११ उदाहरण-मूलानि

श्री-वेङ्कट-नाथ-देशिकैर् अत्र नाटके
ग्रन्थान्तरेभ्यः समुद्धृतेषु वाक्येषु बहून्य् उपनिषद्-वाक्यानि लौकिकन्याय-वाक्यानि च सन्त्य् अपि
न विशेषतोऽत्र गणनाम् अर्हन्ति । अत्र प्रस्तावनायां समुद्धृतः

" न तच् छास्त्रं न सा विद्या
न तच्छिल्पं न ताः कलाः ।
नासौ योगो न तज् ज्ञानं
नाटके यन् न दृश्यते ॥
सं.सू. १ २०.

[[८१]]

इति श्लोकः अमृतानन्द-कृते अलङ्कार-सङ्ग्रहे ऽनयैवानुपूर्व्या पठ्यते (अलंसं. ७.) ।

प्रभाविलास-कारो ऽहोबलोऽपि " अमृतानन्दश्लोकम् उदाहरति — न तदिति" (सं.सू. १-२०.)
इति पद्यम् इदम् अलङ्कार-सङ्ग्रहाद् उद्धृतं निर्दिशति ।
तस्माद् अलङ्कार-सङ्ग्रह-कारो ऽमृतानन्दः
कवेर् अस्मात् पूर्व-कालिक इत्य् अवगम्यते ।
तस्य समयः प्रायेण 1200 A. D. भवेद् इति वक्तुं शक्यते ।

पञ्चमेऽङ्के " तुण्डीरं मण्डलं मे कुलपतिर् अपि स्कन्दभूपाल-वन्द्यः " (सं-सू. ५-३६.)
इति दर्प-वाक्येन स्कन्द-भूपालं कञ्चन निर्दिशति कविः ।
स च स्कन्द-भूपालः “कश्चित् शूद्र-प्रभुः” (सं-सू. ५.३६.) इति प्रभाविलासे विवृतः।
स च भूपालो गण्ड-गोपाल-राय इति
तदीयं किम् अपि शासनं शकाब्दे ११५३ ( A. D. 1230 ) तमे प्रवर्तितम् उपलभ्यत इति च
चरित्र-विमर्शकाः साम्प्रदायिकाश् च कथयन्ति ।
(Vide the Introduction to the Pādukāsahasra, page 12. Kāvya.mālā Series, No 92, Bombay 1911 and L. D. Swamikannu Pillai’s Indian Ephermeris, Vol I - Part II page No. 79.)
दर्प-वाक्ये स्व-कुल-पतिः स्कन्द-भूपाल-वन्द्य इत्य् उक्तेः
प्रकृत-ग्रन्थ-कर्तुः काल-विशेष-निर्णये
स निर्देशः कथम् अपि नोपकर्तुं प्रभवतीति
प्रमाणान्तरैः कवि-कालः सुस्पष्टं निर्णीत एवेति च
तस्य भूपालस्योदन्ताद्य्-अन्वेषणे ऽस्माभिर् नातीव परिश्रमः कर्तव्य इत्य् उदास्महे ।