+कृष्णमाचार्य-उपोद्घातः

Source: TW

उपोद्घातः

श्री-पतेः सत्यसङ्कल्प-
सूर्योदय-निराकृते ।
मायान्ध-तमसे+++(←अन्धतमसम्)+++ पुंसां
ब्रह्मानन्दथुर्+++(←आ + टु-नदि समृद्धौ + थुस्)+++ एधते ॥
इति राद्धान्तम् अत्यन्त-
हृद्यं वेदान्त-संसदः । ग्रन्थेऽस्मिन् स्पष्टम् आचष्ट
कविर् वेदान्त-देशिकः ॥

कवि-तार्किक-सिंहस्य श्रीमतो वेङ्कट-नाथ-महा-देशिकस्य
वाग्विलसिते ध्वन्यतम् अमिदं सङ्कल्पसूर्योदयाख्यं नाटकं
भगवद्-रामानुज-मुनेर् औपनिषदं सिद्धान्तं व्यावृण्वत्
सुमहद् उपकरोति मुमुक्षु-लोकस्य
सत्यापयति च वेदान्ताचार्यकं निबन्धुर् इति
सुविदितम् एतद् विदुषाम् ।