०२ प्रभावली

द्वितीय-व्याख्यायाः प्रभावल्या रचयिता नृसिंहराजाचार्यः ।
अयं प्रभावत्याः प्रारम्भे समाप्तौ
चानन्तार्यं श्री-शैलतातार्य-तनयं प्रणमति ।
अनन्तार्यं च ब्रह्म-तन्त्र-यति-सम्प्रदाय-निष्ठम् आवेदयति ।
अतो नृसिंह-राजाचार्येणानेन प्रायो ऽनन्तार्य-शिष्येण भाव्यम् इति,
तेनानन्तार्येण च श्री-परकाल-मठ-सम्बद्धेन भाव्यम् इति चावगम्यते ।
तस्य च कालं विशिष्य निर्धारयितुम् अधुना न पार्यते ।
परं तु नातीव प्राचीनो नाप्य् अर्वाचीन इति वक्तुं शक्यते ।
प्रायः 1840 A. D. कालस्यासन्नेन तेन भाव्यम् इत्य् ऊह्यते ।

टीकान्तरम्

इदमत्र प्राप्तकालं किञ्चिद् आवेदनीयम् अवशिष्यते ।
सङ्कल्प-सूर्योदयस्य प्रभावली-समाख्यया प्रथिते द्वे व्याख्ये वर्तेते ।
ते च परस्परं भिन्ने ।
तत्रैका ऽधुनात्र प्रकाश्यमाना नृसिंहराजाचार्य-कृता ।
अपरा चाज्ञात-कर्तृ-नामधेया ।
परं तु तत्-प्रारम्भे " वरदार्यम् अहं वन्दे वरणीय-गुणाकरम् " इति मङ्गलकरणात्
तत्कर्ता वरदाचार्यशिष्य इति ज्ञायते ।

(1 Vide the Sarkalpasuryodaya, Pandit Series, Benares. )

[[८४]]

कोऽयं वरदाचार्यः, कश्च तच्छिष्योऽत्र भवितुम् अर्हतीति विमर्शे
औचित्यात् कौशिक-वरदाचार्य-शिष्यो भारद्वाज-श्री-निवासो भवेद् इत्य् ऊहने
नानौचित्यम् इति भाति ।
एवं स्थिते वस्तुतत्त्वे काञ्चीपुर-स्थ-प्राचीन विद्या-सभिकैः ( Conjeevaram O. L. Institute )
1901 A. D. तमे वत्सरे सङ्कल्प-सूर्योदय-व्याख्या काचित् प्रभावली-समाख्या आन्ध्र-लिप्यां मुद्राप्य प्रकाशिता ।
सा च भारद्वाज-श्री-निवासाचार्य-कृतेति तत्र निर्दिष्टा ।
तस्याः स्वरूपे विमृश्यमाने
आदितः पञ्चानाम् अङ्कानां व्याख्या
सम्प्रत्य् अत्र प्रकाश्यमानायाः नृसिंहराजीय-प्रभावलीतो न भिद्यत इति,
तथा षष्ठादि-दशमान्तानाम् अङ्कानां व्याख्या
पूर्वोक्त-द्वितीय-प्रभावलीतो न भिद्यत इति च विज्ञायते ।
एवं तत्र व्याख्या-द्वय-साङ्कर्ये सत्य् अप्य्
एकव्याख्या-रूपेण
तत्रापि भारद्वाज-श्री-निवासाचार्य-कृतत्वेन च प्रकाशनं
किन्-निबन्धनम् इति न ज्ञायते ।

अडयार पुस्तकालये नृसिंहराजाचार्यकृता प्रभावलीव्याख्या
आदित आरभ्य दशानाम् अप्य् अङ्कानाम् अनुस्यूतोपलभ्यत इति
सैवात्र मुद्रणे परिगृहीता प्रकाशिता चेति विभावयन्तु सुधियः ।