०७ उद्देशः

एवं सुविशदम् अध्यात्म-शास्त्र-रहस्यं प्रतिपादन-परतया
शारीरक-शास्त्र-प्रकरण-भूतम् इदं रूपकम्
इति वक्तुं शक्यम् ।
त्रि-वर्गैक-प्रतिपादन-पराणां
तत्रापि सांसारिक-भोग-प्रवणाधिकारिकाणां नाटकानाम् अनुपादेयत्वम्,
अपवर्गौपयिक–पर-विद्या–प्रतिपादकानाम् अध्यात्म-शास्त्र-सम्बद्धानां ग्रन्थानाम् एवोपादेयत्वंमन्यमानेन
मान्येनानेन कविना
नाटकम् इदं लोकानुजिघृक्षया प्रणीतम्
इति तद्-वाक्येनैवावगम्यते ।

यथा –

“आदिष्टो ऽस्मि …
अधिजिगमिषित-मुक्ति-घण्टा-पथैर्
… औपनिषद-रहस्योपदेश-देशिकैर् (असमीचीन-पराङ्मुखैर्) आर्यमिश्रैः"
1 सङ्कल्पसू. P. 13.

इति,

अपदिश्य+++(=व्याजीकृत्य)+++ किम् अप्य् +++(रूपकम् इति)+++ अ-शेष+++(-जन)+++-गुप्त्यै
निगमान्तेषु निरूढ-गौरवेण ।
प्रविभक्त-हिताहितः प्रयोगः
कविना कारुणिकेन कल्पितोऽसौ ॥ ११ ॥
सङ्कल्पसू. १-११.

इति,

नाथ-प्रीत्यै नाटकम् अर्थ्यं व्यधितैतत्
सङ्कल्पसू. १-१५०

इति च ।
अनेन चैतत् ज्ञायते
औपनिषद-मतान्तर-सिद्धान्त-प्रकाशन-परेण केनापि प्रयोगान्तरेणोद्वेजिताः परमैकान्तिनः
सामाजिका आचार्यम् एनं सद्-दर्शन-रहस्य-प्रकाशक-प्रयोग-करणाय प्रार्थयन्त ।
ततस् तद्-अभ्यर्थनाम् अङ्गीकृत्य
वेदान्त-गुरुर् अयं
मुमुक्षु-जनानुग्रहाय वेदान्त-सम्मत-रहस्यार्थ-प्रकाशकम् एनं ग्रन्थं निरमिमीतेति ।

“तच् चोद्वेजकं प्रयोगान्तरं किं नाम स्याद्” इति विमर्शे -
औचित्यात् प्रायेण
कृष्ण-मिश्र-कृतं प्रबोध-चन्द्रोदयाभिधम् एवेत्य् ऊहितुं साम्प्रतम् ।

[[२४]]

एवञ् च स्व-मत-स्थापनाभिसन्धिर् एव
ग्रन्थ-कर्तुर् एतस्य ग्रन्थस्य करणे निदानम्
इत्य् अवगम्यते ।

अत्र केचित् कृष्ण-मिश्रेण सहाचार्यस्य वादे प्रसक्ते
पराभूतेन कृष्णमिश्रेण
स्वकीये प्रबोधचन्द्रोदये प्रदर्शिते
तत्-स्पर्धया ग्रन्थम् एनम् अरचयन्न् आचार्या
इत्य् ऐतिह्यं परिकल्पयन्ति ।
तत्तु न हृदयङ्गमम् ; न वा विचार-सहम् ।
आचार्या हीमे स्पर्धादिषु सर्वात्मना विमुखा विरक्ताग्रेसराः
कालम् अयापयन्न् इति
तच्-चरित्र-विमर्शकैर् अ-सकृद् उदुघुष्यते ।
तथा च-

यः ख्याति-लाभ-पूजासु
विमुखो, वैष्णवे जने ।
+++(शेश-वृत्त्या)+++ क्रयणीय-दशां प्राप्तस्
तस्मै भव्याय मङ्गलम् ॥

इति कुमारवेदान्ताचार्याणां मङ्गलाशासनम् ।

किञ् च - कृष्णमिश्रः कीर्तिवर्म-नृप-समकालिक इति तदीय-नाटकाद् अवगम्यते ।
स कीर्ति-वर्मा 1065 AD. काले बभूवेति
चरित्र-विमर्शका निरणैषुः ।
आचार्याश् चेमे ततोऽब्दानां द्विशत्या अनन्तरं 1268 A.D. काले कृतावतारा
इति कथम् एषां
तेन कृष्णमिश्रेण वादः स्पर्धा वा युज्यताम् इति
सुधियो विभावयन्तु ।