०६ विषयः

अथायम् अत्र ग्रन्थे प्रतिपादितो विषयः -

देहिनां गुणभूता विवेक-सुमति-व्यवसायादयो
मोह-दुर्मति-लोभादयश् चात्र पात्रतया परिकल्पिताः ।

तत्र विवेक-सुमत्यादयः सात्त्विकाः,
मोह-दुर्मत्य्-आदयश्च यथायथं तामसा
राजसाश् च गुणा इति विभागः ।

1विवेकोऽत्र धीरोदात्तो नायकः ।
पुरुषस्य संसारान् मोचनं च तद्-ईहितं प्रयोजनम् ।
संसृति-दव-दहन-दन्दह्यमानं देहिनम्
अवितुकामो विवेकः सुमत्यादिसहायः
पुरुषस्य प्राकृत-वैषयिक सुख-वैमुख्यम् उपजनय्य
तं समाधाव् अवस्थापयितुं प्रयतते ।

मोहस्तु तद्-अरातिर् दुर्मत्य्-आदि-सहायः
पुरुषस्य प्राकृत-वैषयिक-सुख-लोलुपतां सम्पाद्य
तं संसृताव् एव गाढम् अभिनिवेशयितुम् उद्युङ्क्ते ।

अन्ततो विवेको मोहं सपरिवारं पराजित्य
पुरुषं च पर-ब्रह्म-समाधि-प्रवणम् अवस्थाप्य
तत्-प्रसन्न-भगवत्-कृपोत्थापितेन भगवत्-सङ्कल्पेन
संसाराद् उन्मोच्य
परब्रह्मानुभव-रूपं मोक्ष-साम्राज्यं प्रापयति ।

तत्र च विवेक-सुमत्यादीनां सद्-गुणानां पुरुषोपकार-परत्वं
मोह-दुर्मत्य्-आदीनां दुर्गुणानां पुरुषापकार-प्रसितत्वं च
सुनिपुणं सुव्यक्तं चोपपादितं कविना ।

०१ स्वपक्ष-प्रकाशः

तत्र स्वपक्ष-प्रकाशो नाम प्रथमोऽङ्कः ।

आदौ विष्कम्भे
महा-मोहानुयायिनां काम-रति-वसन्तानां
मिथः संलाप-मुखेन
देहिनां तैर् उपजायमाना अनर्था,
राग-द्वेषादिभिः क्रियमाणो महा-मोहस्योपकारो,
विवेकस्यापकारश् चेत्य् एते प्रतिपादिताः ।

ततो नित्य-निर्मलानन्द-स्वरूपस्यापि पुरुषस्यानादिसिद्ध-कर्माख्याविद्यया संसृतिबन्धः,
तन्-मोचको भगवान् श्रियः पतिर् एव पर-तत्त्वम्,
तद्-इतराणि सर्वाण्य् अप्य् अवर-तत्त्वानि,
भगवत्-सङ्कल्प एक एव पुरुषं संसारान् मोचयितुं क्षमः,
भगवत्य् अनन्य-भक्ति-प्रपत्ती एव तत्-प्रसादन-समर्थे,
सकल-पुरुषार्थ-प्रदाने भगवान् एक एव प्रभुः,
आत्मनां भगवच्छेषतैकरसत्वम् एव नैसर्गिकं स्व-रूपम्
इत्यादिकम् उपवर्णितम् ।

[[१५]]

०२ पर-पक्ष-प्रतिक्षेपः

पर-पक्ष-प्रतिक्षेपो नाम द्वितीयोऽङ्कः ।
तत्र प्रवेशके सुमति-सख्योर् विचारणा-श्रद्धयोः संवाद-मुखेन
पुरुष-प्रतारणाय महा-मोह-कृतस्य बाह्याबाह्य-कथक-प्रेरणस्योपक्षेपः ।

ततो गुरु-शिष्ययोः प्रवेशम् उपक्षिप्य,
विवेक-व्यवसाययोः सन्निधाने सदसि गुर्व्-अनुग्रहात्
शिष्येण साङ्ख्य-योग-काणादानां, बौद्ध-जैन-पाशुपतानां, भाट्ट-प्राभाकराणां, तथा शाङ्कर-भास्कर-यादवीयानां च मतानां
निरासो दिङ्-मात्रेण प्रदर्शितः ।

प्रसङ्गागतं च पाञ्च-रात्राप्रामाण्य-वादं निराकृत्य
तत्प्रामाण्यं च समर्थितम् ।
अनेन शारीरके अविरोधाध्याये
पर-पक्ष-निराकृति-प्रकरण-मध्ये दृश्यमानं पाञ्चरात्राधिकरणं
पाञ्चरात्र-प्रामाण्य-निरास-परमेव भवितुम् अर्हतीति
परेषाम् उद्घोषः प्रत्युक्तः,
तत्र पाञ्चरात्राप्रामाण्य-निरासार्थं प्रवृत्तत्वात् तस्याधिकरणस्येति मन्तव्यम् ।

अनेन च गुरु-शिष्य-वृत्तान्त-प्रसङ्गेन कविर् अयं
भगवद्-रामानुजं गुरुम्, आत्मानं च शिष्यम् अनामोल्लेखं परिकल्प्य
चिरात् स्वहृदये विपरिवर्तमानम्
आत्मनो भगवद्-रामानुज-साक्षाच्-छिष्यत्वालाभ-जनितं खेदं
लघयितु-काम इव सन्दृश्यते ।

०३ मुक्त्युपायारम्भः

मुक्त्य्-उपायारम्भो नाम तृतीयोऽङ्कः ।
एवं मुक्त्य्-उपाय-प्रवृत्त्य्-औपयिकं पुंसां भगवच्-छेषतैक-रसत्वं
प्रथमेऽङ्के प्रतिपाद्य
द्वितीयेऽङ्के तद्-अपलापिनां मतानि निराकृत्य
तद् एव सुदृढं व्यवस्थापितम् ।

अनन्तरं तृतीयेऽङ्के विष्कम्भे
विवेक-बलात् दूरी-कृत-निषिद्धाचाराणाम् अपि
काम-कामानां केवल-कर्मठानां
त्रिवर्गाभिलाषेण प्रवृत्ति-धर्म-निरतत्वं,
विरक्ति–विष्णु-भक्त्योस् त्रिवर्ग-वैरस्यापादिकयोर् अपि
प्रायशो राग-द्वेष-बलान् मोघ-प्रवृत्तित्वं
चोपपादितम् ।

ततश् चिर-काल-सञ्चित-पुण्य-सञ्चय-महिम्ना
योगारम्भ-विरोधि-त्रैगुण्य-निरासाय
भगवन्तं प्रपन्नः पुरुषः
सर्वेश्वरे भगवति निरवधि-प्रेमानुध्यान-रूपं समाधिं कर्तुम् ईहेत ।

तत्र चालम्बन-भूतस्य समस्त-कल्याण-गुणाकरस्य भगवत्-स्वरूपस्य रस्यतातिशयात्
तद्-अन्यत्र विरक्तिः स्वयम् एवोदयते ।
पुंसा विरक्तिर् द्विधा समुदेति -
एका संसार-दोष-दर्शनात्,
अपरा पर-ब्रह्म-रस्यतातिशयात् ।+++(5)+++

[[१६]]

तयोः प्रथमाम् अपेक्ष्य
द्वितीयैव महते फलाय कल्पते ।
तदात्वे च पुरुषो नित्य-नैमित्तिकानि कर्माणि
सात्त्विक-त्याग-पुरः-सरं केवलं भगवद्-आराधन-वेषेणानुतिष्ठन्
निषिद्धानि काम्यानि च कर्माणि सर्वात्मना स्वरूपतः परित्यजन्
योगम् अभ्यस्येत् +++(स्वशेषतैकरसत्वात्)+++।

भगवत्-प्रसाद-लिप्सया समाधिम् आतस्थुषा पुरुषेण
भागवतापचारो दूर-परिहरणीयः ।
तथा बलवद् अवहित-चेतसोऽपि योगिनः
सम्भवन्त्य् अन्तरा ऽन्तरा सिद्धिविरोधिनो
बहवो ऽन्तरायाः ।

तथाहि– योग-निश्रेणिकायां पञ्चषाणि पदान्य् आरूढस्यानुषङ्गिक्यः सिध्यन्त्य् अणिमाद्याः सिद्धयः ।
यदि तासु मनो रज्येत,
तदा तत्-प्राप्त्यैव कृत-कृत्यम्-मन्यो ऽसौ
पुनः संसृताव् एव परिवर्तेत ।
अतो मनीषिणा ता दूरतः परिहर्तव्याः ।

प्र-घट्टकम् एनम् अतिक्रम्य
निश्रेणिकायां तद्-उपरि पञ्चष-पदारोहणे
स्वात्मानुभवो नाम महान् गर्तो
ऽस्य पन्थानम् आवृत्य तिष्ठेत् ।
तत्र निपतितः पुरुषः प्रायशो नान्यल् लिप्सेत ।+++(4)+++

“यं लब्ध्वा चापरं लाभं
मन्यते नाधिकं ततः " (1 भ. गी. ६-२२.)

इत्य् उक्त-रीत्या तद्-उपजनितम् आनन्दम् एव
निरतिशय-लाभं मन्वानस्
तत्रैव निरतो, ब्रह्मानुभव-रूपं मोक्षम् अपि विस्मरेत् ।

तस्माद् एते ऽन्तराया अवहित-मनसा दूरतः परिहरणीयाः ।
एवं दृढ-सङ्कल्पेन चेतसा
मुक्त्य्-उपाय-भूतः समाधिर् आरम्भणीयः ।

०४ कामादिव्यूहभेदः

कामादिव्यूहभेदो नाम चतुर्थोऽङ्कः ।
एवम् अवहितेन चेतसा
समारब्ध-समाधेर् अपि पुरुषस्य चित्तं
पूर्वानुभूत-विषय-वासना-कलुषितं
समाधौ न स्थिरतराम् अवस्थितिम् अवाप्नुयात् ।
विषयेभ्यः प्रसभ-विनिवर्तितम् अपि चेतस्
तदा तदोद्बोधक-समवधाने
पुनर् अपि सांसारिक-भोगेभ्यः स्पृहयेत्,
यथा सौभरि-विश्वामित्रादेः ।
परं तु योगी
कञ्चित् कालं वैषयिकं सुखम् अनुभूय
पुनस् तत्र दोष-दृष्टया विरज्येत ।
पुनर् उद्बोधक-समवधाने प्राकृत-भोगेषु प्रसजेत् ।
पुनर् आत्मनो गर्हणीयतमाम् अवस्थाम् अवबुध्यापत्रपेत ।
एवं महति सङ्कटे वर्तमानो
ऽत्यन्त-शोचनीयां दशाम् आपद्यातितरां सीदेत् ।

तदा च केचित् कातर-हृदयाः
समाधिम् एवात्यन्तायावधूय
पूर्वं जिहासितां संसृतिम् एव
पुनः शरणम् अन्विच्छेयुः ।
तेषु च विवेको ऽकिञ्चित्करः ।
किञ्च प्रक्रान्त-योगम् एनं यदि कश्चिद् अवजानाति,
न बहु-मन्यते परैर् उपादीयमानां बहुमति विहन्तिं वा
तदा योगिनो ऽप्य् अस्य दुर्निवारः क्रोधः शत-गुणितः प्रभवेत् ।
ततश् चायं प्रक्रान्तं योगम् अवज्ञा-हेतुम् अवधार्य
तं विहाय
क्रोधात् समुत्थितो ऽवजानन्तं हन्तुं प्रयतेत ।
ततस् तद् एव रन्ध्रं समासाद्य
राग-क्रोधौ मात्सर्यादि-परिवारौ लोभ-तृष्णाभ्यां सहाभेद्यं व्यूहं परिकल्प्य
पुरुषम् अभिहन्तुं प्रयतेयाताम् ।

तदा ऽनेन तितिक्षा-मुदितादि-कवचम् उपष्टभ्य
दृढ-सत्त्व-विवेक-बलात्
रागादि-व्यूहं भित्त्वा
समाधौ स्थैर्यं सम्पादनीयम् ।

०५ दम्भाद्य्-उपालम्भः

दम्भाद्य्-उपालम्भो नाम पञ्चमोऽङ्कः ।
तद् एवं रागादि-व्यूह-भेदेन
पुनः प्रक्रान्त-योगः पुरुषः
सर्व-जन-समक्षं रागादि-जन्य-प्रवृत्ताव् अपत्रपमाणो ऽपि
सर्वात्मना ऽऽत्मानं ततो नियन्तुम् अशक्नुवन्
रहसि तत्-प्रवृत्तिम् ईहते ।
तदा चात्मनो भ्रंशं निगूहयितुं,
स्वस्य समाधि-निष्ठतां प्रथयितुं
तेन प्राकृतान् जनान् प्रतारयितुं च
दम्भं कुहनां चावलम्बते ।

दर्पश् च तदा स्वयम् एव दम्भस्य साहायकम् आचरति ।

ततश् चात्मानम् अमानुष-योग-सिद्धि-बल-सम्पन्नं लोकातीत-महिमानं च प्रथयितुम्
अतथ्ये पथि पदं निदधाति पुरुषः ।
“सर्वम् अपि लोहं कनकी-कर्तुं प्रभवेयम्”
इति ब्रुवन्
सञ्चित्य लोह-जातं पुट-पाके निक्षिप्य धमति ।
प्रतारिताश् च जना
अनल्पं वित्तम् अस्मै प्रयच्छन्ति ।
तेन चाभीष्टान् भोगान् सम्पाद्यानुभवति ।

तथा ऽऽत्मनो ऽतीतानि जननान्तराणि स्मरन्न् इव
किम् अपि किम् अप्य् असम्बद्धम् अश्रद्धेयं च प्रलपति ।
जनाश् च प्रतारिताः
“संवर्त-भरतादिवद् योग-सिद्धो ऽयम् उन्मत्तचर्य”
इति विशेषतो बहु मन्यन्ते ।

एवं लब्धावकाशो ऽयं कथा-प्रसङ्गे
स्ववृत्तान्तम् एवम् अतथ्यम् असम्भाव्यम् अपि
बहुमत्य वर्णयति -

’ पूर्वं जामदग्न्यो वसुन्धरां कृत्स्नां विजित्य
सर्वस्व-दक्षिणे यज्ञे
तां मह्यं प्रदित्सन्
मां प्रतिग्रहीतुं प्रार्थयत ।
निःस्पृहस् त्व् अहं तद्-अर्थनां नाकार्षम् '

इति ।

[[१८]]

अन्यदा चैवं विकत्थते-

‘कस्मिंश्चिन् निशीथे
जनेषु सर्वेषु सुषुप्तेषु
कश्चन दिव्यः पुरुष आगत्य
मां ब्रह्मलोकागमनाय प्रार्थयत ।
अहम् अपि तद्-अर्थनां निराकर्तुम् अपारयिष्णुः
सत्य-लोकम् अगमम् ।
तत्र च हिरण्य-गर्भादिभिर् उद्धृतार्घ्यैर्
अहम् अनन्य-सामान्यम् अभ्यर्चितः
पुनर् अत्र लोकोद्धरणाय प्रेषितः’

इति । एवम् एभिर् अन्यैश् च प्रतारणैः
प्रतार्यमाणा जनाः
प्रभूतं द्रविणम् अस्योपहरन्ति ।
अयं त्व् अनादरम् अभिनयन् सर्वम् अपि तन् निराकरोति ।
तेन च जना एधित-श्रद्धास्
ततोऽप्य् अधिकानि धनानि तच्-छिष्य-व्यपदेशिने कस्मैचिद् अर्पयन्ति ।
तैर् एव धनैर् उभाव् अपि मिष्टं भोगम् अनुभवत
इति लोकस्थितिः ।

अस्मिन्न् एव व्यतिकरे असूया-समाश्लिष्टः
सर्वान् अपि महत्तरान् विनिन्दितुम् उद्युङ्क्ते ।
यथा –

लोकेऽद्य यावत् प्रसिद्धानि
सर्वाण्य् अप्य् अवैदिकानि वेदिकानि वा मतानि
न हृदयङ्-गमानि ।

तत्र साध्व्–अ-साधु–कर्म-फल–भाज आत्मनो ऽनङ्गीकारात्
कृत्याकृत्य-व्यवस्था-वैयाकुली-प्रसङ्गेनावैदिकानि मतानि सर्वाण्य् अपि
न हृदयङ्-गमानि ।
वैदिक-ब्रुवेष्व् अपि
केषुचिन् मतेषु निरीश्वर-वादिषु
सृष्टि-प्रलयानुपपत्त्या न विमर्श-सहता ।

औपनिषदेष्व् अपि मतेषु निर्विशेषाद्वैत-वादे
अ-बाधित-दृष्टापह्नवादयो बहवो दोषाः ।
स-विशेषाद्वैत-वादे सर्व-शरीरितया सकल-प्रपञ्च-दोष-भाक्त्वादयो ब्रह्मणो दोषाः ।
केवल-द्वैत-वादेऽपि ब्रह्मानुपादानत्व+आनन्द-तारतम्यादयो बहवो दोषा इति,

तान्य् अपि न हृदयङ्-गमानि

+ इति ।

तत्-प्रवर्तकाणाम् आचार्याणां न्यूनतैव

+इति ।
नैतावतापि विश्राम्यन्ति ।
किन्तु

“धर्म-संस्थापनार्थम् अवतीर्ण” इति
“विग्रहवान् धर्म” इति च
श्रद्-दधानैर् उद्घुष्यमाणो राघवो
जुगुप्सनीयतमं स्त्रीवधम् अकरोत्,
अन्तर्हितो भूत्वा वालिनं जघान,
समरे वीर-गर्हणीयं द्वित्र-पदापक्रमणम् अनुमेने,
उपदशान् मासान् राक्षसावासोषितां युवतीं भार्यां
पुनर् निर्विशङ्कम् अङ्गीचकार

+इत्यादिकं वदन्न् आत्मानम् एतादृश-दोष-गन्धासंस्पृष्टं विकत्थते ।

आत्मानं सकल-तन्त्र-पारदृश्वानं कथयन्
तत्र तत्र सिद्धान्तेषु दोषान् अशङ्कनीयान् उद्भावयति ।

[[१९]]

औपनिषदराद्धान्तिनः भव-भय-भीता
भव-रस-निमग्नं श्री-जानिं पुरुषोत्तमम् उपसद्यात्मनो मुक्तान् प्रख्यापयन्तो
मुक्तौ कामिताभिः स्त्रीभिर् वा यानैर् वा विहरन्तीति महद् इदं सारस्यम् ।
न खलु वृश्चिक-भयात् पलायमानैर्
आशी+++(=विषदन्त)+++-मुख-मुखे निपतितव्यम्

इति च परिहसन्ति ।
इत्थम् अनर्थ-निदान-भूतेषु दम्भादिषु
प्रक्रान्त-समाधिभिर् मनो न विधेयम् इति प्रतिपाद्यते ।

०६ स्थान-विशेष-सङ्ग्रहः

स्थान-विशेष-सङ्ग्रहो नाम षष्ठोऽङ्कः ।

प्रक्रान्त-समाधिना पुरुषेण दम्भ-दर्पादि-रहितेन भाव्यम्

इत्य् उक्त्वा

धारणादि-सिद्ध्यर्थं समाधि-विघातक-विषय-वर्जितं स्थानम् अन्वेष्टव्यम्

इति वक्तुं
सर्वेषाम् अपि पुण्य-क्षेत्राणां पुण्य-तीर्थानां चाद्यत्वे
कलिना प्रदूषितत्वं
समान्येन विष्कम्भे महा-मोह-कञ्चुकि-वाक्येनाभिधाय
व्यपदिष्टानां पुण्य-क्षेत्र-तीर्थानां दुष्टत्व-प्रतिपादन-पुरः-सरं
यत्र कुत्रापि स्थितस्यात्मनो हृदय-गुहैव योगस्य विविक्तं स्थानम्
इति निर्णीयते ।+++(5)+++

तत्र पुण्य-क्षेत्र-तीर्थानां व्यपदिष्टानाम् अपि दुष्टत्वं प्रत्येकम् आह -

चतुर्दशस्व् अपि भुवनेषु
क्षितिर् एकैव धर्मास्पदम् ।
इतराणि तु भोग-भूमयः ।
क्षित्याम् अपि भारत-खण्ड एव प्रशस्त-तमः ।

तत्र रजत-गिरिर् यद्य् अपि काम-दहनेन भवानी-पतिनाध्युषितः,
तथापि न परमैकान्तिनां भागवतानाम् आदरास्पदम् इति
स हेय एव ।

गन्ध-मादन-गिरिर् अपि
त्रैवर्गिक-भोगास्पदम् इति
न मुमुक्षुभिर् आदरणीयः ।

गन्धमादन-वनं च यद्य् अपि रघुपति-ध्यानैक-परायणेन मारुतिना संश्रितं,
तथापि वीणा-मृदङ्गादि-सङ्गीत-रव-प्रचुरम् इति
चित्त-विक्षोभकम् एव ।

हिम-गिरिर् अपि विद्या-धरादि–मिथुन-भोग-स्थानम् इति
न समाधि-स्थानं भवितुम् अर्हति ।

अनन्तरम् आर्यावर्ते च
साकेत-मधुरे रघु-यदु-पत्य्-अवतार-देश-भूते यद्य् अपि ग्राह्ये,
तथापि पाषण्डि-गणाकीर्णत्वाद्
अ-धर्म-विप्लुते इति
न समाधि-योग्ये ।

हरि-क्षेत्रं च पुण्य-तम–चक्र-तीर्थ-महितम् अपि
भगवन्-मूर्ति-सालग्राम-भेदिभिर् लुब्धकापशदैर्+++(←अप+शद् पतने)+++ आकीर्णत्वान्
न वासार्हम् ।

वाराणसी तु +++(रामतापनीयोपनिषद्-उक्त-)+++राम-षड्-अक्षर-ध्यानोपदेश-परेण महादेवेनाध्युषितम् अपि
म्लेच्छ-प्रायाधिपत्यात्
लुप्त-सदाचारेति न ग्राह्या ।

[[२०]]

दक्षिणा-पथे च मरु-भूमिः
कुसीद-जीविभिर् अनार्यैर् लुब्धैर् अधिष्ठितत्वान् न योग्या ।

दक्षिण-बदरिका-प्रख्यो भगवद्-रामानुज-विजय-साक्षि-भूतो यादवाचलो
भगवन्-नारायणस्य स्वयं-व्यक्ति-क्षेत्र-भूतो ऽपि
दुः-सह-पवनावेग इति
न साधकस्य स्थानं भवति ।

केरल-देशस् तु श्री-पद्म-नाभावास-भूतोऽपि
तुरीय-पुरुषार्थोपरोधि-केवल-प्रवृत्ति-धर्मोपदेष्टृ-जामदग्न्य-परिगृहीतत्वान्
न योग-योग्यं स्थानम् ।

पाण्ड्य-देशो यद्य् अपि महा-भागवतोत्तम-श्री-शठ-कोप-सूर्य्-अवतार-महनीयः,
तथा ऽपि नल-सेतु-दर्शन–कुतूहलि-जन-सङ्घ–गतागत-घोष-मुखरितत्वान्
न समाधिम् एधयति ।

चोल-भूमिस् त्व् अपवर्ग-पथ-वैदेशिकैः कु-कविभिर् आकृष्ट-जनतेति
न सम्भावनार्हा ।
तत्र यद्य् अपि श्री-रङ्ग-क्षेत्रं स्वयं व्यक्तं पुण्य-तमं माननार्हं विभाति,
तथा ऽपि तत्रापि सम्भवन्त्य् एव योग-विघ्नाः ।

एवं तुण्डीर-देशे सत्य-व्रत-क्षेत्रं+++(=काञ्ची)+++
तत उत्तरतो वेङ्कटाद्रिश् च
यद्य् अपि भगवद्-अभिव्यक्ति-भूते,
परन्तु तत्रापि जाग्रत्य् एव योग-प्रत्यूहाः ।

अतो यत्र कुत्रचिद् एकान्ते देश उपविश्य
हृदय-गुहावसथं परमात्मानम् अन्तर्यामिणं श्रियः पतिं ध्यायेद्
इति प्रतिपादितम् ।

पूर्वोक्त-विचार-सारः सङ्गृहीतो ऽमुना श्लोकेन कविनैव

सा काशीति न चाकशीति+++(=चकास्ति, छान्दस-रूपम्)+++, भुवि सा ऽयोध्येति नाध्यास्यते
सा ऽवन्तीति न कल्मषाद् अवति, सा काञ्चीति नोदञ्चति ।
धत्ते सा मधुरेति नोत्तम-धुरां, मान्यापि नान्या पुरी या वैकुण्ठ-कथा-सुधा-रस-भुजां रोचेत नो चेतसे।
सङ्क. सू. ६.३८.

०७ शुभाश्रयनिर्धारणम्

[[૨૪]]

शुभाश्रय-निर्धारणं नाम सप्तमोऽङ्कः ।
एवं सदाचार-शील-परमैकान्ति-भागवताभिमतं
यं कञ्चिद् देश-विशेषम् आस्थाय
हृदय-कमल-रूप-योग-पीठे
भगवतो ध्यान-प्रकारो ऽत्र प्रतिपाद्यते ।

तत्र च विष्कम्भे व्युत्थान-दशायां
सदाचार्योपदेश–भगवच्-छास्त्रादिभिर् अनुभूतस्य
भगवद्-दिव्य-स्वरूपस्य संस्कारेण
स्मृति-पथमानीतस्य निदिध्यासनं
तत्र किञ्चित्-प्रमादादिना निद्रालस्यादि-प्रसङ्गे
मोहवशात् संस्कार-विच्छेदान् निदिध्यासन-विलय-प्रसङ्गः,
तदात्वे च दृढेनाध्यवसायेन पुनः संस्कारोद्बोध-सम्भवात्
भगवद्-अनुध्यान सन्तति-लाभ इत्य्-आदिकम् उच्यते ।

हृदय-कमलाख्ये
ज्ञान-भक्ति-वैराग्य-शान्त्य्-आख्यैश् चतुर्भिर् मणि-स्तम्भैर् अवष्टब्धे रत्नमण्डपे

दिव्य-किरीट-हार-केयूर-कटकादि-विभूषितं
शङ्ख-चक्र-गदा-पद्म-शार्ङ्गादिभिर् उपासितं
श्री-वत्स-वनमाला–श्री-तुलसी–कौस्तुभोज्ज्वलं
हरिं पीताम्बर-धरं ध्यायेद्
इति च सङ्ग्रहेण प्रतिपादितम् ।

ततः संस्कारेण चित्त-भित्तौ लिखितस्य प्र-पञ्चालेख्यस्य
विवेक-सुमति-व्यवसायैर् दर्शन-व्याजेन
ध्यानालम्बन-विशेष-निर्णयौपयिक-भगवद्-अवताराणां वर्णनं,
कर्म-पर-वशानां हिरण्य-गर्भादीनां ध्यान-विषयताऽनर्हतया
भगवद्-दिव्य-स्वरूप-दिदृक्षा,
तत्रा ऽपि वासुदेव-सङ्कर्षणादि-पर-व्यूहानां दुर्-अधिगमत्वात्
मत्स्य-कूर्मादि-दिव्यावतारेषु निदिध्यासन-सौकर्यं,
निदिध्यासनस्यापि मोक्ष-प्रदत्वं च प्रतिपाद्य,

मत्स्यः कूर्मो वराहश् च
नारसिंहश् च वामनः ।
रामो रामश् च रामश् च
कृष्णः कल्की च ते दश ॥

इत्य्-आद्य्-उक्तानां दशानाम् अवताराणां
महिमातिशयम् उपवर्ण्य
तेष्व् अन्यतमस्यालम्भनार्हता चोपपादिता ।

०८ मोहादिपराजयः

मोहादि-पराजयो नामाष्टमोऽङ्कः ।
एवं व्यूह-भेदनेनापदिशम् अपक्रान्ताः कामादयो
दुर्वासनाभिनिवेशाभ्याम् उपष्टब्धा
महा-मोह-साहायकम् आधित्सवः
पुनर् अपि पुरुषस्योपक्रान्त-समाधेश्
चित्तं विषयाभिमुखम् आक्रष्टुम् उद्युञ्जते ।
एतम् एवोचित-कालम् आकलय्य
महामोहः,
कामादिभिर् मूल-बलैः परिवृतः
स्वयम् एव राजानं विवेकम् अभियोक्तुं प्रवर्तते ।

[[२२]]

ततः सालम्बनं समाधिम् आस्थितस्य पुरुषस्य कामादिभिर् अक्षोभ्यतां
तत एव विवेकस्य सर्वथा ऽप्य् अजय्यतां चावधार्य
दुर्वासनाऽभिनिवेशाभ्यां मोह-पक्षाद् अपक्रम्य
सुवासना-समाध्य्-अभिनिवेशनाम्ना
स्व-पक्षाश्रिताभ्याम् उपष्टब्धो विवेकः
कामादीन् स-परिवारान् निहन्तुम् उद्युङ्क्ते ।

ततो नारद-तुम्बुरु-संवाद-मुखेन
विवेक-महामोहयोः समर-वर्णनम्,
अन्ते विवेकेन महामोहस्य विध्वंसनं,
विवेकस्य समाधि-सम्पादन-त्वरेत्य्-आदिकं सरसम् उपवर्णितम् ।

०९ समाधि-सम्भवः

समाधि-सम्भवो नाम नवमोऽङ्कः ।
एवं भगवत्-कटाक्षैधित-विभवेन विवेकेन
मोहादिषु पराजितेषु
पुरुषस्य भक्ति-प्रावण्यं भूयो ऽभिवर्धते ।
परं त्व् इदानीम् अपि कर्म-नाम्न्य् अविद्या
निरस्तान् अपि कामादीन् पुनर् उद्बोध्य
पुरुषस्य सत्-कारादिष्व् अभिलाषं पर-परिभवनादिषु क्रोधं चोत्थापयेत् ।+++(5)+++
अस्मिन् समये योगिना प्रमाद-रहितेनावधातव्यम् ।
समाधि-सिद्धये भगवन्तं शरणम् उपगम्य
वर्णाश्रमादि-धर्मेष्व् अवहितेन भाव्यम् ।
एवम् अहर् अहर् अनुष्ठीयमान-वर्णाश्रम-धर्मानुगृहीतोपासनाख्याराधन-प्रीतो भगवान्
प्राप्त-कालम् अनन्त-दुस्तर-कर्म-सञ्चयरूपाविद्यां विनिवर्त्य
समाधि-सिद्धिं प्रयच्छेत् ।
एवं निष्प्रत्यूह-समाधेः
पुंसो मोक्ष-सिद्धये कर्तव्यं
किम् अपि नावशिष्यते ।
परं शास्त्रीय-मर्यादाम् अनतिलङ्घयन्,
भगवत्-कृपैक-नियतः
केवलं शरीर-पात-समय-प्रतीक्षो वर्तेत ।+++(5)+++
तादात्विकी चास्यैषावस्था स्वापोद्बोध-व्यतिकर-निभा भवेत् ।
नात्यन्तायास्य परिपूर्ण-ब्रह्मानुभवः,
नापि यथा-पूर्वं संसारे गाढम् आसङ्गः ।
अस्मिन्न् अवसरे
यदृच्छोपनत-सदाचार्योपदिष्ट-मन्त्रानु-सन्धानेन
समाधेः संसिद्धिर् भवतीति विशदम् उपवर्णितम् ।

१० निःश्रेयसलाभः

निःश्रेयसलाभो नाम दशमोऽङ्कः ।
विनिष्पन्न-समाधेः पुरुषस्योपासनाख्येन समाराधनेन
प्रीतो भगवान् अस्मिन् प्रसीदति ।
तत्-प्रसादेन च प्रेरितो
भगवतो दिव्य-सङ्कल्प उदेति ।
तत्र सुहृत्सु सुकृतानि
दुष्कृत्सु दुष्कृतानीति विभज्य
सङ्क्राम्यन्ते ऽस्य कर्माणि ।

[[२३]]

ततो ऽर्चिर्-आदिना ऽध्वना
योगिनः परम-पद-प्राप्तिः,
तत्र च ब्रह्म-सायुज्य-लक्षणं मोक्षं प्राप्तस्य
निरतिशय-ब्रह्मानन्दानुभवः,
अ-पुनर्-आवृत्तिः संसृताव्
इत्य्-आदिकम् उक्त्वा
स्वकीयं प्रबन्ध-करणं
सात्त्विक-त्यागेन भगवति वासुदेवे समर्पयति कविः ।


  1. “महासत्त्वोदार-स्थिर-मधुर-गम्भीर-हृदयः
    कृपोत्साहोत्तुङ्गः कृतविद् अभिगम्यः प्रणयिनाम् ।
    श्रुत-प्रज्ञा-मेधा-स्मृति-जलधिर् अक्षुद्र-चरितस्
    त्वम् एकः सर्वासाम् अनघ-भणितीनाम् अभिमतः ॥+++(5)+++
    धीरोदातानुकूलोत्तम-गुण-महिमा नायकेष्व् अग्र्रणीस् त्वम् " ।

    • सङ्कल्पसू. १० ७०, ७१.
     ↩︎