०१ प्रभाविलासः

अत्र मुद्रितयोः प्रभाविलास-प्रभावत्योर् व्याख्ययोः
प्रभाविलासस्य कर्ता श्रीमान् अहो-बल-सूरिः
प्रारम्भ-श्लोके आत्मानम् अत्रि-गोत्र-जं श्री-पराङ्कुश-संयमि-शिष्यं च निर्दिशति ।
यथा -

" श्री-शं श्रियं वेङ्कट-देशिकेन्द्रं
पराङ्कुशार्यं यमिनं प्रणम्य । अहो-बलोऽयं विवृणोमि विद्वान्
सङ्कल्प-सूर्योदयम् अत्रिवंश्यः ॥ "

(Vide page 1 of the text,)

[[८२]]

इति ।
अनेनैवाहोबल-सूरिणा वाल्मीकि-रामायणस्य व्याख्या-द्वयं
नाम्ना तनि-श्लोकीति वाल्मीकि-हृदयम् इति च रचितम् ।
तत्र तनिश्लोक्य्-आरम्भे-

भक्तप्रतिष्ठा नीलाद्रौ
कलिता येन सूरिणा । सर्व-तन्त्र-स्वतन्त्रं तं
पराङ्कुशमुनिं भजे ॥

इति स्वगुरुं पराङ्कुशमुनिं नीलाद्रौ भक्तार्चा-प्रतिष्ठा-कारिणं निर्दिशति ।
(Vide R. No. 1629, of the T. C. Madras Government Oriental MSS. Library.)

वासन्तिका-परिणयाख्य-नाटक-कर्ता श्री-शठ-कोप-मुनिर् अप्य् एनं पराङ्कुश-मुनिं स्वस्य गुरुं
पुरुषोत्तमे भक्त-प्रतिष्ठा-कारिणं च निर्दिचति । यथा -

पूर्वं यस्तु मुकुन्द-देव-विभुना स्कन्धे धृतान्दोलिकः
प्राप्तः श्री-पुरुषोत्तमं रचितवान् भक्त-प्रतिष्ठापनम् । लब्ध्वा दन्ति-तुरङ्ग-रत्न शिबिका–च्छत्र-द्वयी–चामर- द्वन्द्वादीनि ययौ पुनश् च विजयी कर्णाट-सिंहासनम् ॥

इति ।
(Vide D. 12662 of the D. C. Madras Government Oriental Library)

अतः श्री-शठ-कोप-मुनिर् आत्रेय-रामानुजश् चेत्य्
उभाव् अप्य् एकस्यैव श्री-पराङ्कुश-मुनेश् छात्राविति निश्चीयते ।
श्री-पराङ्कुश-मुनिर् अयं श्रीमद्-अहोबल-मठास्थानम् अलङ्कुर्वतां यतीनां मध्ये षष्ठः ।
अतः षष्ठ-पराङ्कुश-स्वामीति प्रसिद्धिम् उपगतः । यथा-

  • १. आदिवण्-शठकोपमुनिः ( 1398-1458 A. D.)
  • २. नारायणमुनिः (1459-1472 A. D.)
  • ३. पराङ्कुशमुनिः (1473-14851. D. )
  • ४. श्रीनिवासशठकोपमुनिः (1485-1494 A. D.)
  • ५. वण्शठकोपमुनिः (1494-1492 A. D.)
  • ६. षष्ठ-पराङ्कुशमुनिः (1499-1513 A. D. )
  • ७ श्री-शठ-कोप-मुनिः(1513-1521 a. d.)

[[८३]]

अहो-बल-सूरिणा
प्रभाविलासे समुद्धृतेषु ग्रन्थेषु
प्रधानतमा इमे ग्रन्थाः ।
यथा –

  • १. चमत्कारचन्द्रिका — विश्वेश्वरकृता ( 1350 A. D. )
  • २. साहित्य-चिन्तामणिः - वीरनारायणकृतः (1420 A. D. )
  • ३. नाटकपरिभाषा - ( रसार्णव-सुधाकरान्तर्गता) शिङ्गभूपालकृता (1350 a. D.)
  • ४. अलङ्कार-सङ्ग्रहः — अमृतानन्दकृतः ( 1200 A. D. )

अतः प्रभाविलासकृत् अहोबलसूरिः 1530 A. D. कालस्य सन्निकर्षे बभूवेति निश्चेतुं शक्यते ।