशयः। स्वतस्सिद्धानिति। `न तस्य कार्यं करणञ्च विद्यते’, `पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिकमनुसंधेयम्। अथ काणादान् आगतान् ज्ञापयति सेनापतिः देवेति 68. कृतम् अलम्। शिक्षणं मा भूदधिकमित्यर्थः। योगस्य सेश्वरसांख्यान्तर्भावात् सांख्यकृतान्तेत्युक्तम्। अत एव सूत्रकारः एतेन योगः प्रत्युक्त इत्याह। कृतान्तः सिद्धानतः। “अपरिग्रहाच्चात्यन्तमनपेक्षा” इति सूत्रकारेणात्यन्तमुपेक्षणात् तदुक्तपदार्थगणनायां प्रायः सर्वस्वाप्रामाणिकत्त्वाच्चोद्दण्डमाह शिष्यः। उलूकरूपिणा शिवेन कणादाय षट्पदार्थी सप्तपदार्थीं वोपदिष्टेति तत्संग्रदायः। द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् प्रागुदिष्टाः वैशेषिकदर्शने। नवमे चाध्याये अभावोऽप्युक्तः। तत्र परमाणूनामेवोपादानत्वमिष्टम्, तदश्रौतम्। असत्कार्यवादांगीकारेण, कारणमेवावस्थान्तरापन्नं कार्यं भवतीति श्रौतमतानंगौकारेण द्व्यगुकत्र्यणुकादिक्रमेणवयवातिरिक्तावयविरूपनवनद्रव्यसृष्टिरिष्टा। जातानां द्रव्याणां निर्गुणत्वायोगात् कारणगुणेभ्यः कार्यगुणोत्पत्तिरिष्टा। परत्वापरत्वपृथक्त्वादयोऽनेकोगुणाः कल्पिताः। द्रव्यगुणकर्मसुनित्यानि जात्यख्यानि सामान्यानि अप्रामाणिकान्यमिहितानि। परमाण्वंगीकारवत् तत्राप्रामाणिकप्रतिनियविशेषाख्यधर्मस्वीकारोऽपि कृतः। एवं कल्पितानां मिथस्संबन्धरूपः अतीन्द्रिय एकः समवायोऽपि। एकेनैव संबन्धेन निर्वाह अनेकः किमर्थमिति ते वदन्ति। तदभावेऽपि निर्वाहे सोऽपि किमर्थम्। अभावरूपपदार्थस्याप्यभाव एव। भावातिरिक्तस्यानावश्यकत्वात्। एवं शशविषाणायमाना एवाधिकास्तन्मते। कुतर्ककल्पितश्रद्धया श्रौतानां प्रकृत्यादिवस्तुनामीश्वरविग्रहादीनां मोक्षानन्दस्य चाधिक्षेपोऽपि कृतः। इयं कणादकथा कथं श्रतेः पुरतः स्थास्यति। तदिदं कथामात्रम्। शास्त्रमिदमधीयमानमपि अनुष्ठानोपयोगि न भवतीति॥ सबहुमानमिति। परिमितपदप्रयोगेण निरवशेषनिरासमालक्ष्य बहुमानः।
70. अधैवैनाशिकाः। द्रव्येषु कार्यद्रव्याणां नाशः, आकाशपरमाण्वादेस्त्वविनाश इति विभजनात्, कार्यद्रव्यस्य प्रतिक्षणविनाशमनिष्ट्वा स्थिरस्य विलम्बेनैव नाशस्वीकाराच्च तार्किका अर्धवैनाशिकाः। वैदान्तिनस्तु- द्रव्यं किमपि न नश्यति, अवस्थानां परं विनाशः, सोऽप्यवस्थान्तरमेवेत्याहुः। बौद्धास्तु यत् सत् तत् क्षणिकमिति सर्वस्य सर्वदा नाशस्वीकारात् वैनाशिकाः। तेषां योगाचार सौत्रान्तिक वैभाषिक भेदेन त्रैविध्यात् गणा इत्युक्तम्। वस्तुतो गणपदं विनैव पाठः। माध्यमिकस्तु मुख्यो बौद्धः शून्यवादी कस्य विनाशं वक्ष्यति। स पृथङ् निरसनीयः बौद्धत्वेन साहित्यम्। वेददूषका इति पदम्, काणादानामपि धर्मवचनादाम्नायप्राण्यमिष्टमिति पूर्ववादिवैलक्षण्यज्ञापानाय। वेददूषकत्वात् वेदमप्रदर्श्य युक्तिमात्रेण निरासः इतः परं कार्य इति व्यक्तये च। अत एव प्रयाप्तोऽसीति। काक्वा प्रश्नः। 71. वैभाषिकोऽन्तिमः पूर्वत्रयविरुद्धवादी। सौत्रान्तिकस्तृतीयः, उपदेशसूत्रस्यान्तं पृष्टवानिति। यौगाचारो द्वितीयः, योगः-अनुयोगः-पश्नः, आचारः संमतिश्चास्तीति। माध्यमिकः प्रथमः तूष्णीं स्थितत्वात्। चत्वार एते बुद्धशिष्याः। एतन्नामार्थविवरणमन्यरूपमस्मत्कृते श्रीभाष्यव्याख्याने भाष्यार्थदर्पणे द्रष्टव्यम्। ननु त्रितयासंमतं वैभाषिकेष्टं यत्, तत् किम्? क्षणिकत्वादेरन्येष्टत्वात्। बाह्यस्य प्रत्यक्षविषयत्वमप्यस्तीत्येतदेव। तदत्र नोक्तम्। अतः पाठान्तरं स्यात्। माभूत, गम्यत्वात्। एवं हि व्याख्येयम्- वैभाषिकः विश्वं काणादवदेव प्रात्यक्षिकमिति कथयति, परं तु तद्विरोधेन क्षणभंगुरम्। अतो वक्ष्यमाणो दोषस्तमप्वास्कन्दति। योगाचारस्येतो वैलक्षण्यञ्च बाह्यस्यानुभतत्वकथनात्। परमनुमितमिति अनुमितत्वमात्ररूपवैषम्यकथनात् वैभाशिकस्य प्रत्यक्षत्वमिष्टमित्यर्थसिद्धम्। प्रत्यक्षाभावे कथमनुमितिः तत्राह मतिचैत्र्यत इति। नीलाकारं ज्ञानं पीताकारं ज्ञानमिति ज्ञानगताकारवैलक्षण्यं बहिर्वस्तुवैलक्षण्याभावे कथमिति बाह्यनुमानं ज्ञानादिति तन्मतम्। बाह्यं सत्यमेषामुभयेषाम्। इदमसत्यं योगाचारमते। परः माध्यमिकः, परः उत्कृष्टः मुख्यशिष्यः। निखिलमनृतमिति तन्मतोक्त्या योगाचारमते किञ्चित् सत्यमस्तीति ज्ञाप्यते। तत्तु बाह्यातिरिक्तम्। विज्ञानमात्रमिति यावत्। स्ववचनहता इति। कस्याप्यभावे केन कं प्रति किमर्थं वचनम्। सत्त्वेऽपि क्षणिकत्वे वा कथं वचनम्। वचनबलादेव स्वमतं स्वयमेव त्याज्यमिति भावः। दिङ्गगो बौद्धः प्रसिद्धः यत्खण्डनाय वैदिकतार्किक प्राचीनग्रन्थाः प्रवृत्ताः। बुधा इत जडा इत्यर्थेः। वाक्कलहो दन्तकार्यत्वात् दन्तादन्ति। नागस्य दन्तसंभवात् तत्प्रयोगौचित्यम्। उभयदन्तोक्त्या अस्मन्मतेपि बहवो दन्तिनौ दिग्गजा इति ज्ञापितं भवति। इयं शिक्षेति। किमपि नास्तीति, सर्वं क्षणिकमिति च मुख्यामुख्यपुरुषकृतशिक्षेत्यर्थः। भवत्षक्षतः सर्वेषु भवत्पक्षेषु। अर्थं बुद्ध्वा हि शब्दरचजना। बोधरचनयोरेककर्तृकत्वं वाच्यम्, अन्यो बोद्धा इतरो कक्तेत्यस्यासंभवात्। अस्य क्षणिकत्वे कथमुभयमेकत्रेति। बुद्धतच्छिष्यणामिदं कार्यद्वयमेकनिष्ठमिष्टं चेत्– क्षणिकत्वभङ्गात् वयं विजयिनः। क्षणिकत्वात् बोद्धृवक्त्रोर्भेदे ज्ञानपूर्वकवादाभावात्, शून्यत्वेऽप्येवमुपन्यासे गते अस्मत्प्रमाणबाधच्च वयं विजयिनः। सर्वथैव विजयात् तूर्यमस्माकं तीव्रं घुष्यतु। नासीरवीरः सेनामुखे स्थितो वीरः। वैयात्यं धार्ष्ट्यम्। 73. भाषेत्यादिर्नेपथ्ये माध्यमिकीयः खपाण्डित्यप्रख्यापनप्रकारः। अयं भावः– कथं जेतव्यमिति वैभाषिकादयः विचारं मा कुर्वन्तु। तेषामेवाशक्तत्वे का कथा शंकरादेः। सर्वविजयिनमहं विजेष्ये इति। मिथ्येत्यादि। किञ्चिन्मिथ्या भवति लोके, अन्यच्च सत्यमिति या व्यवस्था, तद्विघटनं सर्वापलापः, तस्य घटने उपपादने उद्दण्डं अधिकं शौण्डीर्यं सामर्थ्यंम्, तेन चणअडः। उद्दणअडपदेन मिथ्यातत्त्वव्यवस्थाविद्यटनं सर्वसत्यत्वसाधनाऽऽग्रहिणापि क्रियेत। परं तच्छौण्डीयं नोद्दण्डमिति ज्ञाप्यते। सर्वसत्यत्वषक्षो न युक्तः, परपक्षस्यापि सत्यत्वप्रसंगात्। न चेष्टापत्तिः तथासति पक्षद्वयविरोधस्यासत्यत्वात् सर्वसत्य त्वपक्षायोगात्। सर्वासत्यत्वे प्रतिवादिपक्षासत्यत्वापत्तिरिति चेत्- किं तेन॥ अन्यपक्षोन्मज्जनमिति चेत्-तन्न-सर्वासत्यत्वप्रयुक्तं किल तत्पक्षासत्यत्वम्। कथं तस्य प्रयोजकस्य भंग इति। अतः सर्वसत्यत्ववादिशौण्डीर्यमल्पमिति भावः। निस्तत्त्वं तत्त्वाभावः। तदद्वैतं तन्मात्रम्। तद्वादी। व्याख्यान्तराणि क्लिष्टानि । न सत्, नाप्यसत्, नापि सदसत्, नापि सदसद्विलक्षणमिति चतुप्कोटिविनिर्मोकवादी माध्यमिकः।
वैतण्डिकेति। मिथ्यात्वरूपस्वपक्षस्थापनप्रवृत्तस्य कथं वैतण्डिकत्वमिति चेत्- न सत्, नासत् इति मिथोविरुद्धसर्वपक्षखण्डनात् वैतणअडिकत्वम्। शून्यतां स्वपक्षराहित्यम्। प्रतिज्ञानसंवादिभिः प्रतिज्ञातुल्यैः तद्वत् प्रतिज्ञाविरोधादिदोषदुष्टैः। तद्वाक्यानामयथायथप्रलापत्वात् तत्र दोषोद्भावने परिहाराशक्त्या मूकीभवन् मौनव्रताभिनयमेव कुर्यादिति भावः। 74. परस्परेति। तत्प्रयुक्तानां तर्करूपशरपंक्तीनां परस्परविघट्टनेन मिथोविरोधोद्भावनेनास्माभिस्त्रुटितत्वात् तदीयचमत्कारः– स्वक्रियामूलसुखविशेषः तिरस्कृतो भवति। अस्माभिरनुद्भावनेऽपि तेन स्वहृकदयसाक्षिकं परिशीलने क्रियामाणे एं स खण्डित एव भवति। एवं स्वत एव निहतस्य परैर्मुद्गरेण प्रहरणं यथाऽधिकम्,तद्वदेवास्यान्येन दूषणोद्भावनमिति। बीजादङ्कुरोत्पत्तिरित्युक्तौ सौगतः पृच्छति, न बीजादुत्पत्तिः। उत्पत्तिकाले बीजस्योपमृदितत्वात् विदारितत्वात्। न च बीजध्वंसरूपाभावात् भवति, अभावस्य तुच्छतया कार्यस्यापि तुच्छत्वप्रसंगादिति। सर्वमिदं निर्व्यापारस्य लोकचमत्कारेण कालक्षिप्तये क्रियमाणं वाग्जालम्। एवं हि वदन् किमर्थं बीजानि वपति। वीजं पूर्वं स्थितं पश्चात् ध्वस्तमिति वदतः कथं सर्वाभावः। अतो बीजद्रव्यात् यादृशवस्थापन्नात् अङ्कुरो जायते, तदबस्थं तत् कारणं भवत्येव। उत्पत्तेरानुभविकत्वात् भावादभावाद्वा सा भवत्येव। अभावोऽप्यस्माकं भाव एवेत्यादिकमत्र भाव्यम्। एवञ्च शून्यमिति पदप्रयोगोपि इदमनेन शून्यमिति प्रतियोग्यनुयोग्युभयसापेक्षः वक्तृश्रोतृवाचकतत्करणेन्द्रियतदधीनज्ञानाद्यपेक्षश्चेति अनन्तवस्तुसद्भाव एवेति।
ब्रह्मसूत्रतर्कपादादृतक्रमेणात्र सांख्यादीनां निरासः क्रियते। तत्र जैनमतनिरसनावसरोऽयम्। तत्राऽऽगतानां दिगम्बरत्वात् द्विपात्सु पिशाचा एवावस्त्रा भवन्तीति कृत्वा पिशाचत्वभ्रान्त्या कलकलः। नन्विदं वाक्यं कैः प्रयुज्यते, न नेपथ्यगतैः, पूर्वं तेषामागमनकाल एव वक्तव्यत्वात्। न सभ्यैः नेपथ्यगतानां तैरदर्शनात्। अत्र रङ्गे प्रतिवादिनां प्रवेशस्याकृतत्वाच्च। ते हि नेपथ्ये दीर्घकालस्थितिमरोचयमानो राज क्वचिद् गूढं तान् स्थापयित्वा तदवसरे तान् नेपम्ये ग्रवेशयति। तदविज्ञाय तत्रत्या एवं शब्दायन्त इति भाव्यम्। एवमेषां नग्नतया रङ्गे प्रवेशायोगं विमृश्यैव कविना सर्वेषां वादिनामपि प्रवेशमपरिकल्प्यैव वादकेलिघटनमकारि। नेपथ्य एव तेषां स्थितिः प्रागुक्ता। अपरिचितमतान्तरो हि वादी तैः संव्यवहृत्य विज्ञाय खण्डने प्रयतेत। तदा तेषां संव्यवहारार्थं रङ्गप्रवेशनमावश्यकं स्यात्। अस्य तु सिंहस्य सर्वतन्त्रस्वतन्त्रत्वात् निष्कृष्टप्रथमबाक्यश्रवण एव निर्बलास्ते पलायन्त इति वादिवैभवविज्ञानमप्यस्यां रीतौ। न नाटकान्तर इव परेषां प्रवेशः। संतोषविषादेति। परमतप्रलयात् संतोषः, वेदान्तिमताभ्युदयदर्शनात् विषादः। प्रतारयन्ति पामरानिति। प्रत्यक्षपरोक्षप्रमाणविषये बौद्धवत् अनुभवसिद्धरीत्यपलापाकरणात् एते सन्त इति भ्रमो जनानाम्। पिञ्छभ्रमणेन प्रत्यक्षतया प्रभावसत्त्वभ्रमजननाच्च पामरा भ्राम्यन्तीति भावः। तेन तेषां पूर्वोक्तस्य विषादस्येषदपनोदः। पामरभ्रमापनोदायैव सेनापतिर्महाराजश्च स्वयमेवैतान् दूषयतः वावदूकस्यावकाशमीशदेव परिकल्प्य। परमरविरुद्धार्थवादिन इति यदि सौगता जिताः, तर्हि वयमपि जेष्यामहे इति विषादः। तादृशविरोधश्च सप्तभङ्गीशिक्षयेत्याह शिथिलोदयेति। अस्तीति पक्षेण सह नास्तीति पक्षस्य समुच्चयः कथं स्यात्। अत आरम्भ एव शैथिल्यम्। नूनं मयूरपिञ्छमोहितत्वाज्जागतः एतदीयसप्तभंगीभंगी भंगहीना स्थिरेति भ्रमः। सप्तावनां भंगानां विरुद्धवत्प्रतीयमानानां भागानां तरंगाणां समाहारः सप्तभङ्गी। ड्यापोः संज्ञाच्छन्दसोर्बहुलमिति उत्तरपदे ह्रस्वानुशासनात् सप्तभङ्गिशिक्षेति। ते च भंगाः स्यादस्ति, भंगहीनास्यादस्ति च नास्ति च, स्यादवक्तव्यम्, स्यादस्ति चावक्तव्यञ्च, स्वादवक्तव्यम्, स्यादस्ति चावक्तव्यञ्च, स्यान्नास्ति चावक्तव्यञ्च, स्यादस्ति च नास्ति चावक्तव्यञ्चेत्येवंरूपाः। स्यादित्यव्ययं कथमपौत्यर्थकम्। विदधाति वा जिनः अवश्यमेव स्यादित्यास्तित्वादिकमिति। किमित्येवं विरुद्धसमुच्चयोपन्यासोऽस्माभिरारब्धः, न ह्येव एव मोक्षहेतुरिति मनसि तेषां व्यथा वर्तते। अतो विलक्षाः लज्जिताः मलिनाः मलपङ्कधराश्च। अथापि मयूरपिञ्छभ्रसणिन अद्भुतशक्तिभ्रमोत्पादनेन स्वमते आकर्षन्ति। 76. प्रतिक्षिप्तं– नास्तीति स्वोक्तमेव विदधतां स्वयमस्तीति वदतामित्येवमर्थः। वेदनिषिद्धं कारयतां वेदविहितात् निवर्तयताञ्चेत्यपि।स्ववचनादृते। मिथो व्याहतवादेन स्वयमेव क्षिपन्ति। किञ्च भोक्तुमन्नमस्ति किमिति प्रश्नः, सत्येवान्ने अन्येन नास्तीत्युक्ते क्रोधश्च कथं तेषाम्। अतः स्वक्रियाव्याघातादेतेऽपि व्युदस्ता एव।
आदित्यस्तम्भनं सूर्यस्यैकत्र दृष्टस्य तत्रैव चिरं स्थापनम्। पाषणस्य स्फोटनं विना कारणं द्वैधीभावविधानम्। प्रतिमा यथा मुखेन जल्पेत् तथाकरणं प्रतिमाजल्पनम्। भवत्प्रसादः ईदृशकार्यदर्शनाधीनमोहाद्यनर्थो मा भूत प्रजानामित्यनुग्रहः।
राजभिरेवेति। अनर्थकारणवकाशप्रदाने हि परिहारमार्गान्वेषणम्। कारणमेव निवर्तनीयम्। तत् राजकृत्यमिति भावः। शिष्येण तन्मतस्यैतावत् अदूषितत्वात् तद्दूषणं प्रसक्तदण्डविषयसंकलनेन कृत्वा दिगम्बरापहासः क्रियते। 77. सर्वमनोकान्तमिति तैरुक्तत्वात् स्वाक्ष्येऽपि स्वभक्ष्यत्वं परपक्षेऽपि स्वपक्षत्वं तद्दूषणेऽपि तत्स्थापनरूपत्वमित्यादि स्वीकर्तव्यमिति न कुत्राप्यैकान्त्यव्यवस्था उदीर्णरोषत्वम् अभिबृद्धकोपत्वम्। उल्लुञ्छनं वपनमकृत्वा एकैकस्य केशस्याऽकर्षणेनोन्मूलनम्। स्थिरेत्यनेन स्थिरत्वादशक्येऽप्युत्पाटने कृच्छ्रेणोत्पाटयन्तीति दण्डत्वप्रदर्शनम्। निजेति पाठोऽप्यस्तीव। गुर्वाज्ञामनुसृत्य राजा दण्डयति आ इति। अनार्याधिष्ठितेषु इति दूरदेशीक्तिः। तत्रापि दिगम्बरत्वात् गुहासु वासः। वृश्चिकेषु वारितेषु आशीविषा उपधावन्ति, तान् दृष्ट्वा विस्मयते के इति। क्षपणकः जिनः। अनैगमिकलिङ्गम् अवैदिकचिह्नम्। लिङ्गमिति प्रसिद्धमशास्त्रीयम्। उग्रंव्रतं- व्रतमेतम् पाशुपतमित्याद्युक्तम्। तापसविडम्बनं जटाधारणात्। त्रिपुण्ड्रादिधारणं तु अशास्त्रीयम्। कडङ्करीया इवेति। कड मदे इति धातुः। कडं करोतीति कडङ्करः सस्यमाषमुद्गादिव्रतत्यादिः। तं भक्षयन्तीति कडङ्करीयाः अजवृषभादयः। उक्तं हि यादवाभ्युदये, `कडङ्करीयरोधो हि कलमोत्सेधकारणम्’ (22-9) इति। 78. अत्र योगतन्त्रस्य कपिलतन्त्रेऽन्तर्भावः। कटलुञ्छनः केशोत्पाटको जिनः। कलकलः कोलाहलः। तत्र कोविदेषु समर्थेषु। मुनिवरेति। गौतमे सापराधा ये जनाः तेषां गौतमशापानुरोधेन मोहने कौतुकी आसीत्, प्रागेव, `त्वं हि रुद्र महावाहो मोहशास्त्राणि कारय’इति भगवता प्रेरितः पशुपतिः। वृत्तमिदं सच्चरित्ररक्षायां पुण्ड्रप्रस्तावे, “गोवध्याकारणं मह्यं यावत् पश्यति योगवित्। ऋषीणां मायया सर्वमिति सञ्चिन्त्य तत्र वै। शशाप तान् जटाभस्ममिथ्याव्रतधरांस्तथा” इति वाराहवचनम्, आदित्यपुराणवाक्यमन्यच्च प्रदर्श्य ज्ञापितम्। परमतभङ्गेऽपि, गौतमशापाभिभूताष्टचत्वारिंशत्सहस्रतामसपुरुषसन्ततिसंप्रदायपरम्परेत्युक्तम्। एवं पशुपत्युक्तं यत् तत्प्रवणाः अपयान्ति दूरीभवन्ति स्वदोषमनुचिन्त्येति। वादविधानकौशलविरहेऽपि आवर्जनोपायं जैनवत् कुर्वन्तीत्याह सेनापतिः अधानेन पश्यन्। स उपायः प्रदर्श्यत उपरि। पलायध्वमिति। वर्षवातासत्तिभयादिदं वाक्यम्। अकाण्डे मेघमाला दृश्यते। तद्वर्णनम् अक्ष्णोरिति। 79. गाढं नैल्यमभिलक्ष्य बहुथोल्लेरवः। एतत्सरूपः श्लोकः (707) पादुकासहस्रे इन्द्रनीलपद्धतौ। तत्र मेघमालाप्रस्तावाभावात् तदनुबन्ध्यंशानां त्यागाय नीलमण्यनुगुणत्वाय मध्येऽनेकशब्दान्तरप्रक्षेपः। स्वर्गंगायमुना। भुवि गंगायाः यथा यमुना काचित् संसृष्टा, तथा किंमुपरितनगंगाया अपीति। वियदेव जलनिधिः। समुद्रतीरे च तमालाटवी सहजा। वर्षाः ऋतुः। तासामेव स्त्रीणां केशसंहतिः किमिति। प्राच्यां दिशि मेघोत्पत्तेराह पुरन्दरेति। मन्मथविकारहेतुत्वादाह कंदर्पेति। मदजलस्य नीलत्वादेवम्। कादम्बिनी मेघमाला। अथ मेघकार्यमपि दर्शयति प्रत्यग्रेति। झञ्झा शब्दायमानवर्षवातः। तदङ्कुराः तदारम्भांशाः प्रत्यग्रं नवतया विकसद्धिः मुकुलैः सान्द्राणां कदम्बानां वनात् असाधारणतया रकसंघीक्रियन्ते, ईषद्वर्षपातात् भूमितः प्रादुर्भूतं गन्धमपि गृह्णन्ति। तादृश अंकुलाः मेघानामुदरात् निस्सरन्ति। स्वाशक्यविषये स्वानुकूल्याय भगवान् सज्जः, भक्तवत्सलत्वादिति विस्रम्भादाह गुरुः।छ 81. स इति। मधुः असुर एव परागः तस्य झञ्झावात इव दूरनेता। हिरण्योऽसुरः स एव गिरिः तद्भेत्ता। त्रुटितेति छिन्नेत्यर्थः। भजतां भक्तिभाजां नमतां यः भवः संसार कएव समुद्रः तं मुष्टिमितं कृतमेकक्षण एव पीतवानिति। एतावद्विरोधिशमनजागरूकस्य कियदिदं कपटकर्मनिर्मूलनमिति। भगवति-परमात्मनि यद्वा आचार्ये।
अथ पाञ्चरात्रिकाणां नेपथ्ये प्रवेशमाह राजा। बल्वजाः गोमयजन्याः क्षुद्रतृणविशेषाः। विद्याः मन्त्राः। क्षुद्रफलकमन्त्रत्यागिन इत्युक्तं भवति। शुभंयवः शुभयुक्ताः। तां स्वाकारसमानाकाराम्। तेवामनुष्ठानविशेषं देवैर्वन्द्यमानत्वं तदाऽपि निरहंकारत्वञ्चाह 82. परमेति। प्रत्यासत्तिः देवतान्तरमद्वारीकृत्य तस्य ग्रहणम्। पृथग्जनाः पामराः पृथक्पृथक् देवतान्तरसक्ताः ते विमुक्ता यैरिति। तदभिगमनं परमपुरुषाभिगमनम्। आद्यपदेन इज्यास्वाध्याययोगग्रहणम्। नमति स्वं प्रति प्रणामं कुर्वति सति। समीक्षयेति भगवतोऽयं प्रभावः, न त्वस्मदीय इति निष्ठां कुर्वन्तो निरहंकारा भवन्ति। एतेषां न वादार्थमागमनम्। किंतु गौरवेण संश्लेषार्थम्। 83. सात्वतं भागवतम्, पञ्चरात्रम्, सत् ब्रह्म, तद्वन्तः सत्वन्तो भागवताः तदादृतम्। यद्वा सत्वान् भगवान् तत्प्रोक्तं सात्वतम्। तस्य वेदस्य च मध्ये कस्याचित् दुर्बलत्वाभावात् न बाधः। समबलयोर्विरोधाभावात्, न मिथो हतिरिति। तद्भ्रमः `वासुदेवात् संकर्षणो नाम जीवो जायते’इत्यादिवाक्यं जीवोत्पत्त्यादिवार्चीति कृत्वा विरोधम्रमः। वार्यः अविरोध्यर्थान्तरवर्णनेन। श्रुत्योरिव। न जायते भ्रियते वा विपश्चित्, यतो वा इमानि भूतानि जायन्ते इत्येवमाद्यरिव। तन्त्रान्तरवत् सांख्यादितन्त्र इव। 84. आरोहन्त्विति श्लोकः श्रीपाञ्चरात्ररक्षारम्भे। अनवद्यानां वेदशास्त्राविरोधिनामनाभासानाञ्च तर्काणां पदव्याः सीमां काष्ठां दृष्टवतां सत्तर्कपरिकर्मितवेदार्थविष्कर्षवतां मादृशं यः पक्षः तत्त्वाचारस्वीकारप्रकारः, स कृतयुगादृतः। तस्मिन् निवेशितपदाः लब्धस्थानाः सूक्तयः श्रीपञ्चरात्रग्रन्थाः पक्षेपतद्भ्यः परान् आरोहन्तु अपक्षपातिजनादृता भवन्तु। मादृशांसूक्ता इत्यन्वये अस्मादृशैरुच्यमानाः श्रीपञ्चरात्रानुबन्धिनो ग्रन्थाः कृतयुगधर्मप्रतिपादकाः अपक्षपातिस्वीकृता भवन्त्वित्यर्थः। निवेशितपदानिति च पाठः, अर्थोपि- मादृशं पक्षे कृतयुगसंबन्धिनि निवेशितपदान् अनवद्यतर्कपदवौसीमादृशाम् आगमप्रामाण्यकृतां श्रीयामुनार्याणां सूक्तयः आरोहन्त्विति। सर्वेति। अनुश्रवाः- वेदाः। तत्सारदर्शी छन्दोमयो गरुत्मान्। भगवता श्रीपञ्चरात्रप्रवचने क्रियमाणे पुरतःस्थितः स द्विजिह्वाशनः शृण्वन् सशिरःकम्पो भवति। तदा तत्कुण्डलभूतो यः कुण्डली सर्पः, तन्मौलिरत्नकिरणा मण्डलाकारेण भ्रमन्तः आरात्रिकेव विराजन्ते इत्यर्थः। निगमानां व्यसने व्यासे विभजते-व्यसनिना आसक्तिमता। मतिरेव मन्थानदण्डः। एतद्विशेषणदानं भारते श्रीपाञ्चरात्रप्रामाण्यस्थापनाधिवयज्ञापनाय। तत्र हि “इह शतसहस्राद्धि भारताख्यानिविस्तरात्। आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम"इत्यादि। अन्यान्यपि तत्रत्यानि वाक्यानि स्मारयति स्वत इति। 85. स्वतस्सर्वावेक्षी-स्वतस्सर्वज्ञः श्रुतिगणानां शिरस्त्राणम् उप्णीषभूतं चरणं पदं यस्य स्रवे वेदा यत्पदमामनन्तीत्यादिश्रुतेः। पूर्वार्धेन, सांख्यस्य वक्ता कपिलः इत्यादिना तत्तन्मतवक्तृतयोक्तकपिलादिवैलक्षण्यम्, “पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्वयम्"इति स्वयम्पदविवक्षितं सर्वं विवृतम्। तत्र कृत्स्नस्येति, चतुर्विधसिद्धान्तरूपस्येत्यर्थकम्। स्वतोऽकृतेति चान्वयः। उत्तारर्धेन, “इदं श्रेय इदं पुण्यमिदं हितमनुत्तमम्"इत्यादि स्मार्यते। पाराशर्यं इति। पराशरोऽपि भगवद्वासुदेवपदघटितमन्त्रनिष्ठत्वात् श्रीपञ्चरात्रपरमादर इति भावः।
परिहरणीयानि तन्त्राण्युक्त्वा परिग्रह्यामपि तन्त्रमदर्शयत्। अथ जैमिनीयमीमांसातन्त्रस्य परिग्राह्यत्वेऽपि, तद्व्याख्यानानां पश्चात्तनानां त्याज्यत्वमुपक्षिपति राजेत्यादिना। अमी पुनरिति। उक्तं ह्युदयनाचार्येण न्यायकुसुमाञ्जलौ। “मीमांसकस्तु तोषयितव्यो भीषयितव्यश्च"इति। 86. अखिलदोषेति। अप्रतिपादकत्व-बाधितार्थप्रतिपादकत्व-सिद्धार्थबोधकत्वायोगादिदोषेत्यर्थः। सत्स्विति। तेषामपि मीमांसनस्यावश्यकत्वे सति। मीमांसाकबन्धमिति। उत्तरमीमांसायां व्यासकृतायां वर्तमानायामपि तदुपेक्षणेन कबन्धात्मकभागमात्रमित्यर्थः। सन्तः बोधायनादयः। किं व्यासबोधायनादेरप्यतिशयितं गुरुकुमारिलादीनां ज्ञानम्, येन तदीयपूर्वमीमांसाव्याख्यानमाद्रियेतेत्यर्थः।
यथाश्रुतमिति। यथाशास्त्रं यथाहृदयं सर्वसंमन्तव्यम्। मीमांसकान्तानां वादिनाम् एते अमी इत्येवं नेपथ्यगतत्वेन ज्ञापनात् शिष्यं प्रति गुरुणा प्रागुक्तस्य स्थूणानिखननन्यायेनस्थिरीकरणस्यात्रोपसंहाराच्च इतःपरं क्रियमाणः शांकरादिनिरास आनुषङ्गिक इति ज्ञायते। आसुक्तं धृतम्। अमुक्तबाह्यवर्त्मनां बौद्धगन्धिनां जैनगन्धिनाञ्च। 87. नियत्याः दैवस्य यत् वैयात्यं धार्ष्टम्-सर्वातिक्रमेण कार्यकरणसामर्थ्यम्, तस्मात्। निगमपदवीत्यागः बौद्धजैनमतोक्तपातित्वात्। परेषामेतेषां सांख्यादिमीमांसकान्तपूर्वोक्तभिन्नानां शंकरभास्करादीनाम्। पुरन्ध्रीसंभाव्येति। विद्यारहितस्त्रीजनबहुमान्ये स्वमते या रुचिः प्रीतिः तया नीरन्ध्रा कृता धीः येषाम्। सर्वदा तदेकप्रीतिपूर्णमनसामित्यर्थः। अवनिरिति। भाराधिक्यात्। नहि निर्वीरमुर्वीतलमिति च भावः।
वेदान्तप्रिया हि शंकरादयः प्रायस्तद्गबौद्धगन्धांशमात्रे निरसनीयाः। स च प्रागेवनिरस्त इत्याह शिष्यः। 88.ताथागतानाम्। तथागतः बुद्धः। तदीयानां गाथा जगन्मिथ्यात्वादिविषयिणी। कापिली गमनिका अन्तः करणनिर्गमाधीन प्रत्यक्षवृत्ति तन्मूल धर्माधर्मसुखाद्याश्रयबुद्धिद्रव्य चैतन्यमात्रात्मत्वादिप्रक्रिया। द्रुहिणः ब्रह्मा। तस्य गीः योगतन्त्रम्, हरगीः पाशुपतम्। गुरुमतम् प्रभाकरमतम्। गौरवात्। गुरुत्वं भाराधिक्यम्। गुरुत्वरहितं हि द्रव्यमुत्क्षिप्यमाणं न बहुदूरं याति, इदं गुरुत्वाश्रयत्वात् दूरं क्षेप्यमासीदिति। का शंकेति। सर्वश्रुति-सर्वं तत्त्वपरश्रुति-सर्ववेदान्ततिरस्कारिणामेव निरासे कतिपयांशमात्रान्यथाकारिणां तत्तद्वादिनिरासेनैव निरस्तप्रायाणां प्राच्यद्रमिडभाष्याद्येकसंप्रदायानुसारिणाञ्चद्वैतिनां निरासे कः श्रम इति भावः। त्रिवेदीं ऋगादिवेदत्रयीम्, द्वैताद्वैतशरीरात्मभावरूपांशत्रयम्। का शंका। अत एव ते नागता इति भावः।
90. निध्यायन्त्वनसूयव इति पृथक्। शुभगुणमित्यादि प्रथमान्तम्। शुभगुणमित्यादि गर्वाहव इत्यन्तमुच्यमानमद्वैतिनः असूयां विहाय मनसा चिन्तयन्त्वित्यर्थः। स्थाने युक्तम्। मेघनादः इन्द्रजित्। शंकरदत्तमायानन्त्रेणेत्याद्युक्तांशाः मेघनादस्याद्वैतिनाञ्च साधारणधर्माः। पूर्वं लक्ष्मणप्रादुर्भावेनैवेन्द्रजिन्निरसनम्। अत इदानीमपि लक्ष्मणार्यैणैवैतन्निरसनमिति युक्तमित्यर्थः। समानाधिकरणो पप्लवमिति। इन्द्रजित्पक्षे समानः मानसहितः प्रामाणिकः धर्मयुद्धमिति बहुमानयुतश्च यो रणः अधिकः तीव्रः, अथवा अधिकस्य– बलादावधिकस्य रामस्य संबन्धी रणः तस्मिन् उपप्लवं अन्याय्यं निलीय प्रयोगं मायासीताहननादि चेत्यर्थः। अद्वैतिपक्षे सत्यं ज्ञानं, तत् त्वमसीत्यादिसमानाधिकरणवाक्यानां शाब्दिकमर्यादामतिलंघ्य अखण्डपरत्वमारोपयतामित्यर्थः। कर्बुरः राक्षसः, तज्जातिरिन्द्रजित्। इमे कर्बुरप्रकृतयः– पदेपदे समुणनिर्गुणघटनेनापार्थवर्णनात् कलुषहृदयाः। सललकलिमीमांसकनिरसनं लक्ष्मणार्यकृतमेव। पूर्वोक्तविशेषणान्वयः कलिदूषिते ब्रह्ममीमांसकमात्रे। पौण्डकाद्वैतम्। अहमेव वासुदेव इत्यभेदग्रहः। नित्यमुक्तोऽहमिति वादः। नित्यं मुक्तः वादः यद्विषये स नित्यमुक्तवादः तत्ताम्। तद्वादासामञ्जस्यं दृष्टन्तेनाह मुक्तस्येति। 91. नित्यं मुक्तस्य अविशिष्टतनोः निर्विशेषस्वरूपस्य अत एव सर्वदैकरूपस्य। प्रकल्पयितुमिति। तदर्थमेव हि सर्ववेदान्तविचारारम्भः। स्वप्नप्रसूनरस इवासत्यं निर्वियशेषब्रह्म। तथा मकरन्दे स्वादुत्वं स्वभाविकं न पश्चात् कल्पनीयम्। प्रच्छन्नबौन्नत्वमुपपादयति आलक्ष्यतामिति। सुभगाभिक्षुकन्याय इति। सुभगा स्नुषा। भिक्षुके भिक्षार्थमायाते सति, नास्तीति श्वश्रूः प्रत्यहं वदतीति दृष्टवा स्नुषा कस्मिंश्चित् दिने भिक्षुकमागतं प्रति नास्तीत्यवोचत्। स गतः। श्वश्रूः झटित्यागत्य कथं स गत इत्यप्राक्षीत्। नास्तीत्येव मयाऽप्युक्तम् ततो गत इति स्नुषा प्रत्यव्रवीत्। कथं त्वया भिक्षा नास्तीत्यादिशत्। तद्वत् बौद्धेन शास्त्रासत्यत्वमुक्तमयुक्तमित्याक्षिपन्तोऽद्वैतिनः, ब्रह्मातिरिक्तत्वात् शास्त्रमसत्यमित्येव वदन्ति। तथा तत्रोक्तान् भगवद्रूपगुणविभूतीश्च निरस्यन्ति। वेदनिषेधाधिकारोऽस्माकमेव युक्तः न तु बौद्धानामिति श्वश्रूस्थानलोभिनामेषामाशषयः। परान् बौद्धादीन्। एतद्विशेषणं परित्यागिन इति। निगमान्तानित्युपलक्षणं पूर्वभागस्यापि। सभाकम्पेति। सभायां कम्पात् कश्चिद्व्यवहर्तुं नापारयम्। तं दृष्टवाऽन्यः, किं सभाकम्प इति पप्रच्छ। तदा `भसापङ्को न मे’ इति वर्णव्यत्यासेन व्याजहार। अस्यायथायथव्यवहारो हि सभाकम्पकृत एव। तद्वत् बौद्धान् प्रति, `वैधर्ग्याच्च न स्वप्नादिवत्’इति जगतो निषेधायोगं वदन्त इमे मुखान्तरेण ज्ञानबाध्यमेव जगदिति ब्रुवाणाः समानहृदया एवेति। स्थिते सभाकम्पे तदभाववचनं दुष्टम्। वर्णव्यत्यासेन तत्कथनमधिकं दुष्टम्। तद्वत् जगति सत्ये सति तन्निषेधो बौद्धकृतो दुष्टः। अद्वैतिकृतरीतिस्तु अधिकदुष्टा, अप्रामाणिकानन्तानिर्वचनीयकल्पनात्। अत्र भसापंकाभाववादी यथावत्तद्वादिनोऽन्यो वाऽस्तु त्रिभुवनसंरक्षणे भगवद्विभूतिस्थापने, दुर्मतप्रवेशरूपदोषपरिहारेण तत्त्वज्ञानेन यथार्थपुरुषार्थलम्भने च। विवेकादीति। नित्यानित्यवस्तुविवेकः, शमदमादिसाधनसंपत्, इदृमुत्रफलभोगविरागः, मुमुक्षुत्वञ्चेति चत्वारि ब्रह्मजिज्ञासासाधनानीति शारीरकारम्भे तदुक्तम्। पक्षान्तरं जैनोक्तभेदाभेदावलम्बिभास्करयादवप्रकाशपक्षम्। आर्यैः भास्कराद्युपजीव्यमूतैः। अयथाभाषणेति। सप्तभंगीभाषणेत्यर्थः। धुरीणैः। एतदपेक्षया अन्यथाभाषणैकव्यग्रैः। अनुशोश्रूयामहे। तन्मतोपक्रमकालप्रभृति अनुस्यूतां वाचं शृणुम इत्यर्थः।
93. `क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’इत्येवं भेदविषयिण्यः। तत् त्वमसीत्यादयः अभेदविषयिण्यः। अपराः घटकश्रुतयः अन्तर्यामिब्राह्मणादयः। मिथः चिदचिदीश्वराणामम्योन्यम्। विशिष्टैक्येति। चेतनाचेतनविशिष्टेन सहाभेदेत्यर्थः। भगवती इति तत्प्रशंसनं विशिष्टाद्वैतेऽपि अद्वैतप्राधान्यात्। तच्छ्रुतेरतीव सामञ्जस्यमिति ज्ञापनाय च। यद्वा भगवति इति सप्तम्यन्तं स्यात्। ऐक्यादित्यत्रान्वयः। गुणविभूतिलोपो न कार्य इति भावः। सार्था यथावदर्थयुक्ता। इमावर्थौ भेदाभेदौ द्वावपि। निरीशः स्वनियन्तृपुरुषान्तररहितः। लक्ष्मीश इति। परस्य तदिङ्गितपराधीनत्वेऽपि न तन्नियम्यत्वं प्रत्युत तन्नियन्तृत्वमिति। प्रणिदधे प्रतितन्त्रसिद्धान्तार्थतयाऽबोध्यत। शरीरात्मभाव ए हि भेदाभेदयोर्घटक इति भावः। अभेदश्रुतेः प्रागेतदर्थो ज्ञातव्य इति ज्ञापनार्थमिह भूतकालप्रयोगः। 94. तत्त्ववृत्तेति। यथावास्थिततत्त्वज्ञान-वैदिकसदाचारेत्यर्थः। कृती भाग्यवान् अंशतः कृतयुगवांश्च। कृतिना विदुषा भूरिकल्याणभाजनेन।
95. गुरुनिबन्धनेति। प्रभाकरगुरुकृतायाः बृहत्याख्यायाः शाबरव्याख्याया निबन्धनकमित्यपि नामेत्याहुः। क्लष्टापूर्णपदप्रयोगात् सर्वत्र तस्य ग्रन्थिरूपता। तथागतः बुद्धः। तदनुसारिणाः शंकरादयः। अषिः अनुक्तसमुच्चायकः। प्रगुणितम्। ऋजुकृतं प्रकृष्टगुणवच्च कृतम्। 96. चन्द्रातप— सूर्याप्तपोभयरूपत्वं यतीशभाषितानाम्। मुनिबृन्दारकः मुनिश्रेष्ठः मननशक्तिसमृद्धः। दिवाभीताः उलूकाः। तेषां ध्वान्त एवास्थ। तत्रैव तेषां प्रेक्षा च। अहनि उलूका न प्रेक्षां लभन्ते। एवञ्च तत्प्रेक्षालोपकरत्वं अस्य दिनकरस्य। तथाच दुर्वादिदिवाभीतकर्तृकप्रेक्षाविषये दिनकरवत् समुत्थानेन उग्राः गिर इति। परमतमोक्षरीतिश्रवणे तु स्वल्पस्थितापि मोक्षश्रद्धा दूरतोऽपैतीति भावः।
प्रियहितमेवेति। यथा वादिनिरासावसरे, तथेदानीमपीति भावः। 99. सभाजयितुं मानयितुम्। सभायां जयः यस्यास्माभिः प्रत्यक्षितः तम्। एकभक्त्या-एकस्मिन् मुख्ये गुरौ दर्शने वा भक्त्या।
100. दिष्ट्या दैवेन। पूर्वं विवेकोद्यमकाले प्रथमाङ्कावसाने त्रिदशभाषितं दिव्यदुन्दुभिध्वनिश्च निर्दिष्टे अनेन ज्ञाप्येते। अथास्माभिरपि जयघोषः कार्य इत्याह दिशिदिशीति। लडह इत्यपि संस्कृतशब्दः। प्राकृतः लटभशब्दप्रकृतिक इति वदन्ति। `लटभललनाभोगसुलभः’इति भर्तृहरिः (वै.श.32)। तस्य मनोहरेत्यर्थः। लटभशब्द एवात्र स्यात्। सुदृढमिति च पाo। डिण्डिमः वाद्यविशेषः। शुप्कोपन्यासः अपार्थवाग्जालम्। पटिम्ना-कौशलेन, का युक्तिः का युक्तिरिति काकशब्देन काकवत् रटतां मतान्तरविदुषां करोटीषु शिरोस्थिषु कुट्टाका कुट्टनकरी क्रीडा यस्य तत्। अष्टापदं सुवर्णम्। जयशालिभिर्वीरकटकधारणं हि प्रसिद्धम्। `शिरस्सु निहितं मया पदमदक्षिणम्’इति प्रागुक्तत्वात्। नलिनमृदुशेन पदेन वैरिशिरःकठिनास्थिस्पर्शो मा भूत्, शिक्षा च भवत्विति कुट्टनपट्टस्वर्णकटकधारणम्। कुट्टनरूपकार्यप्रवृत्तिः सर्वथा नास्ति। जयलब्धसंतोषपरीवाहोऽयं प्रशंसापरवर्णराशिः। वामपादे बिभर्तु, ददाति इत्यतः शिष्टाग्रेसरोऽयं न साक्षात् स्प्रष्टव्य इति राजाद्याशयो ज्ञाप्यते। 101. एवं कटकार्पणात् ख्यातिलाभपूजाख्यं त्रयमप्यर्थादागतम्, अतोऽत्र विशेषतः प्राधान्येनापेक्षा शिष्टस्य न युक्तेति शास्ति गुरुः। प्रश्नोचितेषु। ये अर्हा भूत्वा परिपृच्छन्ति तेषु। परया तेषां ज्ञानसंपत्तिरेव स्वस्य परमपुरुषार्थ इत्युद्भूतया। प्रसीदन्। वादकोलाहलसमय इव चित्तादिविकाररहितः। छात्रदोषदर्शनेनानुपेक्षमाणश्च। शारीरकस्य ब्रह्मसूत्रस्य श्रीभाष्यादिसहितस्य प्रवचनं सद्भिः तर्कैः युक्तिभिः तन्त्रैः शास्त्रैश्च परिकर्मितम् अलंकृतं यथा तथा। सर्वत्र तर्कसहायीकरणेन, शास्त्रान्तरविषयेषु एतप्रवचनं कार्यम्। इदं श्रीभाष्यकारशासनं शिष्यपरम्परां प्रति। आशरीरादादरणीयत्वमपि गमयितुमेव शारीरकमिति नाम बादरायण आद्रियतेव।
वादिबृन्दमुखेन विवेकजयमशक्यं निर्धार्य महमोहः तत्त्वज्ञानपश्चाद्भाविनीं विरक्तिं विष्णुभक्तिं च शमयितुं रागद्वेषौ प्रेरयामासेति तृतीयांकोपयोगिकथाप्रस्तावः क्रियते नेपथ्य इति। बन्दीकर्तुं कारागृहस्थितां कर्तुम्। साधयन्तु-स्वस्थलं गच्छन्तु, स्वकार्यं निर्वर्तयन्तु च॥
इति सर्वसाक्षात्काराख्यव्याख्यायां द्वितीयोऽङ्कः॥
*****************************************************************
.
140-141 पुट-अनुबन्धः
पारिप्लवेति। अव्यवस्थितेति यावत्। परिकल्पनेति तर्काभासा उच्यन्ते। सितासितविकल्पेति साध्यांशाव्यवस्था। विलक्षण भावरूपाज्ञान ब्राह्माज्ञान जीवाज्ञान-मायाविद्याभेद-जावतत्त्व-ईश्वरतत्त्व-शब्दजप्रत्यक्ष-जीवन्मुक्त्यादिषु तत्कल्पितेषु अभिप्रायभेदाधिक्येन समयोचितापार्थवाक्यैरास्तिकमोहनात् मोबसिद्धिरेव सिद्धिकामानाम्। सिद्धिः मोक्षसिद्धिः।
89. निर्विशेषं ब्रह्म अदृश्यम् अवाङ्मनसगोचरत्वात् अहमर्थ इदमर्थो वा न भवति। अहमर्थः- अहङ्कारोऽन्तःकरणं सर्वजैवध्रमास्पदं जडम्। इदमर्थो जगत् सर्वम्। तस्मिन् चैतन्ये ब्रह्मणि जगत् कल्पितं भासते। कल्पकश्च दोषः अनाद्यविद्या। तस्याः सदसदनिर्वचनीयत्वम्, आच्छादकत्वविक्षेपकत्ववत्त्वञ्चेति। गन्धर्वनगर-सिंह-व्याघ्रादिकल्पना मेघपटलादौ भवति, न शुद्धगगन इति गगनपदं तादृशगगनपरम्। व्याघातैरिति। यथा न शुद्धगगने गन्धर्वनगरकल्पना, तद्वदसंभविनी तेषां कल्पना। अविद्या कल्पिता न वा। न चेत् कथं तन्माहात्म्यम्। आद्ये, कल्पना किंमूला। मूलं विना कल्पनायां जगदेवाविद्यां विना कल्प्यताम्। अविद्य च कथं स्वयम्प्रकाशस्याऽऽच्छादिका। निर्विशेषे को नाम आच्छाद्यो विशेषः। ब्रह्म स्वयं प्रकाशमानं केनाऽऽकोरेण भासते। आकाराभाने कथं प्रकाशमानता। अहमिति भाने तस्य कथमहमर्थान्यता। तथाभानाभावे कथं प्रत्यक्त्वम्। अहमर्थस्यान्तत्वे, कथम्। अहं ब्रह्मास्मीति तत्त्वज्ञानम्। तस्य पूर्वागृहीतविशेषाविषयकत्वे कथं बाधकता। बाध्यत्वं च कथं जगतः। कल्पितत्वकल्परे च किं मानमनन्यथासिद्धम्- इत्येवमादयो व्याघाताः विन्ध्यापेक्षया दृढतरा इति। वन्ध्यासुतेति। प्रमाणागोचरस्य अहमिति चाप्रकाशमानस्य निर्विशेषब्रह्मणः स्थितिवर्णनं वन्ध्यासुतोक्तितुल्यम्। तस्य नृपतित्वकल्पनतुल्यम् ईश्वरत्वाविद्याक्रान्तत्वमूढत्वादिकल्पनम्। अद्वैतग्रन्थाः सर्वे तद्रीत्याऽपि निरुपाख्यशशविषाणतुल्यनिर्गुणब्रह्मवर्णनपरा इति भावः। विस्तरः शतदूषण्याम्।
90. शांकराद्वैतिनो यदि, नास्तिकस्वीकृतो यावान् प्रपञ्चः, तावानेव व्यावहारिकसत्यो निर्गुणब्रह्मणि कल्पित इति ब्रूयुः, तदा तेषामस्माभिरैकरस्यं दुस्सम्पादम्। ते वेदकर्मज्ञानकाण्डोक्तसर्वप्रपञ्च- तत्सृष्ट्यादिकरेश्वररूपसगुणब्रह्मतदुपासनादिकं स्वीकुर्वन्ति। शोधने च यथाशांकरं श्रीमन्नारायणरूपसगुणब्रह्मानुभवो मोक्ष इत्येव तन्मतेऽपि सिध्यति। एंसति एकरसा भूत्वा तदर्थे प्रवृत्य संसारक्लेशदूरा भवितुमर्हन्ति, किमिति निष्प्रमाणनिर्गुणब्रह्मकल्पनाद्याग्रहकृतेनाऽऽत्मावसादेनेति मैत्रेण चक्षुषा प्रेक्षमाण आह निध्यायन्त्विति। ध्येयो नाराणस्सदेत्युक्तो मार्गः स्वीकृतः विश्वविशेषशून्यकथकैः त्रिविधभेदरहितवस्तुकथनपरैः। आदितः। आदौ निर्गुणतत्त्वज्ञानार्थतया। तथा सगुणमुक्तिरादौ यैः प्राप्यते, तेषां पश्चात् क्रमेण निर्गुणब्रह्मभाव इति च। सगुणमुभयसंमतम्। एतदधिकनिर्गुणस्थितिर्विवादग्रस्ता। एवञ्च अर्थस्थितिः- वेदान्तप्रतिपाद्यार्थकतत्त्वस्थितिः एतदेकशरणा एतत्सगुणब्रह्ममात्रसंबन्धिनी (शरणम् आश्रयः), अद्वैतवाक्यानां सर्वेषां क्लृप्तैतदर्थपरतयैव स्वरसतो निर्वाहात् अन्यत्र दोषाच्च निर्गुणब्रह्मासंबन्धिनी च यदि भवति– तदा सगुणोपासने फलनिश्चयः, निर्गुणब्रह्म तु निर्णयदूरम्। यावदस्माभिः निर्विशेषब्रह्मज्ञानेन जगन्न निवर्त्यते, तावत् सगुणब्रह्मसमानानन्दप्राप्तिरूपमोक्षस्य नापाय इति युक्तं तत्रैव स्थातुम्। अन्यथा सप्रत्यवायो महान्। तेषामनर्थावह एव। तस्मात् शुष्काद्वैतविचाराद् विरम्य सगुणोपासनेन शाश्वतं सुख्यन्तु इति भावः।
*****************************************************
.
तृतीयोऽङ्कः
श्रीः
बन्दीकरणार्थरागद्वेषप्रवृत्तिवैफल्यं विरक्तेर्विष्णुभक्तेश्च स्वास्थ्यञ्च रागदिमुखेनैव दर्शायितुं विष्कम्भः ततः परं प्रधानपात्रप्रवेशः। त्वदिति। रागस्य त्रिवर्गविषयकस्य तव विरुद्धे विषये मोक्षादौ यो विवेकसंरम्भः तस्य प्रतिबन्धेन। एकविषयकरागस्य तद्विरुद्धविषयकद्वेषोऽनुकूलः। समानविषयकत्वे स एव शत्रुः।
मतान्तराणां निरस्तत्वात् विवेको दृढ आसीत्। अतो ज्ञानलोपायोगात् विरक्त्यादिलोप एव कार्यः। अन्यविषयराग एव विरक्तिपरिपन्थी, विष्णुपदप्राप्तिद्वेष एव विष्णुभक्तिविलोपक इति विमृश्य महामोहकृतामाज्ञामह विवेकेति 1. व्यतिहतेषु भिथोऽपि हतेषु सत्सु। बाह्येषु मुख्यमतातिरिक्तेषु सर्वेषु मतेषु। शरणमिति। त्रिवर्गरागहानौ मोहस्य श्रीहानिरेवेति भावः।
स्वर्गे गुणाः अपवर्गे मोक्षे दोषा इति यथासंख्यम्। विप्रलभे वञ्चयामि। पौलस्त्यः रावणः। तद्वत् त्वमपहरेति भावः। त्रय्यन्तवादिना वैदान्तस्थापकेन विवेकप्रेरितेन विदुषा। सौवस्तिकाः स्वस्तिवादिनः। अग्रण्यः अग्रगण्याः। पुरोहिताः- शण्डो मर्क इत्यादयः। 2. रागिता रागवत्त्वम्-मद्वशत्वम्। अनन्तम् अपरिच्छिन्नं स्थिरञ्च फलं मुक्तिः। तत्कामस्य। कीदृशी। विशेषेण रक्तिः विरक्तिरित्येव भवेत्।
3. स्वस्येत्यादि। अयमर्थः- स्वस्वरूपप्राप्तिरेव मोक्ष इति सांख्यतार्किकादयो द्वैतिनः अद्वैतिनश्च। तत्र शोधने दुःखाभावमात्रमेवेति न सुखं नाम किञ्चित्। स्वस्य प्रागेव प्राप्तत्वात् तदर्थे यत्नश्च वृथा। बन्धनिवृत्तये यत्न इति चेत्, किं निवृत्तिः सुखम्? तस्मात् स्वेतरानुभवो मुक्तिरित्येव वक्तव्यम्। स च जक्षतूक्रीडन् रममाणः स्त्रीभिरित्युक्तः कामपुमर्थ एव। पुरुषान्तरानुभवः पुरुषस्य कथमिष्टः स्यात्। प्रत्युत दास्यमेव तत्। अस्माभिर्गैरविताः निरीश्वरमीमांसकाः तैः स्वर्गं एव मोक्ष उक्तः। स च स्वेच्छानुरोधेन नृत्यन्तः- सम्यक् विलसन्तः ये बहवो गुणाः `यन्नदुःखेनसंभिन्नम्’इत्येवमुक्ताः तेषां निधिः।
महामोहतन्त्रं निरीश्वरमीमांसादि। अर्थः वेदान्तोक्तमोक्षप्रतिक्षेपरूपः। 4. किं केवलं निर्विशेषं ब्रह्म प्राप्यते, किं वा चेतनाचेतनप्रपञ्च-तत्तन्नियमनादिगुणादिविशिष्टं ब्रह्म। अन्त्ये पक्षे मुक्तस्य दुःखम् अपहस्तितम् हस्तासंबन्धितया कृतं न भवति। दुःखं हस्ते वर्तते। तत्र हेतुः नैकधोपप्लबः। ब्रह्मनियमनानुरोधेन बहुत्र संचारे खेदस्यावर्जनीयत्वात्। नारक्याद्यतिदुःखजीवदर्शने तत्तदनर्थपरिहारप्रयत्नादौ च दुःखावश्यम्भावात्। अखिलेनोज्झितं त्यक्तं सर्वविशेषशून्यं यदि प्राप्यते, तत् महः कथं भोग्यम्। भिन्नत्वेऽपि न भोग्यम्। अभिन्नत्वे नतराम्। उभयथा हि मतभेदेन निगमान्तनिर्वाहः। उभयस्याप्यस्मत्तर्केणोपमर्दनात् निरीश्वरमीमांसकोक्तः उपनिषदार्थवादमात्रत्वपक्ष एवावशिष्यते। पारायणं कामं क्रियताम्। अर्थस्त्वनुष्ठेयस्तत्र नास्ति।
जालटिलेति। विविधभोगवासनाः मिथ ओतप्रोताः जटीभूताः बुद्धेर्लम्बन्ते। विरक्तोऽपरमात्मनि हि परमात्मनि रक्तो भवेत्। वासनासु दृढासु दोषविवेचनस्यानिष्पत्त्या कथं विरक्तिः, कथंतरां विष्णुभक्तिरित्याह प्रत्युतेति। अमृतोद्भवाः। आसामुपादानद्रव्यममृतमेवेति तदाशयः। अमृतस्योत्पत्तिस्थानभूता इति वा, उपर्यनेकपुष्परूपत्वोक्तेः। 5. स्भेरेण प्रतिक्षणवर्धमानेन। मुकुलत्वोक्त्या विकासाभिप्रायेण स्मेरपदम्। भुजयोर्मध्यमिति पूर्णव्याप्तिव्यञ्जनाय। तिरोधित्सितम्। पिधातुमिष्टम्। स्तनमुकुलेन तद्व्यापनवाञ्छा क्रियते। भावैरित्यस्य विलासैरित्यर्थोऽनुचित इव। विभ्रमाणामनन्तरश्लोकवर्ण्यत्वात्। अतो भावाः आकाराः मानसधर्माः पुष्टिविशेषा वा। विजिगीषितं जेतुमिष्टम्। इच्छा संपन्ना। कार्यं क्रमेण भावि। 6. अभिनयतीति। अभिनयनम् अभितः प्राणमपि। भ्रूपताकावेल्लनादिरूपोऽभिनयः वास्तवपुरुषार्थप्रापको भवतीत्यर्थः। पुमर्थान् यथार्थत्वेन दर्शयतीति वा। गतिः हंसवद्गमनं तासाम्। गतिमन्यां फलान्तरम्। मदः यौवनकृतः। मन्मथाद्वैतम्। “कामस्तदग्रे समवर्तताधि"इत्युपनिषत् विवक्षिता। मन्यते अधीते इति तत्तत्कर्तृकत्वोक्तिः द्रष्टुपुरुषगतमननाध्ययननिष्पादनाशयेन। महर्षिषिशेषः वात्स्यायनः। पुरन्दरपुरी- स्वर्गः अमरावती। तत्र भुजिष्याः वेश्याः उर्वश्यादयः। विप्रतिषिद्धेति। शास्त्रप्रत्यक्षविरुद्धेत्यर्थः। पुनरीश्वरनिरासमाह। 7. सर्वेति। सर्वकामार्थी। `बहुस्याम्’ ,`परित्राणाय साधूनाम्’ इत्येवं बहु कामयमानः। 8. पिशितम् मांसम्। तथा बुद्धिः पिशाचानामेव भवेत्। तत्प्रलोभनवशाश्चावश्यं जडा एवेति भावः। दूरात् कश्चित् स्ववाक्यं श्रुत्वा किमप्याहस्मेति कृत्वा तदनूद्योपर्याह आकाश इति। किं न तथेति। पिशितं न किम्, सत्यं ब्रूहीत्यर्थः। दूषयति अहहेति। नैर्मल्यं धावल्यम्। 9. उपध्नः लतया स्वभिवृद्धये आश्रीयमाणः। ईश्वरसद्भावनिर्णयं परिहरेयमित्याह अनघेति। अनघः निर्दोषत्वसमानाधिकरणः गुणौघो यस्य तं निस्समाभ्यधिकं सर्वपुरुषार्थप्रदम् उपासनीयं परमपुरुषमुपनिषद्भ्यो न साधयेत्। तासामूषरप्रदेशत्वात् तत्र बुद्धेः पुनः परिवर्तने रजः प्राचुर्यमेव भवेदिति। अन्यशब्दो देशवाची। अतिपतितनरपतिनियोगनिर्वाहाविति। महामोहस्य यो नियोगः विरक्तिविष्णुभक्तिबन्दीकरणविषये, तस्यातिपतितत्वात् अतिक्रमणात् अनिष्पादितत्वात् कथं जीवाव इति। विपरिवृत्तं साम्प्रतं निवृत्तम्। 11. अतिक्रम्येति। विषयान्तरे रागस्य, विष्णुरूपे प्राप्ये द्वेषस्य चेषदप्यभावादिति भावः। ऋच्छतः गच्छतः। जितकाशिनः जयेन प्रकाशशीलस्य। अविलम्बितकारिभ्यामिति। विषयेषु रागः यस्यां दशायामनन्तरक्षणेऽननुभूय स्थितिं न सहते, तस्यां दशायां काम इति व्यवहारः। क्रोधश्च तथैव अनिष्टकारित्वाभिमते अनिष्टकरणे त्वरां लभते। तदवस्थापन्नयोरपि न समनन्तरमेव कार्यमिदानीं भवति। विवेकस्य प्राबल्यादिति। 12. वासवस्य इन्द्रस्य शम्भली वेश्यास्त्री। तस्याः नयनयोरालोकितं धिक्। नेत्रकर्तृकालोकनस्य निन्देत्यर्थः। वीरश्रियं धिक्धिगित्यन्वयः। किमन्यैर्जडैरिति पृथग्वाक्यम्॥ 13. मंक्षु-क्षिप्रम्। अभिषङ्गः मोहादिकृतः परिभवः। विपरिवर्तयिता। दुःखाश्रुस्थाने आनन्दबाष्पोद्गम इति भावः। विष्कम्भस्य शुद्धत्वं प्राकृतभाषामिश्रणविरहात्।
अथ सुमतिविवेकौ पुरुषस्य तत्तदपायापगमेन उपायनिष्पत्तिमस्मिन्नंके विमृशतः। आदौ सुमतिं विवेकः सख्योर्बन्दीकृतिश्रवणखिन्नां तयोर्मुक्तत्वेऽप्यनुवृत्तखेदामाश्वासयति। प्रच्छन्नचारिणाविति। न रागः कार्य इति प्रतिज्ञापूर्वकं प्रवृत्तानप्याक्रमामति रागः, तथा द्वेषश्चेति भावः। अस्माकमषीति। अविवेकिनिः खलु रागद्वेषाविति। 14. अनुचितेति। अतिमात्र त्रासचिन्ताविषादैरिति अन्यत्र पाठः। अत्र पत्नीसंबोधनसहितम्। अतिमात्रैः- मात्रामतीतैः परिच्छेदरहितैः। क्वापि लक्ष्ये अर्जुनरूपलक्ष्यविषये। यद्वा अर्जुने लक्ष्ये प्राप्ते तद्व्याजेन सर्वार्थम्। शरणमिति। सत्यपि रागद्वेषावकाशे अंगप्रपत्तिमनुष्ठितवतोऽस्मान् अवश्यं रक्षेदिति भावः। 15. दुःखबहुलत्वात् संप्तारस्य, तदसहिण्णुतया पुरुषः आभाससुखमप्यवलम्ब्य तन्निवर्तनमिच्छति। अतो रागस्यावर्जनीयतेत्याह सुमतिः। प्रतिसंचरेषु प्रलयेषु। दुर्गतौ नरके। जाग्रत्पदं जागरावस्थापरम्, साहचर्यात्। मुग्धिः मूर्छा। प्रस्तरवद्भावः पाषाणसादृश्यम् अज्ञत्वम्। बहुपशुः। बहुच्प्रत्ययोऽयम्। पशुसदृश इत्यर्थः। द्रुमदशा– द्रुमतुल्यावस्था॥ 16. पुरुषस्योपासननिष्पत्तये शरीरमावश्यकम्। तदेव शरीरं यौवनावस्थां दुष्कर्मपरिपाकच्च प्राप्य वाधकं भवतीति खिद्यते अपिचेति। विचित्रजवः- प्रसिद्धवाय्वपेक्षया विलक्षणवेगो यः विश्वस्रष्टृपरमात्मलीलामारुतः तत्प्रेरणया विभक्ता भवति भवितव्यता भविष्यत्फलरूपा बननदी। तस्या अभिवृद्धिप्रकारैः जवनं शीघ्रविनश्यत् यौवनं जगता आस्वाद्यते, तत्र कारणतया कार्यतया च वृजिनानि ओतप्रोतानि भवन्ति। तादृशे जगति पौनः पुन्येन भ्रमति कथं पुनर्भवनिवृत्तिः स्यादिति॥ भक्त्यङ्कुरस्य प्रादुर्भावसमयोऽयम्। अतो न क्लेशितव्यमित्याह राजा। वर्तनीं मार्गम्। 17. पातेति- `स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृत्ति’इत्यादिना स्वर्गमारूढस्यापि पातो भवतीति भयपरिशीलनेन तदा निर्दुःखत्वाभावनिश्चयेन स्वर्गवासरुचिवासना पूर्वस्थिता शमिता। एवं वासनाशान्तिमती पुरुषबुद्धिर्वैराग्यात् परमात्मनि तृष्णाधिक्यं जनयति। एवं प्रतिष्ठापितमासीत् मोक्षार्थित्वम्, यत् प्राक् स्वर्गाद्यक्षयत्वादिबुद्धिरूपकश्मलदूषिततया किञ्चिच्चलितमासीत्। उपायानुष्ठानसामर्थ्यस्य तदातदा प्राप्तावपि अर्थित्वभंगादेव समाधौ यत्नो नासीत्। तस्मिन् प्रतिष्ठिते सति न क्लेशः। समाधेः सीमापि सुलभेति। 18. अधिकारः पुष्कलइत्युक्तम्। उपाय उच्यते। ननु भक्तिमार्गा बहवः सन्ति। तत्रैकत्र समाधिनिष्पत्तावपि अन्येषामलब्धत्वात् तदर्थे प्रयासे बहूनां जन्मनामन्तेऽपि नोपायपूर्तिः स्यादित्याशंकां शमयति प्रतिक्षिप्तेति। विकल्पोऽविशिष्टफलत्वादिति भक्तियोगानां विकल्पितत्वात् एकेनैव कार्यसिद्धिरिति भावः। प्रतिक्षिप्तावद्यः अखिलहेयप्रत्यनीकः प्रवरगुणः कल्याणगुणनिधिः। तस्य निर्धारणं भक्तिमार्गान्तख्यावृत्त्-प्रकृतोपयुक्तमात्रग्रहणेन अभ्यासः। तज्जन्येन प्रेमातिशयेन युक्तः संसारी मिथस्तुल्यभोग्यताकानाम् अमृततुल्यानामुपासनामार्गाणां विकल्प एव, न तु समुच्चयः। तत्र केन कस्य ग्रहणमिति चिन्तयन्- पूर्वादृष्टरूपपवनप्रेरणमेव नियामकम् इत्यध्यवस्यतीत्यर्थः। केचित् भक्तियोगेषु तारतम्यं दृष्ट्वा तज्जन्यमोक्षेऽपि तातम्यमापाद्य एवमस्थिरत्वाविशेषे स्वर्गेण किमपराद्धमित वञ्चयेयुः। तस्मादपि वञ्चनात् निवर्तते विवेकीत्याह अयञ्चेति। 19. वञ्चनावकाशं प्रस्तौति भवेति। तस्य परमपुरुषस्याद्भुताकारविज्ञानात् तत्प्रेप्सायं जातायामपि भक्तिमार्गेष्वनुसंधेयानां गुणगणानां केषाञ्चित् पृथग्भावः। अन्येषां संभेद-मेलनिमित्यंशेने उपस्कृतविग्रहे भिन्नाकारे उपासने परिशीलिते सति, विमोहोऽपि प्राप्नोति। स निवर्तनीय इत्यर्थः। विमोहतन्निवृत्ति प्रकारौ उपर्याह। 20. समानेत्यादि पूर्वार्ध मोहदर्शकम्। मोक्षस्यैकरूपत्वे साधनं नानाप्रकारं न भवति। अत एव निर्गुणब्रह्माज्ञानादेकरूपादेकरूपां मुक्तिद्वैतिनो वदन्ति। साधनवैलक्षण्याभावो नास्ति चेत् साध्ये मोक्षे तारतम्यमावश्यकम्। एक एव स्वर्गः अग्निहोत्रज्योतिष्टोमाद्यनेकसाध्य इति तु न, तत्र स्वर्गे तारतम्यात्। अन्यैः मीमांसकैरभिमतमेतत् तारतम्यमिति तद्रीतिरत्रेति मोहप्रकारः। अयं क्षीबः बलवान् क्षोभः कथमुत्पन्न इति चेत्– प्रमाणवाक्यानां यत् प्रागल्भ्यं- सामर्थं तत्र प्रणिधेः अवधानस्य तिरस्कारात्। उपनिषदः खलूगसनामार्गान् अनेकान् उक्त्वा पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति एकरूपं फलं दर्शयन्ति। पापप्रायश्चितमार्गा बहवश्चोद्यन्ते, यत्र रुचिः सुकरता च तत्र प्रवत्यै पुरुषं मोचयितुम्। न तत्र फलवैषम्यम्। निर्मुक्तपाप्मनाञ्चात्मनां `पण्डिताः समदर्शिनः’इति साम्यमुक्तम्। अतः क्षोभोऽयं स्वमतेः शास्त्रविहतत्वादेव निहतः। निर्गुणब्रह्मज्ञानदृष्टान्तश्च हतः। तत्फलस्य जगन्निवृत्तिरूपस्य शशशृंगत्वात्। भक्तिमेकां पश्यतः, पत्रं पुष्पमित्यादि वदतो वत्सलस्य सर्वबन्धेः। श्रीवल्लभस्य गुणानुभववैकल्यनिमित्तमिदं चोद्यम्। शास्त्रगतिविरुद्धञ्च। ऋजुना पथा केनचित्, वक्रेण चान्येन ग्राम एकः प्राप्यते। तत्रोपायगतगौरवलाघवानुरोधेन ग्रामे प्राप्ये वैषम्यं हि दुर्वचमित्येवं भाव्यम्। निर्विशन्ति- अनुभवन्ति।
प्रमाणप्रणयेन प्रमाणैकरस्येन। पेशलेन मनोज्ञेन। प्रतिबुद्धजनाः ज्ञानिश्रेष्ठाः। 21. कल्पेत्यादि। तव यशो नागकन्यकाः पौनःकुन्येन गायन्ति सागरतीरगिरिप्रदेशेणु त्वदुक्तिगताक्षरामृतप्रवाहपानमोदपारवश्यात्। यशः कीदृशमिति चेत्– प्रलयारम्भे प्रबलं नृतं कुर्वतः प्रलयकालमभूतस्य रुद्रस्य तत्क्रीडाजनितान् क्षोमात् वेलाभतिक्रान्ता या तदीयजटाजूटलीना नदी गङ्गा, तदूर्मिभिरुपर्युपरि पतिताभि- क्षाल्यमानतया अतीव धवलो यस्तत्रत्यश्चन्द्रशकलः, तत्सदृशमिति भृशं प्रशंसन्ति॥ विवेककृतादुपदेशात् निर्णयो जात इति ज्ञापनाय विद्यां प्रशंसति सुमतिः 22. जिम्भेति। जृम्भमाणा वर्धमाना भगवद्दयैव गङ्गा, तद्वीचीवत् शीतलाः, साधव, शुद्धाः, सुभगाश्च विद्याः। तत्रैकमात्रेणैव मोक्षलाभ इति नन्दति यासामिति। प्रादुर्भूतभक्तियोगः विश्लिष्टश्लिष्ट पूर्वोत्तरदुरितभरः पुरुषः मोहे सत्येव मोहकशरीरसत्त्वदशायामपि हस्तमध्यनिहितां मन्यते मुक्तिं, भविष्यति नवेति चन्तया पूर्वं दूरे नीतामषीत्यर्थः॥
मतान्तरमुमुक्षुसाधारणं वैराग्यमल्पम्। अस्मन्मते समृद्धब्रह्मतृष्णासद्भावात् विजृम्भमाणमित्याह अपिचेति। उपधानीभवति उपधानम् अपाश्रयः। अधिकोपकारकं भवति। शयानस्य शय्येव मूर्धाद्युपधानमप्यस्ति चेत्- शयनसुखमधिक हि। तज्जनितां त्वरामाह तथाहीति। 23. काम्यं द्विविधं विद्यानिष्पत्त्यर्थापेक्षितान्नाद्यर्थकाम्यम् अनपेक्षितान्नाद्यर्थकाम्यम् अनपेक्षितं फलान्तरार्थमिति। तत्र द्वितीयं योगी निषिद्धकर्मेव जहातीत्यर्थः। विजहदिति मुनिविशेषणम्। शुभेति। प्रथमतः शुभाश्रयभूतदिव्यविग्रहचिन्तनम्। तन्निष्पत्त्यनन्तरं शुद्धपरमात्पस्वरूपविषयके समाधौ प्रवर्तते, तस्यापि ग्रहणार्थं शुभाश्रयत्वं तु सुकरालम्बनत्वं विग्रहमात्रे इति। तद्विषयश्रद्धासमुद्रोत्थामृतवद् भवति समाधिः। 24. विरक्तमपि चित्तं कदाचित् विषयामुभवस्य वस्तुतो गन्धर्वनगरप्रायस्यापि प्रशंसायाः याथार्थ्षे वास्तवत्वे विलक्षैः– शुद्धगुणरहितैः पुरुषैरुपक्षिप्यमाणे कदाचित् क्षुभ्यति। तस्यामप्यवस्थायं विवेकोऽहं हस्तं ददामि। मत्स्यवेधननिक्षिप्तं मांसमिह। विगलिताशंसं व्रीडितमिवेति। लब्धप्रसादमित्युक्त्वा पुनः कलुषं भवतीति कथने व्रीडा। किम्पचानमानसा दुर्बलमनस्का। कस्यापि न मोक्षो भवेदिति तया शंकितम्। भविष्यति कश्चित् तदातदेति प्रत्याह विषेति। बाह्यविषयाणां दुःखमिश्रसुखप्रदत्वात्। विषमिश्रमधुत्वम्। स्वात्मा तु मधुमात्रत्वेऽपि अल्पास्वाद्यताकः। परं तदर्थोपायस्तु प्रयाससाध्यः। तदर्थमपि, इन्द्रियाणि संयम्य `युक्त आसीत् मत्परः’इति भगवद्ध्यानमादरणीयम्। किं गृहीतैतत्त्यागेनेति महानन्दब्रह्मविषये कुतीहली भवितुमर्हति। दैवात्- भाग्यात्। आत्मानुभवरसस्य परिमिततत्वम् अल्यत्ववत् कालपरिच्छिन्नत्वमपि। पितामहादिभिरप्यलभ्ये सति निशाकरग्रहणार्थकरप्रसारणमेवेदमित्युक्तं परिहरति निस्संशय इति। पुरुषस्य निस्संशयत्वाय परिशौलनीयमंशमाह विवित्सतीति 26. विवित्सा वेत्तुच्छा लिप्सा, न तु विविदिषा। कृतस्येति। द्वितीयपादोक्तमेव संदिग्धमिति चेन्न-परमपदविवित्सायास्तीव्रत्वे कथं तन्न भवेदित्याशयत्। दैवादिति प्रागुक्तं मुखान्तरेणाह निसर्गेति। अन्वीक्षते-उपायनिष्पतिप्रतिबन्धकनिवर्तनपस्स्सन्। किमत्रपरमुच्यते। किमत्राधिकं वक्तव्यम्। कथं परम् अन्यत् मुक्तेरलभ्यत्वमुच्यते। किमितीति। केन कारणनेत्यर्थः।
एतावन्निष्कर्षे स्थितेपि बिभ्यति कुत इति पृच्छति, यद्येवमिति। दवदहनेति। दवदहनदन्दह्यमानदारूदरविधूर्णमानघुणसंघातेति, सांयात्रिकसार्थेति च न्यायकुमुमाञ्जलौ। अत्र द्वितीयसप्तमौ विहाय दृष्टान्तपञ्चकवर्णनरीतिः श्रीपरकाल दिव्यसूरि महासूक्त (11-8) मनुसृत्य। सारमेयाः श्वानः। सारङ्गः हरिणः। सांयत्रिकाः पोतवणिजः। भयस्थानाधिवयं भयस्यावश्यकत्वञ्चाह विवेकः। पाण्डित्यं निर्विद्यापि प्राप्यापि। बाल्यं स्वमहिमानाविष्कारः। तथा च श्रुतिः “पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति । 27. अवहितमानसविषये वर्णाश्रमादयो गुणप्रकर्षाय भवन्ति। एकैकोपि वर्णः आश्रमः तत्तद्व्यवस्थितधर्मः समयः कालो देशश्च सर्वोपि गुणप्रकर्षवान् भवति। तत्तदधिकारिणस्तत् उत्कृष्टमेव। स्वेस्व कर्मणीति वचनात्। एकैकोऽपि अबधानविरहे भयायैव भवति। अन्येषु अवहितमानसेष्वपि विशेषं भयावश्यकत्वमवबोधयामि। 28. विवेकी भीतश्चेत् तेनाभयं लभते। सर्वं सम्यक् करोमि, किं ममेति अहंकारं विना, कदा कः प्रतिबन्धो भवेदिति शङ्कमानेनैव भाव्यम्। परानुभूतिः उपरितनानुभवः।
भयानुबन्धः भयानुवृत्तिः। आमोक्षाच्चेति वाक्ये नखलु इति पाठोऽशुद्धः। नभः प्रसूनेतिपदेनैव नञर्थोक्तेः। उपरि यत इति वाक्यरम्भश्चानन्वित इव। दिगिति। हितस्य भक्तियोगस्य साधनभावः निष्पादनक्रिया तद्योग्ये तदर्थे वस्तुनि। तस्य विशेषणं दिगित्यादिपदं देहादिके इति च। देहादिके इति आध्यात्मिकसंघातोक्तिः दिगित्यादिना बाह्योक्तिः। दिक् प्राङ्मुखः कुर्यादिति नियमोपयोगिदिग्विशेषः। यद्वा मूर्तमात्रं दिगुपाधिरिति नयेन बाह्यवस्तुसामान्यग्रहणम्। करणं कृत्यकरणम्। अकरणम् अकृत्याकरणम्। एतद्रूपे देहादिरूपे च हितसाधनत्वापेक्षिते विषये एकैकस्यापि भयहेतुत्वमस्तीत्यर्थः। तत्रकारणं दुष्कर्मपक्तिरविज्ञायमानवाऽऽपतन्ती। पक्तिः परिपाकः। `कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्यत। शरीरे च गतौ चापि वर्तते मे महद्भयम्’ इति वचनमनुसंघेयम्।
अनुयुक्तम् पृष्टम्। प्रतिपन्नामेव ज्ञातवतीमेव। 30. प्रवृद्धेत्यादि। अत्र कदध्वपरिवर्तिभिरित्यस्य निरीश्वरमीमांसकमार्गावलम्बनेन स्वर्गाद्यर्थकर्मानुष्ठायिभिरित्यर्थः क्लिष्टः। भक्तियोगनिष्ठस्य तदसंभवात्। अतोऽयमर्थः। सात्त्विकत्यागपुरस्सरं सर्वं कर्मानुतिष्ठन् भक्तिमभिवर्धयेत्। भगवत्प्रीत्यर्थ कर्मसु क्रियमाणेषु भगवत्कृपैव भक्तिं पुष्णातीति तत्र स्थितिः। सा हि भगवत्कृपा प्रलयपावकः कश्मलमिव मतिकश्मलं रजस्तमः कृतं दहति, तत्कारणभूतपापापनोदकतया स्वस्य कर्तृत्वं स्वकृतोपायेन सर्वसिद्धिञ्चावर्जनीयदुर्वासनावशादनुसंधते यदि, तदीयं कर्म सर्वं निष्काममपि निष्फलं भवेदिति॥ यथावत्प्रवृत्तस्य फलमाह किञ्चेति। यद्वा अनेककर्मानुष्ठानाशक्तस्य अंगप्रपत्तिरेवास्विलं निप्पादयतीत्याह किञ्चेति। श्लोके परंमुरभित्पदं प्रपद्येति पूर्वं पठित्वाऽन्तान्वयः कार्यः। विविक्ता जनसंबन्धरहिता सार्वकालिकस्थितिर्यस्य, निभृता एकाग्रा परमात्मनि चित्तवृत्तिर्यस्य सः। संसिध्यति निष्पन्नसमाधिर्भवति।
पापिनोऽपि शीघ्रं निष्पन्नसमाधयो भवन्ति। महान्तोऽपि विलम्बेन तं लभन्ते। तत्र किं कारणमिति पृच्छति युक्तमेतदिति। निष्टापिताः नितरां तापिताः। निश्शेषं प्रशमिता स्वर्गवासरुचिवासना येषाम्। तिमिमिति 32. अल्पमत्स्यं महामत्स्यो भक्षयति। तावता तस्य भक्षको नास्तीति न। उपर्युपरिमहताश्रयमत्स्यसद्भावात्। तद्वत् सर्वकर्मभस्मीकरणचणस्य निवृत्तिधर्मस्यापि भक्षकोऽप्यस्तीत्येव प्रमाणसिद्धम्। किं कर्म तदिति चेत्– ब्रह्मविदपचारः। इदं एवंमुक्तिफलानियम इति सूत्रे उक्तम्। भक्षकान्तरमाह अन्यदपीति। पातकिवर्गः, ब्रह्मघ्ने च सुरापेचेत्युक्तः। कृतघ्नस्यातिशयितत्वे तत आधिवयमन्यत्र कैमुत्यसिद्धमित्याह तमिममिति। उदासीनब्रह्मविदपेक्षपा आचार्यें ब्रह्मविदि अपचारः कृतघ्नत्वं ब्रह्मविदपचारञ्च संमेलयति। 34. प्राग्वदिहापि मत्स्यमेव दृष्टान्तयति तोयेति। उज्झनं-वर्जनम्। जलान्मत्स्य उद्धृतो व्यथते, अथ जल एव विसृष्टो मोदते। महत्त्यजनतः महतां त्यागात्। उपायभूतज्ञानहानेः तमसि प्रविषट इत्येनेनोक्तत्वात् उपायस्य परमार्थदृष्टिमिति दृष्टिपदेनोक्तिः। एवं विद्यासंपादन श्रममालक्ष्य मनस आयासे, तत्परिहारायाह अपि चेति। 35. वह्विति। विद्या स्वयमेव रागेण प्रियं पुरुषमभिसारिकेव प्राप्य प्रमोदेत। पुरुषेण तु तदपेक्षिताकारद्वयवता भाव्यम्। तच्च अनेकजन्मार्जितपुण्यशालित्वं प्रबलदोषराहित्यञ्चेत्यर्थः। नित्यमुक्तेपि पाठे, उक्ता पूर्वोक्ता विद्या नित्यम् एकं दिनमप्यनपहायानुस्यूततयेत्यर्थः। पूर्वोत्तरसंदर्भानुगुणतया विद्यापदं भक्तिमात्रपरम्। औचित्यात् प्रपत्तिमति गृह्णन्ति। उत्पन्नस्योपायस्याफभिवृद्धिमाह सा चेति। 36. अप्रकम्प्या अविच्छिन्ना पोतपात्रीपक्षे अवयवशैथिल्यरहिता। तत्र कारणं गुणबन्धः कायशुद्धिवैरग्यादियोगः रज्जुभिर्द्दढंबन्धश्च। निवृत्तिधर्मः अकाम्यधर्मः। पोतपात्रीजाता भवजलधितारकत्वं प्राप्ता, उत्तरषूर्वाधाश्लेषविनाशकरीभृतेत्यर्थः। “तदधिगमे उत्तरपूर्वाधयोरश्लेषविनाशौ” इति सूत्रेण भक्तिप्रादुर्भावसमये तदुक्तेः। अथ प्रत्यहमतिशयाधानम्। ब्रह्मविदपराधादेर्विलम्बहेतुत्वमुक्तम्, अनेकसिद्धीनामपि तथात्वमुपरि ज्ञाप्यते मोक्षपक्षनिक्षेपयोग्या इति। सुक्तो यथा सत्यसंकल्पत्वाविर्भावात् सर्वसिद्धिमान्, तथाऽयमिति भ्रान्त्या मुक्तत्वेन ग्रहणम्। दुरन्तवैरिणः उपायस्य दोषदुष्टमवधिं जनयन्तो वैरिणः। दुर्लभः अन्तः नाशो येषां ते दुरन्ताः वैरिण इति वा। संभवे इति। आकर्षककैवल्यफलाप्राप्तय इव एतदप्राप्तयेऽपि जागरूकेण भाव्यमिति भावः। संवृत्तिसत्यः संवृतौ रहस्यार्थगोपने स्थिरः। बौद्धैः मिथ्याभूतं वस्तु संवृत्तिसत्यमित्युच्यते, यथा अद्वैतिनो व्यावहारिकसत्यमिति, संवृतिराच्छादिका अविद्यैवेति। अप्रतिहतगतित्वादेव द्वारपालाद्यनुमतिमप्रतीक्ष्यैव प्रविष्टः। सत्योऽपि कैश्चिददृश्यमान इति वा संवृतिसत्यः। सावरोधम् सान्तःपुरम्। राज्ञीसहितमिति यावत्। अस्थानवृत्तिम् अनुचितस्थले जीविकाम् विहाय। यद्वा संवृतिसत्य इति नामवत्त्वात् तव, अत्र गोषनं मा कुर्विति भावः। संवरणं– गोपनम्। अस्थाने अनुचितस्थले तां गोपनवृत्तिं विहायेत्यर्थः। द्वापरेति। राजानुरूपत्वात् परिवारस्य, मोहं राजानं प्रति द्वापरः संशय एव मन्त्री। दुर्मतिरेव प्रतिष्ठा। क्रमेण अज्ञानसंशयविपर्ययाः मोहद्वापरदुर्मतयः। सानादरावहित्थम् अनादरेण आकारगोपनेन च सह। अभिमत इति। संवरणीयस्य संवरणं हि सर्वेष्टमेव। उपह्वरे जनान्तररहिते। 37. स्वर्गिणां देवानाम्। “वासुदेवे भगवति भक्तिमुद्वहतां नृणाम्। संसारन्यूनताभौतास्त्रिदशाः परिपन्थिनः” इति हि घुष्यते। परेति। देवतान्तरोपासनादिष्वेव पुरुषेण प्रवृत्तेन भाव्यम्। इदानीं परमात्मविषये उपासनमारब्धं स्यान्नाम। तस्य सांसरिकफलान्तरे विनियोगः क्रियताम्। आर्तोऽर्थाथीं च हि भजनमर्हति। बहुमन्येमहि मानयेम। देवतान्तरमूलकादैश्वर्यादतिशयितत्वेन चिरकालसंसारस्थितिसंभवेनास्मदिष्टसिद्धेः। भिक्षुपादप्रसरणेति। भिक्षुः कश्चित् पादप्रसरणमात्रार्थं स्थलमपेक्ष्य क्रमेण गृहं कृत्स्नं स्वायतं चकार। तन्न्यायेन। भिक्षुर्ब्रह्मचारी वामनः पादमितं स्थलमपेक्ष्य पादं सर्वलोकसंबन्धाय प्रसारितवान्, तन्न्यायेनेति वा। विष्णुभक्ता अपि हि पश्चात् हिरण्यरावणादिवत् घोरसंसारिणो भवितुमर्हन्तीति भावः। उत्तरार्थं दूतो वाचयति अतिक्रान्ताविति। अतिक्रमे सति, ऐश्वर्यमुपेक्ष्य मोक्षार्थप्रवृत्तौ सत्यां तु। यः क्रुध्यति, तस्य भ्रूविक्षेपः सहजः, मोहभ्रुकुटिचलनदर्शनमात्रेण क्रोधादयः परिवाराः कार्यकारिण इहेत्याशयेन अस्मदित्यादि। न भवसीति। नंक्ष्यसीत्यर्थः। क्रुद्धो हन्यात् गुरुनपि। तस्य कथं विवेक इति भावः। अत्र, न त्वं प्रतिभटनिरुद्धो भवसि। प्रतिभटकार्यो निरोधस्ते न भवतीत्यपि व्यङ्ग्यम्। एतदभिप्रायेणाह सोऽयमाशीर्वाद इति। यद्वा कोधादीनां हे प्रतिभटभूत! त्वं निरुद्धो न भवसि। तव कारागृहादौ निरोधो न भविष्यतीत्यर्थो व्ङ्ग्यः। वाचिकस्य लेखलिखितवाङ्मयस्य। 39. कस्य भूम्ना शक्त्या। कामविलयकरो लोके क इत्यर्थः। अस्ति शम्भुरित्यत्राह क्रोधेति। तृतीयनेत्राग्निना मन्मथो दग्घ इति वदन्ति। दग्धोऽपि तन्नेषं पार्वतीदर्शनाय शीतमकरोदनङ्गत्वेऽपीति पश्यत कामप्रभावमित्यर्थः। अनुभावः प्रभावः। 40. काम इति। समीचीपूर्णप्रामाण्या, कामस्तदग्रे समसर्वतेति श्रुतिः। कामादेव। सोऽकामायत बहुस्यां प्रजायेयेत्यादिकामा(संकल्पा)देव। निष्काम इति नाममात्रम्। वस्तुतः सकाम एव, योऽकामो निष्काम आत्तकामः आत्मकामः। इति श्रुतेः। एष इत्यत्र एवेति पाठश्चेत्, सम्यक्।
मिथ्यादृष्टिः भ्रान्तिज्ञानम्। सैव दुर्मतिः। कामवैभवमुक्तम्, क्रोधवैभवमाह 41. यदीति। युद्धे विजयः कोपसाध्यः। कोपेन सह युद्धे विवेकः कुप्यति चेत्, कोपवश एव। कोपविषये कोपो न चेत्, तर्हि युद्धाप्रसक्त्या कोपो दुर्जय एवेति। उभयतस्स्पाशा। स्पश बन्धन इति स्पाशः बन्धः ग्रन्थिः। पक्षद्वयेऽपि ग्रन्थिमती रज्जुरियम्। एकतः परं ग्रन्थौ अन्यतः शैथिल्याकुञ्चनादेरवसरः स्यात्। अलमत्र बहुना। उभयथापि दोष इति प्रकृतेऽर्थः। सुमतिर्महामोहोद्भाविताधिकमपि उद्भावयन्ती किं कार्यमिति मन्यते नाथेति। सर्वस्य मोहोक्तस्य संग्रहेणोत्तरम्। 42. अप्राणितेति। दूतः समर्थ इतिविचिन्त्य, ब्रूतां मावेति वा विचिन्त्य लेख विनैव वाचिकमुत्तरम्। प्रतिघः कोपः। संवृतिसत्यो दूतः परोक्षे सत्यग्राही भवतीति दर्शयति 43. सुप्तेति। नः इति कामक्रोधादिसर्वग्रहणम्। त्यजेदेकमिति। पुरुषमोक्षणे कृते कुलनाशो भवेत्। अतः स त्याज्यः। अस्तु बद्ध एवेत्याशयः। गूढस्त्वाशयः– महामोहमेक दुष्टं जहि। कामक्रोधादपस्तु कथञ्चित् विषयान्तरग्रहणेन जीविष्यन्ति चेत्, सन्तु, सत्कुलं वृद्धिमेष्यतीति।
44. त्रय्यन्तैरिति प्रथमाध्पायार्थः। क्षिप्त इति द्वितीयाध्यायार्थः। सागेत्यादि तृतीयाध्यायार्थः। निशातेति, तीक्ष्णाग्रेत्यर्थः। पंकः पापं कर्दमश्च। मार्गस्य शीतलत्वोक्त्या पंकोऽस्तीति न मन्तव्यम्। संसारह्रद एव सः। पंकस्त्यक्तो देहावसाने। अतस्तद्रहितोऽर्चिरादिमार्गः सुपन्थाः। सर्वमिदं चतुर्थाध्यायार्थः। भ्रुकुटिबटकामक्रोधाद्युपक्षेपः प्राक् मोहकृतः। तत्कार्यप्रतिबन्धादि तुर्येऽङ्के दर्शयिय्यन् एतदङ्कसमाप्तये वैतालिककृत्यमाह नेपथ्य इति। सायंसन्ध्यावर्णनम्। 45.। सन्ध्याया उक्तत्वादनेकरक्तवस्तुरूपेणोत्प्रेक्षा। यामवत्याः त्रियामायाः नायिकात्वारोपेण पदार्पणवस्त्रत्वोक्तिः। पदार्पणं पादन्यासः संचारकाले पटे क्रियते सुकुमारत्वात् पादयोः। पदार्पणं प्रारम्भः इति च। रागस्य रक्तवर्णत्वं कविसमये। चेतोजन्मा कामः स एव कदम्बः नीपवृक्षः। जपेति रक्तकार्पासविशेषः। संमोहः अज्ञानं महामोहः। स एव द्विपः। शोणेति रक्तेत्यर्थः। प्रत्यग्दिक्। सैव वनिता तत्पयोधरः अस्ताचलादिः। काश्मीरपंकः कुंकुमप्रायचन्दनपंकः। तत्सदृशी। प्रथमवैतालिके संध्यां वर्णितवति द्वितीयवैतालिकः तालानुकूलम् तदनन्दरं तमो वर्णयति। 46. दिनेति। सूर्यरूपपतिविप्रयोगात्। संध्या तत्पत्नी कबरीभरं- केशपाशमबध्वा विधूतवती। स सर्वत्र प्रसृत इति बुद्धिं जनानामुत्पादयति। विशृङ्खलं सर्वतोविशीर्णम्। भङ्गावली तरङ्गपिंक्तिः। तद्वत् कृष्णम्। तमः कर्तृ। आचूषति– सशब्दं पिबति, व्याप्नोतीति यावत्। दिवाभूतप्रायस्य उलूकतुल्यस्य। सौप्तिकं सुप्तपुरुषपीडनम्। पूर्वश्लोके रात्रि-राग-काम-मोह-शृङ्गार-वनिताप्रस्तावात् द्वितीयश्लोके तमः कार्यकथनाच्च रागादिगणः सौप्तिकं कुर्यात् सावधानं स्थातव्यमित्युपदिशतो धैर्येणेति वाक्यविवक्षितं विवेकः स्वावधानमेवं दर्शयामास। 47. सीदति स्थातुमशक्ते सति। तमिस्रा-अन्धकारः। स्थगयति छादयति। शक्रहरितः प्राच्याः दिशः। अवस्कन्दन् आक्रामन्। मधुः वसन्तः। दुर्दान्तः दुर्दमः। दान्तं दमनं दुष्करं यस्य सः। दान्तवत् स्थितः अदान्तः इति वा। अपनीतम् अपनयः, अनुचितकार्यम्। शत्रोरनुकूलवत्स्थितं स्वात्मनोऽप्यनुकूलमाह 48. अश्रान्तेति। संततिः संतानः। उत्तरोत्रराविर्भावः। दीपभासः दीपकान्तीन् आम्रेडयन्त्यः पुनरुक्तयन्त्यः। आभारणप्रकाश एव तमोनिवर्ततो पर्याप्ता इति भावः। समम् एककाले तिलकयन्ति स्वात्मना भूषयन्ति। मंगलाचरणसौधम्। आचरणार्थसौधम्। सुमत्याः गुणस्य तदाचरणेव च सौधम्।
इति सर्वसाक्षात्काराख्यव्याख्यायां तृतीयोऽङ्कः।
***************************************************************
.
चतुर्थोऽङ्कः
तृतीयान्ते सायंसन्ध्या वर्णिता। चतुर्थे रात्रौ समाधिनिष्ठस्य पुरुषस्य सौप्तिकं कर्तुं प्रवृत्तानां कामक्रोधादीनां पुरुषसमीपे सुमतिसहितस्य विवेकस्य रक्षकस्य दर्शनेन पलायनमुच्यते। प्रथमं कामगवसन्तयोः प्रवेशः। ततः क्रोधस्य। ततस्तृष्णासहितस्य लोभस्य च। धनुरादिभावानर्हान् इश्वादीन् हीत्वैव जगद्विजयो मया क्रियते। तत्र वास्तवो हेतुः चेत्-संकल्पशक्तिमत्त्वमेवेति विकत्थनमादौ कामस्य इक्षुरिति। संकल्पेनैव मनसि सिद्धोत्पत्तिः। यद्वा भोगानां संकल्पे कामस्याविर्भाव इति।
2. त्वयि वसन्ते, संभृतानि संपादितानि शस्त्राणि आयुधानि अस्त्राणि शराः येन तस्मिन्। संस्थिते नष्टे इत्यर्थे विश्वमस्माभिर्वशीक्रियत इति केवलं मोह इत्यश्लीलमर्थान्तरम्। 3. कामं कामं कामयित्वाकामयित्वा। णमुल्। तथा कारंकारम् कृत्वा कृत्वा। सिद्धिं फलनिष्पत्तिम्। भगवति कर्मन्यासः कतिपयैः क्रियते। भूयोगतिस्तु त्वय्येव। तेऽपि प्रतिबुद्धाः कामोकाषींदिति मन्त्रजपं न त्यजन्ति। प्रतिबोधात् पूर्वं स्वस्यैव कर्तृत्वं मतवन्तः पश्चात् कामे त्वय्येव कर्तृत्वं न्यस्यन्ति। अतः सर्वकृत् त्वम्। मन्युरकार्णींदित्युक्तावपि न दोषः। लक्ष्मणकृतं शूर्पणखावैरूप्यादिकमपि रामकृतमेव हि। सर्वस्य कामपूर्वकमेव करणात्। 4. विषनयनमुख्यै रुद्रादिभिस्सह।
5. सुमनसां पुष्पाणाम्। श्लाध्यमानसानां विदुषां स्त्रीणामित्यर्थान्तरस्फोरणं प्रशंसनाय। ज्योतिः परंज्योतिः परमात्मा त्वदाश्रित इति प्रशंसा। ज्योतिष्टोमयागो वसन्ते क्रियत इति वास्तवार्थः। सूर्योदिज्योतिषश्च। यत्र माधवे। माधवशब्दः श्रीपतिपरः वैशाखपरश्च। श्रीपतेः परत्वम् उत्कृष्टत्वम्। वैशाखस्य परत्वं चैत्रोतरत्वम् 6. वसन्ते प्राप्ते वैराग्यं स्थितमपि नश्यतीत्येतदद्भुतं दर्शयति वसन्त इति। अग्नेः वायुज्वालामस्नेहापेक्षाऽस्ति। निर्वाणाभावः अग्न्यनुवृत्युपयोगी। सर्वं तदस्तीत्याह। सुधासूतिः चन्द्रः। जितनिर्वाणवचस इत्यस्य ते इति विशेष्यम्। निर्वाणं-मोक्षः पुंस इति वागपिजिता वसन्तेन। वह्नेः निर्वाणं शान्तिरिति वचोऽपि नेत्यर्थान्तरम्। त्वदर्थएवेति। वयं त्वच्छेषभूता इत्यर्थः। 7. अह्नि कामव्यापाराभावान्न गौरवहानिः, तेन विश्रमार्थं तथा स्वीकृनत्वदिति प्रशंसति विश्रमेति। विभावो द्विविधः उद्दीपनविभावः आलम्बनविभावश्च। प्रथमः कुसुकोकिलालापादिः। द्वितीयो युवत्यादिः। अपरिचितः अत्यन्ताननुभूतः शुभाश्रयः दिव्यमङ्गलविग्रहः। सुखालम्बनं युवतिवपुः।
सुलोचनासु ब्रह्मलक्षणसमन्वयं दर्शयति परमेति। श्वेताश्वतरे, `स्त्रियो ब्रह्मोतवा पुमान्’इति सर्वस्यापि ब्रह्मात्मकत्वमुच्यते। वसन्तस्तु तत् अर्थान्तरे नयति। 9. अलसललितमन्दम् दर्शनार्थप्रवृतौ ब्रीडया अलसं दर्शनकाले ललितं ततो निर्वतनविषये मन्दम्। वलितेति पाठान्तरम्। अकृतकाः स्वाभाविक्यः अत एव रमणीयाः। तात्कालिक तरुणवधूवीक्षणविभ्रमवश्य एव भवेत् शाश्वतब्रह्मशतसंनिधानेऽपीति भावः।
10. विशिखशब्दः पुलिङ्गो बाणार्थकः। तदासारेण तत्सन्ततवर्षेण विकल्प्यमानाः स्वस्थानापन्नतया क्रियमाणाः निरन्तराः दृष्टयः यस्य सः। पुण्यहीनयोगमिति पाठे स्वर्गाद्विसत्फलप्रदपुण्यरूपसहकारिरहितः भगवत्प्रीत्यर्थकर्मसहकृतः योगो मोक्षार्थः कांक्षितो येनेति विग्रहः। पुण्ययोगहीनमिति पाठे ऐश्वर्यार्थयोगो यः सर्वकांक्षितः तद्धीनमित्यर्थः। केचित् पुण्यहीनेति पुण्ययोगहीनेति च ब्रह्मोच्यते इत्याहुः। यद्वा पुण्यहीनाः काम्यकर्मरहिताः नारायणपरा अपि। ते एव पुरुषेण काक्षिताः। नारायणपरा वयमिति सत्संगस्य तदिष्टत्वात्। मत्तकाशिनीषु यौवनमदेन काशमानासु तरुणौषु। 11. श्रुतेरिति। श्रुतिः श्रोत्रम्। भावभेदाः– मनोवृत्तिप्रदर्शकेङ्गितादयः। तै भृतकीकृतः भृतिग्राहणेन दासीकृतः आत्मा मनो यस्य। यौवतं युवतिसमूहम्। 12. वनिताशतेति। एकवनिताव्यासङ्गादपि पुरुषं निवर्तयितुं विवेकः किमपि तप आर्जयतु। सौभरेरिवानेकवनितोपभोगे तद् वयं विनियोजयेमेति भावः। पञ्चाशतं राजकन्याः परिणिनाय सौभरिरिति श्रीविष्णुपुराणे। मत्स्यानां भोगविहारदर्शनेन तस्य तत्र प्रवृत्तिरासीत्। 13. विकस्वराः विकासभाजः। प्रसवाः पुष्णाणि। भ्रमरसुन्दर्यः भ्रमर्यः। तत्समूह एव ज्या मन्मथस्य। तादृशस्य विक्रमः उपघुष्यते भ्रमरीनादेन सहितेन स्वनादेन प्रकटौक्रियते। कैः। तदाह प्रहृष्टेति। परभृत्पदं काकवाचि। परभृतपदमेव कोकिलवाचि। अत्र तु परभृत्पियापदेन काकेष्टा इत्यर्थकेन कोकिलग्रहणम्। काककृतं कूजनश्रवणपर्यन्तं प्रीतिपूर्वककोकिलरक्षण विवक्षिततुमेव प्रयोगः। परभृतः कोकिलाण्डरक्षापराः प्रिया इष्टाः यासां कोकिलस्त्रिणां ता इति वा। पणवः वाद्यविशेषः। नत्वयेति नञ्सहितपाठ एवोचितः। उपरि पद्येन त्वरायाः निषेधात् ॥ 14. निषङ्गे तूणौरे स्थितशरदर्शनमात्रतो यथा दुर्बलो बिभेति। तथा शाखागतपुष्पतोपि बिभ्येत् विवेक इत्यर्थः। प्रतिवदति कामः विरोधिनो महत्त्वेन सन्नाहसामग्र्यमेव युक्तमिति। 16. भवति-भवति सति। द्यूते विपदः पाण्डादीनाम्, वादे विपदः बृहदारण्यकोक्तरीत्या जनकसदसि विदग्धादीनाम्। अनुभूतश्चास्माभिर्विवेकोद्यमत एव कवितार्किकसिंहवेदान्ताचार्यमूलः सर्ववादिपरिभव इहेति च भावःष 17. विपुलेति। यौततस्य मदनसैन्यत्वेन रूपणम्। स्कन्धावारः सैन्यम्। तत्र रथगजतुरगदातिसमुदाये यवतीनां सर्वत्र व्याप्तत्वात् सौन्दर्यमेव पदातिगणः। पत्तिः पदातिः। विहारा एव तुरङ्गमाः, नर्तनरूपसाम्यात्। तुरगभ्रमणस्यापि विहार इति नाम। मद्यरानाधीनमद एव गजमदः। स्तम्बेरमाः गजाः। तैः स्थगितम् आवृत्तम् अन्तरम् अन्तःप्रदेशः, रतिरस एव– भोगसुखमेव रथौन्नत्यम्। ईदृशे स्कन्धावारे स्कन्धमावृत्य कण्ठे आलिङ्ग्य स्ववशीकरणचणे जीवति सति, यः कश्चिदपि संयमविधानेच्छुनं जीवति। संयमः धारणाध्यानसमाधित्रयम्। तस्य संयमो न सिद्ध्यतीति यावत्। स्कन्धावारे त्वजीवति स जीवतीत्यर्थ इह व्यंग्यः। ननु विहितसंयमो वाऽयं विधित्सितसंयमो वेति प्रश्ने वसन्त आह न चेति। दृश्यते इति पाठे कसमाध्यनारूढत्वमिति पूरणीयम्। उभयशबलत्वं दर्शयति स्मरतीति। 18. आतङ्कानाम्— दुछखरोगादीनाम्। अथापि गृहेषूपभोगमिच्छति। ब्रह्मप्राप्तिसक्तौ सत्यामेव कुटुम्बसुखसमृद्धिं कामयते। अभिनिविशते विशेषेण आस्थावान्। अनन्तरञ्च किं कृतमिति लज्जते। अतो ध्यानस्यैतित्कियमाणस्य शुद्धाशुद्धरूपत्वात् अपायः सिद्धः सुकर इति भावः। तर्हि समाधिसमये सौप्तिकं करवामेति कामः कथयति। 19. रथेति। कर्णार्जुनयुद्धे कर्णस्य रथे चक्रे भूमग्ने तदुद्धरणपरे तस्मिन् कृष्णप्रेरितोऽर्जुनस्तदुपरि शरवर्ष ववर्ष। अयुक्तमपि तद् युक्तमिति जगन्मन्यते जगन्मन्यते। तथा संप्रति मत्कार्यमपि महामोहमान्यमिति भावः। तमुत्साहयति वसन्तः। 20. विरक्तीति। पापकोटिपरीतत्वेऽपि भगवत्प्रणिधानरूपपङ्कस्य दमयितुमशक्यत्वमेवाऽऽसीत्। तत्र विरक्त्याः कपट एव कारणम्। एवं तत्र पंके पतन् पुरुषो हन्त न लक्ष्येत। तादृशदुःखव्यथापरिहारः त्वदस्त्रताडने सति भवेत्। एवं नाशिताहंकारः, किमित्येतावत् उपेक्षितमिति निर्वेदवाश्च सन् भोगवर्ग पुरुषः सेवेत अत्र किमाश्चर्यम्, रुद्रादिभिरपि प्रणिधानमेव त्यक्तम्, भोगश्च स्वीकृतो भवत्प्रभावादिति।
भवदस्त्रताडितः पुरुषः स्वयमेव युवतिकथया कालं यापयतीत्याह 21. मलयेति। तत्कथाभिवर्धकाः मलयपवनादयः कथाविषयाः युवतिहाससल्लापबिहारादयोऽनु भूता उत्प्रेक्षिताश्च। अभिख्या शोभा। वालिश इवेति। यथा मूर्खः कश्चित्, सागरं संतराम्यद्य गगनञ्चतिलङ्घये। मरीचिकाञ्च चर्वामि मज्जामि च महीतले इतीहेत, तथेह विवेकः प्रयतत इत्यर्थः।
22. पुरुषमिति। भोगश्रद्धया अग्रभावितया कृतः संभ्रमः अतिवेगगतिः अजहत् यं तं पुरुषं विषयानुभवमिग्नं कथं विमोचयितुं यतते। अमरतरुण्यो द्राक्षावल्ल्य इव। तासां बिब्बोकाः विलासाः अमृतमेदुरतत्फलरसा इव। तद्वैभावज्ञानात् यतते। न कामतन्त्रे तव बुद्धिरस्तीति। तारया लक्ष्मणायोक्तमस्मै वक्तव्यम्। तिष्ठत्वयम्, पुरुषस्तु तद्वैभावनुमावी न तद्वशो भवेदिति। विवेकवशो भवन्नपि न कामक्रोधौ जयेदित्याह दृश्यतामिति। 23. यद्यपि– कामं मां जेतु न लभ्यो जनः, कामयते चेत्- कामवश एवेत्यपि सुवचम्- अथापि क्रोधप्रस्तावः क्रोधपात्रप्रवेशसूचनाय। उपरि 30. पद्यं द्रष्टव्यम्। कथावृथाजल्पमिति। विवेकपक्षिणा केनचित् कामक्रोधप्रशमनकथा प्रस्तुता। तां मुधेति दूषितवान् कामः। तं कथाकारिणं मनसि निधाय पृच्छति। त्वदुक्तरीत्या वृथाजल्पभूतां कामक्रोधप्रशमनकथां कः कृतबानिति॥ विकटम् विरूपवेषव्यापारम्। सति विवेके कामक्रोधप्रशमनकथा विवेककथैव नेत्याह 24. अयमिति। उत्कृष्टभटयुक्ते प्रथने युद्धे यः संचारः तद्रूपा या भटाभटी भटनृत्तम्। तस्याः शिक्षको नटपतिरहं क्रोधनामेत्यर्थः। सुरमर्दिनामसुराणां स्वविधेयत्वमाह यदिति। यस्य क्रोधस्यानुविधायिनः– विधेयाः दैत्याः, तेभ्यो भयात् सुरभटस्त्रीस्तनतटानामुष्णता। तत्र पटीररसलेपस्य वैयर्थ्यमित्यर्थः। पटीररसलेपेऽपि न ज्वरशान्तिरिति भावं वर्णयन्ति। युद्धात् प्रतिनिवर्तनान्तरं मुदा स्वपरतीनां भटानां पटीररसलिप्तेन स्वस्तनतटेन परिष्वङ्गमभिलषितवतीनां सुरसुभटीनां पटीररसः स्वतीनां क्रोधोदीर्णासुरध्वंसिततया मुधाऽभूदिति भावो युक्तः।
मत्प्रतिपक्षनियतमन्यवे मच्छत्रुविषये सार्वकालिकद्वेषवते। यद्वा शत्रुविषयव्यवस्थितक्रोधरूपाय मन्यवे क्रोधायेति। साहायकं साहाय्यम्। अहो इति संतोषातिशये।
25. मोह उत्सहते पुरुषं सर्वदैव बद्धं कर्तुम्। अभिज्ञेऽपि मदनः कामोत्पादनेन कदनं भयोत्पादनं चिकीर्षति। निष्कामकर्माणमपि डम्भार्थकृत्यपरं कर्तुं डम्भो यतते। इमांस्त्रीनप्यतीत्यातिविवेकी पुरुष पापाटवीं सत्कर्मज्ञानाग्निव्याप्तां यदा करोति, तदाऽपि तस्यानर्थोत्पादनं क्रोधकार्यम्। अवज्ञालेशादिकमसोढ्वा क्रुद्धो ब्रह्मविस्वपि अपराधी स्यात्। अतः क्रोधः प्रत्यञ्चं पराग्विषयत्यागेन तत्प्रतिकूलतया गच्छन्तं समाधिं योगं बाधेतेत्यर्थः। संगतम् समागमः। आत्मसंभवेन मनसिजेन मन्मथेन। पुनःपुनरभिहितमिति। `परमानन्ददायिन्यः’ (8) `अयमप्सरसां गणः अभिग्च्छचु’ (10) इति च प्रागुक्तम्। अभिमतप्रतिलम्भनम् इष्टप्राप्तिम्।
26. योगिनोऽपि परिचरणार्थं स्त्रिंयोऽनुमन्यन्त इति विदितम्। तत्र अमरस्त्रियोऽप्सरसः परिचरन्तु। ताः मृगेक्षणाः, मृगस्येवेक्षणं यासां ताः। योगिनिहभयकम्पिता इव लक्ष्येरन्, योगिनमेव कम्पयेरन्। तासां स्तनभारः मदनबाणभूतः पुष्पगुच्छः। न साधारणलतानाम्, किन्तु रत्नलतानाम्। तत्रापि रतिपरिजनभूतयोषिदभिवर्धितानां रत्नलतानाम्। एवञ्च तदीयस्तवकवद्वा स्तबकैरपि वा विलोभनीयः– सौन्दर्यादौ अपेक्षणीयः स्तनभारः। विलोभनीयं ललितं सौन्दर्यं यस्य स स्तनभार इति वा। एवं मदनबाण उक्तः। धनुर्ज्याऽपि तत्रास्ति। तद्दृक्ताराणां भ्रमरतुल्यत्वात् भ्रमराणाञ्च धनुर्गुणत्वादिति। सखे इति वोधसंबोधनम्। वेशनारी वेश्या। विबुधेत्यादिविशेषणात् अप्सरस्त्वलाभः। पार्ष्णिम्- पश्चाद्भागम्। वसन्तेन पुष्वेषु उत्पादितेषु योवित्सु च तदलंकृतासु कामप्रसक्तिः। कामात् क्रोधोऽभिजायत इति प्रसिद्ध्या स पश्चात्। अतोऽभिगमने मधुकामक्रोधानां क्रमः। उपरिकरिष्यमाणे व्यूहे तु कामोऽग्रे स्थास्यति। प्रतिघः क्रोधः। सौप्तिकेन सुप्तपुरुषवधरूपव्यापारेण संस्थापयितुं नाशयितुम्। चतुरुदधुबृंहणम् चन्द्रोदये समुद्रवृद्धिः प्रसिद्धा। उदयवार्ताहराः। उदयं वदन्त इव स्थिताः। 27. हरिणाङ्कस्य चन्द्रस्य कराः किरणाः वर्ण्यन्ते तिमीति। मत्स्यो मुखेन जलं पीत्वा मूर्धगतद्वारमुखेन विसृजति। तिमिमुखैः तिमिप्रभृतिभिर्महामत्स्यैः क्षीरसमुद्रप्रवाहः पीतो मुच्यते चेत् यथा धवलः सर्वव्यापी च स्यात्, तथाऽयं किरणनिकरः। रजनिः रात्रिरेव स्त्री। तस्या हासवदयमस्ति। घनसारः मुगन्धिकर्पूरविशेषः। चन्द्रकिरणाः चन्दनपंकवत् स्थित्वा प्राचीदिग्रूपायाः युवत्याः स्वयं लेपं कुर्वन्तीति।
28. प्रथमस्याद्रेः उदयाचलस्य। पश्यतमिति लोण्मध्यपुरुषद्विबचनम् मदनप्रतिघद्वपकर्तृकम्। भाविताम् लम्भिताम्। चन्द्रकलङ्कस्थाने मदजलम्। तत् रक्तं कृष्णञ्च वर्ण्यते। कर्णशंखेन कर्णालङ्कारभृतेन शंखेन । 29. द्युतिरिति पाठे चन्द्रिकाविशेषणम्। क्षीरसमुद्रवत् धवलविपुलेत्यर्थः। द्युतिमिति पाठे श्रियमित्यस्य विशेषणम्। कुमुदगतायाः श्रियः क्षीरसमुद्रवत् व्यापिता चन्द्रिकया। हसितेति विशेषणं चन्द्रिकया समुदवृद्धिं मनसिकृस्य। श्रियो लक्ष्म्या आविर्भावः क्षीरसमुद्रात्, कुमुदश्रियश्चन्द्रिकातः। अतो हसितद्युतिरिति प्रथमान्तपाठोऽपि स्वरसः। विवर्तितमिव पुनरुपर्यपसारितमिव। दिगन्तरे दिगेकदेशे इत्युक्त्या अधस्ताच्चन्द्रिका, उपरि तिमिरसद्भाव इति मुखलम्बिनां कुन्तलानां मूर्धनित्रमूहने मुखं यथा स्फुटतारचक्षुष्कं दृश्येत, तथा नक्षत्रसहितं निशारूपस्त्रीमुखं प्राचीदिग्गतमुपलभ्यत इत्यर्थः। निशामुखमित्यस्य सूर्यास्तमयसमनन्तरकाल इति वास्तवार्थः। तिमिरकन्दलं अधोगततिमिरस्यापि कुन्तलत्येवोपरिगमनादभिवृद्धिः कन्दलपदोक्ता। अथ सर्वदिग्यापितामाह 30.। कामपि चन्द्रिकां कौमुदीं करोति। कुमुदसंमोदनेन कौमुदीशब्दर्थं लम्भयति। संमोदः विकासः। आमोदश्च। व्रती इति अतिशायने नित्ययोगे वा। ननु चक्रवाकसंतापकरस्य चन्द्रस्य का प्रशंसेत्यत्राह संतापचिन्तामणिरिति। इष्टकलप्रद एव चिन्तामणिर्भवति। दैवात् विघटितानां चक्रवाकानां संतापमुत्पाद्य पुनर्मेलनाशां वर्धयतीति भावः। लोके पुरुषापेक्षया स्त्रीणां विरहवेदनाधिक्यात् तरुणीत्युक्तिः। आनन्दनाडिन्धमः। नाड्याः वेधने तद्गतानन्दः प्रवहति। दिशेति। दिशानां संबन्धितम् इत्यन्वयः॥ ज्योत्स्नायाः गङ्गाप्रवाहसाम्यं वर्ण्यते 31. उभयोरपि विष्णुपदे प्रकाशः, ज्योत्स्ना आकाशे, गंगा भगवच्चरणे इति। फेनतुल्यनक्षत्रेषु क्रमेण व्याप्ता चन्द्रिका, गंगा च नक्षत्रतुल्यफेनपटलीक्रमपरिवृता। पूर्वदिगद्रेः प्रवहन्ती इयम्। सा `पर्वतानां हिमालयः’इति पूर्वगणितात् हिमाद्रेः। अमरतटिनीसंप्लवः गंगाप्रवाहः। तत्सखी तत्समा। सा कालिन्दीमाक्रमाति। इयं तमिस्त्रामन्धकारमिति।
32. विपदुपगमे त्राता। कामजयार्थ क्रोधाविष्कारे कामकार्यस्य योगप्रतिबन्धस्य तेन निष्पादनात् त्रातृत्वम्। तिष्ठते। जेष्यामीति स्वात्मानं प्रकाशयेदित्यर्थः। क्रोधः कामस्य विपदेव नास्तीत्याह 33. विजेतुकाम इति। महामोहेन कोपं प्रति कोप (3.41) उक्तः। तत्रैव सुमत्या अत्र कामेन (4.23.) च कामं प्रति क्रोध उक्तः। इह कामजयं प्रति काम उच्यते। एवं क्रोधजयं प्रति कामोऽपि ग्राह्यः। त्वन्निवर्तनेति। त्वां कामं निवर्तयितुं कामना नास्ति चेत्– त्वमनिवृत्तः स्थास्यसि। एवं त्वयि तेनात्यक्ते सति, स सकाम एवेत्यर्थः। विलम्बः कार्यस्याशीघ्रभाविता। व्याक्षेपः कालहरणम्। तथाकुर्वन्ति चन्द्रोदयप्रस्तावात् प्रागुक्तरीत्या सर्पन्ति। चरणुगलनिगलिताशयमिति। तद्युगलं शृंखलाद्वयमिव। ततः सञ्जातनिगलमनस्कम्। प्रतिपन्नकारिणा व्यवसायविषयनिर्वाहकेण। चोदितं प्रेरितम्। पुरुषः पीडयितुं शक्यो न किमित्यत्राशक्यतां दर्शयति। अयंहीति 34. भयस्थानग्रन्थान् इदमिदं भयस्थानमिति दर्शयतो ग्रन्थान्। अथ निर्भयस्थाने निद्राति। स्वमात्मानं देहातिरिक्तं जीवात्मानम्। उपचरति, शरीरमाद्यं खलु धर्मसाधनमिति। वसन्तस्तु देहात्मबुद्ध्या उपचरतीति मन्यते। रज्यत्यपि सुखे। स्नानभोजनादिजन्यावर्जन्यायर्जनीयसुखानुभवम् अभिलषितसुखत्वेन कल्पयति वसन्तः। दुःख्यन्- उभयत्र दोषं पश्यन्। इवेत्यनेन स्वकल्पनामात्रमिति सूचितम्।
संक्षोभणीयदशामिति। सौप्तिकं कर्तुमागतेषु कामादिषु वसन्त एतद्दशामित्वं वर्णयन् सौप्तिकावसरोऽयमिति निरूपयतीति भावः। जागरिते वधासंभवात् सुप्तिसमयान्वेषणवत् यस्यां– जागर्ति संयमी, तद्दशायां तत्क्षोभणासंभवात्, यदा डोकायित इव, स एव तस्य मुप्त्यवसर इति कृत्वा तत्क्षोभणरूपो वधः कार्यं इत्यक्तं भवति। कामस्तु वैराग्यातिशये क्षोभः कथमित्यनुचिन्त्य तत्परिजिहीर्षया डोलायितत्वाभावेपि क्षोभापादकं वासनावलं दर्शयति दूरेति।
35. भवपयोधिमतिपतिष्यत इत्यनेन तीरान्तरसमीपपर्यन्तगत्यनन्तरमपि क्षोभयितुं स्वयं शक्त इति इह कामो मन्यते। एकान्ततोरतिरित्यादिना डोलायितत्वाभावोक्तिः। निरन्तरध्यानकाले मा भूत् क्षोभः, व्युत्थितस्य आलम्बनसंढीलनकालेऽस्मत्कार्यं फलेदिति भावः। वासनारचितवारवाणमिति। वासनाः सर्वाः कवचीकृताः, तद्युक्तं मनः पुरुषस्य पार्ष्णमालम्बते पश्चाद्भागं गृह्णाति। पश्चादाकृष्य उपरिगतिं रुणद्धि। पश्चाद्भागश्च संसार एव।
क्रोधस्याप्यवसर इत्याह इदमपीति। परिपन्थिनी विरोधिनी। अनुचिन्तितहिरण्यगर्भवचसः। योगयशास्त्रप्रवर्तकचतुर्मुखवचनम्, “संमानना परां हानिं योगर्ध्देः कुरुते यतः। जनेनावमतो योगी योगसिद्धिञ्च विन्दति।” इतीदं स्मृतवन्त इत्यर्थः। संवर्तः बृतस्पत्यनुजः। भरतः जडभरतः। भाष्यार्थदर्पणे तच्चरितम्। विदुरः प्रसिद्धः। दुरितोच्छेदेति। संप्रानानपेक्षायामपि अवमानं विद्वान्न सहेत। तां दशामप्यतिक्रम्य अवमानापेक्षाऽपि यथाशास्त्रं कार्या। अत एव शास्त्रात् तस्याः पापोच्छेदकत्वम्। अवमन्तृभिरेव तत्पाहरणाच्च। ख्यातिलाभपूजानैरपेक्ष्यदार्ढ्यात् कर्मणां निष्कामत्वातिशयाच्च। प्रसभं बलात्कारेण॥ संमानापेक्षायां किल तद्भङ्गो रोषहेतुः। अवमानापेक्षाप्राग्भाविनी संमानानपेक्षापि क्रोधावसरवारिकेत्याह अथवेति। 36. शृणोतीत्यादेः मुरभिदंघ्र्यादिः कर्म। इतीवेति इवकारः न शक्यत इवेति योज्यः। निश्चयोक्तौ कामादेः कोपप्रसंमात्। परिग्रहरुच्यभावादयं मानभंगादि न गणयेदित्याशयेनाह अपिचेति।
37. वितथः व्यर्थः कार्यानुपयोगी यः परिग्रहः परिगृहीतपदार्थः तस्य त्यजनेन सुखितमनाः। तदितरस्य वितथादितरस्य प्रकृतोपयोगिनोऽपेक्षितस्योपादाने प्रसक्तेऽपि विधिना परं नियतः शास्त्रेण अतिशयेन व्यवस्थापितः, धर्म्यं एव प्रवृतः, अधर्म्यम् अपोह्य-मास्त्विति निवार्यं, अवधीरितभूतहतिः त्यक्तप्राणिहिंसः अजगरवत् जीविकां भजति। अनूदितं हि अजगरोक्तं श्रीमति रहस्यत्रयसारे, “न संनिपत्तितं धर्म्यमुपभोगं यदृच्छया। प्रत्याचक्षे न चाप्येनमनुरुन्धे सुदुर्लभम्” इति। तथाच कस्यचिदिष्टस्य श्रमेणार्जने हि तद्विरोधे क्रोधप्रसक्तिः। न त्वत्रेति भावः। परप्रशस्तिमसहमानः काम आह सखे इति। विलक्षः लज्जातत्सहितं स्मितं यस्मिन् कर्मणि तथा। 38. द्गौणिप्रभृतीति। द्रौणिः अश्वत्थामा। अश्वत्थामकृतवर्मकृपाचार्यत्रयेत्यर्थः। पाण्डवपुत्राः सुप्तिसमये तैर्हतैः, अन्यवधार्थमपि उद्यमः कृतः। वसन्तः स्वस्याप्रवृत्तिं कामाभिप्रेतां निषेधति। अवस्कन्दः आक्रमणं वाधनम्। पाटच्चरलुण्टितेषु चोरकृतद्रव्यापहारेषु। यामिकाः तत्तद्यामकाले गृहरक्षकया व्यवस्थापिताः। यथा यामिकैः चोरागमनात् प्राक् जागरूकैर्भवितव्यम्, तथाऽस्माभिः किञ्चित्कालतः पूर्वमेव कृतप्रवृत्तिभिर्भावयमिति वसन्ताशयः। 39. प्रचेतुम्। प्रचयः– वृद्धिः। अपचेतुं निवर्तयितुम्। अपक्रियां प्रतिकूलकार्यम्। भिषज्यन्तं चिकित्सकम्। आतुरः रुग्णः। जमदग्न्यादयो बहवः समाधिनिष्ठाः दुर्धर्षा एवासन्, तद्वदयमपीति वसन्तो मन्वीतेति मत्वा क्रोधश्चतुरं तत् समर्थयते। 40. जमदग्नीति। यद्यहं जमदग्रौ प्रविष्टः स्याम्, तर्हि तत्कृतेन शापेन एकद्वामात्रविनाशः प्राप्तः स्यात्। सोऽपि जीवेत्। अतस्तं विहाहं जामदग्यादौ प्रविष्टः, तेन हि कार्तवीर्यस्य, जमदग्नेः, जगतीगतानां गणनातिक्रान्तानां राज्ञां सर्वेषामद्भुतपौरुषाणां विश्वशमहमापादितवान्, रावणादौ प्रवेशाच्च जनस्थानाक्रमणमुखेन दण्डकारण्यमुनिबृन्दानां राक्षसकुलानाञ्चोत्सादमिति। 41. पुंस इति। पुरुषः कामं परिगृहीतं सर्वं त्यजतु, न हि स कदापि नग्नो भवितुमर्हति। अतः कन्थाः काश्चिदत्यजनीयाः। तथोपासनाचमनाद्यर्थाः आसनकमण्डल्वादयः। तत्रान्यतमस्य सर्वस्य वा हरणम्, अथवा क्रोधोत्पादनमात्रमेव मे लक्ष्यमिति विनोदार्थं यत्र कापि निलीनीकरणम्, अथवा नाशनाष्यनिघ्नः अतथ्यस्येवाप्रियस्यापि वाचकः, `तन्वी चारुणयोधरा— नहि नहि प्राणप्रिया कुण्डिका’इत्यादिः। असदारोपः अनपहारिणि अपहर्तृत्वारोपः। संमोहादीति आदिना शरीरास्वास्थ्यादिपरिग्रहः॥ महेश्वरहृदयविक्षोभः यज्ञे श्वशुरदक्षप्रजापतिवधादौ भाव्यः। 42. बिभर्त्विति। ऐरावतकृत्यं देवेन्द्रवहनं दैत्यसैन्यमर्दनं दन्तैः वप्रक्रीडया पर्वतभेदन कदलीवनस्येव कठोरकाननस्य भञ्जनादि गजान्तरदृष्ट्या अद्भुतमपि तत्प्रभावपर्यालोपने तु नाद्भुतम्, तस्यानायासेन शिरसा सर्वभूभरणरूपमहाकार्यकरणकौशलदर्शनात्। तद्वदेव मदीयं सर्वमिदं कार्यं न मेऽद्भुतमिति भावः। पुष्पाक्रः। वसन्तः। क्राधोद्भाविताज्ञान्धकारमुखेन क्रोधं श्लाघते 43. निद्रेति। क्रोधेन जागरदशायामुत्याद्यं यत् तमः अज्ञानम्, तावत् निद्राकाले मूर्छाकाले निमीलितापरपर्यायमरणावसरेपि न सुलभम्। अन्धकारे निम्नोन्नतादिप्रदेशता न ज्ञायेत, नीलपीतादिवर्णभेदो निद्राणः अस्फुरितः स्यात्। विष्वक् सर्वत्र स व्याप्नुयात्अ। तद्वत् क्रोधजमज्ञानं निद्रादिकालभवादधिकम्। उच्चनीचपुरुषस्थितिपिधायकम्, यतः क्रुद्धो हन्यात् गुरुनपि। ब्रह्महत्यादावपि प्रवर्तनात् वर्णाश्रमादिभेदोपि तदा न स्फुरेत्। क्रोधकार्यञ्च नानाप्रकारं मारणधनहरणादिरूपम्, द्विष्टपुरुषसंबन्धित्वज्ञानेन तदन्यानेकविषयकञ्च। दृष्टान्तमाह कल्पेति। उद्वेला-मर्यादामतिक्रान्ता काऽपि यमुना, तस्याः कल्लोलः तरङ्ग इव कालं नीलम्। अज्ञानहेतोस्तमोगुमस्य च नीलत्वेन वर्णनं प्रसिद्धम्।
मामकमपीति अपिना क्रोधीयसमुच्चयः। पूर्वं वसन्तेन कथममोघवृत्तिभिर्भवितव्यमिति विमृशामीति सर्वविषयेऽपि विमर्शकथनादाह माऽवमंस्था इति। 44. मदस्त्रजनिते लाघवे स्थितः– लाघवेन मत्प्रयुक्तं यत् अस्त्रं तद्वश आसीदित्यर्थः। सीताविप्रयोगकृतरोदनप्रलापादिकं विवक्षितम्। अथवा प्रबलराक्षसवधकृतं गौरवं वहतोऽपि लघुत्वमेव मदस्त्रेण जनितम्। तत् तस्य आन्तं स्थितम्। सीतावियोगात्। प्रतिमासीतानिर्माणात् तत् ज्ञातञ्च। एवं लाघवभाक्त्वादेव रलयोरभेदेन राघव इति व्याहार इति। वैक्लव्यं दैन्यम्। 45. रागेति। पीतमदिरस्य यद्यत् तत् सर्वं वीतयुवतेः पुरुषस्य तत्सक्त्यतिशयाद् भवति। दृष्टौ रागः रक्तवर्णः, अनुराग इति भेदः। प्रलपनादिकं समम्। स्स्वलति मार्गे भ्रश्यत्पदो भवति। अधिकः सहायोऽपेक्षित इति वकाति यद्यपीति। इदं लोभादिप्रवेशसूचनम्। पदशब्दम्– आगच्छत्पुरुषपदन्यसनसमयभवं शब्दम्। तच्छब्दश्रवणमात्रेऽपि अयं पुरुष आयातीति पुरुषनिर्धारणमनुभवबलाद् भवति। अतो लोभस्य पदन्यासः इत्यनुमायाऽऽह धर्मेति। 46. स्थितद्रव्यव्ययासहनात् धर्मध्वंसकत्वम्। अधिकधनग्रहणलोलत्वात् शमाद्यभावः। घस्मरः शोषकः। प्रणिदधतां युञ्जानानां योगप्रत्यूहाः ये, तेषां मृत्युः बाधको यः तं जयतीति। योगविघ्नकर इत्यर्थः। लोभरहितेन वदान्येनापि धनादितृष्णायाः क्रियमाणत्वात् तृष्णायाः वारविलासिनीत्वम् न तु तद्धर्मपन्तीत्वम्। उदीयते आयाति। आकार्यः आह्वातव्यः। छोटिकया आह्वानं मैत्रीसूचकं पराविज्ञातञ्च भवति। 47. आज्ञायां स्रक्त्वारोपः। तृण्णाजानिः तृण्णा जाया यस्य सः। इच्छापेक्षया लोभस्य वैलक्षण्यमाह प्रदिष्टैरिति। विषयलाभात् इच्छा शाम्यति। पूरणात्। लोभस्तु न पूरयितुं शक्यते। अतो न शाम्यति। तत्तादृशा-वाचामगोचरेण प्रथिम्ना पृथुत्वेन विकटैः विस्तृतैः। हाटकमयैः स्वर्णविकारभूतैः। 48. आभिरूप्याणां सौन्दर्याणां समुच्चयैः मेलनैः। बहुवचनं तदातदोत्यद्यमानदेबस्त्रीगतं तत्तत्सौन्दर्यं समये तत आनीय तृष्णायां निक्षिप्य नवीकरणात्। अत एव अजहत् यौवनं यां सा भवति तृष्णा। स्वर्णरजतादावेव आशा प्राय इति कनककलधौतेति। कलधौतं रजनतम्। पूरणैः पूरकैः। क्षेपकाले पूरयेदिति भ्रमः। समनन्तरं प्रागगपेक्षया आधिक्यमेव छिद्रस्य। अत्रेदं (3-39). तात्पर्यचन्द्रिकोद्धृतं वचनम्– `तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते। या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यतदे’इति। किमाश्चर्यमिति। त्वद्वल्लभात्वमेव प्रयोजकमिति भावः। रामणीयकोचिताभरणसंपत्तिर्नास्तीति खिद्यते तथा पीति। एवं वर्णनेन तृष्णास्वरूपाविष्कारः। 50. बिलक्षमतिः एवं परिपालनेऽपि वृद्धिरधिका न भवतीति लज्जितबृद्धिः। धनद इति नामोक्तौ च लज्जा। न भुङ्क्ते व्ययो भवेदिति धिया। यद्वा विलक्षोविस्मयान्विते। अहं धनेश इति विस्मयात् क्षुदभावात् न भुंक्ते। धनायां धने आशाम्। निद्रारसं देहस्वास्थ्यकर्यां निद्रायां रुचिम्। निद्रातव्यमित्यपि न मन्यते। प्रसक्तावपि तत्र रुचिर्नं भवति। द्वेषभाव एवेति। भगवतो विष्णोरपि निद्रासमयः शास्त्रोक्तः। कथमर्वाचां देवानां सा न स्यात्। रक्षापिशाचसाम्यं निद्रात्यागे। का पुनर्दशेति। त्रैलोक्यान्तर्गतत्वात् मोहाज्ञायाः प्रागेव त्वद्वशे हि तेन भाव्यमिति भावः। गुरुजनमिति। उभयोर्नमस्कार्यत्वात् जनपदम्। लोभं ग्रीष्मत्वेन भावयति वसन्तः। मनसः सशंकत्वात् अवशादाह माभूदित्यादि। अपियरवागतमिति। पूर्वं क्रोधः साट्टहासमागत इति कुशलनिश्चयात् स्वागतमित्येवोक्तम्। अत्र तत्कुशलानवगमात् अपिशब्दप्रयोगः। सकुशलमागमनमिति जिज्ञासे इत्यर्थः। अथकिम् ओमित्यर्थः। अपिकथमिति। `ज्ञातहेतुविवक्षायामप्यादि कथमव्ययम्’इति निद्यण्टुवशात् अपिकथमिति समुदितमव्ययं ज्ञातहेत्वर्थकम्। तत्रामोघवृत्तित्वे स्वामिकृत्यावधानं हेतुरित्यर्थं वर्णयन्ति। तदपेक्षया यस्मादवधत्से, तमात् ते सकुशलमागमनमिति पूर्वोक्तांशेऽस्य हेतुतत्वमुचितम्। अपिकथमित्यस्य पृथक् वाच्यार्थस्तु अपिशब्दः प्रश्नपरः। प्रश्नः कथमिति। स्वागतमिति यतः उक्तम्, एतदनन्तरं स्वामिकार्यविधानविषये प्रश्नः कथम्। अवधत्स एवेत्युक्तं भवति। तत्र पूर्ववाक्यार्थो वा हेतुर्द्वितीयवाक्यार्थं प्रति भवतु, विपरिवर्तो वा ययायथमिति। ज्ञातत्वान्न प्रष्टव्यमिति वदन्नेव पृच्छति चेत्– तत्र अपिकथमिति प्रयोग इति वाऽस्तु। वैदेशिकः कामाद्यपेक्षयाऽपि अतिदूरस्थितः।
51. रजःकणेति पदेनात्यन्ताल्पभूभागबिवक्षा। तदत्यागतृष्णया कलहायन्ते। देवपतयः त्रस्यन्ति कम्पन्ते, कोवाऽस्मत्स्थानलिप्सया तपः करोति इति स्थानलोभेन। भिक्षुकाणां लोभो नास्तीति न, तत्रापि भिक्षाकेष्वपि भिक्षुकेष्वपि केषुचित् क्वचित् एकभिक्षुकग्राह्यभिक्षादायिगृहस्थं प्रत्येव उपक्षिप्तेषुगुणातिशयकथनादिना भिक्षुर्थं कृतप्रस्ताबेषु, एकतमेनान्यतमस्याधिक्षेपः दातृगृहस्थान्नस्य सर्वस्य खभिक्षात्वाभिमानाधीनलोभात् क्रियते। अतः अन्यसमृद्ध्यसहनरूपायसूया, परगुणेषु दोषाविष्करणरूपेर्ष्या च जगदेव स्वायतीकुरुत इति भावः। 52. हरितः दिशः प्रति। स्थपुटयन्ति विषमयन्ति-उच्चनीचरूपां कुर्वन्ति कृषिगृहपरिधा-विहारपर्वताद्यर्थम् निध्यादिलिप्सया च। चटून् चमत्कारिप्रियवचांसि। परिच्छदं परोपकरणभूतताम्बूलभूपणपेटिकादिकम्। दुरन्तं-यस्यावसानं दुष्टम्, तादृशतादृशधनविषयकतृष्णाग्रहणशीलमनस्काः नौभिः सागरमतिलंध्य क्रयविक्रयव्यवहारं निर्वहन्ति, यद्धं वा कुर्वन्ति। अन्ततो नैष्फल्येऽपि नोपरमन्ते।
कः प्रत्यूहः को विघ्नः। लाभे संदेहेऽपि प्रवृत्तेरुत्कटायाः प्रतिघातो कनास्ति, पुरुषार्थसाधकत्वस्वतः पुरुषार्थत्वप्रमाणसिद्धत्वादिसद्भावात् सर्वेऽप्यर्थार्जने प्रवर्तन्त इत्यर्थः। एवमार्जनव्यवसायस्य लोभगतमाधिपत्यमेव मूलमिति लोभं स्तौति अयञ्चेति।
53. कामतन्त्रप्रधानैरिति पाठः अस्मदुपजीव्यमर्थपुरुषार्थमिति प्राक् कामोक्तिमनुसृत्य। अयं वशीकार्यः अर्थनामा पुमर्थः त्वय्यायत्तो हीत्यन्वयः। कर्मतन्त्रप्रधानैरिति पाठे यया कया च विधया बह्वन्नं प्राप्नुयादितिवत् कर्मतन्त्रं कर्मानुष्ठानमेव प्रधानं येषां पुरुषाणाम्। ये क्षणमपि तूष्णीं स्थातुं नेच्छन्ति, सर्वदा किमपि कर्तव्यमेव धनुमुद्दिश्येति मन्वते, तैरित्यर्थः। धर्ममार्गात् अधर्ममार्गाद्वा तत्कालसमुपनिपतितात् कक्षीकार्यः संपादयितुमेषितव्यः। अथ लोभोऽवश्यं पुरस्कार्यः। स एव हि लाभं गोपनम् अप्रदानसंकल्पञ्च कारयेत् इति। गोपनं नाम अन्यस्मै अकथनम् अन्यस्माद्रक्षणश्च।
पश्चात् कदाचिदपसरणे प्रसक्ते, सुहृदि मदने जोषं भवत्यपि क्रोधः कुप्येदिति मत्वा, वसन्तः पृच्छति। अनुयोगं प्रश्नम्। अवस्कन्दनीयः आक्रम्पयाभिभवनीयः। तं प्रकारं भवदनुष्ठेयं जिज्ञासे इत्यर्थः। सर्वैर्व्यूह्य गन्तव्यमिति कामः आविष्करोति सखे इति। पूर्वं वसन्तः प्राक्कृतः। इदानीं स भीत इव। अत एव किल स्वयं पुरतो गन्तुमनिच्छन् पृच्छति इति मत्वा, `तृष्णा स्त्री अन्तः, अहमग्रे,अन्ये त्रयः त्रिषु दिग्भागेषु इति व्यूहेन समाधिप्रत्यूहः कार्य इति वदति।'
लक्ष्यभूतपुरुषस्थितिप्रकारं वर्णयति प्रणिधानेति 54. समाधिदृष्टपरमात्मस्वरूपः इन्द्रियसमुकदायप्रत्याहारात् अबहिर्वृतिः। प्राणायामबलेनान्तःस्थापितप्राणवायुः। निवृत्तिरेव धर्मोयस्यसः। आस्ति इति सुखेन बाणवेध्यत्वमभिप्रैति। नात्र पुरुषमात्रम्, सुमतिर्विवेकश्चेत्युभौ समीपे रहस्यमन्त्रणं कुरुत इति दर्शयति। वसन्तः 55. समुद्धृतमिति– समुद्धृत्येति यावत्। रहस्यविमर्शः मन्त्रविशेषतदर्थविमर्शश्च। उपजप्तः कर्णे पिशुनवाक्यं श्रावितः भेदितः निकटे मन्त्रजपपरश्च। विवेकोपजापविषयोऽपि व्यूहे अग्रगामिनो मदनस्य वश एव। अतोऽयं मन्त्रजपः शृङ्गारनिगमाभ्यास एवेति निरूपयन् क्रोधः। 56. समाधिरूपसमृद्धौदनभक्षणप्रावीण्ये पर्यालोच्यमाने मदनकार्यं सर्वस्त्रीपुंसजन्तुजातवशीकरणमुपदंशखादनतुल्यमत्यल्पं लक्ष्यते। तदुपदंशखादनं समाधिभक्षणोपयोगि च भवति, तद्रीत्यैवात्रापि शृंगारभावनाविधानात्। लोके ह्योदनभक्षणस्यानुकूलं भवति उपदंशभक्षणम्– इति श्लोकद्वयेनोपपादयति यत इति। समाधिसपदुदरम्भरिरित्यत्र समाधेः सर्वविधान्नत्वमभिप्रेतम्। अस्य सर्वस्य कामेन स्वोदरे भरणार्थमुपयुज्यमानमुपदंशमाह प्रबलेति। लोके मत्स्यादय उपदंशा भवन्ति। ते ऊर्मिपूर्णसमुद्रगताः, अत एव जडमतयः। लडयोरमेदात् जले एव स्थातुमनसः। जलधावितस्ततस्सञ्चरन्तः बडिशेनाकृष्यमाणाश्च भवन्ति। तथा स्त्रीपुंसरूपा जन्तवोऽपि अशनायापिपासाद्यनेकोर्मिसमाकुलसंसारसमुद्रसंचारिणः अन्योन्यविहारिणः। एतदाकर्षणञ्च वैषयिकसुखरूपबडिशाय मदनेन क्रियते इति। ईदृशं सर्वमुपदंशमात्रमिति भावनीयम्, यदि भुज्यमानसमाधिरूपान्नराशिखरूपं लक्ष्यते। तस्य मदनाभिमतान्नतामुपपादयति 57. स्वसंबोध इति। मुनिरिति किम्। मदनादीनामस्माकमसौ महाशृंगार्येव लक्ष्यते। शृंङ्गरिणोऽपेक्षिता अंशाः सर्वेऽत्र सन्तिविहारसौधम्, आभारणजातं रत्यर्थः सल्लापः, अन्तःपुरम् अन्यजननिद्रासमयः शृङ्गारविधाशीकनं संभोग इत्यादयो हि सन्ति। श्रुतिरन्तःपुरम्। रात्रावेव समाध्यभ्यासात् लोकसुषुप्तिकाललाभः। स्वस्वरूपपरस्वरूपबोध एव सौधः `प्रज्ञाप्रासादमारुद्य’इत्युक्तः। शमदमादय एव भूषणानि। मन्त्रजपो हि रत्यर्थसल्लाप एव। समाधिरेव संभोग इति। एवं शृंगारवेदाभ्यासे क्रियमाणे पुरुषं शान्तो दान्तो निष्काम इति यद्वदन्ति, तन्मिथ्या। स्वानुभूयमानं षरेण मा ज्ञायीति एवमारोपणं कृतमिति। अन्यथाकल्पना कामादिद्विष्टभक्तिमार्गस्य कामादीष्टशृङ्गारत्वकल्पना। आशामात्रकृतेति। अन्यथा किमिति व्यूहविधानेन प्रत्यूहविधित्सा, विवेकमोहयोर्वा विरोधः कुत इति भावः। इदं वहिर्न षक्ति, ते विमनायेरन्निति। प्रगल्भेति। आडम्बरमात्रम्। निष्फलमिति भावः। पत्न्यां स्त्रीस्वभावं दर्शयति लोभः स्ययमपि भूतोपि। युष्मासु जीवत्सु इति। पश्चात्तनदशा पश्चाजेव वत्चव्एचि भावः। पश्चादित्यस्य प्रितक्षिप्यन्तामित्यत्रान्वयः। राजा नः प्रतिपक्षो रथमास्थाय कवचधारी धीरगतिरस्मद्व्यूहं नाशतीत्याह अनिद्राणेति। अनिद्राणा रात्रावपि निद्रारहिता प्रज्ञा असंकुचितं ज्ञानं तदेव वलम्। विवेकवृद्धिरेव गतिः। यदृच्छोपनत सुखवस्त्वनास्वादादिस्तितिक्षा सांकल्पिक पुत्रदारादि दिदृक्षादिविरहः संतोषः। तनुत्राणं कवचम्। केनापि– वक्तुमशवयेन महासमर्थेन । प्रयुक्तं प्रेरितम्। कः ब्रह्मा। तदृषिक्तवात् कतत्प्रयुक्तः प्रणवः। प्रणवेन शेषशेषिभावरूपविवेकप्रादुर्भावः॥ न केवलं युष्मत्स्त्रीणां माङ्गल्यटतन्तुरक्षणाय, राजारक्षणायापीत्याह वसन्तः। अराजकैः असंनिहितमहामोहैः। क्रोधत्वात् स निर्भय इव लक्ष्यत इत्याहस्म। उपरि लोभवाक्यम्। प्रतिवहनवातूलरहितः प्रतिकूलवात्याविरहितः। कालस्य गच्छतो निवारकः वातादिः नौकादेरिव नास्तीति भावः। तस्य कालस्यानुकूलत्वकल्पनमस्मदनुकूलसहकार्यायतम्। तदपि नास्तीति च। तत्-तस्मात् आरम्भः। पलायनारम्भः। भीतिप्रतिभटः। पुरुषान्तरमाश्रित्य जीवनसंभवात्। श्रूयत इति। अस्य गौतमधर्मसूत्रगतत्वेऽपि श्रोत्रेण गृह्यमाणत्वात् श्रूयत इत्युक्तम्। लोभस्य आयुषि लोभ उचित इति श्लाधते कामः। आधेय इति पाठे अस्माकमिति पातविशेषणमध्याहार्यम्। आदेय इति। परहननार्थं प्रेषितानां स्वयमेव स्वहननास्पदीभवनमयुक्तमिति। तर्हि कथं विवेकजय इत्यत्रह सद्य इति। संप्रति अस्मदशवयत्वरूपदशायां सद्यः शीघ्रमेव। दम्भेत्यादि पञ्चमाध्यावकृत्यम्। आदिना दुर्मतिदुर्वासनाग्रहणम्।
पृथिवींत्यजेदिति। न हि पृथिवीत्यागः शक्यः। तथा सति मरणादात्मरक्षणाभावश्च। अतः पृथिव्यां प्रकृतप्रदेशत्याग एव विवक्षित इति भावः। आत्मशब्दस्य देहविशिष्टात्मपरत्वं परित्यज्य शुद्धात्मपरत्वस्वीकारे तु शुद्धात्मक्षेमकामः संसारे तदयोगात् प्रकृतिमण्डलरूपां पृथिवीमेव परित्याज्य परमं पदं प्राप्तुमिच्छेदित्यर्थो वर्णयितुं शक्यते। स न प्रकृतसंगत इति।
इति अभिनवदेशिक वीरराघवाचार्यविरचितायां
सकल्पसूर्योदय व्याख्यायां सर्वसाक्षात्काराख्यायां तुरीयोकः।
*********************************************************
.
पञ्चमोऽङ्कः
(व्याख्या) पञ्चमे प्रथमं दम्पत्योः कुहनादम्भयोः प्रवेशः। अथ दर्पस्य। अथ तत्पत्न्याः असूयायाः। अथ मोहादेः। पूर्वं कामादिषु व्यूह्य समागत्य विवेकं दृष्टवा पलायितेषु दम्भे विवेकमभिचरितुम्, दर्पे उत्कृष्टान् सर्वान् आस्तिकान् तिरस्कर्तुम्, ईर्ष्यायामसूयायाञ्च सर्वलोकमाक्रमितुञ्च दुर्मतिमहामोहाभ्यामाज्ञप्तेषु तत्तत्कार्यव्यापृतेषु, कार्यगौरवेण महामोहसविधं जिगमिषन्तस्ते दम्भदर्पादयः परस्परप्रत्यभिज्ञानमपि क्लेशेन लभन्ते। तथा विजृम्भितं तेषां वेषवृत्तव्याहारादिकम्। तेषामाडम्बरविस्तर आदौ। अथ ते मिथः प्रत्यभिज्ञाय समुदिताः समयं निरीक्ष्य महामोहमुपसर्पन्ति। तन्मुखेनापि राजा कामादिव्यसनमाकर्ण्य स्वयं योद्धुं व्यवस्यन् अन्ततः पुरुषस्य प्राणाहुतिद्रव्यद्षणेनैवानर्थं चिकीर्षति। प्रशास्ति च परिजनान् पुण्यमुक्तिक्षेत्रादिषु यथायथं स्थित्वा प्रत्यूहः कार्य इति। तत्रादौ दम्भप्रवेशः–
संभावयामीति पाठः। संबोधयामीति पाठे आह्वयामीति वा, आहूय त्वत्प्रभावं वदामीति वाऽर्थः। धर्माचरणाभिनयेन वेषमात्ररुचित्वाविष्कारानुरूपो व्याहार इह। तस्करादीनां कुहनाव्यग्रत्वात् तत्प्रियत्वेन गणना। सर्वलोकपतिव्रतेति। सर्वलोकबुद्ध्याऽपि त्वं पतिव्रतेति आपातार्थः। सर्वे जनाः मे पतय इति व्रतवतीति गूढोऽर्थः। अनुगतानपि नष्टानपि। गाईपत्यादीन् वैदिकाग्नीन्। शुष्मभिः अग्निभिः। कदाचिदषि कस्मिंश्चिदपि दिने कस्यामपि वेलायाम्। पर्वकालकर्तव्यनित्यकर्मविषये आह पर्वेति। अनाविष्कृतपुष्पया रजस्वलात्वेऽपि तदप्रख्यापयन्त्या। पिण्डपितृयज्ञेति। अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति विहितम्॥ का कथेति। धर्मानाचरणे हि प्रायश्चित्तमिति बाह्योऽर्थः। प्रायश्चितापनोद्यत्वे हि तदित्यान्तरोऽर्थः। विण्छेदे अग्न्यननुगतौ।कुहनात्वात् स्वपतेरप्यज्ञातं स्वदुष्टकृत्यं यतः करोति, तस्मादेवमुक्तिः। परमश्रोत्रियपुत्रीम्। आन्तरार्थस्तु, श्वशुरविन्दायै अश्रोत्रय पुत्रीं परम् अतिशयेन बहुमन्ये इति। तत्र कारणमाह नित्यमिति। अज्ञनाया बुभुक्षा क्षुत् उदन्या पिपासा। मे मृष्टं भोजनं मत्कृतं पुष्कलभोजनम्। अस्पष्टतायै मत्कृतमित्यनुक्तिः। प्राप्यत इति णिजन्तात् कर्मणि चेत्, मयि प्राप्यते– द्वादशीपारमानुष्ठानमहं प्रापितो भवामीत्यर्थः। अथ त्वमपि तन्पुण्यं लभस इत्यप्यर्थः। प्रख्याप्यत इति। द्वादशीपारणानुष्ठानमहं प्रापितो भवामीत्यर्थः। अत त्वमपि तन्पुण्यं लभस इत्यप्यर्थः। प्रख्याप्यत इति। द्वादशीव्रतमित्यनुषङ्गः। साधनसंपत्तीति। छात्र्यच्युतागस्त्यशाकदधिधृतादीत्यर्थः। इदं निषिद्धमित्याशयेनैवमुक्तम्। अन्तिमयुगस्य कलेः भूमिकाभेदाः रूपान्तराणि। प्रव्रजितः संन्यासी। पूर्वदेवाः असुराः। असुरा अपि बुद्धादिकृतात् व्यामोहनात् पूर्वं देववत् धर्मानुष्ठायिन आसन्। अतस्ते पूर्वदेवाः। रावणेति तस्य सीतापहारार्थं सन्यासिवेषधरत्वात्। सीतायाः विरक्तत्वात् कुहनावत् स्त्रियोऽप्यनुरागः मुभद्रायां लक्ष्यत इत्याशयेनाथ अर्जुनसंन्यासोदाहरणम्। सुभद्राग्रहणसमयेऽप्यर्जुनः संन्यासवेषधर इति विशेषश्च। जिघृक्षेयुः ग्रहीतुमिच्छेयुः। परमब्राह्मणमित्यत्र परमित्यपि पदच्छेदः कवीष्टः। अब्राह्मण स्यैतावात् डम्भ इति ज्ञापनाय। भोगाः भोगोपकरणानि। तन्निर्वाहकतमत्वं तत्सार्वभौमत्वम्। आततायिनम्। षट् पुरूषाः आततायिन उच्यन्ते, `अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहा। क्षेत्रदारापहारी च षडेते आततायिनः’इति। क्षेत्रापहारी पञ्चमः। दारापहारी षष्ठः। विवेके आततायित्वमारोपितम्। एषु षट्सु अभिचाराकरणे पातकमिति महर्षिवचनार्थः। तदिति। आराधनस्येष्टत्वादित्यर्थः। पारिजातानेतुर्वैलक्षण्यमाह दिध्येति। दम्भक्रियमाणस्याभिचारस्य कृत्याविशेषेत्थापकत्वाभावात् न स्वहानिरिति समाधाने संभवत्यपि, कृत्यातोऽपि स्वस्याभीतत्वरूपवैभवख्यापनायान्यथा समाधत्ते दम्भः विद्यते (1)। चतुष्कम् आयुर्वेदधनुर्वेदगान्धर्वार्थशास्त्राणि। द्विसप्ता। द्वाभ्यामावृत्तानि सप्त, चतुर्दश। चन्वारो वेदाः– शिक्षादीन्यङ्गानि षट् मीमांसान्यायविस्तरपुराणधर्मशास्त्राणि चत्वारि च। चन्द्रकलापदस्य षोडशेत्यर्थः। तासां चतुर्भिर्गुणितानां चतुष्षष्टित्वम्। ताश्च शिल्पादयोऽन्यत्रव्याख्यादौ परिगणिताः। सर्वाशेऽपि डम्भत्वं ख्यापयितुमाह निःस्पृहत्वमपि म इति।
2. निर्जित्येति। एकविंशतिकृत्वः क्षत्रियान् हत्वेति शेषः। भृगुपतिः परशुरामः। अनेनास्वीकृतत्वात् काश्यपाय भूमिर्दत्तेति दम्भो वदति। संभृतचमत्कारैः समार्जिताद्भुतानन्दैः। स्वर्गदायी इन्द्रादिरमर्त्येश्वरः, मोक्षदायी विष्णुः। श्येनः श्येनेनाभिचारन् यजेतेति विहितः श्येनपक्षिवत् शत्रोर्निपत्य आदानेन- शत्रुघातुकत्वेन तत्सादृशत्वे अहमपि शिक्ष्या, सहधर्मचरणसौकर्यायेति प्रश्नः। 3. तृष्णादीति। डम्भार्थकरणेऽपि फलतृष्णाभावादेवमुक्तिः। येत्विति। मत्परिग्रहात्-दम्भसंबन्धात्। `अभिसाधाय तु फलं दम्भार्थमपि चैव यः (17-12) इति हि गीतम्। तत्र फलान्तरविरक्तोपि दम्भार्थकर्तृतवा साधनीयः, तदा विवेको नष्ट एव। नाशनमेव ह्यभिचार इति। ननु स्वयं जक्षत्वेऽपि पुरोहितपुरस्कारेण कार्यम्। विधिहीनमसृष्टान्नमिति ब्राह्यणानुमतेरपेक्षितत्वाच्चेत्यत्राह अथापीति। सर्वजनेति। सर्वे हि गर्विणा इति भावः। वृसीं दर्भासनम्। दर्पप्रस्तावसमय एव दर्प आयाति। दक्षिणाक्षिस्पन्दात् स्वानुकूल समागम इति च निश्चितम्। अथापि दूरान्निरीक्षणे दर्प इति निश्चयस्याजातत्वात्, यदि अन्यः कोऽपि स्यात्, तदागमनसमये मम धर्मध्वजस्य किञ्चिज्जपादिव्यग्रत्वाभावे स्वरूपहानिः स्यादिति मत्या च अन्तर्गत्वा आसने उपविश्य दम्भः स्वकार्याभिनयपर आसीत्। दर्पश्च दम्भस्थानमिदमित्यविज्ञाय तेन पथा आयाति। दम्भदर्पयोर्मिथः प्रसिद्धयोः स्निग्धयोरपि चिरविरहात् वासस्थलस्याज्ञातत्वात् चित्तक्षोभाञ्च व्यक्तिप्रत्यभिज्ञानं दुष्करमीसीत्।तद्दशायामुपरितनं सर्वमिति भाव्यम्। ज्वलदिति। उष्णप्रभया संजातकञ्चुका अत एव निरीक्षितुमशक्या मूर्तिर्यस्व। मध्यामलोकं भूमिमाकाशादवतीर्याऽऽयाति। एवमुक्त्वा आश्रमान्तर्गतो दाम्भिकः कर्म कर्तुम्। पृथू स्थूले दारुमय्यौ पादुके। विक्षिप्यमाणौ तिर्यगूर्व्वमधश्च दर्पद्योतनानुगुणं प्रसार्यमाणौ भुजदण्डौ। प्रतिज्ञापत्रिका नाम इदमेव यथाशासनं करिष्यामीति विलिख्य ततत्पुरुषदत्ताः पत्रिकाः। एतावत् कार्यं तत्रतत्र साधितमिति ज्ञापनाय स्वयं स्मरणाय च ताः गृहीत्वा दण्डावलम्बिनीः कृतवानस्ति। दर्पस्य गर्वस्योत्कृष्टजनावमतिहेतुत्वात् तदर्थमेव राजप्रेरित इत्युच्यते। आचक्रवालम् मोलालोकपर्वतपर्यन्तम्। दिशाचक्रवालं- दिड्मण्डलम्। क्षीरसमुद्रेण बहुमानात् उपहाररूपेण हारो दत्त इति वदम् तं विशिनष्टि औदार्यप्रदर्शनाय सुरभीति। सुरभिः कामधेनुः। मदिरा वारुणौ। मणिवरः कौस्तुभः। वितरणमहावदान्येन। एतावद्दानेन महत्त्वं गतेन दात्रा। मन्दररूपमन्थेन मथनेनोत्पादितं संक्षोभमपि सहभानेनेति अपकारिंषु उपकारपर इति गुणातिशयोक्तिः। यादवाभ्युदये 18 सर्गे 100-104 श्लोकाः द्रष्टव्याः। अत् चेति। हारधारणदशायामिह भूमौ। अद्येत्येव पाठः। श्लेके इहेति पदसत्त्वात्। तत्र इवेति पाठो न शुद्धः उपमानस्याप्रसिद्धेः। 4. द्वादशादित्याः एकादश रुद्राः अष्टौ वसवः प्रसिद्धाः। तदधिकत्वात् त्रयोदशत्वादिना गणनम्। एं कथनम् आदित्यादिसाम्यं उपमानभूत आदित्यादौ आधिवयमपि दर्शयेत्, सर्वमिदं मौढ्यकृतमित्याह अहो इति। एवञ्च का कथा भूलोके कस्यचित् तत्साम्यादेः। रोषः अयुक्तकथनश्रवणात्, हासो मोढ्यचिन्तया। अनुचरप्रतिनिधिपर्वणि कादाचित्कानुचरणाहींकृतभक्तगौष्ठ्यामपि। वैदुष्ये स्वस्यातिशयमाह 5. छन्द इति। शिक्षाद्यङ्गषट्क-मीमांसान्यायविस्तरूपाङ्गाष्टककथनमत्र। छन्दितेति, कामितेत्यर्थः। छन्दः इच्छा। छन्दोरूपं वेदाङगं स्वयमेव यद्बुद्धिप्रवेशमकामयत, ते छन्दश्छन्दितबुद्धपः। पदं व्याकरणम्। कल्पः कल्पसूत्रम्, यागप्रयोगदर्शि। तत्र विकल्पं विविधकोटिग्राहिज्ञानं संशयं त्यक्तवन्तः। ज्योतिर्गणस्य नक्षत्रमण्डलस्य संचारक्रमं विशेषेण गणितवन्तः ज्योतिर्विदः। त्रिविधया कर्मकाण्ड-तत्परिशिष्टभूतसंकर्षकाण्ड-ब्रह्मकाण्डरूपया मांसलाः पुष्टाः। न्यायशास्त्रविदां तर्कचर्चाधिक्यात् अंगचालनातिशयमालोच्य नृत्यन्त इत्युक्तम्। खर्विताः ह्रस्वीकृताः। ममैव सर्वत्रातिशयितं वैदुष्यमिति। द्वितीयपात्राभावात् स्वयमेव शंकासमाधाने विवक्षुः कुतस्तवेयंशिक्षेत्यादि शंकावाक्यं परोक्ततया कल्पयति रेरे इति। कुतः कस्माद् गुरोरित्यर्थः।
अधिगतस्वाप्यभ्यस्तत्वाभावे कार्यकरत्वं नेति मत्वा कीदृशीत्यादिः प्रश्नः। प्रश्नद्वयस्यार्धद्वयेन समाधानं श्लोके 6. सुभाषितनीव्यामप्ययं श्लोकः। विधिं भाग्यम्। विहगेन-पक्षिणा (हंसेन)। पयसोः क्षीरनीरयोः विवेकविधिः मिश्रक्षीरनीरतः क्षीरस्य पृथक्करणम्। कतिवेति। न ह्यगस्त्यः समुद्रं पूर्णं पास्यन् क्रमेणाधिकजलग्रहणाभ्यासं प्रागकरोत्। 7. अस्मद्वंशे प्राच्यैरपि यागो नानुष्ठित इति न हीनता। अत्युत्कृष्टान् अस्मानपि यो याजयेत् तादृशः कोऽस्ति लोके। याजकाभावादयजनम्, न तु स्वयमसामर्थ्यात्। एष वंशोत्कर्षः। वृत्तं तु विलक्षणं तपः। विश्वक्रियमाणं तु तपः प्रत्यक्षं इन्द्रियपीडायुक्तं कतिपयमात्राधिकारिकम्, क्वचिदेवानुष्ठेयम्। आस्माकं तु अक्षपीडां न कुर्यात् इति विधिप्राप्तम्, अन्यैरदृश्यं सर्वाधिकारिकं सर्वत्र सुकरं विश्वतपोविलक्षणम्। अक्षपीडां अक्षरोधनं न कुर्यात्, यथेच्छं चरेत् इति स्वेष्टम्। अथ तत्तद्दिगभिमुखीभूय तत्रतत्र स्वमूलं जातं क्षोभं प्रकटयति। सर्वतिरस्करणमेवैतत्कृतम्। बाह्यकुदृष्ट्युच्छ्रायहेतुरयं-स्वकीयमनन्तसिद्धान्तसृष्टिकर्बुरमुपन्यासं… कः पुनः प्रत्येष्यतीति वक्ष्यति। सर्वमिदं मे पुष्कलमिति मच्छिष्यसंपत्तिनिरीक्षणेऽपि सुग्रहम्। बाह्यः कुदृष्टयश्च सर्वेऽपि हि मे शिव्याः। शास्त्रविरुद्धंतैरुच्यमानं सर्वं नूनं दर्पभूतमन्मूलकमेव, अभिनिवेशदर्शनात्। अतोऽहमेव गुरुरित्याह बहव 8. इति। विबुधस्तोमे पण्डितबृन्दे अनिमिषसंधे च मिषति पश्यति सत्येव। मेरु महास्थूलं स्वर्णमयं प्रकाशमानमपि। अत एवाद्यापि मेरुर्न दृश्यते। जगत् वैदिकसंधम् अज्ञं वेदादिसदंशश्रवणानासक्तं धर्माचरणरहितं तत एव फलदर्शनरहितञ्चाकुर्वन् बाह्यः कुदृष्टयश्चेति तस्य जडपंग्वादिता। ननु प्रमाणं विना प्रमेयसिद्धिर्न भवति, भवतोऽसाधारणः प्रमाणवर्गः क इत्यत्राह अथवेति। प्रमाणानां प्रमाणत्वमेव नास्ति। स्याच्चेत् एतावाता कालेन कथं न बाह्यकुदृष्टिविलयः। तदपह्नवासायर्थ्ये का नाम प्रमाणता। अतो लोके यत् कार्यकरम्, तदेव ग्राह्ममित्याहोत्तरार्धेन। प्रत्यक्षादिप्रमाणं दुर्निषेधमिति कस्यचिदाक्षेपं क्षिपति किमाहेत्यादिना। गगन-तल-मलिनिमप्रत्यक्षमिति। सर्वव्यापिनि गगने तलत्त्वबुद्धिः निर्मले तत्र मलिनत्वबुद्धिश्च प्रत्यक्षः। न हि प्रत्यक्षत्वहेतुना तदातरणं क्रियत इत्यर्थः। शांकरभाष्यानुसारात् तलमलिनिमेत्यस्यायमेवार्थः।
ननु षड् दर्शनानि प्रमाणभूतानि सन्ति। यदाहुः `कणादस्याक्षपादस्य व्यासस्य कपिलस्य च पतञ्जलेर्जैमिनेश्च दर्शनानि षडेव हि’इति। नच मिथोविरोधादप्रामाण्यमिति वा अपरिग्रहात् कणादादिग्रन्थानां कथं प्रामाण्यमिति वा शंक्यम्– तदुदितसर्वार्थस्वीकाराभावेऽपि तेषां यत् परममुद्दिष्टम्, तत्स्वीकारे दर्शनसार्थकयानपायात्। यथा देहाद्यतिरिक्ताहमर्थात्मसमर्थनं कणादलक्ष्यम्। प्रत्यक्षानुमानशब्दप्रामाण्यसमर्थनेन वादप्रस्थानशिक्षणं गौतमलक्ष्यम्। अन्तर्यामि ब्रह्म व्याससंमतम्। प्रकृतेरचेतनजगन्मूलत्वं सांख्यमतम्। योगान्मोक्षः पतञ्जल्युक्तः। कर्मानुष्ठानावश्यकत्वं जैमिनीष्टमिति। तदिमानि दर्शनानि बाह्यकुदृष्टिपक्षवत् न सर्वथोपेक्ष्याणि भवन्ति। तदुच्यमानानां तत्त्वानामतत्त्वत्वेन एतद्वैलक्षण्यादित्यत्राह 10. षड्भिरिति। पूर्वपुरुषप्रणीतानि षट् दर्शनानि अनादरणीयानि, तेषां श्रद्दधानात् प्रत्येव प्रमाणत्वात्। कुत एवमिति चेत्-मिथो मतिव्याघातात् वस्तुतत्त्वमेकरूपं न सिद्धम्। ऐकरूप्यं हतमेव। कर्मणामिष्टसाधनत्वं लिङर्थत्वात् श्रौतमिति कश्चित्। आक्षिप्तमित्यन्यः। कथं क्षणिकस्य साधनत्वमिति प्रश्ने क्रियाशक्तयेति कश्चित्। भूतेषु जनितया शक्तयेत्यन्यः। आत्मन्युत्पादितयेत्पपरः। परमात्मसंकल्पादिति परः। सर्वं गगननर्तनम्। प्रामाणिकत्वव्यवहारस्तु द्वित्रकक्ष्यापर्यन्ते क्षोमाभावमात्रेण। एकेन कस्वपक्षसाधनाय प्रमाणोपन्यासे, अन्येन तत्प्रतिक्षिपे, पूर्वः तन्निराकरणेन स्वपक्षं स्थापयति। एवं द्विस्त्रीर्वा परकृतोपालम्भप्रतिषेधेन स्वपक्षसाधनात् द्वित्रकक्ष्यानुवृत्तिः। तदुपरि परस्य जोषम्भाव एवास्य प्रामाणिकत्वभ्रमे कारणम्। न तु अर्थवास्तवत्वेनेति भावः। तेऽपि सिद्धान्ता मदुन्नीतयुक्त्यैव सिद्धाः। यदि केनचिदुक्तमस्वीकृत्यान्यः कश्चिदन्यथाऽऽह, तत्र नूनं तदपेक्षयाऽहं ज्ञानीति दर्प एव हेतुरिति मदुननीतत्वमेव तत्र। एवं सति मच्छिष्याः बाह्याः कुदृष्ठवश्च मत्संबन्धाधिवयात् मदुपजनितबुद्धयः प्रत्यवस्थाय तान् निराकुर्युर्यदि, तदेषितव्यमेवेति भावः। प्रत्यवस्थापयन्तु। प्रत्यवस्थानम् आक्षेपः प्रत्युत्तरं वा। तद्विषयीकुर्वन्तु। निराकुर्वन्त्वित्यर्थः।
अपसव्यमिति। दक्षिणमित्यर्थः। दक्षिणां दिशं पश्यन् वदति। कुत्र स्थित्वेति चेत्– मगधादीनां दक्षिणत्वेन कथनात् तत उत्तरदेशे इति कसुज्ञानम्। वक्ष्यति च महानद्योर्गङ्गायमुनयोरमी मध्यमा जनपदा इति पञ्चदशश्लोकात् पश्चात्। सप्तविंशश्लोकात् पश्चाच्च इह सितासि तनदीसंभेद इति। स्वयमयं तुण्डीरमण्डलाभिजनः सर्वलोकाटनपूर्वकमत्रेदानीमागतः। तदेतत्स्थानतो दक्षिणभागं पश्यन् आह मगधेति। गिरिव्रजदेश इति अस्य नामान्तरम्। कलिङ्गा ओड्रियाः। आन्ध्राः श्रीकाकुलदेशाः। कोंकणाः केरलदेशादुत्तरपश्चिमाः। बाह्यमुखेन वैदिक जन तिरस्कारः स्वकृत इत्याह 11. अष्टेति। बोधिवृक्षः, बुद्धो यत्रोपविष्ट आसीत्। नीचोत्तया असंस्कृतरूपया। सुगृहतनामानः सुप्रसिद्धाः। कुदृष्टिमूलं स्वकृतं क्षोभमाह। इह-दक्षिणदेशे। 12.य दुःस्था सामानाधिकरण्यानर्हत्वेन प्रतीतापि व्यवस्थापिता दर्पबलेन। एवं भिथोविरुद्धानन्तमतोत्पादनं क्रिमर्थमित्यत्र,भगवतो विषमसृष्टिरिव लीलारसाय ममेयं मतसृष्टिरुपकरोतीत्याहः तत्तदिति। मल्लयोर्मिथोयुद्धम् संनिहितयोरेकोपरि अन्याक्रमणात्। मेषयोर्युद्धं दूरे स्थित्वा प्रधाव्यगत्य मिथश्शिरः प्रहारेण। वादिभिरपि शिरः प्रहार एव क्रियते। शिरः पक्ष इति पर्यायौ। परिवृत्येति। प्रतीचीं दिशं प्रति। प्रत्यन्तदेशाः यवनादिसंनिकृष्टाः प्रान्तगताः देशाः। वादेति (13) क्वथन् परितप्तः। पद्यमिदं सुरेश्वराचार्यविषयमित्याहुः। स हि पूर्वं नाम्ना मण्डनमिश्रो निरीश्वरमीमांपकः कर्मैकतानः वादद्यूतकरणेन शंकराचार्याहूतः तत्पराजितः एकदण्डो भूत्वा अद्वैतप्रचारमकरोदिति। मया त्याजितः। मया-शंकरार्यं प्रविष्टेन गर्वेण। पारम्परिकं पक्षं परित्यज्य अद्वैतं प्रविष्टः। एतत् पूर्वपुरुषापेक्षया स्वस्योच्छ्रितत्वरूपगर्ववशादिति दर्पाशयः। तस्य अर्हद्बुद्धबृहस्पतिप्रभृतिमतशबलितत्वं कथमिति चेत्, सदसद्विलक्षणत्ववादः सप्तभंगीबन्धुः। जगन्मिथ्यात्वं बुद्धेष्टम्। अचेतनपरिणामस्याहमर्थत्वं चार्वाकेष्टम्। प्रभृतिपदेन सांख्यसांकर्यं ज्ञाप्यते निर्विकारस्थात्मनश्चैतन्यस्यान्तः करणे प्रतिफलनादि तदुक्तं स्वीकृतम्। व्यामोहयतीति। व्यामोहनमेव ह्यस्येष्टम्, मोहभृत्यत्वात्। अत्र श्लोके, पूर्वं वैदिकः पश्चात् वेदवेदान्ततिरस्कारको जातोऽन्यो वाऽभिमतोऽस्तु॥ नास्मद्दृष्टीति। विद्यावंशवृत्ताधीनदर्पस्यैव पात्रत्वात्, मतरहितेषु पशुप्रायेषु तदभावात्। तत्रत्यानां महतां पाण्डित्यप्रकारं वर्णयति एतेप्विति। कूर्चभरः श्मक्षुप्रभृतिभरः। केशकर्तनमपि विवक्षितं स्यात्। 14. अनियतेति। विज्ञानतन्त्र व्यापृतानाम् एकक्षणकनिर्णींतांशस्य क्षणान्तरे उपेक्षणीयत्वापातात् जल्पत्वं तदेकरूपत्वाभावश्च। स्वयं परिश्रम्यार्जनात् अल्पे बोधे परालब्धत्वमात्रेणावलेपः। विज्ञानमार्गे स्वस्य ये गुरवः तदपेक्षया स्वस्याधिकतूरगतत्वाभिमानात् गुरुष्ववमतिः। एतावतो विचारस्य स्वं प्रति किं फलमिति विचारे-आमरणमेवमेव काल यापनात् आत्मसौख्यानार्जनात् आमुष्मिकविचाराभावात् आत्मघात एवेति अत्रिवर्गापवर्गत्वमेव तथाऽत्रत्यानाम्। जडभूभृत्पीठमदैः अज्ञानां राज्ञां कार्यानुकूलभूतैरलम्। कुतो मत व्याहारासमर्थैः सह व्यवहार इति भावः। मैत्रीकरूणामुदितोपेक्षाभिरिति। इमे चरवारो गुणाः योगोपयोगितयोक्ताः। समानगुणेषु पुरुषेषु मैत्री। दुःख्यत्सु करुणा। धनिकादीनां धनवत्त्वादिदर्शने पूर्वजन्मभाग्यं तेषामनुचिन्त्य प्रमोदवत्ता। अन्येषु उपेक्षा, न तु द्वेषादीति॥ एवं विवेकपक्षकार्यं दर्शितम्।
प्रतारिकाभिरिति। संमाननार्थमिवाहूय अपवरके निरुद्धे इति वञ्चकत्वम्। निवृत्तिपथसुरङ्गायामिति। सुरङ्गा बहिर्निगमनं यतः सुखं न भवति, तथाभूतो भूम्यन्तर्गतः स्थानविशेषः। निवृत्तिपथेत्युक्तत्वात् ईर्ष्यासूये स्वकार्यकरणात् निवर्तिते इत्यत्र तात्पर्यम्। अलीकवादीति। सर्वत्र दिशि अनेन महामोहानुकूल्यस्यैव ग्रहणात्, तयोर्निरुद्धत्वमसंभावितम्, स्वपत्नीत्वेन स्वान्यूनमहिमवत्त्वाच्चेति निश्चित्य अलीकेत्युक्तम्। वस्तुतोऽलीकमेव। दर्पपत्न्याः असूयाया अत्रैव संप्रति सद्भावात्। प्रवेक्ष्यति ह्यत्र समनन्तरमेव। वैधवेय विधवायामुत्पादित। तेन हि जन्मप्रभृतिषु सर्वत्रालीकस्य प्रसक्तिः। पूर्वं श्रोत्रियः स्थितः अकृत्यवशात् ब्रह्मराक्षसः। अभिसरणं प्रियपुरुषान्तरगमनम्। अत्याहितं महाभयम्। अलीकवादे कारणमाह प्रागपीति। चारत्वात् व्याधचारत्वाच्चैवम्। कथमयं चारत्वेन प्रेषित इत्यत्र कारणमाह अहो इति। बहुमतसमाहारात् तत्र तत्र यथोचितं नटेदिति तस्य चारत्वकल्पना। अहो इति दूषणमिव संमोदमपि दर्शयति। मोहभृत्यस्य दर्पस्य बाह्यकुदृष्टिसमवायकल्पनमेव हीष्टम्। संप्रत्यस्मिन् क्रोधस्तु अलीकबादात्। स्नपरविवेकमन्तरा सर्वत्र दर्पकार्ये दर्शित एव पुष्कलता स्यात्। अत एव दम्भोऽप्यसूयाऽपि स्वकीर्यैरपि यथा न ज्ञायेन तथाऽभिनयवत्त्वेन दर्श्यते आचार्यैः। 15. श्वश्रूरिति। दिगम्बरव्रतं जैनानुष्ठानं नग्नता। संबन्धिनः कन्यादायिनः कन्याग्राहिणश्च। सौगताः बुद्धमतस्थाः। मातापित्रोर्मिथो मत्तभेदे कार्यक्लेशः स्यात्। अतस्तत्रैवयम्। वैशेषिकः कणादमतस्थः अस्याचार्यः। वैदेशिक इति पाठे म्लेच्छहूणादिमतप्रविष्ट आचार्य इत्यर्थः। जायेति। दम्पत्योरैकमत्यस्यावश्यकत्वेऽप्यत्र भेद आपतितः। सांख्ययोगद्वयकथनात् तत्राप्यव्यवस्था। मिथ्याचार इति। कर्मेन्द्रियाणि संयम्य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते (3-6) इति गीतः। वेषमात्राद्वा मिथ्याचारत्वम्। नाम्नाप्यस्य तथात्वम्। विप्लावक इति। आह हि विद्या “योऽर्थाथीं मां द्विजे दद्यात् वेदञ्चैवाविधानतः। अनध्याये च कतं प्राहुर्वेदविप्लावकं बुधाः” इति। वेदञ्चेति चकारात् वेदातिरिकत्विद्याया विद्यापदेन ग्रहणेऽपि ब्रह्मविद्यादिरूपायास्तस्या अपि वैदिकविद्यात्वात् वेदविप्लावक इत्युक्तम्। अयं तु लोकविप्लावकोऽपि। वैदिक इत्यनेन एतद्विप्रमतं बाह्यकुदृष्टिविलक्षणवास्तववैदिकमतमिति दर्शितम्। दिवाकरेक्षणं शास्त्रविहितम्, तदपेक्षया स्वस्मिन् गौरवमाकलय्याह आत्मानं वेति। विकटमिति। विशालमित्यर्थः। पुरस्तादिति पूर्वं प्राची दिगुक्ता। अथ क्रमेण दक्षिणाप्रतीच्युदीच्यः। अथ स्वयं यत्राद्य आतोऽस्ति, तद्देशस्थितिं वदितुमारभते। सिद्धान्तकर्बुरम् चित्रं मिश्रम्। सिद्धान्तसृष्टिकर्बुरमिति पाठे अपूर्वतत्सृष्टिरप्युक्ता स्यात्। अपरान्तेति। भारतान्तर्गतसीमादेशाः प्रत्यन्तः। भारतानन्तर्गताः संनिकृष्टपश्चिमदेशा अपरान्ताः। दाम्भिकानां चक्रवर्तिन इत्यन्वयः। दाम्भिकश्रेष्ठा इत्यर्थः। चरन्ति संचरन्ति। अचरन्त उपविष्टा अन्ये उपरि वक्ष्यन्ते। इमे नटाश्चरन्ति, धनाशा च नटी सहैव चरति अथापि न याचन्ते, लब्धेऽप्यनादरं दर्शयन्ति। नवमरसः शान्तिरसः। एतद्दृशा प्रेक्ष्यमाणानामपि नवमरस आविर्भवति यथा, तथाऽभिनयन्ति। न तावता विवेकस्य कार्यसिद्धिः शान्तिरसस्याविर्भूतस्यापि अर्थार्जनशेषत्वात्। अर्जितस्यार्थस्योपपोगमाह स्वतन्त्रेति। 17. खतन्त्रवरवर्णिन्यः वेश्यास्त्रियः। केल्याः प्राक् पश्चाच्च पीयते सौत्रामणीरसः सुरा। सौत्रामणीष्टौ सुराग्रहो विहितः तच्छेषपानञ्च। अतस्तद्रसपदेनात्र सुराग्रहणम् अर्चनार्हत्वप्रदर्शनाय। अर्चितो मनोभवो यस्यां क्षपायामिति सप्तमीबहुव्रीहिः। निर्विशन्तः अनुभवन्तः। वेश्यागृहेभ्यो निष्क्रान्ताः अहनि तपोयज्ञाध्ययनाध्यापनादिकर्तृत्ववैषैर्वञ्चयन्ति। वञ्चितञ्च जगत् वित्तं ददाति, यत् व्यर्थ भवदपि तेन तथा न ज्ञायते। अनन्यगतिकानाम् म्लेच्छादिभिः श्रोत्रियाद्युद्देशेन विसृष्टानां क्षेत्राणआं सदाचाराभावेऽनुभवो न भवेदिति विदतां वृत्त्यान्तरविरहिणाम्। वहिराचरणमात्रमुत्युक्तं विशदयति 18. संस्काराः इति। गर्भाधानुपुंसवनादि-जातकरणादि-चौलोपनय-नादयः। जनवादेन जपकाले मध्ये सर्वदा सल्लापेन जर्झरतनुः शिथिलस्वरूपा। सकृदपि पूर्णोच्चारणं यथा न भवेत् तथा जनवाद इति भावः। नटप्रायिकम् नटस्य यत् प्रायिकम्- औस्सर्गिकम्, तत् नटनमिति यावत्। अलेपकेति। अलेपकानाम्- आत्मनि न कर्मलेप इति वदतां सांख्यादीनां मते व्यक्तः स्पष्टः यः क्रमः रीतिः तद्वान् अयं कलिकालारम्भ इत्यर्थः। इतः सर्वदा मोहराज्यमेव सर्वमिति भावः। साम्प्रतं संभोग एवाग्निहोत्रमिति साधर्म्यवर्णनेनाह 19. तरुणेति। `जातपुत्रः कृष्णकेशोऽग्नीनादधीत’ इति अग्न्याधानार्था वयोवस्था दर्शिता। आहिते अग्नौ अग्निहोत्रं भवति। क्षौमे वसानौ अग्नीनादधीयाताम् इति क्षौमादिधारणमप्युक्तम्। यौवनावस्थ-कृष्णकेश-दम्पतिसाध्यत्वमुभयत्र। तत्राग्न्यादिदेवतोद्देशेन त्यागः। अत्राग्निहोत्रे युवत्या युवोद्देशेन यूना युवत्युद्देशेन स्वत्यागः क्रियते। तद्वत मदनाधीनज्ञान कत्वम् सर्ववेशासंबन्धित्वमिति च विशेषः। अजस्रमित्यनेन अहनि स्वगृहे श्रौतमग्निहोत्रं रात्रौ स्वतन्त्रवरवर्णिनीगृद्देऽन्यदग्निहोत्रमिति विवक्षायाम् अग्निहोत्रपक्ष इव इतरेतरदैवतमित्यास्य भिन्नभिन्नदेवताकमित्यर्थः, मदनोपज्ञमित्यस्य च मम दर्पस्य यः अनः प्राणभूतः दम्भः तदुपज्ञं तद्दर्शितं दम्भार्थाग्नोहोत्रमिति श्रौताग्निहोत्रपरतयाऽर्थः। श्लोकद्वयेज नैमितिकं नित्यञ्च कर्मोक्तम्। अथानुज्ञाकर्म वेदपुराणाघ्यापन-पारायणादिकमुच्यते। 20. प्रतिवीथिकमित्यादिना। वींथिरल्पा वीथिका। अल्पवीथ्यामपि ब्रह्म वेदं पठन्ति अपरीक्षितशिष्यं यथातथा। शुद्धवेषा वेषमात्रवन्तः। तत्र वेदपारायणलभं धनं महत् मूलधनमिव। तत् क्लप्तदिनसमुदायरूपकालावसाने लभ्यम्। प्रतिदिनं कतिपयसूक्तयः आचार्यकृततया तदर्थसंग्रहादिरूपतया भाविताः भिन्नभिन्ना अर्थार्जनार्थाः कुहनाभूताः पठ्यन्ते कुसीदवत् दैनन्दिनवृत्तिलाभाय। तदाह कुहनासूक्तिमयीं कुसीदवृत्तिमाश्रयन्त इति। व्याख्यातारस्तु वास्तव वृद्धिधनग्रहममेवैदर्थतया वदन्ति। तस्य वेदपारायणस्य च न संबन्धो लक्ष्यते। विशेषणं च व्यर्थ स्यात्। सूक्तिपदस्वारस्यमपि किमपि वक्तव्यम्। शुकवदित्यनेन यथा शुकाः- कीराः शिक्षिताः। स्वगृहीतं शब्दराशिं सर्वदैवोच्चारयन्ति, न तत्रानध्यायश्रोतृजनाधिकारादिप्रतीक्षा, तद्वदेतेऽपीत्युच्यते। शिष्यान् प्रति इमे पठन्ति, शिष्याः पाठिता न भवन्ति, अर्थमातर्दृष्टित्वात् तदपि न गणयन्तीति भावः। अविद्वन्मठपुरुषप्रस्ताव उपरि। पुराणमठेति। द्रविणविरहेण नवीकर्तुमशक्ताः पुराणे मठे, यत्र किञ्चित् सम्यगिव, तत्रोपविष्टाः। एषां पाण्डित्याभावस्योपरि व्यक्ततया नायं पुराणपठनार्थ मठः। अतो न पुराणपठितिमठेति पाठः पुराणपठनार्थक्लप्तेत्यर्थकः। दर्भपूलेन दर्भपुञ्जेन पूरितम् अङ्गल्याः अनामिकायाः पार्श्वद्वयात्मकं विवरं यस्य तेनेति विग्रहः। यद्वा पूरिताङ्गुलिविवरेणेति तत्पुरुषः। कवलयन्त इत्यत्रान्वयः। करेण, नासापार्श्वद्वयक्लप्ताङ्गुष्ठतदितराङ्गुलि कृत विवरद्वार। कवलयन्त इत्यर्थः। पारायणेऽप्यसमर्थानां केषाञ्चित् स्थितिमाह दर्पः 21. अपट्विति। अनितरशरणत्वात् विदुषामिव स्थलान्तरगत्या जीवितुं शक्त्याभावात् परेरनुपकृतत्वाच्च परस्परादरणपराः, विवाहस्याकृततया द्रव्याद्यभावाच्चगत्या भिक्षां चरन्तः। चिरविधृतेति। चरं वडबाविमुक्तानामश्वानां यद् ब्रह्मचर्यं तच्चन्तनामात्रं तदसंश्लेरूपं संश्लेषावसरे आपतिते दुर्वारत्वरारूपच्च धृतं यैस्ते। महान्त इति पदेन महन्तु इति लौकिकं पदमुपस्थाप्यत इव। कतिपयक्षुद्रविषयमिदं तदा। उक्तानां सर्वेषां वक्तव्यमन्यदप्याह 22. अनल्पेति। पित्तलैः पित्तोद्रेकवद्भिः। मानः अहंकार एव ग्रहः। स न निरुद्धः। अजल्पेति। जल्पाख्यकथारूपयुद्धकरणौपयिककाठिन्यरहितैः। तर्केति पाठन्तरम्। अतथ्यनियमः शास्त्रानुक्तः धनार्जनार्थं स्वयं कल्पितो नायमः व्यवस्थाः। सर्वमिदं दम्भकृत्यम्। अशिक्षितचमत्कृतैः। एभिर्धर्नलोलुपैर्ये चमत्कृता भवन्ति धनिनः, ते अशिक्षिताः अनाश्रितगुरुशास्त्रादिकत्वात्। अथ योगिनां तीर्थानां निन्दा अमी इति। पथिकसार्थयातायातपद्धतीत्युक्तस्याभिप्रायः पादोपान्तप्राणहितधनानित्यनेन ज्ञाप्यते। अभ्यर्णं समीपम्। 23. शान्तिदान्त्यादौ अविद्यमानेऽपि तदभिनयः क्रियते दम्भप्रेरणया। एतदृम्भापेक्षया अदम्भस्य दम्भः श्लाघ्यः। कथमदम्भस्य दम्भ इति चेत्- शान्तिदान्त्यादिगुणोपनपरं संवर्त-भरतादुतुल्यतया आत्मानमभिनीय प्रदर्शयन्तः अदम्भवेषाः दाम्भिकाः। मानापेक्षिणोऽप्यनपेक्षां नाटयन्तः। परमहंसादिनिर्देयम्।
योगिनां कलिर्वर्णितः। तपस्विनां तमाह अयमिति। अनुगतेति । बका हि धूर्ताः वञ्चकाः। तद्रृत्तिरनुगता यैस्तेषाम्। “त्रैविद्यतपस्विनो धूर्म्बका एवेति चेन्न"इतिन्यायकुसुमाञ्जलियावयं हृद्गतम्।
25. शिक्षेति। एकपादेन चिरस्थितिर्हि शिक्षाविशेषं विना न भवति। निमृता निश्चला आकृतिर्यस्य। प्रक्रीदयन् लीलाव्यापारमिव कुर्वन्। 26. अलिकेति। “निधाय दण्डवत् देहं प्रसार्य चरणौ करौ। बध्वा मुकुलवत् पाणी प्रणामो दण्डसंज्ञितः"इत्युक्तप्रणमे ललाटादिषु सर्वत्र मृच्चूर्णलेपो भवेत्।”
अथ संन्यासिनां वैराग्यं वर्णयति अहो इति 27. शिष्यजनेति। मम न किञ्चिदपेक्षितम्। इमे खलु शिष्याः आश्रिताः कधमुपेक्ष्याः। न हि पुत्रदारादिबुद्ध्या एतद्रक्षणे प्रवृत्तिरित्याहुः। शाश्वतेति। विद्यमानो मठः छात्रादिनिलयो जीर्णः। शाश्वतोऽपेक्षितः। तस्य तत्रत्यानाञ्च शाश्वतरक्षणोययोगिधनस्वापनञ्च कार्यमिति। अथ तत्र ग्रन्थाः सर्वे क्रीत्वा संरक्ष्याः इति ब्रुवाणाः। परेभ्यो वचनकाले प्रकटमुच्यमानं तावदिदम्। संगृहीतस्य धनस्य पश्चात् क्रियमाणो व्ययः कीदृश इति त एव विदन्ति। सततमिति। गृहस्थानां कदाचिद्विरतिर्भवेत्, पुत्रैरधिकारग्रहणात्, न त्वेषामिति भावः। यदर्थमेतावान् प्रपञ्चो दर्पेण कृतः, तदाह नूनमिति। अथ पूर्वप्रस्तुतदम्भाश्रमिदानीमेव पश्यन् आह। दम्भदर्पादयो हि यथा स्वकीयैरपि न झटिति प्रत्यभिज्ञायेरन्-तथा नटन्ति। 28. आचारेति। मृतिकया शोधनं हि बहुकृत्वो बहुत्रापेक्षितम्। तदर्थतत्कूटः स्थाप्यते वैदिके। दर्भोत्करः दर्भराशः पूजाशेषितेति। पूजार्थोपयुक्तेत्यर्थः। आश्रितजनोपयुक्तावशिष्टस्य राशिरयम्। विवेकास्पदमिति प्रागुक्तत्वात् तदनुगुणमाह विरुद्धेति। 29. द्वितीयान्तानां निवर्त्येत्यत्रान्वयः। विपरीतज्ञानं विषयानुभतिः मोक्षातिरिक्तफलप्रावण्यं प्रकृतिपारवश्यञ्च नेत्यर्थः। नियमक्रमैः अनुष्ठेयाशानां यथावदनुष्ठानैः। सवितुरित्यस्य अपत्याग्रजतातेष्वन्वयः। सविता हि सहस्रभानुतीव स्फुरति आकाशे, तस्यायं स्वादिति। अपिवेति, पुनरपि पक्षान्तरारम्भे। निमित्तमिति स्पन्दो लास्यमिव स्पन्दलास्यमिति क्रियानैरन्तर्थविवक्षा। विवेकस्य परिपन्थिनः विरोधिनः दर्पदम्भकामादयः। तेषां चूडामणेः। विस्रम्भकवेषः इयं सतीति विश्वासोत्पादकः संन्यासवेषः। उपप्लावयितुं क्षोभयितुम्। धर्मध्वजस्येति। इयं जानाति अयं डम्भस्याश्रम इति। अतः स्वानुकूलमेवायं वक्ष्यतीत्यालोच्य पश्चाद्विवादे अस्य मध्यस्थीकरमम्। चारतन्तरमिति। निद्राणा उत्थाप्येरन्, निद्रामभिनयन्तस्तु नोत्थापयितुं शक्यन्ते। अन्तःप्रबुद्धत्वात्। तद्वत् ऋजवो वञ्चयितुं शक्यन्ते, न दम्भायदोऽभिनेतारः। तत्रापि चेत् प्रभविष्यामि, महाराजो मानयेदिति भावः। निरवद्येन। निरवद्यतयेति यावत्। ईश्वरेऽपि दोषमाविष्कुर्याम् अहमसूयेत्यर्थः। अनेन वाक्येन रामे यद् दोषाविष्करणं लोकैः क्रियते, तत् मूर्खाणां, कस्मादयं परमुत्तम इत्यसहनस्वभावमूलमिति सूचितं भवति। निरङ्कुशाः। जगति गजा अपि अंकुशेन निवर्त्यन्ते, एषां वारको न कश्चिदंकुश इति।
31. निरवधीति। अखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्च भगवन्निष्ठं तदवतारेऽस्मिन् पुष्कलमिति भावः। स्वकीयवाग्रूयस्य असेः स्फुरणेन स्थितोऽप्यालोकोऽपहृतो येषां ते। दूषकस्वाभाव्याधीनपापात्, पापं प्रज्ञां नाशयतीत्युक्तिप्रामाण्यात् नष्टज्ञानाः भगवत्यपि दोषकथने प्रवृत्ताः। यस्यासिर्हस्तेऽस्ति, स संनिकृष्टं सर्वमपि च्छिन्द्यात्। तदुक्तं सीतया अरण्ये। सदन्तिके। ये जारचेरशिखामणित्वेन कथ्यमाने कृष्णेऽपि न पश्यन्ति, तेषां सत्तमानां समीपे। वरतन्वाः स्त्रियास्ताटकाया वधम्। ताटकाऽप्यदौ सुन्दपत्नी सुकेतुकन्यारत्नं सुन्दर्येवासीदिति वरतनुत्वम्। वालिद्रोहम् सर्वभूतहिते रतो रामो न मां हन्यादिति विश्वासिनो हि अविज्ञानतस्थित्वा द्रोहः कृत इति भावः। अकृत्यत्रये अस्य सारतमत्वाशयेन मद्ये निक्षेपः। अपसर्पणं खरवधे पश्चात्पदन्यासम्। मुधेति। अदूष्यदूषणो सज्जनो गर्हयेदिति मनाग् भेतव्यम्। दूष्यदूषणे तादृशगहर्णप्राप्त्यभावे सतीत्यर्थः।
असूया दम्भशिष्यप्रायान् अविदूरे स्थितान् पश्यन्ती आह कएते इति। गंगातीर्थसमीपदेशगतकदम्बवनभूमौ योगासने स्थिताः। प्रयङ्कबन्धः योगपट्टेन कायवेष्टनम्। ते सुन्दरनिश्चलोन्नतशरीराः। कपटमुनित्वं भावयन्ती प्राह 32. स्तनेति। ब्रह्म स्त्रीरूपम् अन्तश्चिन्तयन्तः। ब्रह्मचिन्तकानां संभावितानि विशेषणानि सन्त्येषामपि। ते पुष्पबाणस्य अगमे अप्राप्तौ वर्तमानाः। उपासने धर्माधर्मक्षयात् मुक्ताश्च भवन्ति। इमे तु मन्मथवश्याः मन्मथविजितस्वेन्द्रियाः विपरीतं श्रुताः धर्मत्यागिनः अन्यत्र भावं त्यक्त्वा स्तनभनतमेव भजन्ते। मुक्तभावं यथा तथेत्यर्थः। यद्वा स्वस्मिन् मुक्तो भावः येन स्त्रैणेन, तदपि कामवशात् ध्यायन्तीत्यर्थः। मुमुक्षुपक्षे मुक्तभावं जीवन्मुक्ता इति भावमिति। 33. श्रद्धायाजी स्वस्मिन् विस्रम्भोत्पादनाय यजनशीलः। षड्रसब्रह्म अन्नम्। वादी। वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोरित्यकारलोपः। अवादी अन्तर्भक्षकः अद धातोः आदीति रूपम्। प्रसिद्धार्थस्त्वस्त्येव। काकिणीपदं सुवर्णसूक्ष्मांशवाचि। अत्यल्पस्वर्णमिश्रं निष्कं भूषणविशेषमुद्दिश्य दासः। मार्जाराणामिति। वैडालव्रतिको ज्ञेयो हिंस्रः सर्वातिसन्धकः। समागतानां यः सम्भः पक्षपातं समाश्रयेत्। तमाहुः कौक्कुटं देवाः तस्याप्यन्नं विवर्जयेत्अ॥ अर्वग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः. इति। स्वोपकारमात्रसंरम्भाय स्वार्थैकपरित्वाय। परैः स्वस्मै क्रियमाणोपकारप्राप्तिपरत्वायेति वा। तादृशं तत्रत्यं भिक्षुमुदाहरति॥ 34. नवेति। निरवधीति श्लोकवत् अयमपि सुभाषितनीव्याम्। अनुत्कटपल्लवान् अनुद्भावितकिसलयान्। किसलयाविर्भावप्राक्कालप्रभृतीति यावत्। स्थपुटं निम्नोन्नतमपि विकृतमपि चटसं चषकं पानपात्रपेक्षमाणः। पल्लवेन चिकीर्षुरिति यावत्। स्थपुटपुटसाषेक्ष इति पाठेऽपि पुटपदेन चषकग्रहणमेव।
इदं श्रुत्वा तत्र बहवो किमप्यूचुरिव। तदाह किं ब्रूथेति।
अत्रान्तरे तया पूर्वं बहुजल्पतवान् दर्पो दृष्टः। तं वर्णयति अयमपर इति। अयं दर्प इति स्वर्भेतत्यज्ञात्वा दूषणम्। दर्पकार्यमाह अनवरतेति। विविदिषामि कोऽसाविति जिज्ञासे। किमयं धर्मध्वजं दम्भ इति ज्ञात्वैव द्रष्टुमायाति, यद्वाऽन्यथेति। धर्मध्वजशब्दो न निन्दापर, “मौथिलो जनकोनाम धर्मध्वजल इति श्रुतः” (शा-325) इति प्रशंसापरतयैव प्रयोगात्। भारतकथेति। तत्र शान्तिपर्वणि 325 अध्यायः सुलभाजनकसंवादनाभा। प्रत्यायितयोगसिद्धिरित। सा सुलभा स्वयोगसिद्धिविषये जनकस्य प्रत्ययमजीजनत्। तत्रेदं रसारभूतम्- सुलभा नाम काचिद् योगिनी भिक्षाव्याजेन जनकं द्रष्टुमाजगाम। जनकस्तां योगिनीं यौवनसौकुमार्यादिसंपन्नां वीक्ष्य कुत इयं कस्येति जिज्ञासायां स्थितायामपि तस्यै पादशौचादिपुरस्सरं भिक्षां प्रदाय भुक्तवत्यां तस्याम्, आसने उपवेश्य योगबन्धेन बबन्ध। राजा च-स्वस्य पराशरसगोत्रः पञ्चशिस्वाचार्यो गुरुः। स ज्ञानंयोगं राज्यनिर्वाहञ्च तदविरोधिनमुपादिक्षम्। असति वैराग्ये दण्डकमण्डलुप्रभृत्यपि बाधकमेव। सति तु महदपि राज्यं न बन्धायेत्यादि वदन् स्त्रियास्तस्याः वर्णादि पृच्छन् अन्यरूपायाः स्वशरीरे प्रवेशे अनौचित्यमाविश्चकार। सुलभा पुनः वाक्यव्यवहाररीतिं शिक्षयन्ती, यदि त्वं मुक्तोऽसि, किं ते मत्कृतेन शरीरप्रवेशेन। नाहं विप्रवैश्यादिवर्णा, क्षत्रियैव। अनुरूपपत्यलाभेन योगिनी बहुमहन्मुखात् तव महिमानमाकर्ण्य द्रुष्टुमागतास्मि। शून्यागारे योगिनां वासो भवति। सोऽप्यत्यल्पकालः। मुक्तस्य ते शून्यरूपे शरीरे निशामेकामुषित्वा गमिप्यामि। न मे शरीरेण तव शरीरस्य स्पर्शः क्रियते। का ते हानिरित्यवादीत्। राजा जोषमासीदिति। महाभागवतस्पर्शकामा, स्त्रियाः परुषान्तरस्पर्शानौचित्यमनुचिन्त्य योगमहिम्ना जनकशरीरसंश्लेषेणाऽऽत्मानं तञ्ज पावयामास। तद्वदियमपि जातु मत्संश्लेषं वाञ्छेदिति वर्तते जिज्ञासा दर्पस्य, वस्तुतस्तत्पतित्वाधीनवासनाप्रेरणवशादिति ध्येयम्। सुलभेव सुलभानाम्नी योगिनीव। मया सुखेन लब्धुं शक्येवेत्यर्थात् प्रतीतिः। अत ए ग्रामकुलादिविचारः। वयःकर्मेति। दर्पेण स्वस्मिन् इतरस्य सर्वस्यारोपेऽपि आश्रामान्तरारोप्रासंभवादेवमुक्तिः। मिथस्सल्लापवशात् स्वत्नीति संभाव्याऽऽह 35. भवतीमिति।
क्रियासमभिहारेण पौनःपुन्येन। पाण्डरपटस्थ असंन्यासिनः।
सोपालभ्यं सनिन्दनम्। अकृतमज्जनत्वमावयोर्नः, नापि च्छायापातप्रसक्तिरित्याह अपिचेति। विद्वानयं महानि तिबुद्ध्या आगमनं कृतमित्याह अन्योन्येति। अविद्वत्त्वं संप्रति प्रतिपन्नमित्याह नूनमिति। वाक्यमिदं दम्भावस्थायामपि न सहते दम्भः। तदाह सभ्रूक्षेपमिति। मुखं पिधाय। स्वबदनविप्रषो महन्समीपेमा पतन्तु, दुर्गन्धो न यातु इति व्यात्तस्ववदनसमीपे हस्तं प्रसार्यं हि नीचो महान्तं विज्ञापयेत्। योग्यं प्रतिवचनमिति। तिरस्काररूपमिति विवक्षितम्। न केवलं बाह्यकरणेन, मनसाप्ययं दम्भाचार इति दर्शयति स्वगतम् अकामोपनतमिदमसंभाष्यसंभाषणमिति। कथमन्मथा सामाजिकैरेतत् ज्ञातं स्यादिति तदुक्तिः। अविदितपूर्वेति। विदितपूर्वत्वे भस्म कुर्याम्। अविदितत्वात्विमृशामीति भावः। न विद्यते विदितवूर्वं मद्विषये यस्य ते, तादृशेति वाऽर्थः। अनेन दर्प इति न ज्ञायत इत्यप्युक्तमिव। 36. मे इति प्रतिवाक्यमन्वेति। स्कन्दभूपालेति। न स्यादिति विमर्शे स्कन्दवत् सुब्रह्मण्यवत् वीरः कश्चिद्भूपाल इत्यपि स्यात्। राज्ञां स्कन्दे गौरवबुद्धिः। अत एव स्कन्दषष्ठीव्रतम्। अनन्यभक्तित्वाभावव्यञ्जकः अवशादागतः शब्दसंदर्भः इत्यपि स्यात्। तदात्वे गण्डगोपाल इति कश्चित् तत्क्षेत्रखण्डपालकः काञ्चीशठमर्षणवंश्याचार्यशिष्यः वैष्णवाभिनयं कृतवान् क्रमेण स्वभावतः शैवत्वात् तत्रतत्र शिवालयान् स्थापयामास। स्कन्नत्वात् अयं स्कन्दः। साक्षान्नामानुक्त्वा भंग्याऽत्र तद्ज्ञापनमित्यप्याहुः। ममाग्रहारः क्षुद्रकाञ्ची। काञ्च्यां भागद्वयं महाकाञ्ची क्षुद्रकाञ्ची चेति। तत्रोत्तरस्य एतभिजनस्थानत्वम्। शिष्यभूम्ना शिष्याणआं बहुत्वेन। उक्तं प्राक् बाह्याः कुदृष्टयश्च स्वशिष्या एवेति। वादेषु स्थाताऽहं त्वया कथं न श्रुतः। नदृष्टो नापि श्रुत इति हि कक्तव्यम्, कथं व्युत्कम इति चेन्न- बहुनां मुखात् त्वया मां प्रति श्रुतवता भाव्यम्। तत् कामं मा भूत्। इदानीमहं त्वया दृष्टः किल। तत्र प्रथमक्षण एव दण्डकुण्डलकमण्डल्वाद्यस्मदाकारदर्शने सत्यपि त्वया कथमहमेवम्भूत इति सविनयं न दृष्ट इत्यर्थतात्पर्यात्।
37. रथ्यावादः अविवेकानां वृथादोषारोपपूर्वकवादः, तेन शंक्यमाना, व्यभिचारवत्त्वेन संदिह्यमाना या वृद्धात। वृद्धासु व्यभिचारशंका न युक्ता, अथापीति यावत्। तया यह संभाषणमपि न, किंतु तस्याः येनकेनापि प्रकारेण संबन्धी कश्चित् [स्त्री] जनः, तेन सह संभाषणं कृतवतीति मातरमत्यजम्। कुतः? सत्रासम्। रामवत् अपवादशंकया। तस्याः पतिव्रतात्वेपि गुणनिधित्वेऽपि माता सर्वथा रक्ष्येति वचनमप्युल्लड्ध्येति। विदितात् प्रसिद्धात्। कूटस्थः गोत्रर्षिः। त्रिवर्षपूर्वान् न नमस्करोमीति दर्पेण जागरूकेणोक्तेऽपि तदेव दोषत्वेन प्रपञ्चयति दम्भः।
कपूयामिति कुत्सितामित्यर्थः। `कपूयचरणाः कपूयां योनिमापद्यन्ते’ इत्यादिश्रुतिरनुसृता। 38. पतय इति सर्वषष्ठथन्तान्वयि। ब्रह्मादयः रुद्राः बृहस्पतयश्च दृष्टा इत्यर्थः। अधिकजनः अन्युत्कृष्टव्यक्तिः। अभ्यागतम् आगमनकाले गौरवपुरस्कारेणाऽऽगतम्। सर्वलोकसंचारीति प्रशंसायाः समाधिः सारमेय इवेति। श्वेवेर्त्थः।
श्वभिः सादृश्यमेवाह जातीति। 39. (सु-नी) उत्कृष्टजातिकत्वमात्रेण गर्विणः, सद्गोष्ठ्यामप्रवेशिताः, अतिनीचाचारजीविकारूपवृत्तयः, कोपाविष्टाः, युक्तायुक्तस्थलविचारमन्तरेणाटन्तः, स्वयं लज्जारहिताः, एतदीयं दुष्कर्म अस्मत्कुलस्यैव दोषमावहतीति मन्यमानान् साधून् लज्जायुक्तान् कुर्वन्ति। सारमेयपक्षे तु-जातिः-भस्मराशिमत् स्थानम्, तदेकावासाः, गृहेष्वप्रवेशितत्वात् बहिष्कृताः, शुन्या सह जधनभागेन व्यवायाय संश्लिष्टाः, अन्यश्वदर्शने क्रुद्धाः, सर्वत्राटन्तः दृष्टॄणां लज्जामावहन्ति ह्नीहीनाः इत्यर्थः। मर्कटः वानरः। विश्ववृत्तान्तज्ञानमाविष्करोति दम्भः मयीति 40.। उपकण्ठे समीपे लोकप्रवेशात् प्रागेवतैः सहोत्थितः प्रत्युद्गतः पद्मसंभवः।थ सप्तशः। सकृत्क्षालनम् एतन्महानुभावविषये नालमिति सप्तभिर्व्याहृतिभिः सप्तकृत्वः क्षालनम्। 41. कमलसंभवः चतुर्मुखः। पादजलाप्लुताः एतदीयश्रीपादतीर्थभूतं तीर्थमागत्य स्नाताः श्रीपादतीर्थग्रहणेन शोधितान्तरङ्गाश्च।
एतावत् दर्पातिरेकान् परिचितमप्यबुध्वा बहु जल्पितवान्, अधिकतिरस्कारश्रवणशोधितचित्तः संभावयति दर्पः। 42. `पशुवधपरिशेषान् पण्डितो नामयज्ञान्’ (47) इति पादुकासहस्रे। 43. गुणैर्ये उत्तरे-श्रेष्ठाः तेषां दूषकः ध्वनिसारः अर्थहीनवाक्कः। गौडलाटधार्मिकौ। अन्यदेशीयोऽपि स्यात्, तुण्डीरं मण्डलं मे इत्युक्तेः, अथापि गौडो धार्मिकः लाटदेशीयो धार्मिकश्चेव डम्भदर्पभूयिष्ठौ। गृह्यतिथिकलहोऽपि तत्राधिक इव। अभिव्यञ्जिताः स्पष्टं ज्ञापिताः। दैव्या देवाधीनया यदृच्छया अप्रतीक्षितगत्या। देव्येति पाठः साधीयान्। यदृच्छथअयादेव्येत्यर्थः। सिंहवनगुप्तिन्यायेन। यथा सिंहो वनं रक्षति, वनेन च सिंहो रक्ष्यते-तथेत्यर्थः। कातर्यं भयम्। भग्नव्यूहाः चतुर्थाकावसाने कामादिव्यूहभंग उक्तः। प्रायम्– कार्यसिद्धिसंभावनाविरहे अनशनेन मरणमेव कार्यमिति संकल्पम्, यथा विन्ध्ये हनुमदादयः संपातिसमागमात् प्राक्। उपश्रुतम्- एकान्ते केनचिदुक्तं पराज्ञातम्। 44. सुरेति। पादुकासहस्रे 696 मत्वामषीमिति पद्यं स्मर्तव्यम्। दीपीधातोरात्मनेपदित्वात् दीव्यदित्वेव पाठः। मकुटेन पत्रिकाधारणे मकुटांशुभिर्व्याप्ता भवति सा। अंशूनां मषीरसतुल्यत्वात् मषीलिप्तेव लक्ष्यते। प्रतिफलितत्वं प्रतिहतत्वमात्रं चेत्– अंशुविशेषणम्। पत्रिकायाः मकुटे प्रतिबिम्बितत्वं तदिति चेत्– प्रतिफलिता च सा अनुलिप्ता चेति विशेषणोभयपदकर्मधारयः। एवमपि सुवचम्-प्रणीनां मणिमकुटस्य वा दीव्यत्त्ववत् प्रतिफलितलिपिप्रकारत्वमपि विशेषणम्। मषीवदनुलेयकांशुविशिष्टेषु मणिषु पत्रिकालिप्याकाराः क्रमेण प्रतिबिम्बिताः सन्तीति। मकुटो मणिषु पत्रिकादत्तान् लिपिप्रकारान् प्रतिगृह्य तस्याः स्वगतरसेनानुलेपनं करोति। लिपिप्रकारेत्यन्तेन मकुटेलिपिदर्शनमुक्तन्। मषीरसानुलिप्तामिति च मषीसंबन्धात् प्रतिफलितलिपीनामतिस्फूटत्वमुक्तम् 45. क्षोणीभृतः भूमौ राजनः। पद्मेति। स्वपत्न्यादृतस्थानेषु ब्रह्मादीनां स्थितिर्मोहकार्या। समुद्रस्य पर्वतस्य च लक्ष्मीपार्वत्युत्पत्तिस्थानत्ववत् पद्मस्यापि सरस्वतीपीठत्वमस्तीति तेषां तदीयत्वम्। परा पश्यन्ती मध्यमा वैखरीतिभेदेनाऽऽविर्भवन्त्याः सरस्वत्याः विशिष्यनाभिपद्मं स्थानमित्युचितम्। कर्तुमित्यादीनां तुमुनां क्रमशब्दार्थे क्रमणक्रियायामान्वयः। किंकस्यवा कथ्यते। सर्वस्य मत्प्रभावस्य सर्वविदितत्वात्। समयभेदाः बाह्यकुदृष्टिमतानि। औपनिषदानां निन्दार्थम् अपशदेतिय विशेषणम्। चिकीर्षितेति। कर्तुमिष्टस्य समाधिभंगस्य वैकल्यं विवेकसंनिधानात् तदैवासंपत्तिः, तज्ज्ञानेन जातितम यत् वैलक्ष्यं लज्जा स्वेषाम्, तस्य परैर्दर्शनादित्यर्थः। भेदमभेदंचविपर्यस्य भिन्नमभिन्नत्वेन, अभिन्नं भिन्नत्वेन चोक्त्वा। पूर्वपक्षेत्यादि। पूर्वोत्तरमीमांसापूर्वपक्षाणां। सिद्धान्ती करणे अनुष्ठानवैपरीत्यात् फलासिद्धिरस्य महत् फलम्। आत्माऽस्ति, मोक्षोऽस्ति, ईश्वरोऽस्तीत्यादिकं सर्वथा निषेदधुं चार्वाकपक्षमाह अथवेति। अहंकारादीति आदिना ममकारग्रहणम्। अहंकारो देहात्मभ्रमः। तत्रापि मतस्थापकपुरुषत्वभावना। अचरमं प्रथमं प्रमाणं प्रत्यक्षम्। तत्प्रधानकम्। तद्गोचरमात्रपरतया आह अहहेति॥ 46. “अथ लोकायतम् । पृथिव्यापस्तेजो वायुरिति भूतानि। तेभ्यश्चैन्यं किण्वादिभ्यो मदशक्तिवत्"इति बृहस्पतिसूत्रम्। उतेति वाकारार्थे। देहे ध्वस्ते पश्चात् पारलौकिकं सुखमिति वा किमित्यर्थः। लोक तस्यैव व्याप्तत्वात्। बलवदभिमतेति। देहबलवद्भिरसुरैरभिमतेति वास्तवार्थः। मतान्तरापेक्षया बलवत्त्वेनाभिमतेति प्रशंसार्थोक्तिः। असुराणामिति। छन्दोग्ये प्रजापतिवाक्ये इदम्। तत्र विरोचनो देह एवात्मेति गुरूपदेशस्यार्थं गृह्णन् जगाम। उपनिषदिति पदप्रयोगात् मतमिदं गौरवितमिति भावः। औपनिषदानां हृदयं तावत् प्रतिधोषं करोति। न तन्मतं संमन्यते। एवं तस्मिन् क्रोशति सत्यपि तैः स्वमनोविरुद्धमेव क्रियते। नैवमस्माभिरित्याह स्वेति 47. यथाहृदयम्-परमतभंगोक्तरीत्या सर्वजनाहृदयमनतिक्रम्यः।
48. परमिति। प्रत्यक्षतिरिक्तं प्रमाणमनुमानमागमश्च। तत्र केवलानुमाननिष्ठं बौद्धादिकमास्ताम्, विवेकस्यागमैकपक्षपातित्वात् तदेव शोध्यम्। नूनमागमाः, ये आत्मानमपण्डितं पण्डितं मन्यन्ते, तान् परं स्वपक्षे अनुकूलयन्ति, न तु पण्डितानिति वक्तव्यम्। कुत इति चेत्-बृहस्पतिर्हि वाचां पतिः। स विबुधानां विदुषां (देवानामिति वास्तवार्थः) गुरुः। तेषां विबुधत्वं निर्विवादं सर्वेष्टम्। तेषामपि गुरुणा प्र्वर्तितं मतमेव वाचामप्यर्थो भवेदिति विमर्शनास्मिन् मते उत्तभ्यमाने उत्तभ्यमाने उत्कृष्टतया गृह्यमाणे मौनमुद्रां भजन्ते एतद्विरुद्धार्थप्रतिपादनाशक्त्या न किञ्चिद्बोधयन्ति मुषितनिखिलसारत्वात् बाधितार्थकत्वादिति॥ प्रतिसूर्याः सूर्यपतिबिम्बा इति केचित्। आलेख्यदिनकरा इत्यच्युतशतकेऽपि। कृकलासा इत्यन्ये, ते सूर्याभिमुखं गात्रमुन्नमय्य योद्धमिव तिष्ठन्तीति मत्वेव। 49. शरीरेति। ननु शरीरप्रलयस्य मुक्तित्वे आत्मनाश एव स्यादिति कथमीदृशमुक्तेरिष्टत्वम्, ईदृशमुक्तिभाक् च क इति चेत्– अयमाशयः– अनिष्टनिवृत्तिमात्रं मुक्तिरिति केचित्। पूर्णेष्टप्राप्तिर्मुक्तिरित्यन्ये। तद्रीत्या लोकायतमते प्रथमपक्षे दुःखनिवृत्तिर्मुक्तरिति वक्तव्यम्। ईषद्दुःखनिवृत्तिः सर्वदैवास्ति। अतः सर्वदा मुक्तत्वं स्यादिति तद्वारणाय अत्यन्तदुःखनिवृत्तिः सेति वक्तव्यम्। सा च शरीरप्रलयं विना न भवतीति स एव मुक्तिः। तर्हि मुक्तः क इति चेत्– प्रलीनं शरीरमेव मुक्तम्॥ तत् तदा नास्तीति चेत्-मा भूत्। तस्यावश्यकत्वं कुतः। न हि दुःखनिवृत्तिमात्रं मुक्तिरिति पक्षे तदनुभवादिरूपभोगः कश्चिदस्ति, यदर्थं स आश्रयोऽपेक्षितः स्यात्। नाशस्य मुक्तिशब्दवाच्यता कथमिति चेत्- यथा दुःखनाशो मुक्तिः तस्यात्मनि दुःखसंबन्धाभावरूपत्वात्, तथा देहावस्थाविनाशः देहावस्थासंबन्धाभावो मुक्तिः पृथिव्यादि भूतानामिति मन्यताम्। ये तु मुक्तिः सुखानुभव (पद्य 59) इति मन्यन्ते, तत्पक्षे भोगस्तु रतिरुत्तमेत्युक्तस्य मुक्तिरूपत्वम्। तदा अनिष्टनिवृत्तिः तत्प्रतिबन्धकनिवृत्तिः, भोगौपयिकावस्थाविरोधि बालत्वशिथिलत्वाद्यवस्थानिवृत्तिरपि वा। इदं शरीरप्रलय इत्यत्र शरीरपदस्वारस्यसूचितम्। उत्तमेति। सहस्रभोगादिरूपा। निकृष्टरतिः स्वर्गादिः। उत्तमा तु मुक्तिः। तत्प्रदायिन्यः रतिप्रदायिन्यः। ननु स्त्रीणामपि मोक्षादिपुरुषार्थो वक्तव्य इति चेत्- न चार्वाकाः स्त्रीरुपेक्षन्ते। देवतात्वेन गौरवातिशयदर्शनात्। तथापि तदावश्यकत्वे भोगप्रदानमेव मोक्षः। भोक्तृपुरुषसंश्लेषाधीनसुथमेव वाऽस्तु। प्रत्यक्षत एवेति। मतान्तरे मुक्तिनाम्ना किमपि परोक्षमेव वदन्तः प्रश्नसमाधानस्य प्रत्यक्षं भावयितुं न प्रभवन्ति। अहं तु प्रत्यक्षमात्रप्रमाणवादी मुक्तिमपि प्रत्यक्षत एव दर्शयामि। वैरिविवेकविजय इति। यथा भगवान् मुक्तिदायी अन्यान्यपि फलानि प्रयच्छति भक्तमनोरथमनुरुध्य, तथेमा देवता संलापादिमुखेन कार्यं कुर्युः, समाधिनिष्ठे संलापादिप्रसक्त्यभावात् तत्प्रसादात् कार्यं कथमिति हि ते प्रश्नः। तासां साक्षात् प्रसादो मा भूत्। तासां चित्रमेव चित्तगतं तद्विषयपित्तहेतुरित्याह 50. अपीति। किञ्च मोक्षेऽपि स्त्रीभोगार्थमेवात्मनित्यत्वं तदिष्टमित्याह पठन्तिचेति। तथाच तदुद्देशेन भजनकाले भौमभोगत्यागः महमीनग्रहणाय क्षुद्रमीनत्याग एवेति भावः। वृश्चिकेति। उदयनाचार्यस्य वाक्यम्, “वृश्चिकभिया पलायभानस्याशीविषमुखे निपातः” इति। आशीविषः। आशी सर्पमुखगतं विषस्थानम्। तासामाशीविषत्वाभावे आसां वृश्चिकत्वभावोऽपि भाव्य इति कुत एषां भीतिरिति। विधिना स्वाघटितघटनासामर्थ्योदाहरणतया वलप्ताः युवतयः। न हि तमिस्त्रादीनां विरुद्धानां विचित्राणां धटनेन वस्तुनिष्पादनं सुकरं भवति। अत एवाऽऽसां पुष्पधन्वसेनापताकायमानत्वमित्याह 51. तमिस्रेति। युवतीनामङ्गानि निगीर्य तमिस्रादिरूपकारणान्युच्यन्ते। तमिस्रा तमः तत्केशपाशः। चन्द्रो मुखम्। पुष्पगुच्छः स्तनः। आकाशो मध्यम्। आवर्तः (अम्भोभ्रम)विवरं नाभिः। कदली ऊरुः। मणिदर्पणः जानुस्थलम्। निषङ्गो जङ्घा। कपलं पादतलम्। क्रमेण केशादिपादान्तभावनम्। प्रथमपादे उपरितनभागः, द्वितीये अधोभागः। स्मरन्त इत्यस्य युवतीनामेव कर्मत्वम्। मातुः स्मरतीतिवत्। अभिमुखमित्यस्य अभिमुखं यथा तथेत्यर्थ इत्याहुः, तस्योत्तरक्रियाविशेषणत्वे अभिमुखस्मरेत्येककपदत्वमुचितम्। वस्तुतः अभिजनमिति पाठ्यम्। युवतीनामभिजनं स्मरन्त इत्यन्वयः। युवत्यभिजनोपपादनमेव हि पूर्वार्धेन कृतम्। शाबरभाष्ये 1-2-10. `अभिजनो ह्येष वेतसावकयोः’इति प्रयोगः। `तदभिजाते ते… तद्विकारभूते’ इति सेश्वरमीमांसा। प्रशस्तोत्पत्तिरप्यभिजन इति। स्कन्धावारेति। सैन्येत्यर्थः। पताकाः विजयसूचिकाः। प्रतिभुवाम् समानानाम्।
वैमानिकाः देवाः वैकुण्ठलोकवर्तिदेवाः। नित्यसूरयः। वैनतेयस्य रुद्रा च सुकीर्त्श्चि विलासिन्यौ। कापेयवृतिभिः स्वानर्थादर्शिकपिकार्यकृद्धिः। दिधक्षा दग्धुमच्छा। प्रतिमटभवनं मोहदर्पदम्भदुर्मत्यादिरूपम्, स्वभवनं शमदमविरक्तयनन्यभक्त्यादि। तदिदं निजसदननिहितहुतवहज्वालायत इति उदयनाचजार्यवाक्यस्मारकम्। 52. बहुमुखभुजङ्गसंगी। सहस्रमुखशेरकषशायी। भुजङ्गः विटः इति अनेकस्त्रीलोलविटप्रिय इत्यर्थान्तरम्। राजधानीष्विति। विभवार्चादिरूपेण यथेच्छरूपग्रहणेनेति शेषः। चार्वाकपक्षः सहस्रयुवतिसंभोगो मोक्ष इति। शतेति। नाहं शतं दास्यामीत्युक्तवतः पश्चात् विंशतिपञ्चकं दीयतामिति वादे भवतु तद्दास्यामीत्यंगीकारो यादृशं महाप्राज्ञत्वं साधयति, तादृशमेव वेदान्तिनोऽपीति भावः। विंशतीनां पञ्चकं हि शतमेव, तद्वत् दिव्यस्त्रीसहितविहारोऽपि संभोग एवेति महामोहमोहः। 53. प्रबन्धान् निर्मातॄणाम् प्रबन्धनिमांणकृतामित्यर्थः। तृजन्तत्वाभावात् तृन्नत्तत्वात् न षष्ठी। ब्रह्मादिविशेषणम्। निष्प्रमादप्रयुक्तः सावधानमनुष्ठितः ब्रह्मादीनां ब्रह्मचर्यप्रयासः भोगस्यैव हेतुः। यथा ऐहिकं भोगं विधूय तपोनुष्ठानं स्वर्गे अप्सरोभोगाष, तथेति भावः। एतद्दूषणपरिहारपरं वेदान्तवाक्यमाकाशे कविर्घटयति। तदनुवदितुम् आकाश इत्यादि। 54. समस्तजगत्पित्रोः लक्ष्मीनारायणयोर्यत् दाम्पत्यं तत् नु कर्मकृतम्, किंतु तदिच्छावशात् अनादि। मातृत्वज्ञापनेन जगद्रक्षणार्थं लक्ष्म्या स्त्रीरूपस्वीकारः। पितृवत् हितविधानाय च तेन पुंरूपग्रहणम्। कामिनी स्त्री। मुक्तौ नित्यानां मुक्तानाञ्च स्त्रीपुरुषादिविभागोऽपि तत्तत्कियमाणकैङ्कर्यानुगुणत्वाय। स्त्रीभिस्सह पुंसा तत्र मेलनमपि कैंकर्यार्थमेव। भगवदनुभवरस एव रतिः। न तु तत्र कस्यापि क्षुद्रसंभोगादिः तद्रागो वा, तदर्हाभासशरीरस्य कर्मैकमूलकत्वात् तत्र तदभावात्। अज् तु-मोक्षात् प्राक् संसारस्थितिकाले तु भवत्सारस्यसंवर्धकं क्षुद्रभोगसक्तभवत्प्रीतिवर्धकं चार्वाकमतं विदुषां वैरस्यावहमेवेति। दैष्टिकदिवाभीतः दिष्टं दैवं परलोकादिकमस्तीति मतिमानेवोलूक इति निन्दा। वैराग्य— प्रधानेष्विति पाठः, न तु स्थिरप्रधानेष्विति। अन्धपरम्परान्यायः। न हि कश्चित् परलोकं दृष्वा समागत्य नयति। अतो वस्त्वभावात् तददर्शिनोऽपि सत्त्वभ्रत्या प्रवर्तन्ते, प्रवर्तन्ते, प्रर्वयन्ति चेति। 55. अनपायम् प्रत्यक्षसिद्धविषयकत्वात् दुरपलपम्। कलहायितं कलहाचरणम्, तत्र कुतूहलिनः। कणभोजनः कणादः। बुद्धजैनादीनां वेदविरुद्धत्वाकारेण मोहमान्यत्वेऽपि परिग्र ह्यत्वं न भवति प्रत्यक्षविरुद्धत्वादिति भावः। ननु दिष्टस्यासंमतौ चराचरेषु दृश्यमानस्य वैलक्षण्यस्य निमित्तं किं स्यादिति न शंक्यम्, स्वभावत एव सर्वनिर्वाहादित्याह चरमिति। मयूरपिञ्छानां विचित्रसंनिवेशे कण्टकानां तैक्षण्ये जलशैत्ये अग्न्यौष्व्ये एवं सर्वत्र कविभिः अतिक्रान्तदर्शित्वेन प्रसिद्धैरपि स्वभावातिरिक्तं किमपि न वक्तुं शक्यते। ननु कारणात् कार्यं भवतीत्यस्य सर्वत्र दर्शनात् तत्रापि कारणमन्वेष्टव्यमिति चेत्— अन्वेषणायासमात्रम्, निरूपणायोगात्। अतः कार्यकारणभावः काकागमन तालषतनस्थल इव केवलमारोपितः। पक्वत्य फलस्य स्वयंपतनसमये हि यदृच्छया काकस्तालवृक्षे समागत्योपविशत्। न तस्य फलपतनसंबन्धः स्वल्पोऽपि। तथा च सर्वं यादृच्छिकम्। ननु काकतालीयेत्यस्य काकागमनतालपतनसदृशेत्यर्थः। समासाच्च तद्विषयादिति सूत्रात्। तदत्र काकतालन्यायेनेति प्रयोक्तव्यम्। न। लोके काकतालीयं बहु स्वीकृतमस्ति हि। तन्न्यायेन सर्वत्र तद्वादस्यान्यथात्वमित्यर्थात्। एवमपीति। एवं तत्त्वे स्थितेपि मौट्यात् जोधुष्यत इत्यन्वयार्थः। तथाहीति पाठे काकतालीयत्वोपपादनं नानाकलहसद्भावप्रदर्शनेन।
अतदिति 57. अतदपि तद्भिन्नमपि कश्चित् तदेवेत्याह यथा जीवमीश्वर इति, ब्रह्मैव जीव इति। अन्यः कश्चित् तदपि न तदित्याह- देहं चेतनमप्यचेतनमाह। एवं घटः सन् इत्यत्र प्रत्यक्ष्यमाणं घटम् अप्रत्यक्षमनुमानगम्यं कश्चिदाह बौद्धः। असन्निति च। तत्र ब्रह्मैवेत्यपि। सर्वोऽयं प्रत्यक्षेऽपि विवादः। अनुमानादिगम्ये जीवादौ तु सुतरामेकोक्तमन्यो नेच्छतीति मिथः कलहः। भेदाभेदसमावेशात अतदपि तद्भवतीति कश्चित्, अप्रत्यक्षे विषये योयो यथायथाऽऽह, तत्तदनुयायिनः तत् तत् आगृह्णन्ति। एवं कथकानां कत्थनस्य-अहमेव समर्थ इत्याहोपुरुषिकायाः क्रमेण उत्तरोत्तराविर्भावात् प्रक्रमः पदन्यासः विकल्पितः विभिन्नदिक्को भवति जनानां तदनुयायिनाम्। इदृशी पद्धतिः सरणिः कालक्रमेण जगदेव विपग्विर्तयन्ती अन्यथाकुर्वाणा कुतर्करूपशर्कराणामुपर्युपरि प्रादुर्भावात् गमनार्हैव न लक्ष्यते। तत् सर्वमिदं प्रत्यक्षातिरिक्तस्वीकारिणां भ्रमणमात्रमिति।
58. चिरेति। द्वात्रिंशद्वर्षं ब्रह्मचर्यमुबासेति हि छान्दोग्यम्। एकशतवर्षब्रह्मचर्यपूर्वकमिन्द्रविदितं तत्त्वं महामोहानादृतम्। प्रजापतिना कुत इन्द्रायान्यथोक्तमिति चेत्– तस्य प्रथमोपदिष्टे तत्त्वे अश्रद्धामालक्ष्य अन्यान्योक्त्या तं न्यवर्तयदिति तद्भावः। विरोचनस्तु निपुणस्थानं प्रथमपात्रम्।
59. वार्तिके इत्यनेन चार्वाकादि पूर्वाचार्योक्तः शरीरलयो मुक्तिरिति कल्पः पश्चात्तनैर्नेटः, सूत्रकृदपेक्षया वार्तिककृतो गौरवं हीष्टमिति ज्ञापितम्। स्तनयुगलेति। अस्यापि ब्रह्मणो विभूतिद्वयमुभयलिङ्गता वा एवमिति भावः। पाटच्चराः चोराः। 60. काकुः स्वरविशेषः परिहसनवावयगतः। विदधतां कुर्वन्तु। ताटस्थ्यं माध्यरथ्यं मजन्तः मध्यस्थवत् स्थिताः केचित्। महतः चार्वाकशिष्यान्। कृपणकथकैः लब्धमपि भोक्तुमनिच्छद्भिरात्मानं कर्शयद्भिर्वादिभिः। दम्भादिप्रवेशनार्थमुपक्षिपति विचिन्त्येत्यादि। बहुवचनात् तत्तत्स्त्रीप्रवेशोऽपि विवक्षितः।
दम्भेन कामलोभवृतमुच्यते। अथ दर्पेण क्रोधस्य वृत्तं वक्ष्यते। 61. मनसः नानाविषयस्पृहोतम्भकवासनाजटिलत्वं स्थितम्, वसन्तादि सहकार्यपि स्थितम्, सौप्तिकार्थं प्रवृत्तः सकृदारम्भ तदा कर्तुमशवयत्वचिन्तनया निवृत्तः पुनः प्रवृत्तिं कर्तव्यां विहाय लज्जाव्याजेनोदास्ते विषमास्त्र इतीदं क्लेशकरमिति भावः। अन्यस्मिन्नपि लोभेऽपि। कैमुत्यसिद्धमिति। कामापेक्षयाऽस्य दुर्बलत्वादिति भावः। 62. विरज्यमानबुद्धेः वैराग्य युक्तमनसः। रञ्जधातुरुभयपदी। पुरुषः सर्वत्र विरज्यतीत्येव न, स्वशरीरमपि न पोषयति। एवञ्च विषया विनिवर्तन्ते निराहारस्य देहिनः। अत्र कारणं विवेककृतो विप्रलम्भः वञ्चनम्। सर्वस्य तेन त्यज्यमानत्वात् अत्यागिमान्यस्य लोभस्य तस्मिन्न कियानप्यवकाशः।
याथातथ्येन पण्डितम्। यथार्थवादित्वं यथावदनुष्ठानतृत्वञ्च यथावस्थितज्ञानरूपपाण्डित्यशालिनो लक्षणम्। तथाविधपण्डितं याथातथ्येनोपसर्पेदिति नीतिः। भवतः पण्डितत्वात् तामनुसृत्य तथ्यं वदामीति। क्रोधस्य प्रभावं सर्वमनूद्य, तथाविधस्याप्यनवकाशमाह द्विती। द्रुहिणस्य चतुर्मुखस्य सृष्टिः सर्वाऽप्येको वृक्षः। तत्र दलानि पत्राणि चतुर्दश। तत्पत्रययुक्ततद्भञ्जनरूपव्यापारेण पुरस्कृतः ताण्डवस्याऽऽडम्बरः। स एव युगक्षयसंबन्धी। जगत्संहारहेतुत्वमेव रोषस्योक्तम्। युद्धेऽपि तन्महिमोच्यते सुभटेति। उत्कृष्टभटानां केलिः युद्धमेव, तद्विषयकस्वस्तिवाचकश्च सन्नपि विरक्तरूपया विषलया वेष्टितत्वात् मूर्धित इवेदानीमिति।
एवमुपप्लतावस्थान इति। उक्तप्रकारेण तदवस्थानस्योपल्पवं-बाधामापाद्येति यावत्। शाकुटस्य शाकविशेषस्य। शंकुलायाः लवित्रस्य। इषीकतूलम् इषीकायाः तूलम्। इष्टकेषीकेतिसूत्रात् तूलशब्देन समासे ह्रस्वः। त्वदभिमतवृतेः त्वदिष्टव्यापारकर्तुः। प्रारब्धकर्माषरित्यागम् विवेकवधोद्देशेन यत्कार्यमारब्धम्, तस्य विध्नोपनिपातेऽपि त्यागाकरणम्। पूर्वकर्मपाकमिति च गम्यते। 64. रक्षस्संयति रावणेन सह युद्धे राघवस्य रामस्य या स्थितिः तां विवेकेन हस आहवे अहं व्यङ्क्ता व्यञ्जयिता। भविष्यामीति शेषः। व्यंक्तेति न लुडन्तक्रियापदम्। अहमिति प्रयोगेणोत्तमपुरुषस्यावश्यकत्वात्। नापि तृजन्तम्, स्थितिमिति द्वितीयानन्वयात्। अतस्तृन्नन्तम्। भविष्यामीति शेषः। कलिकाल एवेह आहवे मे रथः, त्वं पत्नी सारथिः, सम्प्रतीति सम्यक् ऋजु इत्यर्थः। यथा शाबरे 1-1-15. सम्प्रति पुरस्तादिति, यथा चोपनिशदि, `वैश्वानरमात्मानं सम्प्रत्यध्येषि’इति। कङ्कटः कवचः 65. रणस्य युद्धस्य रङ्गं। भूमिः तत्र खेलनकलां नाट्यरंग इव विहारक्रियाम् आतिष्ठते स्वीकृतवते तुभ्यंकः तिष्ठते आत्मानं शत्रुत्वेन प्रकाशयति। प्रकाशनार्थे आत्मनेपदम्। कामे कामपुरुषार्थे तन्त्रेण तत्तत्समयोचितेनोपायेन नियतस्वैराय स्वेच्छविधातरहिताय। वैरायितं विरोधाचरणम्। योद्धुमभिमुखं न कश्चिदायाति, किं तावत्, विरोधाचरणञ्चेषदपि न कुर्यादित्युक्तं भवति। तत्र कारणमाह येनेति। येन भवता साकूतं साभिप्रायम्- इदं कार्यमित्थं कुरु इति मित्युदाहरणान्वेषणमनपेक्षितम्। अन्यासाध्यमेव चैतत्साध्यं वक्तव्यम्। बल्लवाः गोपाः। साह्ये-सहायकृत्ये यथासामर्थ्यमित्यनेन अनभिमतकार्ये प्रेरणेऽपि कर्तव्यमिति व्यञ्जितम्। सोत्याहं सुकर एव प्रेरये इत्याह अभिमतमेवेति। 66. निजधर्मगुप्तौ-सर्वेषामनुष्ठीयमानानां डम्भार्थत्वे पर्यवसानविधानाय। पुण्यापगाः गंगाकावेर्यादिनद्यः। बहुवैदिकसमागमस्थल एव हि डम्भस्यावसरः। डम्भस्य कार्यमुक्तम्, दर्पस्याह गाढेति। गर्वस्य दर्पस्य कतिपये तपोधवा एव स्थानम्अ। ये अहं विरक्तोऽस्मि इति स्वविरक्तिं स्वयमेव गाढं दृढम् उपलक्षयन्तः पश्यन्तः दर्शयन्तो वा वर्तन्ते। अनघेषु दोषान्तराभावात् गर्वेण स्वयैव दुष्टत्वमापादनीयमिति।
स्वकर्तव्यमालोचयति किंनामेति। स्वयमेव सप्रार्धि लभते नन्विति। ननुप्रत्यवमृष्टं पूर्वं मालोचितमिदानीं स्मतिगतमासीदित्यर्थः। तदेव दर्शयति 67. प्रज्वलतीति। बाह्यहोमादीनां डम्भादिमूलं दूषणं स्थापितम्। आद्यं धर्मसाधनं यत् शरीरम् तद्धारणसाधनं प्राणाद्याहुतिः। वैराग्यात् यत्किञ्चिन्मात्रभोजन्परः पुरुषः चतुर्विधाहारभोजनपरः कार्यः जाठराग्नेरधिकप्रज्वलनविधानेन। चतुर्विधं तावत् स्वाद्यं लेह्यं चूष्यं पेयमिति। परिपालयितास्मि परिपालयिष्यामि। युक्तायुक्तसर्वाहारग्रहणव्यामोहविधानेन वर्धयिष्यामि। ततश्चेति। ईदृशात् मत्कृतात् परिपालनादित्यर्थः। आहारविषयकस्य कामस्यापि सुहृदः अत्रावकाशोऽस्तीत्याह इष्टैरिति पदेन। आहारं विशिनष्टि नातीति। जात्यैव दुष्टानि द्रव्याणि बिम्बकलञ्जलशुनादीनि। आश्रयदुष्टानि शत्रुशूद्रपुंश्चल्याशोचिप्रभृतीनां द्रव्याणि। निमित्तदुष्टानि काकस्पृष्टं शुनादृष्टं केशकीटावपन्नमित्येवंविधानि। मृष्टेत्यनेन नेदृशद्रव्यग्रहणमगतिकत्वे, उपर्युपर्येबम्भूतानामेव पूर्णसंभरणादिति ज्ञापितम्। आहारार्थद्रव्याणीव आसनशयनसञ्चारार्थद्रव्याण्यप्येवं दुष्टानीति विहारपदेनोक्तम्। एतदायत्तानि नानाविधानि निषिद्धानि सर्वजनदृश्यानि कार्याणीत्याह दृष्टचेष्टचेति। मृष्टचेष्टे इति पाठान्तरम्। अधिकदुष्कर्मणीत्यर्थः।
स्वकीयस्योत्साहस्य सर्वथाऽप्यानिवार्यत्वमाह 68. अलमिति। नियुतैः लक्षैः। विवेकार्थमान्यो वा विवेक एव वा यदि सर्वमपि सुवर्णं सर्वमपि रजतं स्रवां भूमिं सर्वान् लोकान् सर्वाण्यपि ब्रह्मण्डानि उपहारं विधाय स्वजीवितमविनाश्यमिति प्रणमेत्। तदापि तस्य ध्वंसमेव करिष्यामीत्यर्थः॥ सत्सु सेनापत्यादिषु राज्ञा साक्षात् किमिति योद्धव्यमिति, किञ्जित्कालजीविताशया दुर्मतिर्मत्वाऽऽह आर्यपुत्रेति। प्रियाभावषितं परमहितं भावयन् आह प्रिये इति।
अगणितगणितविद्यान्। अधिगतेति शुद्धः पाठः। अगणितेति पाठे गणितं संख्यानम् तद्विषयकविद्याः अगणिताः असंख्याताः येषां तान्। गणनकार्यमन्यद् बह्वस्तीति ज्ञानसत्त्वेऽपि सर्वमुपेक्ष्य इदं प्रथमं कर्तव्यमित्यर्थः। अगणिता तिरस्कृता इतरपुरुषगणितविद्येति वा। परैरगणितमपि यया विद्याया गणितं तद्विद्यावन्त इति वा। गणितविधायां सर्वथा प्रवेशे नास्ति तेषामित्यप्यर्थो भवति। स्तम्भो नाम दर्पजन्यः जडीभावः निष्कर्मत्वम्। षष्ठाङ्कारम्भे वक्ष्यति स्तम्भो दर्पसुत इति। छान्दोग्ये, स्तब्धोऽस्युत तमादेशमप्राक्ष्यः इति। प्रतिहारिणोऽपि मन्त्रिपदवी दित्सितेति न दोषः। अन्यो वाऽस्तु। 69. स्वकीयेति। भयहरानिति पाठे मनुष्याणां परिणह्यत्- विशालं भवत् यत् भयं तत् वैदिककर्मसु तत्तद्देवतारूषस्वनामोच्चारणश्रवणमात्रेण ये हरन्तीति, छुरणशब्दस्योच्चारणेत्यर्थो न प्रसिद्धः। श्रवणेति पाठस्तु न लक्ष्यते, तथा उच्चरणेत्यपि। छुरणं छेदनम्। आख्यामात्रेणासितुल्येन श्रूयमाणेन यत् छेदनं स्वस्य, तेनाभिवृद्धभयानिति स्यात्। छुरणं व्यापनमित्यपि दर्शनात् आख्याया व्यापनेनेत्यप्यर्थः स्यात्। अधिकारकश्च असाने विजहन् यान् तान्। मया त्याजिताधिकारान् इत्यप्यर्थः। क्रतुभजः देवान् विहाय महामोहायैव नमःस्ववस्तिखाहाशब्दाः प्रयोज्याः। स्वधाशब्दानुक्तिः स्वमरणस्यानिष्टत्वात्। नमस्वस्तिस्वाहास्वधमिह महामोहविषयमिति पाठान्तरम्। तदा नम आदिशब्दः शब्दपराः। स्वधान्तानां चतुर्णां शब्दानां समाहारे….. स्वधमिति रूपम्। स्वाहा स्वयमिति पाठो न शुद्ध, नम इत्यादेः पृथक्पदत्वंसंभवेऽपि द्वितीयान्तताय विषया इत्यस्यानन्वयात्। यदृच्छावाक्येऽपि। कर्माचरणमध्ये एव न, हेलया अर्थमविवक्षित्वा शब्दप्रयोगेऽपीत्यर्थः। महामोह इदानीं हिरण्यासुरः। `न हवै देवा अश्नन्ति, न पबन्ति। किंतु दृष्ट्वा तृप्यन्ति।’ तद्वदहमपीति मन्यते।
वेलाविज्ञापको वैतालिको नेपथ्ये आह विजयतामिति। 70. भक्तीत्यादिकं मोहस्य सूर्यस्य च। मध्याह्रकालवर्णनेयम्। स समयः सर्वेषां भोजनोचितकालः। अत एव प्रतपनात् गृहाद्बहिर्गमनप्रतिरोधकश्च। तदा उपरिस्थितः अनन्तरमपरमाशाविशेयं प्रत्यग्दिशं प्राप्स्यति। मोहपक्षे तु सः संभोगरूपार्थप्रतिपादकं कामसमयं कामतन्त्रं सर्वत्र प्रचारयति। तत्र रुचिः प्रीतिः। मोक्षगतिविरोधी मुमुक्षूणं प्रतपनेन। प्रतिक्षणमन्यामन्यामाशां लभते, तत्तदिन्द्रियविषयृष्णाजटिलत्वात्। मोहेश्वरेति ईश्वरपदं पाजन्निति संवोधनार्थम्।
आहारः सिद्धोऽस्तीति विषयमपि स्वाद्यं विज्ञापयति 71. उपहरतीति। सूपकर्ता पाचकः सूपस्य कर्तेति। स हि आढकदलराशिं सूपयति। भोज्ये प्रधानमिदम्। सुष्ठु उपकर्ता सम्यक् परिवेषक इत्यप्यर्थः। महतो मोहस्य महामोहस्य। भोक्तृत्वमहत्त्वज्ञापनं भोज्यश्रैष्ठ्यप्रदर्शनार्थम्। दुर्मत्याः प्रेष्य इति तदाज्ञप्तानयनाय। वलरिपः इन्द्रः, तद्गृहात् वरुणस्य गृहाच्च स्वाद्यं समीचीनं भोज्यम् धारान्तम् अन्ते यत् पेयं तक्रादि तत्सहितम्। नन्वस्यात्रैव लभ्यत्वात् इन्द्रवरुणगृहोक्तिः कुत इति चेत्– इन्द्रादेर्महामोहर्किकरत्वज्ञापनाय। अन्यो मुख्योऽर्थस्तु-स्वाद्यं सुकारादिकं धारान्तं धा रा इति वर्णान्यतरान्तम्अ। स च सुधाशब् सुराशब्दश्च। तदर्थभूतममृतं मद्यञ्च तन्मुख्यस्थानात् यथाक्रममिन्द्रगृहात् वरुणगृहाच्चोपहरतीति। शुद्धान्तम् अन्त-पुरम्॥
इति वात्स्य वीरराधवाचार्य विरचितायां
संकल्पसूर्योदव्याख्यायां सर्वसाक्षात्काराख्यायां पञ्चमोकः।
*********************************************************
.
***षष्ठोऽङ्कः***
पुरुषस्य कामादिभिरिव दम्भादिरप्यबाधितावस्थस्य शुद्धानुष्ठानशीलस्य समाधिसौकर्यमेतावता न्यरूपि। अथ तदर्थस्थाननिर्णयः क्रियते सर्वक्षेत्रसञ्चारेण विवेकेन। तमिमम् अङ्कार्थं वक्ष्यन् आदौ मोहस्य भग्नाशत्वं तदीयजनप्रवेशनेन दर्शयति विष्कम्भे। कञ्चुकी। द्वारपालकेन सर्वदा कञ्चुकधारणात् कञ्चुकीति निर्देशः। अस्येह सहजं नाम स्तम्भं इति। स्तम्भो नाम संपूर्णत्वभ्रान्त्या कर्तव्यास्फुरणेन निर्व्यापारत्वम्। इदं दर्पाधीनम्। सदागमप्रतिरोधकः मोहप्रतिहारित्वात् राजसमीपे सतामागमनं रुणद्धि। तेन आगमानां तत्र धोषनिरोधोऽपि। कञ्चुकिनो वृद्धत्वेन वर्णनं नाटकेषु सहजम्। तदनुरुध्य वर्णनमुपरि। बलिभिः। जरया रक्तशोषाज्जातानि त्वचां वेष्टनानि वलयः। वर्ष्म शरीरम्। सोपानकल्पं तत्परम्परारूपनिश्श्रेणिसहशम्। द्रुतपदं शीघ्रपदन्यासपूर्वकम्। सोपानानां मिथस्संनिकर्षे आरोहणं द्रुतं भवति। सर्वेषामुद्योगे वयोवधिरस्ति। कञ्चुकिनस्तु विस्रम्भातिशयात्त् अन्तःपुरसञ्चारार्हतया बार्धके अवश्यमनिवर्त्य उद्योग एव स्थाप्यन्ते। इदमेव ज्ञापयितुं नाटकेषु वार्धकवर्णनम्। वृद्धस्यैव एतदधिकार इति तु न, शैशवेसंगृहीतेति इह वचनात्। अतिबाल्ये कञ्चुकिस्थाने निवेशः तस्य गुणातिशयदर्शने अतियौवनेऽप्यविहाय तदनुवर्तनमिति। तदपि-तथापि। नियतिभूम्ना राजसेवनविधिप्राबल्येन या सहचरति। अभ्यासातिशयात् विशेषप्रयत्ननिरपेक्षं हस्ते स्थापनमिति ज्ञापनाय एवमुक्तिः। शैशवसंगृद्दीततया तादात्विकावस्थास्मरणेन असावित्युक्तम्। एतावता कालेन तत्कृतकार्यवर्गचिन्तया, यदर्थं वेत्रयष्टिदींयते तदशचिन्तनया च तादृशीत्युक्तम्। वृद्धोऽप्यहं वलिभिर्जरया ततः प्राक्कालप्रभृति सहधर्मचारिण्या वेत्रयष्ट्या च आद्रियमाणोऽस्मीति विस्मयते।
अशक्तौ उद्योगात् स्वयं निवर्ततामित्यत्राह किञ्चेति। 2. जरा यथेच्छसंचारं प्रतिरुणद्धि, अशक्त्या क्वापि पतेयमिति भयमुत्पाद्यस नृपाज्ञा तु आह्वानकाले अवश्यमेवाऽऽत्मा प्रदर्शनीय इति चिन्तामुत्पाद्य अन्यत्रगमनप्रतिरोधिका। निष्पीदितः नितरामुत्पादितक्लेशः। जरसा जरया वार्धकेन। वाच्छा अधिकवेतनग्रहणेच्छा। मध्येमध्ये स्वमनोरथानुरोधेन वेतनस्यालाभात् उपलक्षितो यो मनोरथभंगः तेन दीना। अर्थान्तरं मध्येन मध्यकायेन मध्यकायेन उपलक्षितः सहितः यो मनोरथः तद्विशिष्ट तद्भङ्गेनः, मध्यस्य मनोरथस्य च भंगेनेति यावत्। जरसा मध्स्य भंगः आनतिः। सर्वदा प्रह्वीभावाच्च। नृपाज्ञयैव मनोरथभंगश्च। तेन दीनत्वं शोच्यदशापन्नत्वम्। एवमपि दारपुत्रादिरक्षणवाञ्छा उद्योगवाञ्छा च न शाम्यतीति। जानपदं सर्वसाधारणं दुःखम् दुःखमधिकृत्य। 3. धनमदेन मेदुरस्य व्याप्तस्य क्षितिभृतः राज्ञः अङ्कणे बाह्ये गृहप्रदेशे चङ्क्रमणं संचरणम्। अरुन्तुदं मर्मवेधकम्। राजसेवैवारुन्तुदाः तदंकणे स्थित्वा सेवा तु अतिहिंस्रा, वस्त्रभूषणादिहानौ दोषारोपणादिदोषभूयिष्ठत्वात्, अल्पापराधस्याप्यसह्यत्वात्, संनिकर्षेशीघ्रमपराधज्ञानाच्च। एतदपेक्षाया वरं विवित्सया धनलोभेच्छया समुद्रतरणं एर्वतारोहणं लोहादिधातुशोधनोत्कृष्टधातुनिर्माणाद्यर्थमग्नौ तत्तापनद्रावणादिकं प्रयुक्तशस्त्राभिमुख्येन युद्धे गमनञ्च। वार्धके भोगादिप्रसक्त्यभावेऽपि उदरपूरणार्थमेव सेवाव्यप्रतेत्यालोच्य स्वात्मानं निन्दति प्रत्यङ्गेति। यावत्यङ्गे कञ्चुकम्, तावतः उरोभुजहस्तोदरादेः जरया कम्पः। तेन कञ्चुकस्य नर्तनम्। पर्याप्तं पूर्णं यथातथा रूढानि पलितानि शुक्लकेशलोमानि यस्मिन् पिण्डे मम शरीरे राजपरतन्त्रे अक्षीणरागम् एतत्पिण्डस्यानुवृत्तिविषयरागयुक्तम्। एवं सत्येव अजरोऽपरश्च जीवेयमित्याशायुक्तञ्च मां मम मन एव हसेत्। पिण्डे जरां पलितं दुःखकरं पारतन्त्र्यञ्चानुभूयापि तत्त्यागे बुद्धर्न। एतत्त्यागेनाजरामरशरीरबाञ्छा युज्येत, एतदिच्छया सह एतत्सत्त्व एव तदिच्छा तु परिहासायैव धृतिमालम्बते अथवेति। प्रेषणे शासने। नित्यम् अवश्यम्। महामोहेन सर्वत्र कलिं प्रस्थाप्य शत्रुवृत्तावगमाय प्रेषितः निर्विघ्नगतिः विघ्नाख्यश्चारः, किमागत्य वक्ष्यतीति राज्ञा ज्ञातुं प्रतीक्षितः सञ्चारिविवेकदर्शनेन लब्धविघ्नः प्रतिनिवृत्तः। तदिदं ज्ञातुमेवेह स्थापितोऽहं ज्ञापयिष्यामीति स्वकार्यज्ञापनव्याजेन पावृत्तं ज्ञापयति अद्यखल्विति। चारचक्षुषा– चारूपेण चक्षुषा। दिदृक्षमाण इत्यस्य अपसर्प्यत्यत्रान्वयः। विपक्षस्य शत्रोः भूभिषु स्थानेषु यमनियमासनप्राणायामप्रत्याहारेषु अन्येषु च कोविदं समर्थम्। पाकशासनादिषु इन्द्रादिदेवमनुष्य योनिषु। निरङ्कुशगतिम् सर्वेबामपि तत्तत्कार्यविघ्नानुभावात् तद्गतेः निरङ्कुशत्वम्। अपसर्पं चारम्। अपसर्प्य चारयित्वा। अस्य तरलिताशय इत्यत्रान्वयः। संदेहरूपायां डोलायामधिरोहः आशवस्य। अत एव तस्य चञ्चलत्वम्। एवंभूतेन राज्ञा कञ्चुकी आज्ञप्तः–विघ्नः आगतो वेति विदित्वा निवेदयेति। तदाह तत्प्रत्यागतिमिति। समादिक्षत् आदिष्टवान्। यमेति। अष्टांगयोगे यमनियमासनप्राणाथामप्रत्याहाररूपेषु पञ्चस्वङ्गेषु विघ्नकार्यं विघ्नितम्। कुशलाचारैः। सम्यक्प्रतिकरण समर्थपुरुषैरिति। कश्चिदर्थः। मुख्यार्थस्तु निष्कामकर्मानुष्ठानैरिति। अङ्गपञ्चकस्य निष्पन्नत्वात् संयमारम्भ एवेतः परम्। संयमो नाम `त्रयमेकत्र संयमः’ इत्यनुशासनात् उपास्यैकविषयक धारणाध्यान समाधित्रयम्। अयेनवैतदङ्कार्थः। दृष्ट्वा प्रत्यागत इति। विवेकं राजानं दृष्ट्वा भूतःज, मोहस्य सद्वा असद्वेति प्रतीक्षमाणस्य सविधे असद् वक्तुं प्रतिनिवृत्त इत्यर्थः। विघ्नेनोक्तं वास्तवमिति मयैव दृश्यते विवेकस्य तथैवेहाऽऽगमनादिति वदन् प्रविशत्पात्रं सूचयति तथेति। विवेकस्तर्कसहितः करोति ध्यानकरणस्थाननिर्णयं मोक्षमनोरथवान्। इदमेव रथसारथ्यादिकल्पनयोच्यते 5. मनोरथेति । यथादिष्टमाचरामीति। आगत एव विध्व इति राज्ञे निवेदयामीत्यर्थः।
प्रमाणेतिकर्तव्यताभूतस्यस ऊहस्तर्क इति गौतमोक्तस्य तर्कस्याङ्गपञ्चकं सारथिकार्यञ्चैकीकृत्यतर्कस्य सारथित्वे उपपत्तिं दर्शयन् सारथिं प्रशंप्ति विवेकः अये इति। तर्कस्याङ्गपञ्चकं तावत् तत्प्रतिकूलतर्कराहित्यम् आरोप्यारोपकयोर्व्याप्तिः। पराननुकूलत्वं परानिष्टप्रसञ्जनम् आरोपस्य विपर्यये पर्यवसानञ्चेति। तर्कस्वरूपं तावत् एवं स्यादिति वा एवं न स्यादिति वा आरोपात्मकम्। अग्निर्मास्तु इति केनचिदाशंकायां कृतायाम् अस्य विपक्षस्य बाधकमुपन्यस्यते, यदि अग्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति। अयं धूमाभावारोपः तर्कः। एद्वाधकः प्रतिकूलतर्को न भवति। अत्र अग्न्यभावस्याऽऽरोपकस्य धूमाभावेन आरोप्येण सह व्याप्तिरस्ति, यत्राग्न्यभावः, तत्र धूमाभाव इति। इदमापादनं पराननुकूलमेव, परस्यानिष्टञ्च। धूमाभावापादनञ्चेदं धूमरूपतद्विपर्ययमुखेन अग्न्यभावविपर्ययभूतस्य अग्नेः स्थापने पर्यवस्यति। धूमो न स्यादिति ज्ञानञ्चाहार्यम्, अस्तिधूप इति तद्बाधज्ञाने सत्येव स्वेच्छया कल्पि तावात्। अत एवायथार्थञ्च। अयथार्थ सदेवेदं यथार्थज्ञानसाधने उपयुज्यते। इदमेवोक्तम्, आहार्यहेतुमुखेनाप्यन्ततः सूनृतवादिनेति। सारथेश्चेदं सर्वं वर्तते। अरातिरागच्छेत् त्वरितव्यमिति सारथिस्त्वरयति। वस्तुतोऽरात्यनागमनेऽपि त्वरोत्पादनं क्षेमायैवेति सम्यक्त्वाम्। सारथिना रथप्रापणं कृत्रापि न प्रतिहन्यत इति निष्प्रतिघत्वम्। अत्रात्र एवमेवं गन्तव्यमिति रथवेगनियमः तेन कृतोऽस्ति। शत्रोरननुकूलश्चायं शत्रोरनिष्टसंपादकश्च। तद्विपर्ययपर्यवसायित्वञ्च शत्रुनाशपर्यन्तव्यापृतत्वम्। ईदृशसारथिसाहाय्यत् रथो यथावद्गच्छति। तथेदृशतर्कसाचिव्यात् मनः सर्वमपि विमृश्य निर्धारयतीति। मनःपूर्वरथः मनः पदपूर्वकरथपदरूपसमुदायार्थभूता आशा। यत्र मनो गच्छति, तत्र रथोपि सारथिना सद्यो नीयत इति रथस्यापि मनःपूर्वत्वम्। त्वदायत्तप्रसर इति। इष्टानिष्टादिविवेकाभावे ह्येतादृशमापादनमपि तर्काव्यं दुष्करमिति भावः। विविंक्तो विवेचयति। विवेकान्धः विवेकहीनः।
किमर्थं कुत्र रथेन गम्यते, कुत्रेदानीं स्थीयते इतीदं सल्लापव्याजेन सभिकेभ्यो दर्शयति वयं खल्विति।
7. स्फरदिति। मेरुशिखरमधिरूढेन पूर्णा भूमिर्दृश्यते। सा विशालं घनञ्च चक्रमिव लक्ष्यते। तस्य नेमिरिव लोकालोकपर्वतः। परितः स्थिताः चारवः मन्दर गन्धमादन विपुल सुपर्वाख्याः शैलाः चक्रस्यारदण्डा इव। सप्त समुद्राश्च जलपूर्णाः मण्डलाकाराश्च मध्ये मध्ये संयोजिताः नानावर्णपट्टा इवेति। शब्दर्थस्तु स्फुरताम् अराणां परिपाट्या रीत्या। साम्येनेति यावत्। चारवः मन्दरादिशैला यत्र। चक्रवालपर्वत एव नेमिर्यस्य। वृत्ताः मण्डलाकाराः। प्रचिताः विस्तृताः विविधाः नानावर्णसंस्थानाः ये चक्रे निवेश्याः प्ट्टाः, तैः सह स्पष्टं सम्यक्भवत् संख्यं युद्धं यस्याः अभिख्यायाः शोभायाः ताम्। पट्टशोभास्पर्धिशोभावत्त्वं जलधीनाम्। पट्टतुल्यत्वमिति यावत्। धरणिचक्रं बद्धजीववासस्थानमित्याह इदंहीति। त्रिगुणं प्रकृतिः स एवासारो मरुकान्तराः तत्र गतेन गमनेन आगतेन आगमनेन च यः खेदोऽनुभूयमानः, ततो निर्विण्णेन मुमुक्षुणा भाव्यं पुरुषेण। निर्वेदरहितास्तु कामभोगलोलाः। तते सर्वदा आरोहन्ति अवरोहन्ति च। तच्छ्रमपरिहाराय कञ्चित् कालं स्थित्वा पुनः प्रतिष्ठन्ते इति भावः। अथ मेरुं पश्यन् वर्णयति 8. भुजगेति। भुजगपतिः शेषः तस्योर्ध्वाकारेण भूमिधारणार्थं प्रसारितो भोग एव पद्मनालवत्। मेरुपर्वतस्य परितः स्थिताः एकैकस्यामपि दिशिबहवः पद्मकर्णिकाकेसरवत् परिवृस्य वर्तन्त इति केसरपर्वता इत्युच्यन्ते। अथ तत्रैव गङ्गातीरवृक्षवाटिकां पश्यन् वर्णयति असाविति। विरुतं रवः। मधुधारधोरणी-तत्प्रकारभेदः। प्रत्यासीदति संनिकृष्टा भवति। तत्र विहरन्तमैरावतं वर्णयति। निष्प्रत्यूहेति। निर्विघ्नमुपर्युपरि उन्नमन्त्यः मदाधिवयात् उच्छूनाः मदसिराः मदनाड्यः, ताभिः तत्रत्यमदभरवशात् कण्डूतिमत्यौ। गण्डस्थल्यौ तयोर्धूननं कण्डूत्यसहनात्। ततो मदपायिनां भृङ्गाणां पटलरूपेण निष्यतनम्। तदा तस्य पटलस्य चामरवत् दृश्यमानता वर्णभेदमात्रम्। दन्तैर्मन्दं चालनात् मन्दरस्य तटात् गैरिकादिधातवो निष्पतन्ति। तेषां रगजशरीरे व्यापनात् सिन्दूरलिप्त इव स बन्धुरः चारुर्भाति। अथ वातस्य वर्णनम् 10. क्षरतीति। वातीत्यर्थः। महान् वातः तत्र तत्र विघ्नितवेगत्वात् मन्दीभवतीत्याह ऐरावणेत्यादिना। ऐरावतः करटी गजः। तस्य करेणान्तर्गृह्यमाणत्वान्मन्दत्वम्। कल्पवृक्षकिसलयैः प्रतिहन्यमानत्वादपि। स्मरेण कामवशात् स्मेरया बृद्ध्या उत्कण्ठया कौतुकेन विहरन्तीनाममस्त्रीणां केशपाशेषु जरीजृम्भती उपर्युपरिविन्यस्ता माला। तन्मधुग्राहिणी। हार इति शुद्धः पाठः। प्रासौचित्याय हरी इति प्रयोगे मधुलबहरवातसंबन्धिस्त्रीत्वारोपो लहर्याम्॥
तीरवृक्षकतवाटिकावर्णनं वातलहरीवर्णनञ्च मेरुपर्वतवर्णनान्तर्गतमित्याशयेन रन्नसानुरामणीयकेत्युक्तम्। रत्न सानुः सुमेरुः। केसरायमाणेति। पद्ममध्यस्थितां कर्णिका परितः भवन्तः किञ्जल्का इव स्थिताः अत एव केसरशैलनामानः अष्टमश्लोकाभिप्रेताः। शिखरी मेरुरेव कर्णिका। क्षितिपद्म इति। एतदृर्शनार्थमेव हि रथ आनीत इति भावः। सत्पथवर्तिना समौचीने मार्गे रथं मामपि प्रवर्तयतेति, गगनमार्गे रथं नवतेति, सदाचारनिष्ठेनेति, तत्त्वसाषकतर्कतुल्येनेति चार्थः। सामस्त्येन पूर्णतया, साकल्येन। प्रतीकशः ततद्भागेन। अथवेति भारतवर्षव्यतिरिक्तदेशभेददर्शनोपेक्षया। 11. द्विसप्त चतुर्दश भुवनानि लोका यत्र गहवरे विवरे, तदात्मर्क यत् द्रुहिणस्य चतुर्मुखस्य संबन्धि गह्नरम्। ब्रह्मण्डमिति यावत्। तत्प्रेक्षणे क्रियमाणे क्षितिः भूलोक एव परिशिष्यतेप्रतीकशो द्रष्टव्यतया अबधार्यते। तत् तस्मात् इतरभागानामुपेक्ष्यत्वतः। तस्या एव सर्वसद्धर्माचरणस्थानत्वात्। एवंभूतायाम् इह क्षितावपि वर्ष किम्पुरुषादिदेशं त्यजन्। त्यागहेतुप्रदर्शनार्थं त्रिवर्गेत्यादि विशेषणम्। त्रिवर्गः मोक्षातिरिक्तं फलम्। तस्य पुटभेदनं नगरभूतम्। अत एव-त्रिदशाः वार्धकस्याप्रसक्त्या वैराग्यरहिताः देवाःष देवानामेव योग्यं वर्षम्। एकत्वमविवक्षितम्। वर्षत्यजमिति रथविशेषणतायां बहुत्वं मुलभम्। अथापि त्यागस्यापि विधेयत्वायत्यजन्निति पाठो युक्त इव। भारतैकोन्मुखं एकं-मुख्यं यथातथोन्मुखम्, एकस्योन्मुखमिति वा एकोन्मुखम्, भारतस्यैकोन्मुखमिति विग्रहः। तथा प्रवर्तय। परतत्त्वैकान्तस्य विवेकस्य कैलासे किमित्याशयेन तर्को वेगेन रथं नयति। विवेको निरुन्धे शम्भो र्वैष्णवाग्रे सरस्य स्थानं संयमाहं वेतिविवेचनाय। कलधौतं रजतम् 12. विजितमन्मथस्य सर्वज्ञस्य शम्भोः स्थानं भवदपि दुष्टमित्याह विजितेति। स्थानमशुचीति भावः। निरुपधीति। स्वैरसञ्चारिगजानन मदाधीनमालिन्य निरोधोपायविधानं विनेत्यर्थः। गजमुखस्य गणपतेः शैलतुल्यगण्डस्थलसंबन्धिंमदजलप्रवाहो नीलो यमुनाप्रवाह इव। झलंझलेति अनु करणशब्दः। अनवरततद्वीच्यास्फलनात् कज्जलम् अञ्जनं बहलम् अधिकम्। तेन कश्मलितम् मलदूषितं कृतम्। कम्बलितमिति च पाठः। अन्यं पर्वतं दर्शयति तर्कः 13. एतं गिरिश्रेष्ठत्वेन मन्ये, विश्वमनोहरत्वात् स्वर्गकन्दत्वाच्च। सर्वभोग्यसमाहारोऽयमित्याशयः। सिद्धैः सम्यकूः निप्पन्नयोगैः देवयोनिभिश्च। साधकाः उपासारम्भेस्थिताः। पूर्वमेको मुखमात्रे गज उक्तः, अत्र गजपटेति विशेषमाह सहचरेति। सहचराः कान्तः तेषां भव्याः अनूकूलाः दिव्यशवर्यः। तत्केशपाशनिक्षिप्तं मदनमहेषुजालं पुष्पभरः तदीयं मकरन्दं परिमलञ्च सारभूतं बिभ्राणाः। मरुतः वाताः वहन्ति वान्ति। मदेन दन्तुरेभ्यः विषमितेभ्यः दन्तिधटाकरट कटाहेभ्यः वहन्तीति वाहिनः ये सान्द्राः मदस्यशीकराः विप्रुषः। तैः शीभरिताः। घटाशब्दो गजसमूहवाची। इह दन्तिपदसत्त्वात् समूहमात्रपरः। कटाहतुल्येभ्यः तद्गण्डस्थलेभ्यः वायुना पृथक्कृतत्वात् विशीर्य निर्गता मदशीकराः। तैः । शीभरितत्वं सान्द्रितत्वम्— व्याप्तत्वम्।
15. स्वेति। श्रीरामभजनपरो हनूमान् सर्ववेदव्याकरणादिवैदुप्यवित्तः श्रीरामकृतयुद्धविहारविषयगाथाशतानि स्वयं निर्मय भजनावसरे परेषां तत्प्रयोगशिक्षां करोति। तत्र प्रवणाः एकाग्राः बृन्दशः सिद्धाः। तैरनुसृतस्सन् अग्रे आयाति स्वर्णपर्वतशिखरसमानाकारः। तं दृष्ट्वा कोऽसाविति विस्मयेत विवेकः। कदलिकावनमिति। भारते वनपर्वणि तीर्थयात्रान्तर्गतसौगन्धिकाहरणभागे भूमसेनं प्रति हनूमान् (157) `ततः प्रतिष्ठितो राज्ये….। वरं मया याचितोऽसौ रामो राजीवलोचनः। यावत् राम! कथेयं ते भवेल्लोकेषु शत्रुहन्। तावज्जीवेयमित्येवं तथाऽस्त्विति च सोऽब्रवीत्…. तदिहाप्सरसस्तात। गन्धर्वाश्च सदानधः। तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम्…. (भ्रातृत्वात् सौहृदाच्चैव करिष्यामि प्रियं तव। यदा सिंहरवं वीर करिष्यमि महाबल। तदाऽहं बृंहयिष्यामि स्वरवेण रवं तव।…. विजयस्य रणे चैव नादान् मोक्ष्यामि दारुणान्। शत्रूणां ये प्राणहराः सुखं तेन हनिष्यथा)‘इति।
कपिः क इति पृच्छन्तं प्रति, हनूमानित्याह तर्कः 16. परिणतेति। भास्करमुद्यन्तं रक्त वर्णं दृष्ट्वा, पकमिदं फलमिति मत्वा ग्रहीतुं तत्समीपमगात् स्वयमुत्पत्तिसमनन्तरमेवेति प्रथममिदं तस्य पराक्रमकार्यम्। पवनापेक्षयाऽपि प्राकृतविशक्षणस्य नित्यसूरिभूतस्य गरुडस्य वेगोऽधिकः। दशमुखपुर्याः– लंकाया दाहेन बालधेः पुच्छस्य वैभवम् उत्सिक्तम् अभिवृद्धं प्रसिद्धमासीत्। प्रागेव वैभवं ज्ञात्वा हि रावणस्तत्राग्रिं निक्षेप्तुमादिदेश। रघुपतेरयं क्रीडारथश्च रणारम्भे। एतदंसेस्थित्वा शरवर्षणात्। अन्ते तु महेन्द्ररथ एवाऽऽगतः। हनुमद्गाथामेकां विवेकः श्रुत्वाऽनुवदति 17. भगवतीति। भरद्वाज शबर्योः विश्वामित्र— सुग्रीवयोः परशुरामतपसः काकनेतरस्य च महदन्तरम्अ। अथापि सर्वत्र समागतिः श्रीरामचन्दर इति महदाश्चर्यम्। भरद्वाजः वनप्रवेशनिर्गमरूपसमयद्वयेऽपि भोजयिता। प्लवगपतिः सर्वदेशप्लावी सुग्रीवः। तदनुसरणं नाम ताटकावध इष वालिवधेऽपि तीव्राभिसंधिकत्वम्। दृष्टिः नेत्रम्। ललितोतुङाग। शबर्यादौ सौलभ्यातिशयरूपं ललितत्वम्, भरद्वाजादौ परत्वरूपपमुत्तुङ्गत्वम्। अथवा उच्चनीचाविशेषण सर्वत्र ललिता– सरला अत एवोत्तुंगा-मान्या। एकस्मिन् कदलीपत्रे स्वेन सह रामो भुक्तवानिति न हनुमान् आह, तस्य पश्चातनकल्पितत्वात्। दशास्यारिपोः रावणशत्रोः। दुष्टस्य काकस्य शवर्यात्यस्य तपोवने इत्यत्रान्वयः। संयमसिद्धिमिति। रूप्रेर्यस्य पुरुषस्येति शेषः। सजीवंचित्रमिति गन्धर्वादिवृन्दनिर्देशः। योगदशायां पुरुषस्य संभाव्यो य आनन्दः तादृश इह गीतास्वादमूल इतीदं विशदयती इह चेति। अनेनाऽऽकर्षकत्वात् योगप्रतिबन्धकत्वमुक्तं भवति। 18. संवित् धर्मभृतज्ञानम्। आनन्दरूपेण परिणमति। ततर् हेतु स्वैरगीतैरिति। स्वैरत्वं नानाविधेषु रागेषु तत्तदिष्ट-कालोचितरागभेदादरणात्। स्वराणां निषार्दषभादीनां तकपरिणतयः नानाविधा अवस्थाः। मूर्छना तत्तद्रागकाष्ठा श्रुतिः सर्वगीतोपकारकः साधारणे ध्वनिः। गीतं कण्ठकृतम्। तन्त्रीस्वरेण तस्य रञ्जितत्वं पोषितत्वम्। द्वीतीयपादः पृथग्वाक्यम्। तत्रापि उत्तरार्धमन्वेति। अन्तरंगमिति पाठः साधीयान्। आत्तरागमिति पाठे क्रियाविशेषणम्, संविदेव कत्रीत्युक्तौ अर्थक्लेशःस मन इति पूरणे स एवाध्याहारो दोषः। ननु प्रत्याहारपर्यन्तं जितवतः पुरुषस्य कथमनेन हानिरित्यत्राह अशक्यश्चेति। किमेतादृशसंगीतेन एतत्प्रवृतस्त्रीनूपुरध्वनिरपि बाधक इत्याह अहत्वेति। 19. नूपुरध्वनिः स्वार्जित स्वभूतं सर्व जगत् विक्रीय मदनाधीनं करोति। अहत्वेति सजीवमित्यर्न्थः। मदनाधीनत्वकल्पनापेक्षया हननमेव वरम्, अहो तन्न जातमिति खिद्यते। किमालोकितमुखैः। आलोकनसंभाषणादीनि मा भूवन्, अलं ध्वनिमात्रमिति भावः। ध्वनिविशेषणं विजितकलहंसीकलरव इति। हंसीनामव्यक्तमधुरः शब्दोऽपि ध्वनिना निकृष्टः क्रियते इति। विरक्तानां सदुपदेशाः सर्वे एतस्य ध्वनेः पुरस्तात् न कार्यकरा इति च भावः। स्त्रीदर्शनमात्रेण पुरुषस्य भवन्तीं दुस्स्थितिमाह। 20. कठिनेति। पुरुषस्य कठिननियमत्वं— नाहमन्यवशे भवेयमिति तीव्रसंकल्पत्वादिकम्, नवनीतधटस्य कठिनसंनिवेशत्वम्। धटगतं नवनीतं सर्वं यथा वह्निकुण्डसमपे द्रवीभवति, तथा पुरुषस्य मतिरपि वरयुवतिपरिसर इत्यर्थः।
सर्वे उर्वींधराः पर्वताः तदधिको महिमा पृथुत्वं माहात्म्यञ्च तद्वन्तम्।
21. मैनाकपर्वतस्य पिताऽयम्। पृथुमहाराजो यदा भूमिं धेनुं कृत्वा भास्वन्ति महौबधीश्चान्यच्च सर्वं बहुद्वारा दुदोह, तदाऽयं तस्याः तर्णकः वत्स आसीत्। हिमवति कतिपयरत्नौवध्यादिसत्त्वं तर्णकपीतधेनुक्षीरतुल्यम्। अन्यत् क्षीरमन्याधीनामिव अन्यत् रनौषध्यादिकं हिमवद्भिन्नस्थले द्रष्टव्यमिति चेह प्रतीयते। त्रिदशानां देवानां वासस्थानभूतो यो मेरुः तस्यायं जामाता, अस्य च जामाता त्र्यम्बकः अम्बात्रयावान्। तस्य तेन दत्ता कन्या ह्युमा। 22. वाहिन्यः कति सन्ति– बह्व्यो नद्यो वर्तन्ते। ताः वनगतमहिषविषाणघातमात्रेण क्षुभ्यता शमयितुमशक्येन पंकेन मिलनजलाः। तत्साम्यं गंगा न सहेत। अत्र हि जलक्रीडायां व्यापृताङ्गानामिन्द्रान्तः पुरस्त्रीणां कुचकुङ्गकुमक्षालनात् सौभाग्यातिशयः। अत्र ध्यानसंभवस्येदमप्येकं कारणम्। 23. तपोधनानां विषयोपीति अपिशब्दोऽध्याहार्यः। हरिचरणनदी विष्णुपदी। तस्याः प्रवाहस्योच्चस्थलाम् अत्यन्तनीचस्थाने पातात् घोषः। गह्वरं गुहा। यत्र योगः कर्तव्यः, तदपि घोषाक्रान्तम्।
बाधकान्तरं पश्यन् आह अये इति। 24. गन्धवाहः वातः मिथुनानां संभोगश्रान्तिशमनः। मिथुनसंचाराधिवयमपि दोषः। तिम्यगद्गात्रः। तिम आद्रींभावे। हिमैरार्द्रभूत इत्यर्थः। निश्वाकसविश्वासेति। वातग्रहणकाले अत्र सुगन्धिस्त्रीनिश्वासः प्रविष्ट इति निश्चयो भवतीत्यर्थः। नीहारत्विट् तुहिनकिरणः चन्द्रः। तस्य कलङ्केन सह प्रतिबदनस्य प्रतिबादस्य कलहस्य पदे व्यवसाये निक्षिप्ता। कलङ्कसमत्वेन भाव्यमानेति यावत्। सा कस्तूरी। स्त्रीसंबन्धभूयिष्ठताऽत्र वातस्य। 25. दुर्मदेनान्धाकृत्याकृत्यविवेकविधुराः। विविधैः तीर्थैः तपोवनैश्च निरन्तरं व्याप्तमम्। अन्तरं मध्यप्रदेशः `आर्यावर्तःपुण्यकभूमिर्मध्यं विन्ध्यहमागयोः’। तीर्थयात्रया पुण्यनदीक्षेत्रस्नानसेवनार्थसंचारेण चरितार्थः संपादितस्वोद्देश्यः। सार्थवाहाः। सार्थः बृन्दम्। बृन्दरूपेण सञ्चारिणो जनाः। तेषां सार्थः संधः। चेरतरोपोषितस्येति। एतावद्देशाटनकाले कुत्राप्येको बृन्द एवं विरक्तो न दृष्ट इति उपोषितत्वम्। गन्धसिन्धुरः मदगजः। `गजेन महता यान्तम्’ इत्युक्तरीत्या तत् महाभाग्यफलम्। तदन्यूनप्रीतिरत्र अनवरतसञ्चाररूपतीर्थयात्रायाम्। करभ्विते-अयं पापण्डी अयं शुद्ध इति दुर्विवेचतया व्याप्ते। भग्नचरणत्रये। चतुर्षु धर्म वृषभस्य पादेषु आदिमयुगे सर्वे, द्वितीये त्रयः, तृतीये द्वौ, तुरीये अत्र एकमात्रमस्तीति प्रसिद्धम्। “तपः शौचं दया सत्यमिति पादाः प्रकीर्तिताः"इति श्रीभागवते (1-17-24)।
26. इयं नगरी दिव्या वैकुण्ठवर्तिनी अयोध्यैव। वहति प्रवहति। विरजा वैकुण्ठसीम्नि वहन्ती विरजा नदी। विरजाः इति च पदच्छेदः। निर्युक्तेति निर्मुक्तेति च पाठः। आद्ये, यूपे पशुं नियुञ्जीतेति विधिबलात् नियोजनं बन्धनम्। तदेव निर्योजनमपि। अन्त्ये, पर्यग्निकृतान् आरण्यान् उत्सृजन्ति इति पशूनां वधं विना त्यागस्याप्युक्तत्वात् तद्विषयकत्वमित्याहुः। पूर्वं नियोजिताः पशवः। इदानीं सर्वे पश्चात् मुक्तिं-मोक्षं गता इत्याशयोऽपि। सहानैषीदित्यत्र वक्तव्यो देशः न कण्ठोक्तः, स्वपदमधिरोहन् स्वपदमे वानैषीदित्युक्तौ अधिकस्तुतिर्भवतीति। तत्त्वं तु तानि चराचराणि सान्तानिकं लोकमवापुरित्येव, न तायता न्यूनना। तस्य लोकस्याग्रिमत्वात्। तदुक्तं पादुकासहस्रे श्रीमद्रामायणमनुसृत्य।
27. अद्याप्युपवनेषु शुकाः वृन्दशो वेदान् सर्वान् पठन्ति, पूर्वपूर्वमातापित्रादिशुकतो गृहीत्वा। अत्राद्य वर्तमाना नरास्तु न किञ्चिदधीयते। शुकेषु धर्माभावेऽयि वेदोऽस्ति। मनुष्येषु न द्वयमपि। अतः प्राक्धर्मः स्थित इत्यनुमानमातर्म्अ। तदपि शुकबलात्। परं तु कश्चिद्विशेषोऽस्ति। रामो रामो राम इति जनधोषश्चिरादागतोऽनुवर्तते। सर्वे रामरामेति संकीर्तयन्ति। अत्रत्याश्च रामपूर्वपुरष यूपा इतरविलक्षणाः।
सारथि दर्शित देशाधिपति रघुपतिदिव्यानुग्रहेणेन योगो निर्वर्तनीयः। अस्तु स इह वा स्थलान्तरे वेत्याशयेन तस्य प्रार्थनां विनैव कार्यकरवं तच्चरित्रेणैव सिद्धमित्यहा विषयिभिरिति। 28. `‘दशेन्द्रियानां धोरं यो मनोरजनीचरम्। तत्र जनकसुतायाः जीवत्वेन कल्पना योगव्युत्पादनाय। वस्तुतः सा आराध्या रामवत् शेषिभूतेति मुख्यकथानुरोधेन ग्राह्यमित्याह देव्येति। योगिनामित्यस्य विवेकेऽप्यन्वयः।
29. दयामृतवर्षुकत्वं लघूपायमात्रेणेति सोदाहरणमुपपादयन् स्वयमपि तदेवानुतिष्ठति नम इति। तस्मै नित्यवेद- आर्षवेदप्रसिद्धाय। कस्मैचन साधुपरित्राणाद्यवतारकार्यपूर्णनिर्वहणात् अद्वितीयाय। निष्किञ्चनानाम् अनन्योपायानां जनानाम् जननभाजां सर्वेषामविशेषेण स्वयंरक्षायाम् उपायान्तरनिरपेक्षं रक्षणे या दीक्षा व्रतं `अभयं सर्वभूतेभ्य’इति प्रकाशितम्, तया समधिकं शास्त्रार्थनिष्कर्षे आचरणेवीर्ये धैर्ये अन्तरङ्गवशीकरेण चानुपमतया समिन्धानं प्रकाशमानं यशो यस्य तस्मै। `सीतामुवाचातियशा राधवञ्च महाव्रतम्’इति शरणागतस्य लक्ष्मणस्यातियशस्त्वम्, शत्रोस्सकाशात् संप्राप्तस्य गदापाणेरपि रक्षणादस्यात्यधिकयशस्त्वम्। सीता लभ्यतां मा वा, अयोग्यत्वात् वाली निग्राह्यः, योग्यत्वात् विभूषणो ग्राह्य इति मतिमत्त्वाद्वर्धमानं यशः। शरणागतिशास्त्रे श्रीमद्रामायणे अहल्याशापविमोचनमपि शरणागतरक्षणमेव, राक्षसीगणविषये वृद्धा त्रिजटेव सीताम्, अहल्याविषये तद्भर्ता महर्षिगौतमो भविष्यन्तं श्रीरामभद्रं शरणमगादिति श्रीरामस्यावताररूपत्वं शरणागतरक्षकत्वञ्चाबतारात् प्राक् स महर्षिराविश्चकार। शरणागतिनिष्ठासु गरिष्ठा आचार्यनिष्ठेयम्। सुराधौशस्य इन्द्रस्य स्वैरेण स्वेच्छाधीनव्यापारेण यः क्षणः उत्सवः संतोषः अहल्यानुभूतः, तेन हेतुना कुपितः शापायुधः शापप्रयोक्ता गौतमः। तत्पत्न्याः शापाधीनं पाषाणतारूपं दुर्जातं दुर्जन्त। तन्निवर्तकं स्वपदारविन्दरजः। रजसः पाषाणध्वंसत्वमपिचित्रम्। तत्पादरजसोऽपि यदि सिद्धोपायाभावसामर्थ्यम्, किमुत तस्येति। प्रकारान्तराशक्य-विलक्षणदृष्टफलहेतुत्वं प्रपत्तेरत्र भाव्यम्। अतोऽपि श्रैष्ठ्यम्। अनिष्ठुरबुद्धिभिः। निष्ठुरबुद्धिपरिवृते स्थले अनिष्ठुकवाकसो दुष्करो हि। पाषण्डशब्दवत् पाषण्डिशब्दोपि प्रमाणखण्डितजनवाची। यद्वा प्रमाणेन खण्डिताः पाषण्डाः। तादृशाः येषां वशे बहवः, ते पाषण्डिन इति।
एकप्रदेशस्थाराक्षसबधामात्रं रामकृतम्। कृष्णेन पुनरवनिभारः सर्वोऽप्यवरोपित इति विशेषः। स प्रपतिमात्रमुपदिदेश। अयं तु यदनधिकारिणे प्रपतिरुपदेष्टव्या, तत् मुख्याधिकर्तव्यं प्रपत्तेस्तस्थानापन्नताच्च विस्तरेणोपादिक्षत्। स आत्मानं चतुर्था व्यभजत्। अयमेकधैव पूर्णो भयन्नपि पर्यङ्कादिकमप्यवतारयन् चतुरात्मा चतुर्थूह इति तत्त्वमपि अग्रजपुत्रपौत्रनाममुखेन निरूपयामास। 30. पूर्वं नमस्तस्मै इत्युक्तम्। अत्र पुष्कलत्वमभिसंधाय नाथायैवेत्युक्तम्। श्रीरामः वस्तुतो जगन्नाथोऽपि नरभाव नया सर्वैर्नाथत्वेन स्पष्टमाश्रयणीयो नासीत्। अयं तु अवतारेऽपि वाल्पेऽपि आविष्कृतनाथभावः पित्रादिष्वपि। नमःपदमिति पदशब्दप्रयोगः तदर्थसर्वस्वं तदेकज्ञेयं पूर्णमनुष्ठातुमशक्यञ्चेति धिया। कुहनया वञ्चनया रात्रावन्याज्ञेयमागततया गोपजातिभूताय। भुवनानि गोपायते रक्षते। कालियमर्दनेन गोगोपादीनामे सुखमिति न, कालिन्द्या अपीति। ततः सा पर्यणैषीदेनम्। कालियाख्यनागसंबन्धिकनीषु रत्नप्रकारशफणपंक्तिषु, लोके नटानां रङ्गोत्संगविशंकचंक्रमधुरा सोत्साहं या भवति तत्पर्यायाः– तत्सदृशीः सर्वनाट्यशास्त्रार्थप्रदर्शनफलिका चर्याः संचारान् यते प्राप्नुवते। वाटिकारूपे रङ्गस्योत्संगेचङ्घमस्य धूर्या अवश्यकर्तव्यत्वाभिसंधिः तदधीनाः पर्यायेण-उत्तरोत्तरक्रमेण चर्या इति वा। ते इति पृथक्कृत्य पर्यायचर्यायेति चतुर्थ्यन्तपदविभागं महान्तो नानुमन्वते। दशावतारस्तोत्रे अन्तिमवर्जं संबोधनाभावात् ते इत्युक्त्ययोगात्। तद्वदेवेहापीति। विशिष्य कालियशिक्षणवर्णनं वैष्णवचिह्नधारणविधानप्रियत्वसूचनाय। शिरसः पदेनाङ्कनात्। “नामुद्रिताः प्रवेष्टव्याः” इति च तदाज्ञा। परिहासवृत्तय इत्यनेन वासोहृत्वेत्युक्तकार्यवत् हर्तुकुम्भ इत्युक्तमपि तत्कृत परिहसनरूपमेवेति ज्ञापति। अविवेकिपरकृतपरिहासास्पदं खलु स्वयं भवतीत्यपि। सखलु। अत्र खलुशब्दो न स्यात्। उत्तरश्लोके वान्वयः। अत्रापि वा विशेषणमात्रे स्यादन्वयः। पायादित्यत्रानन्वयात्। तत्रआसीदित्यादिपदान्तरं वाऽत्र ग्रन्थे। 31. हैयंगवीनम्। सद्योनवनीते रुच्यतिशयात्। अन्येषां नवनीतानां भुक्तत्वाच्च। कुम्भे करनिक्षेपसमय एव मात्रा दृष्टत्वात् भोजनानिष्पत्तिः। स्वं दृषट्वा बन्धनाय रज्जूनां ग्रहणार्थं सञ्चरन्त्याः अथापि मध्ये मध्ये पुरतः स्थितायाः दाम्ना तदातदा स्वग्राहणेपि चटुलायाः, `अपगच्छसिचेत्, प्रहरिष्यामि। तिष्ठ, सद्यो भन्त्यामि’इति रोषेण तर्जयन्त्याः मातुर्वशीभृयव्याकुलः प्रस्थानाय पश्चाद्भागे उन्नमितं पदं तथैव धत्ते, न निंक्षिपति, नाप्यकपयाति, भीत्या नेत्रे निमीलयति च, यद्दर्शनेन अविवेकिनां बुद्धिर्निमौलिता भवति। यदनुभाविनां मनोनेत्रोन्मीलनञ्च,एवं विश्वगोप्तास्वप्रभावस्य च गोययिता स नः पायादपायाकदिति।
32. वास इति। स्त्रीणां पुरतः स्त्रीणां परिभवोऽनेन कृतः। दिनकरसुता यमुना काचित् पश्यति, लीलां स्त्रियं काञ्चिदाशक्ष्य स्मयवान् भवति। शाखायाः कस्याश्चित् स्त्रिय उस्संगे उपविष्टः। एकस्याः संनिधौ अन्यस्या अंके उपविश्येतरां प्रति स्मितं कुर्वन् व्रीडायामपि स्त्रीयां धुरि स्थितायां बह्वीनां गोपीनामङ्गदर्शनायेवाञ्चलिं याचते अहो कामी विलक्षणः। वस्तुतस्तासां क्षेमकामः कृतपापपरिहारायाञ्जलिरे वोपाय इत्युपदिशति। क एवम्। चिदेव सूक्ष्मव्यवहितविप्रकृष्टसर्वविषयकसार्वकालिकसाक्षात्कारवानेव। तादृशं प्रति ताभिर्गोप्यमानं किम्। अहो मौढ्यमिति मन्यते। तदनुक्त्वा, ताभिर्याच्नायां क्रियमाणायां स्वयमपि याचते इति।
गोपिकावृत्तान्तमिति। अद्यापि गोपिकादयः प्राचीनं मुरभिद्भोगं श्रवणमधुरं गायन्तीत्यर्थः। हन्तेत्याश्चर्ये। (यद्वा हन्तेति खेदे। गोपिकावृत्तान्तमित्यनेन साम्प्रतिकजारभूतदुर्जनवञ्चितस्त्रीजनत्वमभिप्रेतं स्यात्। एवंसति स्थलत्यागहेतुरुक्तः स्यात्।) 33. यथा द्वारवती समुद्रेणान्तनींता, तथा मधुरेयमधर्मेण सर्वतोवृतेत्यर्थः। कालतः दुष्कालप्राप्तौ। प्रत्याशा योगानुष्ठानार्हस्थानत्वसंभावना। स्वाभाविकेति। कादाचित्कावतारस्थालात् प्रतिष्ठितार्चादिस्थानाच्च सालग्रामक्षेत्रस्यायं विशेषः। अनन्तमूर्तिमत्त्वाच्च। भागवतभूयिष्ठादरविषयत्वमप्याह 34. पुनरिति। पुरुपजनिः पुनर्जन्म। नारदकृतात् नारायणमन्त्रात् पुण्डरीकः पूतोऽभूकदिति भारते (अनुशासनेः)। श्रीहरिक्षेत्रं सालग्रामाख्यम्। मज्जनस्योन्मज्जकरत्वमत्रास्तीत्याह सकृदिति। यात्रया समागत्य सकृन्मकज्जनमपि पर्याप्तमिति। अत्रापि दोषं परिशीलयति विवेकः-
35. सालग्रामशिलासु कासुचित् सुवर्णं खल्पं सहजमस्ति। तदपहरणार्थं समायान्ति बहव इति। मलिम्लुचाः चोराः। लुब्धाः लोभवन्तः। लुब्धकाः व्याधाः। सुधाब्धीत्यत्र सुधाप्तीति पाठान्तरम्। तत्र मनोरथो येषां तैः त्यक्तोऽयं देशः लुब्धकैरुपहततया प्रत्यासेधस्य ब्रह्मसाक्षात्काररूपामृतपानविरोधस्य मुहुरत्रोपनतत्वात्। अथ काशीं दर्शयति तर्कः। वारानाम्नी काचिन्नदी, नसीनाम्नी चान्या। तयोर्मध्ये स्थितत्वात् वाराणसीत्युच्यते। संज्ञायां णत्वम्। वसुमतीललामभूतं भूम्यास्तिलकभूतम्। अत्र क्षेत्रे वैराग्यस्यौचित्यं दर्शयति स्वर्णहारिलुब्धकभूयिष्ठसालग्रामवैलक्षण्यमपि विचिन्त्य 36. लब्ध्वेति। रुद्रनिटिलनेत्राग्निना कामदेहो भस्मीकृतः। तद्रूपस्याभिरूप्यं सुप्रसिद्धम्। तदतिशायि रूपान्तरं पुनः कामः परमपुरषप्रसादात् प्राप, ताच्च पत्नीं रतिम्। एवं स्वस्य कहान्यभावे महदाश्रये च मन्मथेन ज्ञातेऽपि रुद्रविरोधं धर्मोपरोधं वा नेच्छति नूनं तन्नेत्रात् भीतः अभिरूपतमरूपे अभिमानातिशयादिति। कामस्य पुनरुत्पत्तिः प्रद्युम्नरूपता स्यात्। महाभागवतत्वात् रुद्रस्य तद्विरोधो न युक्ति इति च, स ह्यत्र परमपुरुषप्रावण्यं सर्वेषां कृपया करोतीत्याह इहेति। अजानताम् रुद्रवैभवदर्शकनजनितेन मोहेन तस्यैव पारम्यं मत्वा विष्णुं यथावदजानतामपि। तत्र कारणं पूर्वकर्मैवेत्याह नियतीति। ज्ञानानन्तरं मरणमित्यपि न भवति नियतिवशेनैव। निमीलताम् मुमूर्षूणाम्। पशूनामित्येतदिहापि संबध्यते। पशूनां पतिरित्यपि। पशुर्णतशब्दयोगार्थ एवं दर्शितः। करहस्यम् श्रीरामतारकमन्त्रम्। आह हि पार्वतीं प्रति श्रीराम रामेतीति। गृहीतमन्त्राः जन्मान्तरे यत्र क्वापि श्रीवैष्णवा भूत्वा मुक्त्युपायमनुष्ठाय श्रीवैकुण्ठं प्रतिपद्यन्तामिति तदाशयः। मन्त्रलिप्सूनां स्थानमिदम्, न तु ध्यानलिप्सूनामित्याशयेनाह अद्यत्व इति। मलीमसैः मलिनैः॥ भागवतधर्मः विष्णोराराधनरूपेण सर्वानुष्ठानम्। अत्र सर्वे शौचाचाररहिता एव। त्रिचतुराः त्रयश्चत्वारो वा सन्ति साधवः। परं तेऽपि आसाधुपुरुषैरविशेषाः कृताः। पुरुषैः सहाविशेषितत्वं तदपेक्षया विशेषराहित्यम्। अथवा ते पुरषाः साधूनपि स्वाविशिष्टान् कुर्वन्तीत्यर्थः। धारणाध्यानसिद्धीति पेक्षया पाठः। ध्यान समाधीनां सिद्धीति पाठे समाधिसौधाधिरोह सोपानभूतेत्यनन्वितं स्यात्। सौधादादृतत्वात् इत्याशंकायाम्, मुख्यांशाभावे पूर्वमानितत्वमात्रेण न बहुमतिरिति सर्वक्षेत्रग्रहणेनाह सेति 38. सा इति प्रत्येकं तत्तत्प्रसिद्धिः पूर्वं स्थिताऽभ्युपगतेति ज्ञापनाय। इदानीं काश्या एव प्रस्तुतत्वात्, सर्वदा सर्वजनमुमूर्षुदशाग्राह्यश्रीरामतारकमन्त्रतया, मुक्तिहेतुगंगासंबन्धाच्च काश्याः। प्रथमं निर्देशः। चाकशीतीति पदं भट्टभास्करस्थापितमिति माधवीयधातुवृत्तौ। नाधिकं प्रकाशत इत्यर्थः। अध्यास्यते उष्यते। अग्निमधुराम् अग्रिमस्य-उत्तमस्य धुरं गौरवम्। अन्या उक्तपञ्चकातिरिक्ता माया द्वारवती च न मान्या। `अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका। पुरी द्वारवती चैव सप्तैता मुक्तिदायिकाः’इति हि घुष्यते। द्वारवत्या अर्णवसंप्लुतत्वात् मायामात्रविवक्षया एकवचनम्। अन्या इत्यस्य `न्’ इत्यक्षरं प्राप्तान्या। न न्या अन्या। मान्या न् इति वर्णमप्राप्ता चेत् माया भवति। एवमिह सैवसूचिता भवति। विद्यमानाया अपि द्वारवत्याः मुक्तिक्षेत्राणि, तान्यप्युपलक्ष्यन्ते। येन कारणेनोपेक्ष्यते, तदाह येति। यदीत्यप्रयुज्य येति सिद्धवत्प्रयोगात् वैकुण्ठकथावैकल्यं। सर्वत्रास्त्येवेति ज्ञाप्यते। वैकुण्ठः विष्णुः। तन्मूलवैकुण्ठलोकप्राप्तिरूयमोक्षककथाऽपि वैकुण्ठकथेव। सर्वत्र वैकुण्ठकथाया अनुण्ठितत्वे मान्यतैव। तत्कथारसभोक्तृनिवासभूमित्वमेव मुक्तिक्षेत्रताप्रयोजकमिति भावः। इतः परं दिदृक्षितानामपि इदानीमेव हेयत्वाध्यवसायात् दुःख्यन् आह अहोदुर्विलसितमिति। 39. विटेति। परदारेषु अटन्तो विटाः। कृत्याकृत्यविवेकावकाशनाशनेन परिहासेन कालयापकाः विदूषकाः। स्त्रीजनाकर्षणपरगीतिप्रियाः नरस्तुतिनिर्मातारश्च गायकाः। वेश्यालोलाः वैशिकाः। विभाति मनसा गृह्यते। निवेशं वासम्। क्षणभिति दीर्घकालनिरन्तरसंपाद्ययोगे आरभ्ये क्षणं स्थातुमर्हमपि पदं न लक्ष्यते। यद्वा क्षणः व्यापारविरतिः। व्यापारान्तरनिवृत्तमप्युपेत्य क्व स्थातव्यमिति। दक्षिणापथः आर्यावर्तात् दक्षिणस्यां दिशि वर्तमानो देशः। मरुद्वृधा-कावेरी। साम्प्रतमपि संभवन्तीति। “कलौ खलु भविष्यन्ति… द्रमिडेषु च भूरिशः"इति हि श्रीभागवते। प्रमाणानुगुणवृत्तिरिति। तर्कस्य प्रमाणेनार्थे साधनीये तत्सहकारित्वात् तत्प्रियत्वमिष्टम्। त्वमपि तर्कत्वदेव पुराणप्रमाणप्रियोप्ति सम्यगिति। मध्ये मरुभूमिं दुर्जनपरिषत्साम्येनाह मिषत इति।
40. मिषतः सञ्चरतो जनान्। तराङ्गिताभिः। सौर्यातपस्य भौमेनोष्मणाऽभिधातात् यत् अनवरतं चलतं तत् तरङ्गजालमिव, आतपः शुक्लो जलमिव च लक्ष्यते। मृगाः यत् पश्यन्तो जलमिति भ्रान्त्या तृष्णया प्रवर्तेरन्। उज्झितरसा जलरहिता क्षेत्रसाररहिता च। दुर्जनपरिषदपि मिषतः पश्यतोपि जनान् भ्रमयेत्। मृगतृष्णाभिः- ताप- नाशादिहेतुतया तत्तुल्यैः विषयैः। उज्झितरसा अग्रे चानुबन्धे च दुःखकरत्वात्। दूरपरिहार्या। अतो रथं शीघ्रं प्रवर्तय॥ पान्थस्य तापापनोदनकार्यमद्भुतं वर्णयति 41. अतिमथनेति। अतिमथनं पुनः पुनः पात्रेण जलस्थलप्रहरणं पात्रन्यक्करणञ्च। अन्धत्वं कूपस्य सुदूरदर्शनेऽपि जलस्थानस्यादृश्यत्वात्। कुण्डिकापीतेति। आतपतप्तत्वात् कुण्डिकाद्रींकरणायाप्यधिकजलापेक्षा। कपोलेष्विति। प्राण्यङ्गतया एकवद्भावेऽपि समाहारबहुत्वविवक्षया बहुवचनम्। करादिपदानि तत्तद्भागपराणि। आर्दींकरणेऽपि प्रतिक्षणमन्यान्यकरादिवदेव दृश्यत्वादप्यनेकत्वम्। पौनः पुन्येन जलप्रक्षेपेऽपि गाढतापत्वमेवानुवर्तते। कथमपि जीवनादृष्टमहिम्नैव। तत्र देशे वार्धुषिकाणामधिकं स्थित्या तंमशमाह अपिचेति। कुसीदः दत्तधनवृद्धिग्रहणम्। अधमर्णात् धनग्रहणस्य दुष्करत्वात् कृच्छ्रलब्धत्वम्। लाभान्मोदः। काभगतकृच्छ्रत्वचिन्तनात् कार्पण्यतिशयः। कीकटाः `कितेकृण्वन्ति कीकटेषु भावः’ इति कीकटदेशनिन्दा वेदेऽपि। तत्स्थलानुरूपाः। 42. नधर्मेति। अर्थव्यतिरिक्तपुरुषार्थनिस्स्पृहा इति यावत्। दुःखभेवोपभुञ्जते। प्रतिकूलत्वेन भावनीयं सर्वमनुकूलत्वेन भावयन्ति।
43. पदवीं गन्तव्यं साधुमार्गं। धाम गन्तन्यं श्रेष्ठस्थानम्, अथवा स्यगृहमपि। रागद्वेषासूयारोषादिनानाविकारोत्पत्तिस्थान-पापभूयिष्ठमनोदोषाधीनेन, धनमेव मद्यं तद्ग्रहणजेन मदेन गर्वरूपमोहेन। भूमण्लं धमतीव सर्वं स्वर्णीकृत्य स्वयत्तं चिकीषुरिव व्याप्रियते। 44. अकिल्बिषककर्बुरैः पापमिश्रैः। अभिजनः उत्कृष्टकुलोत्पत्तिः। अतिशयभृतः एकैकांशेनातिशयेऽपि भेतव्यम्। चतुर्भिरपि स्वापेक्षया परापेक्षया वा अतिशयितान् महीयसः बान्धव्यादिना गौरवार्हान् बहुगौरवितान्। नटप्रकृतिः। यथा नटाः परभूमिकाग्रहणेन स्वात्मानमुत्कुष्टं दर्शयन्ति, तथा सर्वोत्कृष्टपुरुषत्वनटनशाली। नटवत् हेयाचारव्यवहारश्च। क्रमात् अत्रैव बहुमहाजनकृतपरिबवशतप्राप्त्यनन्तरमायुरवसाने। नरकिणां या गणना चित्रगुप्तादिकार्या अयमयमेतमेतं नरकमेव प्राप्नोतु इति, तदर्थम् आलेख्यं पत्रमारूढत्वेन स्वात्मानं कथं न ज्ञास्यति। अनुकभविष्यत्येवेत्यर्थः। आरूढिमिति पाठे स्वनामारोहमित्यर्थः। आरूढमिति पाठे आलेख्यारूढं यत् दुःखं तत्र किं दुःखं न प्रतिपत्स्यते। सर्वं नरकदुः-स्वमनुभविष्यतीत्यर्थो वा।
45. विदधातु-सृजतु। विधिरिति शेषः। अग्निचन्द्रसूर्यादिभिर्लोकारस्य बहुलं दर्शनादिति भावः। विधिकृतेन तमसा किं फलम्। यदिवा यद्वा। न न वेत्ति अज्ञो न भवति। अज्ञानात् सृष्टवानिति न। तर्हि प्रयोजनमस्ति चेत् वयमेव तदज्ञा इति चेत्-तत्राह न वा वयमिति। वयमपि न न विद्मः। इदानीं विमृष्टमस्माभिरपीति भत्वः। किं तदित्यत्राह धामसामानाधिकरण्यरहितं तमः सार्थं सफलोत्पत्तिकं भवति। तमस्सद्भावादेव तेजोपेक्षा क्रियते। स्वनिवर्तकत्वरूपमतिशयं तेजसि जनयत् तमः स्वयमपि सफलमासीत्। तमोनुभवे सत्येव तेजोगुणः सर्वैरनुभूयते। मदमानाज्ञानादिमत्पुरुषसत्त्वे एव महतां महिमापि ज्ञेयो भवति। महत्स्वपराधेन तत्पापग्रहणादपि तदुपकारित्वं दुष्टानाम्। अत्र ततः तमस्तः प्रतियोगिनः तेजसः सार्थता भवतीत्यर्थोक्तौ तृतीयपादेन पुनरुक्तता। तमसः सप्रयोजनत्वानवगमनात् न्यूनता च स्याताम्अ। दुष्टानां सृष्टिस्तत्कृतपापफलानुभवायेति सार्थवयमस्त्येव, लोकोपयोगित्वरूपार्थभावान्नैरर्थवयशंकाऽप्येवं परिहृता। विन्ध्यपरिसरात् वेगेन कावेर्युत्पत्तिस्थानसमीपं रथं नयन् आह तर्कः। 46. शबरगणेन भूयिष्ठगहनः प्रचुरकान्तारः। कान्तारे तेषां प्रायो व्याप्तिः। अग्रे दृष्टं किष्किन्धावनमपि तत्क्षण एव वेगातिशयात् पाश्चात्यमासीत्। सह्ये असह्यप्रारम्भा। पाषाणादिभिरपि सोढुमशक्यः कावेर्याः प्रारम्भदेशेऽपि वेगोऽयम्। सुरसिन्धोः गंगातः अधिगुणा। अतिशयितमहिमा। कनकापगात्वात् शैत्याधिक्याभावात् श्रीरङ्गनाथनित्यादृतत्वात् नैर्मल्यनिरन्तरभक्तिज्ञानहेतुत्वाच्च्।
47. विद्यायाः कुदृष्टिकृतविपर्यासतुल्यं देशस्य चोरपरिवृतत्वम्। कुदृष्टयो भगवच्छेषमात्मवस्तु तदशेषं स्वतन्त्रं मन्वानाश्चोरा इव। परित्यक्तपरिग्रहाः विरक्तत्वात् चोरैरपहारशंकया च। चोरगणोत्पादितं रणरणकम् अतिभयम्। कुतो बहु न स्थापितमित्यपि चोरा बाधेरन्। प्रवाते महावाते यथा कदली तथा सत्पुरुषः नित्यकम्पित एवास्तीति। युगधर्माः अवश्यम्भाविनो दोषाः। ते एव मूर्तिमन्तः खला इति। वसुमती भूमिरेव सुतनः युवतिः तस्या हारवत् स्थितान्। मुक्तेति पद्यं सुभाषितनीव्यामपि। 48. खलानां कुचानाञ्च साम्यं वर्णयति मुक्तेति। कुचानां खिलानाञ्च काठिन्यमेकरूपम्। तदुपपाद्यते मुक्तेत्यादिना। महाकाररत्नपुष्पादिमालाः कुचद्वयमध्ये निवेष्टुकमवकाशं मा कामं लभन्ताम्। मुक्ताहारा अपि नावकाशं लभन्ते। काठिन्यात् तत्संकोचनेनापि न प्रवेशः। खलाश्च बहुदिनक्षुत्क्षामप्रार्थिता अपि न किञ्चिद् ददति। कुचानां बन्धः कञ्चुकादिना, विभर्दनं पुरुषैः। खलानां तदुभयं दण्डयद्भिः कल्प्यते। अन्योन्यसंपीडनम् एकस्वलानुकूल्यायान्यः खलः सतः पीडयति, एतदर्थञ्च स इत्यन्योन्यकर्तृकं पीडनम्। यथा कुचौमिथः पीडयतः, तथा खलाः समये मिथोऽपि पीडयेयुः। तदा अन्योन्यकर्मकमपि पीडनम्। कूपोदकं वटच्छाया नारीपीनपयोधरौ। शीतकाले भजन्त्युष्णमुष्णकालेऽपि शीततामिति प्रसिद्धिः। खलाश्च बलिष्ठदर्शने शीताः, अन्यत्र तीक्ष्णाः। कामान्तः पुरचेटिकेति सर्वस्त्रीग्रहणम्। अथवा राजस्त्रीणां स्तनेष्वपि सौकुमार्यमेव, काठिन्यं तु भृत्यभूतनीचस्त्रीस्तनानामेवेति भावः। काठिन्यं नाम शैथिल्याभावः प्रतिघातप्रवृत्तिकुण्ठनायोगः। पुरुहूतपुरोहितः वृहस्पतिः। मधुकरायमाणं भृङ्गवत् तदेकनिष्ठं मानसं येषाम्। यदुकुलसार्वभौमः श्रीकृष्णः। यादवस्य श्रीकृष्णस्याधिष्ठानमचलः यादवाचलः। तस्य दिव्यदेशस्य पुनः प्रतिष्ठापनं येन, तं यतिराजमभिष्टौति 49. कपर्दीति। कपर्दो रुद्रजटाजूटः। अतः कपर्दी रुद्रः, तन्मतं शैवमेव कर्दमः अगाधः पंकः परब्रह्मणो रुद्रविधेयत्वरूपः। कपिलः साख्यस्य वक्ता। तस्य कल्पना ब्रह्मापलापेन लोकसृष्टिः। दूरत्ययत्वं सर्वविशेषणम्। द्रुहिणस्य चतुर्मुखस्य तन्त्रं योगशास्त्रम्। तदेव यन्त्रम्, यत्र निविष्टस्य यथावदुत्क्रमणम् असंभाव्यम्, तस्योदरम्। तत्र हीश्वरं ध्यानालम्बनमंगीकृत्य तस्यैश्वर्यं प्रितफलनकत्न्पमित्युक्तम्। योगस्य यथायथं ध्यानदर्शनसमानाकारज्ञानहेतुत्वात् योगिभिरीश्वरस्य प्रत्यक्षितत्वे सति योगशास्त्रोक्तरीत्यैव तत्त्वरीत्यैव तत्त्वस्थितिरिति भ्रन्त्यतिशय इति यन्त्रत्वोक्तिः। उक्ताः सर्वे वादिनः वेदबाक्यमादाय तत्त्वविचाराकरणात् वेदबाह्यप्रायाः। वेदान्तमेव गृहीत्वा येऽन्यथाऽर्थं वर्णयन्ति, ते कुदृष्टयः। तेषां माययाज्ञानापहारिणां कूटयुक्तिरूपकुहनायाः मुखे निविष्टं ब्रह्म। एवं तस्य निर्गुणत्वसदोषत्वादिदुरवस्थाकप्राप्तौ तत्परिहाराय निमग्नं ब्रह्मोद्धृतं श्रीलक्ष्मणमुनिना। मज्जनसमये तद्ब्रह्म स्वोत्तारकपुरुषालाभेन दुःख्यत् उपर्यालम्बनं किमपि दैवायत्तं लभ्येत चेत्, सम्यगिति स्वकरमूर्ध्वं प्रसारयदेवामज्जत्। वेगेनागत्य तत्करं परिगृह्य पूर्णं ब्रह्म पारे प्रतिष्ठापयास सोयं यतिराजः। श्रीरामभद्रस्यानायासम् आनन्दित्वञ्च लक्ष्म स्थापयामास स लक्ष्मणः। भगवतो निखिलहेयप्रत्यनीकत्वं कल्याणगुणैकतानत्वमित्युभयलक्ष्मप्रतिष्ठापकत्वादयमिप लक्ष्मणः। ईदृशभागवताधिष्ठितमिदं क्षेत्रमिति॥ व्यासादिमहर्षिमानितत्वादपि रमहिमातिशय इत्याह अपिचेति। मन्त्ररत्नाष्टाक्षरादिनिविष्टनाम्ना प्रसिद्धत्वात् उत्तरवदरिकाश्रमवत् अस्यापि नारायणगिरित्वम्। स्वक्षीरोदेऽपि `एष नारायणः श्रीमान्’इति स एव। 50. तत्क्षीरोदपरिसरे श्वेतद्वीपेऽपि नराः सर्वे नारायणात्मकाः क्षीरवत् शुद्धाः। तत्र लक्ष्म्यविशेषेण सर्वान् जीवान् भासुरयामीति ज्ञापनाय लक्ष्म्या सह सर्वजीवाभिमानिनं कौस्तुभमपि वक्षसिधत्ते। वाचंबिनैवेति। अर्चारूपत्वात् न किञ्चिद्वदति। श्वेतद्वीपे भक्तैस्सह संलपति, अत्र नेत्येतावानेव विशेषः। यद्वा दास्यामीत्युक्तिविलम्बमप्यसोढ्वा दिशत्यानन्दम्। व्यवहारे सति आनन्दानुभवभंगः स्यादिति वाचं न विसृजति। श्वेतद्वीपे भक्तान् प्रवणयन् स तदेकपरत्वात् अन्यैः सह वार्तालापं नेच्छपि। अत एव नारदः प्रतिनिववृते। विद्यावीचिसहस्रं भगवदनुभवपरदिव्यसूक्तयः वकुलभूषणसूक्तिसहस्रादि च। नानाविधोपासनप्रपदनमार्गा वा। तदर्थभगवन्मन्त्रा वा। `तिरुनारणन् ताल्कालं पेर च्चिन्दुतु उय्मिनो’ इति श्रीवकुलभूषणोपदेशमन्वर्थयन्तीत्याह कटाक्षेति। 51. नारायणोऽयं कारणभूतो वारणः। समस्तबयवारणः सर्वभयनिवारकत्वात्। अत एव समस्तं सम्यङ् निरस्तं भयं येन, तादृशो वारणश्च। अयं स्वकीयं सर्वफलप्रदानव्रतं स्वनेत्रशोभयैव विवृणोति। अमृतसंधं तत्कटाक्षवीचयो गृहीत्वा समाश्रितेभ्यो ददत्यो वर्तन्ते। अत एव गुहुः कवलनम्। अमृतं मोक्षश्च नाना भवति सालोक्यादिभेदात्। ऐहिकादिभोज्यान्नप्रभृति सर्वममृतमेव। श्रियेति पदं लक्ष्मीदेवीवाच्यपि। अत्र श्रीः रूपद्वयग्रहणेन वक्षसि पदसविधे च वर्तते। तस्मात् विलोचनं सम्यक्विमृश्यमानं युगं रूपद्वयं यस्याः सा तया श्रियेत्यर्थः। तस्याः कटाक्षलहरीकबलितामृतस्तोमत्वमपि समन्वितम्। तत्सन्वियात् शेल्वनारणम् इति प्रसिद्धोऽयम् सर्वं फलं सव्रतो दददस्ति। व्यासादृतक्षेत्रत्वात् शुकंमहर्ष्यादिभिरुपास्यते च। अत्र जनिमन्तः सर्वे शुभचरित्राः। गजोऽपि मधुपानप्रवणप्राण्यनूकलं स्वनेत्रादिस्थानात् दानं मदजलं नियमेन प्रसारयति। शुकशब्दः अंशुकशब्दवत् आवरणवस्त्रकम्बलादिपरः॥ एवं विस्तरेण तर्ककृतां क्षेत्रपशंसामाकर्ण्य विवेकः पूर्वोक्तक्षेत्रेष्विवाधिकं दोषमश्यन्नपि क्षेत्रान्तरदिदृक्षामुद्घाटयिष्यन् शैत्याधिक्यं दोषमेकमाह सह्येति। दुर्बलबुद्धेरिति। अत्रैवस्थितानां तु बुद्धेर्दौवल्यं नास्तीति भावः।
52. वासः वासस्थानम्। कर्णालंकृतिः कर्णभूषणम्। अरविन्दलोचनपदारविन्दध्याने मेधाविनाम् इदमित्थं कर्तव्यमिति श्रद्धाविवेकजुषामर्हाणि स्थानानि आलप कथय। तर्केण स्थलसंभावनायां कृतायां प्रमाणतो विवेको निर्णयेदिति भावः। कौतुकं श्रवणे दर्शने चास्था सर्वस्थानविषयिणी सम्यगस्तीति।
परशुरामक्षेत्रं केरलस्थं दर्शयति तर्कः। दम्भोलिः वज्रायुधम्। तद्वत् भयङ्करः परशुः। तर्पितेति। अनेन लोकहितैषितया पितृगणस्यैव तद्रूधिरपिपासाऽसीदिति ज्ञायते। पात्रसात्कृतेति। सत्पात्रभूते काश्यपे समर्पितेत्यर्थः। दिव्यप्रायः दिव्येन साम्यबाहुल्यं यस्य सः। श्रीपद्मनाभसंन्निधिं स्तौति 53. नाहमिति। श्रीपद्मनाभनाभिपद्माज्जातस्य चतुर्मुखस्य वाक्यमिदम्। मत्सुतः ब्रह्मणः पुत्रः शिवः। ध्याने आरोपितं क्रमेण प्रापितोच्छ्रायं चेतो येषां ते। पृथुकः शिशुः। पुत्रो ब्रह्मा। शेते सर्वदृश्यत्वाय स्थिरमत्र वसति। एतत्पूर्वार्धार्थश्च स्मर्यते, “यत्र देवा न मुनयो नचाहं न च शंकरः। जानन्ति परमेशस्य तद् बिष्णोः परमं पदम्"इति। निकर्षक्रमेण व्यक्तिनिर्देशः। अहमेव न जानामि, कथं रुद्रो ममात्मजः, कथंतरां सुराः सर्वे, मुनयश्च ककथंतमामिति वक्तव्ये यच्छब्दोपक्रमात् किंशब्दाप्रयोगेण नञ्प्रयोगः। दुष्टनिग्रहस्मणजनितहर्षः प्रार्थयते। क्रोधाग्निं संतर्पयिष्यन्– कोपशमनार्थम्। जमदग्निः परशुरामस्य पिता। तत्पीडनं कार्तवीर्यकृतम्। धेनुजिघृक्षया कार्तवीर्यः जमदग्निमवधीत् तत् क्रद्धः क्षत्रियवधे प्रवृत्त इति वा, जमदग्निपरिभावके कार्तवीर्ये परशुरामेण आहूते युधि इते, तत्पुत्रैः रहसि जमदग्निवधे कृते ततः क्रोधात् सर्वक्षत्रवध आरब्ध इति वा कथा। अक्षत्रामिति। तक्षणानन्तरमक्षत्रत्वम्। अथापि न क्रियाविशेषणम्, स्त्रीलिंगत्वात्। आदिं पचतीत्यादिप्रयोगात् क्रियाविशेषणानां द्वितीयान्तत्वमेव। क्लीबत्वनियमस्तु नास्ति। अथापि ततक्षेति धातुना क्रियानिर्देशात् समान्येनपुंसकत्वमेव युक्तं क्रियाविशेषणत्वे। अतः क्षितिविशेषणमेव। परंतु विधेयविशेषणम्। क्रमादिति सर्वदशसंचारविवक्षा। यद्वा प्रथमतः संततक्ष। अक्षत्रा संवृत्ता क्षितिः। अथ क्रमात् क्षत्रियसमारोहं प्रतीक्ष्य पुनस्ततक्ष। एवं क्रमेण त्रिःसप्तकृत्वः एकविंशतिं वारान् इत्यर्थः। एवञ्चाक्षत्रामपीति पाठोऽपि साधुः। मध्येमध्ये अक्षत्रामपि क्रमात् प्रतीक्ष्य ततक्षेति। क्वचन कर्मणि यागे। सर्वपापहरे अश्वमेघे। तां क्षितिं काश्यपाय दक्षिणां दत्वा पश्चात् तत्र क्षितौ वासाद्यनुभवायोगात् सिन्धुं समुद्रमास्कन्द्य तद्दते भूभागे अद्यापि वसति भार्गवः। वसन्निति उद्देश्यविशेषणम्। अब्रह्मण्यम् ब्रह्मणे परमात्मने तत्प्रीतये हितं ब्रह्मण्यम्। तद्विरोधि यत् तत् ब्रह्मादिकीटान्तसर्वप्राणिगतं यथार्हं निवर्तयतु। भगवानिति आवेशावतारत्वविवक्षया॥ एतद्देशत्यागकारणमुपक्षिपति अयंखल्विति। प्रवृत्तिधर्ममिति। सर्वथा अवैदिकत्वनिवर्तने मुनेरास्था। अब्रह्मण्यमपि तदेव। ब्रह्मशब्दस्य वेदार्थकत्वाच्च। एवं प्रवृत्तिधर्मप्रचारभूयिष्ठे मुमुक्षुनिवासस्यौचित्यं न पश्यामीति भावः। विशिष्य वाधकमप्याह अपिचेति।
- भिक्षाकब्रूवैः आभासभिक्षुभिः बुभुक्षावशात् क्षुद्वशात् भोगवाञ्छावशाच्च येषु अविद्यमान एव गुणगणः आरोप्य पठितः, ते स्वात्मानं गुणवत्त्वेनैव भावयित्वा साधून् मुमुक्षूम् हिंसन्ति। कथं? परुषैः क्रूरैर्वचनैः अथवा परुपुरुषद्वारा। परुषाणां विशेषणं कदध्वेत्यादि। कुमार्गेणार्जितस्वल्पधनुकलितो यो दुरहाङ्कारः स एव मदिरा मद्यम्, तया गुणः अभिवृद्धिर्यस्य तेन क्षैव्येन मत्तत्वेन क्षुभ्यन्त्या मत्या कृतः कलहः निष्ठुरवाग्जालादि, स एव काकोलः कालकूटविषम्। तेन कलुषैः पिंकिलैरिति। स्वस्तोत्रकरेषु मोक्षं विहाय भोजनं भोगञ्चाप्रेक्षमाणेषु बहुषु भिक्षुषु स्वपरिवारतया स्थितेषु, मानुषस्तोत्रादावप्रवृत्ताः विरक्ताः, पुरुषाः धनमदमतैर्न केवलमुपेक्ष्यन्ते, उपहन्यन्तेऽपि, हननतुल्यपीडनापात्रीक्रियन्ते। भिक्षूणामसूयाऽपि तत्र हेतुः।
मलय एवेति, यत्र निवृत्तिधर्मपरा महर्षयः सन्ति, स एवेत्यर्थः। अन्योऽपि तत्र महान् अस्तीत्याह 56. विन्ध्येति। स्तम्भः स्तम्भनम्, खर्वींभूतस्य पुनरनुत्थानकल्पनम्। विन्ध्यस्तम्भादिति पादुकासहस्रपद्यमत्र प्रत्यभिज्ञेयम्। दीप्तोदराग्नित्वमत्रोक्तो विशेषः। तत्रानुक्तं महिमान्तरं नाकेत्यादिना। नाकाधीशमिति न द्वितीयान्तम्, अनन्वयात्। किन्तु नाकाधीशदिति शत्रन्तं नहुषविशेषणं समस्तम्। नाकाधीश इन्द्रः। स इवाचरतीति आचारर्थे क्विपि नाकाधीशतीति रूपम्। नाकधीशन् यो नहुषः तस्य भुजगीकारः-सर्पोभवेति सत्यः शापः, तेन दुर्वारशक्तित्वेन सर्वविदितः अगस्त्यः। ब्रह्मपत्यम् चतुर्मुखस्य पुत्रः। स एव कारणान्तरात् पुनः कुम्भ्यां मैत्रावरुणवीर्यवशात् आविर्भूतः कुम्भीसूनुरिति च प्रथितः। यथा वसिष्ठो ब्रह्मपुत्र एव सन् पश्चात् तदैव मित्रावरुणवीर्यजोऽपि तद्वत्। उक्तमुपलालयन्निति विवेक विशेषणम्। तर्कोक्तमेव स्वयमप्यादरात्त कथयन् मानयन्नित्यर्थः। सः अगस्त्यः। कथमिति अगस्त्योदयकालस्य व्यवस्थितत्वादिति भावः। निगमाः ऋगादिवेदाः। द्रमिडनिगमाविर्भाविर्भावोपर्योगितया द्रमिउभाषासंस्करणमप्येपदुपज्ञमिति महिमाधिक्यमस्य। कर्णधारः नाविकः। वशादिति पाठः। इव नः इति पाठे स्वयमिति पदस्योपरि सद्भावात् नः इति पदच्छेतो रङ्गे उच्चारणकाले न स्पष्टः स्यात्। कतकनिभांशुरिति इतरवैलक्षण्यम्। अगस्त्यनक्षत्रं तद्वर्णमिव। यथा कतकबीजं वारि प्रसादयति, तथाऽयमाविर्भवन् वारि सर्वं प्रसादयतीति॥ तर्कस्तस्य तदनुयायिनाञ्चाश्रमान् दर्शयति। तत्त्वविद्याम् अध्यात्मविषयप्रतिपादकोपनिषदादिकम्। प्रथपादो दैवानुकूल्यदशीं, द्वितीयो ज्ञानविशेषदर्शीं, तृतीयो योगसिद्धिगर्शीं।सैन्धुरः सिन्धुराणां गजानां संबन्धी। इवकारः विवेकसंमत्यज्ञानाधीनानिर्णयसूचकः। मुनिपत्नीनां सहधर्मचारिणीत्वं श्लाघते इहेति। - अस्यापि मलयस्य त्याज्यतां विविच्य दर्शयति एलेति। नदी ताम्रपर्णीं। कच्छशब्देन तत्तीरग्रहणं सुकरम्। समुद्रानूपदेश इत्यप्याहुः। उपकष्ठस्थली समीपदेशः। इमाः सर्वदा कामाग्निदीपकाः। संधुक्षकान् वृद्धिकरान् अन्यानप्याह काले इति। भोगिनां दर्शने कामभौगे रुचिजीयेतेत्यपि दर्शयति कुञ्जानीति। लतागृहाणीत्यर्थः।
- सारस्वतानाम् अर्थतः सर्वेषां बाङ्भयानां वेदादीनामपि सारः, शब्दतोपि द्रमिडभाषाशब्दसंदर्भाणां सारः। शान्तिदेव्या उत्कृष्टमन्तःपुरम्। आयामिनीभिः दिर्घाभिः अनुस्यूताभिः स्वगुणानां सत्त्वादीनां विततिभिः प्रपञ्चैः बन्धं कुर्वतीं मूलप्रकृतिं धयन्ती पिबन्ती अवन्धिकां कुर्वती शठरिपुदिव्यसूक्तिः निधानं निधिं भगवन्तं प्रत्यक्षं दर्शयेत् नः। कीदृशम्। पारम्परीतः जननमरणपरम्परया पारप्रापकत्ववत् तस्यैव पारत्वोक्तिर्वा। जनानां न इति नान्वयः, तदा जनानामित्यस्य वैयर्थ्यात्। यथास्थानं पृथगन्वयस्योचितत्वाच्च। प्रत्यक् इन्द्रियागोचरस्वान्तर्यामि। रमासंनिध्यं प्रतिनियतं परव्यावृत्तं सार्वकालिकं यत्र तत्। प्रत्यक्षयेत्। प्रत्यक्षशब्दः प्रत्यक्षज्ञानविषयपरः। अस्मत्प्रत्यक्षविषयीकुर्यात्। गाथाप्रभावात् भगवत्साक्षात्कारः प्रकृतिबन्धविनिर्मोकश्च भवेदिति तर्कस्य यथार्थं ऊहः।
विवेको वकुलभूषणमुनिं प्रणमति 62.। अयं जनः– भवन्मज्जनानां जनानामित्युक्तेषु जनेष्वन्यतमोऽहमित्यर्थः। किमपि नेत्रं धर्मभूतज्ञानात्मकम्। निरञ्जनं दर्शनसादनाञ्जननिरपेक्षं दर्शनादिप्रतिबन्धकपापरहितं यथातथा उन्निद्रयन् उन्निद्रयितुं विकासयितुं शठजिते नमस्यति। नमस्कुर्मो नृसिंहायेत्यत्रेव कर्मत्वाविवक्षया प्रणामप्रतिसंबन्धित्वविवक्षया चतुर्थीं। नमः स्यति इति पदविभागेन नमश्शब्दार्थ प्रणामं स्याति निक्षिपतीत्यर्थविवक्षायां तु नमश्शब्दयोगादेव चतुर्थीं। नरकवैरी श्रीकृष्णः। स जीवातुः जीवनौषधं यस्य तस्मैः। “कण्णन् कण्णल्लदु ईल्लैयोर् कण्णे” इति तद्गाथा। यद्वा नरकवैरिणः कृष्णस्यापि जीवातुः। स्वरूप रूपगुण विभूत्यपलापिभूयिष्ठेऽत्र यद्यं प्रादुर्भूय दिव्य प्रबन्धान् नाविरकरिष्यत्, कृष्णोऽयं कलाविह नाजीविष्यदिति भावः। अगस्त्यगिरेः मलयस्य या नदीं ताम्रपणीं, तस्याः सुभगानां वीचिकानां सोदर्यः तद्वदुपर्युपरिनिस्सरन्त्यो मधुराः वाचः स्वलक्षणाः असाधारण्यः। स्वमेव यासां लक्षणं निरूपकं ताः इतरविलक्षणा इति वा। स्वस्य शठकोपमुनेश्चिह्नवत्त्वाद्वा स्वलक्षणाः, प्रतिदशकं स्वनामनिर्देशात्। तादृशसरस्वत्या सुरभीणि केसरकुसुमानि। स्वाभाविकगन्धानां वकुलानामपि एतत्सरस्वतीसंपर्कात् गौरवातिशय एव गन्धातिशयः। कुरुकापुरीशं जगदादित्वेन जगदुपकारकत्वेन जगदुपकारकत्वेन वर्णयन्नयं श्रीमन्नारायणपारम्यं स्थापयामास। तदाकर्मनानन्दतुन्दिलान्तः करणाः महान्तः अनुरूप केसरकुसुममालया श्रीशठकोपमुनिममानयन्। इदं तत्रैव भाग्यां आविष्कृतं 4-10-11. पद्ये। तत्त्वज्ञबृन्दसमर्पितया केसरमालायाः श्रैष्ठ्यमालोच्य तच्छ्लाघनाभिप्रायेण तथा गाथायां निरदिशदिति सिद्धं मुनेस्तच्छ्लाघित्वम्। तथा परकृतश्लाधावत्त्वादपि श्लाघी। तस्मै। केसरश्लाघाः श्लाघकाः ये शिष्याः तद्वते इति वा। अथ तर्को वनाद्रिं ततो दक्षिणमागे दर्शयति। - वृषाचलम्। वेंकटाद्रेरिव तस्यापि वृषभगिरित्वेन प्रसिद्धेः। हरेरित्यस्य मञ्जीरेऽन्वयः। नृत्यदिति। नृत्यता चन्दनगन्धं वहता वायुना नियमेन व्यालोलाग्रभागा या अटवौ। यद्वा नृत्यतां चन्दनानां या गन्धवाहनियत व्यालोलचूडा अटवी इति। व्यालोलत्वं चूडाटवी पर्वतशिखरगताटवीति वा। उपत्यकावनशाखया चन्द्रताडनायोगात् चूडेत्युक्तम्। व्यालोलत्वं शाखानां वा। सुधाधाराया अनवरतपातेन नूपूरगङ्गा वर्धमानैवास्ति। कदाचित् क्वचिद् देशे भगवत्पादादाविर्भूय पश्चात् हिमवज्जलेनैव पूर्यमाणगंगापेक्षया तन्मञ्जीरोत्पन्नायाः अजस्रममृतपूर्यमाणाया अस्या अतिशय इति भावः। शाखाताडितेत्याने नाचलस्य तावदुच्चत्वमदर्शि। अमृतधारासंबन्धस्यातिवादत्वेऽपि वस्तुसतः गंगोत्कर्षस्य हेतुचिन्तामात्रमिदमिति न तदंशस्याभावः शंक्यः। सर्वतः उपरितनलोकेष्वलपि। 64. श्लोकोऽयं दयाशतकेऽपि। उभयोरपि बृषाचलत्वात्। त्वया दृष्ट इति त्रिष्वप्यन्वेति। त्वत्कर्तृकदर्शनविषय इति स्तुतिः। त्वत्सहितभगवत्कटाक्षविषय इति परमार्थः। परमेष्ठी ब्रह्मा, अण्डान्तः परमस्थानवर्तित्वात्। अष्टाविति। सूर्यचन्द्र यजमान भूतपञ्चकानि रूद्रमूर्तयः। मृडानीपरिबृढः पावंतीपतिः। ननु मृडो रूद्र एव-तस्यैव परिबृढपदेन ग्राह्यत्वे शिरोवेष्टनं स्यात्। अतस्तदन्यग्रहणप्रसक्तौ महान् दोषः स्यात्। मैवम्। मृडस्य पत्नीभूतया तया पुनर्जन्मन्यपि स एव पतित्वेन वृत इति नियतपतिब्रतात्वप्रतिपादनार्थमेव तदुक्तेः। अन्योन्यस्यान्योन्याधीनमतिशयश्च दर्शयितुमेव प्रयोगः प्रसिद्धः। अतात्पर्यविदो दूषणं न काव्यदोषाय। वृषशिखरिणः वृषभाद्रेः शृंगारस्य अलंकारस्य। शृंगारीति पाठे तत्र लक्ष्म्या सह शृंगारवत इत्यर्थः। शुनासीरः इन्द्रः।
देवासुरयुद्धस्य नासीरे अग्रभागे गच्छन् सुभटः वज्रधारी शूरः। एवम्भूतस्सन् असुरपराजयेन स्वयमेव त्रिलोक्यधिपतिर्भवतीत्यर्थः। सर्वमिदं दयायत्तम्। 65. अदभ्रैः महद्भिः। हरिचक्रपदक्रमैः वानव्यूहपादप्रहारैरपि असीदन् अलब्धशैथिल्यः। नलसेतौ नलहन्तिनिबद्धतया नलसेतुत्वेन प्रसिद्धे निबिडम् अविरलं यथातथा यन्त्रितानां बद्धानां धरणिधराणां पर्वतानां शिखरनिकरेषु पार्श्वद्वयदृश्येषु आस्फालनेन प्रहरणेन मुखरतराः स्वभाविकादप्यधिकशब्दवत्यः ऊर्मयः तरङ्गः, तासां घोषेण जानपदकर्णरन्ध्राणि पाण्ड्यदेशजनश्रोत्राणि जर्झरितानि शौथिल्यं प्रापितानि यत्र तस्मिन्।
अविरलानां नालिकेराणां पङ्क्तिभिः परिवृतानि पूगवनानि तेषां कुहलिकाः मञ्जर्यः तत्परिमलेन रागवन्ति कृतानि पथिकलोकमनांसि यत्र। क्षुद्रकविकाव्यप्रचाराधिक्यात् प्रतिबन्धकोऽयं देश इत्याह 66. इत इति। अपटूनां भगवदैकान्त्यरहितानां चित्ता नां षाटच्चराः अपहारकाः। पाटच्चरत्वं सूक्तिप्रचरणद्वारेत्याह द्रुतेति। द्रुहिणसुन्दरी ब्रह्मपत्नी सरस्वती। तस्याः द्रुतसंचारवशात् क्वणतोः नूपुरयोर्ध्वनिसंततिस्मारका भवन्ति वाग्विलासाः। सूक्तीतिपदेन बाङ्मयस्य श्लघ्यत्वेऽपि योगनिरोधित्वादुपेक्षणीयतेति सूच्यते। निगमहृदयान्तरङ्गम् वेदवेद्यतम्॥ यथावददर्शने कारणमाह विवेकः अनवरतेति। उल्लोकः लोकातिशायी। चोलभुवः पवनानां वातानां लहरीभिः परम्पराभिः। चुलकिताः– स्वान्तःकृताः सर्वेन्द्रियवृत्तयः। पवनलहरीणां गन्धरसमन्दध्वनिसुखस्पर्शभूयिष्ठत्वात्। आपातदृष्टीति। दृष्टेपि रङ्गे विशिष्व रङ्गमिदमिति स्फुरणं नासीदिति भावः। प्रागेव-भवदुक्तेः पूर्वमेव। द्रागिति पाठान्तरम्। अनुभूयमान कल्हारपरीतां काेवरीं रङ्गविशिष्टामनुभवति 67. निरातङ्केति। केवलकावेरीदर्शनं मनःक्षोभशङ्कावहम्। रङ्गविभूतितया तद्दर्शनं सकलभयनिवर्तकम्। निरातङ्का सती चुलक यति। निरातङ्कमिति क्रियाविशेषणं वा। रङ्गाख्येन विभानेनाध्युषितम् स्थानत्वेन गृहीततं ललितमुदारञ्च यस्याः पुलिनं ताम्। चिरक्लिष्टा उदासीनानेक वस्तुदर्शनजनितक्लेशा। यदृच्छया निद्राणेत्युक्त्या अस्य स्वयंव्यक्तत्वं सूचितम्। त्रियुगः षड्गुणो भगवान्। तस्य शय्याभूतस्य सर्पस्य छायाभिः जले भवन्तीभिः अन्तर्वतीभिः गर्भवतीभिः। छायागर्भिभिः वचींभिः परिवृताम्। कावेर्या उभयतः स्थातत्वात् छाया उभयते भवन्ति। श्रीरङ्गनाथं नाथते। कावेरीप्रवाहदर्शिनो मे करुणाप्रवाहपरिप्लुतत्वमस्तु इति प्रार्थना। 68. घनः निबिड
ः करुणारस एव ओघः यद्वा धनकरुणैव रसौघः-सुधायाः शीघ्रंलोपो माभूदिति तत्सेचनार्थं श्रेष्ठंरसद्रव्यम्। तत्पूर्णाम्। परितापहराम् लेपकद्रव्यस्यापि विलक्षणरसभरितत्वात् तापहरत्वम्। भगवत्कटाक्षधारायाश्च तापत्रयहरत्वम्। नयनमहश्छटां नेत्रकान्तिधाराम्। कटाक्षधारा पापजनितानां दुरपनोदानां दुःखानामनुभवेनात्यन्तदैन्यं प्राप्तानां प्रजानां दैन्यमालिन्वमार्जनी भवति, यथा रसभरिता सुधा लेपकद्रव्यं अग्निज्वालाकलनेन परितो धूमपुञ्जनिरस्तरप्रसरणेन कृतं सौधमालिन्यमपुनर्भवमपोहति। ततो वर्णाप्रदुभावः। दुरितानामग्नित्वेन तज्जन्यदुःखानामग्निजन्यधूमादिकृष्णवस्तुत्वेन, विश्वस्य सौधत्वेन, कटाक्षधारायाः मालिन्यापनोदक सुधात्वेन, करुणारसस्य सुधानिषिक्तरसद्रव्यात्वेन च रूपणाम्। अयमुत्तरश्च श्लोको न्यासतिलके। 69. लास्यम्, इष्टमाप्त्यानन्दताण्डवम्। त्वत्पदे दास्यं संमत्य किकरो भवेयम्। कदर्याश्रपाम् क्षुद्रैः क्रियमाणाम् ऐहिकभोगाशापरीतजनादृताम्। अल्यस्याप्यढ्यस्य दातुमनिच्छतो मुखस्थितिं वर्णयति मीलदिति। स याचकादर्शनं प्रथमं नाटयति, याचकस्वरे श्रुते भ्रुवौ कुटलयति। तावतापि तदनपगमे मीलन्नेत्र एव कोसावित्यपश्यन्नेव धनदानप्रतिनिधितया अवमानाक्षराणि अनायासेन ददाति। अक्षरलक्षमेवम्। याचकस्य प्राणापायोऽपि शंकनीय इव, तथा मीमांमुखम्। भिक्षा न भविष्यतीति ज्ञातत्वादपि विलक्षता विह्वलत्वं व्रीडितत्वञ्च। एवमपि याचको दुराशया निक्षिप्तां दृशं नापसारयतीत्याश्चर्ययिदम्।
पूर्वं यादवाद्रेरधिगुणत्वमन्वमंस्त। श्रीरङ्गमिदानीमनुमन्वान एव पृच्छति विवेकः। आद्यमिति। “आद्यं स्वयं व्यक्तमिदं विमानं रङ्गसंज्ञितम्” इत्युक्त्या आद्यत्वम्। चोलदेशे तद्विजयः स्यान्नाम पश्चात्। शिखण्डकः शिरोभूषणम्, यथा मयूरस्य शिरसि तस्य कश्चित् प्रतीकः। तन्मण्डलान्तर्गतं सत्यव्रतक्षेत्रं दर्शयति 70. किमपीति। किमपि मुक्तिक्षेत्रेषु मुख्यम्। तत् कथं ज्ञायत इत्यत्राह विबुधमुख्यैरिति। देवश्रेष्ठैः विद्वद्वरिष्ठैश्च। काञ्चीपूर्णादिभिः श्रीभाष्यकार-श्रीवत्सांकार्यं-वरदार्य-वादिहंसाम्बुदाचार्यादिभिश्च हि सेवितम्। सत्यव्रतेति। अत्र संकल्प्यानुष्ठितं सर्वं संपूर्णफलकं भवतीति तथा। विबुधेत्याद्युक्तमुपपादयति पाश्चात्यचरित्रमुखेन निजेति। निजः स्वकीयः सुतः नाभिजः तेन कृते अस्वमेघे दिव्यः परमपदस्थः नित्यसूर्याख्यदेवाधिराज आविर्बभूव। तेन ब्रह्मणा त्यक्तदेवतान्तरेण निप्कामं भगवदाराधरूपेण हयमेधोऽनुष्ठित इति तदाऽऽविर्भूतभगवत्सांनिध्यातिशयात् परमैकान्तिनां परम्परा निरन्तरवासस्थानमासीदित्यभिसंधायाऽऽह अयंखल्विति। 71. आत्मैक्यमिति। एक एव लोके आत्मा, न जीवपरभेद इत्येकं मतम्अ। आराध्यासु देवतासु मूर्तिभेदमात्रम्, एको देवः सर्वभृतेषु गूढ इत्यन्यन्मतम्, नरतिर्यक्स्थावराः सन्ति जीवा अन्ये इति। त्रिके ब्रह्मविण्णुरुद्रत्रये समधिगता प्राप्ता तुल्यता, तेषां भिन्नभिन्नात्मत्वेऽपि ऐश्वर्यसाम्यम्, सुतरां देवानां भेद इति परम्। समधिगतेति पाठः श्रीमद्रहस्यत्रयसारे आचार्यकृतविवरणानुगुणः। अत्र त्रिकात् समधिकता उत्तीर्णता ईश्वरस्येत्येकः पक्षः त्रयाणां तुल्यतेति पक्षान्तरमिति व्याख्यान्ति। त्रयाणामैक्यम् त्रिमूर्त्यात्मन एकत्वम्। अन्यत्र ब्रह्मरुद्रादिभ्यस्त्रिभ्योऽन्यस्मिन् ईश्वरत्वमः। आदिना ब्रह्मरुद्रान्यतरस्मिन् ऐश्वर्यं गम्यते। इमानि मतानि सन्तः एतत्क्षेत्रे स्थिताः ज्ञानिनः (श्रीभगवद्रामानुजादयः) नाद्रियन्ते। एवं वादिनामनैपुण्यं निपुणपक्षनिरूपेणन ज्ञापयति त्रय्यन्तैरिति। एककण्ठत्वमेकार्थबोधकत्वम्। कारणवाक्यैककण्ठ्यं गतिसामान्यसिद्धम्। उपासनावाक्यैककण्ठ्यं विश्वंनारायण इति नारायणानुवाकवेदितम्। ब्रह्मरुद्रादिपदानां तदर्थकत्वं तत्रान्तर्यामित्वमुखेन दर्शितम्। अन्तर्यामिब्राह्मणेन च। कारणोपास्यैवयं कारणं तु ध्येय इति सिद्धम्। उपास्यप्राप्यैवयं तत्क्रतुवचनोक्तम्। अतः श्रीमान् नारायण एवास्मत्तो देवतान्तरतश्च भिन्नस्सन् सर्वेश्वरत्वादिमानिति। आत्मैवयादिपक्षेषु अपवर्गे यथार्हं भेदोऽस्ति। व्यासमुख्येति व्यासप्रभृतीनामित्यर्थः॥ अत्रत्यानां वैदिकाग्निसाध्ययज्ञाद्यनुष्ठानपर्यन्तमाभिजात्यं दर्शयति इहचेति। उपरीवात्रापि कश्चिदिति काव्यकर्ता श्रीदेशिक एव ग्रहीतुं शक्यते। मुनिपरीषदनुगृहीत इति सर्वधर्मशास्त्रार्थवेदित्वविवक्षया। यज्ञानुष्ठानलब्धप्रसिद्धौ वंशे स्थले च जनित्वा हन्ताहमाधानार्हो जात इति निर्विष्णं प्रति महान् कश्चिदाधानयजनयोरनुमतिं ददाति। 72. प्रायश्चित्तानां बहुविधानां विशिष्य सद्भावात्, सामान्येन प्रणिपातादेरनन्यगतिकविषये सत्त्वाच्च न भेतव्यम्। पूतो भविष्यसि, आधानयजनार्हश्चेति। प्रभुतरेति प्रभुशब्दः प्रभूतशब्दवत् अधिकवाची। पाठान्तरं वा। प्रजानामनुपधिसुहृत् इत्यनेन रागद्वेषमूल-परानिष्टपर्यवसायिकर्मौन्मुख्यनिरास उपदिष्टः। यजेथाः भगवन्तं निष्ामयज्ञैराराधयेरिति। प्रभुत (व)रेति राजसंबोधनं वा प्रजानामिति पदसत्त्वात्।
द्विरदेति 73. द्विरदशिखरी हस्तिगिरिः। तस्य सीमा अग्रभागः। तेन सद्मबान्। अधोभागे नरसिंहे वर्तमाने अग्रभागं स्वस्थानत्वेन स्वीकृतवान्, तदर्थं स्वनाभिकमलोत्पन्नब्रह्मकर्तृके अश्वमेघे वेद्यां निक्षिप्ताग्निमध्ये लोहिततद्रूपवैलक्षण्येन श्यामलरूपेणाऽऽविर्भूय अग्निरित्येव भावितः समर्पितानि सर्वाणि हव्यानि स्वयमेव गृहीतवान्, कल्पवल्लीभूताया- लक्ष्म्याः स्वस्य च पुष्टस्य एव तानि स्वीकृत्य, तस्या महादेवीति नामानुगुणं कल्पशाखिनि स्वस्मिन् यथेच्छ प्रसरं विधाय, परमकारुणिक इति प्रसिद्धो निस्समाभ्यधिकः क्षेममस्माकं दिशात्विति। अग्नित्वार्णवत्ववृक्षत्वादि समावेश एकत्र। संसारेति। न्यासविंशतावयं श्लोकः वेगप्रशमनेत्युक्त्या देहावसानपर्यन्तेषदनुवृत्तिः सूच्यते। देशिकप्रेक्षितः देशिकोपदिष्टमन्त्रतदर्थज्ञानवान्अ। अन्यैरुपायैरिति मुक्त्युकपाय भूतेषु गुरुषु भक्तिमार्गेषु कुत्राप्यनधिकृतत्वमुकत्म्अ। त्यक्तोऽहमित्युक्त्या आकिञ्चन्यानुसंधानलाभः। अद्य- अनुकूलेन भाव्यमिति संकल्पसमये। तेनानुकूल्यसंकल्पोऽप्युक्तो भवति। अनुचितचरितेषु प्रतिकूलकार्येषु अभिसंघिहीनः। तत्वदृष्ट्या पुरुषकार-संबन्ध-गुण-व्यापार-प्रयोजनेषु स्थितानां विशेषाणां यथावत् ज्ञानात् शंकापञ्चकराहित्यात् महाविश्वसवान्। संरक्षकं प्रार्थ्य गोप्तृत्वेन वृत्वा। एवमङ्गपञ्चकमुक्तम्, प्रधानं भरसमर्पणमाह न्यस्येति। निजभरं मया कर्तव्यं मुक्तिमुख्योपायात्मकं दुष्करं त्वत्पदे न्यस्य-तदाज्ञाकारिणा त्वया मद्विषये तत्त्यागः संकल्प्यः इत्याशयेन समर्प्य निर्भरः तदनुष्ठानादावप्रवृत्तः। निर्भयः। उत्संगे भर्तव्यस्थापने हि भयं भवति। किं मोक्षो न भवेदिति भीतिरहितः। अपराघेषु प्रसक्तेष्वप्यल्पदण्डमूलं परिहृत्य रक्षेदिति च निश्चितमोक्षः। अस्मि लब्धसत्ताकः। एवं मुख्यप्रपत्तिपरत्वमुक्तम्। अंगप्रपत्तिपरत्वे तु तदनुगुणं भाव्यम्। इहोपरि भक्तिप्रस्तावात्। तदा च एवं बहुदेशसञ्चारेण सर्वत्र दोषं पश्यता विवेकेन झटिति हृदयमनुद्घाट्य प्रपत्तिबलेनैव साध्य उपाय इति मनसिकृत्य प्रपदनं क्रियत इति ध्येयम्।
सर्वतः श्रेष्ठायाः काञ्च्या अपि ध्यानस्थानतासंभवे विमर्शनास्पदे, किमतः कस्यचिद्दर्शनेनेत्यालोच्य सूतमाह दृष्टेमेवेति। सर्वत्राटित्वा स्वस्थानं काञ्ची साम्प्रतं प्राप्ता। अतो न किञ्चिदवशिष्यत इत्याशयः। मुख्यमेकमवशिष्यत इत्याह तर्कः इतश्च-अत्र च। अध्यक्षितमिव परमपदमिति। `वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः’ इति यत्र दिवि तिष्ठन् परमपुरुषः श्रुत्योक्तः, तत् परमं पदमिदमिवेति दृष्ट्वा निर्धारयन्ति। विश्रान्तिभूमिरिति। ततः परं द्रष्टव्यं न किञ्चिदस्ति, न चेदमुपेक्षणीयं भवेदिति भावः। भगवता स्वयमेवेति। मूर्तिस्वयंव्यक्तत्वं बहुत्र स्यात्। स्थानस्वयंयक्तत्वमप्यत्र विशेषः। तत्रापि न प्राकृतलोकादागतं किञ्चित्स्थानम्। परमपदगतः क्रीडाशैल एव श्रीवराहनियमनेनात्राऽऽनीत इति। हाटककूटं स्वर्णमयदिव्यविमानशिखरम्। विराजमानत्वं तत्प्रभाप्रसरवत्त्वं तन्मूलयोगक्षेमाश्रयत्वञ्च। कलीति। कलौ केंकटनायक इति प्रसिद्धेः। अपेक्षितसर्वफललाभात् अस्ति दैवमिति अतिक्षुद्रा अपि प्रतियन्तीति। वेेंकटाद्रिरिति। वें पापं कटति दहतीति संकटप्रशमनत्वम्। अमृतैश्वर्योभयं क्रमेण वेम्पदकटपदप्रतिपाद्यमिति च। हिमवत इव भगवत्पदप्रसृताकाशगङ्गादितीर्थबाहुल्यमेको विशेषः। अरण्यमृगाणामपि अद्भुतभगवद्ज्ञानम् अवैरसञ्चारश्चेत्यन्यत्र कुत्राप्यदृष्टो विशेषश्चेत्याह पारेशृङ्गमिति। पारेशृंगम् शृंगस्योपरि। पाथस्वीनी नदी आकाशगङ्गादिः। तस्याः पाथसो जलस्य पातपरम्परया अविच्छिन्नप्रसरणेन अद्भुतं सम्यगभिवृद्धं छायाफलभूयिष्ठं महारण्यं यत्र। शरण्ये सतामिति काञ्चीस्थोऽपि विशेषोऽस्तीत्युक्तम्। अरण्यत्वात् योगिनामादरणीयञ्च। नन्वरण्ये दुष्टजन्तूनां यथावद् विवेकेन परिपक्वा कर्तव्याकर्तव्यनिष्कर्षशालिनी धीः मनः येषाम्। परतत्वदर्शनमपि प्रतिदिनं भवतीति विशेषान्तरञ्चाह तत्त्वमिति। निर्वैरतः जातिवैरस्याप्यभावेनः। शास्त्रविहितश्रमसाध्यकर्मानुष्ठानमप्रतीक्ष्य कतिपयप्रार्थनावश एव भवन् सर्वं फलं प्रयच्छतीति अस्य सर्वेषु गुणेषु दयैव वृषाचले विशिप्यते। सेयं न क्षुद्रफलमात्रं ददाति, मोक्षमपीति प्रार्थकपुरुषप्रदर्शनेन प्रतिपादयति इहखल्विति। - मृद्हृदये। दयाया देवीत्वेन रूपणात् हृदयमप्यस्तीति भाव्यम्। वास्तवार्थस्तु मृदु भगवतो हृदयं यस्या अभिव्यक्तिस्थानं तादृशीति। मृदितः नाशितः कामो यैः तेषां निष्क्वामानां हिते भरस्वीकारेगोपायभूते! धृतविबुधे क्षुद्रफलसक्तदेवरक्षणेऽपि प्रवृत्ते! वितता विस्तता आत्मनः दयाया धूः बुधेषु आचार्येशु यया तादृशीति। भगवद्दयामहिमप्रकटनभारः सवौऽप्याचार्यैरुह्यते। तथाऽऽचार्यकल्पनमपि दयाधीनमेव। भवुकानां मंगलानां लोकक्षेमार्थव्यापाराणां निधे! भवस्य मूलं अहङ्कारादि, तद्धरत्वं दयादेव्याः। हरीमिति पाठे भवमूलहरभगवत्कटाक्षसंबन्धिस्त्रीत्वेन दयालहर्याः रूपणम्। ते लहरीं मयि निधेहीन्यन्वयः॥ पश्चाद्भाविफलं दयाधीनं दर्शितम्। तदेकं भगवत्साम्यम्। तद्वदेव साम्यात्मकमैहिकमपि फलमविशेषेण सर्वत्र दयाधीनं दर्शति। 77. निषादानामिति। धातुकानां नेतृन्वात् साक्षादिव बहुद्वाराऽपि हिंसकत्वेन पापातिशयः सिद्धः। अयं गुहः। अयं हि दोर्भ्यामालिलिङ्ग दाशरथिम्। कपिकुलपतिः सुग्रीवः। कापेयं चापल्यमधिकमस्मिन्। सालवृक्षच्छेदात् प्राक् स हि रामस्य पराक्रमे समशेत, शारणागतञ्च विभीषणं विसर्जयितुं व्यवास्यत्। कापि शबरी। गुरुशुश्रूषातिरिक्तं किमप्यज्ञातवती अतिनीचजातिः। गुहात् सुग्रीवो नीचः कृतप्रत्युपकारार्थमेव प्रवृत्तेः। शवरी च गुर्वाज्ञापालनार्थमेव तदभिमतं रामं प्रतीक्षितवती, न तु स्वयं स्वरसभक्त्या। रामावतारे इव कृष्णावतारेऽपि दर्शथति कुचेल इति। उग्रसेने सार्वभौमत्वप्रदस्य सर्वेश्वरस्य अत्यन्तदरिद्रकुचेलपरिचरणमत्याश्चर्यम्। परमयं ज्ञानी, नैवं कुब्जा दिव्यमंगलविग्रहलब्धमोहा। कुब्जात्वापाकरणे सुन्दरी साऽभूत् गोपस्त्रीणां कथं सौन्दर्यम्। यौवनानुरूपभोगमात्रप्रवण अपि तत्र बह्व्यः। माल्यकृत्तु माल्योपजीवनो न कृष्णार्थमेव मालां बबन्ध। यदृच्छया समागत्यापेक्षणे कृते तात्कालिकानुभवेनैवप तृप्तः। न पश्चात् कृष्णानुवर्तनं तस्य किञ्चिल्लक्ष्यते। तादृशेऽपि कियदौदार्यम्। यथा प्रवाहौ नद्यां प्रवहन् उच्चनीचस्थलानि समीकरोति तथा दया भगवत एषाञ्च साम्यमापदयामास निम्नत्वादिशमनात्। कियदस्योच्चत्वमिति चेत्- स हि गिरेरुपरिस्थितः॥ तथा चेदृशसुजनसार्वभौमस्थानं योगार्हमिति तर्कस्याशयः। सर्वमिदमंगीकृत्य प्रणमति विवेकः। पूर्वश्लोकद्वयवत् दयाशकस्थं विश्वोपकारमिति श्लोकान्तरमपि प्रभावल्यां व्याख्यातम्। तत्तु नान्यत्र पठ्यते। अत्र तर्केणैव बहवः श्लोका उक्ताः, विवेकेन न किञ्चिदित्यत्र कारणं गवेषणीयम्। अन्यदप्येतदिति एकवचने सति समयसीत्येतदनन्तरं स विश्वोपकारमिति श्लोको न घटनमर्हति। अतः प्रणमतीत्येतदनन्तरं तेन श्लोकेन भाव्यम्। तथाच विवेकोऽस्य वक्ता। तदा समुचितार्थलाभश्च। कथमिति चेत्-हे दये! तर्कानूदितश्लोकद्वयोक्तप्रकारेण विश्वोपकारप्रवृत्तां त्वामिदानीमप्यहमवधीरितवान्। यतः करिगिरिस्थलमात्रेण द्रष्टव्यदर्शनसमाप्तिं मत्वा त्वामुपैक्षिषि। एतदपराधक्षान्तिरपि भवत्यधीनेति। परंतु प्रणम्येत्यप्रयोगात् प्रणमतीति प्रयुक्तत्वात् एतत्पाठे विवदेरन्अ। पञ्चसप्ततितमश्लोकानन्तरं सर्वं विवेकवचनं वा॥ अथ तर्कः एषु त्रिषु स्थलेषु दोषानाविष्कारमालक्ष्य एतदन्यतमादरविधित्सया सामान्येनाह श्रीरङ्गमिति 78. कोयिल् तिरुमलै पेरुमाल्कोविल् इति व्यवहारक्रमेण स्थाननिदेशः। नपुंसकमनपुंसकेनेति दृष्टानीत्युक्तम्। द्वितीयपादोऽप्येतद्विषयः। प्रजेशार्चितत्वादिमे देशाः केचिदेव दीव्यन्तीति। यत्रयत्रायमुत्कर्षः तत् तत् ग्राह्यमिति औषधाद्रिमुखस्थलान्तरसमुच्चयो वा। कलिक्षोभकत्वमेषामस्तीत्याह प्रत्यप्रेति। प्रत्यग्रं नवं यथातथा, इतः पूर्वोदित प्रकारविलक्षणतया उदितो घोरः भयङ्करो यः कलियुगस्य क्षोभः, तन्निरासकेषु। आर्यावर्तनन्तर्भावेऽप्यादरणीयतायां प्रमाणं दर्शयति स्मर्यते चेत्। तत्रतत्रेति। जितेन्द्रियगणो नरः न रमत इति नरः विरक्तः। तदध्युषिते देशे स्थलभागः कुरुक्षेत्रम्, वनभागो नैमिशारण्यम्, जलभागः पुष्करमिति रीत्या भाव्यम्। एतावतापि परिभ्रमणेनोद्दिष्टस्थलालाभं दर्शयन् विवेकः स्वाशयमाह 79. परिक्रान्तेति। गतिः– उपायः। आदिमयुगक्रिया कृतयुगकार्यं। ध्यानमिति यावत्। नन्वसति अनघे स्थाने कथं दर्शनं साध्यं स्यादित्यत्र दृष्टानामेव स्थानानां भगवदनुग्रहविशेपेण तदातदा सत्स्थानत्वं संभवतीति निर्धारयति संभवन्तीति। शरणागत्या अन्तरायशमनं विशेषवचनाभावेऽपि सिद्धम्, विशेषवचनमप्यस्तीत्याह अपिचेति। अथ बाह्यानि विहाय आन्तरस्थानमेवाद्रियते अथवेति। ननु योगानुष्ठानौपयिक बाह्यदेशन्वेषणपरस्य शीतगीतगन्धादिदोषेण सर्वत्यागिनः तत्स्थाने कथमान्तरं हृदयमुपकरिष्यति। न हि स्वहृदये स्वयमासीनो योगं कुर्यात्। अतो द्ष्याणि बाह्यानीत्युपेक्ष्य आन्तरमदूष्यं ग्राह्यमिति कथमुच्यते इति चेत्-नायं ग्रन्थार्थः। यथा च सर्वमन्वितं भवति, तथा व्याख्या यते एवम्– बाह्यानां क्षेत्राणां परिष्करणं शरणागत्या तदातदा क्रियमाणयेत्युक्त्वा एवंकरणेऽपि मनसोऽशोधितत्वे धारणाद्ययोगात् तदेव कार्यमित्यध्यवस्यति अथवेति।
- बर्हिभूतैः अस्मदनधीनैरेतैर्देशैः नानाविधविध्नविषमितैरलम्। ननु तेषां पुण्यक्षेत्रत्वेन प्रसिद्धिः फलप्रापकत्वप्रसिद्धिश्च वर्तत इत्यत्राह यदृच्छेति। केनचित् महता, `तत्र गत्वा तपः कुरु फलं प्राप्स्यते’ इत्युक्ते त्वेन च तथाकृते फले च लब्धे, तावता सर्वे फलं प्राप्नुयुरिति कल्पनाऽऽसीत्। यदृच्छया दैवगत्या भवन् यः संवादः यथोद्देशप्राप्तिः तेन गुणवत्त्वविख्यातिः प्रचिता प्रसिद्धा। न तावाता सर्वेषां फलनिश्चयः। तस्मात् तैरलम्- तत्परिष्करणार्थशरणागत्यनुष्ठानमनपेक्षितम्। किन्तु अवश्यकर्तव्यमनस्संस्करणमेव कार्यम्। अतः शरीराद्बहिःष्ठानि विहाय शरीरान्तर्गतं संयमस्थानं मन एव नियन्तव्यम्। यद्यपि तद् दोषभूयिष्ठमेव तथापि एतावता कालेन कामदम्भादिजयेन प्रत्याहारपर्यन्तेन प्रतिक्षिप्तावद्यमेव संप्रति मनोऽस्ति। भगवत्स्वरूपरूपगुणविभवचिन्तनरूपारम्भणसंशीलनात्मकप्रवरगुणभूयिष्ठञ्च वर्तते। तदिदमितोऽप्यधिकं नियच्छामि। एतदर्थैव शरणागतिरलम्, किं तत्तद्बाह्यपरिष्करणरूपगजकौपीनाच्छादनतप्रयासेनेति भावः॥ `मयोमयो भारूप…. एष म आत्मा अन्तर्हृदये’इत्यभिनन्दनीयरूपेण सौलभ्यकारुण्यसागरेण भगवता स्वोपासकसमीप एवावस्थाने क्रियमाणे तत्रत्यं विहाय दूरस्थतत्तदर्चारूपादिकम् अयोगिभिरादरणीयं किमिति द्रष्टव्यं ध्यातव्यं वेत्याशयेनाह किञ्चेति।
- अदूष्यमिति। प्रतिष्ठाद्यधीनसांनिध्ये बाह्ये स्थाने देशकालदशावैपरीत्यबाहुल्याद्दूष्यत्वं प्रतिकलं संभाव्यम्, नैवं हृदये। बाह्यविषयसंसर्गाधीन उपप्लवो न हि हृदये। यस्तु ततद्विषयचिन्तनाधीनउपप्लवः, सोऽवश्यं योगिना बाह्यस्थानपरेणापि परिहार्य एवेति॥ प्रत्याहारपर्यन्तस्य निष्पन्नत्वात् बाह्येन्द्रियैर्नोपप्लवः। मन एव तु वासनाभूयिष्ठं नियन्तव्यम्। तत्रेदं श्रोतव्यमित्याह इदमपीति। वने शैले स्थितस्तीर्यैरभिषिक्तो भूत्वा तपसा दोषं क्षपयेदिति किल मन्यते। अत्रैवास्ति तत् सर्वमित्याह 82. शुद्धेति। आचार एव तपोवनम्, प्रज्ञैव शैलः, पद्माकान्तपदाप्राप्त्याशैव तीर्थम्, वेदान्तार्थचिन्तनमेव तप इति। बाह्यमन्यत् सर्वमिदं विना न कार्यकरम्, तद् विना तु समर्थमिदम्। अत एव वनशैलादिलभ्यफललाभात् कस्मै कुत्र गमिष्यति। कस्मै च निर्देक्ष्यति। अन्यानि वनशैलादीनि तु मुमुक्षुभ्योऽन्येभ्योऽपि हितपरेणावश्यं वक्तव्यानि। तथा च जनसंमर्दे ऐकान्त्यहानिः। इदं तु वनादिकं पुरुषभेदेन भिन्नत्वात् अन्यापेक्षणप्रसक्त्यभावात् न कस्मैचित् ग्राह्यत्वेन वक्तव्यं भवेत्। तैस्तैः पृथक् पृथक् वनादिकल्पनात् उपप्लवो नास्तीति। आलम्बनचिन्तनरूपं मौनमुपाय उक्तः। अथ मुख्यमन्यदाह अपिचेति। 83. मुक्त्युपासनशेषभूतं शुभाश्रयोपासनमेतत्पद्यार्थः। पूर्वोक्तभगवत्पादप्राप्त्याशारूपगङ्गाविलक्षणमन्यदपि तीर्थं सर्वतीर्थातिशाय्यस्तीति भणितं पूर्वार्धेन। इतरतीर्थवैलक्षण्यमेव तृतीयपादविवृतम्। ग्रीष्मे शीतमिवेति अत्यन्तदौर्लभ्यसूचकम्। “एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम्। शमामि परिनिर्वामि सुखमासे च सर्वदा” इति श्रुतिरित्याहुः। आह हि, “यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः। तेन चेदविवादस्ते मा गंगा रमा कुरून् गमः” इति। तदत्र श्लोकद्वयेपि विवक्षितम्।
तथा च निर्दोषस्थानदौर्लभ्यात् यत्र क्वापि प्रियस्थाने स्थित्वा सत्कर्म-मनन-प्रपदन-भगवद्विग्रहध्यानैर्मनः संयमभोग्यं कुर्यादिति एतदङ्कसारः।
इति श्रीवात्स्यवीरराघवाचार्यकृतौ
सर्वसाक्षात्कारे षष्ठोऽङ्कः।
**********************************************************
.
सप्तमोऽङ्कः
शुद्धविष्कम्भः
[ततः प्रविशति संस्कारः]
ध्यानस्थाननिर्धारणमासीत्। सप्तमेऽङ्के ध्येयमूर्तिनिर्धारणं क्रियते। तच्च सर्वमूर्तिपरिशीलनपश्चाद्भावि। मूर्तीनां दर्शनेनैव परिशील्यत्वात् असंनिकृष्टानामावेख्यग्वारैव द्रष्टव्यत्वात् शिल्पिमुखेन चित्राणि निर्माय तत्र युगपत्सर्वदर्शनेन निर्धारणीयम्, यदिष्टम्। इह तु पुरषेण शास्त्रमुखेन मूर्तीरनुभूय संस्कारपाटवे स्मृत्वा तारतम्यशीलनेन समुचितमुपादेयम्। अतोऽत्र संस्कार एव शिल्पीचिन्तनैव भित्तिरकल्प्यत। विष्कम्भे चित्रशालायां शिल्पिकृत सर्वचित्रावलोकनोपयोगी संनाह आविष्क्रयते। अमुष्यापत्यम् आमुष्याणः। अमुष्येति स्थलभेदभिन्नपितृग्रहणम्। अनुभवस्यामुष्यायणः अनुभवामुष्याणः। अदश्शब्देनानुभवग्रहणमतः सिद्ध्यति। अनुभवपुत्र इत्युक्तं भवति। अनुभवजन्यः स्मृतिहेतुर्धर्मः संस्कारः भावना। अस्य सर्वविषयकत्वमस्तीत्याह शिक्षितसर्वविद्याकलाप इति। विवेकस्य शिल्पीति वक्तव्ये मध्ये एतत्प्रयोगः विवेकशिल्पिषु बहुषु शिक्षितसर्वत्वरूपविशेषाक्रान्तः शिल्पी अहमिति ज्ञापनाय। विश्रमाभिलाषी। तत्तद्विजयार्थनानाशिल्पविशेषविधानप्रयासाधिक्यात्। तावदित्यनेन चिरकालाभावे पराशक्यत्वमुच्यते। मध्यमचरमगुणौ रजस्तमसौ। तमोगुणो मधुः, रजोगुणः कैटभ इति प्रमाणे। अत्र तयोर्दृष्टान्तत्वमात्रम्। असाविति स्वस्यैव ग्रहणम्। जिघांसितः हन्तुमिष्टः। अप्रबुद्धता सुषुप्तिः अनवधानञ्च। प्रबोधित इति। सुमत्याऽहं तद्दासीद्वयमुखेन प्रबोधं प्रापितः। उपभजयाधीनश्रमकृतस्य स्वापस्योभाभ्यां प्रतिबोधने सत्येव निवृत्तिरिव। सहदृष्टिः समानवस्तुदर्शनम्। तदपि तुल्यवस्तूपस्थानपकम्। लोके संस्कारोद्बोधस्य एतदुभयायत्तत्वात् एनयोः प्रबोधकत्वोक्तिः। दासीभ्यामित्यत्र वाक्यसमाप्तिनिर्णायकः उपरि तदिहेति पाठः साधुः। प्रतिपक्षे रजोगुणे तमोगुणे च। तदित्यस्य स्वामिसंमतमित्यर्थः। अनुष्ठानस्य आवश्यकत्वमाह अवसरेति। ममाधिपत्यं मयि अनुकूलवृत्तिमत्येव स्यादिति। कुत्र कियल्लिखितमित्यत्राह 1. विदुष इति। वदुषः विद्यानिष्ठस्य या चिन्तना धर्मभूतज्ञानपरिणामविशेषः तां भित्तिं कृत्वा शुद्धाशुद्धविभागार्हं अप्राकृतसृष्टिरूपशुद्धवस्तुप्राकृतसृष्टरूपाशुद्धवस्तुरूपाणां विभज्य निर्देशानुगुण्येन लिखितमिति। सर्वतः सर्वत्र सर्वाणि चित्राणि। सर्वेष्वपि चित्रात्मकेषु अन्यादृशेषु च। अतिशेते इतरातिशायि भवति। अत्र सर्वं स्थलान्तरस्थसर्वविलक्षणमित्याह इहचेति। 2. स्थानं भित्तिः। विलेपः तत्तद्वर्णद्रव्यनिवेशः सान्द्रं निबिडं यथातथा संपृक्तः। रेखा तत्तदाकृतिदर्शनार्था रेखा। सूत्रपातः चित्रलेखनात् प्राक् तद्व्यवस्थाकं सूत्रमूलचिह्नकरणम्। वर्णः रक्तपीतश्यामादिः। स्निग्धः चक्षुःप्रियः। सर्वोऽपि विशेषः तत्तद्वस्तुस्वरूपानुरूपः। शंके मन्ये। स्थितेऽपि निश्चये आपरितोषाद्विदुषां साधुत्वनिश्चयायोगात् शंके इत्युक्तम्। आजानसिद्धेति जन्मप्रभृतिस्थितेत्यर्थः। स्वाभाविकशक्तिहीनः शिक्षानर्ह इति भावः। शिक्षातारतम्येन क्रियातारतम्यमप्यस्ति। शक्तिस्तु आधारभूता। शिक्षाधिकं कौशलं स्वस्याह यद्वेति। तत्र दैवप्रसाद एव कारणमिति निरहङ्कारमाह अवताराणां प्रसादादिति। अद्ययावत् एतद्दिनपर्यन्तम्। एवं स्वकौशलं सम्यक् संपतिञ्च पश्यन्नपि शंकते पारतन्त्र्यात्। पुनः प्रत्ययमवलम्बते अथवेति।
3. मण्डणोऽयं विलक्षणचित्रपूर्णः चित्तानि आकृष्य स्वस्मिन्नेव स्थापयति। सर्वलोकसंतोषकरत्वेन प्रसिद्धो यो विश्वकर्मा, तत्सामर्थ्यमपि एतच्छिल्पदर्शने असामर्थ्यायते। अतस्तस्य कातर्यं भयं जनयद्भिः शिल्पैर्मण्डपः दृष्ट्वणां चेतसः स्थितेरलङ्कारं करोति। चेतस्थितेरित्यास्य स्थितस्य चेतसः सर्वस्येत्यर्थः। तस्यालंकृतत्वं नाम गृहीतस्यात्यागेन सर्वदा तद्विषयकत्वम्। चेतस्स्थितेरित्यस्य पञ्चम्यन्तत्वे चेतसस्तत्रैव स्थितत्वात् चेतसो मण्डनं कुर्वन्तीवेत्यर्थः। चेतस्स्थितेरित्यस्य चेतसि वर्तमानस्य अन्तर्यामिणः मण्डनं शोभां जनयतीति तु व्याख्यान्ति। प्रयत्नकृतानि चित्राणि सन्तु, स्वयमेव चित्ररूपेण केचित् परिणमन्तीत्याह रत्नेति। रत्नस्तम्भेभ्यो निष्क्रान्ताः दीर्घाः किरणः ऊर्ध्वाधस्सोपानमध्येषु भित्तिवलभ्योर्मध्येषु च गवाक्षशलाकावत् पङ्क्तिशः पतिताः तानि स्यानानि गवक्षयुक्तानि कुर्वन्ति। विहितप्रत्यग्रचित्रक्रमाः—- नवीनगवाक्षचित्रतुल्याकृतिं विदधत इत्यर्थः।
परिजनकृत्ये कृतशिल्पदर्शनपारवश्यं विहायेति शेषः। खलूरिका मुखण्डपः। तस्य समीपभागाः स्वर्गस्त्रीभिः परिष्कृताः। ताः किमर्थमागता इति चेत्-सर्वेषामाश्चर्याणां समाहार एकत्र मण्डपे सम्यक्द्रष्टुं शक्यन्ते इति कौतुकेन ता आनीताः। युगपत्सर्वजनप्रवेशस्य दौष्कर्यात् समयप्रतीक्षाः सन्ति। महाराजः समागमिष्यतीति बहिर्निरुद्धत्वाच्च। ता आगताः स्वर्गमन्दारमालाः समर्पितवत्यः स्थलमलंकर्तुम्। ततोपि चित्रिता शाला। प्रतिफलनादिति। एका भित्तिः स्थानम्, अन्या तत्र चित्रम्। शिल्पिनं स्तौति। लोके संस्काराख्योगुणः प्रतिपुरुषं वर्तमानः वस्तुपरिचयतारतम्यानुरोधेन दार्ढ्यतारतम्यं लभते। दिविषद्भिः देवैः अनुविधेयः अनुवृत्ततया कार्यः। देवानुग्रहाभावे स्थितोऽपि संस्कारः समये उद्बद्धोऽपि न भवति। किञ्च दिव्यवस्तुविषयकश्चेत् संस्कारः, देवैरपि संपाद्यो भवति। अयमपि शिल्पी संस्कारवत्त्वात् शिल्पपरि चयाधिक्यात् प्रसिद्धिं गतः। शुद्धाशुद्धोमग्रशिल्पसामर्थ्यादस्य विश्वकर्माद्यतिशयो दैवैरप्यनुगम्यते। विश्वमेतदिति समस्तग्रहणात् तत्र चिरगतत्वं भूतकालिकन्वं नानुगतम्। भूतमपि वर्तमानवत् दृश्यमित्यर्थं उपरि वक्ष्यते च। अतः चिरगतमपि दृश्यमित्यस्य इतो बहुकालातिक्रमे जातेऽपि, भाविनि सुदीर्घे कालेऽप्येबमेव दृश्यं सुस्थिरवर्णविलेपमित्यर्थः। नन्वेतावद्वस्तुदर्शनं कुत्रानेन शिल्पिना कृतम्। अदर्शने कथमेव लेखनकौशलमित्यत्राह।
5.प्रमाणेति। शास्त्रजन्यविशदज्ञानं दर्शनतुल्यं संपन्नमिति भावः। अविकल्पतः विविधकल्परूपसंशयकोठ्यभावेन। भूतानि अतीतानि। भावीति भविष्यन्ति। भवन्तीव वर्तमानवस्तुतुल्यतया विभान्ति प्रकाशन्ते। भवन्तीति पाठेऽपि अस्माकं भवन्तीत्युक्त्या स एवार्थः। तिङ्न्तम्। भवन्तीति पूर्वपदं शत्रन्तम्। इदमिति। चित्रमणअडपस्थानमित्यर्थः। पक्षान्तरमाह अस्तीति। उपमानमिति शेषः। दहरगगनेति हह्राकाशपरमात्मोक्तिः। `तत्रापि दह्नं गगनं विशोकः,’ ``दहरोऽस्मिन् वन्तर आकाशः’इति श्रुतौ विशोकत्वोक्त्या गगनपदं ब्रह्मपरम्। अत एव निर्मलत्वात् प्रकाशमानत्वाच्च आकाशो ब्रह्म। तस्य “उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते।…. यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्"इति दहरविद्यायां सर्वाधारत्वश्रवणादिति भावः। विमृश्येति। दहराकाशमहाकाशयोर्निरवयवैकद्रव्यतया महाकाशवर्तिनामेव दहरवर्तित्वेन व्यवहारः, न तु हृदवच्छिन्नप्रदेशे सर्वस्य साक्षात्स्थितिरिति विचिन्य पूर्वोक्तस्य दृष्टन्तत्वं दुःस्थमित्यालोच्येत्यर्थः। कल्पान्तबालकस्य प्रलयार्णवे वटपत्रशायिनः कल्पनां सादृश्यम्। तत्रापि नित्यविभूत्यादिकं तत्र निविष्टं न वेति विचार्यमिति हृदयेन कल्पयतीत्युक्तम्। बाह्यानि साधनानि एतावत्साधनासमर्थानीति विचिन्त्याह नेति. 7. संतोषः लेखनीरूपतूलिकास्थाने, वर्णकरूपरञ्जकद्रव्यस्थाने च। उज्जगारेति। ज्ञानस्य वस्तुरूपेण विवर्तोऽप्यष्टव्य इवेति भावः। भृत्यप्रभावो भर्त्रधीन इति प्रशंसति सुमतिः नाथेति। राजा च सुमतिदृष्टिप्रसरं समुचितविषये नेतुमन्यत् स्थितमाह अशुद्धेति। 8. अशुद्धसृष्टिः ब्रह्यरुद्रादिप्राकृतपुरुषतद्विभवादिसृष्टिः। प्रवृत्तिधर्मनिष्ठानामेव तत्र प्रवृत्तिः स्यात्। तदाह भवभृदाश्रयमिति। संसारिचित्ररूपं संसार्यादृतञ्चेत्यर्थः। अधिकप्रतिकोटिस्थमित्यस्य संसार्यतिरिक्तरूप प्रतिकोटिगतं शुद्धविषयमित्यर्थं वर्णयन्ति। तदा चकारोऽध्याहार्यः। एवं शुद्धाशुद्धसर्वग्रहणे विश्वचित्रे इति सप्तम्यन्वयानौचित्यञ्च। अन्ये तु अधिकस्य उत्कृषस्य प्रतिकोटिगम्, निकृष्टमिति यावदिति अशुद्धविषयविशेषणतयैवाहुः। तत् युक्तम्। क्षुद्रमित्यर्थ इत्यन्ये। अधिकपदस्थात्यन्तार्थकतया अधिकप्रतिकोटिस्थमित्यस्य अत्यन्तबाधकं सर्वात्माना मुमुक्षूपक्ष्यं देवतान्तरादिविषयकमित्यर्थो वा। दिदृक्षत इति। तन्माभूदिति स्पष्टमेव वक्ष्यति। तर्हि किमर्थमेतच्चित्रनिर्माणमिति चेत्-हेयत्वाध्यवसायदार्ढ्यायैव। विवेकेन व्यवसायेन च मत्याः सदेकविषयकत्वस्थापनेन सुमतित्वं रक्ष्यमित्याविष्कार्यम् तदेवोपरि क्रियते। अत्रचेति। उपरि श्लोकेऽपि अत्रेतिपदमस्ति। अतोऽस्य विश्वचित्रे इत्यर्थः। तस्य तु यवनिकायामशुद्धसृष्टौ इत्यर्थः। 9. प्रगुणवृत्तिं प्रकृष्टिगुणब्रह्मविषयिणीम्। प्रगुणा ऋजुभूता वृत्तिः व्यापारो यस्यास्तामिति वा। अन्तर्दृशम् मनोधीनयोगसाक्षात्कारात्मकज्ञानं प्रवर्तयितुमिच्छतः मुमुक्षोः आच्छादिका साक्षात्कारविरोधिनी इयम् अनुद्धसृष्टिः। कस्मात्। गुणत्रयविचित्रितत्वात्। नानावर्णेषु वस्तुषु लोकस्य व्यामोहः सहजः। इयञ्च लोहितशुक्लकृष्णा सत्त्वरजस्तमोगुणोद्भवतारतम्यात् विचित्रा। तदाच्छादनमात्रं न, अनेकानिष्टप्राप्तिरपीत्याह भवेति। भवदुर्ज्वरः तापत्रयम्। स एव ज्वलनः तस्येन्धनभूतेयमिति। अत्र चित्रे तापत्रयहेतुत्वं यथा ज्ञायेत, तथा शिल्पी दर्शितवानितिं च भावः। दृढविंलक्षया अधिकलज्जया। तवात्र जाते दर्शने लज्जाऽस्तीति तव मुखदर्शने ज्ञायत इति भावः। हेयत्वाय यवनिकेति ज्वलन इति च प्रागुक्तम्, जलनिधिर्नानादुष्टजन्तुपरीत इत्युक्त्वाऽपि व्यावर्तयति व्यवसायः विविधेति। 10. उपास्यवस्तुनिर्धारणाय चित्रं पश्यतामस्माकमत्र न किञ्चिद् ग्राह्यमस्ति। स्वयमुन्नतस्थाने स्थिरं स्थितः भयप्रशमनः सर्वज्ञः सर्वशक्तो यः, स उपास्यो भवेत्, परिमितदेशकालफलदान् फलदाकृतिकान् कथमधिकुर्महे विधिशिवप्रसुखान् अमुकान्। पश्यामुकपरिस्थितिम्। त्रिगुणाह्वयप्राकृतप्रपञ्चरूपे जलधौ मग्नाः तदातदा द्वीपमारुह्य स्थातुं वाञ्छन्तो विविधान् शब्दादीन् विषयानेव द्वीपान् आरोहन्ति। परंतु द्वीपपार्श्वस्य तिर्यक्प्रसरतयोन्नतत्वाभावात् ऋजून्नतत्वात् आरोहो दुष्करो भवति। एकपदारोहे पदद्वयावरोह आपतति। तथासति स्थितिः कथम्। विसंस्फुला चञ्चला च सा। एवं स्वयं मिथोदर्शनेन बिभ्यतीमे, ब्रह्मशिरश्छेदी रुद्रः, रुद्रवैराग्यविलोपक इन्द्र इत्येवम्, सर्वेषामसुरेभ्यो भयम्, तेभ्यस्तेषाञ्च। अतो जलधावेव कूर्ममीननक्रादिवत् जीवितुमिच्छन्ति, संसारभीतान् मुमुक्षून् भक्षयितुमाकर्षन्ति च। अहो दुःखे सुखत्वबुद्धिरेषामबुद्धीनाम्। अतः संयमरूपयोगकांक्षिभिरिमे द्रष्टुमप्यनर्हाः, किमुत नरतिर्यगादय इति। इतः अत्रेति विभूतिभागविशेषणम्। शुद्धसृष्टमये सृष्टाप्राकृतवस्तुस्वरूपे विभूतिभागे भगवदसाधारणमूर्तिसमुदायात्मनि चित्रभागे। पररूपस्य सृष्टत्वाभावात् शुद्धसृष्टिमये इति मयट् प्रचुरार्थकतया असृष्टस्यापि संग्राहकः। वासनाभिराकृष्टाऽपीति परिचितप्रियत्वसूचनात् व्यवसायस्तनुकूलं तदन्तर्गते विभवमात्रे दृष्टिं निधापयति तत्रचेति। 11. परं रूपम् आस्ते विष्णुरित्युक्तं परवासुदेवरूपम्। व्यूहाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाः। व्यूहान्तराणि केशवादयो द्वादश। तेषां पदानि लक्ष्माणि, तैर्विभक्तेषु रूपेषु मनसः स्थितिं स्वसहायभूतस्य मनसोऽवस्थानम्। स्थितमनस्कत्वमिति यावत्। अनधिगम्यापि— दृष्टिर्यद्यपि नाधिगता, तथापीत्यर्थः। तत्र कारणं तेषामनुभूतसजातीयत्वाभावः। अवैजात्यं साजात्यम्। बृन्दारकैः साजात्यं वामने, नरैः रामादौ, तिर्यग्भिर्मत्स्यादौ। विभावव्यक्तीनां विभवमूर्तीनां समूहे अवैजात्यमभिनयतीति तद्विशेषणम्। वस्तुतो भगवद्विग्रहे मनुष्यत्वाद्यभावादवैजात्यमारोपितमेव, न तु वास्तवमिति दर्शयितुम् अभिनयतीत्युक्तम्। भवत्विति। तत्रैकं रूपं संयमाय रोचयेरिति भावः। पूर्वं देवेन देव्या चेत्युभयोक्तावपि देवीदृष्टेरेव प्रकृतत्वात् ते इत्येकोक्तिः। वामिति वा पाठः। भावबन्धः मनसोऽचञ्चलतया स्थितिः।
विभवादरणे परिचितसजातीयत्वरूपो हेतुरुक्तो विवेकेन। व्यवसायो हेत्वन्तरमाह अवतारेति। “जन्म कर्म च मे दिव्यमेव यो वेति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन"इति गीताऽत्राभिसंहिता। नन्विदं विभवमात्रविषयमिति कुतः, व्यूहादेरपि विषयत्वसंभवात्॥ उच्यते। व्यूह-व्यूहान्तरणां योनिजत्वाभावात् क्षुदादिमदयोनिजदेहतोऽपि वैलक्षण्याच्च अदिव्यत्वशंका न भवति। विभव एव दुःखाद्यनुभवाभिनयश्च दृष्टः। अतः कर्माधीनत्व-संकुचितज्ञानशक्तित्वादिशंका विभव एव। गीतायां प्रकृतश्च विभव एव। अतो विभवावतारस्यैव सत्यत्वाजहत्स्वकभावत्वादिषट्कमनुसंधीयमानं देहावसाने मुक्तिप्रदोपायपूरकमित्युच्यत इति। तथाचापुनर्जननार्थज्ञानविषयावताररूपत्वमिति हेत्वन्तरं दर्शितं भवति। तृतीयमपि हेतुमाह अपिचेति। 12. प्रभुः मत्स्यादिरूपः ईक्षणादिभिः पोषकत्वेनान्वीक्ष्यते। मत्स्वजातौ शिशूनां मातृकर्तृकमीक्षणं स्तन्यमिव पोषकं भवति, कूर्मजातौ ध्यानम्, पक्षिजातौ पक्षान्तःप्रवेश्य संश्लेषणम्। प्रमुखपदेन मातापितृपुत्रपौत्रादिसर्वविधबन्धुभावेषु यथार्हग्रहणेनापि विभावावतारे इतरविलक्षणो रक्षणौपयिकः संबन्धो विवक्ष्यते। वामनाद्यवतारेषु स्फुट एव बन्धुस्नेहः। ईक्षणादिना प्रजारक्षकोऽहमिति स्वाभिमानं मत्स्याद्यवतारेण भगवान् व्यनक्तीति भावः। “ईक्षणध्यानसंस्पर्शैर्मत्स्यकूर्मविहंगमाः। पुष्णन्ति स्वान्यपत्यानि तथाऽहमपि पद्मज"इति वचनमुदाहरन्ति। चतुर्थपादः `तद्वत् पण्डितवृत्तयः’ इत्येवं क्वचित्। मत्स्याद्यवतारे तिर्यक्कार्यानुग्रहसूचनम्, वामनाद्यवतारेषु नरकार्यसर्वबन्धुरक्षणादिसूचनम्। उभयविधानुग्रहपरत्वस्य युगपत् सूचनम् नरसिंहहयग्रीवाद्यवतारेषु। दशावतारमध्ये हयग्रीवावतारस्याप्रवेशनं चतुर्मुखसृष्टलोकमध्यकृतावताररूपत्वभावात् ततोऽपर्युत्कृष्टत्वनिष्कर्षेण। मत्स्यादेरवतारस्य योजिजत्वाभावेऽपि योनिजजातीयत्वाभिसंधिकरत्वमक्षतम्। जन्मकर्मचेति श्लोकस्य सुरनारावतारग्राहित्वे सुतरां मत्स्यादितिर्यगवतारग्राहित्वमपीति स्फुटयन् तत्राजहत्स्वस्वभावत्वादिकमेव प्रकटयति अनासीददिति। 13. श्लोकेन। अनासीदद्दोषः अखिलान्यपि हेयानि यं नासीदन्ति, सः। जहत् अवधिः यत् षाड्गुण्यं तस्य जलधिः। विहारे अवतारविषये स्वच्छन्दत्वम् स्वः स्वकीयः छन्दः इच्छा यस्य तद्भावः, तस्मात्। स्वेच्छामात्रनिदानत्वमनेनोक्तम्। कमठः कूर्मः। किटिः वराहः। पाठीनः मत्स्यः। पतगः हंसः। तत्कार्यं क्षीरनीरविवेकतुल्यं दोषापसरणेन गुणग्रहणमपि। कमठादिप्रकारैः कमठादिजातीयत्वबुद्धिकरैः। परिबृढतमत्वम्। `ब्रह्म परिबृढं सर्वतः’इति ब्रह्मशब्दार्थः परिबृढशब्देनोच्यते। प्रभौ परिबृढशब्दमनुशासति। प्रभुत्वं प्रकर्षेण भवनं बृहत्त्वमेव। सर्वविधावतारैः सर्वदोषानास्पदत्व-सर्वातिशायित्वादिव्यञ्जनम्। अतिनीचावतारेऽप्यजहस्त्वस्वभावत्वं, स उश्रेयान् भवति जायमान इति सौलभ्य सौशील्यादिपरेषु अवज्ञामूलपापभाक्त्वापादकत्वात् अनर्थावहत्वमेवेत्यत्राह अपारेति। संलापसंश्लेषाद्यभिलाष्यन्तरङ्गजनानुग्रहार्था अवताराः यदि परेषामनर्थाय स्युः, तावता कारुण्यमूलकत्वस्य का हानिः। प्रत्युत विरोधिनामपि द्वेषार्थमपि मूर्तिसमर्पणात् निरस्तरस्मर्यमाणतायां संपन्नायाम् अत्युत्कटादृष्टघटने शिशुपालादेरिवाऽऽनुकूल्ये पर्यवसानमिति भावः। एतर्दथमेव अशेषजनसंरक्षणाभिलाषिण इत्युक्तम्। अवताराणां वैविध्यमाधिक्यञ्चानेकविधानामसंख्यानां प्राणिनामपवर्गाय भवति। अतः कतिपयविषयेऽनर्थमात्रेण नानुचितत्वप्रसक्तिरिति भावेनाह 14. प्रणतेति। प्रणतानां यानि दुरितानि तेषां प्राणो बलम् दुःखजनकत्व-दुर्वासनाजनकत्वादि, तदाकृष्टिप्रयोगे तदाकर्षणानुष्ठाने, अपनयन इति स्यात्। पटीयस इति षष्ठ्यन्तञ्चेत् प्रभोरित्य्तरान्वेति। मध्ये प्रादुर्भावादिति पञ्चम्यन्तेन व्यवधानं सोढव्यम्। पञ्चम्यन्तं चेत्, इदं च प्रादुर्भावादिति चानुभावविशेषणम्। अनुभावस्तादृशः, यस्मात् विविधः प्रादुर्भावः प्रथितो भवति। अवतारानुभवाभावे मोहद्रोहादिशत्रुकृतं बलवदावरणं न परिह्रियेतेत्याशयेन बलवदिति। जनिपथः संसारवर्त्म। जितकाशिनः जयेन वर्धमानाः। एकरूपस्यानेकवारं प्रवृत्तिः “धाता यथापूर्वमकल्पयत्” इति न्यायेनेत्याह 15. त्रातुमिति। परस्परप्राञ्चि। रामावतारस्यापि कृष्णावतारः प्राक्, यथा कृषअणावतारात् रामवतार इति भावः। अत एव “रामरावणयोर्युद्धं रामरावणयोरिव” इत्युक्तम्। अप्राकृत भगवदवतारशिल्पनिर्माणसामर्थ्यं मयादीनां न भवति, यथा तदवतारप्रादुर्भावनं चतुर्मुखादिसंकल्पकृतं न भवति। अतोऽवतारकर्तैव तच्छिल्पकरोऽपीति चित्रानुभवपारवश्यात् वदन् व्यवसायः देवं देवीञ्चावतारानुभवे निमग्नयति 16. मय इति। विश्वसृट्(क्) ब्रह्मा। अखण्डानां ब्रह्माण्डानां शिल्पी। ब्रह्मा हि पश्चादुत्पन्नः। प्रथमतमपदेन तत्कारणमहदादिस्रष्ट्वत्वमपि दर्शतम्। मत्स्यकूर्मवराहाणां प्रथमनिर्देशे मध्ये अन्याघटने च हेतुमाह जलधिमिति। भूम्यपेक्षया जलधेः प्राच्यत्वात् तत्रत्या अवताराः प्रथमं गृहीताः। जलं विना स्थातुमनर्हो मत्स्यः। जले चिरं स्थले किञ्चित् स्थितः कूर्मः। जले किञ्चित् स्थलेऽधिकञ्च वराह इति क्रमः। एवमर्णवस्थितत्वेन त्रीन् वर्णयिष्यन् आदौ मत्स्यमाह 17.निर्मग्नेति। असुरेण प्रलयार्णवे अन्तर्धापिताः वेदाः, तथा पृथिव्याः जले लीनत्वात् तत्रत्या वेदविदः सर्वे नष्टा इति वेदानां समुद्रे मग्नत्वम्। मत्स्यः स्वनेत्रदृष्टीरर्णवे सर्वत्र प्रसारयति। प्रसृताः दृष्टयः सलिले कमलानीव विराजन्ते, `मत्स्य- कमललोचनः’इत्युक्तेः। सर्वेष्वप्यवतारेषु अनुवर्ततेऽस्य पुण्डरीकाक्षत्वम्। एवं दृष्टीः कुर्वन् अयं नष्टवेदान्वेषणपर इव लक्ष्यते। क्षणः स्वल्पकालः व्यापारान्तरनिवृत्तिर्वा उत्सवो वा। वेदान्वेषणदशायामर्पिताः स्वीकृता वा निर्व्यापारतादयः क्षणाः यैस्तैरिति। मत्स्यानां तरङ्गिते जले प्लवने महान् उत्साहः। निर्बाधं यथा तथा यत् तरङ्गाणां रिङ्गणम्, तेनोपर्युपरि जलपक्तयः प्रतिहता भवन्ति, तत्र स्थितो मत्स्यो डोलाधिरोहोऽयमिति मत्वा तत्र सदोहलः साभिलाषो भवति। वपुर्दृश्यत इत्यत्र वपुःपातुनः इति दशावतारस्त्रोत्रे पाठः। अत्रायम् आस्माकः श्लोकः, “सत्यव्रतस्य करयोर्मणिके तटाकतोयाशयम्बुधिषु मत्स्य! विवृद्धमूर्तिः। सप्तर्षिभिः सह तमप्युडुपे स्वशृङ्गकृष्टे निवेश्य निगमानिव साध्वरक्षः"इति। देवीं सावधानदृष्टिप्रसरां कर्तुमनाः सचमत्कारमाह देवीति। अक्षिसारूप्येणेति। मीनाक्षी शफरनयनेत्येवं स्त्रीनेत्रवर्णनप्रसिद्धेः। तेनाभिव्यक्तत्वं तद्विशिष्टत्वम्। सुमतिर्विवेकस्यैव मत्स्यसादृश्यं व्यापारबलादाह एतेनेवेति। मानुषरूपं प्रति जिगमिषया गूढं पृच्छति किंनामेति। कूर्मावतारं दर्शयन् आह 18. आखण्डलीयमिति। आखण्डलः इन्द्रः। इन्द्रराज्यस्याजरामरत्वम्, रुद्रमूर्ध्नः रम्यचन्द्राख्यभूषणकत्वम्, प्रियतरस्य स्वगृहस्य स्वकलत्रस्य श्रियः औदन्वतत्वं समुद्रादाविर्भूतत्वञ्च येन मन्दरस्य धरणात् संपन्नम्, स एष चित्रे दृश्यमानः कूर्मः। गृहशब्दः कलत्रे प्रसिद्धः। अन्यथापि व्याख्यान्ति औदन्वतं स्थानं प्रियतमस्वगृहं कृतमिति। लक्ष्म्या अत्राविर्भावानन्तरं तदुत्पत्तिस्थानमित्यभिमानात् तत्र श्वशुरगृहे तया सह शयनात् तस्य प्रियतरत्वम्। कूर्मावताराभावे मन्दरस्याधः पाते कथं मथनमूलकैतावत्कार्यसिद्धिः। तथा किल स स्वाधारः सम्यगाधारः अद्रिं प्रति सांप्रतमाधारोऽयम् `चकर्थश्रीरङ्गिन् निखिलजगदाधारकमठः’ (62) इत्यभियुक्तोक्तरीत्या, `अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नमः’इत्यनुसंहितधर्मप्रवक्तृकूर्मान्तरेण वस्तुतोऽभेदादपि स्वाधारः। स्वे महिम्नि प्रतिष्ठित इत्युक्त्या स्वस्य स्वयमाधार इति वा। तेनानन्याधारकत्वमुक्तं भवति।
शिल्पिनैव लिखितेत्यनेन नाटशिल्पिनश्चित्रशिल्पनश्चैक्याध्यवसायः। अलिखितमपि चित्रं लिखितवत् प्रदर्शयन् कविरयमेव हि चित्रशिल्पी। एवम्भूतः शिल्पी विस्मयते, `हृदि मुग्धशिखण्डमण्डनो लिखितः केन ममैष शिल्पिना’इति। 19. अव्यासुरिति। कूर्मनिश्वासवातपरम्पराः रक्षन्तु। तदुत्पत्तैः कारणमाह कण्डूयनैरद्रिणेति। अनिभृतमिति कण्डीयनक्रियाविशेषणम्। निभृतं शान्तम् आटोपरहितम्। अनिभृतम्-साटोपम्-अतितीव्रमिति यावत्। भ्रमदद्रिकर्तृकं विलेथनं कण्डूयनमासीत्। तेन निद्राणः कूर्मः। निद्राणस्य निश्वासपरम्परानिष्क्रमणं प्रसिद्धम्। एवम्भूतकूर्मकारितात् पयोधिमथनात् प्रादुर्भूतां श्रियं प्राप्य स एव स्वस्वरूपेण तत्र क्षीराब्धौ शेते साम्प्रतमपीति। इदानीमपि तस्य स्वनिश्वासवातोर्मिकल्पितं सुखविशेषाह यदिति। मथनकाले तद्वातोर्मिकृतेन क्षेपणेनोदधेः संस्कारो जातः। वातोर्मिविक्षेपकृत क्षीरोर्मिविक्षेपणेन जातः संस्कारो यथा साम्प्रतमप्यनुवर्तेत तथाकिल तदा वातोर्मयो ववृधिरे। तत्संस्कारवशादिदानीमपि तत्पयसि प्रेङ्खोलवत् डोलावत् चलति शेषाख्या पर्यङ्किका। तदीयं नित्यं यत् पयसि ऊर्मिपरम्परासु आरोहणम्, तेनाद्यापि श्रीसमेतो निर्वृतो भवति तदारूढो देवः। आरोहणस्य देवकर्तृकत्वे आरोहणपदस्य पर्यङ्किकायामारूद्यवस्थानेत्यर्थो वाच्यः। यद्वि
क्षेपविसंस्फिलेति पाठापेक्षया यद्विक्षेपणसंस्कृतेति पाठ एव साधीयान्। विहरते इति वर्तमानानुरोधेन अद्याप्यनुवृत्तिहेतोः संस्कारस्य कथनीयत्वात्। दशावतारस्तोत्रे चित्रगतवर्तमानत्ववर्णनायोगात्॥ एवमुत्तरार्धेन औदन्वतं पश्चात् प्रियतरं स्वगृहं कृतमित्येतत् भग्यां विवृतमासीत्।
भगवानेव कूर्मरूपेणावर्तार्ण इत्येतत् भगवतैव ज्ञापितमिति श्रुतिप्रदर्शननानुसंधते राजा। चतुर्मखः तपस्तप्त्वा शरीरमधूनुतः। तदा तन्मांसनखलोमादिभ्यः विविधा ऋषयो जाताः। तद्वदयं कूर्मोऽपीति चतुर्मुखो मेने। अतः कूर्मेण स प्रतिबोधितः, नाहमेवमुत्पन्नः, पूर्वमेवाहमिहासमिति। पूर्वं स्थितत्वरूपमर्थमादाय पुरुषशब्दः प्रयुज्यते इति श्रुत्युक्तमेव संगृहीतं स्वेत्यादिना। वस्तुतः कूर्मेचतुर्मुखस्य कारणभूते सति स एनं कूर्मं न तथा गृहीतवान्, अयं मे कारणभूत इति। अप्रत्यभिजज्ञिवांसमिति। जज्ञिवान् ज्ञातवान्। प्रत्यभिज्ञानरहितम्, मत्कारणभूतः यः स एवायमिति प्रत्यभिज्ञामलब्धवन्तमित्यर्थः। अतथाप्रत्यभिजज्ञिवांसमिति पाठेऽपि तथा स्वकारणत्वेन अप्रत्यभिज्ञातवन्तमित्येवार्थः। अतथा अकारणत्वेन प्रत्यभिज्ञातवन्तमिति नार्थः, प्रत्यभीति पदार्थलोपात्।
किं किं न कारयतीति। भक्तानाममृतप्रदानरूपं स्वस्य लक्ष्मीस्वयंवरणलाभरूपञ्च कार्यंमुद्दिश्य सुकुमारशरीरेऽपि कठिनत्वं कल्पयामासेति भावः। मथनारम्भेत्यनेन श्लोकोक्तदशान्तरं मथनस्याधिकानुवृत्तिर्ज्ञाप्यते। अतः अमृतविच्छर्दितमित्यनेन साक्षादमृतस्यैवोद्गारो विवक्षितः। किं तु भविष्यदमृतकप्राग्भावि-तदंशसंप्लवशालिफेनादिकम्। उद्गारमात्रस्याऽर्थत्वात् वाहादिसाधारण्याच्च। 20. क्वचिदिति। मथनकाले जलङघेर्जातः क्षोभः तथाऽहिमहान्, यथा स क्षोभवेगः अन्तस्थमुच्यैश्श्रवसमेककोणात् बहिर्निकष्कासयेन, अन्यत्रैरावतम्, अपरत्र चन्द्रम्, इतरत्रामृताभासायमानं फेनादिकम्अ। तदा कूर्मस्य निद्रामालक्ष्य देवा भीताः, यद्येष क्षोभः कूर्ममपि एकतो बहिष्कुर्यात् का मन्दरस्य गतिः, कथञ्चास्माकममृतलाभ इति। एवमादि विचिन्त्य विषीदत्सु देवेषु निद्राणोपि भगवान् जाग्रदिव गिरिमप्रच्याव्योद्धरन्नेवाऽऽसीत्। तेन देवाः कार्यसिद्धिममृतविच्छर्दितदर्शनेनापि निश्चित्य समतुष्यन्नित्यर्थः। अमृतलाभेत्यत्र अमृतशब्दः सुधामोक्षोभयवाची। कूर्मकार्यः सुधालाभः, विवेककार्यः मोक्षलाभः॥ मथनकालोत्थापितानि वस्तून्यनुसंधाय पयोधिं प्रशंसति आरादिति 21. आरात् चित्रे दृश्यमानस्य कूर्मरूपस्य समीपे एषः चित्रभूतः समुद्र आलक्ष्यतामित्यन्वयः। रतस कीदृशः? कौस्तुभमणेराकरः। रत्नाकरादस्माद्धि श्रेष्ठः कौस्तुभः प्रादुरासीत्। मरुद्दन्तिनः देवगजस्य ऐरावतस्य वारी बन्धनस्थानम्। इतो विसृष्टो मरुतः प्रपेदे। पुरभिदः रुद्रस्य शिरोभूषणभूतचन्द्रकलाप्रदायित्वात् तन्निर्माता शिल्पकृदित्युच्यते। पाशिनः वरुणस्य गञ्जागृहं मदिरार्पणकुटी। वारुणी हि इति उत्पन्ना वरुणेन गृहीता। पारिजातस्येतो जातत्वादाह प्राचीनेति। अङ्कुरपालिका बीजावापस्थानम्। सर्वामरभोज्यामृतप्रदत्वमाह स्वैरेति। स्वेच्छया गृह्यमाणस्याऽऽहारस्य महानसं पाकस्थानम्। महानसशब्दो द्विलिङ्गः। हरेः शुद्धान्तः अन्तःपुरं लक्ष्मीः तत्स्थानं वा। सलक्ष्मी कस्य हरेः शय्यास्थानमित्यर्थः। परिशुद्धतरः। पूर्वमेव परिशुद्धः धवलत्वात् आविर्भवल्लक्ष्म्यनुग्रहपात्रभूतत्वाच्च। अथ भगवतो नित्यवासात् परिशुद्धतरः। दानोत्सुकानां सत्पात्रेषु प्रदानजनित आनन्दः अर्थार्जनपराणां सर्वद्रव्यसंग्रहजनितादानन्दाद्दप्यधिको भवति। तमानन्दमेतत्तरङ्गताण्डवेनोल्लिखाम इत्याह अपिचेति। एवमेवेति। हर्षप्रकर्षजनितताण्डवोद्यतमेवेत्यर्थः। हृदयविशेषणम्। तरङ्गमण्डलेनेति पूर्वं परितोवीचिप्रस्तावात् चित्रे महोर्मिपरम्परांनिवेशमनुभावयति निशाम्यन्तां दृश्यन्ताम्। श्रियोऽप्यत्र ग्रहणम्। 22. इतरेति। आरोहणानि सोपानानि तेषां मिथस्संनिकर्षज्ञापनार्थमूर्मिसंनिकर्षवर्णनम्। गत्यादिशब्दवत् उन्नतिशब्दस्य उन्नतिस्थानपरत्वेन निम्नशब्देन कर्मधारयो वा। सोपानेषु च किञ्चिदपेक्षयोन्नतस्योपरितनसोपानापेक्षया निम्नता॥ अथ लक्ष्मीचित्रं दर्शयति। 23. इयमिति। इयम् अत्र लिखितप्रकारेण कमलमध्यस्थिततयैव समुत्थिता श्रीरेव हरिवक्षस्स्थलं प्राप्य जगत् रक्षन्ती विख्यातेत्यर्थः। उत्तरार्धेन श्रीधररूपप्रदर्शनं चिकीर्षितम्। श्रियं प्रार्थयते 24. कल्याणानामिति। अविकलः अन्यूनः निधिः-आविर्भावस्थानम्। काऽपि भगवत्कारुण्यतोऽपि विलक्षणा। अज्ञातनिग्रहत्वात्। कारुण्यस्य सीमा काष्ठा। नित्यामोदेति मालाविशेषणम्। मालात्वेन रूपितलक्ष्मीनिष्ठ आनन्दरूप आमोद एव गन्धरूपामोदत्वेन भाव्यते। लक्ष्म्या एव भगवत इव सर्वगन्धत्वाच्च। वेदान्तवेद्यत्वात् सा निगममौलिगता मालेत्युच्यते। मन्दारः कल्पवृक्षविशेषः। तत्पुष्पमालात्वेनास्याः रूपणम्। मधुबिजयिनः जायमानकटाक्षदानेन मुमुक्षोत्पादनपरस्य विष्णोः दिव्या संपत्, अस्याः विद्यारूपत्वात्। सा-अनादितया भगवदाश्रिता, एषा-इहामृतसागरे आविर्भूता। इतरसकलफलप्रदत्वमप्याह सकलेति। प्रार्थनासंबन्धिनी प्रार्थितप्रदायिनी कामधेनुः। 25. सरस्वत्यादिदेवमहिष्याद्यर्चितत्वं फलान्तरकामनया स्यात्, स्वापेक्षितंतु व्यञ्जयति यस्मिन्निति। ईषन्नमितेति। अञ्जलिभरवहनामात्रेणशेषं प्रदाय स्वयंनमितशिरा भवति श्रीरिति ह्युक्तम् ऐश्वर्यमक्षरमिति श्लोकेनाभियुक्तैः। अतः प्रणामपराणामारम्भदशाभावि ईषन्नमनमेव सर्वकार्यकरम्। उपरि पूर्णनमनानुष्ठानं शास्त्राविरोधाय, दास्यरुच्यतिशयाच्चः, न तु फलार्थं तावत् अपेक्षितमिति तद्गुणगरिमाविष्करणम्। यापयित्वा शरीरमिति। तावन्मात्रविलम्बः सोढव्यः, देहावसान एव मोक्षस्यापेक्षितत्वादिति भावः। वासुदेवस्य परवासुदेवमूर्तेः वितमसि तमसः परस्तात् स्थिते पदे वर्तिष्यन्ते। यस्मिन्निति पादपद्मवाचि। तदित्यर्थसिद्धम्॥ लक्ष्म्याः पुरुषकारविशेषत्वमाह देवीति। सा श्रीसूक्तादिप्रतिपाद्या। दुस्सहेति॥ “प्रायश्चितत्तप्रसंगे तु सर्वपापसमुद्भवे"इति वचनात् सर्वपापोक्तेः। यत्पुरस्कारिणां यां पुरुषकारतया वृण्वताम्। अभिगम्यतमः उपायानुष्ठानोपयुक्तसानिध्यशाली। एवं विस्तरेण श्रियमुपवर्ण्य अन्यदपि तन्माहात्म्यं विवक्षुः गृढं स्वपत्नीं स्तौति अत्रचेति। सेति 26. तवाकृतिः सैव लक्ष्म्याकृतिरेव। तव गुणातिशयाः त एव लक्ष्मीगुणातिसया एव। त्वमेवेत्यत्र त्वमेवमिति पाठो युक्तः। एवकारद्वयस्यास्वरसत्वात्। एवम् उक्तप्रकारेण त्वं इयं चित्रभूता लक्ष्मीरेव। त्वामपि लक्ष्मीचित्रं मन्येय, तथा आकृत्यादिना मनने प्रतिबन्धकस्तव संचारः। चतुरः नाट्यसमत्वात्। नहि चित्रं सञ्चरेत्। ननु चित्रमप्यन्येन नीयमानं सञ्चारेदिव। सत्यम्, तथापि तत्र नूपुरमेखलादीनां चित्रभूतानां शिञ्जितजनकत्वं न भवति। तदस्ति ह्यत्र। अतस्त्वमन्येति मन्ये इति। सुमतिः समर्थमुत्तरमाह, भवत्पत्न्या मे श्रीसमत्वे भवतः विष्णुसमत्वं व्यक्तमिति। व्यवसायो विवेकहृद्गतमुद्घाटयति देवीति। देवयोनिषु पक्षिमृगादिषु मनुष्येषु च पुंलिगशब्दप्रतिपाद्यो यः, स सर्वो हरिः। स्त्रीलिंगपदवाच्या सर्वा लक्ष्मीः। नानयोर्विद्यते परम्। अनयोर्मध्ये जीवप्रतिसंबन्धिकव्यापित्व-नियन्तृत्वविषये एकं परम् उत्कृष्टम् अन्यत् निकृष्टमिति न। उभयोरितरनिरूपितशेषित्वनियन्तृत्वादिप्रयुक्तात्मत्वादि तुल्यमित्यर्थः। ननु स्त्रीसंख्याया अधिकत्वे लक्ष्म्याः महिमातिशयः,अन्यदा अन्यस्येति भेदः स्यादेवेति मतिं वारयति राजा सेनापते इति। एकस्मिन् जन्मनि पुंभूतानामेव जन्मान्तरे स्त्रीभावात् चेतननियमो दुर्बचः। अवस्थानियमोऽपि न पुरुषस्यैव व्यक्त्यादिपदेन स्त्रीनामकत्वसंभवात्॥ नामेति पदं सांकेतिकडित्थसुन्दर्यादिनामपरं पुन्नामा स्त्रीनाम्नीत्यत्रेति चेत्-न, तादृशनामाभावेऽपि तिर्यगादौ तदभिमानस्य वक्तव्यत्वात्। स्त्रीविषये भगवतो नियन्तृत्वाद्यभावे सर्वेश्वरत्वभंगापत्तेश्च। अतः, `अस्या मम च शेषं हि विभूतिरुभयात्मिका’इति वचनाच्च उभयमप्युभयोर्विभूतिरिति। तर्हि विभागपरवचनतात्पर्यं किमित्यत्राह राजा 27. साधारण्य इति। द्वेधा स्त्रीपुरुषभेदेन लक्ष्मीविभूतित्वविष्णुविभूतित्वरूपेण द्वेधा ययोर्विभूतिभूतं विश्वं विभक्तम्, तौ। स्त्रीत्वपुरुषत्वानुरूपगुणविशेषप्रकाषनौपयिकोऽभिमानविशेषः अनेन विभागेन ज्ञाप्यते। दिव्यदम्पत्येर्गुणविभागश्च श्रीभट्टपाददर्शितः, “युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमनस्थिरत्वादीन् कृत्वा भगवति गुणान् पुंस्त्वसुलभान्। त्वयि स्त्रीत्वैकान्तान् म्रदिम-पतिपारार्थ्यकरुणा-क्षमादीन् वा भोक्तं भवति युवयोरात्मनि भिदा"इति। प्रदर्शितमिति। उक्तं हि इयमत्र विश्वजननीति श्लोके। 28. अत्र भवतीति क्रियापदमध्याहर्यम्। आसीदिति वा। आविर्भवन् इत्यत्र आविर्बभौ इति वा पाठः। जम्बालरेखामिव। प्राकृतस्य वराहस्य पल्वले विहरतो दंष्ट्रायां कर्दमरेखा लग्ना यावत्परिमाणा स्यात्, तावत्परिमाणेव दृश्यते महापृथिवीयम् आदिवराहस्य दंष्ट्रायामित्युक्त्या वराहरूपस्यात्यन्तबृहत्त्वं गमितम्॥ इदमेव विशदयति क्वापीति 29. कल्पान्तवेशन्ते प्रलयपल्वले। समुद्रस्यैव वराहविहारजलतया पल्वलत्वारोपः। खुरदघ्ने खुरपरिमाणए मेदिनीमुस्ताम् मुस्तामिव स्थितां भूमिम्। मुस्तेति वराहभक्ष्यमाणः स्वल्पः कन्दः। महती मेदिनी तद्वत् भातीति वराहरूपस्यातिमहत्त्वं व्यञ्जितम्। तदाह महत इति। महते पोत्रिणे महावराहाथ। संबोध्य स्तुवन् पुनः प्रणमिति 30. नम इति। हे कोलाकृते वराहमूर्ते ते तुभ्यम् इदं मे नमः। कीदृशाय? अजहत्सपर्याय अजहती सपर्या यं तस्मै। जनैः क्रियमाणा सर्वा पूजा साक्षात् परम्परया वा यज्ञवराहं तं न जहातीति। तदर्थं भूम्युद्धरणाय प्रलयनलधिं प्रविष्टाय, पर्यायेण अभ्यासेन पुनः पुनः निर्यासितः जलान्तः प्रवेशेन तीरप्रान्तं प्रापितः भ्रमन् अमितः पूर्णः पयोधिः, तस्य वेलायां प्रान्ते अन्तः लोलाय आसक्ताय। अथ भूमिमुद्धृत्य निजधोणाग्रे निक्षिप्तवत्त्वात्। तदाह पृथ्वित्यादि। विम्बाधरशब्द इव बहुव्रीहिः, विष्कम्भ इव कोणे यस्य तस्मै इति। पृथौ महति विकटे विशाले विटङ्के वलभ्यां स्थापितो निष्कम्भः तिर्यग्दारुविशेषो यथा, तथाभूतः भगवतः भूभरणसमर्थविशालनासाप्रान्तः। तद्वते ते नम इति। पृथिव्याधारभूतघोणांशानन्तरस्थितः तदग्रभागः विटङ्कसंबन्धिविष्कम्भवल्लक्ष्यत इति भावः। विष्कम्भसादृश्यं विश्ववम्भरायामिति व्याख्यान्ति। तदा उपमानस्योत्तरपदत्वं स्यात्। उपमानार्थत्यागेन अभेदारोपो वा कार्यः। कतिपयरक्षणशिक्षणार्थावतारान्तरापेक्षया, अखण्डभूभण्डलमुद्धार्य स्वघोणाध्वनिमिरेव सर्वं पावयन् अयमादिवराह एवाखिलजगद्रक्षकत्वेनानधार्य इत्याह अयं खलु गोपायेदिति। 31. यस्य वराहस्य दंष्ट्रायाः अङ्कुरस्य अग्रस्य कोटौ काष्ठायां दृढं तेन कृतया घटनया निष्कम्पां नित्यां स्थितिं प्राप्ता, अत एव वराहदंष्ट्राग्रलग्नत्वात् वराहस्यातिपृथत्वाच्च मुस्ताख्यकन्दवद् दृश्या, भूदेव्यभिमानितत्वात् भगवती भूमिः ब्रह्मस्तम्बं असौत् प्रसूतवती। ब्रह्मस्तम्बम् चतुर्मुखरूपं स्तम्बमिति केचित्। आदिभूतस्य चतुर्मुखस्य स्थावरस्य स्तम्बस्य च ग्रहणेन समाहारात् ब्रह्मादिस्तम्बपर्यन्तसर्वप्राणिजातरूपजगद्रग्रहणम्। अत एव ब्रह्मस्तम्बपदं जगत्परमिति कोशप्रदर्शनेनोक्तं यादवाभ्युदयव्याख्याने। वस्तुतः ब्रह्मोत्यत्त्यनन्तरमेव भूमेर्जलधौ मग्नत्वं वराहावतारश्चेति दंष्टास्थित्यनन्तरं ब्रह्योत्पत्तेर्दुर्वचत्वात् ब्रह्मस्तम्बपदं बहुव्रीहिवृत्तम्। स्तम्बशब्दः कन्दस्थानीयार्थकः `एकोऽपि च प्ररोहैस्तु बहुभिः स्तम्ब इष्यते’इत्युक्तेः। तथा च चतुर्मुखमूलकारणकस्य सर्वस्य जगतस्तत उत्पत्तिरत्र विवक्षिता। भूमिरुद्धरणकाले निष्कम्पस्थितिः। पश्चादपि भगवती भगवद्विश्लेषमसहमाना विभाय। तत आस्तम्बप्रसवं दंष्ट्राग्र एव निष्कम्पं स्थापनात् निष्कम्पा। अथावतारतिरोधानात् प्राक् दंष्ट्राकोट्या भूभागानामुच्चावचानां समगुरुत्वाय इतस्ततो यथावद्घटनया जलधिमध्ये पोतमिव भूमिं निष्कम्पं स्थापयामास। अतो मुस्तोत्पन्नस्तम्बवत् जगदभूत्, भवति च। एष कुहनया मायया पोत्री वराहवत् स्थितः स्वकीयैः घुर् घुर् इति वराहजात्यनुरूपैर्घौणारवैः स्कवीयाकृत्यानुरूप्येण प्रलयपयोधिगतमहोर्भिषादप्यतिशयितैरखिललोकव्यापिभिः तदा ब्रह्माण्डमेव हि पवित्रं कृतवान्। एष सर्वदैव सर्वं रक्षेदिति।
32. पूर्वमिति। अस्य मृदङ्गा आसन्नित्यनेनान्वयः। भोगिसदने पाताले। समुदीक्षिताया स्तवोद्वाहमङ्गलेत्यन्वयः। वराहो भूमिमुद्धर्तुकामः भूमेरधस्तात् दंष्ट्राग्रं प्रसार्य अखण्डभूम्युद्धरणायेदं प्रसारणं पर्याप्तं वेत्यवधारणाय उपरिस्थितं भूमागमधोगतेन नेत्रेणोदीक्षितवानित्याशयेन समुदीक्षिताया इत्युक्तम्। तस्यां दशायां
चतुर्भिः पादैराधातात् पयोधौ चतुर्दिशं शब्द उत्पन्नः। स उद्धृत्य नयनात् प्राक् क्रियमाणबिवाहमृदङ्गघोषवदुल्लेख्य आसीदिति। लक्ष्म्यपेक्षयापि त्वयि भगवतोऽनुराग इति सचमत्कारमाह संभावयन्निति। 33. न त्यजेयं क्षणमपीति नलिनमपि नलिनमपि विहाय वक्षसि प्रतिष्ठितायाः पद्मायाः प्रणयं अनुरागं प्रार्थनाञ्चानुसृत्य,त्वया क्रियमाणां लक्ष्मीविशिष्टतयैव स्थितिप्रार्थनाञ्चानुसृत्य, स्वयं जायमानकटाक्षदायितया मधुरिपुतया, चैतन्यस्तन्यदायिनी समस्तजननीति प्रणयाञ्च श्रियं सत्यं संभावयति वक्षसा भगवान्-तथापि तदधिकैः सहस्रेण शिरोभिस्त्वां वहति शेषरूपेण। तवास्मीति त्वच्छेषत्वेऽपि तस्येच्छाऽस्तीव। शेषो जीव इति केचिद्वदन्ति, स शेषः पर्यङ्कभूतोऽन्यः, अयं तु भूधरशेषः साक्षाद्भगवानेवेति मे मतिः। `पातालानामधश्चाऽऽस्ते विष्णोर्वै तामसी तनुः। शेषाख्या तद्गुणान् वक्तुं न शक्ता दैत्यदानवाः’इति स्मर्यते, `नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते’इति च। तामसीत्युक्तिः अचञ्चला गुरुभूतेति ज्ञापनाय। न पुनस्तमोगुणः तस्य। विज्ञानबलैकधामत्वात्॥ तेन लक्ष्मीसमेतेन त्वं ध्रियमाणाऽसि। अतो लक्ष्मीरपि धारिकैव। त्वया तस्य बहुमुखभोगलाभः। नानाविधसुखानुभवस्त्वया सह,न तु लक्ष्म्या सहेत्येकोऽर्थः। सहस्रमुखः भोगः सर्पशरीरमिति वास्तवार्थः। एवं स्थिते दंष्टाग्रेण ते धारेण किमाश्चर्यमिति भावः।
दृढतरेति। दंष्ट्राग्रेण दारितातन् भिन्नात् हिरण्याक्षस्य हिरण्यकशिपुपूर्वजस्य वक्षस्तटरूपात् कठिनकवाटसंपुटात्। कवाटद्वयेन पिहितं तस्य तन्मनसश्च स्थानम्। तद्भेदनात् उत्थिते सान्द्रे रक्तनदीप्रवाहे प्रविश्य घणघणायमानं श्वासविसर्जनपूर्वं शब्दं कुर्वाणं घोणान्तरम् तदन्तरवकाशो यस्य स यज्ञवराहः। तद्वत् भवानपि जन्ये युद्ध नैपुणीं प्रदर्शयतु। शीघ्रं महामोहादिनिरसनमिष्टमिति भावः॥ हिरण्याक्षावधार्थमेकोऽवतारः, हिरण्यकशिपुसंहारार्थमन्यः। अहो बलं तयोः। नैवं रावणकुम्भकर्णादिविषये इति विभाव्य अनन्तरावतारचित्रं दर्शयन् आह व्यवसायः। प्रह्लादपरिरक्षता। सर्वप्रजारक्षाणाय वराहावतारः, एकप्रह्लादरक्षणाय नरसिंहावतारः। दिव्यनरसिंहः। विभिन्नरूपघटनेऽपि अद्भुतसौन्दर्यशली। अंशद्वयमप्यप्राकृतम्। तस्य सर्वभयङ्करत्वं पद्यद्वयेनोच्यते। तत्र वरं दत्तवतो ब्रह्मणो भीतत्वमाह कल्पेति। 34. हिरण्यकशिपुकृतानां तपसां प्रपञ्चः विस्ताराः प्रलभकालाग्निवत् दाहका आसन्। ततो ब्रह्मा उष्णालुः तदौप्ण्यमसहमानः तन्निकटमागत्य तस्य विषये प्रसन्नस्सन् तदभिलषितान् तत्तदवध्यत्वादिरूपान् वरान् अदान्। तदनन्तरं तस्मिन् अतिक्रूरे जाते स्वयमेव ततो लब्धभयः प्रतिदिनमस्य भृत्यवत् पुरोहितवच्च स्वस्तिवचनकर्ता बभूब। अस्येत्यस्य प्रसन्न इत्यत्रेव सौवस्तकत्वमित्यत्राप्यन्वयः। तदन्यदेवानां तत्सेवकत्वमाह-दूरे इति 35. हिरण्यासुरो हन्त गिरां दूरे। तस्य क्रूरभावो वाचामगोचरः। वाग्दूरत्वं क्रौर्यविषये, न तु गुणविषये इति ज्ञापनार्थं हन्तेति पदम्। दुरासदं परैर्दुष्प्रापं वशः वीर्यादिप्रथा। तेनासुरेण जम्भकण्टकस्य जम्भासुरशत्रुत्वेन प्रसिद्धस्येन्द्रस्य सैन्यपराक्रमादिरूपमरण्यं स्वगर्वाग्निज्वालयैव दग्धम्। अतस्तस्याऽऽस्थाने सभायां समीपगते तत्पादनिक्षेपार्थे पीठे प्रणमतां देवासुराणां किरीटानां विलुठतां परस्परमग्रभागे संघर्षात् शब्दा उदपद्यन्त। तेऽपि तत्स्तवपर्यायाः। तैस्सह मुखतस्तैः तच्चरित्रस्तवनमपि क्रियमाणमासीत्। किं तत् चरितम्-स्वच्छन्दप्रसरम् तदिच्छानुरोधिघोख्यापारात्मकम्। स्तुवन्तीति लट्प्रयोगः तथा चित्रे संप्रति दर्शनात्। सोपालम्भम् कुलकुठारत्वादिना निन्दापूर्वकम् अधिक्षिप्तः धिक्कृतः प्रह्लादः पृष्टो हिरण्येन। किमिति। हिरण्यः स्वसमीपस्थं स्वगृहस्तम्भं स्वकरेण प्राहरत्। प्रह्लादोक्तं मिथ्येति प्रकटयिष्यामीति मत्वा तदधीनमुपहासं प्रकटयन्, किमत्र स्तम्भे ते हरिरिति पृच्छंश्च। सपदि तत्करघट्टनक्षण एव स्तम्भान्तः प्रदेशादाविर्भवितुं जजृम्भे ववृघे नृसिंहः। कथम्। सटापटलभीषणः सरभसाट्टहासोद्भटश्च। सः-संभ्रमेति। संभ्रमेण हिरण्ययभयोत्पादानार्थवेगातिशवेन स्फुटानां दीर्घभूतानां मेधानां यो घनः सान्द्रः ध्वनिः तेन द्विगुणं जातं वृंहितं यस्य तथाभूतस्सन्। बृंहितशब्दस्य गजकृतरव एव स्वरसत्वात् अत्र लक्षणा। यद्वा गर्जित इत्येव पाठः। अथवा अनुप्रासौचित्यादस्तु बृंहित इत्येव। वर्धित इत्यर्थः। पूर्वं जृम्भितः स्वकसटामूलघनध्वनिना वा त्रुटद्घनध्वनिसदृशस्वध्यनिना वा द्विगुणं वर्धितश्चेति। पुरुः स्फुरति। तदा हिरण्यस्य पुरुः, इदानीं चित्रे अस्माकं पुरुतश्च स्फुरति। ध्वनेरद्य श्रवणाभावेऽपि घनत्रुटनादिना तत् ऊग्रम्। विग्रहोपचयरूपं बृंहणं सुदर्शम्। अथ तात्कृतहिरण्यभेदरण्यभेदनावस्थां चित्रे दर्शयन् आह। 37. विदारयतीति। अयं प्रभुः हिरण्यस्योरस्स्थलीं स्वनखाग्ररूपैर्वज्रायुधैर्विदारयति। दारुणैः भयं करैरिति वज्रापरपर्यायदम्भोलिविशेषणम्। वलभिदः इन्द्रस्य यानि अस्त्राणि तेषां स्वोपरि पातितानां स्वयमशिथिलीभूय भञ्जनेन उद्भटां प्रौढामित्युरस्स्यलीविशेषणम्। सटेत्यादि प्रभुविशेषणम्। सटाधूननमात्रेण सप्तलोकीस्थितिर्भ्रान्तिं प्रापिता प्रभुणा। पुनः उरोविशेषणं कुलेत्यादि। कुलपर्वतशिलादर्ढ्यगर्वसर्वंकषाम्। दम्भोलीनां पर्वतशिलाभेदकत्वञ्च प्रसिद्धम्। स्थाणुसंततीति श्लोकोऽधिकपाठः, अतीतकालश्च।
विदारणानन्तरभाविरक्तप्रवाह-तदनुगतहिरण्यपक्षीयासुरवर्गवधादिदर्शनेन राजा विस्मयते अहो इति। बाहूनां बहुत्वात् तन्नखानां वज्रायुधश्रेणित्वम्। श्रेणिवत् दीव्यतां स्फुरतां खराणआं तीक्ष्णानां नखानामग्रैः क्षुण्णात् चूर्णितात् हिरण्यस्योरस्तः निष्ठ्यूतानां निस्सृतानां स्रवन्तीभिः नदीभिः भरिताः दशापि दिशः। ईदृशदिग्दर्शने अपूर्वेयं सन्ध्या अहो सर्वत्रेति सर्वैश्चिन्तितम्अ। सायमेव हिरण्यवधात् प्रतीची सन्ध्यैव तदेति अपूर्वैव सा। इतः प्रागननुभूता च रक्तप्रवाहरूपा संध्या सर्वदिग्व्यापिनी। ननु हिरण्यरक्तस्य बिन्दुरेकोपि यथा पृथिव्यां न पतेत्, तथा सर्वं तपीतमिति वदन्ति, कथं तस्य दशदिशाव्यापित्वम्। तत्पक्षे हिरण्यशरीरस्य दशदिग्व्यापितया तत्र निष्क्रम्य स्थितं रक्तमपि तथाभूतमस्तु। रक्तस्यच्छाया सर्वत्र प्रसृतेति वा। स्वामिनः राज्ञो हिरण्यस्य र्ध्वसेन क्रुधान् यः असुरसैन्यसंधः तमपि हिरण्यमिव करैः रुन्धे। तदर्थमपि बहुबाहुग्रहणम्। करशब्दस्य किरणवाचित्वस्यापि सद्भावात् सैन्यसंधस्य किरणनिरोध्य तमस्त्वेन रूपणम्। पाणीनां किरणत्वरूपणौचित्याय नरहरेश्चन्द्रत्वरूपणम्। ब्रह्यस्तम्बशब्दो जगति निरुढः। प्रह्लादस्येव जगतः कृत्स्नस्य प्रधानाह्लादकत्वात् तदेकचन्द्रत्वम्। अपूर्व (पश्चिम) संध्यानन्तरं पूर्णचन्द्रोदयः अन्धकार निरोधश्च भवति हि। अत एव सूर्यत्वेनानुक्तिः। नरसिंहावतारे बाहूनां सहस्रत्वं श्रीपरकालदिव्यसूरिभिर्गीतम्। (1-7-9) तन्न केवलं लक्ष्मीपरिरम्भणाय, किन्तु ततः प्राक् परसैन्यप्रहरणाय चेति अत्र दर्शितम्। उक्तमेवार्थमाशासनान्वयितया भङ्ग्यन्तरेणआह विकस्वरेति। विकस्वराः– विस्तरणशीलाः नखा एव स्वरवः वज्राः। सन्ध्यायिताः संध्यावज्जाताः। रक्तवर्णा इति यावत्। लीलाहरेः लीलया सिंहभूतस्य अहम्प्रथमिका अहमेव प्रथम इति प्रवृत्तिः। एकैकोऽपि बाहुः स्पर्धा करोति, अहमेव आहवं युद्धं कर्तुं प्रथमं प्रवर्तिष्ये इति। एवमाहवप्रकटनवन्तः बाहवः मम पापं हरन्तु।
अस्मदभिमतं महामोहमारणएन पुरुषमोक्षमाषणम् अभिमुखयन्ती अनुकीलप्रग्रे आनयन्ती। 40. अट्टहासगतानि अद्भुतानि अस्माकं भयप्रशमनं कुर्वन्तु। तानि कीदृशानि। प्रह्लादस्य सदा आनन्दकराणि। प्रणतानां देवगणानां प्रीणनानि। केन। प्राणनेन-तेषां सम्यक् जीवनविधानेन। अतिबृहत्त्वमाह प्रत्यूढेति। स्थेम्ना चिरानुवृत्त्या भीमः भयङ्करः यः प्रलयधनानां घटायाः बृन्दस्य घोषणाडम्बरः गर्जितगरिमा सः प्रत्यूढः तिरस्कृतो यैः। मेघघोषापेक्षयाऽपि महत्तराणीत्यर्थः। प्रत्यूढस्थेमा इति बहुव्रीहिवृत्तं आडम्बरविशेषणं कृत्वा प्रत्यूढस्थेमा प्रलयसंबन्ध्याडम्बरो यैस्तानीति विग्रहो वा। क्षुभ्यन्तः क्षोभं गच्छन्तः सप्ताप्यम्बुधयो यैस्तानि। क्षुरम् असिविशेषः। तद्वत् परुषाणां नखानां सर्वलोकरक्षणं प्रार्थ्यते केनचित् श्लोकेन तत्र लिखितेन। तदाह प्रत्यादिष्टेति। 41. पुराणस्यास्य पुरातनानि अनादेः कालात् आयुधत्वेनोपयुक्तनि प्रसिद्धानि चक्रादीनि, इमानि पुरातनानि जीर्णानि वरविरोधादपर्याप्तानीति मत्वा प्रत्यादिश्य तिरस्कृत्य क्षणकालं पाणिजातान् नखानेवायुधत्वेनाकल्पयत्। पाणिजग्रहणेन तेषां त्यागात् तेषां पाणिजप्रत्यादिष्टत्वम्। प्रहरणानाम् आयुधानां ग्रामः समूहः। अकुण्ठमहिमः अप्रतिहतमाहात्म्यः। वैकुण्ठो भगवान् स एव कण्ठीरवः सिंहः। असुरस्य दौर्भाग्ये स्थिते असुरगृहस्तम्भस्य भाग्यमाह यदिति। स्थूणा-स्तम्भव्यक्तिः। तज्जठरस्य अवन्ध्यत्वं सफलत्वं तत्प्रादुर्भावात्। न तत्र स्थूणाकृतं तपः कारणम्, किं तु प्रह्लादपितृगृहसंबन्धित्वे सति तेन प्रहृतत्वम्। स प्रहारः स्वोपरि कृतः प्रहार इवाऽऽसीत् नरहरेः। वेधसाम्। तदा पितामहस्यैकत्वेऽपि ब्रह्मण्डान्तरादिगता वेधसोऽप्यमानयन्। प्रजापतीनां नवानामपि वेधस्त्वविवक्षा वा। याकाचित् अचेतनत्वेन सर्वैर्भाव्यमाना नृसिंहसमुत्पादजनितहर्षस्याप्यदूरभूता। महासुरगृहे याकाचिदिति अन्यासां स्थितानामपि भाग्याभाव उच्यते। गृहस्थूणेति समस्तपाठो न प्राचीनः
| स्यान्नामेदम् गृहशब्देन स्थूणाशब्दसमासे क्लीबानुशासने सत्यपि स्त्रीत्वमारोपितं पितामहात्वसंपादनाय| गृहस्थूणाशब्दस्य स्त्रीत्वं यथा दुर्घटम्, तथा दुर्घटं पितामहीत्वं घटितमासीदिति ज्ञापनायेत्यादिचिन्तनं गृहस्थूणेति पठनमूलकम्| तन्न रुचितम्| स कण्ठीरवो जगन्त्यव्यादित्यन्वयः|
पुरुषसिंहेन। भगवतः नररूपसिंहरूपोभयवत्त्वात् पुरुषसंहत्वम्, अस्य तु विवेकस्य पुरुषश्रेष्ठत्वात्। कालेत्यादिः। कर्तव्ये त्वरितव्यमिति सूचनं देवीवाक्याद् भवति। चित्रदर्शनमूलमालस्यं त्याज्यमिति भावः। असुरापहृतेति महाबल्याख्यासुरखायत्तीकृतेत्यर्थः। व्रीडेति 42. बलेर्वदान्यत्वं स्वर्गादिलोकेत्रिविक्रमपादप्रसरणमूलं प्रथमतो ज्ञातमासीत्। तदुपचारतीर्थेन पाद्येन विरञ्चसमर्पि तेन पतनकाले पशुपतिना शिरसा गृहीतेन तच्छिरोभूषणस्य मकुटस्यापि शुद्धिरासीत्। तस्पैव तीर्थस्य गंगायाः पूराः भगवद्विक्रमप्रस्तावकरध्वजपटवत् सर्वासु दिक्षु प्रवहन्तीत्यर्थः। व्रीडया– हन्त पदत्रयाधिकं न गृह्णाति, अल्पमेव दीयत इति, शीघ्रं दानं न निर्वृतं शुक्राचार्यकृतेनोपरोधेनेति च लज्जया शरेणेव विद्धः प्रहृत आसीत् दाता बलिः। अहो शुक्राचार्ये प्रत्यूहकरेऽपि सोत्साहमदादिति तद्यशसः प्रचारः भगवतः पादेनैव प्रथमं कृतः। अतः तद्यशसो नासीरधाट्यां सेनाग्ररेखायां स्थितो भट इव त्रिविक्रमस्य विक्रमः पदन्यासः त्रैपक्षं त्र्यक्षस्य नेत्रत्रयवतो रुद्रस्य संबन्धि मकुटं पुनन्-शोधयन्-तच्छिरोग्राह्यतीर्थप्रसारिपादसंबन्धित्वात्। अवतु न। पुनन् इत्येतदपेक्षितांश विवरणमर्थात् क्रियते उत्तरार्धेन। यस्य पदन्यासस्य प्रस्तावे प्रारम्भे समुच्छ्रितानां। जितं विष्णुतेति ज्ञापनाय यद्वा जितं बलियशसा सर्वाधिकेनेति ज्ञापनाय अत्युच्चतया निखातानां ध्वजानां पटा इमे इति वृत्तान्तं व्यवहारं सिद्धान्तयद्भिः। तादृशध्वजपटात्यन्तसदृशैरिति यावत्। लोके सिद्धान्तार्थः स्थायी भवति, तद्वत् प्रवाहाणां सर्वदा सत्त्वात् विक्रमवृत्तमनुवर्तमानमेव भवतीति च भावः। सुरसिन्धुः पाद्यतया समर्पिता देवगङ्गा नानादिक्प्रसृत स्वस्रोतोद्वारा सर्वत्र दोधूयते भृशं वीजनं करोति। अस्येवेति। एकैकविषयेऽपि प्रकृतविवेककार्यसंघटनप्रस्तावकरणं सुमतिकार्यम्। प्रबलतरेति। बल सेना। प्रकृष्टसैन्यविशिष्टत्वातिशयभागित्यर्थः। परित्रातेति। लोकत्रयपरिरक्षकत्वमेकैकस्यापि रामस्य। बहुमुखपुण्यजनबाधनोऽपीति। नानाविधानां पुण्यपुरुषाणां बाधकोऽपि पुण्यपुरुषरक्षक आसीदिति विरोधः। वास्तवार्थस्तु महर्षीणां सुखावहः बहुमुखस्य दशमुखस्य पुण्यजनस्य राक्षसस्य रावणस्य अन्येषां त्रिशिरः प्रभृतीनां नानाप्रकाराणां राक्षसानाञ्च धातुकत्वात् बाधक इति।
मोक्षणपरत्वात् वीरतरत्वाच्च विवेको मोक्षतद्धेतुविशेषकारभूतं महावीरचरितमादरेणानुसंधत्ते विस्तरेण अनेनकिलेति। रघुवीरगद्यगतविशेषणानामिह संग्रहः। कोसलसुतायाः कुमारभावेन– कौसल्यायानुत्पन्नत्वेन कञ्चुकितः सञ्चातावरणः कारणाकारः सर्वजगत्कारणवस्तुभावः यस्य तेन। श्रेष्ठावात्, दशरथपुत्रतायाः कौसल्यासुतत्वमूलमेव ज्ञेयत्वाच्च कौसल्यकीर्तनम्। कौमारकेलिः बाललीला। तया गोपायितः विश्वावित्रयागः। वक्ष्यमाणानेकविशेषणसिद्ध्यनन्तरमेवैतद्यागरक्षणस्य भावात् ततः प्राक् गोपायितत्वं कथमिति चेत्– क्रमविवक्षा नेति मन्यताम्। यद्वा आशंसायां भूतवच्चेत्यनुशासनात् गोपायितेत्यस्य गोपनाशंसनविषयेत्यर्थः। प्रस्थानकाल एव तस्योद्दिष्टत्वात् उपपन्नमेतत्। विश्वामित्रोपदिष्टास्त्रबृन्द ग्रहणमाह रणाध्वरेति। युद्धरूपे यागे धुर्याणां भारवाहिनां भव्यानां क्षेमप्रदानां दिव्यानां मनुष्यदुर्लभानामस्त्राणां बृन्देन शालते जयतीति तादृशेन। दिव्यास्त्रलाभावसरे भुजस्फुरणमासीत्। अनेन साधनेन सर्वप्रणतरक्षणं तद्विरोधिमथनेन करिष्यामीति रामो मेने। तदाह प्रणतेति। अतस्तस्मिन् अवसरे कस्यचित् दोर्ललितरक्षितस्प प्रणतस्याभावेऽपि न क्षतिः। विमतानां शत्रूणां विमथने व्यापादने दुःर्ललितम् सोत्साहं दोर्ललितं यस्य तेन। विमथनदुर्ललितेन दोषा भुजेन ललितेनेति तत्पुरुषो वा। यद्वा तदानीं रामसविधमागत्य केनचित् प्रणामाकरणेऽपि अवताराद्यर्थं प्रागेव प्रणतानां देवमहर्ष्यादीनां विरोधिनो ये तद्विमथनमिति ताटकासुबाहुमारीचादिमथनग्रहणम्। मैथिलनगरेति। मैथिलस्य जनकस्य नगरेत्यर्थः। सर्वमैथिलजनाह्लादकत्वेऽपि सुलोचनाग्रहम्, अस्मत्सीतापतित्वमयमेवार्हतीति ताभिरभिनन्दितत्वस्फोरणाय। सुलोचनेति जनकभार्यानामेति केचित्। तदा मैथिलनगरेति व्यर्थम्। दिनकरेति। अस्य विशेषणस्य आरम्भ एव सुवचत्वेऽप्यत्रोक्तिः मैथिलैः अस्य चन्द्रस्य सूर्यत्वेन प्रशंसनं, कोऽसाविति विचर्य तद्वंशज्ञानपूर्वं कृतमिति ज्ञापनाय। आरम्भ एव पाठः स्तोत्रे। खण्डपरशुः रुद्रः। तस्य कोदण्डप्रकाण्डम्– धनुश्रेष्ठं जनकरक्षितम्। तत्खण्डनै समर्थभुजदण्डत्वम्। तद्भेदनस्यैतदिष्टत्वाभावेऽपि भुजदण्डबलेन तत् स्वयमेव भग्नमिति ज्ञापनाय भुजदण्डपदम्। सीताविवाहः इहार्थसिद्धः। वक्ष्यति च जानकीसहधर्मचारिणेति। परशुरामभंगमाह भृगुपतीति। तस्य सुगतयः तदार्जितानि पुण्यफलानि तद्विहतिः तदनुत्पत्त्यर्थव्यापारः तद्धेतुः नतरुट् नतपर्वा इषुपरिधः वैष्णवधनुर्ज्यासंयोजितास्त्रम् अर्गलारूपं यस्य तेन। अवज्ञातयौवराज्येनेत्यत्र भरतकृत प्रबलप्रार्थनायामपि उपेक्षितत्वं संग्राह्यम्। अथ चित्रकूटात् दण्डकाप्रवेशमाह दण्डकेति। जङ्गमपारिजातेनेति सर्वाश्रमसञ्चारो वेदितः। जनस्थाने स्थावरवन् स्थिरत्वात् अविवेकिप्रवेकत्वाच्च खरस्य तरुत्वम्। तत्सहायभूतानां रक्षसां खरस्य च बलतारतम्यं खरतरु, नलवनेति रूपणेन निरूपितम्। महितस्य गगनचारिभिः देवादिभिः श्लाघितस्य महामृथस्य इतः पूर्वं दण्डकारण्यादौ तदातदा रामकृतत्वेन श्रुतात् विलक्षणस्य एकाकिपदातिभॄततत्कृतस्य महायुद्धस्य साक्ष दृर्शनेन मुदितया “विनावैरञ्चरौद्रता” इति विमनायमानतां विसृज्यमहर्षिसुखावहत्वाकारदर्शनात् पतिपराक्रमपारवश्याच्च हृष्टया मैथिल्या दृढपरिरम्भणेन गाढलिङ्गनेन विरोपितानि रोपणप्रतिकोटिभूतलोपनविषयीकृतानि विकटानि महान्ति वीरव्रणानि युद्धक्षतानि यस्य तेन। मारीचाख्यस्य कपटमृगस्य यत् चर्म स्वर्णरत्नमयं मायामयत्वात् क्लृप्तकालधिककालानवभासि, तेन परिकर्मितं परिष्करणाशंसनविषयभॄतम्। सीतामनोरथानुवर्तितया दर्भासनोपरि तच्चर्मनिवेशोऽस्तु इत्याशंसितवान् रामः प्रथमं मायामृगत्वाग्रहणभावनया। निर्भरदर्भास्तरणं निबिडदर्भासनम्। तस्य वस्तुतो मारीचमृगचर्मालंकृतत्वं नासीति। मायाभूतमृगभावस्य शरविसर्जनोपक्रम एव निवृतत्वात्, गृध्रमार्जदाहात् प्राक् आसने तन्निवेशेनोपवेशप्रसक्त्यभावच्चात्र तद्विवक्षणायोगात्। दिधक्षा दहनेच्छा तया लक्षितं दर्शितं दाक्षिण्यं भक्तविषये औदार्यम्। दिधक्षेति विहाय दहनलक्षितेत्येव सुवचम्। दिधक्षामात्रमपि कार्यकरं दहनाभावेऽपि, सत्यसंकल्पत्वात्तु तदप्यासीदिति ज्ञापनाय। अथवा दिधक्षायां दहनेच्छावसरे दाहात् पूर्वं दर्शितं दाक्षिण्यम्। कियत्॥ यावत् भक्तजने ज्ञानिनि परमैकान्तनि भवति, तावत्। “अपरावर्तिनां या च…..मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान्"इति “अनूत्तमेषु उत्तमेषु” इति श्रुतपरमपदप्रदानपर्यन्तौदार्यरूपदाक्षिण्यं हि तत्रोक्तम्। “गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्….या गतिर्यज्ञशीलानाम्…..संस्कृतश्च मया व्रज…. ददाह रामो धर्मात्मा"इति हि क्रमः। अवन्ध्यमहिमानः आश्रितशबरीमोक्षदानबलात् सफलमाहात्म्याः मुनिजनाः शबरीगुरवः तैः सर्वपापक्षपणात् स्वतः प्राप्तो मोक्षः शबर्याः। तस्याः मोक्ष आसीदित्यत्र साक्षिभूतेन। शरभंगादिमहर्षिगमनमिव शबरीगमनमपि दृष्टं परं रामेण, न तु स्वयं मोक्षदातेति गुरुपरिचरणस्तुतिः। प्रभञ्जनस्य वायोः सु स्यः हनूमतः यत् भावुकं कुशलं भाषितम् स्रववेद भाष्यग्रन्थतुल्यवाक्यजातम्, “युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति। तस्य मां सचिवं वानरं पवनात्मजम्"इति, राजर्षिदेवप्रतिमावित्यादिना रामलक्ष्मणौ विशेषतः प्रशस्य, सुग्रीवगुण—- प्रभञ्जनसुतत्वादिस्वगुणादिसारांशसंदर्शि। तरणीति। तरणेः सूर्यस्य सुतः सुग्रीवः। तं प्रति शरणागतिः, “लोकनाथ पुरा भूत्वा सुग्रीवं शरणं गतः” इत्युक्तेः। सूर्यवंशोत्पन्नस्य मे सूर्यादेवोत्पन्नो ज्यष्ठश्च राज्यञ्च समाप्नुयामहम्।… अब्रवीत् प्राञ्जलिर्वाक्यम् … प्रेष्यस्य क्षमितव्यं मे…. सुग्रीवः सहलक्षाणः। अत्थाभेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् इति बंहुमुखं सुग्रीवस्य वानरस्य श्रीरघुसिंहशरणागतत्वस्य स्पष्टमवगमात् सुग्रीवकर्तृकशरणागतिरेवात्रोच्यते। तया स्वस्य स्वातन्त्र्यं खातनत्र्यं पराधीनां कृतम्। अपराधिवालिवधो हि अयोध्याधिपत्यानुबन्धात् रामेण सुग्रीवप्रार्थनाविरहेऽपि कार्य एव। तदिदं स्वतन्त्रकृत्यं सुग्रीवप्रार्थनाधीनतामापादितम्। तथा अवतेरेषु भगवान् स्वच्छया क्रियमाणमपि सर्वं परप्रेरणया कुर्वन्निवाभिनयति। एवं शरणागते गौरवप्रदानमस्य महागुणः। विपुलेत्यादि वालिविशेषणम्। परिभवितुं प्रस्थितं तदर्थे किष्किन्धां गत्वा ततः समुद्रतीरे स्वजपस्थाने समागतं रावणं दशमुखं वालीजपकाले स्वकक्षान्तः प्रवेश्य तस्य रणं चिकीर्षोः रणरणकं प्रदाय तथैव चतुरुदधिविहारपूर्वं किष्कन्धायामुपवने प्रचिक्षेप। सोऽयं बलातिशयोऽत्रोच्यते। विपुलेन विशालेन भुजेन मूले बाहुमूले प्रवेश्य निबिडं सान्द्रं निपीडितेन नितरां मर्दनेन रावणस्य रणण्रकणस्य भयस्य जनकं यत् चतुरुदधिविहरणं तत्र तत्र स्नात्वा जपार्थम्, तत्र चतुरः तस्य यथावन्निष्पादकः तावद्विहारेपि भुजमूलनिपीडनस्याभ्रंशकरत्वुमेवास्यात्र चातुर्यम्। तादृशस्य कपिपतेः वालिनः हृदयं विश लशिलातलमिव। तस्य दारणे भेदने दारुणः भयंकरः “अमोघाः सूर्यसंकाशा ममैते निशिताः शराः। तस्मिन् वालिनि दुर्धर्घे निपतिष्यन्ति वेगिताः।” इति श्रीरामाभिप्रायमतिशय्य स्वयमेक एव सन् वालिनं भेत्तुं मवृत्तो हि शिलीमुखः शरः। तादृशशरवता। विमतस्य विरोधिनः रावणस्य सहोदरस्य-भ्रातु रक्षसः विभीषणस्य शरणागतस्य परिग्रहे संरम्भेण वेगातिशयेन स्वस्य सर्वेश्वरत्वं स्वयं चिरं प्रच्छादितमति अप्रच्छाद्यमासीत्। तदनाविष्कारे प्रणतरक्षणभंगः स्यादिति शंकया तदाविश्चकार। “अंगुल्यग्रेण तान् हन्याम्"इति नृसिंहत्वमाविष्कृतम्, `एतद्व्रतं मम’ इति ईश्वरव्रतञ्च। सकुदिति। सुग्रीवो लक्ष्मणमप्याहूय मिलित्वा पुनः पुनः प्रपद्यते। विभीषणः सकृदेव प्रपद्य निश्शंकं स्थितः। अतः प्रपत्तिप्रभावमजानन्तं विहाय सकृदेव प्रपन्नायाभयं ददामि। तस्य प्रपन्नस्य ये जनाः सहागताश्चत्वारो मन्त्रिणः तद्रक्षणेपि विभीषणसकृत्कृतप्रपत्तिरेव हेतुरिति। एकदीक्षितेन मुख्यतया कृतसंकल्पेन। वानरव्यूहेन संभूय पृथक् च हस्तेषु निक्षिप्यार्पितैरुत्पादितेन सेतुना यानमार्गेण उभयतीरस्पर्शिना, सीमया अवधिना विभागवान् कृतः समुद्रो येन तेन। इतःपरं भर्तारो न भविष्यन्तीति लङ्कान्तः पुरनारीणां वेपथुः शरीरकम्प एव लास्यं नाट्यं तदुपदेशाचार्येण, कम्पिता भवतेत्युक्तवतेव स्थितेन, विशंकटं विशालं यत् विशिखेन वितादनं तेन शिरस्तो विर्घटतैः विशीर्णपतिर्त्मैकुटैः विह्वलः कम्पितः युद्धकरणाशक्तः विश्रवोमहर्षिपुत्रो वीर्यहीनः ब्राह्मणपुत्रो रावणः तस्मै विश्रमसमयविश्राणनेन, “गच्छ, अनुजानामि,रणार्दितस्त्वं प्रविश्य रात्रिञ्चरराज लंकाम्। आश्वास्प निर्याहि रथी च घन्वी तदा बलं ज्ञास्यसि मे रथस्यः"इति नगरं प्रविश्य श्रमपरिहारं कर्तुमनुज्ञाकरणेन, अहो रामस्य विक्रम इति सर्वश्लाधितेन। आकारादिना कुलपर्वतसमानस्य कुम्भकर्णस्य विभेदने वज्रतुल्येन। मघवजितः इन्द्रजितः अभिहननकृत् वधं कृतवान् आहवविचक्षणो यो लक्ष्मणः “पौरुषेचाप्रतिद्वन्द्वः"इत्युक्तवान् स साक्षात् सानन्ददर्शीं यस्मिन् तादृशं रावणेन सह द्वन्द्वयुद्धं यस्य तेन, सर्वस्य जगतः सर्वदा भयानको यो रावणः तस्य मुखदशकस्य कृन्तनेन अपुनरुदयं विनाशनेन हृदयभेदनेन उत्पादितं कदनं दुःखं यस्य तस्य राक्षसस्त्रीजनस्य मन्दोदरीप्रमुखस्य यत् विलपनं रोदनम्, तत्संबन्धिवचनेन, “व्यक्तमेष महायोगी महतः परमो महान्। तमसः परमो धाता शंखचक्रगदाधरः। श्रीवत्सवक्षः नित्यश्रीरजय्यः शाश्ततो ध्रूतः"इति मन्दोदरीवाक्येन पारम्यं परदेवतावतारभूतत्वं यस्य विख्यापितं तेन। विभीषणवशंवदतया कृतं लंकाराज्यं येन तेन, पुष्पकविमानं सर्वैः सहाऽऽरुह्य अयोध्यार्यन्ताकाशरूपं महासमुद्रं गोष्पदवत् क्षणेन लङ्घितवता। प्रतिज्ञाचतुर्दशवत्सरान् वने नीत्वा समागमिष्यामीति श्रीरामकृता, समागमविरहे अग्निं प्रवेक्ष्यामीति च भरतकृता। तद्रूपसमुद्रतरणार्थं कृतः अवशिष्टतयाऽवधृतः एकः क्षणः येन, तस्य भरतस्य मनोरथं श्रीरामसमागमविषयकमेव सिंहासनं तथा तन्मनोरथविषयभूतं राज्यसिंहासनञ्च उभयधिरूढवता। दिव्यायाः परमपदस्थायाः भौम्याश्चास्या अयोध्यायाः उत्कृष्टदेवताभूतेन, तदविशेषमिमां कृतवता, जानवया देव्या सह सर्वान् राजसूयादीन् अनुष्ठितवता। सद्वारकाद्वारक-काम्यनित्यसर्वकर्मसमाराध्येन, रामो विग्रहवान् धर्मः इति प्रसिद्धेन सिद्धोपायभूतेन च। साकेतदेशे उत्पत्तिलाभेन धन्यानां जङ्गमस्थावराणां सान्तानिकलोकरूपदिव्यगतिप्रदानेन स्वस्य मोक्षप्रदत्व-मुक्तानुभाव्यत्वरूपवैभवं दर्शितवता षाड्गुण्यपरिपूर्णेन भक्तानां जानानां भद्रविधानेन आरामभूतेन, समन्तात् तान् रमयता श्रीरामभद्रेण सनाथीकृतम् एतदवत रात् पूर्वं जगत् ईदृशोत्कृष्टनाथविशिष्टं नासीत्, अथ नित्यं सनाथं तेन कृतमिति॥
अतिक्रान्तमर्यादे क्रोधग्रग्मारम् अपराधक्षामणे कृते ततो द्विगुणदयाप्रसरञ्च रिपूणामपि वत्सले रामे सागरोदाहरणेनानुसन्धाय मर्यादानतिक्रमानुग्रहमर्थयते 43. पारावारेति। पारावारस्य समुद्रस्य यत् पयः जलं तस्य शोषणमपि तावत् एका कला। तत्र पारं गतः प्रलयाग्निरेव। तदीयज्वालाजालस्य यो विहारः सोत्साहसञ्चारः अहमुत्कृष्ट यइति , तं हरति श्रीरामबाणः। तत्कार्यस्य सृष्टिमध्य एव कर्तुमारब्धत्वात्। ईदृशविशिखव्यापारेण घोरः भयंकरः सबाणधनुर्ज्याकर्षणेन क्रमः पादन्यासः यस्य स एव, स्रवविधदुरवस्थादून-सकृत्प्रपन्नपारावार-तदनुबन्धिपरिजनग्राहमकरादिरक्षणे, तद्विरोधिवर्गे कोपबाणयोरुपयोजनेन तत्संरक्षणे च मुख्यव्रत आसीत्। कस्मात्। स हि स्वभावत एव सकृत्प्रपन्नतदनुबन्धिरक्षणदृढसंकल्पः दिनत्रयात् प्राग् विभीषणरक्षणेन दर्शितानुष्ठानश्च। शास्त्रीयः सर्वेपि धर्मः श्रीरामरूपेणाऽऽगत इति वक्तव्यम्अ। सनातनधर्मो भगवानिति चात्रैवादर्शि। धन्वी। परशुमुनिकपिकुलपति-समुद्रराजशमनशरासनस्यास्य दशमुखः कियन्मात्रम्। अस्मदीयपापरशिर्वा कियान्। सोऽस्माकमधर्मान्निवृत्तिमनुगृह्णातु सर्वदेति॥
आप्रादुर्भावम् अवतारक्षणप्रभृति। अनुगतपररूपः `चतुर्भुजं शंखगदार्युदायुधम्’इत्युक्तेः, पूतनादिशातनादिना तदवगमाच्च, अनुकूलेष्वात्मस्वरूपस्य आभीरपल्ल्यादौ प्रदर्शनाच्च॥ यदर्थमवतारोऽयमुद्दिष्ट, तत् प्रथमविशेषणत्रयेण, अनुषङ्गसिद्धं फलमनन्तरविशेषणत्रयेण, पञ्चसु वेदेषु पञ्चमस्य तदेकलक्ष्यकत्वम्, तत्र कारणञ्च तत्र प्रतिपादितं संगृह्णाति 44. कंसेति। एवमत्र पुनर्मधुरा प्राप्त्यनन्तरकृत्यं महाभारतोक्तं संगृह्यते व्यवसायमुखेन। गोपीनांप्राणमित्रमिति तदर्थमुद्धवप्रेरणादि ग्राह्यम्। पश्चात् विवेकमुखेन सर्वगोपलीलानुसंधानम्। एकवीरः। तद्ध्वंसोऽन्याशक्य इति भावः। आयुधादिनिरपेक्षत्वमिप एकशब्देन विवक्ष्यते। दुरवस्थावसरे बन्धुस्सन्निवर्तकः। प्राणमित्रम्। एतं विना हि ताः प्राणधारणमलब्धवत्यः। चिन्तयन्ती चिन्त्यताम्। प्राणः आत्मा तन्मित्रञ्च। गुरोः सान्दीपिनिमहर्षेः गुरुदक्षिणाप्रदानशेषतथा मृतसुतपुनरुज्जीवनविधानात् उदारकीर्तिः। एतद्वृत्तचिन्तने पूर्वरक्षित-जातमृतदशापन्नपरीक्षिदुज्जीवनं कियन्मात्रम्? जीवनमेव सुतस्य गुरुकांक्षितम्। ततो गुरु कृष्णेन तद्विषये कृतं जीवनसहितमुज्जीवनम्। महदिदमौदार्यम्। राज्यानर्हस्य यदुवंशस्य लोकोत्तराभिवृद्धिरनेनेत्याह नाथ इति। इन्द्रप्रार्थनावशात् (न तु अवतारात् प्राक्कृतभूदेवीप्रार्थ नावशात्, कथं हि सा खपुत्रबधं साक्षात् अपेक्षेत। सुतभारभरणमेव हि मातुः सहजम्।) नरकासुरस्य पुरे स्थितानां स्त्रीणां पत्रभङ्गः भर्तृभोगशेषतया क्रियमाणं रञ्जकद्रव्यादिना देहालंकरणम्, तदपहारी। वैधव्ये तदप्रसक्तेः। पुरवधू इति प्रयोगः षोडशसहस्रकन्यकापहारी स खपुरे का वधूं त्यजेदित्याशयेन। पाञ्चाल्याः द्रौपद्याः वल्लभानां तदिष्टपूर्तये योद्धुं प्रवृत्तानां पतीनां प्रथनं युद्धम्, तन्मुखेषु तत्प्रभृतिकार्येषु अथ वा प्रथनस्य मुखे सारथ्ये सुहृत्। प्रथनमुखं दूत्यं वा, तत्र सुहृत्। पञ्चम आम्नायो महाभारतम्। स हि नारायणं नमस्कृत्येति आरम्भेऽपि। नरनारायणावतारो हि क्षीरार्णवनिकेतनः श्रीकृष्णः॥ गोवर्धनोद्धरणमहार्णवे पूतनाशातनादिकेन गोष्पदायितमित्याह अमुनाकिलेति। 45. निकटेषु समीपेषु। न केवलं हृदि मुग्धशिखण्डमण्डनोऽयम्, किं तु सर्वतः परिसरेष्वपि, भायनाप्रकर्षात्। मृग्यमाणम् कुत्रास्तीति गवेष्वमाणम्। तदनुग्रहे सति किं न लभ्यम्। जड इव सुते मातेव वत्सला तद्दया। यमालार्जुनाभ्यां नलकूबरमणिग्रीवाभ्यां यक्षाभ्यामस्य बालावस्थायां सर्वा कैलिर्दृश्यमानैवाऽऽसीत्, कदाऽस्मत्सविधभागम्योद्धरिष्यतीति। अन्ते उलूखलाकर्षणावसरे च सम्यग्दृष्टा। गोपादयः सर्वे तु तां केलिं वृक्षभञ्जनरूपां तदा न दृष्टवन्तः। बालकेलिदर्शनावसर एव यौवतम् युवति समूहः। गोपीसमूहस्य यमुना साक्षिणी। एकैकापि गोपी एतदीयं वञ्चनं यमुनादेवीमूलमेव बुबुधे इति भावः। तत्र विहारे यमुना साक्षिण्येवासीत्, न तु स्वयं विजहारेति च भावः। निखिलनिगमान्तनित्यमृग्यमाणस्य यमुनायमलार्जुनादिदृष्टानुभवत्वं युज्यते, यत् अहमेव तं तादृशं निकटेषु निशामयामि-पश्यामि॥ चित्रस्थं श्लोकं वाचयति व्यवसायः। वामतः वामपार्श्वे। वेणुप्राधान्येन वेणुगोपालमूर्त्यनुभवः। ललितवृत्तिं ललितां मृदुमधुराङ्गनृत्तसाहित्येन भोग्यां वृत्तिं गीतप्रभेदम्। गोपस्त्रीसंबन्धिवलयध्वनिमिश्रणसंपन्नश्रवणमाधुर्यातिशय हस्ततालध्वन्यनुरूपं वाद्यमानो वेणुः स्थावरजङ्गमसर्वजीवद्रावकतया सर्वोत्कर्षेण वर्तते। तस्य भाग्यातिशयोऽयम् यत् भगवद्दिव्याधराप्राकृतामृतांशपानलाभ इति। श्रीभूम्यादिनिर्विशेषं तत्पायिन्यो गोप्यः। तत्र भागीत तथा वेणुः, यथा गोप्यस्तत्र पुरोभागिन्यः संनिकृष्टस्यापि कृष्णस्य संश्लोषविरहेणेव अधरसुधास्वादालाभेनापि शैथिल्यं प्राप्ताः। अत एव कार्श्यात् वलयशैथिल्यम्। परन्तु तालध्वनेः सहायसंपत्तिस्तेन॥ गोपीजनवल्लभत्वेन गोपीबृन्दाकर्षकवेणुवादकत्वेनानुभाव्य, अग्रजबलरामविहारसंपादितस्वादिमातिशयलीलासहस्रत्वेनानुकभावयति श्लोकान्तरेण 47. फक्कदिति। दुर्योधनदुहितृदुश्शलापहार्यनिरुद्धनिरोधकानाम् आज्ञातिलङ्घिनां कौरवाणां परिभवनाय हलेन हस्तिनापुरे गङ्गायां पातनाय पार्श्व एकस्मिन् उत्थाप्यमाने, तेन कौरवपट्टणेन सह तत्रत्याः प्रजाः तत्समीपदेशाश्च फक्कन्तः अधः पातिन आसन्। अतः फक्कन्तः पट्टणप्रभृतयः याभिर्विहृतिभिस्ताः। फक्कदिति वर्तमाननिर्देशः इदानीमपि तस्य पट्टणस्य पातोन्मुतयैव दृश्यमानत्वात्। प्रभृतिपदेन यमुनाकर्षण-रेवतीह्वस्वीकरयणादिविवक्षाऽपि। तथा प्रास्तः निरस्तः प्रलम्बासुरादिः याभिस्ताः। तालाङ्कः बलरामः, तालबृक्षध्वजत्वात्। प्रलम्बधेनुकमुष्टिकद्विविदादयो बलरामहताः। ता लीलाः कृष्णलीलाक्षीरस्य शर्करायमाणाः। अपृथग्भूताः। क्षीरनीरविभजनविचक्षणा हंसा अपि क्षीरशर्करे संपृक्ते इव एताः पृथक्कर्तुं न प्रभवन्ति। मधुरस्यापि दुग्धस्य शर्करासाहित्य एव स्वाद्यत्वमारोग्यकरत्वञ्च। तद्वत् स्वभावत एव बहुगुणवत्यः कृष्णकेलयः बलभद्रविहृतिसाहित्येन प्रभूततामधिकोत्कर्षं भजन्ते। गुणप्रयुक्ता च स्वाद्यता। आकौमारकमिति रुक्मिणीपरिणयादिकालिकयौवनविहृतयोऽप्यानीयन्ते मनसि। अस्वदन्त जगते। सर्वजनभोग्यतराण्यासन्। ताः– `जन्म कर्म च मे दिव्यम्’इत्युक्तापुनर्जन्महेतुदिव्यभावभव्याः॥
यथापूर्वं सुमतिः परिगौरवेण कृष्णसाम्यमपि विवेके प्रकृतानुरूपामाह अवनीति॥
अवतारान्तरापेक्षया कल्किनो विशेषमाह अखिलदोषनिर्मूलन इति। तत्तद्युगमध्येऽवतारा भवन्तः कतिपयदुष्टमात्रशिक्षणेन जगत् परिष्कुर्वन्ति। अथापि दुष्टानामनुकृत्तिर्न हीयते। कलियुगप्रारम्भे भुवं त्यजन् कृष्ण एवात्रोदाहरणम्। द्वापरान्तापेक्षया कल्यारम्भे दोषाधिक्यमेव सर्वसंमन्तव्यम्। कल्की तु दुष्टं युगमेव लोपयन् सर्वोत्कृष्टं कृतयुगमेव सर्वतः प्रवर्तयन् सर्वान् अतिशेते इति। तदिदं व्यवसायोक्तमनुसन्धाय कृतप्रियः कल्किनं प्रार्थयते भाविन्येति। भावी कल्कीत्यनुवत्वा भाविन्या दशया भवन् इत्युक्तिः चित्रे साक्षात्कारं वर्तमानं दर्शयति। दशावतारस्तोत्रे च कल्क्यर्चादर्शनादेव प्रयोगः। कथं नु भविष्यतः इदानीं कार्यकरत्वमिति शंकापरिहारार्थञ्जैवम्। यद्यपि तस्य दशा सा अवतारावस्था भविष्यन्ती, अथापि स इदानीमप्यस्त्येवेति न दोष इति भावः। इह भवन्। भुवि भाविन्या इह चित्रे भवन्। कल्कीति नामधेयं कल्कवत्त्वात्। कल्कः वाहनभूत इति अनन्तरश्लोके। लोके स्थितानां सर्वेषां कल्कानाम् असाराणामधःकरणं स्वकार्यमिति तेन ज्ञाप्यते। विष्णुयशस्सुत इति। “शम्भलग्राममुख्यस्य ब्रह्मणस्य महात्मनः। भवने विष्णुयशमः कल्कीप्रादुर्भविष्यति"इति स्मर्यते। कलिकथा कलिपुरुषकर्तृको व्यवहारः, सव कालुष्यम्। कलियुगविषयकं पुराणादि, तत्रोक्तं कालुप्यमिति वा। यद्वा कलिरिति कथनमपि कालष्यमेव, तल्लोपकः। कथाशेषताऽपि कलेरपनीयते। अत्रकलिरिति व्यवहार्या यत्रक्वापि कलिस्थितिरपि नेति तात्पर्यम्। यद्वा कलिः पापम्, तत्कथा तत्प्रसंगः। कूलंकष इत्युक्त्या एतस्य कृपारसप्रवाहरूपत्वं व्यज्यते। एतदीयमानस्य एतद्रसाशयोत्थितधाराधरत्वमप्यत उपपन्नम्। निस्त्रिंशस्य कृपाणस्य नन्दकस्य धाराधरत्वं तीक्ष्णाग्रधारित्वात्। एवं धाराधर एव धाराधरः मेधः। यत्र क्षितितले क्षेत्रभूते दाहादिना सस्यप्रतिबन्धक कण्टकादि निश्शेषं क्षतं नष्टं कृतं भवति, तत्र मेघकृतवर्षधाराधीनजलप्रवाहैः अंकुरा उत्पाद्यन्ते, तथा खइगोपि स्वकीयधारापातशतेन ध्रमकण्टक जनक्षपणेन कृतयुगमङ्कुरयतीति। कतिकति अत्यन्तं बहवः। स्वच्छन्दावताराः स्वेच्छामात्राविर्भाविता मूर्तयः। निगमान्तवन्दिनः वेदान्ता एव स्तुतिपाठ कत्वेन रूप्यन्ते। “यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः"इति यादवाभ्युदये।
निगमानामेवाशक्तत्वे कथं वयं वर्णयित्वा फलं लभेमहीति शंकायाम्— उक्तप्रकारेण स्तुतिपद्यन्यपि नापेक्षितानि, अवतारकीर्तनमात्रमलमित्याह अपिचेति। दशावतारस्तोत्रश्लोकाः सर्वेऽप्यत्रोपात्ताः। `नाथायैव’इति श्रीकृष्णविषयं पद्यमपि षष्ठे अङ्के। इच्छेत्यादीनि विशेषणानि तत्तत्पद्य पूर्णार्थस्मारकाणि। श्रुतिजालमार्गणदशा, सदोहलम् इति पदद्वयदर्शिता इच्छा इच्छापदार्थः। विहारकच्छप इति `विहरते देवः’इति स्वकर्तृकविहारोपयोगिकूर्मावतारेत्यर्थः। महापोत्रिन्। स्वदंष्ट्राङ्कुरकोटिकोणेमुस्तेव विश्वम्भरेति महत्त्वम्। यदृच्छाहरे। यत्प्रादुर्भवनात् यादृच्छिकादिति। रक्षावामन। दानववदान्यताप्रख्यापनाय हि विक्रान्तम्। याचनमपि तस्यापि रक्षणाय हि। रोषराम। क्रोधाग्निमित्यारम्भ एवोक्तम्। करुणाकाकुत्स्थेति सर्वावस्थेत्यादिदर्शिताकारः। हेलाहलिन्। कौरवपुरफक्कनं हलेनैव। क्रीडावल्लव। ताः केलयः, कालिन्दीरसिकायेत्यादिना दर्शिताः क्रीडाः कल्कवाहनदशाकल्किन्। कल्कशब्दः `ताम्रत्वक् सितवालकेशतनुजः’इति लक्षणलक्षिताश्ववाचीति वदन्ति। स वाहनं यस्य सः। तस्य दशया– अवस्थाया कल्किपदवाच्यं!। दशाकल्पिन् इति पाठे तद्देशाकल्पकेत्यर्थः। कल्कवाहनेति पृथक्संबोधने, दशाकल्पिन् इत्यस्य एवमवतारकल्पकेति रीत्याऽर्थश्चिन्त्यः। इच्छेत्यादिना सह यथायथं समासः। जल्पन्तः गुणानुभवयारवश्याद्वा न्यवहारासामर्थ्याद्वा। एवं संबोधनजल्पनमात्रेण पुण्यौघप्रदायित्वं पुंसाम्। पुण्यसंधा एव पण्यानि क्रयार्हद्रव्याणि। तेषामापणाः विक्रयस्थानभूताः। किं दत्वा क्रीणन्तीति चेत्– प्रणामपणायनादिकम्। तेषु-अजहत्स्वस्वभावत्वादिना प्रसिद्धेषु एतेषु भगवन्मूर्त्यतिरिक्तग्रहणमसाधु। पररूप्रचिन्तनं साधु। अवताररूपचिन्तनं साधीयः। अताररहस्यज्ञानानुवर्तनात् सौलभ्यसौशील्यादिगुणप्रकाशाच्च। 50. विशुद्धे अप्राकृते। विश्वरूपस्य तन्मी र्यविशेषं सर्वशीरकस्यापि। समाधिजननीं साक्षात्कारावस्थाहेतुभूताम्। भावनां धारणां ध्यानञ्च। साधयिष्यामीति मयोक्तं, न मे प्रधानकर्तृत्वविवक्षयेति विवेकेनोच्यते नचेत्यादिना।
51. परेति। अधीयमानान्यपि प्रमाणानि तत्पदकमलनतानामेव-भक्तिरूपगुणाविशेषशालिनामेव स्वार्थं दर्शयन्ति, ओषधय इव केषाञ्चिदेव स्वरूपम्। एतत्प्रमाणाधीनभासनगोचरः विस्रम्भेण स्वीकृतः प्राच्यः पूर्वजन्मादिकृतः संस्कारः अनुभववासना। यथा तत्तत्क्षेत्रवासिनां क्षेत्राधीशे। प्रभुः फलप्रदः स्वानुकम्पाधीनाः स्वकीया लीलाः पुरुषमोक्षणार्थाः निर्विघ्नमुत्पादयन्। बाधिकास्तु लीला स्वयमेव विघ्नैर्विघटयन् परिकलयति स्वीकारयति॥
इति श्रीवात्स्यवीरराघवाचार्यकृतौ सर्वसाक्षात्काराख्यटीकायां सप्रमोंकः॥
********************************************************
अष्टमोऽङ्कः
मिश्रविष्कम्भः
[ततः प्रविशति अभिनिवेशः]
अस्मिन् अष्टमे महामोहं विवेको जेष्यति। कामलोभादयः पूर्वमेव पलायिताः। मुमुक्षुः पुरुषो धारणायां प्रवृत्तः महामोहेन दुर्वासनाभिनिवेशयोः प्रेरणेन कामलोभादीनामुत्तम्भनं विधाय निवर्तयितुमिष्यते। तौ दुर्वासनाभिनिवेशौ स्वाशक्तिमादौ विष्कम्भे उद्घाटयतः। अथ महामोहस्य स्वयं योद्धुं प्रवृत्तिः, तदा नारदसमागमः, संधमिच्छता विवेकेन मोहं प्रति दूतप्रेषणम्, तद्वैफल्येन युद्धारम्भः, नाटके युद्धस्य साक्षादप्रदर्श्यत्वात् तुम्बुरुनारदरूप प्रेक्षकमुखेन युद्धपरिस्थितिवर्णनमिति क्रमः॥
अभिनिवेशः अधिकासक्तिविशेषः। अयं लोभस्य श्रान्तस्योत्तम्भक इति वक्ष्यते। 1. मप्प्रेरिताः— अभिविवेशवशाः व्यसनेषु। द्यूतं स्त्री मृगया मद्यं वाचो दण्डस्य चोग्रता। व्यर्थव्ययश्चेति सप्त व्यसनानि महीभुजाम्॥ यथायथमन्येषाम्। तदारम्भे प्राप्ते ते उत्साहं लभन्ते। मुहुः पुनः पुनः प्रत्यूहः विघ्नः तद्रूपया वात्यया प्रबलवातेन निवर्त्यमाना अपि अभिनिवेशप्रेरिताः आरब्धं न विमुञ्चन्ति। अर्थस्य पुरुषार्थस्य नानाविधैर्दुःखैः तत्संभवैः सर्वदा भयंकरत्वेऽपि तत्रास्थाम् अभिनिवेशप्रेरितत्वादेव न जहति त्यजन्ति। अर्थानामार्जने दुःखं दुःखमार्जितरक्षणे। नाशे दुःखं व्यये दुःखं व्यये दुःखमर्थो दुःखबदः सदा-तादृशोऽहमभिनिवेशः महामोहमहाराजकोशाधीकारी। (कोशस्तस्य भोगसञ्चय इति उपरि वक्ष्यते।) एकत्रैव दत्तदृष्टित्वात् अहमेकदृक् भवामि, न तु काणत्वात्। कोशाधिकारीत्यस्येदमपि निरूपकम्, यदहं मोहं प्रति धनस्थाने स्थितस्य लोभस्योत्तम्भकः। लोभः पूर्वं यत्र, तत्र तेन सह पश्चादहमभिनिवेशो भवामीति अहं लोभस्यानुजः। 2. चरमसंभवः चरमः- पश्चात्तनः संभवः उत्पत्तिर्यस्य मे इति। अवसादप्रसंगेषु आर्जनरक्षणोपयोजनादिसमयेषु यदा दुःखदर्शनेन स्वप्रवृत्तिमान्द्यम्, तदाऽहं लोभमग्रजं श्रान्तं संधुक्षयामि `भवत्वेवम्, अथाप्यर्थमनन्तरक्षण एव वर्धयिष्यामः’इति। अतो भ्राताऽहं लोभस्योत्तेजने प्रोत्साहने उद्यमवान् भवामि। एं स्वस्वरूपकृत्ये प्रदर्शिते। साम्प्रतिकं वृत्तमाह अहो इति। साम्परायिकम् युद्धकार्यम्। महत्-साक्षात् राज्ञोरेव योधने प्रवृत्तेः। तदिदं सप्तभिरङ्कैः प्रदर्शितैः सप्तभिरंशैर्विशदयति क्रमेण यदिति प्रथममिति। प्रथमांकवृतज्ञापनम्। द्वितीयांककृत्यमाह यच्चासाविति। सच्छास्त्रश्रद्धावैकल्यकारणभूतासच्छास्तरनिरसनात् श्रद्धाभिवृद्धिः। तृतीयांककृत्यं यदपि चेति। विषयवैराग्य-प्राप्यतृष्णादिमोक्षोपायपर्वचिन्तनात्। कामक्रोधादिविमुखीकरणं चतुर्थपञ्चयोः। तत्र कामक्रोधजयः चतुर्थे, दम्भदर्पादिदमनं पञ्चम इति। षष्ठे धारणाध्यानसमाधिस्थानचिन्तनम्। शुभालम्बनदिव्यमंगलविग्रहनिर्धारणं सप्तमे। अत्राङ्के क्षुद्रोपद्रवपरिकरसहितमोहपराजयः संपाद्यः। तत एव योगनिष्पत्तिः।
वक्ष्यमाणार्थचिन्तनात् विषादातिशयः। तमाह बिजिग्ये 3. इति। यैः कामादिभिः जगत्रयं जितम्। कथम्? स्त्रीद्वारा। अभिरूपयुवतीः पुरस्कृत्य। तत एव जितकाशित्वात् सुभटाः इदानीमन्यथा। रावणमरणे जाते मन्दोदरी विललाप, इन्द्रियाणि पुरा जित्वा जितं त्रभुवनं त्वया, तैरेवेन्द्रियैस्त्वं जितोऽद्यमारितोऽसीति, सीतापहारस्ते प्राणयहारायासीदिति भावेन। तदत्र स्मार्यते। कास्ताः स्त्रियः कामादिपराजयकारिण्य इति चेत्-वक्ष्यति अयमेवोपरि। दुर्वासना नैपथ्ये आह, या रंगं प्रवेक्ष्यति। अलीकम् अनृतम्। भाव इति शब्दः पत्यौ पतिवत् गौरवयितव्ये च प्रयुज्यते। महामोहसैनिकधुरन्धरत्वं निष्फलमासीदित्युक्तिमसहमानोऽभिनिवेश आह। पूर्वं कामादेर्जयलाभोऽपि स्त्रीभिः। माम्प्रतमपजयोऽप्यन्याभिः स्त्रीभिरेवेति स्त्रीप्रभावः स्त्रिया दुर्वासनया श्लघनीय, कथमेवं विपरीतमाहेति अस्य क्रोधातिशयः। रण्डेति निर्देशमसहमाना सा प्रत्याह एतेनापीति। अग्निसाक्षिकमित्यत्र उदराग्नि साक्षिकमित्यपि पाठः। गान्धर्वादिविवाहेऽपि साक्षी अग्निरपेक्षितश्चेत्, अयमेव सुलभः। दुर्वासनाभिनिवेशयोमन्तःस्थितयोर्विवाहः तत्रत्यजाठाराग्निपाक्षिको भवितुमर्हति। इतरोऽग्निः शीघ्रं शाम्येत्, उदर्याग्नस्तु दीर्घजीवी। रण्डाशब्दः भर्तृहीनां व्यभिचारिणीं ब्रूयात् उभयविधाऽपि नेत्याह दुर्वासना। उपसृत्य रङ्गमगत्य क्षान्तपरिवादा रण्डेति मत्कृतं परिवादं सोढवती, सत्यबादिनं कामादिवर्गस्य स्त्रीलोकपराजितत्वनिरूपकम्। दुर्मतिः महामोहपत्नी। विवेकपक्षीयाणां विजयं मोहपक्षीयाणां मृत्युञ्च विशदयन् स्वोक्तं निरूपयति अभिनिवेशः। जुगुप्सा तितिक्षा तुष्टिरात्मविद्या च स्त्रियः। ताभिः कामादयो जिताः। जुगुप्सा कुत्सा हेयत्वात्यन्ताभासत्वबुद्धिः। तितिक्षा द्वन्द्वसहनम्। तुष्टिः अलम्बुद्धिः संतोषः। आत्मविद्या– यथावस्थितजीविश्वरबुद्धिः। तया अहंकारस्य देहात्मभ्रमस्य तदधीनस्य गर्वस्य च निवृत्तिः। कामादीनां पुरुषत्वे सति जुगुप्सादीनां स्त्रीत्वे कः संदेह? उक्तानां स्त्रीणां शक्तिवैकल्यं शंकते दुर्वासा किमिति। अनादिकालप्रवृत्तं कामादिप्राभवमाभिर्न शक्यं नाशयितुमित्याशयः। दैववलं हेतुरिति समाधत्ते अहमपीति। शलभ्यः दीपसमीपं स्वयमुत्पत्य आगत्य निपत्य क्षीयमाणाः कीटविशेषाः। तासां निपाते, कदाचित् संधेशक्तिरिति न्यायेन शलभीव्यूहपातेन दीपोपि नश्यतीति अभिनिवेश आह। महामोहपर्यन्तानामित्यनेन तवापि ममापि इति च विवक्षितम्। तत्र मोहमृतिं भ्रूक्षेपेण स्वीकृत्य स्वविषये वक्तव्यमाह प्रिये इति। विवेकसमीपे गन्तुः पुरुषकारः क इत्यत्राह मुमुक्षापुरस्कारेणेति। लोके विपरीतविषयकासक्तिविशेष एवाभिनिवेशशब्दप्रयोगात् सविशेष [ण]गृहीतनामक इत्युक्तम्। सहस्रनामशब्दः प्रयोगप्राचुर्यात् विष्णुसहम्रनामपर एव। सविशेषणनिर्देश एवान्यदीयसहस्रनामग्रहणम् तद्वत्। कथं भवामि कथं जीविष्यामि। दुरन्वयम्। एतावत् ते मोहानुबन्धिसंबन्धात् दुरन्वय आसीत्। भाग्यकालः प्राप्तः, विवेकवर्गसंगात्। अतस्त्वं सुसंगतेति भावः। तर्हि मम नाम किमित्यत्रापि समाधानमत्रोक्तम्-दुरन्वयं परित्यज्य-दुर्वासनेति नाम्नि दुश्शब्दसंबन्धं त्यक्त्वा सुसंगता सु इति शब्देन संगता सुवासना भूत्वा जीविष्यसीति। मोहस्य तु सर्वथा न जीवनप्रसक्तिः। जीवितेश्वरी। त्वां विना न जीविष्यामि। यत्रक्वाप्यभिनिवेशोऽपि वासनाबलाधीनस्थितिक एवेति। मोहादिनाशसूचकानि दम्पती एकान्ते शीलयतः दिव्य उत्पात्त उत्तरार्धे। भौमः आद्यपादे, शिष्टः शिष्टे इति स्यात्। तोरणशूलशृंगम् तोरणं वर्हिर्द्वारदारु। तत्रोपरिस्थितभागः शूलम्। तच्छिखरम्। तदभितः तत्पर्यन्तप्रदेशेषु। वात्यामण्डलेन मण्डलाकारमाहावातेन ध्वजपटीनां खण्डितत्वात् अपनीतत्वाच्च तच्छून्यता सैन्यानाम्। सर्वत्र प्राणप्रलयकारिणः किङ्कराः कैश्चित् अप्रेरिता अपि प्रतिदिशं भासन्ते सायुधाः। सोऽयं उपरितनलोकसंबन्धी उत्पातः। किंकराणां नूनं यमभटत्वसंभवात्। संवर्तसंवर्तकैः संवर्तस्य प्रलयस्य सम्यग्वर्तनहेतुभिः। नारदादिदर्शनमपि दिव्योत्पातत्वेन कल्पयति निवृत्तीति। अत एव श्वेतवायसत्वौपम्यम्। शत्रुचारप्रवेशोऽयमित्याप्याह चतुर्थपादेन। निवृत्तिधर्मपदमपि तदभिप्रायेण। नारद इति लोकप्रसिद्धं नाम। गूढं नाम तु निवृत्तिधर्म इति। नारद इत्यस्य नारं– नरसमूहं द्यति कलहेन खण्डतीत्यर्यो वा, नारं नरसंबन्धितत्त्वज्ञानं ददातीत्यर्थो वाऽस्तु। अयञ्चेति तुबुरुमपि दर्शयति। पर्येतीत्यत्रान्वयः। मोहवैरिणः विवेकस्य प्रणिधी चारभूतौ। तयोरपि तयोर्मध्ये अयं नारदः। प्रविष्टश्चेते। ननु उभयोः प्रवेशे स्थिते एतन्मात्रे कथमेवं प्रयोग इति चेत-प्रविष्टश्चेत्यस्य प्रवेशमात्रेणेत्यर्थः। ताबतैव विदूषकत्वात् श्वेतवायसतुल्यत्वमस्येति कथ्यते। न त्वन्यप्रवेशनिषेधः। अथवा तुम्बुरुराकाशे युद्धदर्शनार्थं स्थितः। अयं तु तावत् माहमोहसविधमागत्योपरि संलपिष्यति। कलहाभिवर्धकत्वात् राजधानीप्रवेश एतस्यैवेति। स्वलक्षणम् स्वरूपम्, असाधारणधर्मः कलह एवैतद्व्यक्तिरूपेण मूर्त इति वा। व्यक्तिपरताय खलक्षणपदस्य बौद्धादिभिः प्रयोगात्। कलहं मोहः श्रोष्यतीत्याह विप्रलम्भेति। विप्रलम्भः वञ्चनोक्तिः। तथेत्यस्य भविष्यतीत्यर्थः। नियतिः विधिः, पूर्वकर्म। 6. उत्तभ्यताम् उन्नमय्य प्रसार्य व्याप्यताम्। संवर्तेति प्रलयकालिकसमुद्रधोषतुल्यघोषकरमुखविशिष्ट (30) पणवमङ्डुकमद्दलादि वाद्यवर्गः प्रह्लियताम्। लोकपाला अपसार्यन्ताम्। महाराजागमनमार्गे क्षुद्रजनैर्मार्गोपरोधकैः स्थातुमयुक्तं किल। हेमवेत्राणि कनकमयत्वात् चालनकाले क्षणरुचीनां विद्युतां पटलीवत् प्रकाशेरन्। आहवं घटयितुं युद्धोपरोधनिवर्तनेन निर्वर्तयितुम्। अचिरात शीघ्रमेव। संनह्यते बद्धपरिकरो भवति। 7. अमोहमविवेकंवेति। ननु अविवेकममोहवेति क्रमो युक्त इति चेन्न, स्वाम्यनिष्टमत्यपाकरणाय भृत्येनावधायैव प्रयोगात्। श्रीमति रामायणे `आरवणमरामं वा’इति प्रयोगोऽपि अत्र स्मर्तव्यः। तत्र शब्दविपर्यासे वृत्तभंगः स्यात्। रावणाभावात् पूर्वं न रामाभाव इति च तत्र गम्यते। भोगभाण्डागारलुण्टाकत्वं तच्चोरत्वं तन्नाशकत्वम्। कण्टकानां विरोधिनाम्।
लोकपालाः दिवपालकाः राजानश्च। संभाविता आगमनेन पवित्रीकृता। अनितरसाधारणमिति गौरवाभिनयः, निन्दैवाभिप्रेता। अनुभवितार इति तृन्। अतो द्वितीया। औपवस्तम् उपवासरूपम्। द्वादशीमिति। दशमेऽप्यङ्के 69 श्लोकानन्तरमिदं द्रष्टव्यम्। द्वादशीदेवता तस्यां तिथ्यां तुलसीवने वसति। अत एव तदा तत्पत्रानाहरणम्। द्वादश्यामुपवासश्च स्मृतिषु प्रसिद्धः। अयं काम्यो नित्यो वा। नारदस्तु महामोहस्य तदज्ञानमेव दर्शयति। भवत्स्वभावः भवतः स्वाभाविकी परिस्थितिः। अद्भुतत्वम् व्रतानुष्ठानाननुरूपवेधरूपवत्त्वात्। तयोर्वेषरूपयोः शृंगारिस्वात्मेष्टत्वात् मनोहरत्वम्। 8. ललिता मनोहरा। बहुगुणा वीणान्तरेभ्योऽतिशयिता अधिकतन्त्रीका च। अत एव महातीति तन्नाम। चान्द्रमसीम् सर्वाह्लादकरीम् अमृतवत् भोग्याञ्च। अस्मिन्नवसरे भवदागमनं कार्यसाफल्यं दर्शयतीति मन्यते मोहः। विपरीतमिति। नृपवाद्यगीताभिरूप्यादिकं शृंगारैकोपयोगीति अस्य भ्रम इति भावः। पुष्करपलाशवदिति। पद्मपत्रवदित्यर्थः। तत्र जलं पतितं बिन्दुरूपेणोद्गम्यापसरति। न तेन तस्य लेपः। तथाभूतोऽपि पुरुषो लिप्यते मोहवशादिति अस्य प्रशंसा।
9. महाराज, त्वदधिष्ठितं भद्रासनं अद्भुतपादपीठीसहितम्। का सा पादपीठी। प्रथमतः साहंकारं स्थिताः पश्चात् परिभूततयाः प्रत्यूढोत्सेधाः निरस्तगर्वाः ये प्रतिभटाः विरोधिनो राजानः तेषां मकुट्य एव पादपीठीभवन्ति, तदुपरिपादन्यासात्। मकुटौसहित पादपीठीति वा। तथा तद्भद्रासनं दुर्दान्तानां दृप्तानां द्वेषिणां दन्तावलाः गजाः तेषां रदनानां दन्तानां पदं स्थानम्। तद्गजदन्तैः कृतत्वात्, दन्तानां सद्योऽर्पितानां निक्षेपाच्च। युद्धात् प्रागेव शत्रुस्त्रीणां स्थितिं वर्णयति त्वदिति। तव तेषां दमनार्थं निष्क्रमणप्रयत्नप्रस्तावश्रवणसमये प्रथमं जाता भीतिरेव, अथ पलायनादिकम्। ततर् लोकालोकपर्वतपर्यन्तं गत्वा तदुपरिगमनायोगात् लोकपालमहिष्यस्तत्रैव तिष्ठन्ति। ततः फलायनादिकार्यं निवृत्तम्। भीतिमात्रमनुवर्तते। भीतिमाद्रियन्ते। भीता इति दृष्ट्वा मोहस्त्यजेदिति मत्वा भीतिमनुवर्तयन्ति च। लोकपालाबरोधाः दिक्पालकमहिष्यः। अथ विवेकदूतप्रवेशः। दृषटवप्रत्ययः। मोहदूतस्य संवृतिसत्य इति नाम प्रागुक्तम्। यस्मिन्न प्रत्ययो राज्ञाऽनुभूयमानः, स दृष्टप्रत्ययः। महामोहस्थानं साक्षात् नारदस्पर्शानर्हमित्यभिप्रायेण प्रतिबिम्नित इत्युक्तम्। आगच्छन्तं दूतं दूराबलोक्य अजानान इव नारद आह महाराजेति। 10. चलेति। राजदूतोऽयं यातीति यथा सर्वे जानीयुः, तथा जङ्घायां माला। निरपायः यथा शरो लक्ष्यं विहाय नापगच्छेत्, तथाऽयमन्यस्थलगतिरहितः। चण्डातकस्य अर्धोरुकवस्त्रस्य श्रीः चारुभूता यस्य। स्वेदभिन्नः धावनश्रमात् स्वेदजलसंभिन्नगात्रः। भेदः संभेदः- मेलनम् सुगन्धित्वं माल्यधारणात्। उपचरणीयश्चेति पदं मोहस्य भावं वेदितुम्। शत्रुदूतस्य का नामोपचरणीयतेति स्वभावमाविष्करोति मोहः आस्तामुपचार इति। परिजनोपचाराणाम् परिजनाः स्वस्वामिनि गौरवात् तदनुगुणं किमपि वदन्ति। तावता तत्स्वामी खलेखं शासनत्वेन मन्यत इति न निश्चेयमिति भावः। असंस्तुतेति। अपरिचितेत्यर्थः, लिपिविशेषणम्। परिचितभाषैव लिप्यन्तरलिखितेति। ज्ञायते। श्वेतद्वीप एव विहारमण्डपिका। श्वेतद्वीपस्थिता वा विहारमणअडपका। अनेन सञ्चारे तात्कालिकस्थानां तदिति ज्ञाप्यते। अन्यथा देशनिर्देशस्यानावश्यकत्वाच्च। विबुधेति पदं विद्वद्दिविवषदुभयवाची। महन्मानितः त्वत्प्रसंगरहितस्थले सर्वदैवास्मीति तद्देशादिनिर्देशतात्पर्यम्। संधिः सर्वसंतत इति च ज्ञाप्यम्।
स्वनैच्यमेवेति। योद्धुं संनद्धोऽस्मि प्रस्थीयतामित्यविलिख्य संधिलेखनात् स्वाशक्तिमेव सूचयतीति भावः। संधिरीतिजिज्ञासया दुर्मतिराह ततस्तत इति। विभूतिविभागेन भोगविभागेन च संधिः कार्यः। तत्प्रकारमाह (11) दीयन्तामिति। अखण्डे प्रकृतिमण्डले भूमण्डले वा दक्षिणदेशयात्रमस्माकं पर्याप्तम्। तत्रापि मनुष्यानुभवमात्रमस्माकमस्तु। स्थावरादिकं मा भूदिति। मुमुक्षातदुपायानुष्ठानादेरत्र देश एव भावात्, “तामपर्णीं नदी यत्र"इत्यादिना दक्षिणेषु भूरिशो वैष्णवोत्वतेः पुराणसिद्धत्वादत्र स्वापेक्षितसमृद्धिः स्यादिति विवेक एतावदपेक्षते। यावत् कलेरत्यय इति। कलियुगावसानपर्यन्तमित्यर्थः। परिमितकालमात्रे स्वसंबन्धापेक्षणात् तदनन्तरं दक्षिणदेशा अस्माकमेव भविष्यन्तीति मोहस्य मोहो भवतु इति विवेकाशयः। आन्तरायशयन्तु कलियुगे गते सर्वोऽपि प्रदेशः स्वकीयो भविष्यति किमिदानीं मोहेन सह तच्चिन्तयेति। इत्थंनामेति। मया कुलक्षयो भवतीति तदुपशमने उपायमनुतिष्ठता त्वया परिमिते देशे परिमितप्रजामात्रस्य मदधीनत्वमालोच्य अन्यत्र सर्वत्र सम्यक्कुलाभिबृद्धिः क्रियताम्। अहमपि त्वत्कुजल एव। मदनुबन्धिनश्च बहवस्सन्ति। एषामस्माकमिदानीं प्रत्यक्षं मरणं कुलक्षयोपशमनपरः त्वं न सोढुं शक्त इति मन्ये। तस्मात् दीयन्तां दक्षिणदेशाः। सत्यगिरामतुच्छमनसामित्यनेन मनसा वाचा, लिखितादधिकं न ग्रहीष्यामि पश्चादित्युच्यते। अच्छात्मनाम्। निर्मलात्मपरमात्मनिष्ठानाम् बाह्यभोगप्रवणजनसंगविधुराणामधिकापेक्षा नास्तीति भावः। सहस्रेति। ज्ञानमिति। दक्षिणदेशब्यतिरिक्ते सर्वत्र मदाधिपत्ये अद्येव पश्चादपि भविष्यत्यपि, दक्षिणरूपविभागे तिर्यक्स्थावरमात्रे मम भोगाभ्यनुज्ञां यदयं विवेकः विभागोऽयं स्वकीय इति मत्वा दित्सति, तत्र युक्तम्। अतो विभागोऽयं तदीयो न कार्य इति भावः। चक्षुषोः पारणेति। युद्धं भविष्यतीति सन्तुष्यामीति भावः। अनयैव पारणयाऽस्य द्वादशीव्रतसमाप्तिरिव। नूनं व्रतमपि विवेकविजयकामनया स्यात्। संधिविघटनानुकीलमेवाह नारदः अहहेति। 12. समानबलयोर्लोके संधिर्दृष्टः। सर्वप्रकारेण बलिष्ठस्य ते दुर्बलतमेन विवेकेन संधिवचनं सर्वपरिहास्यमिति भावः। यस्य महामोहस्य पृथग्विधेषु तत्तज्जगन्नियमन विशेषव्यञ्जकेषु भ्रूभङ्गेषु आयतन्ते। त्वदीयवाचिकव्यापारोऽपि नापेक्षितः, भ्रचलनप्रकाराधीनानि सर्वाणि। आसंसारम् अनादिकालात्। आजन्मधीरात्मनः सर्वदाधीरस्वभावस्य। ब्रह्मस्तम्बपदं जगदन्तर्गत देवतिर्यङ्मनुष्यस्थावर सर्वजन्तुपरम्। सर्वे भटा यस्य तस्य। मुक्तजनकद्रोहस्य। जनकः संसारी जीवः, तद्विषयकद्रोहो मुक्तो येन। विवेकस्तु संसारिद्रोही। विशेषणद्रोहो हि विशिष्टद्रोह एव। यस्येत्यस्य तस्येति प्रतिसंबन्धि। देहबलैश्वर्यसैन्यमहदनुकूलत्वादिकमस्यैवं वर्णितम्। इतरेण एतत्सर्वांशहीनेन विवेकेन संधिवचनम् आसीत् विवेकेन प्रस्तुतमित्यर्थः। आसीदिति प्रयोगः तस्य नष्टत्वकल्पनया। किं कस्य वा कथ्यते। निषेधप्रतिगितयापि परामर्शानर्होऽयं विषयः अत्रैव जीर्णो भवतु। मा त्वं स्कीकुरु। अहमपि बहिर्न कुत्रापि वक्ष्यामीति भावः। संधिव्यपदेशेन-संध्यर्थसंभाषणं व्याजीकृत्य । जीवग्राहं गृहीत्वा-सप्राणग्रहणं कृत्वा। विवेकग्रहणस्येष्टत्वेऽपि सन्धीच्छारोपणमप्यहं न सहे इति विवक्षया मोह आह सोच्चैर्हासम्। प्रमदाजनानामितिष। एतावता दुर्मत्या लज्जा न भविष्यति, किन्तु भर्तुर्व्रतं बुध्वा प्रमोद एव। 13. क्रकचैः दन्तपंक्तिरूपधाराविशिष्टै र्भेदनायुधैर्बहुभिः। सूच्यग्रम् सूच्यग्रमितं देशमपि, एकं जीवमपि। दुर्योधनोक्तिरियम्। केनचित्। विवेकाद्बलीयसि कस्मिंश्चिदागतेऽपि तेनापि। संधिप्रस्तावस्य प्राप्तस्य स्वस्वरूपानुचितत्वं मन्वानो जिह्नेति अथवेति। 14. विभूतिः स्वम्। इयं विभक्तिव्येति पदप्रयोगो मां प्रति आसीत् किल। एतावदपि मम महामोहत्वस्य, जगतो मज्जितत्वस्य चानुरूपं न भवति। एवं लेखनानुरूपदशापर्यन्तं विवेकजीवनस्यावसरप्रदानं मत्प्रभावन्यूनतापादकमिति मन्यते। स्वात्मावधिरिति। स्वात्मा स्ववरूपम्। यथा शवमुष्टिरशिथिलाकारत्वात् गृहीतं न त्यजति किञ्चिदपि– मुष्ट्यन्तरं तु स्वयं सदपि शैथिल्यादीषदंशं त्यजेत्-तथा महामोहः गृहीतं गृहीतवानेव, न तत्त्यागीति। गृहीतग्रहीति पदे प्रथमं ग्रहणं स्वीकरणम्, ग्राहितेत्यत्र ग्रहणं निरोधः अत्याग इति अर्थभेदो युक्तः। परमकृत्यम्। सर्वश्रवणानन्तरमन्ततः कर्तव्यम्। निर्धारणीयः साबधानं श्रोतव्यः संदेशवाक्यशेषः। शत्रुप्रेषितस्य संदेशवाक्यस्या श्रुतभागः। 15. निष्कामेति। विश्वं जगत् विधास्यति। कथम्भूतम्। निष्कामक्रोधलोभम् नष्टाः कामक्रोधमोहाः यत्र तादृशम्। कुहना वञ्चना। अभिमानः देहात्माभिमानः। एते चत्वारो निपतिताः नष्टाः यत्र। ईर्ष्या, असूया, मदविहृतिश्च यत्र निर्धूताः नाशिताः। मत्सरः– द्वेषः स्तम्भः गर्वजन्या स्तब्धता, जाड्यं दर्पाभावेऽपि स्थितं कृत्याकृत्यास्फुरणम्। सर्वं जहत् यदिति द्वीतियाबहुव्रीहिः। अपिचरमयुगे। कृतादिषु युगेषु एवं स्थितिरनायासेन। इमामत्र युगेपि कर्तुं शक्तः। एषामपाये संभवन्तं गुणमाह अक्षुद्रसत्त्वमिति। अक्षुद्रम् अनल्यम्, रजस्तमोमिश्रणाभावात्। एवम्भॄतं विधास्यति। ईदृशकार्यशक्तिहेतुमाह वेलातीतेति। अमर्यादं प्रसरन्त्या रजस्तमोहारिहयग्रीवदयया दत्तसेकः कूताभिषेकः कल्पितपुष्टिश्च सन्॥ कटकटापयन् कटकटेपि शब्दवतः कुर्वन्।
वाचिकशेषः– संदेशस्याश्रुतांशः। व्यङ्गीकृत्य विकलाङ्गं कृत्वा। विगतमङ्गम् एकदेशो यस्मात् स व्यङ्गः। तिरस्करणीभास्थाय स्थितमप्यत्मानं मन्त्रौषधादिबलेनादृश्यं कृत्वा। अनाहितदृष्टिरिति पाठे स्वकर्तृकं दूतदर्शनमन्येन यथा ज्ञायेत, तथा दृष्टिं स्फुटामकुर्वन् इत्यर्थः। अनाहतदृष्टिरिति पाठे स्वयं देवर्षितया तिरस्करण्या अकृतदृष्टिप्रतिबन्ध इत्यर्थः। 16. कर्पूरादिवस्तुभरणार्थकल्पिता भरणी करण्डम्। तत्तुल्यं ब्रह्माण्डम्। ततोऽन्यत्रापि यशः प्रसरसंभवात्। तस्य गह्नरे अन्तःप्रदेशे कृट्याम् अल्पगृहे कर्पूरस्येव पूरः पूरणं यस्य तत् यशो धिक् निन्दामि। उपसृष्टम् सादरस्पृष्टमार्जितम्। धिग्वादं प्रत्यपि धिक् धिक्कारवारणार्हप्राभवमपि मे नास्तीति। सोढास्मीति प्रयोगे भविष्यत्कालग्रहणं स्यादिति सोढा इति तृजन्तप्रयोगः। बहोः कालात् वैरी अस्तीति शब्दं सहमानः क इति चेत्– इहं स्वयमेव। अतो मामपि धिगित्यर्थः।
17. गतेति। गतं लजं यत्र तत्र देशे सेतुबन्धवत्, गजश्रेष्ठस्य स्वोपरि स्वयमेव मृत्पासून् विकरिष्यतो मलापकर्षणस्नानवृत्तान्तवनत्, लेपस्यर्शानर्हामूर्तगगनभागस्य चन्दनादिना लेपनवत्- नित्यव्यभिचारिण्याः वेश्यायाः परिणयवच्च स्थितैरित्यर्थः। यथासंख्यं निष्फलत्वं पूर्णनिवृत्त्यनर्हत्वं अशक्यत्वं सुखभङ्गेन दुःखहेतुत्वञ्च विवेकाकार्येषु एभिरुमपानैर्ज्ञाप्यते। 18. हे विवेक! त्वं व्यर्थमेव बहुविधमारम्भं करोषि। न किञ्चित् समापयिष्यसि। मनसो व्ययमात्रम्। अहं ततु लोकत्रयमर्यादा त्वदोयेश्वरकृतत्वेन भाव्यमानां अनायसेन भित्त्वा पूर्णरसानुभवपरः। विवेकस्य ते विरोधिनो विभ्रमाः विस्पष्ट-विशदविपरीत दर्शनरूपाः मे मित्रभूताः। ब्रह्मस्तम्बशब्दवाच्यसर्वजगद्व्यापिनो ये वेदस्तोमाः तेषां शाखा यथैकाऽपि न स्यात्, तथा भञ्जने प्रभञ्जनवत् चण्डो मे चारः। ईदृशोऽहं यदि न दृष्टः, तथापि मया श्रुतेन भाव्यम्। मदीयपराक्रमाज्ञानादेव ते एष संदेश इति। भवदपदानम् भवतो गुणकर्मप्रथा॥ वस्तुतो वृत्तं चेत्, अपदानं यथायथं दृष्टं श्रुतं वा स्यात्। आरोपितस्य न ज्ञानप्रसक्तिः। मोहस्तुक्रोधकातिशयात् अवृत्तमेव वृत्तमिवाभिनयन् भवन्तमनुस्मारयामीत्याह। 19. पुराकिलेति। निराकृतस्वपरभेदनिर्धारणे अयं स्वकीयः अयं शत्रुरिति भेदज्ञानं यत्र नाभूत्, तादृशे सैन्यरजोव्याप्ते युद्धे महति, इन्द्रसमक्षमेव चन्द्रो मया दन्तपंक्तिमध्ये निवेश्य निपीडितः, तदा, तस्य अहो राहुग्रस्तोऽहमिति व्यथाऽसीत्। पर्वणिपूर्णिमायां मर्मवेधनकरं यत् विधुन्तुदस्य राहोः (राहुकर्तृकं) ग्रसनम् तद्वेदनां तत्तुल्यदुःखमित्यर्थः। सर्वमिदं मिथ्याप्रलपनम्। अथापि व्यङ्ग्यमपि किञ्चिदस्ति। मोहपारवश्यादेव चन्द्रस्तारां जग्राह। तदा बृहस्पतिपक्षीयेन्द्रादीनां चन्द्रपक्षीयाणाञ्च रणोऽप्यासीदिति पुराणकथा। मोहरदनयन्त्रितर्त्वं मोहवशत्वमेव। विधुन्तुदग्रसनमिति बहुभिर्गर्हितत्वात्। इन्द्रसमक्षमित्यनेन मोहेनाहल्यां प्रति इन्द्रप्रेरणमपि ज्ञाप्यते। इन्द्रचन्द्रादयोऽपि मम वशा इत्युक्तं भवति। उन्मत्तदशां प्राप्तः किम्। उन्मादोऽयं शाम्येद्वा निरन्तरमनुतर्तेत वेति संदेहः। जरद्गवादिवाक्यम् अनन्वितपदराशिः मीमांसाशाबरभाष्यदर्शितः, `जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति भद्रकाणि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्धः’इति। तद्वत् अपार्थम् अपगतार्थम्। अत्रेन्द्रचन्द्रादिभोगप्रवणपुरुषनिर्देशात् दुर्मतिसामीप्यादिदर्शनाच्चाह शृङ्गारगर्ते निमज्जतीति। पश्चिमेपारावरे प्रत्यक्समुद्रे। अवलम्बते मयूखमाली अवतरति सूर्यः। साधयामि गच्छामि। कालोचितकर्म सन्ध्योपासनादि युद्धदर्शनार्थसंविधानञ्च।
संभोगारम्भसमयः रात्रिः। प्रजापतिपरिभुक्तेति। प्रजापतिना त्यक्ता तनुरेव अहोरात्रसंधिरासीदिति स्मर्यते। कश्यपप्रजापतिनां संध्यायामेव दितिरनुभूता। तद्ग्रहणे भुक्तत्वं भोगकालतया स्थितत्वमेव। पितृप्रसूः सायंसन्ध्यापितृप्रसूरित्यमरः। पितॄणां तत उत्पत्तिर्विष्णुपुराणादौ। भोगप्रसवकसंभोगादिवचनं मदनपारपश्यात्। 20.क्षीयन्त इति। सायं काले सूर्यकिरणाः भूस्पर्शं विंहाय उन्नतवृक्षाग्रशैलाग्रादिषु क्षणं दृश्येन्। तदाह क्षणइकालं पर्वतैः शिखरेषु गृहीताः अथ क्षीयन्ते क्षयं यान्तीति। यजतां सोमयागमनुतिष्ठतां तृतीयसवने सायं सोमयागावसरे वेदघोषपरम्पराः श्रूयन्ते। कुलायतरुषु नीडस्थानभूतेषु वृक्षेषु पतागानां कनीडसमीपागमनावसरे तच्छिशवः प्रीत्या प्रत्युद्गच्छन्ति, तदाह प्रत्युद्व्रजत्पोतका इति। स्त्यायन्ते निविडीभवन्ति। श्रीकण्ठस्य रुद्रस्य नीलकण्ठस्येव त्विट् कान्तिः प्रकाशो यासां ताः॥ तमश्च्छटाः स्थलभेदेन बहुधा तत्तदुचितवस्तुरूपेण वर्णयति। 21. कादम्बन्तीति। आकाशे नीलमेघवत्, पर्वतेषु गजवत्, मल्लीपुष्पेषु भ्रमरबृन्दवत्, कुन्तले तव केशपाशे कुवलयमाल्यरूपः आपीडः भूषणम् तद्वत्। नेदं कुवलयं, तम एवेति पाणिना स्पर्शे कृते तव सुबोधम्। दिशारूपाणां स्त्रीणां मुखेषु शिरस्सु धम्मिल्लवत् केशपाशवच्च भवन्ति स्त्यानाः निबिडाः। अनयेनेति। युद्धारम्भे शृङ्गारप्रवृत्तिः हानिसूचिकेति वदन्ति। तेनानयेन वा, अवलीलया क्षणेन सर्वजयः सुकर इति धार्यात् युद्धसंनाहाकरणेन वा। 22. षङ्विधम्। मौलं बलं श्रेणि सुहद् द्विषदाटविकं बलम् इति कामन्दकोक्तं मूलबलं भृतिप्रदानेनार्जितं बलं मित्रदत्तं जनश्रेण्यर्पितं अटवीत आर्जितं शत्रुतोपहृतमिति षट्प्रकारं बलं सेन्यम्। मायाविनः मयशम्बरादिवत्। तस्मादतिधीरत्वेन शृंगारे प्रवृत्तिः। आस्तामन्यत्- इदमन्यत् कारणमस्तु। युद्धारम्भे शृङ्गरप्रवृत्तिर्मोहस्य परं युक्तः, देवार्चनरूपत्वादित्याह अनङ्गेति। विवेकरूपसिन्धुं तरितुं सेतुरपेक्षितः। स च शृगारदेवार्चनमेव। शृङ्गरदेवः मन्मथः। दुर्मतिः इदं प्रकृतकालानुचितमिति मत्वाऽपसरतीव, अतोऽन्यत् किञ्चिद्वदन् शरणं याति अथवेति। शरणागतिफलमिष्टं ज्ञापयति तदिति। रात्रिमिति द्वितीया उदयपर्यन्तापरित्यागविवक्षया। प्रभात इति। न हि रात्रौ युद्धं भविष्यतीति। नभोयानेन आकाशसञ्चारेण। तस्य विमानापेक्षाभावात्, अस्तु वा विमानमेव। संयतिष्यते- योत्स्यते। एवं पूर्वत्र। यूर्योदयं वर्णयति 24. इदमिति। इदं दृश्यमानं महः तेजः सूर्याख्यम्। पुरः अग्रे स्वयं दैवात्। उदयक्षमाभृति उदयाख्यपर्वते। प्रबोधनं निद्राणानां जागरणहेतुः। विवेचितस्थिरचरभेदम्। आलोकसाहाय्यात् सर्वं विविक्तं दृश्यत इति भावः। रात्रौ चराणामपि शयनात् स्थिरभावः। अहनि संचारात् स्थिरचरभेदज्ञानमिति च। त्रयीमयम् सूर्यस्य सर्ववेदमयत्वात्। विवेकाभ्युदय इति प्रागुक्तत्वात् महश्शब्देन स्वप्रकाशं विवेकरूपं ज्ञानमुच्यते। तत् त्रयीजन्यत्वात् तन्मयम्। क्षमाभृति क्षान्त्यादिगुणविशिंष्टे पुरुषे। तमोविमोचनम् अज्ञाननिवर्तकं ततमश्शब्दवाच्यात् प्रकृतिमण्डलान् मोचकञ्च। स्थिरः सर्वव्यापी परमात्मा, चरः संसारी जीवात्भा, तद्भेदविवेचकम्, निर्विकारसविकारचिदचिद्भेददर्शकञ्च विजृम्भते। नूनमित्युत्प्रेक्षायाम्। 25. प्राचीनेति। सूर्यकिरणाः ऐरावतदन्तोत्थापितोदयपर्वतघातुधूलिपटलवत् दृश्यमानाः अन्धकरं परिहरन्ति अरविन्दानि विकासयन्ति चित्युच्यते। प्राग्दिग्वर्तिनः पर्वतस्योन्नतं यत् शिखरम्, तत्समीपे विहरता ऐरावतेन यः क्षोभ तेन प्रेरितानां गैरिकधातुधूलीनां पटल्या सह पर्यायः साम्यम् तत्र धुर्यः भारवाही उदयः उत्पत्तिर्येषां ते भानवः किरणाः। व्योम गगनं नीलत्वाद रण्यमिव। तत्र तमालवृक्षश्रेणिवत् मलिनतया स्थितां तमीं तमश्श्रेणिं रात्रिं वा उन्मूलयन्तः। अन्तस्स्थतमोहणं तम लवृक्षमूलोत्क्षेपणतुल्यम्। अरविन्दान्तः प्रदेशस्य विकासेन प्रकटीकरणात् गर्भसुहृत्त्वम्। गर्भप्रभृति सुहृद्भूता इति वा।
26. दिवीति। दृष्टिरोधे-वस्तुदर्शनबाधकतया आकाशे भूम्यां कच विष्वक् सर्वत्र प्रवृत्तं दिङ्मोहानुगुणव्यापारेण सर्वासाम् आशानां दिशां मण्डलं संधिसंनिवेशः मुकुलितम् अप्रकाशं कृतं येन। मलिनं श्यामं महीयः अतिमहत् तमिस्रायाः तामसरात्त्र्याः कश्मलं मालिन्यं तमः रश्मिमाली सूर्यः अमोघैः। अनिष्फलैः करौघैः किरणप्रवाहैः कबलयति नाशयति क्षालयति। प्रवाहपातनेन सर्वव्याप्तं कश्मलमिव किरणैस्तमो निवर्तयति। एतद्दर्शने विवेककार्यं भविष्यत् बुद्धिस्थं भवति। स हि रश्मिमाली सामर्थ्यशाली स्वहस्ततुल्यैः स्वपरिकरैर्व्यवसायादिभिः दिवि च भुवि च— अमुत्र चेह च विद्यमानानां विशेषाणामनुकूलप्रतिकूलांशानं दर्शननिरोधकं पूर्णपुरुषार्थरूपमोक्षविषयकमनोरथप्रवाहस्य मोहवृत्त्या महामोहशासनबलात् भंगकरञ्च संसारकालरात्रिकल्पितद्वंद्वरूपं कश्मलं मंक्षु शीघ्रं क्षपयिष्यतीति इतो व्यज्यते। अवलोकनरसः दर्शरजनितानन्दानुभवः नियतिवृत्त्या भाग्यवशात्। योत्स्यन्ते युद्धं करिष्यन्ति। अतिगाढं बहुदीर्घमन्तर्व्याप्तं वैरमूलं वृक्षमूलतुल्यं द्वेषाख्यं मूलं यस्य तस्य, आहवः युद्धम्, तद्रूपस्य अनोकहस्य फलं पुरुषमोक्षप्रापणाख्यं विवेकमहाराजस्य हस्तापचेयम् अनायासलभ्यम्।
27. विवेकः आसुकरसर्गविरोधिदैवसर्गमुख्यभूतः यथावस्थितवस्तुज्ञानं वर्मतया चिदचिदीश्वरान्तर्गतपदार्थानां मिथो वैधर्म्यज्ञानरूपाणि आयुधानि परिगृह्य मोहं जेष्यतीत्यर्थः। " द्वौ भूतसर्गौ लोकेऽस्मिन्” इत्युक्तरीत्या द्वेधाकल्पिते देवानां दानवानाञ्च चम्बौ तर्कव्यवसायादि-कामक्रोधादिरूपे सैन्ये। तयोर्नासीरं तत्तदग्रभागं प्राप्तौ विवेको मोहञ्च नृपौ। तयोरेको विवेकः इतरम् मोहं जगदन्धकारं सर्वबाधकं प्रहणानि आयुधानि कंकटं कवचञ्च बिभ्रत् धारयन् जेता जेष्यति।
28. जयान्तरं विवेकलभ्यं माननमाह विद्येति। विद्याभेदाः भगवद्भक्तियोगमार्गाः। त एव कल्पवृक्षपुष्टिहेतवा मुख्यावयवाः। तैः पुष्टिमतां वेदरूपाणां कल्पवृक्षाणां शाखाः तैत्तिरीयादयः। ताः द्विजपरिबृढैः ज्ञानित्रैवर्णिकरूपपक्षिविशेषैः व्यक्तोल्लासैः– अंगप्रत्यंगसैष्ठवसंपन्नैः सामग्र्येणानुभूयमानाः। तथाविधवृक्षाणां पुष्पाणि ब्रह्मानुभवप्रकाराः। तानि मंक्षु शीघ्रमेव विवेकशिरसि वृष्टानि भविष्यन्ति॥
एवं विवेको जेतेति, कथं संप्रधार्यते– अवधार्यते। 29. न मया मिथ्या कथ्यते। (किंवेत्यस्य यद्वेत्यर्थः यथा चिन्तामणिदीधितौ अवयवग्रन्थे)। नाहं मिथ्या ब्रवीमीति किमर्थं वक्तव्यम्, त्वमेव साक्षात् द्रक्ष्यसीत्यर्थः। कङ्कणस्य करधृतवलयस्य। त्रिदिवेत्यादिना युद्धहतानां वीरस्वर्गप्राप्त्यर्थं कवाटोद्घाटनोत्प्रेक्षा। 31. व्योमेत्येतावत् अप्रयुज्य व्योमरन्ध्रमित्युक्तिः यत् उपरिव्योमेति नीलं प्रतीयते, तदपि वस्तुतो रन्ध्रमेव, तत्रापि रथव्याप्तिरिति व्यक्तये। कुलगिरिस्तोमेति। एकगिर्युपरि गिर्यन्तरनिक्षेप इति क्रमसंपादितस्तोमेत्यर्थः। शताङ्गैः नीरन्ध्रं भवति सर्वतोव्याप्तमित्यर्थः। शतांगशब्दप्रयोगः एकैकगिरेरेकैकाङ्गत्वसूचकः। जाघट्यन्ते भृशं घटन्ते मिलन्ति। घोटकानाम् अश्वानाम्। खुरपुटेति पुटशब्दः गोखुरादिवत् मध्येभेदाभावेन एकशफकत्वदर्शी। रटितैः ध्वनिभिः। शब्दजनितादभिघातात् पाषाणानामपि भेदो भवति, किमुतान्येषाम्। त्रुट्यति भेदं प्राप्नोति। प्रतिगतिषु शत्रून् प्रति अभियानेषुविषये त्यक्तदेहाः देहमर्पयन्तः पत्तयः प्रोड्डीयन्ते आकाशे उत्पतनं कुर्वन्ति। पादचतुष्केण रथगजतुरगपदातिरूप चतुरङ्गवर्णनम्। एकीभूते मिथस्संघर्षस्थलभेदो यथा नावबुध्येत, तथा मिलिते। विवेकमोहयोर्वाहिन्यौ सैन्ये। आकालिकः अकालेभवः। मध्याह्नः अर्धरात्रवल्लक्ष्यत इत्यर्थः। रजोव्याप्त्या सैन्यस्य दर्शनं रुद्धम्। घोषेण परं तत्सद्भावरीत्यवगम इत्याह— 52. सूचीति। तिमिरस्य सूच्या भेद्यत्वं हि सूचीप्रवेशार्हं सूक्ष्ममपि स्थलमविहाय तद्व्याप्त्या भवेत्। तेन सान्द्रत्वं सूचतिं भवति। तादृशतिमिरस्येवोपलम्भनं दर्शनं यस्य तस्मिन् मेघवत् भेदुरे गगनादौ व्याप्ते मेदिनीरजसि भूमिधू लिपटले दृष्टिगोचरतामनापन्ना, वाहिनी उभयी सेना महीयसी अतिमहती रणखलापवाहिनी रणे सामर्थ्यरहितान् वृथाघोषिणः अपसारयन्ती कलकलैः कोलाहलैः श्रूयते शब्दमूलकज्ञानविषयीभवति। शब्दग्रहणमात्रं श्रवणमिति न शब्दमूलकार्थग्रहणेऽपि श्रोतव्योमन्तव्य इत्यादिप्रयोगात्। तद्वत् इदमपि ज्ञानं श्रूयत इत्यत्र विवक्षितम्। कलकलमिति कलकलं यथा तथा इति व्याख्यान्ति। नपुंसकेन कलकलमिति शब्देन कलकलेत्यनुकरणध्वनीग्रहणेन, तत् श्रूयते इति वाक्यं समाप्य महीपसीत्यादिकं पृथग्वाक्यं वा कार्यम्। कलकल इति प्रथमान्तपाठकल्पनेऽप्येव मर्यो वर्णनीयः। कलकलविशिष्टवाहिनीश्रवणं नाम वाहीनी कलकलश्रवणमेवेति वा। श्रूयत इत्यत्र मीयत इति वा पाठः स्यात्। वाहिनीशब्दस्य नदीपरत्वे रणखलानामपनेता रक्तप्रवाहो महीयान् कलकलविशिष्टो ज्ञायत इति व्याख्येयम्। उपरि रक्तभां समक्षणवर्णनस्येदं प्रवाहरूपार्थ ग्रहणमनुकूलम्। गगनेधूलिः अवनौ रुधिर प्रवाह इत्युभयमुक्तं स्यात्॥ पिशाचराक्षसादीनां रक्तपानं वर्णयति 33. क्षतजेति। क्षतजमधु—- मधुतुल्यं रक्तं पलभुजः मांसाशिनः पिशाचादयः। उपरि पिशाचपदप्रयोगात्। स्ववधूनामर्पयन्ति। कीदृशम्। उत्तभ्भितानि स्वस्थानादूर्ध्वं स्थापितानि अभ्राणि मेघाः यैः तेषां ध्वजानां पटैः अग्रभागस्थैः- स्वर्धुनी गंगा पुनरुक्ता। निरन्तरपटराजिर्दिवि देवगंगावत् दृश्यत इत्यर्थः। तादृशैः सेनास्थितैः भटैः रणगतैः दत्तम्। जाग्रन्नन्दधूनां वस्तुलाभ-पत्यनुरागादिना बहिः प्रकाशमानानन्दानां वधूनां पत्नीनाम्। करटिनः विलक्षणगनडस्थलवन्तो गजाः। तेषां करोट्यः शिरोगतास्थीनि। तत्सहितैः कर्परैः कपालैः। हस्तमुष्टिग्रहणार्थं करोट्य उपयुज्यन्ते॥ न तृप्यति चक्षुः-उपर्युपरि नाश्यनाशदर्शनं कांक्षतीत्यर्थः। किमिदमिति शब्दतः आश्चार्यत्वं निष्पन्नस्यापर्याप्तत्वञ्च गम्यते। यद्वा नतृप्यतीत्यनेन पूर्वं विवेकस्य विजयं निश्चितवतोऽपि संप्रति संदेहादतृप्ति रुच्यते। तदुपपादकं श्लेकद्वयम्। नारदस्येमां दशां परिहर्तुमेवोपरि पिशाचवार्तामनुवदति तुम्बुरुः। सर्वविनाशनसमर्थपुरुषकार्यमाह 34. पत्तीनिति। अक्रमेण अयमनेन सहैव युध्यतामिति व्यवस्थां विना सेनांगानि चत्वार्यपि शापयन्ति शस्त्रैः। तेन पत्तयः पदातिनः प्राप्तविपदः, सिन्धुरेन्द्राः गजश्रेष्ठाः। शिरसि कण्ठे च पृथौ प्राप्तत्रोटनाः खण्डिताः। वाहाः अश्वाः प्राप्तषारूढाः शस्त्रभिन्नाः विकीर्णागाः। रथाश्व व्यतिहननेन परस्पराभिमुखघातेन मिथः परस्परं एकस्यांगमन्यस्यागेनेति रीत्या खण्डितभागाः आसन्। पत्त्यादीन् एवम्भूतान् कुर्वन्ति। कीदृशा भूत्वा। शस्त्राशस्त्रि शास्त्रेण शस्त्रेण मिथः प्रवृत्तं युद्धम्। तदारम्भे जातेन चटचटेति उपर्युपरि शस्त्रपातशब्देन घोरः भयङ्करः तेषां रणभूमौ सर्वत्र संचारः येषां ते भूत्वा। उद्दामः अधिकः॥ जेताविवेकेश्वर इति स्वनिश्चयः प्रागुक्त एव। अथापि रणदर्शनावसरे निर्णयवतामपि मनश्शैभिल्यं भवेत्। अत अह एतस्यैति 35. विवेकस्य मोहस्य च राज्ञो भूमा वैभवं संभृतः संपादितो येन तस्य सेनायुगस्य। संभृतवं समराङ्कणे सवेगपरिभ्रमणायत्तम्। विकल्पितया स्ववृत्त्या एकत्रैव स्थितिमुपेक्ष्य पुनः पुनरेकत्रान्यत्र च स्थित्या डोलाधिरोहणरसं डोलविहारानन्दं लभते। दृष्टॄणां कुत्र जय इति संशयो भवेदित्यर्थः। क्रव्यादडिम्भः। मांसाशनपिशाचशिशुः बाल इति यावत्। डिम्भं बालान्तरं रुधिस्पानार्थम् आकर्षन् हस्तेन गृह्णन् नयन् विवेकं रणस्थं प्रदर्श्याऽऽहडिम्भमिति मृतडिम्भग्रहणमित्याहुः युद्धे कथं डिम्भप्ररणम्। 36. एषः समीपे दृश्यमानः सुमतिसहायः विवेकः। ईदृशेति तत्रत्यलोभादिप्रदर्शनपूर्वकोक्तिः। एवम्भूतानां दुरवस्थाभाजां लोभादीनां मारणे निपुणः। एषो अशुलह इत्यस्य एषोऽसुलभेति छायास्वीकारे सौरभस्य असुलभत्वमन्यत्र दुर्लभत्वम्। एष च सुलभेतिच्छायायां तु अस्माकं सुलभमिदानीं यत् सौरभं तद्युक्तरुधिरेत्यर्थः। ईदृशे संख्ये युद्धे विवेकः शोभते। 37. प्रकुपितानां प्रतिपक्षाणां मोहलोभादीनां प्रतिमथनं नाशनं प्रथनं युद्धं यस्य तम्। समग्रं संपूर्णतया लग्नं संबद्धं प्रतिमानं प्रतिबिम्बं यस्य तमित्यपि विवेकस्य विशेषणम्, सूर्यस्यापि॥ 38. लोभलुब्धकः। लुब्धः व्याधः। लोभदेवतायाः लोभवत्त्वादपि लुब्धता। व्यादसदृशो-लोभी लोभदेवः स्वानुरूपम् अभिलाषम् उपर्युपर्याशारूपं रथमारुह्य यस्मात् एकस्सन् आयाति, तस्मात् द्वन्द्वयुद्धे त्वरेति ज्ञायते। एतदारभ्य तुष्ट्यादिभिः प्रत्येकं बहुबधवर्णनात् सर्वं द्वन्द्वयुद्धम्। एकलब्ध इव। भारते प्रसिद्धः द्रोणप्रतिमा परिचरणलब्धकपूर्णधनुर्विद्यापरिचयः। लोभस्य रथमात्रं नारदोक्तम्, सेनासारथ्यादिकमपि पृथङ्निर्दिश्य लोभसंचारं तुम्बुरुराह दुरध्वेति 39. लेभाख्यो वीरः युद्धे परितः सञ्चरति। अय मर्थतृषापारवश्यात् निषिद्धेषु मार्गेषु विहारे समर्थः। दुरपनोदानां दुष्परिहराणां स्वकलतत्रभूतानां दुर्वासनानां सहत्राणि अस्य पृतनाः सैन्यानि। दुर्वासनाभर्ता अभिविवेशः प्राक् अनुनत्वेनोक्त एवास्य सारथिः। अभिलाषो रथ इति प्रागेवोक्तम्। विपरीतबुद्धिरूपाणि शस्त्राणि प्रयुज्य विषमं यथातथा मूर्छां ददाति आपादयति। तया दशधा लुठन्ति अस्य प्रतिभटाः त्यागप्रभेदाः यागहोमदानादयः। एवं कुर्वन् परिभ्रमतीति॥ 40. सर्वलाभानन्तरमपि लोभस्य निवृत्तिर्न भवतीत्याह नारदः। जगदिदं स्वम्, द्रविणं धनं तद्रूपेण परिणमय्य ईषदप्यपृथक्कृत्य एतस्मै अर्प्यते चेत्, सर्वं लब्ध्वाऽपि न तृप्येदयम्। किन्तु सर्वमिदं मूलधनम्, कुसीदः वृद्धिरितः परमेव कार्य इति तद्रूपवञ्चनां बध्नन् निर्बन्धेन स्वीकुर्वन् भूयो वर्धयितुं वाञ्छति। जगत एव मूलधनत्वे वृद्धिरूपं धनं किमन्यदिति न विचारयति। इदं दुश्शकमिति कन जानातीति भावः। अस्य लोभस्येदृशत्वं प्रकृतकार्यबलेनापि दृष्टमित्याह तुम्बुरुः। दृष्टमिति। उक्तरीतिकं दुश्शकविषयेहनमिति विशेष्यमर्थसिद्धम्। दुश्शकेति। विषयेत्यत्र विवेकिति पाठान्तरम्। दुश्शकत्वं दुरन्तत्वञ्च विवेकेऽनन्वितम्। विजिगीषायास्तदुद्योगस्य च लोपपात्रे वर्तमानत्वात् दुःखकत्वं तत्र नान्वेति। विवेकादिविजिगीषाकृतस्योद्योगस्य यो विषयः तुष्टि सद्धर्मनाशनादिः तस्य दुश्शकत्वं पुरुषबन्धवर्धकतया दुरन्तत्वञ्च भवतीति विषयपदं युक्तम्। विषय विवेकविजीगीषेति पाठोऽस्तु। तुष्टिविवेकादिविजिगीषेत्यस्य संदर्भसिद्धत्वात् मा भॄद्वा विवेकपदम्। तथा च दुश्शको दुरन्तश्च विषयो यस्योद्योगस्य, तेनेत्यर्थः। दुरन्तत्वं दुष्टावसानत्वम्-अनर्थपर्यसायित्वम्। ईदृशोद्योगवत्त्वात् अयं सर्वदा दुश्शकप्रवृतिमानिति दृश्यत इति वाक्यार्थः। लोभनाशकतुष्टिमादुर्भावमधिकृत्याह नारदः सखे इति। अदोषेति। तुष्ट्यादेः श्रेष्ठगुणत्वात् तदागमः अदोषस्याऽऽगमनमेव। श्लिष्टमिदं पदम्। दोषा नाम रात्रिः। रात्रेरागम एेवामृतकिरणस्य चन्द्रस्य प्रसक्तिः। अत्र तु अदोषागमेऽपि अहनि युद्धेऽप्यमृतकिरणलाभ इत्याश्चर्यम्। अमृतं मोक्षाश्च। तत् किरन्ति ये तेषां संदोहेन संघेनेत्यप्यर्थः। संप्लुतं व्याप्तमार्दीकृतम्। अवदातप्रकाशया—धवलकिरणाया, सत्त्वोल्लसितया च।
41. पञ्चमुखीति शेषादिसर्पसृष्टेः पञ्च मुखानि भवन्ति। तुष्टिश्च शब्दस्पर्शरूपरसगन्धाख्यविषयपञ्चकविषयकत्वात् पञ्चमुखी। सर्वत्रालम्बुद्धिरेव तुष्ठिः। मूषकस्य सर्पमार्यत्वात् लोभे मूषकोपमा।
लुप्तलोकायतमिति। लोकायतं हि देहात्मवादिचार्वाकमतम्। ऋणादेः स्वकृतस्याप्यपरिहारेण यागदानादेर्निरर्थकत्ववादेन स्वदेहसुरवैकव्यग्रता चार्वाकाणां लोभमूलिकैवेति भावः। उपपादयति अद्यहीति। तुष्ट्या प्रशान्तानां संपदुपेक्षैव भवतीत्यर्थः। अमृतरसपानेन पिपासाशमनं येषां भवति, कथंते सर्वसाधारणं तोयं तदर्थे गृह्णीयुः। शान्तिरसस्तु ततोऽप्यतिशयितो दिव्यामृतरसः भौमक्षीरसागरोत्वादितामृतविलक्षणः। ततेन शान्ता उदन्या पिपासा येषां तेषां पुरुषाणां समाजे संपत्तिरूपा नद्यः न श्लाघां लभन्ते। सरितामतिवेगादपायित्वं स्पष्टम्। तत्र स्वानुमूतः श्रीरङ्गे नाट्यरंगे सर्वानुभूतश्च व्रष्टान्त उच्यते अमित्रेति। `तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम्’ इत्यन्यत्रोक्तं हि। तैरमित्रैः विरोधिभिः कृतस्य उपक्षेपस्य प्रवेशादेः क्षण एव विगलन्ती युद्धान्निवृत्य पलायितुं प्रवर्तमाना या स्वकीयसेना तत्कृतं दृढमामर्दं स्वोपरिपतनमप्यसोढ्वा शत्रुरेव प्रहरतीति त्रस्यन्तः भीताः कम्पमानाः ये द्रमिडदेशभट
ाः तेषां जङ्घायां तदा यावान् जवः, तावन्तं जविमिमाः संपत्तय बिम्रति। कुत्रेति न ज्ञायत इत्यपयन्ति। किमीदृशैरर्थैरिति उपेक्षन्ते महान्त इति। चार्वाको लोभकार्यमेकदेशमेव गृह्णाति। स्वयमप्यननुभवो लोभस्याधिको विशेषः। सोऽपि लोभनासादपैतीत्याह 43. प्रशमितेति। तुष्ट्या लोभस्य प्रशमितत्वात् धनमनघनीतिसिद्धं अप्रतिषिद्धेन मार्गेणार्जितमेव भवति। तादृशस्य दाने यथार्हं शास्त्रीये भोगे चोपयोगात् दत्तभुक्तफलं दानं भोगश्च फलं यस्य तथा भवति। विवेकाधीनतुष्टिविजितत्वमेव विवेके सति लोभो न भवतीत्येतद्विवरणेनोपपादयति नारदः। लोभस्य सर्वगुणलोपहेतुत्वात् लुप्तसर्वगुणत्वम्। 44. ब्रह्मेति। आयुरारोग्यैश्वर्यापेक्षिणः प्रायो लोकाः॥ `आरोग्यमिन्द्रियौल्वण्यमैश्वर्यं शत्रुशालिता। वियोगो बान्धवैरायुः किं तद् येनात्र तुष्यति।’ एवं स्थितेऽप्यपेक्षमाणाः तत्तदपि पूर्णं न लभन्ते, यतः ब्रह्मणां चतुर्मुखानामयुतानां दशसहस्राणां यान्ययुतानि तेषामिव विभूतिर्यद्यस्य भवेत्, सोऽपि अपूर्ण एव। एवमैश्वर्यविषय इवाऽऽयुष्यपि। कल्पानां ब्रह्मकल्पानामयुतानामयुतानि यस्याऽऽयुष्कालः सोऽपि व्यतीयात् म्रियेतैव। नागानां गजानामयुतायुतानामिव बलं शरीरारोग्यमूलकं यस्य सोऽप्यन्येन पुंसा क्षणेन बाध्यते। अतो लोभयोग्यं कांक्षार्हं किमस्तीति। मुमुक्षोर्लो भलोपजनितं फलं दर्शयति अद्यत्विति। परिहृतप्रत्यूहा। लाभान्तरलोभ एव हि प्रत्यूहः विघ्नः स विवर्तितः। 45. नलेति। नलो राज्याद्भ्रष्टः दमयन्तीं पत्नीमपि विसृज्य बहुं कालं दुःखमन्वभूत्। नहुषः इन्द्रस्थानात् प्रच्युतः। एतत्प्रभृतीनां मनुष्याणाम्, तथा नाकलोकेश्वराणामिन्द्रवरुणादीनां नलिनभवानां पद्मयोनीनां बहूनामपि। अस्मदित्यादि। अस्माभिरग्राह्यः अपरिच्छिन्नः भूमा महिमा एषाम्, अथापि अचिन्तितोपनता भवन्ति मधुकैटभ मूलकवेदापहरणमिव रुद्रकृतशिरश्छेद इव चापदः। अतो मोक्षमेव कामयेतेति भावः। 46. अपायिनो धनस्यार्जनेन किम्। अधिकधनार्जनं वा किमर्थम्। आयुषोऽल्पत्वादिति न कश्चिच्चिन्तयति, यस्मात् धनमदमत्तजनगृहबहिर्द्वारि दानलिप्सया प्रतिदिनं जानश्चिरं सोढक्षुत्पिपासाज्वरास्तिष्ठन्तीत्याह अपैतीति। प्रघणसीम्नि बहिर्द्वारप्रदेशे। संक्षीयत इत्यस्य पुरुष इति कर्ता अध्याहार्यः। तन्निर्देशमपि न सहते नारदः। यद्वा देहिभिरिति अध्याहारः। संक्षीयत इति भावे प्रयोगः। उपरि देहिनामिति सत्त्वात्। महानित्यादिश्चतुर्थपादः पृथग्वाक्यम्। द्रविणमोह एव दाहज्वरः सर्वत्राग्निज्वालां प्रसार्य दहन् ज्वरः॥ उपतिष्ठामः आश्रित्य वर्तामहे। न तु क्षीणा भवामः।
47. वयं त्रिविष्टपवासिब्रह्मादिपदं विहाय त्रिधामश्रीपतिपदमेव भजेम्। इतरपदं ब्रह्मरुद्रेन्द्राद्यधिकारपदम्। तत् कीदृशम्। उत्तालाः उद्गततालवृक्षपरिमाणाः अत्युन्नताः ये गजाः तेषां तालव्यजनसदृशयोः कर्णयोरिव सर्वदा चलेन प्रस्थानेन दुःस्था अननुवर्तमाना आसिका सिंहासने उपवेशः। तादृशाचञ्चलासिकायामपि नित्यः आतङ्को भयम्, किं भवष्यतीति। तेन तरङ्गितं भयपरस्परायुक्तं भवति। तस्मात् तत् पदं विजहतः त्यजन्तस्सन्तो वयं तद्विपरीतं भगवत्पदमेव चरणारविन्दं वा प्रपद्येमहि। प्रत्यूढाः निवारिताः आपदः यत्र तत्। तथा अनन्ताः संपदुदयाः परिपूर्णब्रह्मानुभवकैङ्कर्य-तद्योग्यस्वभावाविर्भावाः येन तत्। प्रत्यादिष्टपुनर्भवं पुनर्जन्मनिवर्तकं परिहृतावद्यं तद्धेतुपाप्मादिपरिहारकञ्च तत्।
लोभे लुप्ते तत्सैन्यानि पराङ्मुखानि पलायन्त। तदा कामः स्वसैन्यसहितः समाश्वासयन् आयाति। तदाह तुम्बरुः– महावीरः। लोभो वीरः अयं कामो महावीरः। प्रशिथिलां पूर्वमेव, पश्चाल्लोभादिना संघटितां लोभे ध्वस्ते च पलायमानाम्। मुखरिताः मुखराः शब्दायमानाः कृताः हरितः दिशो येन घोषेण तेन। मुग्धाः उद्यद्यौवनाः लज्जाविजितमन्मथाः, मध्याः उदितयौवनाः लज्जामन्मथमध्यस्थाः, प्रगल्भाः पूर्णयौवनाः स्मरमन्दीकृतव्रीडाः (प्रतापरुद्रीये)। तद्रूपाभिः वरूथिनीभिः सेनाभिः। कतम इत्यजानन्तं तुम्बरुं ज्ञापयति नारदः मदन इति 48. महितेति। महिताः श्लाघिताः मधुना वसन्तेन दत्ताः, मधुना मकरन्देन शरस्नेहस्थानीयेन दिग्धाः लिप्ताः शराः पुष्पमयाः यस्य सः, परभृतैः काकपोषितैः कोकिलैः वन्दिमान्। वन्दिकृतस्तुतिवत् कोकिलकूजितम्। भ्रमराणां संहतिः श्रेणिः गुणः धनुर्ज्या यस्य। मलयमरुत् दक्षिणमारुतः। स एव सखा। मकरलक्षणः मीनचिह्नितः केतुः ध्वजो यस्य । धृतधनुः। इक्षुरूपं धनुर्धतवान्। ईदृशत्वादयं मन्मथ एव। अयमेव त्वदुक्तत्रिविधस्त्रीसेनः। पारिपार्श्विकाः पार्श्वेषु परितो जागरूकाः। 49. पूर्वमवस्थाविशेषैः स्त्रीभेद उक्तः, इदानीं जातिभेदमाह काचिदिति। “पद्मिनी पद्मगन्धा स्यात् मधुगन्धा च चित्रिणी। शङ्खिनी क्षीरगन्धा च निम्बगन्धा च हस्तीनी"इति तत्तज्जातिलक्षणम्। अन्यतः दक्षिणपार्श्वे। अपरत्र पश्चिमे। अन्यतः उत्तरस्मिन्। सरसेति। स्वकीयया सरसया प्रीतिप्रकाशिकया प्रेक्षया वीक्षणेन युवसु निरुढः कामोदयो येन तत्। अवस्कन्दिनः आक्रामतः। धन्विनः कुसुप्रधन्वनः तस्य मन्त्रिचतुष्टयं पद्मिन्यादिकं समृद्धिमेति॥ अथ समरतेन सुखप्रदाः स्त्रियः पुरस्कृत्य स समीपमागत इत्याह तुम्बुरुः। उभावपि विरक्तौ सर्वस्त्रीलक्षणवेदिनौ। 50. ऋतुस्नाता अपेतार्तवदिनचतुष्टया। मदक्षीवा मद्यपानेन विकृता। क्रुद्धप्रसदनवती प्रणयकलहेन कुपिता सान्त्वनेन पश्चात्प्रसन्नदशामापन्ना। भिन्ना विश्लिष्टा विरहिता अथ संगता। इदंपूर्वा प्रथमसंगमा। इत्येवंविधेत्यनेन नवज्वरवती, मासैकप्रसवा, षण्मासगर्भा च गृह्यन्ते। कामशास्त्रश्लोक इह प्रभाविलासे उपात्तो द्रष्टव्यः। युयुत्सति योद्धुमिच्छति। गीताभाष्य इव परस्मैपदं प्रयोगबलात्। युयुत्सुति इति पाठः योद्धुमिच्छुरिवाचरतीत्यर्थकः स्यात्। किमनेन व्यूहनिर्माणप्रयासेन। अनायासेन जरठयापि जयसाधने निपुणो मदन इति परिहासोक्त्या नारद आह। तदर्थं कामप्रभाववर्णनं स्वायत्तेति। 51. स्वायत्ता सिद्धिर्यस्य विभवस्य स स्वायत्तसिद्धिः, तादृशो विभवो यस्य तस्य, स्वस्य छन्देन इच्छया चेष्टितानि व्यापारान् भृतः वर्धयतः, आत्मयोनेः मनसिजस्य। अत्मशब्दो मनोवाची। स योनिर्यस्योति विग्रहः। भगवत्सुतस्य मदनस्य भगवत्साम्यमेभिर्विशेषणैर्दर्शितम्। सोऽप्यात्मयोनिः— स्वभूः स्वयम्भूः स्वातिरिक्तकारणरहितः। मुग्धादयः पूर्वोक्ताः। प्रौढा पूर्वोक्तप्रगल्भा। जरठा पञ्चपञ्चाशदधिकवयस्का। तावत्पर्यन्तं प्रौढात्वम्। जैत्रं जयशीलम्॥
कामस्य सिंहनादो नेपथ्ये विवेकेत्यादिः 52. विवेको विरक्तिं प्रेर्यास्मान् हन्तुमुद्युङ्क्ते। सा वाराङ्गना किं कुर्यात्। तां कचे गृहीत्वा व्यापादयिष्यामि। रतिप्रियतमस्य मे किमनया वाराङ्गनया वस्तुगत्या मन्नाशनमनसा। मदीया नीतिस्इथतिः न्यायरीतिः विमुक्तिपुरस्य मोक्षस्थानस्य वैकुण्ठस्य या वर्तनी गमनमार्गः भक्त्यादिरुपायः तत्परिवर्तिनी विनाशिनी। तादृशोऽहं रणारम्भमिच्छामीत्यर्थः। युयुत्सतः योद्धुमिच्छतः। अत्रापि पूर्ववत् (50) साधुत्वम्, पाठान्तरं वा। विरक्तेर्निर्दयत्वं निरूपयति। पुत्रैषणाया वित्तैषणायाः लोकैषणायाश्च व्युत्थाय भिक्षाचर्यं चरन्ति प्रव्राजिनः। अतो विरक्तिः भवभृतः संसारिणः पुरुषस्य प्रव्रज्यां सर्वथा त्यागेन सर्वादाऽटनं कल्पितवती-कर्तव्यकुटुम्ब पोषण परित्याजनेनेति तन्निन्दा कृता। अथ किमेतन्न्िन्दनेन, पूर्वकर्मैवात्र कारणमित्याह नियत्यै इति। तया नियत्या सह योद्धुं कन शक्यत इत्यभिप्रायेण नम इदमित्युक्तम्। अनेनान्तर्भीतिरस्तीति ज्ञापितम्।
विडम्बयति चेति। विरक्तिपरिभवनार्थं प्रवृत्तोऽयम्, `अमुष्यै किं कुर्मः’इति तामुपेक्ष्य, भूयिष्ठं नमः’ इत्याह। विरक्तिप्रेरकनियतिनासने विरक्तिर्विरमेदित्याशयेन। किं कुर्म इति तां विहाय प्रेरकनासने प्रवृत्तेन नमश्शब्दप्रयोगः विरक्तिपरिभवनापेक्षया नियतिपरिभवनमधिकं कर्तव्यमित्यभिप्रायेण। परंतु स्वकार्यस्यापि नियत्यधीनत्वात् भगवत्यै इति तां विर्शिषन् गौरवमपि दर्शयन् वास्तवनमस्कारार्हतां मन्यत इव। अतो विडम्बनमिदं परिहसनरूपमिव, तदनुकरणरूपं तत्प्रेरितमार्गेण स्वप्रवृत्तिकरणरूपमपीति ज्ञायते। मास्तु वाऽस्य तावात् आशयः। भगवतुल्यप्रभावां तां, स्वायत्तसिद्धिविभवस्ये 54. ति पूर्वोक्तरीत्या भगवत्समोऽयमनुकरोतु वा। विडम्बनं ह्यनुकरणम्। अथापि भगवती नियतिरनेन वस्तुतो नमस्कार्यैव। विरक्तेरिव तस्या अपि परिहसनमयुक्तञ्च। तत्रापि विषयवैमुख्यकारिण्या नियतेः इतरापेक्षया बलवत्त्वमिति भावः॥ तुम्बुरुः विषयरसवैमुख्ये वैरस्यवतोऽस्यैव मुखवैमुख्यं जातमिति नन्दन् आह पश्यपश्येति। मुषितव्यवसायः। नाशितस्वाध्यवसायः। मुखवैमुख्येन। एतन्मुखस्य वैमुख्येन प्राधान्यहान्या। मुखवैमुख्यं स्त्रीणां साशंकत्वञ्चोपपादयति मधुसमयेति। 54. गृहीतधनुर्ज्याभंगात् तस्य वैमुख्यम्। तत्समये पुष्पान्तरसृष्ट्या ज्यासंपादनप्रवणत्वात् स्त्रीणां साशङ्कत्वम्। इमाः सैन्यभूताः शिञ्जिनीं ज्यां जनयन्ति। कुतः। मदनस्य धनुष्प्रकाण्डं श्रेष्ठं धनुः तदीयस्य गुणस्य मौर्व्याः निस्त्रुटनात् छेदनात्। तस्यावसरे प्रतिनिधितयाऽन्यज्याकल्पनम्। कथम्। मुखासवेन गण्डूषमद्येन वकुलवृक्षान् दोहलिनः–प्रसवहेतुमतः कृत्वा तदीयपुष्पैः अलघुभिः अधिकपरिमलैः ज्याकारणम्। मधुसमयात्वरोधेत्यस्य वसन्तकाले अन्तःपुरजनस्येत्यर्थः। यद्वा मधुसमयस्यावरोधात् पुष्पानुद्भवे प्रसक्ते स्वयमसमये तदुत्पानं वदनासवेन। प्रमदाशब्देनैव स्त्रीणामुक्तत्वात् वदनेति तद्वदनलाभात् अवरोधपदस्य तदर्थकत्वमनपेक्षितम्। किं पुष्पसंहतिरेव शिञ्जिनी, भ्रमरसंहतिर्वेति चेत्— प्रतिनिधित्वात् भ्रमरातिरिक्तैवास्तु। अस्तु वा,. `प्रमदावदनामोदिवदनासवसेकतः। मुकुलाकुलतां याति वकुलोऽलिकुलप्रियः’इत्येतत्पद्यस्यात्र पदैः प्रत्यभिज्ञानपनात् नूतनोत्पादितवकुलपुष्पाश्रितस्यालिकुलस्यैव शिञ्जिनीत्वम्। मुषितव्यवसायत्वं मन्मथस्योक्तम्, प्रभूतव्यवसायसंपदं विवेकं प्रशंसति नारदः। प्रहसनं विनोदनञ्चेति द्वन्द्वः। तयोः परं प्रस्तावकम् आरम्भकम्, न तु रणसंरम्भप्रवर्तकमिति। अपिचेत्यादिना एतावदुक्तप्रकारादन्यः प्रकारो मन्मथादृतः प्रदर्श्यते। तेनायं परिभूतोपि विवेकं जेतुमिच्छति परावर्तनमकुर्वन्निति ज्ञायते। किं करोतीत्यत्राह 55. जगदिति। केवलस्त्रीदर्शनापेक्षया भोगप्रवृतस्त्रीपुरुषद्वन्द्वदर्शनस्य लोके कामविकारोत्पादकत्वात् अयं स्वचापलेखया जगत् चापले कामे प्रक्षिपन् युगलदेहरूपं मिथुनात्मकदेहरूपं यन्त्रद्वयं मेलयति। अर्धनारीश्वरं मेलितं मनसि निधायैवमुक्तम्। अथवा द्वर्योर्वर्गः मिथुनमेव स्त्रीपुंसात्मकम्। द्विगर्भेति पाठे द्विघटितसमुदायेत्यर्थः। त्रिवर्गेत्यपि पाठः। तदा मोक्षातिरिक्तपुरुषार्थेति सुलभोऽर्थः। तस्यैव बडिशामिष्यस्य ग्रसनं कारयन् तेन वेधनेन सौभर्यादीनिव बाधते। स्त्रीपुरुषद्वयं मनुष्यरूपमेवेति न नियमः। अस्य कामस्य मनसिजत्वात् सकलजन्तुचिन्ताजातत्वात् सर्वप्रेरणेनापि कामोद्दीपने कुशालोऽयम्। बहुविधमिथुनव्यूहनं तावत् उक्तम्। अथात्युद्भुतस्त्रीमयव्यूहपुरस्कारं दर्शयति अद्यचेति। अद्य इदानीम्। शिल्पविद्या इन्द्रजालादिर्नानावस्तुदर्शिका। अत एव निरन्तरम् अविच्छिन्नतया, मध्ये यथार्थज्ञानस्वावकासं विना, परिणमन्ती भवन्ती अविद्या अज्ञानं विपरीतज्ञानं यया सा भवति शिल्पविद्या। स्त्रीसंहतिरपि निरन्तरपरिणमदविद्यैव। दुर्निरूपघटनया अकाण्डे कथमियं घटनाऽसीदिति कारणनिरूपणं दुष्करमेव यत्र तादृश्या। तद्विवृणोति 56. रथेति। महिलासु रत्त्नभूताः समूहति इन्द्रजालविद्येति वक्तव्यम्, यतो रथगजतुरगवल्लक्ष्यन्ते तत्रतत्रेमाः स्त्रियः, आकारगतिप्रमेदादिभिः। ध्वजे मीनं स्थापयन् पुष्पधनुरादायायमायाति। रतिप्रियेति नामधेयमेकम् अलमस्य सर्वकीर्तिप्रदर्शनाय। आश्चर्यमनुभवति तुम्बुरुः, अहो अबलाभिर्महाबलामर्दनाभिलाष इति। 57. पञ्चबाणः “अरविन्दमशोकञ्च चूतञ्च नवमल्लिका। नीलोत्पलञ्च"इति बाणपञ्चकवान् मदन एव सुभटः उक्तविधबाणातिरिक्तं युवतिवदनसंस्थानविशेषमप्येकं बाणं सज्जमस्ति वेति समीक्षते प्रतीक्षते वा। कदा तस्य बाणत्वमिति चेत्-विशेषणं दर्शयति अङ्कुरदिति। ईषदुत्पद्यमानस्मितविशिष्टम्। अकेवलेक्षणम्। केवलम् अभिप्रायहीनम्। अकेवलं साभिप्रायमीक्षणं यस्य। भङ्गुरा उन्नता च भ्रूः यस्य तत्। अञ्चिताधरम् अञ्चितं पूजितं संस्कृतं ताम्बूलचर्वणादिजनितरा संस्कारमधरं यस्य तच्च वदनमीक्षते। ईदृशविशेषणाभावे युवतिवदनस्यपि पञ्चानां बाणानापि कदाचिदकार्यकरतया तदादरवञ्चना स्यात्। अवञ्चितादरत्वाय तादृशं वदनमीक्षते। तथैवेति स्त्रीजनास्त्रकमदनवदेव। विरक्तिनाम्नीमिति विरक्तेः वैराग्यस्य कथं स्त्रीत्वमिति शंकां परिहर्तुं नाम्नि दृश्यतां तदिति जिज्ञापयिषया नाम्नीमिति निर्देशः। अथ प्रवेक्ष्यतो विरक्तिपात्रस्य व्याहारभूतं श्लोकद्वयम्। तत्र विरक्तेरर्थकामोभयविषयत्वादुभयमुच्यते पूर्वम्, अथ विशिष्य युद्धसन्नद्धस्त्रीजनवियमन्यत्। भोगेष्विति। यो हि कन्दलीनां क्षुद्रकदलीनां कन्देषु मूलभूतेषु सारं लभेत, स एव युवतिसमूहभोगेषु सारं लभेत। एवमर्थानां प्राप्तौ सारलाभ इत्येतत् राजम्भाणां श्रेष्ठरम्भावृक्षाणां कदलीविशेषाणां स्तम्भेषु सारलाभतुल्यम्। क्षुद्र (बाल) कदलीकन्दानामङ्कुरोत्पादनशक्तिर्नास्ति। अतिवृद्धकदलीकाण्डेषु वृद्धिहेतुः सारो नास्ति। इदं तत्समानमित्युक्तं भवति। स्तध्भेष्वित्यत्र स्तम्बोष्विति वा पाठः। 59. गाढमूढः गाढं यथातथा मूढः। अतीव मोहं प्राप्तो जनः स्वप्रज्ञायाः प्रतिपदज्ञत्वात् विषवीचीरपि स्वभाग्यस्त्रीत्वेन विचिन्त्य किमपि प्रलपतीत्यर्थः। अदभ्रेत्यादिना प्रतिपदज्ञत्वविवरणम्। स्त्रीणां जघनं स्तनञ्च दृष्ट्वा मुह्यति। वस्तुतः अदभ्राणां स्थूलानां नितम्बकुचादीनां मांसातिरेकेषु प्रसक्तां विस्तीर्णव्रणानां प्रतिपदं प्राप्तिं न जानाति प्रज्ञा। प्रतिपत् प्रथमारम्भो वा। अन्तर्व्रणे सति चर्मादेरुच्छूनता लोके दृष्टा। अतः जघनस्तनारम्भप्रभृति शरीरे व्रणविशेषारम्भ एव विवेकिना भावनीयः। कालक्रमेण अप्रियातिविकृतजघनस्तनसंनिवेशस्यायमारम्भ इति जानतो हि वैराग्यमेवोदियात्। तदचिन्तनात् असभ्यपरिपाटिकां पठति। शृङ्गारचेष्टाभूतवाग्विसर्गं करोति। वस्तुतो विषस्य विषयाणाञ्च साम्यमपि जानता इमाः प्रकृतिद्रव्यरूपस्य वीचिमतः समुद्रस्यामृतांशविलक्षणाः विषवीचय इत्येव पुम्भिः प्रतिपत्तव्यममृतलिप्सुभिरिति भावः। प्रतिपदज्ञयेत्यादेः व्रणानां प्रतिपदं पर्यापतां ज्ञातुं समर्थया प्रज्ञया सहितोऽपि मूढो न विचिन्तयतीति। वाऽर्थः। अपहस्तयितुकामः। व्यापरितुमक्षमपहस्तत्वम्। तथा कर्तुमिच्छन्। यद्वा हस्तेनापवाहयितुमिच्छन्। कामो दग्ध इत्याह स्वेति। 60. कामोऽयं लोभनाशमसहमानो रणभुवं प्रविश्य तद्वदेव नष्ट आसीदित्यर्थः। लोभस्तावत् कामस्य सुपरीक्षितं मित्रम्। मित्रस्य परीक्षा धर्मविषयेऽर्थविषये कामविषये च भवति। तत्परीक्षणत्रयमेवोपधात्रयम्। तत्रोत्तीर्णो लोभ इति सोऽस्थात्यन्तमित्रम्। इदं मित्रं हन्त तुष्ट्याः जाठराग्रौ निविश्य दग्धमासीदित्याकुलस्सन् रणं प्रविष्टोऽयं मीनकेतनः, पूर्वं यथा विरक्तिपूर्णायाः रणे समर्थायाः रुद्रदेवतायाः निटिलगतविपुलदृष्टिवह्निना अनङ्ग कुतः, तथा अद्यापि विरक्त्याख्यायाः योद्धुं प्रवृत्तायाः दृष्टिरूपं वैश्वानरं जाठराग्निं प्रविश्य अनंग एवासीदिति। तथा च लोभश्च कामश्च लुप्ताविति॥ विरक्त्या विदग्धो विषमास्त्रः। विरक्तिवैभवेन तदधीनः शृङ्गारोऽपि रसः शमित इत्याह अपिचेति। 61. निस्सम्बोधमिति। सर्वमन्तःपुरं कामकेल्यर्थं स्थितं शृङ्गारहानिशब्दवशेन मूर्छितमासीत्। विरक्तानां स एव शब्दः सुधावर्षी। स हि शब्दः लोकालोकपर्वतपर्यन्तं व्यप्त इत्यर्थः। क्षिप्रेति। शब्दाभिधातेन क्षिप्रं शीघ्रमेव क्षोभितः चक्रवालशिखरी कुलाचलः स एव प्राकारः परितो भूमणअडलपर्यन्तगतत्वात्। ततर् रिङ्खया-मन्दचलनेन रटद्भिः शब्दायमानैः शृङ्गैराघातात् अभिहतत्वात् यो निरोधः उपरिगमनाभावः तेन पिण्डितः समूढः अत एव पटुः तीव्रः शृङ्गारभङ्गकाले जात आरवः घोषः। पूर्वोर्धे वितनुते प्रचिनोति इत्युभयत्रान्वयः। 62. त्वगित्यादि। इमे सप्त धातव एव सर्वत्रेति भावः। शुक्लेत्येतत्स्थाने स्त्रीणां लोहितं ग्राह्यम्। सर्वस्यापि वपुषः संभवतो दोषान् दर्शयति वर्ष्मेति 63. सप्तधातु त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लमयम्। त्रिविधमलप्रचुरम्। नासिकानेत्रश्रोत्रमलानि त्रीणि। यद्वा इन्द्रियमलम् भुक्तमलं देहस्वेदमलञ्च त्रीणि। स्त्रीपुरुषयोराभासयोनिद्वयजनितम्। ये चतुर्विधाः खाद्यभोज्य लेह्यचूष्यरूपाः शाकमत्स्यादिरूपतया स्थिरचरोभयरूपाश्च यातयामत्वे दुर्गन्धरसाः, तत्परिणामभूतञ्च। इत्थञ्च एवंप्रकारेण च अनन्तदोषास्पदम्। मुनिभिर्घोषितेत्यनेन चिरादेतद्दोषः सर्वविदित इत्युक्तम्। मीमांस्येति। चर्मभस्त्रेयमावारकचर्मबलात् अविज्ञातस्वरूपाऽस्ति। चिन्त्यतां यथाशास्त्रं यथानुभवञ्च मांसरेतोरक्तकफवसारूपाभासाने कवस्तुमयभस्त्रात्वं ज्ञास्यत इति। 64. गर्हणीयेति। गर्भिते। गर्भः अन्तस्स्थं वस्तु। बहवो दोषा एव गर्भाः। अतस्तैः संजातगर्भे। योषिद्धिः क्रियमाणं कादाचित्कं गर्भधारणमास्ताम्। नित्यधृताः गर्भा इमे पुरुषेष्विव योषित्स्वपि। नारकेऽपि नरलोकसंबन्धिन्यपि रौरवे धोरस्थलविशेषे गौरवेण धीर्भवतु। गौरवग्रहमूलः अनुभाव्यत्वाध्यवसायो जायेतेत्यर्थः। अत्रैवं स्मृतिवाक्यम्, “मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ। देहे चेत् प्रीतिमान् मूढो भविता नरकेऽपि सः” इति। एतद्देहे प्रीतिमांश्चेत् नरकं गच्छेदित्येव नार्थः। अत्र प्रीतिमान् नरकेऽपि प्रीतिमान् स्यात्। एतदधिकदोषस्य नरकेऽप्यभावादिति भावः। सयूथः सपरिवारः। मृतं कामं संबोध्य तुम्बुरुराह परिचरतीति। अस्यामपि दशायां वसन्तमधुकरादिकं त्वां न विसृजति। नियत्या दैवेन, `नियत्यै भूयिष्ठं भवतु भगवत्यै नम इदम्’इति त्वदुक्तयैव त्वं प्रापितदैन्योऽसि। कामप्रभाववर्णनपूर्णकं कैमुत्यनयेन कोपक्षयं भविष्यन्तं प्रस्तौति संभोगेति। 66. संभोग एव मुख्यः पुरुषार्थ इति तदैकान्त्यं तदेकप्राप्यकत्वं स्थापयितुं स्थितः। देहातिरिक्तात्मापलापात्। तत्तल्लोके स्थिताः देवतिर्यङ्मनुष्यस्थावरा देहमात्रभूताः इति वादेन मनुष्या देरकृत्यकरणेन नारकप्राप्तिं निह्नुवान निकामं तत्प्रस्तावभञ्जनपरः। अर्थनारीश्वरकल्पनरूपं शिल्पमाह शस्त्रेति। रुद्रस्य तथात्वं कथमिति चेत्— अयं कामः स्वशस्त्रैः पुष्पैः उमाशिवयोर्देहार्धांशौ छित्वा प्रास्य अर्धदेहद्वयस्य घटनेन दाम्पत्यं दिव्यमुमाहेश्वरात्मकं निरमान्। न केवलमेतावत्, गोपीसहस्राणां श्रीकृष्णपरवशत्वापादनमपि एतत्कृतमेव। स परमपुरुष इति वदन्ति। सत्यं स परपुरुष एव। तत्तद्गोपीभर्तृपुरुषापेक्षया परः– अन्य एव। अतो दम्पतियोजकोऽयं धर्माविरुद्धकाम इति न मन्तव्यम्, अतिक्रमस्याप्येवं प्रख्यातत्वात्। एतत्फलमिदम्, यदिदानीं मृदितः नाशितः। एतदनन्तरं जातस्य कोपस्य किंयत् पौरुषमिति। कोपविषयकावमतिं त्याजयन्, आगत एव कोपो योद्धुमित्याह नारदः। पुरस्त्येन पारावाराः पीताः। ईदृशां दुस्साधकार्यणां क्रोधाधीनत्वात् स एव तत्कर्तृत्वेन वर्ण्यते। कोपाख्यस्य पुरुषस्य या क्षुत् बुभुक्षा तस्या इन्धनीभूताः वसुन्धराधराणां पर्वतानां धुरन्धराः श्रेष्ठाः (वसुन्धराधरपदेन क्षत्रियग्रहणे परशुरामवृत्तमनुसंधेयम्।) किं मृषा। कोपप्रभावोऽयं सत्य एवेत्यर्थः। पर्वतान् सर्वान् भक्षयतस्तदनुरूपं पानीयमाह तृषेति। तृषया पिपासया रभसेन अतिवेगेन यत् चूषणं अधरपुटे पात्रं निक्षिप्यखल्पतोयग्रहणतुल्यं ग्रहणं तेन पञ्चषाः पञ्च षङ्वा समुद्राः क्षपिताः। अगस्त्येन चत्वारः समुद्राः पीता इत्येतदुपलक्षणम्। लीनानां राक्षसानामुपलम्भनार्थमेव समुद्रपानं कृतमिति महाभारते उक्ततथा समुद्रान्तरेऽपि तत्प्रसक्तेः। अतः पञ्च षड्वा भवन्तु, न चत्वार एव। भगवन्निवासः पयः पाथोधिः परं राक्षसाप्रवेशादुपेक्षितः स्यादिति ज्ञापयितुं पञ्चषेत्युक्तम्। कोपोऽयं हाचकाचलं-स्वर्णाचलं हठेन भित्त्वा तत्तटीं विशालां कुण्डलत्वेन धरतीति वक्तव्यम्। आहारानुरूपदेहानुगुणस्य तच्छक्त्यनुरूपस्य चैवाऽऽभरणस्य वक्तव्यत्वात् तस्याल्पखर्पतोऽसंभावात्। तृतीयपादेपि पर्वतभेदिपुरुषान्तरस्य रुद्ररावणादेरुत्प्रेक्षणमनपेक्षितम्, भूषणे तात्पर्यात्। स एष कोपः प्रसर्पति [यस्य निर्माणे कुम्भकर्ण एकः परमाणुरिवेति]। कोपप्रभावं नारदिकर्तृ तुम्बरुस्ङ्गीकुर्वन् तदनुसारेणाह अतीति। न केवलं शत्रुसैन्यम्, सर्वमेव जगद् दहदयम्, रुद्रादिकर्तृकस्य संहारस्यापि एतत्कोपाधीनत्वादित्याशयेनाह अपीति 68.। वैरिवरूथिनीम् विवेकसेनाम्। कोपतनूनपात् कोपाग्निः अनूनः ऊनात् भिन्नः। 69. जिघांसेति। न केवलं घातकानामेव कोपवत्त्वम्, वध्यानां सर्वथा कोपाभावे घातुकानां तद्वधप्रवृत्त्यभावात्। उभयोरशान्तत्वं एव प्रबलो दुर्वलं कोपेन हिनस्ति इति भावेन वध्यभावेन विनियोगोपि कोपधीन इत्युक्तम्॥ तथा घातकत्वसिद्धयेऽपि अन्यस्य वध्यत्वकल्पना। अस्यायुधान्यपि सर्वत्र सुलभानीत्याह 70. करेति। सहजमिति। देहेन सह जातमित्यर्थः। हतरत् गदाखड्गादिकम्। प्रतिकघः कोपः, तदाख्यस्य महाभटस्य प्रहरणम् आयुधम्। विहर्तुमिति। तस्य परमारकत्वात् अयुधत्वम् अस्यावलीलया तत्प्रयोक्तृत्वात् तस्य लीलारस हेतुत्वाच्च विहारोपकरणत्वम्। कोपं क्षपयुतं क्षान्तिः प्रेर्यते विवेकेनेत्याह अत्रेति। अप्रधृष्योदयाम् अपरिभवनीयाविर्भावाम्। कोपे आडम्बराधिक्यात् तद्विरोधिक्षान्तिप्रेरकस्य तदनुरूपां स्थितिमाह निस्तरङ्गजलधिरिवेति। कोपाट्टहासस्य क्षान्तिमन्दस्मितेन क्षयमाह 71. रुन्धान इति। अनिभृतम् अनिश्चलं सिन्धोः समुद्रस्य यो घोषः तत्प्रथनं वृद्धिम्। उरुप्रथस्वेति पुरोडाशं प्रथयतीत्यादाविव पृथुभावः प्रथनम्। तत् वारयन् कोपस्याट्टहासः पुनः किम्भूतः क्ष्माधरेन्द्रान् पर्वतश्रेष्ठान् क्रन्दयन्। गिरिगुहासु प्रतिध्वनिः भीत्या तत्कृतं परिदेवनामित्युच्यते। सुरपथे गगने रथिनां वेगेन गच्छतां शुष्मणः अग्नेः सारथिभूतानां वायूनां स्कन्धभेदान् सप्तविधमरुदवान्तरभेदान् पुनरपि भिन्नान् कुर्वन्। एतदट्टहासाभिधातेन विधातुः ब्रह्मणः सत्यलोकस्थं सौधमेव क्षुब्धमासीत्। तद्भङ्गध्वनिना बहुगुणवृद्धिरस्येत्याह क्षुभ्यदिति। एतादृशस्याट्टहासस्य मन्दहासः क्षपयितेति वदन् तद्विशेषणमाह शुद्धालोकेनेति। स्मितस्य प्रभा शुक्ला, क्षान्तिः यथावस्थिततत्त्वजन्येत्यर्थद्वयमभिप्रेतम्। सद्यः असह्योत्थानावसर एव। कोऽपि अनिर्वचनीय। कोपिनः कोपो भवति। इह कोपी न लक्ष्यते, कोपः परं जृम्भते, निराधारस्य क्षयप्रापणं युक्तम्। क्षयो हि वासस्थानमपि। तदयं क्षयमुपगमित इति। उपर्यपि क्रोधव्यापारस्य बहुलं वर्णनात् क्षयमुपगमित इत्यस्य न्यूनतां प्रापित इत्यर्थः। शीघ्रमेव नंक्ष्यतीति ततात्पर्यम्। क्रोधव्यापारानेवाह अमीचेति। 72. दन्तिमल्ला इति एतद्विशेष्यम्। दन्तिनः गजाः मल्ला इव, हस्तपादकार्यशत्रुमर्दनत्वात्। ते कुलाचलवत् अधिकगुरुत्वभाजः। गरिष्ठानां कन्दुकवत् क्षेपणमद्भुतम्। गुरुत्वमुक्तम्, महत्त्वमाह क्षेणीति। बलं गुरुत्वमप्यत्र ग्राह्यम्। कुम्भरूपनित्यावयवगुण उक्तः। पश्चादुत्पन्नदन्तगुणमाह कुलिशेति वज्रयुधम्। वर्णमधिकृत्याह क्ष्वेलेति। विषसमुदायवत् भयंकराः। अन्तिमं भयं न जहति न मरणभयं त्यजन्ति। 73. दिधक्षतः दग्धुमिच्छतः। त्रिपुरारातिः महादेवः, तत्प्रभृतिषु लब्धः भूमेति। अमर्षस्य क्रोधस्य सिंहनादं विशिनष्टि संवर्तेति। प्रलयकालिकमेघगर्जितवत् गम्भीरा भयङ्करी च प्रसृतिः प्रसरणं व्यापनं यस्य सः। कुलगिरीणां कुहरेषु-गुहासु भरिता, स्थलापर्यप्त्या प्रतिनिवृत्तां, संहता पिण्डीभूता च आकृतिर्यस्य सः। निरुद्ध्यमानः समीपागमनान्निवार्यमाणः स्तब्धवृत्तिः इतस्ततश्चलनरहिततयां संदृश्यते।
74. प्रतिमुखेऽपि अभिमुखतया स्थितावपि। प्रतिमुखोऽपीति वा पाठः। प्रतिघः कोपः सप्रतिघः लब्धप्रतिघातस्सन्। परम् अधिकम्। पर इति पाठे पूर्णोत्कर्षदशापन्नोऽपीत्यर्थः। उपर्याक्रमणायोगः अथ स्तब्धत्वमित्युभयमुक्तम्, अथ पश्चात् पदन्यासं भयकृतमाह 75. अपरावर्तीति। परिहासपरतया स्वरवधप्रवृत्तश्रीरामसादृश्येन स्तौति नारदः। सुभटानां श्रीरामादीनाम्। अपसर्प इत्यनेन, “अपासर्पत् प्रतिपदं किञ्चित् त्वरितविक्रमः"इति खरवधप्रकरणस्थं वचनं प्रत्यभिज्ञाप्यते। स स्वरं जधान, अयं ममारेति विशेषेण सपसर्पे वैलक्षण्यं द्रष्टव्यम्। हन्यमानस्य क्रोधस्य प्रभाववर्णनपूर्वकं हननमाह यस्येति। त्रासनं भ्रूभंगदन्तघट्टन हस्तोद्यमनादिकम्। तर्जनं वाचिकं भयजनककृत्यम्। क्रूराः भयंकर्यः उद्धताः धार्ष्ट्यधीनाः गर्वदर्शिन्यः। यस्येति। “यदा स देवो जागर्ति तदा सोन्मीलनं जगत्। यदा स्वपिति शान्तात्मा जगतः स्वापात् एतन्निमीलने जगतो जागरणादिति। आबध्येति। क्षमा क्रोधं बद्ध्वा अचञ्चलं कृत्वा हन्ति। वैधं विधिविहितं हिंसनं शान्तवैदिककृत्यम्। क्रोधाविष्टकार्यमवैधहिंसनम्। तत्र यः संरम्भः वेगातिशयः, तेन कार्येण संभावितेन महामोहपक्षीयश्लाघितेन क्रीडया उड्डामरेण परभयङ्करेण दण्डतुल्येन बाहुना तदीयानां लडहं मनोहरम्। लगुडेति पाठे तस्य दण्डार्थकत्वात् पुनरुक्तिः स्यात्। 77. गुरुवघेत्यत्र रुदकृत स्वपितृब्रह्म-दक्षरूपस्वश्वशुरशिरोभञ्जनादिरूपवधग्रहणम्। महितपदेनाचेतनयज्ञादिग्रहणेन तद्ध्वंसोऽभिमतः। दक्षाध्वरेति पदं प्रथमपादेऽप्यन्वयार्हम्। सुखारातिः। क्रोधाविष्टानां सर्वं प्रतिकूलतया भासत इति दुःखमेव स्यात्। तेन हन्मानानां तत्र न संदेहः। स्वर्गापवर्गेति आमुष्मिकसुखोक्तेः सुखपदमैहिकसुखपरम्। इहसुखेत्येकं पदं वा। अमर्षः क्रोधः अग्नितुल्यः। क्षणरुचिपदं-विद्युत्परेण क्षणरुचिपदेन स्वयं व्यवह्नियमाणताम्। अमर्षः क्षणेनैव नश्यतीत्यर्थः। अवद्येन दोषेण। क्षमाविरहे किल प्रतिकर्तुं प्रवर्तमानः तदर्थे सुबहूनि पापान्यपि करोति। क्षमायां तु स्वगतमपि पापमपैतीति अपूर्वस्य पापस्य का प्रसक्तिः। मेरुपर्वतदृष्टन्तीकरणेनेमभर्थं विशदयति 78. विबुधेति। एत्तदारभ्य क्षमागुणाबिर्भावानुरूपः पदसंदर्भः। ऐरावण इत्यैरावतस्यैव नाम। तत एव गजत्वसिद्धावपि गण्डस्थलेऽतिशयज्ञापनाय करटीति। अतिशायने मतुपू। कण्डूलं कण्डूविशिष्टम्। कण्डूः कब्डूयनापनोद्यव्यथा। कण्डूपरिहरार्थं करटकषणात् मदपंकः उद्गतः प्रसृप्तः गिरितटं मलिनीकरोति। तथा दन्तैःपीडनमभिसंधाय तटे क्रीडां तटोत्खातनरूपं व्यापारं भजति। तावता मेरुः क्षमाभृत् पर्वतः न मालिन्यं क्षोभञ्च प्राप्नोति। (क्षोदः चूर्णीभावः)। मर्दकर्दममालिन्यस्य पर्वतीयत्वाभावात् क्षणेन विलयाच्च। एकदेशोत्खातेऽपि मेरुरुत्खात इति न कश्चिन्मन्येत। तस्य स्थितं विबुधैः देवैर्महितत्वं क्षमाभृत्त्वं सुवर्णद्युतित्वच्च सुप्रतिष्ठितमेव भवति। क्षमावति पुरुषे सुवर्णद्युतौ विबुधैः विद्वद्भिर्महिते क्रुद्धेन बह्ववद्यारोपेऽपि न तस्य मालिन्यम्। बहुमुखं पीडनेऽपि, कथमस्मान् अयं पीडयतीति क्षोभश्च कथमपि न भवतीत्यर्थः। पद्यमिदं सु नी। विस्मयाविद्धम् आश्चार्यपूरितम्॥ 79. तीक्ष्णतमेति। क्षमागुणगतं तीव्रत्वमेव क्षुरादितैक्ष्ण्यवद् भाव्यते, सर्वच्छेदकत्वात्। 80. अहार्येण अन्येन स्वार्थमपहर्तुमशक्येन। न हि कस्यचित् गुणस्तं परित्यज्यान्यमाश्रयेत्। असंहार्येण अविनाश्येन। संवृतः आच्छादितः। अयमस्मत्कृतान् अपराधान् सर्वान् जानातीत्यापि यथा न ज्ञायेत, तथा किल क्षान्तिरभिवर्ध्यते। सर्वं जयतीत्येतत् कोपजयेनैव स्पष्टमित्याह तथाहीति। 81. प्रतिघः कोपः। एकस्य स्फुलिंगस्यापि (अग्निकणस्यापि) असह्यत्वे पूर्णस्य कथं सह्यता। उदधिनैव शमनसंभवेऽपि अमृतोदधीत्युक्तिः, न केवलं शमनम्, दग्धोज्जीवनमपीति ज्ञापनाय। 82. मदनक्रोधलोभानामिति। लोभकन्दर्पकोपानामिति वक्तव्यम्। एवं क्रमेणैव तेषामागमनात् विलयाच्च। अथापि तेषु काम एव प्रधानभूतः। तदन्तरङ्गभूतः क्रोधः। चतुर्थेऽङ्के “लोभनामाऽहमभिवादये ज्यायांसौ कामक्रोधौ” इति स्पष्टमेवोक्तमिति लोभस्ततो निकृष्टः। एवं क्रमेण निकृष्टान् प्रदर्श इतोऽपि निकृष्ट एव वा, राजैव वेतः परं योद्धेति चिन्त्यते। कामजयात् प्रागेव लोभजयः, लुब्धैरपि कामवश्यतया अर्थव्यय-रस्यास्वादविधानात्। अर्थं विसृज्य सभार्थं वनप्रस्थानाच्च। कामे जितेऽपि क्रोधो जेतुं न शक्यते। विरक्तैर्मुनिभिरपि शापोद्गारात्। अतः क्रोधजयः कामजयानन्तरंमिहोपन्यस्तः। दुर्योधनस्येव दुर्पस्य पुनर्युद्धप्रवृत्तिरितीदं विशदयति हते इति। `हते भीष्मे हते द्रोणे कर्णे च निधनं गते। आशा बलवती राजन् शल्यो जेष्यति पाण्डवान्’इति पूर्णः श्लोकः। राजप्रेरणवशात् तत्सेवकाः प्रवर्तन्ते। राजा तु राजत्वादेव, किञ्चित्कालजिजीविषया च परानेव प्रेरयति। 83. निधने नाशे। कैमुत्यं तेषामेव नाशात् स्वनाशे संदेहस्यानवकाशम्। अपरामृशन्। यः परामशेत्, स नासीदेत्। क्षुद्रः, कामाद्यपेक्षयाऽल्पत्वात् कैमुत्यपरामर्शाभावाच्च। ईदृशः कोऽसौ प्रविशतीति विचारयति। कइवेति बुभुत्सुं तुम्बरुं बोधयन् अक्षुद्रत्वमप्याह नारदः। अगणितपरहृदयशल्यः परेषां हृदयस्य यत् शल्यं पीडाकरं तत् अगणितम् अनालोचितं येन। इदं परपीडाकरं कार्यमिति अमन्यमान इत्यर्थः। पीडाकरमेव कुर्वन्निति यावत्। अगणितं गणनारहितं परहृदयाशल्यमिति वार्थः। असंख्यशल्यकर इति। शल्योपि राजा कर्णसारथिर्भूत्वाऽर्जुनं प्रशंसन् तं निन्दन् तस्य हृदये शल्यमनेकं वाचिकं कृतवानिति शल्यस्यापीदं विशेषणम्। अगणितपरहृदयः शल्यरूपः इति पाठे परहदमजानन् स्वपौपुषं वदन्नेव स्यात्, शल्यवत् पीडाकरश्चेत्यर्थः। तस्य नाम कार्यञ्चाह अवधीरयितेति। महत्त्वातिशयवतोऽपि तिरस्कुर्वन् नाम्ना अवलेपः दर्पः अयन्त्रितः अनियमितः उच्छृङ्खलः स्वभावः यस्य। परेषां कीर्तिरूपाणां वधूनां वशीकरणं नाम परकृतानां महनीयानां कार्याणां स्वकृतत्वेन ख्यापनम्। तत्र सुभगम्भावुकः भाग्यवान् भवन् बाहुर्यस्य। बाहुपदं विनैव निर्वाहेऽपि तत्प्रयोगः अवलिप्रैर्वाग्वर्षकाले स्थूलहस्तावलेपोऽभिवर्ध्यत इति ज्ञापनाय। परस्त्रीवशीकरणमाकर्षणं बाहुकार्यमिति च बहुशब्दप्रयोगः। उज्जिहीते उत्थायाऽऽयातीत्यर्थः। मोघोद्योगः निष्फलप्रयत्नः। 85. विवेकस्याग्रे दर्पस्य संभ्रमैः त्वरितव्यापारैः अलम्-किं भवति। संभ्रमाः निष्फला इत्यर्थः। तद्विशेषणं दृढेत्यादि। दृढतया प्रतिष्ठितेन मदेनोदग्रैः अधिकमाविर्भूतैः। एतावन्तोऽपि संभ्रमाः शिशुमात्र भयंकरा इत्याह डिम्भेति। शिशूनां क्षोमकरो यो डम्बरः आडम्बरः उत्कुष्टत्वाभिनयः तेन स्थपुटितः विषमितः आरम्भः येषां संभ्रमाणां तैः। सर्वोऽयं संभ्रमः केसरिणः पुरस्तात् हरिणव्यापारतुल्यः इत्याह मृग्यमिति। रङ्कुः हरिणः विधित्सितरणः युद्धं चिकीर्षुः काममस्तु। तथापि केसरिणः सिंहस्य पुरस्तात् कअधिकं कुतूहलम् उत्साहः मृग्यम्-अन्वेषणीयम्। नास्तीति यावत्। कस्मादित्यत्र केप्ररिप्रभावमाह क्रीडेति। अनायासेन खण्डितानि चण्डायाः उग्रायाः वारणानां गजानां घटयाः-व्यूहस्य तन्त्राणि व्यापाराः यया तादृशी स्वतन्त्रश्रीः स्वातन्त्र्यलक्ष्मी यस्य तस्य गजसमूहोद्यमनाशकस्य केसरिणः। अग्रत इति पदं विभज्यानुषज्यते। मत्तवारणव्यापाराः सर्वे यत्र न प्रादुर्भवन्ति, तत्र मृगमृथकौतुकं कियदित्यर्थः। तद्वत् कामक्रोधलोभलोपकविवेकाग्रतो दर्पचेष्टितं कियदित्युक्तं भवति। क्षणान्तरे दर्पमपश्यन् तुम्बुरुः पृच्छति, किमसौ इन्द्रजिद्वम् मायावीति। मेघनादः इन्द्रजित्। तिरस्करणी विद्या स्वरूपतिरोघायको मन्त्रविशेषः। मेघनादः तिरस्करण्या स्वात्मानं तिरोधापिवान् पूर्वम्। तदस्तु। पश्चात् तस्यैव तिरस्करणी-तददर्शनप्रापिका काचित् विद्या परप्रयुक्ता परम् उत्कृष्टं यथा तथा धर्मात्मासत्यसन्धश्चेतिमन्त्रपूर्वकं प्रेरिता। तथा दर्पतिरस्करण्यपि परम् अधिकं परेण तद्विरोधिना प्रयुक्तेदानीम्। तस्माद् दर्पो न लक्ष्यते। 86. अभिजनः कुलम्। दाक्ष्यम् शीघ्रकार्यनिर्वहणसामर्थ्यम्। उपधिभिः व्याजैः। अभिजनमदः धनमदः इत्येवं बहुप्रकारतया वर्धमानो दर्पः। विवेकोत्पादितया अधिकदृष्ट्या परेषु स्वापेक्षयोत्कृष्टत्वबुद्धिरूपगुणेन वीरशय्यां रणभुवि मरणार्थशयनं प्रापितः। 87. कैषा भीमेति स्वयं पृच्छति। अथ स्वयमेव समाधिं भजति इयमभ्यसूयेति। द्यति खण्डयति। मुदिता नाम गुणः परगतमतिशयं दृष्ट्वा आनन्दयुक्तता। समग्रभूमा सर्वविधासूयावारणदक्षिणा। निधनं नाशम्। असहमानेति। असूया हि असहमानत्वमेव। तस्या इदमपि युक्तम्। देहिनि जीवे। यद्वा देहीनी मूर्तिमती भैमरथी। वर्षे चतुस्सप्ततितमे सप्तमे मासि सप्तमी रात्रिः प्राणभयङ्करी भैमरथीत्युच्यते। तस्या अपि दैवयोगे भयानुत्पादकता। दीर्धनिद्रां मरणम्। भवितव्यता भावि। विधिर्वा। 88. अभिजनधनविद्यादयः सन्तुः, ते किं आपतन्मरणबारणे बलं भजन्ति। न। अत इमे दर्पादयः स्वस्वभार्याश्लिंष्टा एव, इतः परं वैरमेव नेति यथा भवेत्, तथा आत्यन्तिकीं प्रसुप्तिं दीर्घनिद्रां महाप्रलयं दधति भजन्ति। 89. इतरेति। एकैकार्यदर्शनावसरे अयमेवेतरेभ्यो ज्यायानिति यथा भेतव्यम्, तथा विक्रमशालिनः। पुररुच्यमानेति। पुनर्जातेत्यर्थः। अलमेभिः, किं मधुकैटभादिभिरिति वक्तुमर्हा इति वा। तदा बहुव्रीहिः। मदः ग्रह इव प्राणहारक ग्रहविशेषतुल्यः। नवग्रहान्तर्गतो वा मकरो वा ग्रहः। मदस्योदग्रविगलत्त्वं विशेषेण स्यन्दनम्, न तु लुप्यमानत्वम्। विलगदित्यपि पठित्वा विलग्नेति व्याख्यान्ति। अन्यतोवलोक्य रणभूमौ स्थलान्तरं दृष्ट्वा। दुन्द्वयुद्धं विवेकमोहयोः उभयमात्रसाध्यं युद्धम्। पूर्वं रामरावणयुद्धसाम्यस्य कथितत्वात् अथमप्रतिद्वन्द्वत्वमिति? तत्राह इहहीति। एतदतिशायि किमपि नास्ति, रामरावणयुद्धस्तैतदभेदशंकार्हतया परमसाम्यस्य प्रागुक्ततया तस्याप्येतदुत्कृष्टत्वाभावादित्याशयः। अतिबलेनेति 90.। जयत्यतिबलो राम इति वाक्यं स्मारितम्। यथा रावणमन्त्रिगणो राघवेण रावणवधात् प्रागेव क्षणात् निरवशेषः अवशेषरहितः कृतः, तथाऽनेनापि कामादिरिति। राघवशत्रुः-राघवः रामः शत्रुर्यस्य स रावणः। `तं दृष्ट्वा शत्रुहन्तारम्’ इत्यत्र शत्रुपदं महर्ष्यदिशत्रुपरम्। न तु रामं प्रति तेषां शत्रुत्वं नाशकत्वरूपम्। महामोहागमनमुक्तम्। विवेककार्यमाह अत्रेति। अहितानां रिपूणां बलस्य निर्मूलने समूलनाशने समुन्मीलितः- आविर्भूतः युद्धोत्साहो यस्य, स सुमतिवल्लभः विवेकः। एतत् सिंहत्वादिना बहुप्रकारेण रूपयन् उपपादयति 91. मर्यादेति। स्वीकर्तव्यप्रमाणविरोधेन अपसिद्धान्तेन स्वव्याधातेन समयबन्धातिक्रमेण च क्रियमाणो वादः मर्यादामतीतः गजः, तस्यायं सिंहः। वक्रतर्काः दुस्तर्काः कत एवाद्रयः तेषां वर्जायुधम्। प्रत्यक् स्वान्तर्यामी, विषयरसबलात् तत्र यद् वैमुख्यं तदेव तूलम्, तद्विषये प्रलयकालवायुः। भ्रान्तय एव वीरुधः लतागुल्मादयः तेषां वनोद्भूतोऽग्निः। कामक्रोधादय एव अहयः सर्पाः तेषां गरुडः। कलिकालभवपापप्रस्तावरूपायाः कालरात्रेः प्रभातकालः। दुर्वादादीनां सर्वेषां नाशितत्वात् सिंहत्वादिना रूपणम्। यथायथं पूर्वाङ्कवृत्तानुस्मरणमेव कृतं भाव्यम्। प्रकृताङ्कविषयमाह मोहेति। अस्य किञ्चिदनुवृत्तिदर्शनात् अवश्यायत्वरूपणम्। अश्यायः-नीहारः हिमम्। भानुः सूर्यः॥ द्वयोः प्रस्थानमुक्तम्, विवेकप्रवेश उक्तः, दुन्दुभिघोषेण विवेककृतमाह्वानमत्रोच्यते। अथ मोहप्रवेशो वक्ष्यते। 92. निरुद्धरिपुडम्बरः। महामोहस्याऽऽडम्बरः सर्वोपि एतद्दुन्दुभिघोषश्रवणमात्रेण प्रतिहन्यते। निरुद्धनिबिडाम्बर इति पाठे पूर्णमाकाशं व्याप्त इत्यर्थः। निगमानां घोषोऽप्येतद्घोषकाले कारितो विजयाय। तेन स एतत्प्रतिध्वनिरिवासीत्। अन्विति। प्रलयकालिकसमुद्घोषः यमनुद्रवति तादृशः। तदपेक्षयाऽप्यधिकद्रवण इत्यर्थः। त्रिवर्गाः धर्मार्थकामाः। मोक्षसंपादकत्वात् त्रिवर्गरूपस्य पुटभेदनस्य-पत्तनस्य यः प्रथमः कम्पः- एतावज्जाताद्विलक्षणः क्षोभः तद्विषये सर्वेषां कर्णेजपः– सर्वान् प्रति रहसि तत्सूचकः। एतादृशो दुन्दुभिर्विवेकस्याग्रे प्रह्नियते। अत्यासन्नः अतिशीघ्रभावी। अत्रहीति। यस्मादत्र महामोहः समरमायातीत्यन्वयः। 93. दुराशादयः द्रोहपर्यन्ताः मोहस्य परिवाराः, तैरस्य युद्धार्थगमनं स्तुतमिति। विवेकस्य सारथिर्मनीषा। पूर्वं योगस्थाननिर्णयायाटनावसरे तर्कः सारथिरूक्तः। स एव मनीषापदेनोच्यते। यद्वा तत्र निर्णयोपयोगित्वात् स उक्तः। इहान्या मनस ईशित्री बुद्धिः। `हृदामनीषा’इत्यत्रोक्ता धृतिः। युद्धे धृतेरावश्यकत्वात्। सुमतिर्महिषी मनीषेत्यपि वदन्ति। तत्प्रतिमुखं यथातथा उपसमायाति पूर्वं प्रस्थितः, समीपमायास्यति। मोहस्यापजयस्फोरकचेष्टासहितं कार्यमाह 94. प्रत्यासन्नमिति। प्रतियोद्धुमासन्नः प्रतिभटो विवेकः। तं प्रत्युदेता मोहः स्वचापे दृष्टिपातान् करोति, युद्धकर्तव्यत्वाध्यवसायात्। गाढस्य अधिकस्य अमर्षस्य क्रोधस्य स्फुरणात् वक्रभूतान् दृष्टिपातान्। स्वपत्नीनिरीक्षणं कामकारितमपजयसूचकं दर्शयति दूरेति। नियतिः दैवम्। तत् स्वपक्षस्य परपक्षस्य च विभिन्नम्। तदुभयं दूरोद्धूतम् अतीव तिरस्कृतं मोहेन दुर्मत्या च। दैवं दुर्बलम्, पौरुषेण जय इति किल ग्रहणमुभयोः। तां पश्यन् रागे मग्नः। एकतो वीरचेष्टा, परतः कामचेष्टेति। दुर्मतिवियोगचिन्ताकुलताऽप्यस्य सूच्यते। प्रतिभटस्य सुखजय्यत्वदुर्मतिरपि गम्यते। अथ दुर्मत्यवलोकनान्निवृत्य रणाङ्कणप्रवेश उच्यते अतिघोरेति। रथयूथविथिका तपङ्क्तिशः स्थिताः रथसमूहाः। तन्मध्यमार्गेण आगतस्य मण्डलाकारेण भ्रमणमाह 95. उद्भटेति। मण्डलाकारां युद्धभूमिं मण्डलं चरति मण्डलं यथा तथा संचरति। ननु अकर्मकत्वात् संचारस्य रणभूमिमण्डलभिति कथं द्वितीया, चर भक्षण इति भक्षणार्थकत्वं एव तस्य सकर्मकत्वादिति चेन्न—गत्यर्थकतया कर्मविवक्षासंभवात्। अस्तु वा अत्यन्तसंयोगे द्वीतया, देशकालयोः कर्मत्वमकर्मकधातुविषयेऽप्यनुशिष्टमिति। रणभूमिमण्डलविशेषणं पूर्वार्धम्। सद्यः कृत्तानां कबन्धानां ताण्डवम् उद्भटम् अधिकं यत्र। उद्भटत्वं जीवद्भटापेक्षयाऽधिकाटोपवत्त्वम्। भारुण्डाः मांसभक्षकपक्षिविशेषाः। अधिकमदानां तेषां तुण्डेन चञ्च्वा मुण्डानि कबन्धव्यतिरिक्तभागाः छिन्नशिरांसि भक्षणार्थं भृतानि(हृतानि) यत्र देशे। दण्डेशः राजा। दण्डधरत्वात् सेनेशत्वाच्च। सर्वसैन्यनाशे यत्र जातः, तत्र स्वयमपि विनाशायाऽऽयातः। मोहस्य वेगं वर्णयति पातालेति 96.। अनेन वेगेव सिन्धवः सर्वे पाताले क्षिप्ताः। कुलपर्वताः शकलीकृताः। भूमेः कीलवत् संधिनिविष्टशंकुवत् स्थितानामद्रीणामपि शकलितत्वात् भूमेरुत्कीलत्वम्। अह्निरात्रौ च प्रकाशाय स्थितयोः सूर्यचन्द्रयोः प्रभाणा र्निर्घूतत्वात् निर्घूतादित्यचन्द्रतिगणाः अत एव निबिडेन ध्वान्तेन नीरन्ध्राश्च दिशः येन तादृशः। पवनव्यूहानां विघटनात् विघटितपवनसकन्धघातेन पर्यस्ताः परितो निरस्ताः ताराः नक्षत्राणि येन सः। यस्मीन् आहवे, विवेकः प्रतिरथी प्रतिपक्षभूतो रथी, तस्मीन् वेगः प्रारब्धः। इतः प्रारब्धफलम्। विवेकपक्षानुकूल्यस्य दैवप्रकृतीष्टत्वात् दिष्ट्यावर्धसे इत्युक्तम्। तत्र कारणमाह 97. अप्रत्यूढेति। पूर्वोक्तो यो मोहस्य स्यदः वेगः सः अप्रत्यूढचरः अप्रतिनिवर्तितप्रसरः। यद्वा चरट्। पूर्वमप्रत्यूढः। कैः? सुरादिभिः, एवं राक्षसैरक्षोभिचश्च। सः स्यदः अद्य विवेकरूपे ईश्वरे राजनि विषये प्रवृत्तिः। यो विवेको वैरुयुद्धगर्वं प्रतिरुद्धवान्, तत्र प्रवृत्तः। कथम्। सत्यपि विवेचने ऐश्वर्यादौ विरुक्तस्यापि भवति दुर्वासनाबलात् प्रवृत्तिः, सुतरां स्वर्गादौ। एवं मोहप्रेरितानां दुर्वासनानां मालिन्यमापाद्यते, स्वस्स्थैः स्थर्गलोके स्थितैः, तत्र गमनानन्तरं सत्यमेतदिति प्रत्ययितव्याः विश्वसनीयाः ये दोषाः क्षयित्वदुःखमिश्रत्वादयः तैषामत्रैव परिशीलनात्। किञ्चेमाः स्वर्गवासकर्तव्यताविषयिकाः दुर्वासनाः स्वस्थेन स्वात्मनि स्थितेन अध्यात्मज्ञाननिष्ठेन प्रत्ययितव्यैः ज्ञातव्यैः आत्मपुरुषार्थापेक्षया निकर्षापत्तिरूपैर्दौषैः मलिना भवन्ति। एवं मालिन्यार्हाणां दुर्वासनानामनुत्पत्तये कर्मकारितः तदनुगुणवस्तूनामनुकूलतयाऽनुभवो मूलभूतो विवेकेन च्छन्नः। ततो वेगस्य महिमा विलयं याति। अत एव स निष्फल इति। स्वस्थेत्यत्र सकारद्वित्वाश्रयणे स्वर्गरूपार्थग्रहणम्। अन्यथा स्वात्मग्रहणम्। प्रत्ययितव्येत्यस्य णिजन्तत्वाभावात् प्रत्याययितव्येति, ज्ञापयितव्येति नार्थः। अथ रणमध्ये रावणस्येव मोहस्य मूर्छामाह अहहेति। 98. अशनिः वज्रनिर्घोषः। तस्य पाते वृक्षादयः पतन्ति। तद्वत् मोहो रावणवत् पतितो मूर्च्छयेति। अथ प्रबुध्योत्थाय रावणवदेव युध्यत इत्याह 99. जागर्तीति। मोह इति शेषः। अहह मोहो जागर्तीति पृथग्वाक्यम्। अथ युद्धमपि क्रियमाणं पश्यन् आह अद्भुतमुद्भटमिति। जागरणमद्भुतम्। पुनर्युद्धविधानशक्तोऽप्यासीदितीदमत्यन्ताद्भुतमित्यर्थः। यद्वा जागर्तीत्यस्य सम्यक् प्रतीयत इत्यर्थात् इदमत्यन्ताद्भुततया विराजत इत्यर्थः। किं तदित्यत्राह यदित्यादि। वीरव्रतम् भिया पलायनमिदीदं विहायापायं सोढ्वा रणे मरणमपि श्रेय इति प्रबुध्य युद्धकरणमेव वीराणामनुष्ठानम्। तत्र मुख्यसंकल्पेनातिशयितः। विष्वग्वृत्तीनां छेदनभेदनपातनादिनानाव्यापारवतां विवेकबाणानां स्कन्धैः व्यूहैः अवस्कन्दितः पीडितः अत एव प्रापितमूर्छनो मोहः अधुना इदानीं बुध्वा मुनिकतगणप्रद्विष्टानामसुराणां प्रियो भवन् मुनिगणानां धिक्कष्टं प्रबुद्धोऽयमिति वाक्यकश्रवणेन घट्टितश्रोत्रस्सन्-शृण्वन्नेव युध्यते। धिक्कष्टेतिपदस्य प्रापितमूर्छन इत्यत्रान्वये, धिक्कष्टमिति पतनात्पूर्वोत्पन्नस्ववाक्यश्रवणघट्टितसर्वश्रोतृजश्रोत्रस्सन् इत्यर्थः। मोहभृत्यैर्वा धिक्कष्टमित्युक्तं ग्राह्यम्। मूर्छातः प्राक्कालिकश्रुतिग्रहणे एवम्। पश्चाच्चेत् धिक्कष्टमिति विवेकपक्षीयमुनिगणाद्युक्तिरपि। युद्धयत इति यत्, तत् अद्भुतं लक्ष्यत इत्यन्वयार्थः। पुनर्निपातित इत्यन्वयः। निष्प्रतिघवृत्तिना तअप्रतिहन्यमानस्वव्यापारेण। प्रतिघः कोपः। तद्रहितव्यापारेणेति वा। वक्ष्यति हि (9-2) न भ्रूरभज्यतेत्यादि। 100. जितमिति। महामोहस्य हतत्वात् कृतयुगधर्मैः-निवपृत्तिधर्मैः जितम् सर्वोत्कर्षेण स्थितम्। एवं शमदमादिगुणैश्च। यज्ञादेः शमादेश्च भक्तियोगाङ्गत्वमुक्तं ब्रह्मसूत्रे।
सब्रह्मता अब्रह्मण्यप्रत्यनीकाकारः, व्रह्मैकान्तता। 101. निखिलेति। लोके भटानां विषये याः श्लाधारेखाः स्तुतिप्रकाराः तासां विलंघने अतिशयने जाङ्घिकः समर्थजङ्घायुक्तः क्षिपगामी। अतिशयित श्लाधापदम्। अनुत्तरणे अपरिहार्ये। जयप्राप्त्यवसररहिते। निगमानां वेदानां ग्रामः समुदायः। तत्र सर्वत्र स्थेयात्-विवादपदनिर्णायकात् विवेकात् इदं प्रथमाम् इयमेव ग्रथमा यस्याः ताम् अपूर्वाम्। विवेकस्थितिमाह दिनकरोति 102. सर्वैरपि दृष्टशक्तिः तथा सूर्य इव दीव्यम्—प्रकाशमाने विवेक एकः असहायः, राघवो यथा श्रीराम इव, मोहाख्यस्ववैरिभंगो लोके मोहरूपदुर्गुणभंगे मुनिपरिषदेष्टे सति तच्छेषतया, साधुजनपीडाविधायिनां रजनिचरपतीनां संसाररात्रिसञ्चारहेतुभूत कामक्रोधादीनां राक्षसानाञ्च दीर्घनिद्राम् अपायं समतनुत। मोहादिपदानां विवेकराघवोभयान्वयित्वाम्। समतनुतेत्यस्य विवेकोपि कर्ता। पूर्वार्धे क्रियान्तराभावात् विवेकइत्यस्य दीर्घनिद्रा समतृनुतेत्यत्रान्वयोऽवश्यं वाच्यः। तस्य राक्षसमारणकर्तृत्वाभावेऽपि रजनिचरेत्यस्यार्थान्तरमपि वर्णनीयम्। अतः कामादिपरमपि तत्। कामो रजन्यां विशेषतश्चरतीत्यौचित्यमपि। पूर्वार्धे मोहभङ्गे दृष्टशक्तिरित्यन्वये कृते मोहभञ्जनात् पश्चात् कामादिनाशनाभावादसामञ्जस्यात्, मोहभङ्गे मुनिपरिषदभीष्टे सतीत्यर्थः भाव्यम्। तथोत्तरार्धोक्तं सर्वं विवेकेऽपीति तदनुरोधेनान्वयोऽर्थश्च वर्णित इति ध्येयम्। रावणमरणानन्तरं तत्रागत्य मन्दोदरीप्रभृतिप्रलापवत् अत्र दुर्मत्यादिप्रलापघटनं क्रियते हामहाराजेत्यादिना। दुर्मतीति स्वनामवोक्व विलपति।
बन्दिग्गाहमित्यादिः श्लोकः। इन्द्रियाणि पुरा जित्वा हृतं विभुवनं त्वया। तैरेविन्द्रियैस्त्वं गृहीतोऽसीति कामकवश्यतया लब्धमरणं रावणं प्रति रामायणे मन्दोदरीवचनम्, तत्तुल्यकमिदम्। मोहो रणे हतोऽप्सरोभिर्वीरस्वर्गे स्वीकृत इति भावेनोच्यते— पूर्वं बह्वीनां देवस्त्रीणां स्ववशे ग्रहणं कृतम्, अतो वैरेण देवस्त्रीभिरेव काभिश्चित् स्ववशीकृतस्त्वकमिति। बन्दिग्राहमित्यस्य यथा कारागृहस्थतया केषाञ्चित् ग्रहणम्, तथेत्यर्थः। बन्दित्वेनेति पर्यवसानम्। संभृतं संगृहीतं गुरु महद् वैरं विरोधः याभिस्ताभिः। त्रिदशमहिलाभिऋ अप्सरोभिः। सोरस्ताडमिति न्यायकुसुमाञ्जलावपि प्रयोगश्चार्वाकं प्रति, “सोरस्ताडं शोकविकलो विक्रोशेत्"इति। दुर्मत्या एव पद्यन्तरम्– 104.वाहीति। बाह्यैः मदपेक्षया बहिरङ्गैः जनैः कामादिभिः। दीर्घमार्गमिति। प्रतीति शेषः। किमितीति। केन हेतुनेत्यर्थः। विरचयति, तत्परिपाकरूपं तेषां कार्यम्, तथा सर्वस्रष्टुर्भगवतः संकल्पानुरूपः दैवगुणासुरदोषप्रवर्तनानुगुणः कार्यक्रमः। सूत्रपातमनुरुध्यैव लोके वेश्मनिर्मणं भवति। तथा च सुरासुरेत्यादिना लोके देवासुतरयुद्धं तदा तदा यत् प्रचलति, तस्य सूत्रपातरूपस्य भगवता क्रियमाणस्य किं लक्ष्यम्? मोहकामादिव्यापादनेन विवेकादिमुखेन पुरुषक्षेमसंपादनमेवेत्युक्तं भवति।
प्रथममारितो लोभः। तत्पत्नी तृष्णा प्रथमं साक्षान्निर्दिश्यते। रत्यादय आदिपदग्राह्यः। ता अपि दुर्मतिसमीपे खपरदुःखासहनात् निपत्य विलपन्ति, कया दुर्मतिरपि इदानीं मृतभर्तृका। तदाह 105. हतेति। हतो जीवो यस्य स हतजीवः निर्गमितप्राणः जीवतेशः प्राणनाथो यस्यास्ताम्। विषादेन, मूर्छया अभिघातेन च लुप्तप्राणसञ्चाराम्। अन्तस्तु वर्तते प्राणः। सकुल्याः समानकुलभवाः। मोहपक्षीयत्वादेककुलत्वम्। 106. आकर्ण्येति। प्रतिदिनं प्रभाते उत्थानकाले अमराङ्गानाः समागत्य चामरवीजनेनोपचर्य स्ववलयशिञ्चितेन प्रबोधितवत्यो मोहं महाराजम्, स इदानीं स्वप्रतियाविलापश्रवणेऽपि नोतिष्ठति। वलयध्वनिर्मृदुरप्युत्थापक आसीत् प्राक्। अद्यातितीव्रः स्वान्तरङ्गजनविलापोऽपि न प्रभवति तमुत्थापयितुमिति। महाप्राणः अतिशीघ्रमविनाश्यप्राणवायुः। अस्थ्यादौ प्राणो लीनः स्यादिति भावः। निमिषति निमीलितनेत्रो भवति। एतावत् तन्मृतदशापर्यन्तम्। यथागमं यस्य यस्याऽऽगमनं यदा यदा भवति, तदागमनक्रमानिर्तिक्रमेणेत्यर्थः। क्षणेन मरणनिर्णयो भवेदिति भावः। यथाशास्त्रामित्यर्थे, शास्त्रे विरक्तिजुगुप्साविवेकादिषु येन येन यद्यन्नाशः प्रतिपादितः, तेनतेन तस्यतस्य तद्भावोऽद्य साक्षात् दृष्टेन, वियच्चराणां व्योमगानां देवयोनीनां समूहेन। 107. विनयसंनते (9-7)
प्रभुणैवेति श्लोकोक्तरीत्या परातन्त्र्यानुसंधानमूलविनयनम्रेण। परेति। विवेककृतस्य विरोधिविध्वंसनस्य परमात्मप्रणिधानजन्यमोक्षात्मकमहासुखस्य उत्सर्गसिद्धस्यापवादभूतानां कामदीनामपवादभूततया, तादृशनिरसनदर्शनमूलक पुष्पवर्षसौरभस्यापि तत्प्रतिप्रसत्वकल्पना। अपवादापवादसंपत्त्या औत्सर्गिकध्यानतत्कलादिप्राप्तिरवश्यम्भाविनीति भावः। परिविवाहयिषितेति। परिवाहयितुम-अन्तः अमितस्य बहिरुद्गारः परिवाहः— तद्वत्तया कर्तुमिष्टः हर्षप्रकर्षः येन तेन। हर्षप्रकर्षं जगति आवेदयितुकामेनेति यावत्। हृषीकेति। इन्द्रियेत्यर्थः। सौस्नातिकवृत्त्या। अपि शोभनं स्नातम्, अपि सम्यक्संपन्नोऽभिषेक इति पृच्छतां वृत्त्या कार्येण, सुस्नानप्रश्नेनेति यावत्। सप्ततन्तुः यागः। तत्र साहायकं सहायभावः।
इति सर्वसाक्षात्काराख्यटीकायामष्टमोंकः॥
***************************************************************
.
नवमोऽङ्कः
श्रीः। अत्र नवमेऽङ्के पुरुषस्य विष्णुभक्तिपर्यन्तपात्रप्रवेशनेन समाधिसंभवनिरुपणम्। तत्रासूचितपात्रप्रवेशायोगात् चूलिकया सूचना क्रियते। चूलिका नाम यवनिकान्तस्स्थैः सूचना। अनया विवेकागमनसूचनम्। मोहं युद्धे विनाश्य विवेक आयाति, तत् प्रथमेन पदेन ज्ञाप्यते मोहेति। 1. मोह एवाकूपारः सागरः तन्नाशकः। अनघः उपायविंरोधिशून्यः। मुक्तिरूपायाः वीरुधः लतायाः अङ्कुरभूतः। वातूलः वातसमूहः। तूलतुल्ये प्रतिमतवादे वातूलस्येव वेगो यस्य सः। परिघः अर्गलः। क्रूरक्रोधरूपस्य आशुशुक्षणेः अग्नेः उपशमनस्य सुधासारस्य सेकभूतो विवेको दूरात् प्रतिनिवर्तते॥ महद्भिरपीति ब्रह्मादिभिरपीत्यर्थः। अनुस्मरत इतीदं मे इत्यनेनान्वितम्। कौतुकमनुस्मरत इत्यन्वयः। विस्मयाविद्धम् आश्चर्याक्रान्तम्। 2. तदाखल्वित्यस्य कुत्राभवन्नित्यत्रान्वयः, न तु वेद्मीत्यत्र। भ्रूभंगो नाम भ्रुवो भिन्नवद्दृश्यमानता। भ्रुकुटी भ्रूवक्रीभावः। प्रकृतितः स्वभावं विहाय। अरुणं क्रोधाधीनारुण्यातिशयवत् नासीत्। एतावत्यंश एव परेषां पलायमानतेति। चण्डद्युतौ तिग्मभानौ सूर्ये उदयति उदयभाजि सति तमः प्रबन्धा इव, भवत्प्रतीपाः तदा कुत्राभवन्निति न वेद्मीत्यन्वयः। लोकं कृत्स्नं व्याप्तं तमः, सर्वत्र सूर्यद्युतिव्याप्तौ अज्ञाताधिकरणमेव असदेव भवति, तद्वत् मोहादीति। कुत्राप्यभावात् नष्टत्वनिश्चय इति भावः। विशिष्य साक्षात् मोहेनास्य युद्धारम्भे तद्दशां वर्णयति 3. त्रिगुणेति। त्रिगुणं मूलप्रकृतिः, सैव यवनिका, तया शुभं कजीवात्मपरमात्मस्वरूपादि स्थगयामास तिरोहितं चकार यः, स तदा युद्धकाले त्वदाभिमुख्यमात्रे निष्प्रकाशो बभूव। अथ तन्नाशनात् सांप्रतिकीं स्थितिमाह अद्यत्विति। 4. मोहस्यावरोधे अन्तःपूरे स्थिताः सुदृशः स्त्रियः वैधव्यात् अङ्गरागः चन्दनलेपः मुषितः अपहृतो याभ्यस्तथाभूताः, मुखैकस्ते शौर्यं शंसन्ति, वदन्ति। लोके वदनं वदनेनैव भवति। परन्तु वाग्विसर्गमन्तरैव वदन्ति। वदनदर्शनमात्रेण सर्वैस्ते शौर्यमनुमीयत इत्यर्थः। कीदृशैः? परिष्करणाभावात् लम्बमानपुरोवर्तिकेशैः निरन्तरप्रवहद्वाष्पप्रवाहैः म्लानैः ग्लानैः पत्राकारतिलक रहितैश्च। प्रथमतो वदनदर्शनादेव शौर्य ज्ञातम्, पश्चात् तासामङ्गरागाभावोऽपि दृश्यते। तेन तद्दृढनिश्चयः। स्वतन्त्र ईश्वरः। तस्य प्रवृत्तिरपि न स्वतन्त्रास्मादृशप्रार्थनया। अतः स्वयं प्रवृत्य स एव सर्वमकरोत्। मयि स्थिता तु कृतिस्तदधीना। अतो नाहं प्रशंसनीय इत्यर्थः। उदाहरति 5. वायुरिति। श्लोकोऽयं तत्त्वमुक्ताकलापेऽपि। दोधूयते भृशं वाति जाज्वल्यते भृशं ज्वलति इति यत्, बम्भ्रमीति भृशं भ्रमतीति यत्, माधवी भूमिं न दोधववीति न क्षालयति न नाशयतीति यत्, मभूः स्थावरजंगमधारणकार्ये भृशं भवतीति यत्, तदिति सर्वग्रहणम्। पञ्चभूतवृत्तमुक्तम्। उडुगणभ्रमणावकाशप्रदतया आकाशव्याप्तिर्विवक्षिता। अतस्तत्कार्यस्याप्युक्तिः। तादृक्चेति चेतनादिकृत्यसंग्रहः। अशेषस्वरूपस्थितियतनानि यदायत्तानि, तस्य परब्रह्मणो लीलासंकल्पायत्ताः व्यापाराः तद्रूपाणामूर्मीणां भ्रमणमेव तत् सर्वमिति। नन्वनेन श्लोकेन जडद्रव्यव्यापाराणां तदधीनत्वावगमेऽपि चेतानानां तदधीनत्वसिद्धिः कथमिति चेत्— तादृक्चेति चेतनव्यापारस्यापि गृहीतत्वान्नात्र प्रकरणविरोध। किञ्च चेतनव्यापाराः चेतनागतज्ञानेच्छाप्रयत्नाधीनाः। ते ज्ञानेच्छादयः कथं जायन्ते? न हि चेतनः स्वस्वातन्त्र्येणोत्पादयति। अतस्तदुत्पत्तिः पूर्वकर्मयत्ता। कर्म च भगवत्संकल्प एवेति अचेतनानां विवेकव्यवसायादीनामपि तदधीनत्वं प्रकृतविवक्षितं सिद्धम्। 6. न केवलमुपायाद्यनुष्ठानं तदधीनम्, पश्चात् फलमपि तदधीनमित्याह किञ्चेति। यथाधिकरणं तत्तत्पुरुषाधिकारानुरोधेन तेनतेन पुरुषेण यागादिना भरन्यासेन भक्त्या वा उपायेन फलार्थमाराधितो भवति भगवान्। स प्रीतः स्वयमेव फलं ददाति। न तूपायानामचेतनानां कार्योत्पादनसामर्थ्यम्। को ह्येवान्यात् कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, विश्वं बिभर्ति भुवनस्य नाभिः, अहं हि सर्वज्ञानां भोक्ता च प्रभुरेव च, फलमत उपपत्तेः, फलसंबिभन्सया हि कर्मभिरात्मानं पिप्रीषन्ति, स प्रीतोऽलं फलाय इत्येवं श्रुतिस्मृतिगुरूक्तयो भाव्याः।
7. सर्वस्य जगतः उद्भवः उत्पत्तिः। उत्पत्तिस्थितिलयानां प्रवाहेण परिरब्धा आश्लिष्टा केलिः विनोदव्यापृतिर्यस्य तेन, अस्त्रमन्त्रेण ब्रह्मास्त्रप्रभावापादक मन्त्रेण रामावतारे काकासुरवधार्थ परिमुष्टः अभिमन्त्रितो दर्भ इव, काकासुरतुल्य-तद्वध्य-मोहादिनाशने निमित्ततां व्याजमात्रताम् अप्रधानकारणत्वं गमितः प्रापितोऽस्मि। मुख्यब्रह्मास्त्रप्रयोगेऽपि तस्य न प्रधानकारणत्वमिति स्थिते दर्भरूपास्त्रे का कथा। गरीयान् अधिकतर। विद्यामूलकोऽयं विनयः, न तु अज्ञानमूकः। अतो गरीयान्। मारितमोहपरिस्थितिस्मरणेन विवेकपराक्रमं प्रशंसति 8. दर्पेति। मोहः अग्रे पतन्, दर्पेणोदग्रम् अभिंवृद्धं नियुद्धं बाहुयुद्धं यस्याः सा तावकौ भुजा बाहुः सैव निर्घातः अशनिः तत्पातेन उदितौ स्फारासृक्परिवाहः अधिकरक्तप्रवाहो मुखात् तथा अहो नष्टोऽहमिति गद्गदस्वरश्व यस्य तथाभूतस्सन् स्मर्यते। दत्तेति उल्लिखित पाठः। अनुरूपदृष्टन्त उच्यते मथनेति। मथनकृताधिकचाञ्चल्यबलेन क्षरन्ति निस्सरन्ति यानि तद्गिरिगत धातुमिश्रस्त्रोतांसि तैः संप्लुतस्य आर्द्रस्य व्याप्तस्य मन्दराव्यक्षितिधरस्य क्षेपः तिरस्कारः-मदपेक्षया त्वमरे उत्कृष्टो नासीत्युक्तिः तत्संबन्धिनः क्षणस्य उत्सवस्य उत्साहस्य आक्षेपकः अनुमापकः। रक्तप्रवाहगद्गदरवोभयवान् मोहः गैरिकस्त्रोतोव्याप्तमन्दरं स्वस्वरेण स्वोत्कर्षधिया तिरस्कुरुत इत्यूहनीयमासीत् तदेति भावः। मथनानन्तरं मन्दरस्यान्षत्र निक्षेपस्य सूचक इति केचित्॥ यदर्थमेव विवेकप्रशंसा प्रस्तुता, तं विषयमाह इह पुनरिति। इह एतद्विषये। वीरायितं वीरकृत्यम्। किं तन्मङ्गलमित्यत्र विशदयति 9. युक्तेति। यत् युक्तं यत् अयुक्तं तदुभयविषयकयथार्थविचारसमर्थशेमुषीकैः। उद्भटैः उत्कृष्टैः। शल्यानि उपद्रवा एव मार्गगताः गमनविरोधिनः कण्टकः तत्सभूहो निर्धूतः यस्याः सा नैःश्रेयसी मोक्षार्था पद्धतिः भक्तिमार्गः। अतो भटप्रशंसनादिरूपमंगलमप्याचरितव्यमिति भावः। प्रधानांशमाह मोहेति। विवेकानुरूपं पीठं दर्शयति त्रय्यन्तपीठे इति। क्षणः मोहत्सवः आसीदति संनिकृष्टः। अनिष्पन्नसमाधौ इत्यनेन ध्यानपर्यन्तसिद्धिर्ज्ञापिता। प्रत्याहारपर्यन्तनिष्पतिः प्रागेवासीत्। अथ मोहादियुद्धं प्रक्रान्तम्। विवेकेन मोहपर्यन्तनाशस्य साधितत्वात् धारणा ध्मानञ्च समपद्यतेति ध्येयम्। इदमेव विशदमाह करणेति। लोके मृगतृष्णिकाख्या मरीचिका मृगाणां जलभ्रान्तिमापाद्याऽऽकर्षिका स्यात्। सा तपनस्य सूर्यण स्फायता प्रसृत्वरेण निदाधेन ग्रीष्मेण वर्धिता स्यात्। अत्र मृगतृष्णिकास्थानापन्ना उच्चावचविषयानुभवत्पृहा। सा हरिणानामिव करणनाम् इन्द्रियाणामाकर्षणात् दारुणा भयंकरी। पापराशिरेव सूर्यः। तदधीनमायाप्रपञ्च एव निदाधः। तत्र जलबद्भासमानांशेषु विविधेषु वविषयेषु आस्वादोत्कण्ठा। तामतिक्रान्तवान् पुरुषः। अतोऽविच्छिन्नध्यानं प्रतिदिनं साधयन् आस्ते। इदमेव मुहुर्गवेषणम्। प्रक्रान्तमात्रेति। दर्शनसमानाकारध्यानरूपामुपलब्धिमचिरात् लभेतेति वक्तव्यमिति भावः। तर्हि शीघ्रमेव संपत्स्यत इति निश्चय इत्यत्राह परिनिष्पत्तिस्त्विति।
11. कथं कर्मभिः श्रृङ्खलितः-संजातशृङ्खलः बद्धो गमनशक्तिविकलः सौधाद्यारोहण इवालम्बरहितं गगनमारोहेत्। समाधिर्हि गगनतुल्यः। निरालम्बमित्यनेन मूर्तिरूपालम्बने सति मुकरभूतोऽपि शुद्धपरमात्मस्वरूपग्रहणस्य दुष्करत्वात् समाधिर्दुर्लभ इत्युक्तम्। किञ्चिद्धैर्यावष्टम्भेनाऽऽह अस्त्विति। तावत् प्रथमतः। सत्त्वेति। इह अस्यां दशायां पुरुषेण सत्त्वेन गुणेन उदग्रः अभिवृद्धः समग्रनन्दथुः दुःखामिश्रश्चाविच्छिन्नश्चानन्दः तस्य भुवः स्थानभूतात् सालम्बनव्यानतः दिव्यमंगलविग्रहविशिष्टध्यानात् समाधिप्राग्दशारूपात् शुद्धे निर्मलत्वमापन्ने मनसि, `मनसा तु विशुद्धेन’ इत्युक्तरीत्या प्रभुः फलप्रदो नाथः अदृश्यः चक्षुरादिनान्यवास्तवसाक्षात्काराविषयस्सन्नेव दरीदृश्यते दर्शनसमानाकारध्यारूपसमाधिविषयीभवति। दिव्यमंगलविग्रहविशिष्टदर्शनं समाधिरूपं ध्यानफलं सुनिष्पन्नमित्यर्थः। किं तर्हि निष्पाद्यमित्यत्राह प्रत्यगिति। एतदनन्तरं यत् ध्यानं शुद्धजीवात्मान्तर्यामिपरमात्मस्वरूपविषयकम् अहं ब्रह्मास्मीति जीवात्मप्रकारकं ब्रह्मविशेष्यकं सोऽहम् अहं सः इति `तत् योऽसौ सोऽहम्, योऽहं सोऽसौ’इति शब्दाभिप्रेतम्। तत् निष्पाद्यम्। तासां गिरां यथावस्थितार्थभानम् जीवब्रह्मैक्यानध्यासरूपमविच्छेदेनानुवर्तनीयम्। अथ प्रत्यग्वस्तुनः जीवात्मनो विशेष्यभूते तस्मिन् प्रभौ दृढं प्रेक्षिते सति अहं स इति गीरध्यासं नाध्यासीत अध्यासहेतुर्न भवति। छिद्यन्ते सर्वसंशयाः— तस्मिन् दृष्टे परावरे। परावरे– परभूते अवरान्तर्यामिणि। यथावत् तत्त्वे दृष्टे वाचोऽर्थान्तरपरत्वभ्रमस्यावकाश एव न स्यात्। तत्त्वस्यैव प्रतिपाद्यत्वादिति। विशेष्यवर्ष्मणीत्यस्य विशेष्यभूते इत्यर्थः। वर्ष्मशब्दः तद्रूपेत्यर्थकः। विशेष्यपदेन देहं प्रति विशेष्यतया ध्यानात् पूर्वं स्थितः यः प्रत्यगात्मा इत्यर्थाश्रयणे वर्ष्मशब्दः शरीरपरः। तच्छरीरके इत्युक्तं भवति। नाथ इति पदमभेदभ्रमाभावज्ञापनाय। स इति पदम् तत्तद्विद्यावेद्याकारविशिष्टपरम्। अहमिति तादृशे तस्मिन् स्वान्तर्यामित्वग्रहणपरम्। सोहम् अहं स इति मिथोव्यतिहारेण नात्र दृष्टिविधिः गौणता वेति ज्ञाप्यते। गिरः वाचः नाध्यासताम् न लभन्ताम्। सोहमित्येतन्मुख्यार्थरीत्या समाधिः आलम्बभूतमूर्तिरहितपरमात्मविषयकः संपाद्य इत्यर्थः। एतत्प्राप्तिरेव विष्णुभक्तिलाभः। परशरीरत्वबुद्धिमनुरुन्धे परमात्मशरीरमिदमिति ज्ञानमनुवर्तते इति तथा ज्ञाननिष्ठो भवतीत्यर्थः। सान्तश्शल्यमिव अन्तश्शल्यसहितमिव। विपरीत संस्कारस्य शल्यत्वेनोक्तिः। विपरीतबुद्धितत्कार्ययोरभावात्। कथं सशल्यतेत्यत्र तत् सर्वमङ्गीकृत्य संस्कारः शल्यमित्याह 13. तत्त्वेति। तत्त्वज्ञाने देहाद्यतिरिक्तस्य जीवात्मनः परमात्मशरीरत्वज्ञाने विशुद्धे परमतकृतक्षोभरहिते दृढे विपरीतज्ञानूलकपापप्रवृत्तिं शययति सति, वानरतुल्ये मनसि च आत्मावधाने आत्मविषयकावधानवति, व्यक्तं सम्यक् आकृष्टानि विषयेभ्यः इतराण्यक्षाणि इन्द्रियाणि येन तादृशे, स्वात् स्वकीयात् विषयानुस्मरणादिरूपात् चापलात् विरमति सत्यपि, संस्कारऋ उज्जिहानम्-उपरिभवन्तं समाधिं तरलयति चलयति अपनयति। कथम्। परैः परिभवनमनिष्टान्तरकरणं वा यदा अपतति तदोद्बुध्यते, यथा भस्मनाच्छन्नोऽग्रिः परेण भस्मापसारणे क्रियमाणे विदीप्यते तद्वत्। स्वयं शान्तमान अपि “मानावमानयोस्तुल्यः"इत्येतादृशदशां झटिति न लभत इति भावः। विधिशिव सनकादि तुल्यानामपीयं दशा विरोधिनीत्याह क्रमेति। प्रणिधातुं परमात्मानं ध्यातुम् एकतानः व्यग्रमनाः पितामहोऽपि परमात्मप्रणिधानात्यन्तसक्तिमत्त्वेऽपि कर्मवशात् बाह्यव्यापृतो भवतीत्यर्थः। परपरिभावनादेः कारणं स्वकर्मैव। क्रमेण स्वकालप्राप्त्या पक्त्रिमैः पक्वदशां प्राप्तैः कर्मभिः परिभवादिहेतुस्वकर्मभिः जागरूकः उद्बुद्धः तदर्थमेवाऽऽत्मनि स्थिरः संस्कारः तेन निरुध्यमानम्-आत्मविषयवृत्तिनिरोधं प्राप्तं चित्तं यस्य तादृशस्सन् परिभावकादिरूपाम् बाह्यार्थानेव स्मरति। न तु प्रणिधेयं ब्रह्म॥ तथापीति। स्वतन्त्रो भगवान्। तस्यानुग्रहेण दत्तहस्तेन लब्धसाहय्येन मया न स्खलितव्यम्। मार्गाद् भ्रंशो मे न युक्त इत्यर्थः। संभावितेति। स्खालित्यप्रसक्तवपि साधनेच्छानुवृत्तिर्युक्ता। एवंरूपो भवेयं न वेति बिभेमीत्याह 15. बहुरपीति। बहुरपि प्रतिदिनमभ्यस्यमानापि अनादिसिद्ध बाह्यविषयचिन्तापेक्षया आत्मविषयकचिन्ता लध्व्यव। सा अटवीवत् अरण्यमिव सर्वतोव्याप्ताः ये विषयाः तद्विहारलोलं मनः कथं निवर्तयेत् अप्रबलत्वात्। तत्र दृष्टान्तमाह अनिभृतेति। ऊर्णनाभिनन्तुना गजपदबन्धनतुल्यमिदम् आत्मचिन्तया मनोबन्धनमित्यर्थः। गजपदबलमाह विशेषणेन। अनिभृतं यथा तथा निर्व्यापारतां विना संकोचलेशमपि विना उत्साहेन गिरितटे क्रीडितुमिच्छया विजृम्भितसंभ्रमं अभिवृद्धवेगं कलभस्य यूनो गजस्य चरणं प्रति ऊर्णनाभितन्तुः कथं निगडायते शृंखलावत् बन्धनसमर्थः स्यादिति। विवेकस्योत्साहं जनयितुमाह किमिति। प्रत्यूहः विघ्नः। 16. स्वयमिति। चक्रनेमिक्रमेण नियतिबलात् पूर्वादृष्टवलात् सुखस्य दुःखस्व च परिवृत्तिः-परस्परपरिहारेण स्थानाक्रमणं भवेदेव। तदापि सर्वसंशयच्छेदिका तव मतिः न व्यतिरते न व्यत्यासं प्राप्नोति। दृढमेव तिष्ठति। कस्मात्। नयनिगमसमीची। यस्मात् तर्केण आस्त्रेण चानुसंधीयमानेन सम्यग्भूता। विशदपरिशीलनजनितत्वात् न भ्रंशप्रसक्तिरिति। असत्कल्पमिवेति। सर्वं साधयेयमिति अतिविस्रम्भमूलक उत्सहोऽनवधानमापाद्य कार्यं विघटयेत्। अतः किं भवेदिति भयानुवर्तनेन मनः प्रवर्तनीयमिति भावेन एवमुच्यते। भीतिश्च नास्थाने इति निरूपयति 17. अपीति। मृताः कामक्रोधलोभादयः इति न निर्विचारता, यतो मृतानामपि सञ्जीवनमोषध्यादिवशाद् भवति। एषां जीवनौषधिस्तु अविद्यैव, पूर्वकृतकर्मैवेति यावदिति। त्वत्प्रसादावेव-विवेकबलादेव। असिना अनन्तवनसमूहच्छेदनं कथमिति विवेको विचारयति अहितेति। 18. अहितानां पापानां निवहो वन्या वनसमूहः। अपचेतुमित्यनेन पुष्पाद्यपचयवत् स्वल्पांशभञ्जनहेतुभूतच्छुरिकातुल्यः विवेकः महावनीच्छेदं कथं कुर्यादिति। समाधते व्यवसायः। विवेकमूलको योगः न च्छुरिका किं तु दावाग्निः प्रलयकालाग्निर्वेति समाधिः। ननु योगनिष्पत्तिरेव कथमिति विचार्यते इति चेत्-किमत्र बाधकं त्वया चिन्त्यते? ख्यातिलाभपूजादौ प्रवृत्तिरिति चेत्-यथा परः सत्कारादिकं कर्तुं प्रयतेत, तथा स्वात्मानमप्रदर्श्यस्वमाहात्म्यं गोपयन् चरेत् , “संभावना यस्य हि कालकूटः सभा भुजङ्गी कुणपं तरुण्यः"इति भावं दृढं प्राप्य बाल्येन तिष्ठासेत्। अयं पुरुष एवम्। अतो बाधकापेतो योगाग्निः प्रदीप्तो भवेदित्याह 19. सत्कारेति। कालकूटं विषम्। कुणपं शवम्। शवशरीरमिति तरुणी भाव्या। सभाप्रवेशात् भेतव्यम्, मुंजगीत इव। तत्र गमने किमपि वक्तव्यं भवेत्। जयापजयाद्यंशे दृष्टिः स्यादिति॥ एवमपि प्रतिबन्धकसंभावनया तन्निवर्तनभारो भगवत्यर्पणीयः। अत एव हि गीतं “मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते"इति। एवं बाल्येन तिष्ठासया नित्यकर्मानुष्ठानं नोपेक्ष्यम्। अकरणेप्रत्यवायस्य भक्तिभञ्जकत्वादित्याह 20. मुकुन्द इति। अनघः प्रपत्तिपरिहृतप्राचीनपापः। मुक्तवत् मुक्ताः भगवन्तं साक्षात्कृत्य स्वामिहृदयं जानन्ति। मुमुक्षुः शास्त्रमुखेनेति विशेषः। अतः स्वामिहृदयस्य प्रकारान्तरेण मुक्तवदज्ञानात्, `श्रुतिस्मृती ममैवाज्ञा’इत्युक्तमनुसरेत्। अकरणे प्रत्यवायात् स्वानर्थः। शिष्टः सन् कर्म त्यजति चेत् मूढो लोक एनं प्रमाणीकृत्य स्वयं कर्मत्यागेन नष्टो भवेदिति परानर्थोऽपि। एवं परानर्थविधानमूलकं पापमपि किञ्चिदधिकमस्त्येवेति सर्वं विहितमनुष्ठेयमिति॥ शास्त्रविहितानि कर्माणीति वर्णान्तराश्रमान्तर कर्मणां ग्रहणं न कार्यम्। क्रियमाणानि च कर्माणि देवतान्तरोद्देशेन वा फलोद्देशेन वा न कार्यणीत्याह अनघेति। 21. मुक्तघण्टापथे अवतरति आरम्भप्रभृति इयं दशाऽपेक्षिता, आन्तमनुवर्तनीयते भावः। संस्तरदावदाही योगाग्निः प्रागुक्तः। तदुपकरणान्येवमुक्तातानि `मयि चानन्ययोगेन भक्तिरव्यभिचारिणी’इति प्रधानोपकरणं विष्णुभक्तिः। कस्मात्। विष्णुभक्तिविशेषात्मना किल योगः फले ग्रहिरिति। तां दशां गङ्गात्वेन रूपयन् स्वयं तदाविर्भावमाह 22. संसारेति। गंगा हि कपिलविलोचनाग्निभस्मीकृतानां सगरपुत्राणां स्वर्गप्रापणेन संजीवन्यसीत्। अत ए शवभस्म तत्र तत्र प्रक्षिपन्तीति तदन्यक्षेमंकरी च। त्रिविक्रमावतारे स्वतीर्थे पाद्यत्वायापर्याप्ते सति धर्मदेवतया द्रवीभूय सेयमभिवर्धिता। गिरेरीशेन रुद्रेणाथ धार्यमाणा तत्पावनी, अगाधा गतिकालेऽप्यत एवाधिक्यादकलुषा, तत्रतत्र स्नानार्थानेकावतरणस्थलयुक्ता, अन्ते सागरं प्रविशति। एवमियं विष्णुभक्तिरपि तत्तुल्यांशवतीत्युच्यते। संसार एव ज्वलनः तेन भसितीभूतानां भस्मीभूतानां नष्टस्वरूपाणां संजीवनस्य मोक्षप्रापणस्यार्हा। धर्मो नित्यनिमित्तिकादिरूप एव धर्मदेवता। तदुत्पत्तिविशेषेण विभवं तवैपुल्यं प्राप्ता, गिरि वेदवाचि ये ईशाः— तदर्थविदः तैः रुद्रतुल्यैः धार्यमाणा। गभ्यैः आश्रयणीयैः तीर्थैः आचार्यैः उपपन्ना समादृता पुरुषं गाहते। भक्तिरूपगुणं प्रति पुरुषस्याऽऽधारत्वात् जलधितौल्यम्। विरक्त्या गाढमालिङ्गितः, गङ्गेव जलधिं विष्णुभक्तिर्गाहते इति व्यवहारे पतिपत्नीभावप्रतीत्या शान्तिरसभङ्गः स्यादिति अस्थानभयं विवेकस्यालोच्य सर्वस्यापि रसस्य शान्तिपोषकत्वं व्यवसाय आह अपिचेति। अनेनात्र शान्तिरस प्रधाने नाटके सर्वेषामुपयोगोऽपि दर्शितः। शान्तमेव रसं शान्तिरूपरसं शरणयतः मुक्त्युपायाङ्गतया गृह्णतः। 23. जुगुप्सामिति। क्रमेण बीभत्स-हास्य-रौद्र-भयानक-अद्भुत-वीर-शृङ्गाराः विवक्षिताः। फलपरिणतौ मध्येमध्ये योगसिद्धिक्रमदर्शकफलप्राप्तौ। दुरितविरतौ पापादपसरणे। भस्मच्छन्नाग्निवत् आविर्भवन्तीनामपि दुर्वासनानां विलयमाह 24. पृथुकेति। पृथुकावस्था बाल्यम्। तासु व्यवस्थितः नियमेन सिद्धः सञ्चयो यस्याः। भगवत्प्रीणनबहिर्मुखवासनानामादरणीयत्वात् तद्व्यावृत्तये आह बहुलनिगमप्रत्यादिष्टा इति। एकेन निगमेन प्रत्यादिष्टापेक्षया निगमान्तरप्रत्यादिष्टाया अन्यत्वसंभवात् सर्कक्रोडीकाराय बहुलेत्युक्तिः। पटुतरत्वं क्षणिकस्यापि प्रत्याहारस्य पूर्वविरक्त्याधीनत्वम्। दृढत्वम् अनुर्वतमानत्वम्। प्रत्याहारेण इन्द्रियनिवर्तनेन परिपकूत्रिमा फलपर्यवसानशक्तिविकला। ज्वलति ज्योतिषि ध्यानविषयभूते भगवद्दिव्यमंगलविग्रहे। तदुक्तम्, “प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये। वशीकृते ततः कुर्यात् स्थिरं चेतः शुभाश्रये"इति। प्रतिपत्स्यते। इदानीं वासनानां सद्भावेऽपि क्रमेण लयः स्यादिति भावः। तर्हि साम्प्रतिकी परिस्थितिः केत्यत्र, प्रत्यगात्मविशिष्टपरमात्मदर्शनरूपसमाधिप्रतिबन्धकनानाविधयोगसिद्धिप्रद क्षुद्रांशपारवश्याभावाय कार्यं समुचितमन्त्रावर्तनं साम्प्रतमस्तीत्याह। अद्यचेति। एवञ्च समाधेः शीघ्रभावित्वं ज्ञापितम्। 25. प्रत्यगिति। प्रत्यक्तत्त्वं देहाद्यतिरिक्तजीवतत्त्वम्। तस्य यत् सतत्त्वं यथावस्थिताकारः परमात्मशरीरत्वं तस्य वेदनम्। यद्वा प्रत्यक्तत्त्वस्य तत्त्वेन परतत्त्वेन सहितं यद् वेदनं तदिति। तदेव साक्षात्काररूपं सुखं समाधिरूपम्। तस्य प्रत्यूहभूताः-विघ्नभूताः याः सिद्धयः योगमूलाः, दिव्यमंगलविशिष्टानुभवे जातेपि मोक्षप्रधानकारणीभूतजीवविशिष्टब्रह्मज्ञानोत्पादनाय तद्विषये परीक्षा भवति। तत्रोत्तीर्णत्वमपेक्षितमिति भावः। सिद्धयश्चाणिमगरिमादयः अन्यादृश्यो वा। तत्सिद्धिलाभस्य किं फलम्, तदाह केवलेति। न सर्वथा मोक्षप्रतिबन्धः कर्तुं शक्यते। नेहाभिक्रमनाशोऽस्तीति न्यायात्। किञ्चित्कालविलम्बमात्रमिति भावः। तैः अनाकृष्टधीः। सिद्ध्युत्पत्त्यनन्तरं तदुपेक्षणं दुष्करम्। अतस्तत्कारणसमय एव धियं ततो निवर्तयतीति भावः। तदर्थं मन्त्रजपः। ते च मन्त्राः ईशावास्योपनिषदि, `हिरण्मयेन पात्रेण, पूषर्न्नकर्षे, (पुरुषः सोहमस्मि) वायुरनिलम्, अग्ने नय’इत्युक्तसरूपाः मुक्तितन्मार्गतदर्थदर्शनप्रार्थनारूपाः। तदेवाह मुक्तिद्वारेति। एतन्मन्त्रोच्चारणस्य शीघ्रमेव मुक्तिकवाटोद्घाटनकालिकध्वानहेतुत्वेऽपि कारणात् कार्यस्य पूर्वभावित्वकल्पतया तद्ध्वानप्रतिध्वनिरूपत्वमस्योक्तम्। अध्यक्षीकृतः प्रत्यक्षविषयीकृतः सत्पथः अर्चिरादिः यैः करणैः, तैर्मन्त्रैः धृतिं विन्दति सिद्धिप्रसक्तिवारणात् विस्रब्धो भवति। संप्रधारयताऽपि-सम्यक् गृह्णताऽपि नानुभूयते मन्त्रजपमूलमिदं धैर्यमिति अनुभवो न भवति। त्वराधिक्यानिवृत्तिकालमाह यावदिति। समाधिनिष्पत्तिर्भवतु। ततः सुकृतदुष्कृतहानप्रयोजकं देहावमानमपि शीघ्रं भवतु इति मे त्वरेति भावः। प्रियाप्रियेष्विति। मुमुक्षोश्चरमदेहावसाने इदं भवति, यत् सुकृतदुष्कृते धूनुते, तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति, अप्रिया दुष्कृतमिति। एवं सर्वसञ्जितकर्मनाशात् मुक्तिमुत्पादयति भक्तियोगे निष्पन्नेऽपि यदि शरीरान्तरारम्भकं प्रारब्धं शिष्यते, तर्हि तत् प्राप्य अनुभूयैव प्रस्थातव्यम्। ईदृशविलम्बमपि न सहे इति॥ एवं स्थितः पुरुषस्य तद्विलक्षणस्थितिं पश्यन् कम्पमानो वर्णयति 26.कामेति। विरोधिनः प्रायो निवर्तिता इति सत्यम्। कामात्मकस्य आतङ्कस्य भयस्यातीतत्वात्। कामिनामुत्कटप्रवृत्तिः, परैर्ज्ञायते चेत्-परिभवः स्यादिति भयमिश्रैव भवतीति कामस्यातङ्कता। कोप एव दहनः, वित्तस्पृहैव-लोभ एव वेताली। बान्धवकथैव गर्तः श्वभ्रम्।अयमित्थं मे बन्धुरिति भ्रमस्याहङ्कार-ममकाराधीनत्वादत्र मोहो विवक्षितः। संगेन सत्संगेनोत्तंसिताः याः भगवदनुबन्धिवासनाः ताभिस्सहितः-सर्वदा सद्विषयस्मरणवान्। संसारादेव कारागृहात् विष्क्रान्त्यर्थं यः क्रमः पदन्यासः तत्र पादुकावदुपकारिणीम्। तन्वभावे ध्यानाद्यनिष्पत्त्या निष्क्रमणायोगात्। आद्यं हि धर्मसाधनं शरीरम्। पादुका च पदान्यासे प्रथमोपकरणम्। अनुद्विग्नः निर्भयः क्षाम्यति सहते। प्रस्थानार्थं हि पादुका। कामादिरहितस्य तद्वासनाभूयिष्ठस्य च निष्क्रान्तिसाधनतया शरीरस्याऽऽदर्तव्यत्वेऽपि, विलम्बे किं भवेदिति भयेन पादुकात्वेन झटिति तदुपयोगः कथं न क्रियते, किं तनौ तनुराभामानोऽस्तीति शंके इति भावः। आयुषोऽस्मदधीनत्वाभावात् प्रारब्धसहनं गुण इति समादधानः स्वनिष्ठां बिभ्रतो नानर्थं प्रसक्तिरित्याह व्यवसायः। स्वापेति 27. भोगः संसारे, मोक्षो वैकुण्ठे। उभयोरन्तरालम्। भोगाद्विरज्य मोक्षञ्चाप्राप्य सोपायतया स्थितिः। सोऽयं निद्राजागरमध्यगतत्वादुषः काल इव। केनचित् विधिना पूर्वादृष्टेन स्थाप्यमानाः प्राप्तसशरीरस्थितयः महान्तः। तत्त्वं परतत्त्वम्, उपायः भक्तिः प्रपत्तिर्वा, प्रभृतिशब्देन मोक्षाख्यफलसूचनम्। एषु त्रिषु स्वनिष्ठा। श्रीमद्रहस्यत्रयसारखनिष्ठाभिज्ञानाधिकारोक्तरीत्या यथावस्थिततत्त्वहितपुरुषार्थाविस्मरणमूलकं विपरीतचर्याराहित्येन स्थितिः। सा स्वामिदत्ता भगवदनुग्रहसिद्धा आचार्यदत्ता। कृष्णेनोद्धवं प्रति दत्ता च, तथा श्रीभागवते स्नानादिपूर्वकभगवदारादनादिनित्यकर्मोपदिश्य, “इति शेषां मया दत्तां शिरसाऽऽदाय सादरम्"इत्युक्तेः। नयन्ति प्रतिक्षणं मोक्षकालः संनिधत्त इति गणनां कुर्वन्त एव एतावद्गतमिति तृप्ताः सन्तीति। ननु सर्वत्र पुरुषस्य मुमुक्षोरेकत्वेन निर्देशः, अत्र परं कथं बहुत्वमिति चेत्-बह्वादृतरीयमिति युक्तत्वस्थापनाय। प्रपन्नतया निष्पन्नोपाया वा भक्तं प्रकृतं प्रति दृष्टन्तीकृताः। वस्तुतः सर्वत्रैकवचनमविवक्षितम्। सामान्यत एव सर्वस्य कर्तव्यं वा सिद्धप्रायं तस्य पुरुषस्य विषये वितर्कः किं भवषियतीति चिन्ता वितथोदर्कः। चिन्ताविषयभूतमुत्तरकालिकमनिष्टं वितथं न तथा वर्तते, न भविष्यतीत्यर्थः। असंभावितानिष्टचिन्तेयमिति यावत्। दतींकरविशेषणं स्थूलेत्यादि। स्थूला अभ्यूहाः तत्तद्वस्तुयाथात्म्याज्ञानेन अहंकारममकारमूलाः भोगशेषभूताश्चिन्ताः तैः विसंस्थुला उच्चावचा एकव्यवसायरहिता स्थितिर्येषां तेषाम् अत्के समीपे चमत्कारिणः आस्वदनपूर्वकं प्रवर्तमानाः रिपुचमूदुर्वीराः मोहसेनान्तर्गताः कामादयः मोहश्व, तानेव दर्वीकरान्। दुर्वीरेत्यत्र दुर्वारेति पाठान्तरम्। अन्यथा रिपुदर्वीकरानित्येवालम्। दुर्वारत्वं दर्वीकराणाम्, रिपूचमूस्तादृशतत्तुल्या। सर्पान् विषेण पुरुषं मारयतः त्वं बलेन दूरीकृतवानसि। मनोरथः किञ्चिदेवः न्यूनः। नष्पन्नप्राय उपायः। अतो न चिन्तनीयमिति भावः। अङ्गीकुर्वन् आह राजा। 29. विमुक्तीति। एतदर्थोपस्थानशेषभूतमेव एतावत कृतस्यापर्याप्तत्वाविष्करणम्। ब्रह्मविदपचारस्य प्रतिबन्धकत्ववत् ब्रह्मविदनुग्रहस्य शीघ्रकारित्वमस्तीत्याशयः। एतदनुगुणमेवोपरि नारदसमागमानुग्रहादिघटनम्। तस्यापि भगवदायत्तत्वात् भगवति तदभ्यर्थनामत्र विवेकः करोति। अयमर्थ ए द्वात्रिंशश्लोकानन्तरम्, “एतदेव ममापि"इति राजवाक्येनाप्यवगम्यते। अत्र द्वितीयपादे उज्झितमित्येव पदं दृश्यते। भवमित्यत्रान्वयितया न्याख्यातञ्च। तत्र तद्विशेषणस्यावश्यकत्वाभावात् भद्रमित्यत्येतद्विशेषणत्वार्हं पदं स्थितं स्यात्। भावितमिति वा ईरितमिति वा प्रेरितमिति वा। स्थितस्य पदस्य तदर्थकत्वे क्लेशात्। महापुरुषैर्भद्रविधानेनानुग्रह्योऽहमिति भावः। महात्मनो विशिनष्टि विमुक्तिपथदेशिकैः। एषामनुग्रहो विमुक्तिपथम् अयमिति दर्शयेत्। विषयानुभवस्य विदेशो स्थितैः। कदापि तदभावो हि नारदे। तादृशैः। अतिविरक्तः शुकः। विष्णुधर्मवित्तः शौनकः। तत्प्रभृतीनां भाषितविमर्शेनान्येषमप्येव मनुग्रहे प्रवृत्तैः। मुख्यसिद्धोपायस्येमे अनुग्राहका इति दर्शयितुं भवंभिषज्यतीति श्रीपतिविशेषणम्। भवचिकित्सां कुर्वतः इत्यर्थः। अपथ्यस्य अनारोग्पहेतोर्विनिवर्तकम्। तद्भद्रं महात्माभिमतरीत्या भविष्यतीत्याशयेन किमपीत्युक्तम्। समाधिप्राप्तौ त्वरां दर्शयति अद्यचेति। 30. जनने विलये मरणे च पुनःपुरर्वृत्त्या स्थित्वा जाङ्घिकस्य वेगेन गच्छतः समयं तन्निवर्तनावसरम्। अनुकम्पानिध्ननिर्विध्नलीलः। अनादिकाल प्रवृत्तत्वात् लीला निर्विघ्ना। साऽपि दयाया वशीभूय कदाचित् स्वकार्यं न करोति। उक्तञ्च दयाशतके, `लीलादक्षां त्वदनवसरे लालयन् विप्रलिप्साम्’इति दयानवसर एव तत्प्रसक्तिम्। स्वलक्षं स्वैकविषयकम्।
मोहं जित्वेति। सिषाधयिषिते त्वरया युद्धानन्तरमप्यन्तः पुरं न गतो राजेति ज्ञायते। मङ्गलदेवतापदं लक्ष्मीवाचि। अवयवार्थस्यापि विवक्षार्यै तत्प्रयोगः। 31. युष्माकं मोहादिवधप्राप्तजयेनोत्पादितानन्दानामप्सरसां वीणा गगने मत्प्रियं मधुरञ्चानन्दगीतमस्मच्छ्रवणविषयं करोतीत्यन्वयार्थः। को निस्तारः। शत्रूणां जय आसीत्। तेनेतः पापानुत्पत्तिः सिद्धेति मन्यताम् ध्यानपर्वानन्तरभूतकसमाधिपर्वगमनं कथमिति चिन्यम्। अत एव मध्ये अन्तःपुरं प्रित मया नाऽऽगतमित्याशयः। प्रमाणम् सम्यक्ज्ञाता। सोऽहमिति शरीरात्मभावप्रत्यक्षरूपसमाधेरिदानीं साधनीयतया, स्वकार्यस्यापि स्वान्तर्यामिकार्यत्वबुद्धिदार्ढ्येन चाऽऽह 32. आधेयत्वेति। विस्तरो रहस्यत्रयसारे। विश्वं सर्वं जगत् भगवति पश्यन्। कथम्। एतत् जगत् एतदायत्तं भगवदथीनम् आदिकर्त्रधीनम्। कस्मात्। तच्छरीरत्वात्। शरीरत्वप्रयोजका आकाराः आधेयत्वादिनियमाः। आधेयत्वविधेयत्वशेषत्वानां तं प्रति जगति नियततया स्थितिः। सत्तास्थेमानौ स्वरूपस्थिती तदधीने तदाधेयत्वात्। प्रयतनं प्रवृत्तिः तदधीनं विधेयत्वात् तन्नियम्यत्वात् प्रवृत्त्यादिफलमपि तस्यैव, शेषित्वात् व्यापकादर्शदृष्टे व्यापकत्वदर्शिमन्त्रादिवाक्यरूपदर्पणर्दृष्टे भगवति एवमायत्तमेतद्विश्वमिति पश्यन् गम्भीराणां दुर्बोधानाम् ऐवयभ्रान्तिजनिकानां अकृतकगिराम् तत् स्वमसि, सर्वं खल्विदं ब्रह्म, विश्यमेवेदं पुरुषः यत्रहि द्वैतमिव भवति इत्यादीनां तथा उपायोपेयश्रुतीनां चित्तवृत्तिं गूढमाशयं गाहते तलस्पर्शेन जानाति। विवेककार्यमिव महात्मकार्यमपि किञ्चिदस्तीति पूर्वं विवेकोक्तमेव सुमत्यै ज्ञापयति व्यवसायः एतदेवेति। कल्याणां समाधिरूपो योगः। समाधिंकदरिद्रः स्वसमेन स्वाधिकेन च दरिद्रः रहितः। अत्युत्कृष्ट इति यावत्। समाधिः संघटनोपायः। पूर्वं व्यापकादर्शेत्युक्तं मनसिकृत्याह सन्मन्त्रेति। अमृतपारावारः–अमृतसमुद्रः। तस्य पूरः-प्रवाहः तत्प्रायः-तत्साम्यभाक् प्रसरो यस्य। आप्लावितः-क्षालितः व्याप्तः दशादिशावकाशो येन। आम्रेडितेति। श्वेतद्वीपदेवतैवेदमिति तदद्वैतं तदैवयमाम्रेडितं विर्धिंतमनेन। आस्थितश्वेताद्वैतमिति पाठे श्वेतवर्ण एव मूर्त इति स्थितमित्यर्थः। 33. श्रीकृष्णमूर्तिध्यानमिह। ननु प्रतिभाशब्दो ज्ञानपरः। अधरेत्यादीनां विशेषणानां मूर्तिगतत्वात् कथं ज्ञाने तदन्वयः। आद्यविशेषणद्वयस्य कथंचित् बहुव्रीहिणा संगमनेऽपि नीला इति विशेषणान्वयः कथम्। न हि वयं बौद्धवत् ज्ञानाकारातिरिक्तं बाह्यप्रपञ्चमपलपाम इति चेत्-केचिदत्र प्रतिभाः इत्यस्य कान्तिविशेषाः तेजोविशेषा इत्यर्थमुपवर्ण्य भगवन्मूर्तिपरत्वमाचक्षते। मूर्तिबाहुल्यं कथम्? दया… प्रथितसंविदः संबिदः इति अभीतिस्तवे संवित्पदमेतर्हि कथं निर्वाह्यम्? नूनं भगवन्मूर्तेर्ज्ञानस्वरूपत्वात् न दोष इति प्रत्यवतिष्ठेरन्। वस्तुतो जीवनिष्ठचिन्तरूपज्ञानपरत्वमेवोभयत्र। विशेषणाभेदस्तु ज्ञानज्ञेययोस्तस्य दशायां भेदाग्रहोऽस्तीति ज्ञापनार्थमारोपितः। अत एवाथर्वशिखायाम्, “ध्यानं विष्णुः” इत्युक्तम्। विष्णोर्ध्येयस्य ध्यानस्य च यो भेदोस्ति तद्ग्रहोऽपि यथा न भवेत्- नतरां पदार्थान्तरग्रहः– तथा तदैकाग्र्यं संपाद्यमिति भावः। विपञ्चिका वीणा। कर्बुरिता मिश्रीकृता। कर्तव्यस्य क्षिप्रसंपिपादयिषया सुमतिरपसरन्ती आह आर्यपुत्रेति। सुखीजनः शान्तिदन्तिविरक्तिपभृतिः। आध्यात्मिकविज्ञानेति प्रथमांकविषयः, बहुधेति तदनन्तरानेकाङ्कग्रहणाय। पारसंनिकर्षमिति ध्यानपर्यन्तसिद्धिरुच्यते।
34. सुमतीति। विवेकः ज्यायसीं पूर्वापेक्षयाऽधिकां चिरमविच्छिन्नमनुवृत्तां चित्तमृत्तिं ध्यानं जनयति। कथम्? स्वयमेव वैरिवर्गं वारयित्वा। सत्त्वं गुणः धाम कारणत्वादाधारभूतं यस्य तेन। वलशालिनेत्यर्थस्फूर्तिरपि। अवहिर्वैरिवर्गः मोहकामक्रोधादिः, बहिर्वैरिणस्तु तत्तदधीनकायि कवाचिकव्यापाराः शब्दादिविषयाः, तदधिष्ठानदेवताश्च। समविषमभेदी समान् अनुकूलान् विषमान् प्रतिकूलांश्च विभज्य प्रदर्शकः त्याज्योपादेययोर्यथावद्ग्रहणवान्। तत् सिद्धं सार्वभौमत्वमस्य सर्वभूमिषु निरङ्कुशप्सरत्वम्। विवेकाधीनां पुरुषकार्यमाह 35. तितिक्षुरिति। शान्तो दान्त उपरतस्तितिक्षुरितीदमत्र संगृह्यते। द्रुतमतिः बाह्यादतिवेगापयातमतिः। प्रतिबन्धकनिवृत्त्याग्राह्यविषये शीघ्रप्रवृत्तमतिर्वा। द्रुतगतिरिति पाठोऽस्ति चेत्-अनिकेतत्वं लोकसंगराहित्यञ्चोक्तम्। अयत्नेति। अप्रयत्नागतेन निरूढदेहयात्रः। इदमुपरतत्वम्। परित्याज्यानां परित्यागार्हाणां तथा अवश्यपरित्याज्यानाञ्च त्यागवान्। कृतज्ञः देवगुर्वादिषु। स्वकर्तव्ये कियत् कृतम् कियदविशिष्टमिति ज्ञानवाश्च। पारमैकान्त्यमाह प्राप्तव्ये नियतधृतिरिति। एकान्ते विजने रुचिमान्। अनिभृतम् असंकोचम् अविच्छिन्नं यथा तथा। महोदयः प्रत्यासन्न इति भावः। भगवन्नित्यादिकमागच्छन्नेवाऽऽह, आगत्यानुतिष्ठति 36. अहमित्यस्य विशेषणं विधीत्यादि। विधिवशेन पुरुषभाग्याधीनतया। विनयपरिकृतेत्यनेन भावशुद्धिर्दर्शिता। अन्तिमयुगस्य कलियुगस्य आरम्भः भग्नतवा निवृत्तस्यापि पुनरुद्यमः अन्तरितः लब्धविच्छेदः॥ निर्वर्त्यं निवर्तितम् उत्याद्यमुत्पादनीयमित्याह किंत्विति। 37. वीरेति। उत्तरार्धे प्राधान्यम्। कृतं निवर्तनं न स्वावशेषम्, किन्तु संपूर्णमिति तदर्थमेवोच्यते पूर्वार्धेन। त्वत् भवतः परम् अन्यं न प्रेक्षते। तत्र कारणम् अतिवेलेत्यादि। वेलाम् अवधिमतिक्रान्तो विक्रमो यस्य तस्य भवतः तव दोश्श्रृङ्गे— अंसे निश्श्रृङ्खला निराबाधा या स्वक्रीडा। एकस्मिन् क्षणेऽपजयप्रसक्तावपि शृङ्खला स्यात्, तथा न। तया क्रीडया लब्धा कृतार्थता प्राप्तपुरुषार्थता तद्वश्या। इयं परनिरीक्षणाद्वारयति वीरश्रिद्यम्। अन्यत्र गमने ह्यकृतार्थतैव। अद्भुतप्रणयिनी अपूर्वग्रहरुचिमती। अन्तः द्रष्टुम्-मानससाक्षात्कारविषयीकर्तुम्। साक्षात्कर्तुमित्यर्थे अन्वयक्लशः। यद्वा दृष्टिः समाधिः शेवधिं द्रष्टुं ग्रहीतुं अन्तः पुनः पात्यताम्। उत्पाद्यताम्। शेवधिं निधिम्। अनन्यदृष्टम् अन्यैरुपायैरदृष्टम् अनघम् अखिलहेयपत्यनीकं त्यक्तावधिम् त्रिविधपरिच्छेदरहितम्। शुद्धपरमात्मस्वरूपमिति यावत्। कामक्रोधादीनामपि युद्धहतानां प्राणिनामिव सुखजीवनं स्थलान्तर इति दर्शयन् युद्धस्य धर्मत्वमाह 38. समग्रेति। नैतदर्थमयं श्लोकः। किन्तु मोहपरिकराणां मोहस्य च जयमधिकृत्य पृथक् पृथग्वक्तुम्। 39. तत्त्वेति। तत्त्वबोधः व्यवसायः स जनको यस्य। सेनापतितया निर्वाहकत्वात् 10-81. वक्ष्यमाणरीत्या विवेकादिरपि तत्त्वबोध एव। अथाप्योचित्यात् व्यवसायग्रहणम्। भविष्यन् साक्षात्कारो वाऽन्तु। तदा जनकत्वं सम्यक्। त्वत्कृतेन मोहाख्यस्य वीरस्य विजयेन मोहिताः युद्धकरणकौशलात् वारिताः हर्षादयः समराङ्गणमेव न प्रविविशुः। अहंकारममकाररूपमोहविजये स्वपरबुद्धेरभावात् सर्वस्य भगवदधीनत्वज्ञानाच्च इष्टानिष्टभेदमूलकहर्षशोकादीनां सर्वथा नावकाश इति। पुनप्रयवधानं कार्यमित्याह तथापीति। यथा कश्चित् घटीयन्त्रस्य घटद्वारा जलोन्नयनार्थयन्त्रस्य तन्त्रे व्यापारणे स्वतन्त्रः तदर्थं स्वपरतन्त्रं पशुं स्वचक्रे तद्भ्रमणार्थव्यवस्थिते मण्डले भ्रमयति मण्डलाकारेण गमयति– तथा धर्मपरिपाककालः भवव्यापारणे स्वतन्त्रः नरं जीवं भर्ध्वाधोमुखलोकचक्रे भ्रमयति। नृपशुविशेषणं त्रैगुण्येत्यादि। पशुः समुद्रस्य तीरे वने स्थितानां तृणानां ग्रासे दुर्वासनयोत्पद्यमानेन भोगे ऐदम्पर्येण ऐकाग्र्येण अत्यासक्त्या पर्याकुलितः। अत्र यन्त्रे बन्धात् भ्रमणकालेऽपि नवतृणग्रासे तन्मनस्स्थितिः। एतेन प्रीणितः पशुपालो वनं पशुं नीत्वा भोगेनाऽऽनन्दयेत्। तथा अनुयुगं वृषभस्य कण्ठे रथाद्याकर्षणाय निक्षिप्यमाणो दारुविशेषः युगः तमनुसृत्य स उत्कण्ठः– अनवनतकण्ठः कृतो भवति। अथच उदग्रवृत्तिः अग्रेगमनव्यापारवान् भवति। इदञ्च गाढं तस्य बन्धनेनोपरुद्धत्वात्। अन्यथाऽपसरेत्। एवं नरोऽपि त्रैगुण्यस्यसत्त्वकादिगुमत्रयमयस्य प्रपञ्चस्य समुद्रतुल्यस्य वेला तत्तद्भूमिः तत्रत्यानां विषयाणां ग्रासेन अनादिकृतेन भूतया दुर्वासनया पुनर्भोगैदम्पर्यस्योद्यत्त्वात् पर्याकुलितः। अविच्छेदेन प्रतियुगमुदग्रा अधिका वृत्तिः उत्कण्ठिता अभिलषिता चास्या। अथापि न स्वेच्छया सर्वं कुर्यात् गाढबन्धेनोपरुद्धत्वात्। तथाच पूर्वकर्मविपाककालबलात् पुनर्मोहादेरवसराप्रदानाय सञ्चितसर्वकर्मनिवर्तकलाभे त्वरितव्यमिति। स्वाभीष्टानुरूपं देवर्षिवचनमाकर्ण्य प्रमुदितो विवेकः प्राह अत एवेति। अह्लाय अतिशीघ्रम्। एकस्मिन् अह्नि एकस्यां पूर्वाह्णदिवेलायामेव सिद्ध्यति चेत्–अतीव प्रीतिरिति भावः। ईदृशस्तीव्रसवेगो यथावत्स्वानुभवविवेकमूल इत्याह 41. कालेति। तत्तत्कर्मपरिपाककालाः एव आवर्ताः अम्भोभ्रमाः, तान् यथावत् विदन्। विदन्नित्यत्र सर्वद्वितीयान्तान्वयः। जलभ्रमे पतितस्य घूर्णमानस्य या दुरवस्था, सा संसारे सर्वस्य। प्रकृतिः मूलभूता अचेतना प्रलये जीवं स्वान्तः पिदधाना। विकृतयः महदहङ्कारः-एकादशेन्द्रिय-तन्मात्रपञ्चकभूतपञ्चकात्मिकाः अध्यवसाय-देहात्मभ्रम-तदधीनकार्यादिघटनेन बन्धिकः। सञ्चितपापफलानि भवन्ति भविष्यन्त्यप्याह ज्वालिते। अग्निश्वभ्रसादृश्यं दुरुतेषु वा दुःखेषु वा। दुःखानि दुरितानामुदर्काः उत्तरफलरूपाणि। प्रथमफललिप्सया दुरितानि क्रियन्ते, उत्तराणि फलानि अनुद्वीक्ष्य॥ अथ किमनेन एवं संसारिणैव भाव्यम्, उत ततो विभज्य स्थातुमर्ह इति स्वस्वरूपशोधनम्, ईदृशः क्षेमो यदायत्तः तस्य कपरस्य कीदृशं रूपमिति शोधनं च कुर्वन् स्थानदोषेण दुष्टत्वशंकाया अप्यनवकाशेन अनुभाव्यनित्यलोकमहिमानच्च परामृशेत्। स्वगृहमन्यच्चेत्, तर्हीदमायतनं कारागृहमेवेति विचारयत्। तितिक्षेत सहेत कः। दिव्यं देशिकमेनमेतदपेक्षितं प्रार्थयते अत्रत्विति। समोऽभ्यधिकश्च यस्मात् निर्गतौ, यस्य न स्तः- तादृशो निवृत्तिधर्मो मूर्तो भगवान् भवान्। किं तदित्यत्र हे निजेति। भव्यवृत्तीनां परदोषनिवर्तकव्यापाराणाम्। वागमृतेत्यनेनापि स्फुटं न वेदितं भवति, अत आह लुप्तेति। 42. लुप्तदृष्टिभिः स्वयमन्धैः अलब्धो देशिकः आचार्यः मार्गदर्शी च यैस्तैः। मार्गदर्शिपुरुषसाहाय्येनान्धो गच्छेत् लोकपदव्याम्। ज्ञानरहितः आचार्य साहय्येन लौकिकोपायान् वैदिकोपायांश्चाधिगच्छेत्। ननु दुरत्ययेत्यस्य दुरतिक्रमेत्यर्थः। न तु दुष्पापेति। एवञ्च लब्धदेशिकत्वे दृष्टिमत्त्वे च पदव्यतिक्रमो भवेदित्येव सिध्येत् न तु पदवीप्राप्तिरिति। अतो विरुद्धमिव लक्ष्यते॥ नैवम्। अत्ययोऽतिक्रम एव। अर्थ स्त्वेवम्-पदवी-उपायः। गम्यस्थानमुद्दिश्य यत्पदव्या अत्क्रमः—-आन्तगमनेन मार्गातिलंघनम्-कार्यः, स दुष्करो देशिकाभावे ज्ञानरहितस्य, तथा लौकिकवैदकापायानामन्तगमनेनातिक्रमोपि न तदभावे भवेत्—एवं प्रकृतोपायपूरणरूपमन्तगमनमपि भवतो देशिकस्याभावे दुष्करमिति। तस्मात् मदीक्षितं मया विवेकेन रक्षितव्यत्वेन दृश्यमानं पुरुषं मन्त्रतः मन्त्रोपदेशेन पाहि, पुण्डरीकमिव। पुण्डरीकस्य मुमुक्षोः राजर्षेभवान् मन्त्रोपदेष्टेति प्रसिद्धं भारते। पुण्डरीकमिति प्रयोगसूचितं दर्शयति व्यवसायः स्वधर्म एवेति। देवेन-कृष्णेन, यद्वा राज्ञा। पात्रभूतायोपदेष्टव्यमेवेत्यप्याचार्यधर्म एव। अत एव श्रुतौ, `तद्विज्ञानार्थं स गुरुमेवाभिगच्थेत्’इति विधाय, तस्मै स……प्रोवाच ताम्’ इति प्रयोगः। गीतायाञ्च तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया’ इति उपसदनप्रकारं प्रदर्श्य, `उपदेक्ष्यन्ते ते ज्ञानम्’इति उपदेशनैयत्योक्तिः। अपात्रभूताय नोपदेष्टव्यमियुक्त्वाऽथ विधीयते च, इदं ते नातपस्काय….. य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यत्तशयः। न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।भविता न च मे तस्मादन्यः प्रियतरो भुवि"इति। अंगीकरोति देवर्षिः अस्मदिति। यथासारम्। न तु पुण्डरीकायेवास्मै सर्वमुपदेष्टव्यम्। पूर्वमेवाचार्यमुखेन सिद्धत्वात्। न च तस्याचार्यस्य त्यागः कार्य इति भावः। इदमेव विवृण्वन् स्वोपदेश्यमपि सूचयति अधिकमिति। श्रवणमननसिद्धादन्यत् पाण्डित्यं मौनञ्च योगारम्भे आवश्यकं दर्शितम्, सहकार्यन्तरविधिरिति सूत्रे। एवं ध्याने प्रवृत्तस्य स्वानुभवगोचरोऽन्योशोऽपि स्यात्। तस्य तदा दर्शयित्री गुरुविषय भक्तिरेव। गुर्वीं भक्तिश्च। अतो मदुपदेशाभावेऽपि समाधिर्भवेदेव। अथापि त्वरमाणेन त्वया निदेशकरण त् अहं तमेवाशं मन्त्रपूर्वं प्रथयिष्यामि। तेन सपद्येव समाधि गाढं लग्नः स्यात्। दर्शितेऽर्भे मदुक्त्या वास्तवत्वविस्रम्भात्। स्वानुभूतौ ध्यातृनिष्ठे योगकालिकानुभवे इत्यर्थः। न तु स्वयम्प्रकाशे जीवे ब्रह्मणीत्येवम्। चित्ते इत्यत्र लग्ने इति पाठान्तरम्। तस्य व्याख्यानम्, लग्ने चित्तलग्ने ब्रह्मणि समाधिः गाढं लग्नो भवतीति। प्रथमत एव गुरुणा समाधौ भविष्यदंशमप्यधिकृत्य सर्वमुपदिष्टमेव चेत् भवेत्, स्वानुभवाद्यवसरे स्पर्येत च, तदा मादृशं मध्येऽवकाशो नास्ति। अनुपदिष्टांशोऽस्यानु भवविषयोऽस्ति न वेति अहं जानामि, तस्म न्न क्लेशः कार्य इति भावः। यदिति पृथक् पदं करणीयमित्यत्रान्वयि। यत् करणीयं कवयमभ्यर्थिताः, तत् साधयितुं निष्पादयितुं साधयामः गच्छामः। संप्रति नारदानुग्रहावसरे। उत्पश्यामि–अनुमिनोमि। प्रथमकारणं तत्र भगवद्दया अवलम्बनभूतेति। सा प्रपत्त्युप्रायेऽवतरतामेवापेक्षिता, न भक्त्युपाये इति नास्ति। प्रपन्नविषये दयाकार्यस्याधिक्योऽपि उपायिनिष्पादनार्थे दयाया उपयोग उभयत्रापेक्षित एव। अतः षडङ्गम्—–आनुकूल्यसंकल्प-प्राति-कूल्यवर्जनसंकल्प-आकिञ्चन्यानुसंधान-महाविस्वास-गोप्तृत्ववरण—आत्मनिक्षेपरूपांशषट्कवत्तया षडङ्गभूत प्रपत्तियोगभधिरोक्ष्यतःस, तथा यमनियमासनप्राणायामप्रत्याहरध्यानधारणासमाधिरुपांशाष्टकवत्तया अष्टङ्ग समाधिभूतं भक्तियोगमधिरोक्ष्यतो जीवस्य अनल्पा दया आलम्बनमस्ति प्रमाणतः सिध्यतीत्यर्थः। उपायस्य महाफलसाधनतया अत्र विशेषतो दयाऽपेक्षिता। मुमुक्षोरिव तदिष्टतया च तत्र अक्षुद्रा सा भवत्येव। सेयं संप्रति पुरुषविषये प्रवृत्तेत्याह तयैवेति। अत्र तदधीनं फलमेवानुमापकमिति तदाह विषयेति। विषय एव मदिरा मद्यम्। तया मुग्धैः लब्धमौहैः पृथग्जनैः क्षुद्रैस्त्यक्तः। अयमस्माभिनिर्बध्यमानोऽपि न क्षणमस्मान् ईक्षेतेति निश्वित्य दूरात् स्वयं ते गता इति भावः। तैरविरोधकरणमपि दयाकार्यम्। क्वचन समये योगोपयोगिनि अहर्भागे। स्थानमाह यत्रेति। यत्रैकाग्रता—-ध्येयैकप्रावण्यम्, द्वन्द्वबाधानवकाशः तत्र आस्पदे स्थाने। आसने आसीन इत्यर्थसिद्धम्। तदातनं प्रत्याहारमाह निभृतेति। निभृतानि प्रत्याहृतानि करणानि यस्य। तृप्यन् अलम्बुद्धिमान्। निरुद्धमरुद्गणः तत्तद्द्वारात् प्राणाषानादिकं निरुद्धवान् आयतप्राणः प्रत्यङ्मुखः प्रथमतः प्रत्यगात्मनि मनः संनिवेश्य परे धाम्नि स्वयम्प्रकाशपरमात्मस्वरूपे प्रतितिष्ठतीति धारणोक्तिः। परम् अतिशयेनेति ध्यानोक्तिः। अथ ध्यानस्य भक्तिरूपतामाह 46. पुलकेति। मुकुलतुल्यरोमाञ्चबलादाधिक्यमङ्गानाम्। उद्गताश्रुबिन्दुत्वमीक्षणानाम्। ईक्षणैरिति बहुवचनं द्वित्वेऽप्यनुशिष्टम्, यथा अक्षीणि मे प्रदर्शनीयानीति। अनेन ज्ञायते, अन्तर्दृष्टिः मानसज्ञानवान् अनुभवमास्वादयतीति। प्रीतिरूपतैव हि भक्तिः। उपर्यनुभवस्पृहाऽपि भक्ति, तामप्याह ध्रुवमित्यादीना। महानन्दब्रह्मदर्शनविषयकमनोरथाः प्रवहन्तीति ज्ञायते। मनोरथश्च स्पृहैव। उक्तमर्थं व्यवसायः प्रकारान्तरेणोपपादयन् संवादं जनयति देवेति। 47. तृणेति। केनोपनिषदि अग्निवाय्योर्यक्षब्रह्मपरिभूतत्वं श्रुतमत्रानुसंधेयम्। यदनभीमतौ यस्य परमात्मन इच्छाविरहे प्रलयकालिकवायुरपि तृणस्वण्डमपि चलयितुं न समर्थः। यदनभिमतौ प्रलयालिकाग्निरपि तमेव न दग्धुं समर्थः, सर्वान् तदर्वाचः तदपेक्षया निकृष्टान् विदन् सर्वान् निकृष्टत्वेन, तथा अजहदवधिः सावधिः सुखदुःखादिद्वन्द्वनियमः येषां तत्— सावधिद्वन्द्ववत्त्वेन च विदन् असौ ध्यानस्थितः। नतृप्यतीत्यादि। अनुकूलप्राप्त्या तृप्तिर्वा प्रतिकूलप्राप्त्या दुःखं वा नेति भावः। नन्विदं व्युत्थानकाले वा योगकाले वा। नाद्यः, योगसमयवर्णनप्रक्रमात्। नान्त्यः, तदा कुत्राप्यनुकूलप्रतिकूलवेदनाभावात्। किञ्च पूर्वश्लोकद्वयं ध्यातृपुरुषासमाधारणाकारपरम्, न तथेदमिति कथमिदं समाध्यारम्भलिङ्गमिति चेत्—-पूर्वार्धोक्तार्थसमन्वयानुगुणो भावो वर्णनीयः। एतावत्पर्यन्तमस्य योगे प्रवृत्तस्य तद्विच्छेदशंकया मनःक्षोभ आसीत्, तेन अनुकूलग्रहात् तृप्तिः, अन्यग्रहे विषाद इति। इदानीं तु भगवद्दयापात्रत्वमाकलय्यलब्धघैर्यस्तृप्यन् एवं मन्यते, आग्निवाय्वादीनामप्येतदनिच्छायामकार्यकरत्वात् अस्मीन् प्रसेदुषि अनुकूलप्रतिकूललाभालाभाभ्यां किमिति। अतो हर्षविषादप्रसक्तिरहितः कार्यनिष्पत्तिं प्रतीक्षमाणोऽस्तीति तात्पर्यम्। नात्र भोग्यवस्तुलाभालमूलकचित्तवृत्त्युक्तिः। समाधिप्रतिकूलागुकूलभूतबाह्यभावाभावमूलकचिन्ताऽपि नेत्यर्थः। चेतनाचेतनोभयमूलकप्रतिरोधशंकाराहित्येन प्रवृत्तोऽस्ति। इदमेव लम्भयितुं बृहदारण्यके, “तस्य न देवाश्चन अभूत्या ईशते"इत्युक्तम्। इदमेवाग्निवाय्वुदाहरणेन विशदीकृतं केनोपनिषदि। एवञ्च पूर्वश्लोकोक्तमनोरथप्रवाहप्रसर एव व्यवसायेनापि विवृत इह। ध्यानं भक्तिरितीदमेवमुक्तम्, सत्त्वेन्मेषातिशयमप्याह अपिचेति। 48. तुलेति। तुलायन्त्रं घटीयन्त्रमित्याहुः। तत्र जलघटोन्नतिः अन्यघटनतिश्चेति। वस्तुतः प्रसिद्धार्थ एव सुग्रहः। तुलायन्त्रं वस्तुमानार्थं घटद्वयविशिष्टं यन्त्रम्। एकस्मिन् घटे मूढो गुणः तमः, घटान्तरे क्रूरो गुणो रज इति मन्यताम्। लोके तुलायामेकघटनमनोऽन्यघटोन्नमनम्, एवं विपरिवर्तश्च यथा, तथा तमोरजोगुणौ समुन्नतौ भवेतां परेषाम्। एवं तुलायन्त्रधटन्यायेन निम्नम् अवनतिम् उन्नकतिञ्च वहन्तौ द्वावपि युगदेकत्र घटे निक्षिप्पाधः—कृत्वा पुरुषोसत्वं भजति। ननु तुलायां घटस्याधोगतौ रजस्तमसोराधिक्यमेव स्यादिति चेन्न-तोलनं हि व्ययार्थमेव। एवमधिकभागयोर्निवर्तनं विवक्षितम्। अथवा अधरीकृत्य अपसार्येत्यर्थः। एतधटकतुलायन्त्रं वा ग्राह्यम्। तत्र दण्ड एव मानम्। तस्यावनतौ घटे मनसि रजोगुणस्य तमोगुणस्य चाभावलाभः। एवं धीसन्ततिरूपचन्द्रपादुर्भावहेतुं, तत एव मुक्त्युपायं सत्त्वं पुरुषो भजत इति सिद्धमस्य भगवद्दयावष्टब्धत्वम्। निष्पन्नकल्पं ईषदसमाप्तनिष्पत्तिम्। क्षणेन निष्पत्स्यमानत्वेनेति यावत्। अस्य पुरुषस्य 49. समाधिः स्वफलेन मोक्षेण सह तुलामारूढः मोक्षपुरुषार्थवत् भोग्य इत्यर्थः। एवं सन् मुक्तेः साधकोऽपि, `ये तु धर्म्यामृतम्’इति धर्म्यत्वामृतत्वोभयोक्तेः। न्यूनाधिकसमत्वेषु विद्याभेदेनोपास्यगुणगणने क्विचत् न्यूनतायां अन्यत्राधिक्ये क्वचिदुभयत्र समत्वे च सत्यपि सर्वोऽपि समाधिः समुच्चयापेक्षां विना प्रत्येकमेव फलसाधनमिति विकल्पार्ह एव भवति। अतः समाध्यन्तरापेक्षा नास्तीत्यर्थः। यद्वा साक्षात्कारतापन्नः समाधिः अनुष्ठातृपुरुषभेदेन संततेः प्रारम्भकाले न्यूनत्वाधिकत्वसमत्वेषु सत्खपि उत्तरपूर्वाघाश्लेषरूपकार्योत्पादनविषये विकल्पायैव भवति। अधिकावृत्तः समाधिरिवाल्पावृत्तोऽपि साक्षात्कारत्वाविशेषात् पापाविनाशाश्लोषसंकल्पार्हो भवतीत्यर्थः। अथवा न्यूनत्वादिषु विकल्पाय न्यूनत्वाद्यन्यतप्रलाभाय कल्पते। न्यूनो वाऽधिको वा समो कवा भवेदित्यर्थः। मुक्तवत् पूर्णविषयकत्वाभावात् न्यूनता, प्रकृतिमण्डले लब्धत्वाकारेणास्याधिकता, भोग्यत्वेन समत्वमित्येवं भाव्यम्। अपावृतार्धम् अर्धोद्घाटिप्तकवाटम्। अद्य समाधिसाध्यांशिनिष्पादनावसरे। 50. अनतिलंध्यां नियतिम्। `नाभुक्तं क्षीयते कर्म कल्पकोरिशतैरपि’इति प्रसिद्धविभवां सञ्चितकर्मसंततिं सान्त्वयामि। हे पुण्यपापानि! युष्माकं स्थलान्तराणि परिकल्पितानि। इत इह पीडार्थ न प्रयत्सथेति शान्तो वक्ष्यामि। बन्धनिवृत्त्यव्यवहितपूर्वापेक्षितांश विषये दृष्टिं निक्षेप्स्यामीत्यर्थः। वक्ष्यमाणा नैश्श्रेयसी नियतिर्वेयम्। सिद्धिं गणयितुं संकल्पसिद्धिसंदर्शितगुरुत्मदाद्यनुग्रहं लम्भयितुम्। सुमतिसौधार्यं राजा प्रतिष्ठते, पूर्वं तया नारदावसरमवेक्ष्य निवृत्य स्वानुकूलकार्यान्तरे प्रवृत्तत्वात्। सुमतिर्हि संसारदोषविवेचनारूपं सम्यक्ज्ञानम्, तदनुरूपतया तत्सौधं वर्णयति बलेति। 51. राजसौधे सैन्यायुधादिकबलसंदर्शकमण्डपस्थितिः। इह शास्त्रबलदैवबलदर्शनम्। प्रमाणैः अनुरूपपरिमाणशालिभिर्नानावस्तुभिः प्रतिमादिभिः सौधमलंकृतम्। इदञ्च श्रुतिस्मृतिपाञ्चरात्रतर्कप्रत्यक्षलम्भितप्रभावम्। अद्भुतदीपे सौधे अन्धकारस्य नावसरः, संमार्जनादिवशात् धूलिरहितता च। इह च रजोगुमतमोगुणयोरभावः। तत्त्वमयं यथावद्वस्तुविषयकमेव, न त्वीषदप्ययथार्थता। तत्र गच्छन्तीं काञ्चन पश्यन् आह केति। अनेन अनन्तराङ्कप्रवेक्ष्यत्प्रथमपात्रसूचनम्। अतस्तत्रासूचितपात्रप्रवेश इति दोषो नास्ति। सुधासंदोहः अमृतसमुदयः, तद्वत् सौम्यस्वभावा आह्लादकत्ववती। प्रत्यभिजानामि-सेयमिति संस्कारसहकारेण प्रत्यक्षीकरोमि। कासाविति पूर्वोक्तेः कारणमाह परिणतीति। विष्णुभक्तिर्हि गुरुमुखात् श्रवणात् प्रागेवोदिता प्रितदिनोपचिता संप्रति समाधिपर्यन्तनिष्पत्त्यवसरे अतीव वृद्धिं गता। अस्यास्तु वार्धकं भोग्यम्, दीर्घायुष्ट्वञ्चेति विशेषः। प्रत्यभिज्ञाप्रकारं दर्शयति इयमिति। अखिलपुमर्थेति। `चतुर्विधा भजन्ते माम्’इत्युक्तेः। सितमतिभिः निष्कलङ्कज्ञानैः अनन्यैः फलान्तरानपेक्षैः सेविता अत्यन्तादृता। द्युतिभिः `भक्तया शास्त्राद् वेद्मि’इत्युक्तरीत्या ज्ञानस्य भक्तिसहकृतसत्त्वकारितत्वात् जातैः ज्ञानविशेषैः सर्वं दर्शयन्ती विष्णुभक्तिः सुमतिसौधं विशति। नैःश्रेयर्सी नियतिमास्थाय मोक्षकार्थनियमविशेषमादृत्य प्रतीक्ष्य।
इति नावमाङ्कटीका नवमनवमं तत्र तत्र गूढार्थम्।
पश्यन्ती बहुटीकादर्शिभिरादृत्य पूर्ववत् दृश्या॥
इति अभिनावदेशिकवीरराघवाचार्यकृतौ सर्वसाक्षात्काराख्यटीकायां नवमोंकः।
*************************************************************
.
दशमोऽङ्कः
श्रीः। पूर्वप्रस्तुता विष्णुभक्तिः प्रविशति, आलम्बनविशेषेति—-अन्तर्यामितत्त्वरूपविषयेत्यर्थः। भक्तेरखिलहेयप्रत्यनीकतद्विषयकतया सर्वकिल्बिषसंहारित्वम्। तदपि फलान्तरमनपेक्ष्य तद्दास्यैकप्राप्यकत्वात् 1. अहमिति। वैकुण्ठो भगवान्। तस्मान् दास्यं दासकृत्यम्। तस्य मुख्यलास्यत्वं भगवत्प्रीणनत्वात्। अनायासत्व-स्वयंभोग्यत्वज्ञापनं लीलेति। तया विनोदिनी यापितव्युत्थानकाला। विश्वेषां संचितानां पुण्यपापोभयरूपाणां किल्विषाणां संहार एत विभ्रमारभटी सविंलासोद्धतनृत्तं तद्युक्तानटी। अभिजनस्वरूपविभवादिकं स्वकीयमाह 2. अम्बेति। बुद्धिः धर्मभूतज्ञानम्। तस्याः कामादिकं प्रत्यपि अम्बात्वमस्ति। परं तु तदा नानघा। तातस्य पुरुषस्य धर्मोत्तरत्वावस्थायां निष्कामकर्मानुष्ठानपरतायामेतदुत्पत्तिः। संतुष्टिः स्थिते आहारे अलम्बुद्धि, सा सोदरी। क्षमा क्षान्तिः परैः परिभवादौ। सद्वृत्तिः सदाचारः आज्ञाकरी दासी, अतिशयाधायकतया शेषत्वात्। विद्या शास्त्रविहितभक्तियोगः। तथा च समाधिरेवायम्। तदभिमानिदेवतात्वेन रूपेणेह पात्रता। प्राणिमि। मोहकामादेः नाशितत्वात् जीवनं प्रकृष्टमासीत्। एतत्फलं पुरुषस्य संसाररूपबन्धस्य संस्था— अवसानम्। गीतम्— भक्त्या त्वनत्यया शक्य, नाहं वेदैर्न तपसा इत्येवमुक्तेः। योगलाभेऽपि भक्त्यसिद्धौ न मुक्तिरित्याह निरुध्येति तरसा बलेन मरुत्करणमण्डलीम् प्राणापानादिवायून् इन्द्रियाणि च निरुध्य, कुण्डलीं नाभिसमीपे नाडिविशेषं विचिन्त्य इत्यमिति अवधार्य, धमनयः–सिराः, धातवः सप्त, मर्म प्राणगुप्तिस्थानम् एतदादिकं प्रत्येकं, ध्यानशक्त्या, विशिष्य गणनयाऽवधार्यापि किं लभ्यते। न मोक्षस्य प्रसक्तिः। निगमत्रयस्थितिमताऽपि सकलवेदार्थविशदज्ञानवताऽपि। लालभ्यते विशेषेण लभ्यते। तन्मूलफलानां लोकश्लाघ्यत्वेऽपि न मोक्षतुल्यत्वमिति भावः। तत् सर्वं मा ज्ञायताम्। अस्तु भक्तिः, तावताऽपि कार्यसिद्धिरित्याह मयीति। मयि भक्त्यां स्थितिः निष्ठा यदि अवस्थितः, तर्हि मुच्यते मुक्तिभाक् भवत्येव। किमुच्यते। अत्र किं वक्तव्यम्। नेदमल्पं फलम्स, नैतत् पूर्णं वर्णयितुं शक्यमिति भावः। निवृत्तिधर्मकाष्ठारूपः, कर्मयोग ज्ञानयोगाधिकत्वात् धारणाध्यानपर्वातिक्रमाञ्च। योगः समाधिः। मदनुवेधादेव प्राप्यप्रापकैक्याध्यवसायमूलक प्रीतिरूपापन्नत्वादेव महतीं सिद्धिम् परमकपुरुषार्थम्। अद्य विष्णोरेव प्राप्यत्वाध्यवसाये। 4. मुषितमतिमोहस्य फलान्तर भोग्यत्वादि बुद्धिरूपो मोहो यस्य नष्टः तस्य समाधिः भक्तिरूपदर्शनसमानाकारज्ञानं संरोहन् आरम्भावसर एव उपहरति पुरुषस्य साधयति। तदुक्तम्, “तदधिगम उत्तरपूर्वाघयोश्लेषविनाशौ"इति। परस्तात् एतल्लाभानन्तरम् यत्आस्थेयम् आवर्तनीयं प्रत्यहं यत् समाधिरूपं ज्ञानम्, केन? विदुषा लब्धदर्शनसमानाकारज्ञानेन। अनिष्ठजनुषा सञ्चितकर्माधीनजन्मविरक्तैन। आस्थेयमित्यत्रान्वयः, तत् फलार्थं वा फलं वा। फलस्य संचितनाशस्य जातत्वात्, प्रारब्धस्य चानुभाव्यत्वात् कर्मक्षये भगवदनुभावदेः स्वतः प्राप्तत्वाच्च फलार्थमनुष्ठेयं किमस्ति। तर्हि फलभूतमेवास्त्विति चेत्— तर्हि आस्थेकयमिति कथं विधिरित्येष वितर्कः विचारः श्रमफलः। प्राप्तसमाधेरयं विचारो न भवति। तस्य समाधिगतभोकग्यतया अन्यवैमुख्याच्च तत्रैव प्रवृत्तैः। अत एवान्तिमप्रत्ययस्याप्यवश्यम्भावित्वात् तद्बुद्ध्या फलत्वमेव। आरम्भदशायां क्षमिष्ये इति संकल्पेऽपि क्षान्तमिति संकल्पाभावात् देहावसान एव सुकृतदुष्कृतयोः प्रियाप्रियसंक्रमणात् फलस्यानिष्पन्नत्वाध्यवसाये तु पश्चादावर्तनस्यापि फलार्थत्वमप्यस्ति। एवमुभयरूपत्वं युक्तमित्याशयः। कीदृशी किंकर्तव्यते। मया किं कर्तव्यमिति कर्तव्यांशाकाक्षा किंविषयिणीत्यर्थः। इयं तावत्—कर्तव्यता तावत्। 5. श्लोके मोचनीय इत्येतदनन्तरं इत्येवरूपेत्यध्याहृत्यैतदन्वयः। दारिका दुहिता। करणकलेबरादिपरिकरैर्ग्रहिलः दृडगृहीतोऽयं तद्विषयकासत्तिरहितः कार्यः। तदैव आन्तं यथावदनुवृत्तेः। तदर्थं भगवदनुग्रहरूपा लीला मया संपाद्येति। अघेन पापेन परिणमितैः। यद्वा अघान्येव करणादिरूपेण परिणतानीति हेयत्वबुद्धये उक्तिः। निष्पाद्यं दर्शितम्, निष्पन्नमपि स्मारयति अत्रचेति। शारीरदोषगणः हिंसास्तेयादिः। मानसः मोहकामादिः। अपुनर्भवयोग्यामवस्थाम् समाधिरूपाम्। 7. कथावशेषम्। अस्य पूर्वं कामादिरासीदिति कथामात्रमिदानीम्। दयादीत्यादिना मुदिता उपेक्षेत्युभयपरिग्रहः। मैत्री अनुकूलेयषु, दया शोच्येषु, मुदिता धनज्ञानादिमत्सु, उपेक्षा उदासीनेषु। समाधिरूपसाक्षात्कारे उत्पन्ने, तावतैव कृतकृत्योऽहमिति दर्पमप्राप्य तदुत्तरोत्तरानुवर्तनत्वरा तस्यास्ति वेति विमृश्यैव उत्तरपूर्वाघाश्लेषविनाशसंकल्पे परमपुरुषः प्रवर्तत इति ज्ञापनार्थम् अपिचेत्यादि। उपयाति दिने दिने समृद्धिमिति चात्राह। संकल्पकार्योत्तरपूर्वाघाश्लेष विनाशानन्तरं समयप्रतीक्षाया वर्णयिष्यमाणत्वात्, प्रथमदिनप्रथमसमाधिक्षण एव संकल्पस्यात्रानुक्त्या च भगवदभिमतः संकल्पकालोऽनन्तरः कश्चित्। दुरितेत्यादि सप्तत्रिंश्लोकानन्तरवाक्यतोऽपि प्रतीक्ष्यैव संकल्प इति ज्ञायते। परम्परितवृद्धिरिव सञ्चातपरम्परा। वृद्धिर्यस्याः सेव। वृद्धिमेष्यन्तीवेत्यर्थः। आरम्भावस्थं समाधिं प्रतिपच्चन्द्रकलयोपमिनोति कलयेति। कयाचित् द्वितीयतिथिभवया। चन्द्रस्य तदा विश्ववन्द्यत्वं स्तूयमानत्वं विष्णुपदम् आकाशमाश्रितत्वञ्च। समाधेरपि विश्वमान्यत्वं भगवत्पदारविन्दविषयकत्वञ्च। एवं सितात्मत्वं चन्द्रस्य धवलत्वात्, समाधेस्तु निर्मलमनस्कत्वात्। प्रसन्नपरमात्मविषयकत्वाच्च सितात्मत्वम्। उत्तरोत्तराभिवृद्धिं भविष्यन्तीमाह 9. स्वत इति। यथा नदीप्रवाहसमागतं वस्तु नदीसमुद्रसंभेदरूपे मुखभागे पतित्वा समुद्र एव स्थितिं लभते, तथाऽयं समाधिरूपध्यानप्रवाहद्वारा अन्तमप्रत्ययादिमुखं प्रविश्य पूर्णब्रह्मसाक्षत्कारसमुद्रं प्रवेक्ष्यतीति भाव। चिन्ता ध्यानमेव सुरसरित् गङ्गा। प्रणिधिः सम्यक् समाधिर्मुखभाग इव नदीसमुद्रसंभेदस्थलमिव। चिदानन्दः परमात्मस्वरूपम् उदन्वानिव समुद्र इव।तस्मिन् निमञ्जति निमंक्ष्यति। अतोऽयमुपरतो न भविष्यतीति। वर्तमानसामीप्ये लट्। श्लोकोऽयं पूर्वार्धेन मूर्तिध्यानमथ शुद्धपरमात्मस्वरूपसमाधिञ्चाहेति वा स्यात्। उपचिकीर्षे उपकर्तुमिच्छामि। उपचिक्रंसे इति पाठे कार्योपक्रममिच्छामीति। सुमतिसौधं प्रविष्टस्य राज्ञो रात्र्यवसानसमयः सूच्यते वैतालिकेन 10. लुलितेति। सकल्पसूर्याविर्भावसमयोऽयमित्यपि प्रदर्शितं भवत्यर्थात्। भुवने लोके जले वाऽचस्थितानि सर्वाणि पद्मानि लुलितानि शोभारहितानि कृतानि यया तां वासतेयीं रात्रिम्। वसतिपदवत् वासतेयीपदमपि रात्रौ प्रयुज्यते, एकत्र पुरुषस्य वसतिसंपादकत्वात्। विवेकस्यापि सुमतिसौधे वसतिरत्र ज्ञाप्यते। वासतेयीपदस्य तमस्संहतिरूपार्थपरत्वे अपत्तमसीति पुनरुक्तिरिव स्यात्। तां रात्रिं लुम्पतः नाशयतो भानोः सूर्यस्य धाम प्रभामण्डलम् पूर्वं पुरस्तात्। भुवनगतचोतरूपपद्मशोभा यया लुलिता तां संसाररात्रिमपनयतो भगवतः संकल्पोऽपि धाम। अपरमसि अन्धकाररहिते वैष्णवपदे आविर्भूतं धाम तद्देशप्रापणोन्मुखमिति भावः। पताकास्थानकं विजयध्वजपटीतुल्यम्। विवेककृतविजयफलभूतत्वादिह तथोक्तिः। नैश्श्रेयसीं मोक्षसंबन्धिनीम्। 11. शान्तक्षोभं समाधिपरे पुरुषे क्षोभलेशस्याप्यनुत्पादकम्, समाध्यनुकूलञ्च। अविच्छिन्नप्रीतिरूपापन्नां संततिमाह प्रसृमरेति। प्रसुमरत्वं व्याप्तत्वम्। दृष्टिः सव्या। विष्णुभक्तेः स्त्रीत्वात् वामहष्टिस्फुरणं शुभनिमित्तम्। तदपि तत्स्फुरणमपि उपरि नेत्रोर्ध्वभागे। उपतस्थुपीम् आगताम्। भक्तिनिष्पत्त्यनन्तरं भगवद्दयाधीनेन संकल्पेनाभीष्टसिद्धिः, न तु भक्तिमात्रात्। तदाह वैकुण्ठेति। मदभीष्टे मोक्षतदनुबन्धिफले। प्राध्वम् अनुकूलं यथा तथा। संकल्पमार्ताण्डमित्युक्त्या संकल्पसूर्योदय इत्यत्र संकल्पपदस्य सूर्यपदेन समास इति ज्ञायते। 21. श्लोके अन्यथा। मार्तण्डेति हस्वमध्यमं केचित् पठन्ति। ननु क्षीयन्ते चास्य कर्माणि तस्मान् दृष्टे परावरे, तमेव विद्वानमृत इह भवति, आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये, भक्त्या त्वनन्यया शक्यः इत्यादिभिर्भक्तेरेव साक्षादुपायत्वे प्रतीयमाने किमिति दयाप्रेरितसंकल्पान्तरितत्ववर्णनम्? न च स्वर्गकामो यजेतेत्यादाविव अवान्तरख्यापारः स इति वाच्यम्—तत्र यागादेश्चिरध्वस्ततया द्वारापेक्षायामपि अत्र भक्तेरनुवर्तमानतया तदनपेक्षणादित्यत्राह न चेति। अचेतनस्य चेतनसहकारमन्तरेणोपायत्वायोगात्, परामृतात् परिमुच्यन्ति सर्वे, तमेवं विद्वान्—-नान्यः, यमेवैष वृणुते तेन लभ्यः, एष एव साधु कर्म कारयति यमेभ्यो लोके उन्निनीषति इत्यादिना साध्योपायस्य सिद्धोपायप्रसत्त्यर्थतया सिद्धोपायस्य उन्निनीषारूपसंकल्पधारायुक्तस्यैव प्राधान्यात्। सूत्रितञ्च `पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो’इति। प्रभूतसंरम्भयाऽपीति। संरम्भः शीघ्रनिष्पादनत्वरा, तस्यात्यन्तमधिकत्वेऽपि मया कृपाद्वारैव फलप्रापणमिति भावः। कृपाप्राधान्योपपादनं तथाहीति 13. प्रभुः कृपायामायतते प्रभुः कृपानिघ्नो भवति। कृपाद्वारैव फलं जनयति। तथा कृपया देवतान्तरप्रेरणम्, देवतान्तरद्वारा फलप्राप्तिरिति न मन्तव्यम्, मोक्षे देवतान्तरानपेक्षणात्, यत्र तदपेक्षा तत्रापि ता देवता अपि परमात्मकृपां पुरस्कृत्यैव साधयन्तीत्याह सचिवास्तस्य च सर्व एव देवाः इति। सर्व एवेत्यनेन, नित्यसूरिरूपाणां साध्यदेवानामपि न साक्षात्फलप्रदानशक्तिरिति दर्शितम्। उपरिगरुत्मत्सेवालाभवर्णनेन देवानां सचिवत्वमप्युपपादितं भवति। उपतिष्ठे मन्त्रायमाणवाङ्मयोच्चारणपूर्वकं सेवनमुपस्थानम्। 14. अन्यां गतिं संमन्यते भगवत्कृपां विनैवान्येषां फलहेतुत्वमस्तीति मन्यते, कृपागतं गतित्वमन्यत्रारोपयति यः, तस्य परम्परया गतिभूतान्यपि आयासमात्रहेतुतया मृगतृष्णिकातुल्यान्येव भवेयुः। यथा मृगतृष्णिकापिपासामीशदपि न शमयति, प्रत्युतानर्थायैव, तथा भगवत्कृपादूरीकरणेनोपायान्तरसेवनम्। “ये द्विषन्ति महात्मानं न स्मरन्ति च केशवम्। न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि”। गङ्गासंनिधाववर्तमानाः मृगतृष्णिकाभिमुखा इतीदमपेक्ष्य तत्संनिधावेव तत्त्यागो ह्यत्यन्तमौढ्यं दर्शयति, तद्वत् अवतीर्य श्रीनिवासे संनिकृष्टेऽपि तं विहाय तस्य पुरस्तादेव देवतान्तरसेवनमनर्थकरमिति। स्रवविधानामपि जीवानां भोगापवर्गरूपं सर्वं फलं तद्दयाधीनमित्याह 15.त्वदिति। त्वद्दृष्ट्या दयाया देवीत्वारोपेण तदीयया दृष्ट्येत्युक्तिः, यथा पूर्वं `स्फुरति च मुहुर्दृष्टिः सव्या’इति। यद्वा त्वत्संपृक्तम्। अपवर्ग आदितो विशेषेणोपकर्तृत्वमाह किञ्चेति। कृपणतां भोगावसाने अकिञ्चनताम्, सर्वं दैवायत्तम् नास्मदिच्छाधीनमिति सीदद्दशां भोक्तरि दृष्ट्वा, वैलक्ष्यतः एतदवसरे अस्य सत्पदव्यनारोपणमस्मदवद्यायेति, पूर्वमेवायं न रक्षित इति च त्वं लज्जया उदञ्चदनुग्रहा विशेषानुग्रहप्रवृत्तः नैराश्यप्रमुखानि वैराग्यं मुमुक्षा सत्संगः सदाचार्यसेवा तत्त्वज्ञानं हितपरिग्रह इतीमानि निर्वाणपर्वाणि मोक्षोपायपरम्पराभूतानि उत्पादयसीति। इदानीं कर्तव्यमुख्यैतदनुग्रहशेषतयैव सर्वस्य तस्य करणात् इदानीं तत्वरितव्यमिति भावः। अद्यपुनरित्यादिर्दृश्यमानः पाठः प्रकृतोपयुक्तः। संकल्पस्य दयाप्रेरितत्वोपपादनं ह्यनेन कृतं भवति 16. फलेति। अधिकरणाधिकारिणः शासनकरस्य इमे गुणा अपेक्षिताः। हननपर्यन्ते कार्ये शासनीयेऽपि निस्सं३कोचप्रवृत्तिरपेक्षिता। अन्यथा पक्षपातः स्यात्। प्रगुणम् ऋजुम्, प्रकृष्टगुणवन्तं वा। अनुविधेयम् तत्तद्धधर्मसेतुशास्त्रवश्यम्। प्रगुणो मनुः मन्त्रः तद्विधेयम्। स्मृर्तृषु प्रकृष्टो यो मनुः शासकः तद्विधेयम्। उक्तं हि वालिवधे प्रेरणं महति कार्ये भवति। तथाऽत्र पद्माऽपि शासकत्वेन गण्यते पद्मासहायमिति। दयाभाषणे स्वारस्यप्रदर्शिनी पद्मा। सकलगुणाधिक्यं दयाया आह महतीति। ज्ञानशक्त्यादयो गुणाः निग्रहानुग्रहोभयोपयुक्ताः। पाप्मपक्षपातेन तेषां व्याहाराः मानबाधितत्वादुपेक्षणीया इति दया मानपूर्वं प्रमाणप्रदर्शनपूर्वमाह। दयायां स्वाभिमतं साधयितुमुत्थाय पद्मासहायं प्रति विज्ञाययितुमुद्युञ्जानायां सर्वैरपि तत्र मानना क्रियते। नित्यसूरिपरिषद्रूपो गुणसमाजः उपसर्जनसमाजो महानप्यनूकूलः। सचिवास्तस्य हि सर्व एव देवाः। तथा मानपूर्वं पापानां प्रतिवदसि। पापानां पुरुषहिंसनोद्योगयुक्तत्वेन तदयोगं ज्ञापयसि पुरुषगतप्रायश्चित्तादिकार्यप्रदर्शनेनेति। एवं प्रार्थितायां दयायां प्रतिवदन्त्याम् इदं श्रुत्वा। पद्मासहायः संकल्पं नियुंक्ते इति तात्पर्यम्॥
प्रातर्गरुत्मतो दर्शनं विलक्षणं प्राप्याऽऽह अयमिति। विवेकमहाराजस्यागारपूर्वभागे गृहस्य पुरस्तात्, भगवदालयस्य पुरत इव असौ दिव्यलोकस्थितः दनुजमथनस्य भगवतो दयया प्रेरित्नः। नृत्तोद्यत इवेति तत्रतत्र वाहनतयाऽवस्थितिविशेषस्य प्रसिद्धस्य प्रस्थानसूचनायावबोधनम्। निखिलेति। निखिलानां निगमानां निगमगतानां परविद्याविशेषाणाञ्च राशिरेक इव। भक्तिफलप्रदानायाऽऽविर्भावात् भक्तिविद्याराशित्वमप्युक्तम्। ततश्च-पसन्नत्वादेव। 17. रक्षणोन्मुखतां रमासहाये दृष्ट्वा तत्पूरणाय, नतानां जानानां गृहाणि प्रति स्वयमत्युत्साहेन रभसेन अतिवेगेन समानेतुं क्रियमाणसंनाहः तद्रथः रमासहायवाहनभूतोऽसौ, न केवलं रमां तत्सहायञ्चानयेन तत्संकल्पमप्यानयेत्। संकल्पानयनार्थं तद्वाहनत्वमस्य नापेक्षितम्। संकल्पस्य भगवदपृथविसद्धतया तदानयनेऽस्याप्यानयनसिद्धेः। यस्य संकल्पस्य स्थितिः सत्ता वृत्तिः व्यापारः शक्तिः कार्योत्पादनसामर्थ्यमिति तिस्रोऽपि तदपृथक् भगवदपेक्षया पृथक् न भवन्ति, तादृशम्। संकल्पस्य गुणत्वात् तदपृथविस्थितिः स्पष्टा एतदीयवृत्तिशक्त्योरपि भगवह्यापारशक्त्यपेक्षयाऽतिरिक्तत्वाभावात् तदपृथग्भूतता। आगमिष्यति चात्र संकल्पोऽप्युपरि। 18. पन्नगनद्धाय पन्नगैः सर्पैः एतदाभरणभावाय दृढश्लिष्टाय। वैकुण्ठस्य भगवतः वशे इच्छायां वर्तमानाय, तदिच्छानुरोधिप्रवृत्तिमते। श्रुतिरेव सिन्धुः समुद्रः तदमृतस्य मोक्षादेः उत्पादे आविर्भावे मन्दरपर्वताय। जातमात्रस्य गरुत्मतो गगने सञ्चारलीला अद्भुतं वर्णयति। 19. अस्य विनतासुतस्यार्भकावस्थायां क्रीडितानि लीलः मण्डलीकरणानि अस्मदार्तिं क्षिपन्तु नाशयन्तु। कीदृंशि? यैः क्षोणीधरा अपि वेगाभिघातात् क्षुण्णाः चूर्णिता आसन्। यल्लीलासंबन्धिनः गुरुतः पक्षाः वेगक्षुब्धसागरचतुष्टयवीचीस्पर्शेन तिम्यन्तः आद्रीभवन्तः। तथा ताराणां नक्षत्राणां सराः मालाः त्रुट्यन्तः छिन्ना यैः, यैश्च विबुधानां स्थानानि वासस्थलानि स्थपुटितानि विषमितानि। पाताल-चतुर्मुखगृहरूप पूर्वोत्तरावधिकं यथा तथा विहितानि मुधावर्तनानि किञ्चित्प्रयोजनानुद्देश्यका वृत्तयः यैस्तानि। किञ्चिदुद्देशं विना अधिकप्रयत्नं विना भवतामेवैवम्भूतत्वे विशेषोद्देशे तेषां वैभवं कथं वर्णयितुं शक्यमिति भावः। क्रीडितस्थानञ्च ब्रह्माण्डस्यान्तरालं मध्यभागः वृहत् विशालं सर्वम्। सर्वपर्वतसमुद्रादिक्षोभकाणामस्मदर्तिक्षेपणमनायासकार्यम्। दण्डकेन वाग्विन्यासविशेषेण। स्तोत्रे चैवमुपसंहृतम्– “षट्त्रिंशद्गणचरणे नरपरिपाटीनवीनगुम्भगणः। विष्णुरथदण्डकोऽयं विधटयतु विपक्षवाहिनीव्यूहम्"इति। नरेति, नगणरगणेत्यर्थः। अत्र दण्डके पादचतुष्टयम्। एकैकस्मिन् पादेऽपि षट्त्रिंशद् गणाः। अक्षरत्रयं गणः। तत्राऽदौ नगणद्वयम्। त्रयाणामपि लघुत्वात्। अथ रगणाः चतुस्त्रिंशत् लघुमध्यत्वात्। गरुजम् ईडे स्तौमि। अखिलोऽपि वेदः एको नीडः एको नीडः कुलाय इव। तमधिरूढम्। द्विषतां द्वेषिणां पीडने उत्कण्ठितः संजातोत्कण्ठो यः अकुण्ठः गतिप्रतिघ तरहितः वैकुण्ठो विष्णुः तेन पीठीकृतः आसनीकृतः स्कन्धो यस्य तम्। स्वकुलायं प्रति आगमनात् प्रीताभ्यां रुद्रासुकीर्तिनाम्नीभ्यां दयिताभ्यां स्तनाभोगेन स्तनतटेन गाढं दृढं यथातथा उपगूढेन आलिङ्गनेन स्फुरताम् उद्ञ्चतां कण्टकानां रोमञ्चानां सूचीवत् स्थितानां व्रातेन समुदायेन वेधात् तोदात् या व्यथा पीडा तया वेपमानः द्विजिह्वाधिपः नागराज एव आकल्पः भूषणम्। तेन विष्फार्यमाणानां विस्तारवत्तया क्रियमाणानां स्फटानां फणानां वाटिकायाः रत्नानां रोचिश्छटराराजिभिः कान्तिसमूहपंक्तिभिः नीराजितं सपत्नीकस्वार्थकृतारात्रिकम्। तथा कान्तिकल्लोलिन्या स्वकप्रभानद्या राजितं लब्धप्रकाशञ्च गरुडमीडे इत्यन्वयः। अथ द्वितीयचरणः— तत्र गरुत्मन्तं संबोध्य स्तुवन् प्रणाममर्पयति जयेति। सुपर्ण शोभनपक्षयुक्त! दर्वीकराः सर्पा आहारो यस्य। देवाधिपानामाहारः सुधा, तस्य हरणकारिन्, तदा दिवौकसां द्युलोकस्थानां देवानां पतिना क्षिप्तस्य प्रयुक्तस्य तम्भोलेः वज्रायुधस्य धारया दीर्घपार्श्वाग्रेण जातः पक्षैकदेशे खल्पवर्णमूलः किणः स एव भूषणं यस्य। वज्रायुधगौरवार्थं पक्षरोमैकदेशं त्यजामीति खल्वयमिन्द्रं परिजहासेति भारते आदिपर्वणि (31).। कल्पान्तः सृष्ट्यवसानभूतः प्रलयकालः। तदातनस्य वातूलस्य वातसमूहस्य सदृशेन उदयेन आविर्भावेन युक्तमनल्पं वीरायितं वीरकृत्यं तत्रोद्यन् चमत्कारः प्रीतिविशेषो यस्य तादृश! दैत्यारेः भगवतः जैत्रे जयशीले ध्वजे आरोहेण दृष्टेन सर्वैर्निर्धारितः सर्वाधिकोच्छ्रायरूपोत्कर्षो यस्य तथाभूत! ज्ञानबलविषये संकर्षणावतारलब्धानुग्रहत्वात् आदिशेषवत् संकर्षणात्मक! मरुदिति। “सत्यः सुपर्णो गरुडस्तार्क्ष्यस्तु विहगेश्वरः"इति श्रीसात्त्वतादौ प्राणापानादिपञ्चकाधिपतित्वेन प्रसिद्धाः गरुडस्य व्यूहभेदाः इत्युक्तं चतुश्श्लोकीभाष्येष। अजहती अत्यजन्ती सपर्या पूजा यं तस्मैः। सर्वदा समाराध्याय। पर्यायेण उत्तरोत्तरया निर्यतैः पक्षानिलैः आस्फालनात् प्रहरणात् वेलामतिक्रान्तः पाथोधिः समुद्रः तस्य वीचयः चपेटातुल्याः–प्रहारार्थविस्तृताङ्गुलिकरतुल्याः तत्कृतेन आहतेन प्रहारेण जातः यः अगाधे पाताले भाङ्कारः तच्छ्रवणेन संक्रुद्धस्य नागेन्द्रस्य पीडायां विषये—-सुप्तं सर्पं स्वयमेव प्रबोध्य तद्भञ्जनाय—सृणीभावेन वज्रायुधीभवनेन भास्वती नखश्रेणिर्यस्य तस्मै। चण्डतुण्डाय अत्युग्रनासिकाय नृत्यद्भुजङ्गतुल्यभ्रूविशिष्टाय। भ्रुवोर्नर्तनावसरे तत्र भूषणतया संश्लिष्टो भुजङ्गोऽपि नृत्यतीति वा। दम्ष्ट्राभूतवज्रयुक्ताय तुभ्यं नम इति पूर्वत्रान्वयः। अपेक्षितं फलं दर्शयति अध्यात्मविद्याः वेदान्तमूलान्यात्मपरमात्मज्ञानानि विधेयाः विधेहि। आशिषि मध्यमैकवचनम्। विधेया कर्तव्या इति सुबन्तसंभवेऽपि तिङ्न्तत्वं युक्तम्। भवद्दास्यम्। भगवदिति न पाठः, रगणविरोधात्। त्वात्किङ्करत्वम् आपादयेथाः संपादय। मे इति क्रियात्रभेऽप्यन्वेति। अपेक्षितयोः अध्यात्मज्ञानसुपर्ण कैकर्ययोः फलं कारणञ्च किमित्यत्र, मन्त्रविशेषपुरस्कारेण तं स्तुवन् भगवद्ज्ञानभक्तिनिरन्तरानुवृत्तिरानन्दरूपैव तत् सर्वमित्याह मनुरिति। मनुः मन्त्रः। तदानुपूर्वीं ज्ञाप्यते अनुगतेत्यादिना। अनुगतः अनुसृतः पः पकारः यं क्षिं क्षिकारं स अनुगतपः क्षिः। क्षिकारोत्तरः पकार इत्युक्तं भवति। तादृशक्षिकारस्य वक्त्रे अग्रे स्फुरन् तारः प्रणवो यत्र मनौ। यद्वा अनुगतः पकारो येनेत्यपि कतारविशेषणम्। पकारानन्तर इति यावत्। एकस्तारः पकारानन्तरः, अन्यः क्षिवक्त्रे स्फुरन् क्षिकारात् पूर्वं वर्तमानः। एवमनुगतप-क्षिवक्त्रस्फुरद्रूपतारद्वययुक्तः। परं तु गरुडपञ्चाक्षरीति व्यवहारे प्रथमः प्रणवो न मन्त्रघटकः स्यात्। गरुडपञ्चाशति, `पक्षिव्यत्यस्त पक्षिद्वितयमुखपुटप्रस्फुटोदारतारम्’इत्युक्तमित्यलम्। अथ च चित्रभानुप्रिया अग्निपत्नी स्वाहा। स्वाहाशब्दः शेखरः शिरोभूषणम् अन्ते यस्य तादृशश्च ते मन्त्रः त्रिवर्गस्य धर्मर्थकामानाम् अपवर्गस्य मोक्षस्य च प्रसूतिः उत्पादको मनुः नः अस्मान् त्रायताम् रक्षतु हे गुरुत्मन्। अत्र त्रायतामायतान्नः इति पाठान्तरम्। तदा आयतात् भयादिति व्याख्यान्ति। वस्तुतः आयतान् दीर्घान् संसारदैर्ध्यभाज इत्यर्थो युक्तः। मास्तु वा पदमिदम्। परं व्योम परमपदं धाम स्थानं यस्य तथाभूत! बलद्वेषिणः बलाख्यासुरशत्रोरिन्द्रस्य दर्पेण—-अङ्गुष्ठप्रमाणान् वालस्विल्यान् दृष्ट्वा दुर्बला इति दर्पमूलेन्द्रकृतपरिहासवाक्यश्रवणेन ज्वलतां कुपितानां वालखिल्यानां तदधिकबलेन गरुत्मता परिभवनीय इति संकल्पितवतामृषीणां प्रतिज्ञया अवतीर्ण लब्धावतार! तदनुरोधेनामृताहरणसमये परिभूतेन्द्र! त्वं दधीथाः। किं किम्। तदाह स्थिरांतत्त्ववुद्धिं तत्तत्तत्त्वयथावस्थिताकारबुद्धिस्थैर्यम्, परतत्त्वे जगतो मूलकन्दे प्रथमकारणे मुकुन्दे मोक्षप्रदे विष्णौ परां भक्तिधेनुं भक्त्याख्यां धेनुञ्च। धेनुः क्षीरं दोग्धिः, भक्तिश्च महानन्दं मोक्षं क्षीरम्। मुधाकामहीनाम्। ऐश्वर्यकैबल्ययोरल्पास्थिरत्वात् तद्विषयकः कामो मुधा। तादृशकामहीनाम्। अनिशिद्धकामविशिष्टाम्। अत्र अहीनामिति पदान्तरपाठः प्राचीनः। अन्यूनामित्यर्थः। अनेन षट्त्रिंशद्गणलाभात् पूर्वं आयता इति पाठो न कल्प्यः। हे अहीनान्तकेति पुनः संबुद्धिः। अहीनां सर्पाणाम् इनः नाथः तस्यान्तक-शत्रो। अहीनाश्च अनन्ताख्यनित्यसूरि व्यतिरिक्ताः। प्राकृताः कद्रूप्रसूताः॥ नतगृहं प्रति भगवदानयनं सुपर्णकार्यम्, शत्रुशमनं सुदर्शनकार्यम्। द्वयोर्भगवतीव विशेषतो गौरवं दर्शयन्ति पञ्चरात्रागमाः। तत्रेदानीं भक्तानुग्रहार्थं भगवदानेतृतयोपकर्ता सुपर्ण एव। सुदर्शनस्तु शत्रुशमनः सर्वपापहरसंकल्पतुल्यं भावनीय इति सुदर्शनेन सह सुपर्णमनुसंधत्ते 21. व्यक्ताविति। संनाहो भगवतः सुपर्णरूपेण मूर्तः संकल्पश्च सुदर्शनरूपेण। आगमग्रामे पञ्चरात्रबृन्दे। दिशः ऐन्द्र्यादयः विदिशः आग्नेय्यादयः। 22. यस्मिन् संकल्पे विस्मयनीयः समनन्तरक्षण एव सर्वदुस्साधकार्यसाधकत्वात् आश्चर्यविषयभूतः भूमा महिमा यस्य तस्मिन्। मनागुन्मीलिते ईषदाविर्भूते। प्रथमसंकल्प एव पर्याप्तः। कार्यविलम्बमूला तत्सिद्धिपर्यन्ता संकल्पानुवृत्तिरिति नास्ति। सितासितस्य सत्त्वरजोमिश्रस्य स्वर्गः फलम्। सितस्य सत्त्वमयस्यापवर्गः। असितस्य तमोमयस्य। आदिपदग्राह्यो नरकः। सोऽहम् ऐशः सर्वेश्वरश्रीपतिगुणः। मोक्षहेतुत्वं मुख्यमित तदाह अवासरेति। वासरत्वात्यये प्रतिदिनं भवन्ती यामिनी सर्वविदिता। इयं न वासरात्ययभवन्ती, तद्विलक्षणा स्वस्मात् पूर्वं कश्चिद्वासरावसर आसीदिति निर्देशानर्हा, अनादिरिति यावत्। तादृशी मायामहायामिनीसंसाररत्रिः तस्यां दीर्घकालेन सत्ताशेषं यथा तथा। आत्मनां नित्यत्वात् तदभावो न भवतीत्येतावदेव। तदनुरूपं कार्यं तु खल्पमपि नास्तीति भावः। सुषुप्तानां जीवानां बोधने वासरप्रापणे पटुः। सूर्योदये सति वासरप्राप्तेरावश्यकत्वात्। स च वासरः `सकुद्दिवाहैवास्मै भवति’इति श्रुत्या जातो नात्येति, सर्वदैवानुवर्तते। एतद्वासरकार्यस्यात्ययस्याभावादेव भवन्ती-वर्तमाना मायायामिनीति च अवासरात्ययभवदित्यस्यार्थो भवति। तदा वासरेणात्ययः तस्याभाबः अवासरात्ययः तेन भवन्तीति विग्रहः। अनघपरविद्या भगवत्प्राप्त्येकफला परभक्तिः। पारितोषिकं कार्यसौष्ठवमालक्ष्य परितोषेण क्रियमाणो बहुमानः। सकलगुणसेव्ययेत्यनेन शिक्षणार्थप्रवृत्तगुणानां रक्षणार्थामिमुख्यं दर्शितम्। उक्तं हि दयाशतके, “प्रतिघः कोऽपि वृषाचलेश्वरस्य। कलमे यवसापचायनीत्या करुणे किंकरतां तवोपयाति"इति। मयेत्यस्य परित्राणे निरसने चान्वयः, दुष्करमित्यत्र च। विरोधिनिरसरने स्वसामर्थ्यं पूर्वदर्शितं भुवि जले दिवि च स्मारयति 22. अहंहीति। चरन्मधुकैटभरहितान्, हिरण्याक्षाद्यविप्लुतां, दशाननादिघोषरहिताञ्चेत्यर्थः। अद्य कर्तव्यमाह अनिदमिति 24. अयं कालः प्रथमः यस्याः सा इदम्प्रथमाः, अतद्भूताम्। अनादिमिति यावत्। अपावर्त्य निवर्त्य। अयं कालः पश्चिमः एतदनन्तरो वा यस्याः सा इदम्पश्चिमाः, तद्भिन्नां जागराम् प्रबोधमविनाशिनं जनयिष्यामि। इदमाददीय इदं गृह्णीयाम्। इमं व्यापारं कुर्याम्। किं तत्? तदाह 25. मयीत्यादिना मोचयिष्यामीति। मयि विनिहितभारं संकल्परूपोपायमात्रप्रतीक्षम्। उपायानां नानाफलहेतूनां कर्मणाम् अपायानां पापकर्मणाञ्च रथ्यातः–वीथीतः निवृत्तम्। उपायापायसंत्यागिनम्। मध्यमे वृत्तिभेदे नित्यनैमित्तिककर्मानुष्ठानमात्रे सर्वसाधारणे कर्तव्ये स्थिरं मनो यस्य तं तत एव निखिलदोषरहितम्—प्रत्यवायपरिहार-पुण्यपापाभावयुक्तं जीवं मुरमथनस्य भगवतः समीक्षायाः कटाक्षस्य शेखरेण शिरोमृषणेन तत्पूर्वभाविना मदीयमहिम्ना मोचयिष्यामि उत्तरपूर्वाधाश्लेषविनाशयुक्तं करिष्यामि। इदमेवेदानीमादीयमानम्—-अनुष्ठास्यामानम्। इदं चिकीर्षुः स्वप्रतीक्षया विष्णुभक्त्या सह संलपितुं तामन्वेषयति क्वेति। साध्येति पाठे फलेत्यर्थः। महाभागा भाग्यशालिनी। विष्णुभक्तिमत्पुरुषगतानामाकाराणां तत्कृतत्वात् तामेव तैराकारैर्विशिनिष्ट 26. नियतेति। पुरुषद्वारा तस्यां सर्वसंबन्धः। नियतं यथातथा पुलकितानि सञ्जातरोमाञ्चानि अङ्गानि यस्याः, निर्मरं पूर्णमानन्दबाष्पं यस्याः, गलितः च्युतः सर्वः सङ्गो यस्याः, गद्गदभूता स्तोत्रगीतिः यस्याः, सात्विकत्वेन धवलत्वात्भोग्यत्वाच्चामृतवीचेरिव वर्णो यस्याः विगतनरकभीतिः। नस्कः सर्वः संसारः। ततो भयरहिता॥
क्वेति स्थलान्वेषणं हि कृतम्। रथमारुह्यात्रायातेति स्थलमेकं निर्दिशन् आह 27. नियतेति। रथेनाऽऽयान्तीं राज्ञीं पदातयः पूर्वं पश्चाच्च रक्षकतयोपसर्पेयुः। रथे चाश्वाः नियताः बद्धाः स्युः। अस्याश्व मनोरथ एव रथः। अक्षाणि इन्द्रयाणि अश्वाः, “इन्द्रियाणि हयान् आहुः"इति श्रुतेः। शमदमादयः पत्तयः पदातयः॥ अन्वेषकयतीत्यवगम्याह इयमहमस्मीति। उत्थापिताऽपि पुनःपुनः प्रणमति कारणं वदन्ती देवेति। महायोगेश्वरे भगवद्विषयकयोगेषु श्रेष्ठभूते तत्प्रेरिके। नामयतीति। नमश्शब्दार्थं वदता अहिर्बुध्न्येन, `प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन्। ततो वा नम उद्दिष्टं यत् तन्नामयति स्वयम्’इत्यर्थान्तरमुक्तम्। अभयप्रदः परः नमन् नतान् उत्थापयतीति परनामनं नम इति। तन्मनसिकृत्यैवमुक्तम्। संभाव्ये-संभाव्यमाना क्रियमाणबहुमतिरस्मि। 28. निधित्वादिना बहुप्रकारेण रूपयति 28. शमेति। संवित् धर्मभूतज्ञानम्, सैव लता तस्याः पूर्णफलम्। श्रुतं शास्त्रजन्यतत्त्वज्ञानम्, तस्य परिणामभूता। शुद्धेः स्थैर्यम्। सुखप्रति भूः सुखप्रतिनिधिः स्वयं भोग्यत्वात्। सुखस्यावश्यदात्रीति वा। भक्तेरुच्चनीच ज्ञानमूलकत्वात् जीवतच्छेषिपरमात्मोभयविषयकत्वाच्चाह परावरदीपिकेति। आत्मनः जीवस्य भक्तिरेवालङ्कारः। अन्येष्वलङ्कारेषु अलङ्कारः-अलम्बुद्धिरनया भवति। 29. परस्परकैङ्कर्यबुद्धिर्भागवतानां सहजेत्याशयेनाह त्वद्भ्रूविभ्रमकिङ्करः इति। तदभीष्टघटनमेव तत्किङ्करत्वम्। स्वातन्त्र्यकाष्ठेति। स्वतन्त्राः स्वेच्छया परतन्त्रत्वं वहन्ति। यथा स भगवान् अनन्याधीनस्सन् भवति परतन्त्रः प्रणमताम्। भवतैव भावनीयम्। पुरुषास्य साम्पतिकी अवस्था मदुक्तिं विना त्वयैव ज्ञातुं शक्यते, तस्या मया ज्ञापनं केवलं प्रहर्षपारवश्यात्, न पुनः अज्ञातज्ञापनबुद्ध्या। तामवस्थामाह प्रकृति इति 30. क्रियया कर्मयोगेन धिया ज्ञानयोगेन च प्रकृतः प्रक्रान्तः तदुभयानुष्ठानपूर्वकमनुष्ठीयमान इति यावत्। अनेन परमात्मस्वरूपविषयकत्वार्हता ज्ञाप्यते आत्मावलोकनात् प्राक् तदनुसंधानायोगात्। फलान्तरकविरक्तिमाह परमैकान्त्येति। एकोऽन्तो यस्य सः एकान्तः। प्राप्यस्य प्रापकस्य चैकतया ऐकान्त्यम्। अन्तः अवधिः। करणं पूर्वावधि कार्यमुत्तरावधिः। प्राप्यप्रापकयोर्भेदे अवधिद्वयं भवति। तदैक्ये अवध्यैक्यम्। एकस्मीन्नेव द्विविधावधित्वमपीति। इदमैकान्त्यं `तेषामेकान्तिनः श्रेष्ठः’इत्यादौ द्रष्टव्यम्। अत्र तु एक एवोपायो यस्य स एकान्तः। तदुपायत्वमपि उत्कृष्टफलमात्रे चेत्, परमैकाम्त्यम्। अन्तो निश्चय इत्यपि वर्णयेयुः। निधिदर्शनवत्। यथा निधिदर्शनस्य निरूढहर्षत्वं तथा, `तद्यथा हिरण्यनिधिमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयु, एवमहरहर्गच्छन्त्यः इमं ब्रह्मलोकम्’इत्युक्तरीत्या निधिभूतान्तर्यामिदर्शनरूपः परपकाशोऽपि निरूढहर्षः। दर्शनसमानाकारत्वं प्रीतिरूपापन्नत्वञ्च योगस्य संपन्नमित्युक्तं भवति। बाह्यस्य चेति। बाह्यो योगो नाम व्युत्थानानन्तरमपि भगवत्येव संबन्धः। तदा अन्यवैमुख्यदार्ढ्यर्थमन्यत् सर्वं परित्यज्य मन्त्रजपदर्थानुसंधानमात्रतृप्त इत्याह सिद्धे इति। अस्य पाण्डित्यं महत् स्थितमेव। श्रवणमननविलक्षणमपि पाण्डित्यं श्रुतम्, तस्मात् पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति। तत्र निर्विद्येत्यस्य प्राप्येत्यर्थः। तत् पाण्डित्यं योगप्रवृत्तानां तत्तद्विशेषविषयकौपदेशिकार्थाधिगमरूपम्। अत्र तु त्यागबुद्धिर्विवक्षिता। किं तत् कथञ्च तत् चतुर्विधमिति चेत्—-श्रवणादिज्ञानमेव श्रुतिस्मृतीतिहासपुराणजन्यत्वेन चतुर्धा निर्दिश्यत इति केचित्। तत्र हि कवित्वमदेति श्लोके ग्रन्थप्रणयनं वादकथाप्रवर्तनं पौराणिकादिगतकथावर्णनधोरणी शिष्याध्यापनमिति चतुष्टयं त्याज्यमुच्यते। लोकैषणादितो व्युत्थितस्य, `ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्पर……त्यजेद्ग्रन्थमशेषतः’इति न्यायपरिशुद्धिदर्शितरीतिजुषः एतच्चतुष्टयोपेक्षाया आवश्यकत्वात्। ज्ञानविज्ञानेति जीवात्मपरमात्मकसाक्षातकारग्रहणम्। द्विचतुष्कम् अष्टाक्षरम्। आदिना ष़डक्षर्यादिग्रहणम्। प्रशान्तैः परपक्षप्रतिक्षेपपररञ्जनादिकार्यानन्वयिभिः। विवेकं प्रशंसति अहो इति। अन्तर्लुठन् संसारे परिभ्रमन्। विष्णुभक्तिर्दर्पलेशमप्यप्राप्य तत्त्वमाह देवेति। भगवत एवेदं कार्यमित्युच्यते 32. स्वेति। प्रभुः भगवान् अपर्यन्तमहिमा अनवधिकमाहात्म्यः करुणापारवश्यात् रक्षति। करुणाया अतिशय उच्यते। स्वस्य जीवभोगापवर्गार्था या माया सैव शैलूषी नानावेषधारिणी। तया सह विहरणेन बहुषु स्थलेषु परिभ्रान्तो देहात्मभ्रान्तश्च तनुभृत् जीवः। तस्य परित्राणे मोक्षप्रापणे प्रवण करुणा। सा स्वयमेव नानाफलप्रदत्वात् प्रभुभूतं परमात्मानमविश्य स्वायत्तीकृत्य तापपतिक्षेपे प्रवृत्ता। ततः स प्रभुः स्वपदे नतिं भक्तिं वा प्रयत्तिं वा हिमानीं परिकल्प्य तापं शमयति। अधिकं तप्तस्य हिमसंहतिरतिशीघ्रं तापं शमयेत्। अहनि चण्डकिरणसंतप्तस्य रात्रौ हिमकरणः शैत्यापादकः। माघचन्द्रिकाया मान्यता च हिमाधिक्यात्। हिमवलात् फलदायिन्यश्च बह्व्य ओषधयः सन्ति। अतो हिमस्य जीर्णतापादकत्वमेवेति न मन्तव्यम्। विवेकोऽपि यथावत् भक्तिमूलक एव, भक्त्या शास्त्राद्वेद्मि जनार्दनम् इत्युक्तेः। विवेकभुवा विष्णुभक्त्यैव फलमिति किल भवता विवेकं विसृज्य मम प्रशंसा प्रकान्ता, अथवा भवत्या एवायं प्रभाव इति। विष्णुभक्तेर्ममाप्युत्तरं भगवत्प्रसतिदयाद्यपेक्षणात् प्राधान्यं न मयि। दयादीनामपि गुणत्वात् अन्ततो भगवत्येव प्राधान्यविश्रम इत्याह ततश्चेति। 33. भगवानेवोपायत्वेनोपनिषदधीतः “अमृतस्यैव सेतुः"इति। उपायत्वञ्च संकल्परूपत्वदाश्रयत्वेन। तच्च प्रसत्त्या। प्रसत्तेः कारणं प्रपतिर्वा ध्यानं वा। परम्परया तयोर्हेतुत्वम्। प्राथमिकस्य प्राधान्यविवक्षायामपि भक्तिप्रपत्त्योः प्राधान्यं न भवति, तदर्थं महासुकृतपरिपाकापेक्षणात्। एतावता अन्ते अपेक्षितस्य भगवत एव प्राधान्यं कथमिति चेत्—-नैवम्, आरम्भप्रभृति अवसानपर्यन्त मेकैकदशायामपि तस्यैव हेतुत्वात् तदाह निदानं तत्रापि स्वयमखिलनिर्माणनिपुण इति। अज्ञातसुकृतादिव्यवस्थापनं तत्परिगणनं समये तत्फलपदानमुत्तरोत्तरमुन्नयनञ्च तदयत्तमिति तस्यैव प्राधान्यम्। अन्तिमप्रत्ययोत्पत्तिरपि तदधीनैव, तदातनप्रतिबन्धकवर्गपर्यालोचने प्रणिधानस्याकप्रसक्तेरित्याशयेनान्तिमदशां प्रपञ्चयति ग्रस्त 34. इति। वातपित्तश्लेष्मणां प्रकोपात् भवत् बाधकं यथाममुक्तम्। ममकारास्पदवस्तुत्यागशंकया विलापः परिदेवनम्। हृषीके इन्द्रियेऽन्यस्मिन् कान्दिशीके भयद्रुते, जीवितांशे प्राणवायौ अवशिष्टे जंघाले शीघ्रमरणापादनाय श्वासाधिक्येन निर्गच्छति, बले कथञ्चिन्मनसोऽवस्थापनार्थे जिगभिषति अपसरणोन्मुखे सति, एवं स्वकरणकलेबरादौ स्वयमस्वाधीने सति, उद्भ्रान्तबन्धुम् स्वस्वलामहान्या बन्धुषु भ्रान्तेषु इतस्ततो भ्रमत्सु च म्रियमाणक्षेमसद्गत्यनुकूलोपदेशकर्तृपुरुषदुर्भिक्षे च सति ईदृशदुर्बन्धुकविशिष्टमेनं सर्वबन्धुः स चक्रपाणिरेव रक्षितुं समर्थः। तस्य सुदर्शनचक्रं संकल्पात्मकं तद्विषयकसम्यग्दर्शनमुत्पाद्य नयेत्। दयादत्तदृष्टिः दयया स्वदृष्ट्या पश्यन्, तथा दयया स्वविषयकदृष्टिं ददानः। कतदीययैव दयया सर्वेषामन्तमप्रत्ययः। केषाञ्चित् योगिनां चित्तनिरोधमपि यथार्हमुत्पाद्य, अन्येषां तु तद् विनैवेति विशेषः। अतस्तदन्यो न कश्चित् क्षमते शक्नोति। अथ दयादत्तदृष्टिरित्येतद् विवृणोति संवेद्मीति। 35. कालेति। स्वयं दृष्ट्वा स्वविषयां दृष्टिमपि ततः परमनश्यन्तीं ददातीत्यर्थः। दुरितादीत्यादिपदेन सुकृतग्रहणम्। तत्संपर्कस्यापि मोक्षबाधकत्वात् तद्दूरापनयनमपि विवक्षितम्। सुप्तोऽपि—-अन्त्यकाले स्वयमवशकरणोऽपि। स्वापमध्ये शरीरवियोगप्रसक्तावपीत्यर्थो वा। जागरं परमपुरुषप्रबोधम्। तदुपयोगित्वं मनसस्तदाऽस्ति। न तावन्मात्रम्। उपरि तदनुवृत्तिमनोरथोऽपि निष्प्रतिघातः प्रवहतीत्याह स्वान्तनेत्यादिना। चातकव्रतीनम्। चातको यथा चन्द्रिकासुधामात्रव्रती तथाऽयं त्वदनुग्रहमात्रप्रतीक्ष इति। विरोधिनामप्यविरोधित्वभारं भगवति निक्षिप्य सर्वत्र हितत्वभावनः पुरुष इति अनुग्रह्यत्वहेतुमाह कलत्रेति। 36. इदं कलत्रम्, अयं सुत इत्यादिकल्पनाभिः बर्बरैः विषमैः। चित्रैरिति वा। अधिकरणसारावलौ 3.3.2 बर्बरं निर्ब्रवीति इति प्रयोगः। अहितशृङ्खलैः विरोधिभूतैर्बन्धकैः। उपस्थितमुपस्थितम् लोकदृष्ट्या अनुकूलमिव प्रतिकूलमपि। हितमुद्वीक्षते-हितमेव करोति भगवानिति हितत्वेनैव मन्यते॥ अत्यद्भुतप्रेक्षणीयमिति भक्त्युक्तमनुसृत्य संकल्प आह प्रत्यक्षयामीति। 37. दुरितेति। सुखस्येह दुःखमूलत्वदुःखोदर्कत्वाभ्यामुभयतोदुखतया उभयतोजलद्वीपतुल्यत्वम्। मध्ये तत्संकराच्च। त्वं तादृशस्पृहारहिता पुरुषविषये गौरवपुरस्कारेण यत् ब्रूषे, अस्मीन् मयाऽपि दुर्भधे मम किमुत्तरमस्ति। क्रिया परं त्वदुक्तरीत्या करणमेवोत्तरम्। त्वदुक्तस्य हिततमत्वात्। तदपि तथापि नः प्रत्युक्तम् अस्मत्प्रतिवचनं किमपि समनन्तरक्रियमाणं तव प्रतीक्षणमर्हति त्वया श्रोतव्यम्। तदेवाह यदीति। मनुष्यलोक इव अधिकदुःखमिश्रत्वाभाव त्सुखातिशयाच्चाऽऽमुष्मिकसत्यलोकादिमहाफलबुभुक्षा संभाव्यते चेत्—-तदुपरोधे संचितकर्मविनाशकरणमयुक्तं किलेति संकल्पस्य चिन्ता। अनेन किञ्चिदेवं परिशील्य संकल्पः क्रियते, न तु साक्षात्कारप्रारम्भ एवेति ज्ञायते। मामेति द्विरुक्तिरत्यन्तनिषेधाय। मम सत्यभाषित्वाच्च मैवम्, तव सर्वद्रष्टृत्वाच्च मैवमिति। ब्राह्मपदेऽप्यस्य विरक्तिः तद्दोषसम्यग्विमर्शादित्याह अपीति 38.। भगवन्नाभिपद्ममेवास्य योनिः उत्पत्तिस्थानम्। ईदृशमहिमापि तत्रैव कमलदले जलबिन्दुभूताभ्यां महासुरूपेणाविर्भूय सर्वधनापहारो द्वाभ्यां कृतः। सेयमारम्भ एवानुभूता दुखस्था। अथ मध्ये मध्येऽनुभूयमानानां संख्यैव नास्ति। अतस्तत्रेण दृष्टदोषनिवहोऽयं पुरुष इति। नाकनरकेषु नाकनाम्ना-खर्गनाम्ना अकं दुःखमत्र नास्तीति नाममात्रेण स्थितेषु वस्तुतो नरकभूतेषु। `एते वै निरयास्तात स्थानस्य परमात्मनः’इत्युक्तेः। तत्र दोषदर्शनादिव प्रकृते गुणदर्शनादपि तदुपेक्षेत्याह अमृतेति 39. कृष्णः मेघः अमृतं-जलं वर्षति। मेघतुल्यः कश्चित् एक एव कृष्णश्चामृतं मोक्षमहानन्दम्। अस्य च द्विजस्य त्रैवर्णिकस्य कस्यचित् पक्षिणः-चातकस्य उदन्या पिपास महती। अथापि न वेशन्तं पश्येत्, नाप्युदन्वन्तम्। पल्वले नैर्मल्याभावात्, समुद्रस्य च लवणत्वात् अपेक्षितामृतप्राप्तेस्तत्राभावात्। अस्य तु अमृतपिपासैवास्ति नान्यविषया। निस्त्रुटितनिगलयुगलः। पुण्यपापद्वयरूपशृंखलद्वयत्रुटनं युक्तम्। पापमात्रविनाशसंकल्प इति तु मा भूत्। सूत्रकारोऽपि उत्तरूपर्वाधयोरश्लोषविनाशाविति प्रथममुक्त्वा इतरस्यापीति सूत्रान्तरं प्रणयन्, पुण्यविशेषफलबुभुक्षायाः संभावितत्वात् तदविनाशने कथं मोक्ष इति न शंक्यम्, तस्याप्यनिष्टत्वादिति व्युत्पादयन् तदंशविमर्शानन्तरं संकल्पप्रादुर्भावं सूचयति। निस्त्रुटितं निष्कासितं पुण्यपापरूपं निगलयुगलं शृङ्खलद्वयं यस्य तादृशः कर्तव्य इति। अभिनिर्वर्तिताभिगमनविधिः अभिगमनकार्यं समाप्य, अष्टपुष्पीम् “अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः। सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः। ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं विशेषतः। सत्यमष्टविधं कपुष्पं विष्णोः प्रीतिकरं भवेत्"इत्युक्तामेव। बाह्यपुष्पार्जनस्यावकाशाभावादनपेक्षितत्वाच्च। अन्याराधनान्यध्यानाप्रवृत्तम् आसन्नः समीपे स्थितो यो मुक्तिलाभः तद्विषयकनिश्चयेन उत्पादितः अमन्द आनन्दो यस्य तं मानयितुं त्वदेकान्तिना त्वयैव कार्यं साध्यमिति विस्रम्भं वहता विवेकेन सह आगमिष्यामि। अनवधिकमाहात्म्येति। सूत्रितं हि अनाविष्कुर्वन् अन्वयादिति। एदद्गोपनमेव बाल्येन तिष्ठासेदित्युक्तं बाल्यम्। न तु विहिकर्माननुष्ठानादि। समाधिप्रारम्भेत्यनेन अस्य समाध्युपक्रमप्रथमदिनत्वाभावेऽपि तत्तद्विद्यार्थविहितयावद्गुण-स्थानादिविशिष्टविषयकदर्शनधारानिष्पत्तिपर्यन्तमारम्भावस्थत्वमेवेति ज्ञाप्यते। पुलकितगात्रेण विडम्बितौ अनुकृतौ कदम्बगोलः गोलाकारकदम्बवृक्षः कमलनालश्चेत्युभौ येन सः। 40. रसाम्तराणां सर्वथैवानवकाशेन शान्तिरस एवायं मूर्त इवेति चित्रीयते अहो….शृङ्गरेति। अतिवर्तमानः तादृशविषयज्ञानप्रसक्तिरहितः। शान्तिरसविभावान् प्रदर्श्य तमर्थं स्थापयति 41. अङ्गनीति। अन्तर्मुखम् अन्तर्यामिविषयकम्। मायासारथिना, सारथिर्भविष्यामीति कपटवेषेण। वस्तुगत्या आचार्यो भूत्वा गहनमुपनिपदर्थं सर्वं रगीतिमधुरेण वाङ्मयेन हृषीकेशः प्रहसन्नेवाब्रवीत्। तेन गीतया उपनिषदा उपनिद्रूपगीतया गीतयोपनिषद्भिश्च संग्रहेण विस्तरेण च, `अग्निर्ज्योतिरहः शुक्लः’इति, “अर्चिषमेव तेऽभिसंभवन्ति, अर्चिषोऽहः"इत्यादिभिश्च दृष्टक्रमम् आतिबाहिकैः द्वादशभिनींयमानं वैकुण्ठनगरघण्टापथम्। “सोऽध्वनः पारकमाप्नोति तद् विष्णोः परमं पदम्"इत्युक्तं मनोरथेन याति। भूतसूक्ष्मरूपशिरीरेण तु विलम्बेन यास्यति। प्रथमसंकल्पस्यापि इतः परमेव भावित्वात्। सर्वेति क्षेत्रादावन्वेति। सारसमाहारः सारसंमेलनमेकत्रास्मिन् पुरुषे। “तत्रैव गङ्गा यमुना च तत्र गोदावरी सिन्धुसरस्वती च। सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसंग)“इत्यादि स्मर्यते। अकालक्षेपेण कालहरणं विना शीघ्रमेव। साक्षात्पुरुषसमाचारदर्शनेन संतोषमनुभवितुमाशया निकटभगत्वा अन्तर्हितः पश्यामीत्याह अथवेति।
श्रद्धया पुरुषस्यात्र संलापः। अतः अश्रद्धाप्रसंगतन्निवृत्तिविशयकः स भवति। निरन्तरः विच्छेदरहितः दुरन्तः दुःखोदर्कत्वात् दुष्टोत्तरावधिः दुरितकान्तारः पापारण्यम् तत्राप्रतिहतं वेगेन गच्छामीति आश्चार्यभूता मे शक्तिः। जटिला व्याप्ता। अनन्ता संसारस्यानादित्वात् असंख्याका अतिक्रान्ता। पुनर्भवाः पुनर्जन्मानि। कर्मसञ्चयैरिति। अनेन सञ्चितसर्वकर्मनिवृत्तीच्छा सूच्यते। प्रबलेत्यादिना इतः परं तादृशकर्माप्रसक्तिर्ज्ञाप्यते। परप्राप्तिविरहादिति। प्रतिबन्धककर्मनिवृत्तावेव हि सा। 42. देहतदुनबन्धि चेतनाचेतनरूपार्थानां चिरपरिचितत्वात् तदर्था चिन्ता सर्वदाऽनुर्तते, जडभरतस्य मृगविषय इव। नियतिं पूर्वविधिम्। डोलायितात्मा चञ्चलमनाः इतस्ततः सञ्चरणशीलमनाः। खद्योतः कीटविशेषः। सूर्यग्रहणे, मोहादिनिवृत्त्या सर्वप्रकाशकादित्यवत् भवितुमर्होऽपि प्रतिबन्धकानिवृत्त्या दक्षिणायनसूर्यवत् मन्दप्रकाशोऽस्मीति विवक्षितम्। दिवसानि। “क्लीबे दिवसवासरौ”। भोगमोक्षान्तरालस्थितत्वात् मन्दप्रकाशोऽस्मीत्याह न मुक्त इति। यथा पश्चात् मुक्तो भवितास्मि, तथेदानीं न मुक्तः, यथा पुरा पुष्यपापानवरतकरणात् बन्धविवर्धनेन बद्धोऽभूवम्, न तथेदानीं बद्ध इत्यन्वयार्थः। कृपणः सत्यकामत्वसत्यसंकल्पत्वाद्याविर्भावरहितः किं करिष्यामि-पनोरथविषयानुभवकैं कथं कुर्याम्। किं न करिष्यामि-भक्तिवृद्ध्यर्थत्वचिन्तया कतिपयकाम्यकर्माप्यकुर्वन् कथं स्याम्। तदभावे भक्तिभंगः स्यादिति भीतिसत्त्वात्। स्वयमिति। यदि किञ्चिदुचितमनुतिष्ठामि। तदपि न स्वतन्त्रतया। यदि अनुचितं न करिष्यामि, तदपि न स्वतन्त्रतयेत्यर्थः। यद्वाऽयमर्थः—-कृपणत्वादहं किं करिष्यामि। अथवा स्वयं न करिष्यामि। परमात्मा तु युक्तं कारियिष्यतीत्यर्थः। पक्षान्तरं परिगृह्याह अस्ति वेति। वाकारः पक्षान्तरप्रदर्शीं। एतावत् अधैर्येण विषादेन किमपि व्याहृतम्। इदानीं साम्प्रतिकीं स्थितिं विमृश्य धैर्यावष्टम्भेन वक्तुमारम्भः। तस्मात् वाकारः। अयं वाकारः प्रभुरेकः प्रमाणमित्येतावन्मात्रान्वयी न, किन्तु प्रतिबुद्धोऽस्मीत्याद्युपरितनवाक्यसंबद्धोऽपि 44. अमतीति। अमतिविहितैरित्यस्याबुद्धिपूर्वकैरित्यर्थेऽपि बिद्धिपूर्वकपापव्यतिरिक्तैरिति नार्थः। बुद्धिपूर्वकपापयुक्तत्वस्येव अबुद्धिपूर्वकपापरहितत्वस्यात्र विभज्य कथने औचित्याद्यभावात्। अतः सर्वाण्यपि पापानि क्रियमाणानि भाव्यनर्थचिन्तां विना सहसाक्रियमाणत्वादमतिविहितानि भवन्तीति तैः अमत्या विहितैः पापस्तोमैरुज्झितोऽस्मि। पापं न कर्तव्यमिति मतिसद्भावादिदानीं पापं किमपि न करोमीत्यर्थः। अनुकूलसंपत्तिमाह शमितेति। परिहृतेति। व्यर्थं कालहरणं त्यक्तवान्। दोषानुवृत्तिमेव निरूपयति 45. सकृदपीति। सकृद्विनतानामपि निरन्तरानुवृत्तं भक्तियोगं विना प्रपत्तिमात्रपराणामपि। अन्यादृशप्रणामादियुक्तानामपीति स्तुतिर्वा। सर्वदे सर्वफलप्रदे, सर्वदेहिनि सर्वान्तर्यामिणि भागधेये स्वयमपि फलभूते परमात्मनि विधेये सति अस्मदभीष्टानुसारीणि सत्यपि नानाविषयचिन्ताव्याप्ता मे दुराशा अप्राप्तविषयकाङ्क्षा कदाचिदपि न विरमतीत्यन्वयः। मोहतो हा हतोऽहमिति पृथग्वाक्यम्। बालिशबुद्धिः ग्राह्यंशाग्राहिमतिः। तरलस्वभावया प्रतिवक्तुमशक्येऽपि प्रवर्तमानया। सूनृतवादिनीति तस्याः सत्यवादित्वोक्त्या तदुक्तमंगीकृतमिति दर्शितम्। अनागतः भविष्यन्। भूतवर्तमानभिन्न इत्यर्थः। निरर्थकेति। न हि चिन्तामात्रेण भविष्यन्निवृत्तेरवकाशोऽस्ति,येन चिन्ता सफला स्यात्। अच्छिद्रं प्रतिदिनं यत् परविषयकं भजनम्, तद्योगिना तत्संबन्धिना, भजनसिद्ध्यर्थमिति यावत्। एतावत्पर्यन्तं लब्धाच्छिद्रपरभजनेनेति वाऽर्थः। 46. मृत्युरिति। “गृहीत इव केशेषु मृत्युना धर्ममाचरेत्"इति हि स्मर्यते। उपस्थितमृत्युपरिहारप्रवृत्तस्य यावान् संरम्भः, तावान् मृत्युविलम्बे सत्यपि कर्तव्यः। अस्मिन् दिने मृत्युर्भवतीति मतौ यथा वा अन्तिमप्रत्ययरक्षणार्थं तदर्थे तीव्रः प्रयत्नः क्रियते, तथा प्रतिदिनमपि ध्यानैकान्त्यमावश्यकमिति भावः। अनिर्धारितमृत्युनेति। जातकशोधकनेन दीर्घकालजीवनावधारणेऽपि सूक्ष्मत्वात् गणनप्रक्रियायाः तत्र निश्चयं विना प्रतिक्षणसंभावितमृत्युनैव भाव्यमिति भावः। मृत्युर्यदा कदाऽपि भवतु, मोक्षो ध्रवः, भक्तेर्निष्पन्नत्वादित्याह श्रद्धा एवमपीति। इति यस्येति वाक्यं छान्दोग्ये शण्डिल्यविद्यायाम्। इति एवं परमात्मानमहमितः प्रेत्य अभिसंभवितास्मि प्राप्स्यामीत्येवं यस्योपासकस्य अद्धा मनसि निश्चयः स्यात्, तस्य मोक्षप्राप्तौ न विचिकित्साऽस्ति न संदेहः। तथाच श्रद्धातव्यमित्युक्तं भवति। `यस्य यावांश्च विश्वासः तस्य सिद्धिश्च तावती’इति। एवं श्रद्धया सल्लापेन लब्धश्रद्धातिशय उपरिकर्तव्यमाह तदिति। साभिलाषमिव प्राप्तव्यार्थविषयकाभिलाषयुक्तमिति स्थितिक्रियाविशेषणम्। नाद्यापीत्यस्य 47. श्लोके सुखयतीत्यत्रान्वयः। श्रीमद्रहस्यत्रयसारे तु नाद्यापीत्येतन्निरपेक्षमेव वाक्यपूर्तिः। एतावत्पर्यन्तं वृत्तमाह पितृपथेति। धूमादिमार्गः स्वर्गाद्यानुष्मिकप्राकृतपुरुषार्थप्रापक एव पितृपथ इत्युच्यते, तत्र मध्ये पितॄणां घटकत्वात्। स एव घटीयन्त्रम् तेन स्वार्गादिकं प्रति आरोहः, जीवने व्ययिते तल्लाभाय पुनरत्र लोके अवरोहः। एतदारोहावरोहौ मिलितौ घट्या इव भ्रमणं भवतः। तथा आरूढस्थले अवरूपढस्थले च इतस्ततो नानापरिभ्रमाश्च। सुखार्थगतिरुक्ता, दुःखार्थगतिरप्युच्यते निरयेति। यातम्—-गमनम्, आयातम् आगमनम्। निरन्तरैः अविच्छिन्नैरिति विशेष्यद्वयमेलनेन। अधिगतपरिश्रान्तीनित्यत्र तन्निवृत्त्यर्थानुष्ठितोपायानित्यर्थसिद्धम्। आज्ञाधरैः भृत्यैः अग्न्यादिभिः आतिवाहिकैः। तम्मुखेनेति यावत्। अतिवाह्य गन्तव्यदेशं ततं मध्येमार्गं नीत्वा हरिचन्दनः तप्तानां शीतचन्दनवदतिभोग्यो हरिरेव हरिचन्दनाख्यः कल्पवृक्षः नः सुखयति, वृक्षत्वात् छायादानेन। `इति संसार दुःखार्ततापतापितचेतसाम्। विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं भवत्’इति चोच्यते। नाद्यापीत्यनेन दर्शितां त्वरामालक्ष्य संतुष्ट आह अवधारितेति। अवधारितो मया स्वभावो यस्य सः। तदेव विशदयति मिथ्येति। 48. मिथ्यादृष्टिः देहात्मभ्रमादिः। तेषां विवेकमुषितत्वादेव तदस्पृष्टत्वं बुद्धेः। ऐश्वर्यकैवल्यविषयवरिक्तिमाह प्रतिबुद्धेति। प्रतिबुद्धाः विशिष्य बुद्धाः दोषाः येषु चिदचिद्भोगेषु कैवल्यैश्वर्येषु तद्वइषयस्पृहारूपात् कर्दमात् जम्बालादुत्तीर्य। तत्र प्रविष्टपादस्योत्तरणं सुदुष्करमिति भावः। ध्यानस्य मोक्षोद्देश्यकत्वमाह निध्यानेति। अद्य प्रत्यवपत्तुम् इदानीमेव लब्धुम्। मोक्ष्यामीति, मोचित इति संकल्पद्वयविलम्बं न सहत इव। अकूपारः समुद्रः॥ `भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’इत्युक्तरीत्या दृष्टपरावरत्वात् हृदयग्रन्थिच्छेदादेः सिद्धतया कर्मक्षयोऽपि कर्तव्य एवेति निश्चिनोति॥ विषयान्तरवैराग्यं प्रागुक्तं तथाऽभिवृद्धम्, यथा परेषु तद्रागदर्शनमप्यस्यासह्यं भवतीत्याह प्रगुणेति 49. प्रगुणा ऋज्वी वृत्तिर्यस्य, परमात्मनि रक्तत्वात्। अपथ्यपराङ्मुखः विरक्तोऽपरमात्मनि। परगतैरपि व्यसनग्रहैरिति। विषयान्तरसंगरूपैर्व्यसनैरेव ग्रहैः पिशाचैर्गृहीतान् परान् दृष्ट्वापि अपत्रपते। यानि परगतानि व्यसनानि दृष्ट्वा कृपणाः तत्र लुब्धा अन्ये, अहो अस्माकमिमानि दुर्लभान्यासन्निति व्यसने मज्जन्ति, तादृशैरित्याह कृपणचित्तहरैरिति। निरूपप्लवः परगतभोगदर्शनेन स्वयं भोगबुभुक्षा केषाञ्चिद्भवति, तदुपयोगिवासनारहित इत्यर्थः। फलान्तरमुद्दिश्य कर्मणा योगेन तपसा च भगवदाराधका बहवः सन्ति। तेषां भगवदितरविषयवृत्तकर्म्याद्यपेक्षया श्रेयस्त्वेऽपि परमैकान्तिनो मुमुक्षोरस्य स्थितं वैशिष्ट्यं न भवतीत्याह कतिकतीति। अतीव बहव इत्यर्थः। तदेवाह 50. कम्पन्त इति। यमकिङ्करा इत्यत्र यमस्यापि कम्पनं विवक्षितम्। अतः कालपदं कालभिमानिदेवतान्तरपरम्। शंकन्त इति। अस्य सर्वविरक्तत्वेऽपि तेषां तेषु पदेषु विद्यमानास्थातिशयः, नायमत्र प्रवर्तेतेति प्रायिकनिश्चयेऽपि कदाचित् शंकां जनयतीति भावः। एतदाक्रमणहेतुना पदभ्रंशासंभवेपि ब्रह्मविदपचाररूपहेतुना यदि भवेत, किं कार्यमिति बिभ्यतीत्यर्थो वा। प्रत्यर्पितस्वात्मन इति षष्ठ्याः दूरत इत्यत्रान्वयः। अपचारशंकया भीतानां स्थितिरुक्ता, अनपराधिनामेतत्संनिकर्षात् विशेषं दर्शयति यत्रापीति। तदानुकूल्यमनेन ध्यातं भवतु, मा वा, संनिधिमात्रेण फलसिद्धिरिति भावेन यत्रापीति देशोक्तिः। `यत्राष्टाक्षरसंसिद्धो महाभागो महीयते। न तत्र संचरिष्यन्ति व्याधिदुर्भिक्षतस्कराः’इति वचनमनुसंहितमत्र। सिद्धाश्रमप्रतिनिधाविति। तत्र स्थतौ कार्यसिद्धिर्भवतीति श्रीवामनसिद्धाश्रममहिमा श्रीमति रामायणे प्रसिद्धः। व्याधिः शारीरः,आधिर्मानसः। तदुभयाभावोक्तिः चौर्यदुर्भिक्षाभावोपलक्षणम्। व्याधिदुर्भिक्षतस्करा इत्यनेन रागद्वेषादि—ज्ञानसंकोच—अहङ्कारादिग्रहणमित्युक्तं श्रीमति। रहस्यत्रयसारे (मू.अ.)। एवं शीघ्रसमाधिनिष्पत्तेः कारणमन्यदपि पुरुषे पश्यन् प्रमोदते अहो इति। 52. नाथे इति। तृणम् ऐहिकं फलम्, अन्यत् स्वर्गादि, अन्यत् प्राकृतभगवल्लोकवासादि। अपीति कैवल्यदर्शि। वा इति मोक्षदर्शि। इदं किमपि न भगवति याचामहे। यद्यपि स नाथः नाथनार्हः स्वामी। स एव च सर्वप्रदः-अथापि न याचामहे तथाकरणे वाचो महिमहानिरित्याशयेन। तन्महिमानं दर्शयति। तन्नाभीति। भगवन्नाभिरेव नालिकीनी सरसी। अथवा नाभेरुपरि सुदीर्घप्रसृता पद्मलता। तदन्ते भ्राजमानं नालीकं पद्म्। तस्य सौरभमस्माकं वाचि। अप्राकृतसर्वगन्धनाभीसंभूतगन्धसमाहारात्मकवल्लीगतपद्मगतदिव्यगन्धवत् सर्वमान्यत्वं वाचः। अथवा तेन नालीकेनापि स्पृहणीयं तत्रापि दुर्लभं सौरभमत्र। तस्य प्रजासृष्टिप्रवण-नानाप्रार्थनपर-राजसचजतुर्मुखोत्पादकस्य कथमेतत्सात्त्विकतमवाक्सौरभसंपत्तेरवकाशः। किं तर्हि अपेक्षितमित्यत्राह शुद्धानामिति। सात्त्विकतमानां स्थिरधियां प्राप्यत्वं पद्मापतेरेवेति धीस्यैर्यवताम् शुद्धान्तसिद्धान्तिनाम्, अन्तःपुरस्त्रीणां सिद्धान्तः परपुरुषानिरीक्षणं पात्व्रित्यमित्यादिः। तद्भाजां देवतान्तराराधनादिरहितानाम्, तद्वतां देवीवत् आश्रितानुग्रहैकपराणां प्रसत्तिं प्रसादं लभेमहि। भगवद्भागवतनिरन्तरपरिचर्यया निरपराधया तदनुग्रह एवापेक्षितः। ननु शरीरस्यानित्यत्वात् पश्चात्तननित्यक्षेमोपायः कश्चिदनुष्ठेयः किलेत्यत्राह मुक्तेति। यदस्माकमावश्यकं मुक्तैश्वर्यं तदेव दिनं पश्चाद्रात्रिशून्यम्। तस्य प्रभातसमयः निष्पन्नोपायत्वदशा। तदासत्तः तत्संनिधिरूपैवेयं प्रसत्तिः तत्प्रसादेऽस्मदपेक्षिते त एव प्रसन्नाः उपायमुपदेक्ष्यन्ति, अस्मदर्थमुपायमनुष्ठास्यन्ति वा। यत्र तेषामधिकः प्रसादो भवेत्, तत् आदरणीयं भविष्यति। भक्तियोगाधिकारित्वे हि साक्षादेवोपायोऽनुष्ठेय इति निर्बन्धः। वयं तु तदनधिकारिणः प्रपत्तिलम्भनीयमोक्षाः तादृशभागवत कृपयैव प्रपत्त्यैव समीहितसिद्धौ किमिति भगवन्तं याचेम। ये नाथवन्तो हि भवन्ति लोके ते नात्मकार्याणि समारमन्ते इति भावः॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्। भगवत्संगिसंगस्य किमुतान्या इहाशिषः इत्यप्यनुसंधेयम्। अत इदं नाथे नाथे मह्यपि। अतिगाढसमाधीति। समाधेरतिगाढत्वम् अनुस्यूतप्रवाहत्वम्, `अधराहित चारुवंशजालाः’इत्युक्तरीत्या ज्ञानज्ञेयभेद्राग्राहित्वञ्च। भगवतेति पाठे अविभक्तमित्यत्रान्वयः। भगवति युक्तमिव स्थितमिति पाठोऽप्यस्तीति ज्ञायते। तदा भगवति, `इप्रमत्तेन वद्धव्यं शरवत् तन्मयो भवेत्’इत्युक्तरीत्या लक्ष्ये संप्रयुक्तं शरमिव स्थितमित्यर्थः। अनन्ययोगिनम् स्वानुष्ठीयमानभक्तियोगविषयीकर्तव्यगुणाविग्रहादिव्यतिरिक्ताः अन्यशब्दवाच्यः, अवश्योपास्वयावदंशभिन्नविषयकयोगरहितम्। अनन्यं प्रयोजनान्तरानपैक्षम्। आश्चर्या चर्या अनुष्ठानं यस्य स आश्चर्यचर्यः। दास्यप्रियः दास्यं प्रियं यस्य सः। प्रियपदार्थस्य विशेष्यत्वविवक्षया तस्योत्तरपदत्वम्। अवधारणाभावः उभयकोटिकसंदेहमात्रात्, न तु विलक्षणं वैशेषिकसंमतमनवधारणज्ञानमिति दर्शयति आद्य इति। परमपदस्थितपर्यङ्कस्य श्रीमच्छेषभोगस्य परिष्कारभूतं परवासुदेवरूपं यत् ब्रह्म तस्य सेवा तदनुभवपरिवाहभूता। अनुभव एव भक्तिपरिपाकसंपदित्युक्तः। कृपणेति। फलप्रेप्सामूलत्वरया शोकाविष्टेत्यर्थः। चिरप्रार्थितं दर्शनं येन तमिंति वा, यस्य तमिति वा। 54. कच्चिदिति अप्यर्थकम्, प्रश्ने। विप्लनः अन्यत्र प्रसक्तिः। प्रसन्नं मनः-उपायनिष्पत्तिक्लेशरहितं सश्रद्धञ्च मन इत्यर्थः। अनिदंप्रथमसंपदा। इदम्पदं किञ्चित्कालविशेषपरम्। किञ्चित्कालविशेषप्रथमकत्वं सादित्वम्। अनिदम्प्रथमा अनादिः संपत् भगवत्संबन्धो यस्याः सा, निर्हेतुका तया। संदिग्धे संदेहवान् भवति। 55. यस्य संकल्पस्य। संकल्पस्य विलास एवाऽऽज्ञात्वेनाध्यवसीयते। विबुधेन्द्राणां मौलयः। किरीटादयः वलभ्यः गृहगतकपोतपालिकाः। तत्रत्यापारावती कपोती। विधिशिवयोरासिकेत्यन्वयः। कुत्राऽऽसिकेत्यात्राह स्वस्थानेति तत्तत्स्थानं सत्यलोककैलासगतसिंहासनम्। तत्र सुस्था निरूपद्रवा आसिका उपवेशः। ब्रह्मस्तम्बशब्दः प्रपञ्चार्थकः। कस्मिन् किं न जाघटिति—-यत्र यद्घटनमावश्यकं तत् अतिशयेन घटत एव नचेति। न जाघट्यते इत्यस्य न जाघटीति=विघटते इत्यर्थः। कस्मिंश्च किं न विघटते—-यत्र विघटनमावश्यकं तत् अतिशयेन विघटत एवेत्यर्थः। घटनविषयको वा विघटनविषयको वा सर्वः संकल्पोऽवश्यं सम्यक् फलतीत्यर्थः। नचेत्यादेरेवमर्थं वर्णयन्ति-न न जाघट्यते इत्यस्य घटत इत्यर्थः। `तव हेतुत्वामावे’इति शेषपूरणं कार्यम्। तव हेतुत्वाभावे कस्मिन् किं फलं घटत इत्यर्थ इति। क्लिष्टमिदम् अध्याहारात्। पुररुक्तिश्च। कृतमुखसंमुखी कृतमुखेषु ज्ञानिषु पण्डितेषु अभिमुखा 56. निरूढनिगमत्रये वेदत्रयमपि यस्मिन् निरूढम् अविचाल्यं स्थितम्, लब्धनिर्वाहमिति वा। वेदत्रयं प्रसिद्धम्, भेदाभेदघटकश्रुतिरूपं वा। चिन्तामणौ सर्वफलभदे। प्रसत्तिं प्रसादमधिगम्य प्रणिदधानं समाधियुक्तं मनः आस्पदं यस्य तथाभूते रमामहीभ्यां सह आचरितः रमावसुमतीसहाचरितः तादृशो धर्मः प्रणतरक्षणरूपो येन तस्मिन् ब्रह्मणि रतिं भजति। लयमिवोपयाति ज्ञेयाविभागेनावतिष्ठते, न च झटिति पृथग्भवति। 57. निवृत्तिधर्मविषयरसमूला वासना सुवासना, तया तदन्यविषयदुर्वासनानां सर्वथा लोपः। द्रुता या प्रवरशर्करा श्रेष्ठशर्करा तद्भरितक्षीरधारायाः या आकृतिः, तया सह यत् विकल्पनं किमियं शेमुषी, मधुरक्षीरधारावेति, तद्विषयकलहलंघनी, तदपेक्षयाऽतीवोत्कृष्टत्वात् तथाकलहस्यावकाशमकल्पयन्ती वर्तते। धर्मिणः क्षीरत्वे तेन सहोपास्यानामाकाराणां प्रवरशर्करात्वम्। व्युत्थानात् पश्चादपि पुरुषस्य ख्यातिलाभपूजापुरुषान्तरप्रीणनाद्यर्थव्यापारो नास्तीत्याह 58. कवित्वेति। भगवद्विषयानुबन्ध्यपीदं चतुष्टयं तेनोपेक्ष्यते, योगप्रतिबन्धकत्वात्। कवित्वं कवनसामर्थ्यम्। तदधीनो मदः कश्मलम् मालिन्यम्। तत्। कथकः वादकशाशूरः इति दर्प एव तिग्मः अत्युष्णो ज्वरः। तम्। विकत्थनम् आत्मश्लाधनम् तेन मिलन् बहुविधं प्रलपनम् अनुपयुक्ताडम्बरवाग्विस्तरो जनमोहनः, तन्मूलाभिमान एव ग्रहः पिशाचः। तम्। परेभ्पः शिष्यादिभ्यः प्रतिपदः ज्ञानस्यार्पणार्थं यत् प्रथनं विवरणार्थनानाशब्दप्रपञ्चनम् सैव यातना शारीरक्लेशवहत्वात्, ताञ्च। इदं चतुर्विधमेव पूर्वं `सिद्धे महति पाण्डित्ये सनिर्वेदश्चतुर्विधे’इत्युक्तम्। एषामेव योगं प्रति अवग्रहरूपत्वे अन्यादृशसांसारिकव्याप्राराणां तत् कैमुत्यसिद्धम्। निभृतवृत्तिम् आरम्भणसंशीलनात्मकं मौनित्वम्॥ 59. त्वां केचित् पाञ्चरात्रिकाः मधुविजयिनः क्रियाशक्तिं जगद्व्यापारादिरूपामभिदधुः अवोचन्। अपरे त्वां तस्य दनुजमथनीम् असुरनाशनीं हेतिम् आयुधम्। अन्ये तस्य सर्वसंकल्पात्मकमनस्तत्त्वम्। एके केचित्तु भगवदपेक्षया त्वयि भेदमसहमानाः तत्तत्पदविषयैः क्रियाशक्ति-हेति-मनस्तत्त्वपदार्थैर्विशिष्टं तं मधुविजयिनमेव त्वामभिदधुः। तादृशस्त्वम् इह अस्यां दशायां सर्वतदतिशायिसंसारसमुद्रपरिशोषणात्युत्कृष्टसंकल्परूपः प्रादुर्भवसि तादृग्विषये॥ भगवतस्त्वयि प्रसन्नत्वात् प्रसादानुचरोऽहमप्यप्रत्यूह इत्याह संकल्पः। 60. प्रत्यूहः विघ्नः। त्वामहं पञ्चरात् शुकमिव त्रिगुणजालान्मोक्ष्यामीत्याह 60. निरपायेति। शुकस्य पक्षिणः मुखे रागः रक्तिमा स्वाभाविकत्वात् निरपायः अविनाशः। पक्षयोस्तस्य हरिवर्णत्वात् कनिजपक्षनिविष्टं हरितत्वं हरितभावः यस्य तादृशः निविष्टहरितत्वः सः। पञ्चराद्विमोचने कृते स दिव्यायाः गगने भवन्त्याः गतेर्योग्यो भवति। तद्वत् त्वमपीति। अत्र पक्षे श्लोपेणार्थान्तरं ग्राह्यम्। तव मुख्ये उत्कृष्टतत्त्वे परमात्मनि मोक्षे वा निरपायो रागः आसक्तिः। हरिः विष्णुः तद्रूपं तत्त्वं निजपक्षे त्वदीयप्रीतौ निविष्टं विषयभूतम्। अत ए त्वं दिव्यायाः अर्चिरादिगतेर्योग्योऽसि। अतोऽहं सत्त्वरजस्तमोगुणमयपञ्चान्मोक्ष्यामि। पूर्वं व्यासपुत्रं शुकं यथा मोचितवानहम् तथा त्वामपीत्यप्यर्थः। शृणु इति। मुक्तस्य न लोकान्तरप्राप्तिः किंत्वत्रैव ब्रह्मभाव इति केचित्। तत्र गतिरस्ति, ततस्तदैवयमिति परे। अनैवयेऽपि साम्यं पुष्कलमित्यन्ये। स लोकोऽपि प्राकृत एवेति चापरे। न तथा मन्तव्यम्, पकृतिसंबन्धं विहाय अप्राकृतं स्थलं प्राप्य परं ब्रह्मोपसंपद्य अकर्माधीनस्वाभाविकस्वरूपगुणाष्टकाविर्भावतः परमपुरुषसमोऽपि श्रीपतित्व-जगत्स्रष्टृत्वादिपरत्वचिह्नमप्राप्त एव सन् तद्दास्यमखिलमश्नुवानः तेन सह भोगे परं परमं साम्यमुपैतीत्येवेत्याह 61. निर्णिक्तेति। निर्णेजनं क्षालनम्। अञ्जनपेदन, निरञ्जनः परमं साम्यमुपैतीति वाक्यं स्मारितम्। उपसंपत्तित इत्यनेन परंज्योतिरुपसंपद्येति वाक्यम्। गुणाष्टकम्-अ हतपाप्मा विजरो विमृत्युर्विशोको विजिधत्सोऽपिपासः सत्यकामः सत्यसंकल्प इत्युक्तम्। परं साधर्म्यमित्यनेन परमं साम्यमुपैति, मम साधर्म्यमागताः इत्यादिस्मारणम्। अभ्येयुषः अभिगतस्य-प्राप्तवतः। परमसाम्योक्तया तत्र पारावर्यस्य भगवद्गतपरत्वस्यास्मद्गतावरत्वस्य च भंग इति न मन्तव्यम्। स विभागः स्थानुः, लक्षणत्वात्। शेषवृत्तिः दास्यं तत्र श्रूयमाणलक्षणपरित्यगस्य प्रसङ्गोऽपि नास्तीति दर्शयति। अनादितया सहस्थतानां शेषगरुडविष्ववसेनादीनामेव शेषवृत्त्यलोपे परत्वाभावे कथं तदस्माकम्। अत एव स शेष इत्येवोच्यते। इयं दशा सत्तावधिः आत्मसत्तापर्यन्तः। आत्मनः शाश्वतत्वात् शाश्वतीयम्। अतो न पुनरावृत्तिशंका, नापि पश्चान्निर्गुणभावशंकेति॥ ननु नाभुक्तं क्षीयते कर्मेत्याहुः। अतो मयेदानीं त्यज्यमानानि पुण्यपापानि आधारमलभमानानि मयि भगवदनुचरतया पश्चात् प्रकृतिमण्लमागमिष्यति पुनर्मामाक्रोमेयुः। तदा किं कुर्यामित्यत्राह 62. सुहृद इति। त्वया परित्यक्तनि सुकृतानिं त्वत्सुहृत्सु निविश्य तेभ्यः फलदानेन कृतकृत्यानि भविष्यन्ति, दुष्कृतानि च ते द्विषत्सु निविश्य। एवमवतरणसूचनाय सुकृतफलं दुष्कृतफलमित्युक्तम्। आन्तरपरिहारस्त्वन्यः। अभुक्तं न क्षीयत इत्येतत् अकृतप्रायश्चित्तकर्मविषयम्। अन्यथा प्रायश्चित्तविधायकशास्त्रवैयर्थ्यापत्तेः। पुण्यकर्मणामपि कीर्तनान्नाश इष्टः। परशुरामसुकृतानां श्रीरामशरेण शातनमुक्तम्। अतः भक्तिप्रपत्तिरूपोपायतस्तन्नाशो नायुक्तः। तर्हि किं सृहृदो दुर्हृदश्च गच्छतीति चेत्-तत्कृतस्नेहद्वेषयो फलमेव ते भञ्जते। तच्च फलं कियदित्यपेक्षायां त्वत्त्यक्तयावत्सुकृतदुष्कृतसंभाव्यफलपरिमाणामिति वक्तुं पुण्यपापसंक्रमणश्रवणमिति। इदमप्यत्र फलशब्दाभिप्रेतम्॥ तर्हि इदानीमेव मे मुक्तिः स्यादित्यत्राह प्रारब्धान्ते। प्रारब्धं न मोक्षोपायभक्तिनाश्यमिति भावः। सुहृदादीनां तत्फलप्राप्तिरपि तदैव, नेदानीमिति। एवं सुकुतदुष्कृतहान्या पुनर्भवाप्रसक्तावपि कारणान्तरेण पुनर्भवे प्राप्ते किं कुर्यामिति पृच्छति पुरुषः। तर्हि सर्वेश्वरो भक्तप्रियो न पुनरावर्तयेदिति त्वया न ज्ञातं किमिति प्रश्ने, तदहं जानामिति निरूपयति 63. वितमसीति। परमसाम्यस्य निवृत्तिवार्तोज्झितत्वात् मुक्तस्य न पुनर्भव इति भावः। तर्हि कथं पुनर्भवंशकेति चेत्—- प्रारब्धान्ते इति भवदुक्तत्वात् प्रारब्धकर्मैव यदि जन्मान्तरदायि किञ्चित् स्यात्, किं कुर्यामिति संशय इति भावः। एतदनुगुएणं समार्धिं संकल्पो वक्ष्यति। श्लोकार्थस्तु-वितमसि तमसः प्रकृतेः परस्तात् स्थिते परमपदे उभयविभूतिकं लक्ष्मीकान्तं गमितः। कैः सचिवैः भगवत्सचिवैरतिवाहिकैः। यद्वा लक्ष्मीकान्तमित्यस्य संपद्येत्यत्रान्वयः। सहजाकृतिः स्वं रूपम्। आविर्भूततद्विशिष्यः स्फुटा साक्षात्कृता तदपृथक्सिद्धिः तन्नित्यशेषता यस्य सः। सिद्ध्यत् गुणाष्टकं तत्फलञ्च यस्य सः। फलं कैङ्कर्यम्। सहजाकारः धर्मभूतज्ञानम्। तदाविर्भावः पूर्णविकासः। भोगेसाम्यमित्यन्वयः॥ अयं श्लोकः अपुनर्भवस्तु इत्येतद्वा वयानन्तरमेव दृश्यते। तस्य तदनुगुणमवातरणमपि कृतमेवात्र तथापि कथंकल्पितोहमिति वाक्यस्यानन्तरञ्चेत्, भाविनीमवस्थामित्येतत् विवृणोति वितमसीति रीत्याऽवतरणमर्हेत्। विमृश्यम् ज्ञापयितुमिति। ज्ञापनमिति यावत्। मां प्रति भवत्कर्तृकं तद्विषयज्ञापनं वाच्छामीत्यर्थः। भावार्थे तुमुन्। न तुमर्थादिति सूत्रात्। श्रेयश्चर्तुमिति गीतावाक्य इव। अनुग्राह्योऽहमिति ज्ञापयितुमिति वाऽर्थः। प्रदित्सितस्वाराज्यायेति। स स्वरङ्भवतीति मुक्तस्य स्वाराज्यं श्रुतम्। स्वराट् अकर्मवश्यः। कर्मराजानः क्षय्यलोकाः इति तत्र संसारिणां निन्दनात्। अतो भगवदधीनत्वात् कथं स्वराट्त्वमिति न शंक्यम्। किञ्च स्वराट्त्वं निर्विघातस्वेच्छत्वम्। तत् मुक्ते सर्वदैवाक्षतम्। 64. अवतारेति। `जन्म कर्म च मे रहस्यञ्चैवं संगृहीतमाचार्यैः,’ “अवतास्य सत्यत्वमजहत्स्वस्वभावता। शुद्धमत्त्वमयत्वञ्च स्वेच्छामात्रनिदानता। धर्मग्लानौ समुदयः साधुसंरक्षणार्थता। इति जन्मरहस्यं यो वेंति नास्य पुनर्भवः"इति। प्रपन्नानां देहावसाने पुनर्भवं विनैव मोक्षो भवेत्, प्रपत्तेः अनभ्युपगतप्रारब्धनाशकत्वसद्भावात्। भक्तेस्तथात्वाभावात् प्रारब्धावशेषे सति पुनर्भवितव्यमेवेति न मन्तव्यम्, निष्पन्नभक्तिः पुनर्जन्म यदि न वाञ्छति, स इदमवताररहस्यं चिन्तयन् आरब्धं प्रशमयेत्। तदेव प्रारब्धं शिष्टं स्वर्गप्रापकमस्ति चेत्—- तदस्तु इति यदि मन्येत, तदा नेदमुपयुज्यते। अतो विबुदनगरीष्वपि ग्रामटिकात्वबुद्धिः कुग्रामत्वबुद्धिरपेक्षिता। प्रतिगन्तासि प्राप्स्यसि। अथ विवेकविषयमपि तत्पित्रे पुरुषायाऽऽह 65. स्वसेवेति। पितरि सार्वभौमे भवति पुत्रस्य यौवराज्यमेव किल युक्तम्। तदत्रोक्तम्। विवेको मुक्तस्य सर्वदाऽनुवर्तत इति विवक्षितम्। पुरुषेणापुनर्भवः पृष्टः, तत्र संकल्पेनोपायश्चोपदिष्टः। यदि पुरुषोऽवताररहस्यचिन्तने उदास्ते,तदा संकल्पो न निष्पन्न इति धीर्मा भूदिति संकल्पः तद्विषयं स्पष्टमाह 66. मुक्त इति। प्रागुत्तरैः पूर्वोतरैः पुण्यपापरूपैः कर्मभिस्त्वं सकृत् युगपदेव त्यक्त इहैवेदानीम्। अस्यावताररहस्यचिन्तनस्य च न कश्चित् संबन्धः। तस्याल्परसत्वं त्वया प्रत्यक्षितमेव। अतस्त्वमेव त्यक्ष्यसि। अथ प्रारब्धभोगस्य प्रियत्वात् न त्यक्ष्यसि, तदापि न दोषः। दयया त्वदनुग्रहाय प्रेषिया वयं यथानिदेशं कृत्वा, कर्तव्यं कृतमिति विज्ञाप्याऽऽनन्दनिर्भरा भवेत। देवीमेव च सेवेमहीति॥ भगवान् कस्यचिन्मोक्षं संकल्पयति चेत्—- तादृशाधिकारिमूलं कतिपयसज्जनशिक्षणमपि कर्तव्यं स मन्यते। अन्यथा सर्वेषामान्ध्यप्रसंगात्। तदिदं संकल्पवाक्यमुखेन ज्ञाप्यते विद्येति। जगतिविख्यापयामि जगते सूचयामि। 67. विश्वदर्शिन इति सर्वात्मभूतपरमात्मदर्शिपुरुषसकाशात् तदायुरवसानात् प्राक् अधिकारी लोकोऽध्यात्मज्ञानं लभतामिति भगवत्संकल्पेन गृहीतमस्ति। प्रत्यक्षितेति। विश्वकर्तुः अत्याश्चर्यसृष्टिमालक्ष्य अधटित घटनाशक्तिरस्तीति लोके उच्यते। एवं वेदतो लोकतश्च विशेषेण पूर्वं या श्रुता आसीत्, सैव शक्तिरिदानीं मय्येव प्रत्यक्षितकार्या। अनन्तापराधे पुंसि अपवर्गो हि दुर्घटो घ़टयितुमारब्धः प्रसादमात्रेण। अस्तु तावत् सकलपापक्षपणानन्तरमपवर्गानुभवः, साम्पर्तं त्रिगुणकार्यं मन एव पूर्वविरुद्धघटितमस्तीत्यत्रैवाघटिघटनाशक्तेरधिकोन्मेष इत्याह किञ्चेति। 68. इह बाधकभूयिष्ठे स्थले शरीरि यत् मनः बहिः प्रचचार। कीदृशं सत्। प्रसितविरुद्धवृत्ति–इदमेव श्रेय इति मया प्रमिते सत्येव समीचीने, तद् विहाय तद्विरुद्धेवृत्तिं लभमानम्। यद्वा प्रमिता न्याय्यत्वेन या वृत्तिः, तद्विरूद्धा वृत्तिर्यस्येति। विषमं नानाप्रकारम् अधरोत्तरम् पुरा—प्राक्काले सर्वदा प्रचचार। तत्र कारणमाह पुराणपुरुषेण बहिष्करणात्—-बहिष्कृतत्वात् अपसारितत्वात्। तत्र हेतुरेतत्कर्मैव। यद्वा पुराणपुरुषेण यत् प्रमितं न्याय्यत्वेन, तद्विरुद्धवृत्ति, बहिष्करणात् पुराणपुरुषस्य तत्यमितस्य च सर्वस्य स्वयं तिरस्करणपूर्वकम्। तदेवेदं मनः तं बहिष्कारिणमेव बहिष्कृतमेव च पुरुषम् एकं स्वानुभूतसर्वार्थान्तरत्यागेनानुभूय तत्र रासिक्यमपि प्राप्य, अन्यविषये स्वपिति, तद्विषयेषऽवलिम्पति, उपर्युपरि तदनुभवलिप्सया मुह्यति च। तदिदं प्रकृतिमण्डले महदघटितघटनम्॥
स्वमनसः कालभेदेन विशेष उक्तः। कालविशेषाणां पुरुषभेदेनावस्थाभेदेन च विशेषं दृष्ट्वा स्वपरिस्थितिमनुभूय तृप्यति अपरपीति। 69. त्रिवर्गः धर्मार्थाकामाः तद्विषयकं मनः त्रिवर्गमनः अजहात् अपरित्यजत् त्रिवर्गमनः यान् तेषाम्। यद्वा अजहत् त्रिवर्गमिति बहुव्रीहिः। तादृशं मनो येषामिति। मन्येषां भविनां ये दिवसाः किमर्थमयं दिवसो गच्छति, दिवसान्तरमायाति, आयुः किल क्षीयते इति भयप्रदा भूत्वा भ्रश्यन्ति। न च तेषां गतिनिरोध केनापि कर्तुं शक्यते। अप्रत्यूहत्वात्—–प्रतिघात भावात्। त एव दिवसाः—तेषां भयप्रदा एव दिवप्राः मयि प्रीतिं प्रतिष्ठापयन्ति। अहं हि अवितथव्यापापधन्यः सफलक्रियानुष्ठानात् कृतकृत्यः। `प्रायेणाकृतत्यत्वान्मृत्योरुद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्’। किं फलमुद्दिश्य कृत्यं कृतम्? तदाह प्रवृद्धेति। पापसमुद्रापारभूतः पुनः रात्रिपसक्तिशून्यो महावासरो मुक्तिरूपः फलतया संनिधित्ते। तथा दिवसानां गमनस्य महावसरसंनिधिहेतुत्वादनुकूलत्वमेवेति॥ तदा भविष्यत् प्राथमिकं भगवत्कृत्यमनुसंधत्ते दहेरति। 70. दहरे अल्पे कुहरे हृदयसुषिरे देवस्तिष्ठति। कथम्। नितद्वरायां कर्दमपूरितायां दीर्धिकायां वाप्यां नितरां पतितस्य पतितस्य निजस्य स्वकीयस्यापत्यस्याऽऽदानेच्छया यथा पिता दीर्धिकान्तस्तिष्ठेत् तद्वत्। तस्मिन् काले देहावसानकाले। स एव, न तु अस्मत्सामर्थ्यात् किञ्चिद् भवति शताधिकाम् शतसंख्याक-लोकान्तरमापकनाड्यपेक्षयाऽतिरिक्तामेकां सुषुम्नानाडीं (धमनिं) प्रवेशयति नः अस्मान् कृतकृत्यान् सर्वान्। तन्नाड्या निर्गमाभावे हि अकृतकं पुरं `धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानीत्युक्तं श्रीवैकुण्ठं प्रति प्रस्थानं न भवेदिति। प्रभुः फलप्रदः अघटितघटनाशक्तिसमृद्धः॥’
71. विवेकाख्यः सुभटः बद्धेषुधिः इषवो यत्र धीयन्ते तं निषङ्गम् अंसे बद्धवान्, कामक्रोधमोहादिभिः कृतेषु युद्धेषु तान् मदीयकार्याविरोधिनः अवधीत् व्यापादयामास भूयसा अत्यधिकेन तद्भूम्ना विवेकस्य महिम्नैव संभूत मिलित्वा धियः मत्पात्न्याः तरलता चाञ्चल्यं हता निवर्तिता। प्रत्यक्षानुमानागमरूपाप्रमाणत्रयेण त्रित्वेन प्रदर्शितेषु चिदचिदीश्वरतत्त्वेषु लक्ष्यालक्ष्यगुणेषु एभिः प्रमाणैरेतावदवगमिताः गुणाः यत्र सन्ति, तादृशेषु पूर्वापेक्षया धिषणोत्सेधः ज्ञानाभिवृद्धिर्मे लब्धाष़ऽस्ति विवेकबलेन। अतः समेधामहे। महोपकारी विवेकः॥ न केवलं शाब्दज्ञानम्। साक्षादन्तरात्मानुभवश्च निरन्तरानुवृत्तः सञ्जातः। तदनुभवरसवाशादेव तदाज्ञानुवर्तनरूपकैंकर्ये प्रीतिरनुपाल्यते यावज्जीवम्। संकल्पेन संचितपूर्वोत्तरपुण्यपापविनाशाश्लेषयोर्लब्धत्वात् प्रारब्धकर्मावसनप्रतीक्षस्य मे मोक्षसिद्धिः प्रत्यासन्नैव। एवं संकल्पप्रेरकविष्णुभक्तिसहितमहावीरविवेकदर्शनं मे इष्टम्। तदत्र तुलसीवनसमीपं गच्छेयमिति। अशेषाणां विकृतीनां महदादिपृथव्यन्तानां घोराणां धर्मभूतज्ञानविकाराणञ्च प्रसूत्या उत्पादिकया। अनिदम्प्रथमेति अनादीत्यर्थः। आरोप्येति। पुरुषामिति शेषः। निवृत्तिधर्मः अनभिसंहितफलतया कर्मानुष्ठानम्। तत्प्रभृतिनिःश्रेणिका कर्मयोगो ज्ञानयोगः भगवदर्चनस्तुतिनमस्कारादिकं भगवद्गुणाद्यनुभवाभ्यासः अष्टांगभक्तियोगश्च। इतः मोक्षप्रासादोहणार्थं तदधस्तनपर्वसंनिहितो वर्तते पुरुषः विवेकस्य ते महिम्ना॥ 72. महासत्त्वं सत्त्वगुणातिशयवत् बलवच्च उदारम् विशालं स्थिरं समुचितविषये अचञ्चलमवस्थितम्, मधुरं भोग्यं गम्भीरम् अगाधञ्च यस्य ते हृदयम्, कृपया दीनविषयिण्या उत्साहेन च शत्रुजयादिविषयिण्या उत्तुङ्गः उत्कृष्टः कृतवित् प्रणयिनां कार्यापेक्षिणां स्रिग्धानाञ्च अभिगम्यः सुलभः। श्रुतं शास्त्रजन्यज्ञानम्। प्रज्ञा प्रकृष्टापूर्वस्फूर्तिः, मेधा धारणामूलज्ञानम्, स्मृतिः संस्कारजन्यं ज्ञानम्। सर्वस्य विवेकाधीनत्वात्। विवेकाधीनं सर्वं कार्यं मोक्षहेतुत्वात् भगवत्प्रियत्वाच्चाक्षुद्रम्। अनघानां दोषरहितानां भणितीनां वाचां वेदादिरूपाणाम् अभिमतः। तत्र प्रतिपादितत्वात् ताभिः स्तूयमानत्वाच्च। 73. रामः श्रीरामभद्रः त्वं विवेकः उभौ अप्रधृष्यानुभावौ अत्युत्तमपभावौ, कस्मात् त्वयि रामगुणानां सम्यगुपलम्भात्। तदुच्यते धीरेति। धीरशान्तः-धीरललित-धीरोद्धतापेक्षया धीरोदात्तो नायकः। श्रेष्ठः। उदात्तत्वं दुर्ग्रहाभिप्रायत्वम्। तदनुकूलगुणमाहात्म्यं ते। स्वाधीनत्वत्सनाता सुमत्या अधीनस्त्वम्। सा च सर्वदा त्वत्सहिता। स्वामिनः पितुः पुरुषस्य मोक्षार्था सिद्धिः त्वयेदानीं निष्रादितैवेति त्वदायत्ता सा। तदर्थं रणिविहारादिकं रामेणेव त्वया कृतम्। रामशरजालमेव विवेक इति च हि वदन्ति, “दशेन्द्रियाननं धोरम्….“इति श्लोकेन॥ अतिसंतोषस्य कार्यप्रवृत्तिविघातकत्वात् असंतुष्ट आह अद्यापीति। न प्रकृत्या परित्यक्तः। पूर्वोत्तराध एगमेऽपि प्रारब्धत्यागो हि नास्ति। विरजानदीप्राप्तिपर्यन्तं प्रकृतिसंबन्धानुवृत्तिमभिप्रेत्याह नापिचेति। स्थूलसूक्ष्मद्विविधशरीरविश्लेषे पुनस्तत्संबन्धहेतुराहित्ययुक्ते सत्येव मुक्तिरिति। ज्वलनेत्यादिरर्चिरादिगतिप्रतिपादकः श्लोक श्रीमद्रहस्यत्रयसारे। नञं विनैव तत्र पूर्ति। अत्र तु पूर्वं 47. पितृपथेतिश्लोक इवेह नञा सहेव पूर्णो भवति। अर्चिरादिमार्गे क्रमेण नेतृत्व दातिवहिकशब्दवाच्या देवता इह निर्दिश्यन्ते। 74. ज्वलनेत्यादिना। तत्र प्रथमोऽग्निः, अथाहः, शुक्लपक्षः उत्तरायणं वत्सरः वायुः आदित्यः चन्द्रमाः, अचिरद्युतिः विद्युत, वैद्युत इति अमानव इति चेयमेव परमपदादागता देवतोच्यते। अस्मिन् वैद्युते परमपदपर्यङ्कपर्यन्तनेतरि सत्येव, ब्रह्माण्डलंघनात् पूर्वं वरुणेन्द्रप्रजापतयः त्रयोऽपि पूर्वोक्ताग्न्यादिवत् स्वस्वदेशावसानपर्यन्तं क्रमान्नेतरः। तान् अतिलंध्य अण्डावरणानि सर्वाणि प्रकृतिञ्चातिगत विरजां दिव्यां नदीं प्राप्नोति, ताच्च तरति। ततः परम् अमानवेन सह यातीति क्रमः। नासाविदानीं तादृंशोऽभूदिति अत्रोच्यते। नापीत्यस्य तरतीत्यत्रान्वयः ज्वलनादिस्थानगतिः विरजाति क्रमणञ्च न जातमिति विवक्षितम्। रहस्यत्रयसारे निर्याणानन्तरमर्चिरादिगत्या विरजां तरति प्रपन्नः ततः परमद्भुतं परमपदं प्राप्यं भवतीत्यर्थः। तथेह वक्तुं न शक्यते। अद्यापि न लभ्यत इत्यर्थस्य प्रकृतत्वात्। अतः विरजां नाद्यापि तरति। एवञ्च तत् परमद्भुतं परमपदं तु दूरेवाचः-लब्धमिति सर्वथा वक्तुं न शक्यते, मार्गस्याप्यप्राप्तत्वादित्यर्थो वर्णनीयः। प्रकृतिसंबन्धमेव मुखान्तरेणाह 75. मलिनिमेति। मलिनिमा मालित्यम् कर्मवासनादिमत्त्वम्। तत् आतन्वानैः आपादयद्भिः मलीमसवस्तुभिः हेयैर्विषयैः निरुद्धनिजप्रभः संकोचितधर्मभूतज्ञानः अत एव मालिन्यापादकवस्तुसंसर्ग वशात् प्रभाप्रसरणरहितः कृतो मणिरिव स्थितः वस्तुगत्या महान् एतन्मालिन्यादिराहित्येन स्थातुमर्हः अन्तर्ज्योतिः स्वयम्यकाशः शुभतरे परमात्मतदनुबन्धिषु रुचे- रागस्य प्रत्यासेधमूतं बाधकं यत् स्वकर्मफलं तदनुभवव्याजेन जडपरिषदि अस्वम्बकशदेहेन्द्रियादिव्यूहे `दैवी ह्येषा गुणमयी मम माया दुरत्यया’इत्युक्तया मायया प्रकृत्या न्यस्तः निक्षिप्तः तदन्तर्गतः न दीव्यति न मोदते। प्रारब्धशेषानुभवार्थं प्रकृतिसंबद्ध एव वर्तत इत्यर्थः॥
अविच्छिन्नेति। अनादेः कालात् परस्य जीवात्मनः संतपने तापत्रयोत्पादने या केलिः तच्छालिन्या प्रकृत्या स्वयं लब्धं फलं किम्? 76. विषय इति पदस्य विषं प्राप्तवन्त इत्यर्थ उचित इव। यस्मात् तद्रसाः सर्वे विषवृक्षपक्वफलवदेव दृश्यन्ते। तद्रसास्वादप्रवृत्त्या आत्मपरमात्मदृष्टिश्चिरमभवन्निरुद्धा पुरुषस्य। गुणी ज्ञानानन्दस्वरूपः अपहतपाप्मत्वादिस्वाभाविकगुणाष्टकसंपन्नोपि विलोभित आसीदनया त्रुगुणत्वात् उच्चावचदुःखकरत्वाच्च विषमगुणया मायया। इमवेवं कुर्वती स्वयं किं फलमनुभविष्यति। इयं हि विचेताः चैतन्यरहिता अचेतना। चेतना चेत् किमनेन मे फलमित्यालोचयेत्। तदभावादेवं करोति। विचेताः इति पदच्छेदे चेतोरहितेत्यर्थः। चेतयतेर्धातोर्भावार्थे चेत इति चेतनार्थक-अकारान्तशब्दनिष्पादने तु विचेता इति आकारान्ततया पदविभागः। पावकेनेति। अनेनार्णव उपशोषितः। अल्प एव परिशिष्यते प्रारब्धांश देहावसानपर्यन्तः। तावदेव प्रतीक्षणीयम्। तस्य तावदेव चिरम्। एतेन संबद्धा या प्रकृतिः सा सर्पनिर्मुक्तत्वग्रूपा निर्मोकसमाना असारा स्थूलरूपं विहाय सूक्ष्मशरीररूपेण एतत्संबन्धं प्राप्य शेषवत् नागराजवत् अतिपरिशुद्धं भगवच्छेषतार्हपरिशुद्धस्वभावमेनं आयुषः पारे एतदीयायुरवसाने तमसः पारे प्रकृतिमण्डलावसानस्थले विरज तीरे निर्मोक्ष्यति। तत्रैनं नीत्वा पश्चादेनं त्यक्ष्यति। अतः सा इतः परमनुकूलैव, न प्रतिकूला, शत्तिह्नासात् असारत्वात्। उपच्छन्दनम् तात्कालिकतृप्तये प्रलोभार्थं कियमाणमिथ्यावचनम्। 77. निर्जरीभिरिति। एतद्विशेषणसाफल्यायैवमर्थः-स्वर्गे स्थिताः निर्जरस्त्रियः स्वदेशमागतान् पुरुषान् प्रेक्षमाणा एव वर्तन्ते अनुभोक्तुम्। युद्धे मृतानपि हि वीरस्वर्गे प्रतीक्षमाणाः बह्व्यः सन्ति, सुतरां स्वर्गाद्यर्थकर्माचरणे महामोहकामक्रोधादयोपि बह्वीभिरमरीभिवृताः खलु मया रणे व्यापादिताः। अहं तु तासां दुर्लभः सर्वदा जयशीलत्वात् स्वर्गादौ क्षुद्रत्वाध्यवसायाच्च। तादृशे इह मयि ते कौतुकमधिकम्। तथा अत्यन्तविरक्तत्वात् अयं मुमुक्षुः पुरुषोऽपि निर्जरीभिरत्यन्तदुर्लभः। इह एतस्मिन् पुरुषे त्वं जातकौतुका। कस्मात्। तव मित्प्रयत्वात्। एवमुत्कृष्टस्थितिमपेक्षमाणायास्ते मनोरथः फलिष्यति। तादृशनिर्जर्यादिदुरवापदिव्यदेशप्राप्तिरस्य पुरुषस्य भविष्यति। तदाऽस्माकमपि तत्प्राप्तिरिति। मदेकार्थेम्यः अहं विवेक एव येषामुद्देश्य शेषी तादृशेभ्यः। 78. विद्याभिरिति। हे चतुर्दशविद्यास्थानानि! युष्माभिः बाह्यकुदृष्टिमतनिरसनोपपोगितया पुरुषान्तरेषु स्थितिः क्रियताम्। मुक्तप्रायेऽस्मिन् भवद्भिः कर्तव्यं किमपि नास्ति हे शमदमादय! भवतां कार्यं निर्वृतम्। तस्मादयं मोक्षं गन्तुमनुमन्तव्यः। मत्सूतस्य अहं सूतः सारथिः यस्य रथस्य मनोरथाख्यस्य, तस्य रथी अयं पुरुषः अध्वानं दृष्टवान् पुनरावृत्तिं विना तेन रथेन परब्रह्म प्रति प्रस्थानं करिष्यति।
79. प्राचीमिति प्रचीं दिशं विहाय प्रतीचीं दिशं यो दक्षिणदिगुल्लघनेन प्रादक्षिण्येन गतवान्, सः ततः उत्तरामेव दिशं गच्छेत्, न तु दक्षिणामिति आपाततोऽर्थः। एकपदी एकाकिनैव गन्तव्यो मार्गः। स्वर्गार्थं मोक्षार्थं वा गच्छन्तः पुरुषः संभूय न गच्छन्ति तस्य तस्यानुभाव्यांशलाभाय स स पुरुषान्तरमेलनं विनैव याति। तस्मात् सर्वा एकपदी। प्राचीं अनादिकालप्रवृत्ताम् एकपदीं पितृयाणादिलभ्यफलार्थरकर्मकरणं त्यक्त्वा प्रतीचीं जीवात्मपरमात्मविषयामेकपदीं प्राप्तोऽयं उदीचीम् उत्तरस्यां दिशि स्थिताम् अर्चिरादिगतिमेव गन्ता गमिष्यति। न तु अवाचीं दक्षिणस्यां दिशि स्थिताम् धूपादिगतिमिति वास्तवार्थः। 80. त्यया मत्याः कश्मलं मालिन्यं सर्वं यस्य निवृत्तम्, यस्य ज्ञानेन्द्रियाणि, तथा अबुद्धीन्द्रियाणि कर्मेन्द्रियाणि च निभृतानि निर्व्यापाराणि, येन परमात्मविषयकयोगबलेन कर्मबन्धो विच्छिन्नः, सोऽयं कृती परिनिष्पन्नोपायः विद्वान् अद्भुतम् एतावत्पर्यन्तं कदाऽप्यदृष्टत्वात् आतिवाहिकविभवाच्च आश्चर्यभूतं मोक्षमार्गमतिवेगेन यातीति ज्ञापयितुं ज्ञापयितुं देवदुन्दुभिस्ताड्यते। नायं त्रिवर्गरसस्य धर्मार्थकामरूपफलानुभवरसस्य सूचको दुन्दुभइऋ। किन्तु तद्रसघस्मरः तद्रुचिनाशकः। एतद्दुन्दुभिज्ञानिनां त्रिवर्गेरुचिरेव न भवेत्, महारजेन॥ अथ पुरुषविवेकादिसमागमः। अभिवर्तते आयाति। प्रत्युद्गच्छामि स्वागतसूचनरूपेण तन्मार्गे धुरि गत्वा मानयामि। अतर्कितेति। अतर्कितम् केनाप्यचिन्तितं यथातथा उपस्थितेन परस्य भगवतः संक्तल्पेन निवृत्तौ विनष्टाश्लिष्टौ पूर्वोत्तर पुण्यपापराशी यस्य सः। दिदृक्षया द्रष्टुमिच्छया। समाहितैः तदेकपरैर्भूत्वा उपसर्तव्यः सप्रश्रयं सेवितव्यः। प्रयतबुद्धयः समाहिताः। प्रणिपतन्ति। विष्णुभक्तिरपि पुरुषनिष्ठत्वात् जनकं नमति। अनन्यसाधारणं यथातथा-अनन्य साधारणतया अवगतेन विवेकप्रभावेन मोहदिपक्षो निर्धूतः। तेन स जितकाशी जयशीलः। दिष्ट्या भाग्येन। उपगू(गु)ह्य परिरभ्य। निर्भरं पूर्णं यथातथा प्रसुप्तः। निद्रैव प्रखापः। प्रकृते अज्ञानम्। निद्रापदं तमोगुणोद्रेकपरं वा। अस्मादिति पुरुष विवेकसुभतिविष्णुभक्त्यादिग्रहणम्। सकुल्यान् विवेकादिसमानकुलान् मोहादीन् हतवता। प्रतिबिद्धदशाम्। प्रतिबोधविदितमिति केनोपनिषदा, प्रतिबुद्धवर्जं सेव्यमिति भारताच्च ज्ञानीं भक्त एव प्रितबुद्धः। तस्य दशाम्। परित्यक्तेति। गीयते हि `चतुर्विधा भजन्ते माम्’इति। अनन्तेति अपरिच्छिन्नेत्यर्थः। भक्त्या उवसंहृतः। तस्या एव संकल्पप्रेरकत्वात्। विष्णुभक्तिः, प्रसत्तिः, दया, संकल्प इति क्रमः। गुणग्राहिकुलपतिवचनं श्रुत्वा संतुष्ट संसारिषु एवं विवेकी दुर्लभ इति निर्विद्यते विवेकः। 81. गतेति। उक्तं हि प्राक्, “सत्कारकीर्तिधनलब्धिषु निर्व्यपेक्षः"इति, तथाऽऽह। दोहदम्-अभिलाषः। यमिनम् यतेन्द्रियम्। अनुद्रगृह्णति-उत्कृष्टत्वेनानंङ्गीकुर्वति जने मनुष्यसंघे। तत्र हेतुमाह तिर इति। तिरस्करणे परधिक्कारे कौतुकं कुतूहलमेव ग्रहः पिशाचः। तेन स्ववशीकृतं चित्तं तत्संघस्य। लालसः सक्तिमान्। एवं पुरुषाज्ञानमुक्त्वा पुरुषं प्रति स्वागमनविलम्बे कारणं विवक्षुः संबोध्य स्वयमेव स्वप्रशंसनं कर्तुमनिच्छन् विमृशति। तद्गृहीत्वा विष्णुभक्तिः तदुद्घाटयति भगवन्निति। 82. कुल्यत्वेन एककुलजातत्वेन परिग्रहेऽपि स्वकीयत्वाभिमाने सत्यपि। कुटिलत्वं प्रस्थानस्य कूटस्थस्य कुलपतेः प्रतिकूलत्वात् तद्व्यापाराणाम्। कृपातदनिष्टाकरण-तत्पोषणविषयकस्वारसिकेच्छा। तत्पोषणं सर्पस्य क्षीरप्रदानतुल्यमिति मन्यते। दाक्षिण्यम् अपवादपरिहारार्थं हितकरणप्रकटनम्, तत्तल्लेशेनाप्युज्झितः। और्ध्वदेहिकविधिः देहवियोगात्पर्र कर्तव्यकमीचरणम्। त्रुटितस्वकर्मनिगलं विच्छन्न पुण्यपापबन्धं प्रभुर्विवेकः द्रष्टुं प्राप्तः इति। परित्यक्तस्वप्रयोजनं स्वप्रयोजनापेक्षारहितं यथातथा। असंभत्प्रत्युपकारमित्यपि क्रियाविशेषणम्। कृतकार्यसमुचितः प्रत्युपकारोऽपि नास्ति, अहं तथा कर्तुमशक्तश्चेति भावः। मोहादीनां सर्वेषां निवृत्तौ मुक्तिं गच्छन् पुरुषः परमपदे ज्ञानविवेकसुमति विष्णुभक्ति समृद्धिभान् भवतीति तत्त्वम्। अतः स्वेन सह तेषां स्थितिमेव वरत्वेन प्रयच्छन् तत् त्रितयानुवृत्त्यौचित्याय तत्तत्स्वरूपं विशदयति 83. विवेक इति। तत्त्वेषु चिदचिदीश्वरेषु विशेषग्रहणं परस्परवैलक्षण्यज्ञानम् अवितथम् अनन्यथाभूतम्। तदेव विवेकलक्ष्णम्। सुमतिर्नाम संसारे दोषदृष्टिः। तदाह भवेति। संसारसमुद्रगतदोषाणां प्रतिगमनिकात्मा निवर्तनरूपा। त्वं विष्णुभक्तिः परप्रेमाकारा। स्नेहो ह्यच्चे भक्तिर्भवति। तमः पारे परमपदेऽपि। त्यक्तत्रिगुणमिति। इदानीं गुणत्रयान्तर्गतसत्त्वकार्यतया त्रयमस्ति। तत्र स्वाभाविकज्ञानविकासवशात् स्वत एव भवतीत्याशयः। त्रिगुणम् अव्यक्तम्। तत्रापि विवेकवल्लभात्वं पुरस्करोति सुमतिः। विवेकरूपगुणच्छायानुवर्तित्वात् दुष्टगतदोषदर्शनस्य त्याज्यत्वबुद्धेश्च। विषयभेदात् प्राकृतभाषायां वक्तव्यत्वाच्च सुमतिः पृथगाह। देशिकप्रसादेति। यथा व्यासप्रसादात् सर्वभारतसमरव्यापार—- श्रीभगव द्वश्वरूपादिसंदर्शनहेतुदिव्यचक्षुर्लाभः सञ्जयस्य। “व्यासप्रसादात् श्रुतवान्…..तच्च संस्मृत्य संस्मृत्य"इति ह्युक्तम्, तथेति॥ भक्तेर्दिव्यचक्षुर्नाम विशेपरिपाकप्रकारः। सिद्धपूर्वैः पूर्वं सिद्धैः। एवं पूर्वमपि पूर्वपुरुषविषये निष्पन्नैः। यथा श्रीवकुलभूषणदिव्यसूरिः स्वयमनुभवन् अगासीत् स्वश्रीमुखसूक्तान्ते। 84. विक्षोभयतीति पाठ एव युक्तः, उत्तरार्ध इव पृथग्वाक्यत्वौचित्यात्। आरब्धप्रतिसंस्कृतैः। प्रतिसंस्कृतमिति भावे क्तः। प्रतिसंस्कारः अलङ्करणम् आरब्धं यैः। प्रतिसंस्कृतिरिति पाठे, आरब्धा प्रतिसंस्कृतिः यत्र पद्धताविति व्याख्येयम्। कृतमुखः विद्वद्भिः अभिमुखैः मुखं प्रीत्या प्रदर्शर्यद्भिः। कुत्र पुरुष इति दर्शनप्रवृत्तैरिति वा। आतिवाहिकगणैः मार्गनेतृसंघैः। एकै कोऽप्यातिवाहिकः संमाननज्ञप्तये सगण एवाऽऽयातीति गणानेकत्वम्। आदिश्यते—-इतो विजयः कार्य इति मार्गः प्रदर्श्यते। आमन्त्रये स्वगमनं ज्ञापयामि। 85. कअलं कालप्रहाणेन—-इतः कालविलम्बो मा मूत्, एतावदापतितः कालविलम्ब एवालम्। दिनमिति पदप्रयोगात् इदानीमपि न नाडीमुहूर्तादिमात्रविलम्बः, किन्तु कतिपयतदिनविलम्बोऽप्यस्तीति ज्ञायते। 891 श्लोकपूर्वापरसंदर्भतोऽपि व्यक्तमिदम्। साधयामि गच्छामि। निश्चितशीघ्रमोक्षः चिन्तालेशविधुर इतः परमित्याह 86. ग्रहेति। जातकरीत्या मारक-मोक्षानुकूल-ग्रहसंपत्तिरस्ति न वा, तत्सूचकः स्वप्नो वा निमित्तं वा भवेद्वा। यः कश्चिन्महान् भविष्यद् वदेद्वा इत्येवं चिन्ता मोघा निष्फलेति तदालोचरनहितः, प्रारब्धस्य क्षपयितव्यत्वात् सुखं दुःखं वा प्राप्तमनुभवेन गमयत् प्रवेक्ष्यामि परं पदम्॥ सप्त धातून् आह रसेत्यादिना। रसः जठरे प्रथमं परिणतोऽन्नरसः। कीकसम् अस्थि। कलेबरमेव कारागृहम् तस्मात्। अनितरसुलभेन अन्यालभ्येन। श्रुतेपनिपत्कानामेव इयं गतिः। श्रुतोपनिषत्कत्वम् अनुष्ठितमोक्षार्थैपनिषदोपायत्वम्। परमपदे स्वसेव्यस्य भगवतोऽवस्थितिपकारमनुसंधत्ते 85. संव्यमिति। तदर्थमेव हि जिगमिषति। श्लोकोऽयं श्रीपाञ्चरात्ररक्षायां नित्यव्याख्यानाधिकारे द्विः। इज्याघट्टारम्भे तुरीयः पादोऽन्यः। प्रसार्य पीठपद्मे न्यस्य। अत्र पदे मोक्षगामिनः स्वात्मानं तत्रार्पयन्तीति हेतुना श्रितदुरितहरत्वविशेषणम्। दक्षिणमिति। पादमित्यनुषङ्गः। कुञ्चयित्वा आकुञ्च्य, पर्यङ्क एव विन्यस्य। अतो नागभोगेनिधायेत्यस्यात्रापकर्षोऽपि। जानुनीत्यत्र दक्षिणे इति अर्यसिद्धम्। पश्चाद्बाहुद्वयेन पूर्वोक्तबाहुद्वयपश्चाद्भाविबाहुद्वयेन। दिव्यायुधयोरवतारदशायां कार्यमाह प्रतिभटशमने। शङ्खः शब्दमात्रेण सर्वशत्रुहृदयविदारक। चक्रं विद्युद्वत् प्रकशमात्रेण विरोधिचक्षुर्हरम्। आदिना परिजनादिग्रहणम्। जगताम्। न केवलं नित्यविभूतिस्थानाम्, अस्माकमपि सर्वेषाम्। कृतज्ञतामाविष्करोति। 88. दिवीति। दिवि परमपदे। दिव्यभूम्नः भूगतानामपि भूमा महिमा दिव्यः अप्राकृततुल्यः। प्रणतिनियतवृत्तिः। वृत्तिः व्यापारः सा एकैकाऽपि प्रणतिसहिता। मानसनमोर्थविशिष्टा। धाम स्थानम्। अधिजिगमिषुः गन्तुमिच्छुः, क्षिप्रं गमिष्यन्निति यावत्। ईदृशोऽहमनुगृह्य प्रेक्षणीयः। कथम्। प्रियगतिः प्रिया-युष्माकमिष्टा गतिः-परमपदगमनं यस्य सोऽहम्। मम गितिमिष्ट्वा अस्येयं भवत्वित्यनुग्रह्य इति भावः। अयं गतिमिच्छतीत्येतत् प्रार्थनया, अधिजिगमिषुरित्यनेन च ज्ञायत एव। प्रवचन-प्रबन्धप्रणयनादिभिरतीवोपकृतवतो देशिकान् कतिपयान् विशिष्यानुसंधत्ते एते इति 89.। एतदधीना हि विवेकस्य परिकरसंपत्तिः प्रतिभटशमनाय। तदिदं दर्शयति अपोढमन्मथशरोन्माथायेति। अपोढः-अपास्तः मदनबाणवृतोपद्रवः यस्य तस्मैमह्यम्। त्रय्यन्तैः श्लाघनीयाः ये उदन्ताः समाचाराः ते विविधाः येषाम्। अरूक्षत्व-धर्मकामत्व-संप्रर्शित्व-शमदमादिमत्व-सदाचारपरत्वदयः उदन्ताः वेदान्तप्रतिपादिताः। अथवा भगवत्प्रभावप्रतिनन्दनाये त्रय्यन्ताः केचिदेतदुदन्तपतिनन्दनाय आविर्भवन्ति चेत्-तत् युक्तम्। ये केचिदेतद्विषयाभिनन्दनश्लोकाः भक्तकृताः, ते च त्रय्यन्ततुल्या भावनीयाः। “यंयं लोकं मनसा संविभति"इत्यत्मज्ञविषयकमुण्डक मन्त्रद्वयपपि ग्राह्यमिह। शरण्ययोः दिव्यदम्पत्योः लक्ष्मीनारायणयोर्या दया, तद्विषये श्रद्धां प्रजानामुत्पादितवन्त इमे। एवं श्रद्धाविषयीभूता,तथा विषयभावार्हा च दया। तां विना कार्याभावस्य प्रमाणसिद्धत्वात्। श्रद्धातव्यत्वमपि दिव्यदम्पत्योरेव वा। तां दयारूपां दिव्यापगां गंगां सर्वपापक्षपणीं लोके व्यापयन्ति इमे। “दिशिदिशि गतिविद्भिर्देशिकैनींयमाना"इति ह्युक्तम्। स्यर्धा असूया कलहो वा। विप्लवः धर्मभ्रशः। विप्रलम्भः वञ्चनम्। एषां पदव्याः वेदेशिकाः तद्देशभिन्नदेशस्थाः। अस्मद्देशिकानां देशेऽपि दुर्गुणा न सन्तीति। एतादृशा देशिकाः नाथादयः भगवन्नाथमुनि यामुनमुनि यतिवरादयः इह स्वदन्ताम् भोग्या भवन्तु। परमपदप्राप्त्यनन्तरमपि भोग्यत्वे स्थिते `इह स्वदन्ताम्’इति किमिति चेत्- अस्मिन् लोके नानामतदन्तुरे अन्येषु मतप्रवर्तकेपु बुद्धिः प्रसरेदिति विरोधिस्थले एषु भोग्यताबुद्धिः प्रार्थ्यते। एतत्सिद्धौ परत्र तत्सिद्धिः प्रार्थनां विनैव भवेत्। यद्वा इहेति उक्ताचार्यगोष्ठ्यामित्यर्थः। विशिष्य कतिपयाचार्यविषये प्रतिपत्त्यतिशयपरत्वे एवं व्याख्यानसंभवात्। इति इत्यस्य प्रार्थ्येत्यध्याहृत्यान्वयः। इत्युक्त्वेति बाऽर्थः। 90. सुमतिजानिः विवेकसहवर्मचारिणी इति परस्परस्य परस्पराधीनोऽतीशयो ज्ञापितः सुमतिर्जाया यस्य स सुमतिजानिः। संन्यासिनो यत्रसायंगृहत्वं स्यान्नाम, गृहस्थस्य स्थानविशेये स्थितिर्युज्यत इत्याशयेनाह अथवेति। उपैष्यति वासस्थानत्वेन स्वीकरिष्यति। सप्ततन्तुः यागः। अयमात्मयागः अन्तरात्मनि प्रत्यगात्मर्पणरूपयोगात्मकत्वात् अन्तस्संभृतः, न तु ज्योतिष्टोमादिवत् बहिः क्रियमाणः। तस्यावभृथः अन्ते कर्तव्यकर्मविशेषः देहपात एव। पातश्च न बुद्धिपूर्वः, अपितु स्वयं भवन्निति ज्ञापनाय उदयशब्दः, “यन्मरणं तदवभृथः"इति चोपनिषत्। अवभृथेति पातोदयविशेषणम्। आ इति तत्पर्यन्ततोच्यते। उपैष्यतीत्यत्रान्वयः। भगवद्भागवताधिष्ठितक्षेत्रमेव स्थानमिति नियमोऽपि नास्तीत्याशयेनाह यद्वेति। यत्रकुत्रचिदित्यत्र स्थास्यतीत्यध्याहार्यम्। तृतीयपादस्यात्राप्यनुषङ्गः। संप्रतीत्यस्य पूर्वार्धेऽप्यन्वयः। इदानीमिति प्रश्नवाक्ये स्थितत्वात् तत्समाधानवाक्येऽत्र संप्रतीति पदम्। एकतानम् अन्यविषयकतया स्थितं यत्र। तत्रेति शेषः सिद्धिः। पुण्यदेशपुण्यकालमरणमेव प्रशस्तफलाय भवतीत्येतत् अमुमुक्षुलभ्यफलविषयम्। अतो देशकालव्यवस्था भक्तविषये नास्तीत्याह 92. स्वयं व्यक्त इति। विपिनविषये प्रशस्ते दुष्टे वेति पूर्वार्छेऽपि यथार्हमन्वेति। समये इत्यनेन रात्रि-कृष्णपक्ष-दक्षिणायनादिदुषसमयोऽपि न बाधक इत्युक्तम्। विषये इति पाठान्तरम्। त्रय्यन्तप्रथितमहिमा। बाधकानां बाधत्वमप्येतदधीनम्। `एतस्मादेव पुंसां भयमितरदपि’। अतोऽस्यानुकूलत्वे एषामनघत्वमेव। सोऽयमिति परत्वसौलभ्योभयोक्तिः। आतिवाहिकवैशिष्ट्यस्यापि। प्रपन्नान्। “स्वतन्त्राङ्गप्रपत्तिभ्यां प्रपन्नावत्र तावुपभौ। फलसाधनबक्तिभ्या भक्तावपि च"इत्युक्त्या भक्तोऽपि प्रपन्न एव। गमयति। स एनान् ब्रह्म गमयतीत्युक्तम्। तत्राप्ययं हार्द एव प्रधाननेता। एवमनघानां सर्वेषां नेता साम्प्रतमेतन्नयनेऽप्युत्कटेच्छ इत्याह अद्यचेति। तदिच्छाबलात् एतस्य तत्प्राप्तिरपि श्रुवेत्याह 93. देवेति। “जायमानो हवै त्रिभिः ऋणवा जायते, ब्रह्यचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः"इति वेदाध्ययनयज्ञाचरणप्रजोत्पादनैः ऋषिदेवपितृऋणपरिहरणमुक्तम्। देवयज्ञ-भॄतयज्ञ-पितृयज्ञ-मनुष्ययज्ञानुष्ठानेन तत्तदृणापहरणमपि कार्यमुक्तम्। एषां यथावत् अनाचरणमूलपापमप्यस्य नास्ति प्रपन्नत्वात्। “देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन्। सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः"इति श्रीभागवतम्। तत्तत्कर्भानुष्ठानकाले सर्वस्य भगवत्प्रीत्यर्थतयैवानुष्ठानं क्रियते, तत्रैव दृढभक्तिशालित्वात् प्राप्यान्तरनैरपेक्ष्यात्। अतो देवादानामयं न किङ्कर इति तानुद्दिश्य तत्तदकरणं न दोषायेति चात्र विवक्षितम्। एवं विहितं यथावत् सर्वमिदं पूर्णतया परमात्मोद्देशेन कुर्वन् वस्तुतोऽनृण एव। अयमेव यथावदृणातिलंघी। अतस्तेऽप्येतस्मै न कुप्यन्ति। तदयं दत्तमभयं येन तस्य जगत्पतेः कृपया प्राप्स्यतीति। एतस्कृतानां पापानं निर्वीर्यत्वादयं मुक्तो भवतीति न, वीर्यवन्त्येव हि तानि एतं विनाऽन्यत्रेति महिमातिशयमाह इदमपीति। इह-अस्यां दशायाम्। तत्र मुकुन्दकृपानिमग्नत्वमेव कारणम्, सीताकृपानिमग्नत्वं यथा हनुमतः। तत्पुच्छाग्रिर्हि तं न ददाह, तदैव तु लङ्कां समग्रां तदिच्छानुरोघेन। जलमग्न इवाग्निस्तत्र परम् असमर्थ आसीत्। एतदघान्यपि एतस्य द्विषत्सु कार्यकराणि भविष्यन्तीति मध्ये कथं निर्वीर्यता। सवीर्यत्वादेवैतद्वीर्यतुल्यं सर्वेषामपि द्विषत्सु कार्यकरत्वात्। विश्वसाक्षात्कारेति। विष्श्वरूपविणुसाक्षात्कारेत्यर्थः। 95. विधिवशनियतेन शास्त्रबलादवश्यकर्तव्यतया सिद्धेन प्रणिपतनेन नमस्कारेण उपचरामि। नमस्काररुपपूजां करोमीत्यर्थः। तत्र हेतुः विश्वामान्यत्वम्। विवेकापेक्षयाऽतिशयश्च हरिपदविषये रतिरूपत्वम्। तस्मात् परत्वम्। अस्मत्प्रयुक्तेति। सुमतिवियेकयोरभावे कथमीदृशी भक्तिरुदियात्। अत्र, `सुमतिर्विवेकश्च विष्णुभक्तिं प्रणमतः’इत्यध्याहार्यम्, अभिनेयत्वात्। अभिरोचयामि-चिकीर्षामि। महायोगाः परमात्मविषयकयोगाः। तत्र मोक्षार्थतया असायं ईश्वरीत्वम्। “नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुम्….भक्त्या त्वनन्यया शक्यः, ज्ञातुं द्रष्टुञ्च तत्त्वेन प्रवेष्टुञ्च"इत्युक्तमाह 96.। तत्र वेदशब्दो विज्ञानपर इति विज्ञानैरित्युक्तम्। तत्त्वत इत्यस्य ज्ञातुं द्रष्टुं प्रवेष्टुमिति त्रिष्वप्यन्वयः। अनन्यभाजा प्राप्यान्तरविषयिण्या। त्वया-विष्णुभक्तेस्ते साहाय्येनैव। ब्रह्य परमात्मा। मत्समक्षमेव मयि पश्यन्त्यामेव। मनीषितं ध्यानपर्यन्तं सर्वम्। सर्वथा—त्वया सुमत्या मयाऽन्यैश्च गुणैश्च। अयमसौ—अस्मत्कुलपतिः प्रस्थाय दूरं गतः। अनुकम्पया अवलम्बितः। अवलग्बने कर्मत्वमेवास्य, न कर्तृत्वम्। सर्वदोषाकरं सर्वेषां दोषाणामुत्पत्त्यभिवृद्धिस्थानम्। संसारसागरमिति। निस्तरतीति पूर्वक्रियायामन्वयः। इतोऽधिकमपेक्षितं व्रूहीत्याह किं ते इति। 97. परम् अतः–इतोऽधिकम् पद्मासहायपदपद्मजुषेत्यनेन सर्वसाधकत्वं ज्ञाप्यते। कुलपतेर्मुक्ततया दर्शनमेव मे फलमिष्टमिति भावेनाह पश्यामीति। राका पूर्णचन्द्रतिथिः। न केवलं मे, सर्वेषामस्माकं फलप्राप्तिरासीत्, नोपहर्तव्यमस्तीत्याशयेनाह अपुनरुदय इति। पुनस्त्पत्तिरहितस्सन् शायित इति विशेषणम्। मायामोहः माया मूर्तेव स्थितो मोहः महामोहः। स्थलीमधिशायितः मृल्लीनमृदिव कारितः। एवं स्वफलमुक्तम्। मुनभिद्भक्तिरूपा भवती च तत एव बाधारहिता वर्धते। इदं भक्तेः फलम्। अपुनःप्रत्यावृत्तिम् पुनर्निवर्तनरहिताम्। इदं पुरुषफलम्। किमिह बहुभिः—एकैकपृथक्कथनेन किम्। नः अस्माकं सुमत्यादीनां सर्वेषाम्।
आशासे प्रार्थये। एवमभिनयः सर्वो निर्वर्तितो भुमिकापरिग्रहेण। अथ नाट्याभिनयः कृत इति पारिषदान् प्रति विज्ञाप्योपरन्तुं नाटकान्ते भरतानुशासनसिद्धप्रयोगं वाक्यं प्रकृतनाटकानुरूपं निवेदयति प्रधनभूतो महाराजो विवेकः—–
99. अकलुषधियः। जनाः इति शेषः। ते विद्यान्तरप्रवृत्तिहेतुकालुष्यरहितबुद्धयस्सन्तः सर्वदा वेदान्तविद्यामादरेणाभ्यस्यन्तुय। एतन्नाटकदर्शनेन युक्तायुक्तविवेकस्य जातस्येदमेव फलम्। तदभ्यासे निवृत्तिधर्मःझ स्थास्यति। स एवाऽऽद्यः। प्रवृतिधर्मस्तु क्षुद्रानानाफलप्रसूतिः देवमनुष्यप्रार्थनावशात् कृतो नात्यन्तभगवदभिमतः। वक्तेत्यनेन स्वस्य कर्तृत्वत्यागः आचार्यकृतः। श्रोतेत्यनेन परिषदां भगवदन्तर्यामिकत्वानुसंधानेन तेषु स्वगौरवं तैरपि श्रवणविषयस्वात्त्विकत्यागस्य क्रियमाणत्वञ्च आविष्कृतम्। परमैकान्तिपरिषन्नियमनेन ह्येदभिनयारम्भ इति उपक्रमे उदीरितम्। प्रीयतां वासुदेव इति श्रीपञ्चरात्रशिक्षितवाक्यानुसन्धानम्॥ प्रीतिर्भगवति लक्ष्म्याञ्चाविशिष्टा अपेक्षितेति ज्ञापनाय श्रीमानिति। अभिनेतृमुखेन नाटकान्ते वक्तव्यमुक्तम्। ग्रन्थं समाप्य स्वयं कविः स्वरूपेण स्वाभिमत्तमाह स्तोतुमिति। जगत्—सारस्यानुभवैकतानमहाजनपरिषत् अस्मदुक्तमिदं स्तोतुं समूढम् समूहवत्—मिलितं भवेत्, भवति च। अन्यादृशजनसंघरूपं जगत् स्वमतानुकूलं न भवतीति निन्दितुं समूढं भवेत्। प्रबोधचन्द्रोदयो ह्यद्वैतानुरूपार्थपरं नाटकम्। तदभिनिवेशिनामत्र निन्दा संभावितैव। लोके शृङ्गारिणां वीरप्रधाने, वीरपराणां शृङ्गारप्रधाने, रसान्तरनिष्ठानां सर्वेषां विशेषेण शान्तिरसप्रधानेऽत्र श्रवणस्तवनयोरवकाशो दुर्लभः। तत्र शान्तानामपि मतभेदप्रयुक्तं वैरस्यमपीति हेतोर्निन्दा भवेदेव। स्वमतनिविष्टा अपि केचिदाग्रहयालवो निन्दका भवेयुरिति चेत् सत्यम्। परमतप्रविष्टा अपि शब्दसंदर्भविषयघटनादिवैलक्षण्याकृष्टाः, “मौनं बिभ्रतु मत्सरेण नमिताः"इति प्रथमांकोक्तरीत्या स्पृहयालवः एतत्सारस्यसारस्तवनपरा भवेयुः। केचित्तु मताभिमानविरहात् नाटकदिदृक्षादिमात्रपरा आन्तं शृणुयुः। प्रायो जनाः स्तवननिन्दने विहाय श्रवणेन कालवन्ध्ययन्त एव दृश्यन्ते। तान् दृष्ट्वा कथमिमे एवावदाकर्ण्यास्तुवन्त एव गच्छन्तीति नास्माभि क्लेशितव्यम्। न तादृशजनान् उद्दिश्य इदं कृतम्। किन्तु कतवेदमार्गप्रवर्तकपरमपुरुष-तदवतारभूताचार्यवर्ग-सच्छिष्यबृन्दसादरश्रवणवीक्षणभाजनं भवतीति निर्घार्येति। श्रोतुमित्यत्र सोढुमित ि क्विचित् पाठान्तरम्। तदा सत्यपि क्वचिद् दोषग्रहणे `गच्छतः स्खलनं न दोषाय’इति गुणग्रहणलालसतया तं सहन्त इत्याशयः। तथा च स्तवनपराः, निन्दनपराः, केवलं श्रोतारः (सोढारः)इति त्रैविध्यमुक्तम्। समूढमित्यत्र सुमूढमिति व्याख्यातृपाठो न प्रसिद्धः, नापि रुचिरः, एकैकतुमुन्नन्तेऽपि तदन्वयानौचित्यात्। स्तोतुमिति कक्ष्यायामुत्तरार्धोक्तानां गुणिनामपि ग्रहणं भवति।
*******************************************************************
.
]