अत्र शान्तः प्रधानः
यतः रसश् चात्र शान्तः प्रधान-भूतः ।
वीरादयस् तु तद्-अङ्गतया विनिवेशिताः,
प्रधान-रसस्य रस्यतातिशयः सञ्जायेत ।
यथोक्तम् -
“रसाः कार्य-वशात् सर्वे
मिलन्त्येव परस्परम् "
इति ।
“नाटके वीर-शृङ्गारयोर् अन्यतरस्यैव प्राधान्यम्” इति
लक्षणकारोक्तिस् तु तत्-प्रायिकत्वाभिप्रायिकैव ।
अत एव नागानन्दादौ शान्त-रसस्य प्राधान्येन निवेश उपपद्यते ।
शान्त-रस-विषये विप्रतिपत्तयो विविधा दृश्यन्ते ।
आक्षेपाः
कवि-नट-रसिकाभावः
तथाहि-
तत्र केचिद् एवम् आहुः -
पुंसाम् अनादि-काल-प्रवाहायात-राग-द्वेषादि-कलुषाणाम् अनुच्छेद्यत्वात्
प्रायशो विद्वांसोऽपि तदाविष्टचेतस एव वर्तन्ते ।
अतो लोके शान्ति-रसाभिनिवेशवतां कवीनां
तद्-आस्वाद-रसिकानां च भावुकानां
सुतराम् असम्भवात्
काव्येषु तन्निवेशासम्भव एव
+इति ।
असाम्प्रदायिकता
अन्ये तु —
तादृश-कवि-भावुक-नट-सामाजिकासम्भवो दूरत आस्ताम् ।
सति हि कुड्ये+++(=भित्तौ)+++ तत्र चित्र-लेखन-विचारः ।
शान्तो नाम रस एवाप्रसिद्धः ।
नाट्याचार्यो भरत-मुनिर् अपि," शृङ्गारहास्यकरुणा
रौद्रवीरभयानकाः । बीभत्साद्भुतसञ्ज्ञौ चेत्य्
अष्टौ नाट्ये रसाः स्मृताः ’ 11इत्य् अष्टाव् एव रसान् पर्यजगणत् ।
तदनुगुणं चाग्रेऽपिरतिर् हासश् च शोकश् च
क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मयश् चेति
स्थायिभावाः प्रकीर्तिताः "इत्य् अष्टाव् एव स्थायिभावान् आचष्ट ।
अतः शान्तो नाम नवमो रसः
शमो नाम तत्स्थायिभावश् च
सम्प्रदायविरुद्धाव् एव
+इत्याहुः ।
दुरभिनेयत्वम्
अपरे तु वस्तुतः शान्त-रसाभाव-वादाभिनिवेशवन्तोऽपि
तद्-अत्यन्तापलापे स्व-हृदय-संवादम् अलभमाना इवैवं वदन्ति -
श्रव्यकाव्येषु यद्य् अपि कथञ्चित् शान्त-रस-निवेशः सम्भवतु नाम,
तथापि दृश्य-काव्येष्व् अभिनय-प्रधानेषु सुतरां तदसम्भव एव,
समस्त-व्यापार-प्रविलय-रूपस्य शमस्य सर्वथा ऽभिनयायोगात् ।
अतो रूपकेषु शान्ति-रस-निवेशो ऽसाम्प्रदायिको ऽप्रामाणिकश् च
+इति ।
उत्तरसङ्क्षेपः
अस्ति शान्तो रसः
परे तु —
अस्त्य् एव शान्तो नाम नवमो रसः ।
शमस् तस्य स्थायि-भावः ।
स च श्रव्यकाव्येषु नाटकादिषु च निवेशार्ह एव ।
सम्भवन्ति च कतिचित्
परावर-तत्त्वज्ञा जित-राग-द्वेषास् तद्-अभिनय-निपुणा नटाः;
तथा कतिचन सात्त्विकास् तदास्वाद-रसिकाश् च सामाजिकाः ।
ते हि निदिध्यासन-बलेन विधूत-कर्माणो राग-द्वेषादीन् विजित्य
परे निष्कले ब्रह्मणि निहित-मनस्कास् त्रैवर्गिक-पुरुषार्थ-निःस्पृहाश् च सन्तो
मोक्षौपयिके शान्तरसे निरन्तर-स्पृहयालवो भवन्ति ।
साम्प्रदायिकता
शान्तस्यासाम्प्रदायिकत्ववादस् तु
“तस्माद् एवं विच्
छान्तो दान्त उपरतस् तितिक्षुर्
आत्मन्य् एवात्मानं पश्येत् 1”इति श्रुति-वाक्योपन्यसनेन प्रत्युत्तरयितव्यः ।
सा हि श्रुतिः पूर्ववाक्ये“स वा एष महान् अज आत्मा
योऽयं विज्ञानमयः
प्राणेषु य एषो ऽन्तर् हृदय आकाशस्
तस्मिञ् शेते
सर्व-वशी सर्वस्येशानः 2”इत्य्-आदिना परमात्म-गुणान् अभिधाय
तस्माद् “एवं विद्” इति एवं-शब्देन
पूर्वोक्त-गुण-विशिष्टत्वं परमात्मनः प्रत्यभिज्ञाप्य
विद् इति तज्-ज्ञानं विधाय
तत्-फलतया शान्तो दान्त इत्य्-आदिना
शमं दमादि-परिकर्मितम् अभिदधाति ।
अतः श्रुति-मूलकत्वान् नासाम्प्रदायिकत्व-शङ्का युक्ता ।नाट्याचार्येण न परिगणित
इति शङ्काप्य् एवं प्रतिविधातव्या ।तत्र हि साम्प्रदायिकोऽयं पाठः–
शृङ्गार-हास्य-करुणा
रौद्र-वीर-भयानकाः । बीभत्साद्भुत-शान्ताश् च
नव नाटये रसाः स्मृताः ॥3रतिर् हासश् च शोकश् च
क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मय-शमाः
स्थायिभावाः प्रकीर्तिताः 4 ॥ "इति ।
उपरि च “अथ शान्तो नाम रसः” इत्य् आरभ्य
शान्त-रस-स्वरूपं,
तस्य विभावानुभावादींश् च
सविस्तरम् उपपादयति भरत-मुनिः ।तद्-विवरण-कर्ता अभिनव-गुप्तश् चेमम् एव पाठम् ऊरीकृत्य
शान्त-रस-सद्भावम् अत्र व्यवस्थाप्य ध्वन्यालोक-लोचनेऽपि
बहुभिर् युक्तिभिस् तं प्रत्यतिष्ठिपत् ।
स्वभिनेयता
शमस्य समस्त-व्यापार-प्रविलय-रूपस्याभिनयासम्भव-शङ्का तु न विचारसहा ।
कामम् अस्तु तादृशी दशा पुरुषस्य शान्ति-पर्यन्तावस्थायाम् ।
ततः पूर्वतनावस्थासु तु यथायथं व्यापार-सम्भवाद्
अभिनया ऽर्हता ऽस्त्य् एव ।
अन्यथा शृङ्गारादीनाम् अपि पर्यन्तावस्थासु
स्त्री-पुंस-सुरतादि-रूपास्व् असभ्यतया ऽभिनयानर्हतैवेति
तेषाम् अपि रसत्वं परित्याज्यम् आपद्येत
इति वदन्ति ।
ग्रन्थकारोपपत्तिः
एषु च चरमं पक्षमवलम्बतेऽयं ग्रन्थकारः ।
तथा हि
सन्तो णाम रसो णत्थित्ति गन्धव्वा अमदेसिएहिं समत्थिज्जइ ।
ता अत्थ कहं तारिसस्स रसस्स णिवेसो ?”
इति नटीचोद्यम् उपक्षिप्य
“आर्ये, न खल सम्भावयामि तान् अहं भरतागम-पार-दृश्वनः "
इति सूत्रधारवाक्येन तत्प्रतिक्षिपन्
शान्त-रसासत्त्व-वादिनां सम्प्रदायानभिज्ञत्वम् आह ।
रसत्वे भरताद्यङ्गीकारः
विपर्यस्त-पाठं प्रभ्रष्ट-पाठं च
यं कञ्चित् कोशम् आलम्ब्य
तत्रादर्शन-मात्रेण तद्-असत्त्वत्वादो न विदग्ध-गोष्ठीषु शोभते ।
बहुषु कोशान्तरेषु यथावत्-पाठो
व्याख्यातृभिर् आदृतश् च दृश्यत एवेति तदाशयः ।
अथवा अस्तु नाम तद्-रीत्या भरतेनापरिगणितः शान्तो रस इति ;
नैतावता सोऽत्यन्ताय निह्नवम् अर्हति ।
बहवो हि भरताशय-तत्त्व-विद उद्भटादयस्
तं निर्विशङ्कं लक्षयन्तो निदर्शयन्तश् च दृश्यन्ते ।
यथा काव्यालङ्कार-सार-सङ्ग्रहे उद्भटः
“शृङ्गार-हास्य-करुण- रौद्र-वीर-भयानकाः ।
बीभत्साद्भुत-शान्ताश् च
नव नाटये रसाः स्मृताः ॥
रतिर्हासश्च शोकश् च
क्रोधोत्साहौ भयं तथा ।
जुगुप्सा-विस्मय-शमाः
स्थायिभावाः प्रकीर्तिताः ॥
इति ।
काव्यप्रकाशे मम्मटोऽपि -
" निर्वेद-स्थायि-भावोऽस्ति
शान्तोऽपि नवमो रसः "
इति ।
तथा साहित्यदर्पणे विश्वनाथश्च —
शान्तः शम-स्थायि-भाव उत्तम-प्रकृतिर् मतः ।
कुन्देन्दु-धवल-च्छायः श्री-नारायण-दैवतः ।
अनित्यत्वादिना ऽशेष-वस्तु-निःसारता तु या । परमात्म-स्वरूपं या तस्यालम्बनम् इष्यते ।
पुण्याश्रम-हरि-क्षेत्र तीर्थ-रम्य-वनादयः ।
महा-पुरुष-सङ्गाद्यास् तस्योद्दीपन-रूपिणः ।
रोमाञ्चाद्याश् चानुभावास् तथा स्युर् व्यभिचारिणः ।
निर्वेद-हर्ष-स्मरण-मति–भूत-दयादयः ॥ " +++(5)+++
इति । सङ्गीत-रत्नाकरे शार्ङ्गदेवश्च-
“शृङ्गार-हास्यौ करुणो
रौद्रो वीरो भयानकः ।
बीभत्सश् चाद्भुतः शान्तो
नवधेति रसो मतः ॥
शान्तस्य शम-साध्यत्वान्
नटे च तद्-असम्भवात् ।
अष्टावेव रसा नाट्येष्व्
इति केचिद् अचूचुदन् ।
तद् अचोद्यं यतः किञ्चिन्
न रसं स्वदते नटः ।+++(5)+++
सामाजिकास् तु लिहते
रसान्, पात्रं नटो मतः ॥
ते शुद्ध-हृदयाः शान्तं
स्व-विभाव-विभावितम् ।
एकाग्र-चेतसः सन्तो
ऽनुभवन्तीति युज्यते ॥
जुगुप्सां स्थायिभावं तु
शान्ते केचिद् बभाषिरे ।
उत्साहम् आहुर् अन्येऽन्ये
शमं सर्वात् परे विदुः ॥
इति ।
अथवा किम् अनेन ग्रन्थान्तर-वचन गवेषण-प्रयासेन ?
नाट्याचार्यो भरत-मुनिर् एवान्यत्र
शान्त-रस-महिमानं वर्णयन्
शान्त-रसाङ्गीकारे हस्तम् अवलम्बयति ।
यथा -
स्वं स्वं निमित्तम् आसाद्य
शान्ताद् उत्पद्यते रसः ।
पुनर् निमित्तापाये तु
शान्त एव प्रलीयते ॥
इति । अनेन च वचनेन
’ शान्त एक एव रसः ।
अन्ये च शृङ्गारादय
एतस्यैव विकृतिभूता
उदधौ वायु-वशात् तरङ्गा इवास्माद् एवोत्पद्यन्ते ।
वायोर् अपाये वीचयः पुनर् उदधाव् इव
विभावादीनां नाशे ऽन्ये रसाः
शान्त एव प्रलीयन्ते '
इति मतम् उक्तं भवति ।
मतम् एतद् एव
शृङ्गारम् एकम् एव रसम् अभ्युपगम्य
शृङ्गार-वीर-करुणाद्भुत-रौद्र-हास्य- बीभत्स-वत्सल-भयानक-शान्त-नाम्नः ।
आम्नासिषुर् दश रसान् सुधियो वयं तु
शृङ्गारम् एव रसनाद् रसम् आमनामः ॥
इति वदतो भोजस्य मार्गदर्शि भवतीति विभावनीयम् ।
श्री-वेङ्कट-नाथो ऽप्यन
“ललित-मनसां प्रीत्यै बिभ्रद् रसान्तर-भूमिकाम्
अन्-अवम-गुणो यस्मिन् नाट्ये रसो नवमः स्थितः „
इति वदन्
शान्त एक एव रसः
अन्ये रसा एतस्यैव विकृतय
इति भरत-मुन्युत्थापितं मतम् उपोद्बलयति ।
शान्तस्य रसान्तर-भूमिका-परिग्रहे निमित्तम् उक्तं
“ललितमनसां प्रीत्यै” इति ।
“त्रि-वर्ग-निष्ठानां प्रीत्यै” इति तद्-अर्थः ।
तथा ऽत्रैव चतुर्थे ऽङ्के-
स्व-सम्बोधः सौधः, शुभ-गुण-गणो मण्डन-विधिः,
समाधिः सम्भोगो, रहसि जपशैली रति-कथा ।
सुषुप्ते लोके ऽद्य श्रुति-परिषद्-अन्तः-पुर-गतो
मुनिः शान्ति-व्याजान् मुखरयति शृङ्गार-निगमम् ॥
इति ।
इत्थं शान्त-रसस्यासाम्प्रदायिकत्वं निराकृत्य
साम्प्रदायिकत्वं स्थापितम् ।
१०
रसिकादि-सद्भावः
अथ पुंसाम्
अनादि-काल-प्रवाहायात-
राग-द्वेषादि-कलुष-समाक्रान्त-चित्ततया,
शान्त-रसाभिनिवेशिनां तद्-आस्वाद-रसिकानां चासम्भवात्
शान्त-रसासम्भव
इति वादं
प्रतिवदत्य् अयं ग्रन्थकारश् चेटीसूत्रकृतोर् वचनेन । यथा -
अथवा तादृशान् सभ्यान्
मत्वा जगति दुर्लभान् ।
शङ्के शान्ति-रसोल्लासम्
अशक्यम् अभिमेनिरे ॥
इति । अयं भावः -
सत्यं तद्-आस्वाद-रसिका विरला एव ।
न त्व् अत्यन्तं तेषाम् असम्भवः ।
सन्त्य् एव पाञ्च-कालिक-वर्त्मना भगवत्-परिचर्या-रतास्
तद्-बलाद् एव निर्धूत-राग-द्वेषादि-मलाः
कतिपये परावर-तत्त्व-ज्ञा भावुकाः,
ये किल प्रभवन्त्य् अमुकं रसम् आस्वादयितुम् ।
आह च ध्वन्यालोक-कारः-
" शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस्
तल्-लक्षणो रसः प्रतीयत एव ।
यदि नाम सर्वजनानुभव-गोचरता तस्य नास्ति,
नैतावता ऽसाव् अ-लोक-सामान्य-महाऽनुभाव–चित्त-वृत्ति-विशेषवत्
प्रतिक्षेप्तुं शक्यः "
इति । इदमत्र विवक्षितम् -
ननु शान्तरसः प्रतीयतां नाम कैश्चित;
किन्तु सर्वेषां श्लाघास्पदं न भवतीति चेत्,
तर्हि वीतरागाणां शृङ्गारो न श्लाघ्य इति
सोऽपि रस-भावात् परिच्यवेत
+इति ।
शान्त-रसाभिनिवेशिनो न सन्तीति चोद्यं तु —
“होदु णाम सणअ-सणन्दणादि-मुणिअण-सङ्गहीदो
सो वि तारिसो रसो "
इति सनक-सनन्दनादि-निर्देशेन प्रत्युक्तम् ।
स्वभिनेयता
शमस्य समस्त-व्यापारोपरति-रूपत्वाद् अभिनयासम्भव
इति वादश् चैवम् उपक्षिप्य प्रत्य्-उक्तः -
" नटी - तह वि कहं णिप्पन्द-णिहिल-करण-णिप्पाद-णिज्जजो
अप्पहाणो एसो सव्व-जण-पेक्ख-णिज्जेण
णाडअ-उत्तन्देण सम्पाइज्जइ ?
सूत्रधारः - आर्ये, मैवं वादीः ।
न हि वयम् अवधूत-निखिल-धर्माणाम् अलेपकानां मतम् अभिनेष्यामः,
येनैवम् आशङ्कसे ।
सन्ति खलु भगवता गीताचार्येण सहस्रशः प्रतिपादिताः
सात्त्विकेन त्यागेन परिकर्मिता
निवृत्ति-धर्म-पद्धति-नियता विविधा व्यापाराः,
यद्-अभिनयेन रङ्गोपजीविनाम् आजीवावकाशः "
इति ।
[[११]]
अयमत्र भावः –
शान्तो हि रसः परमात्म-योग-निष्ठैः
सनक-सनन्दनादि-सदृक्षैर् मुमुक्षुभिर् आस्वाद्यः ।
ते हि सर्वकर्म-परित्यागिनः श्रूयन्ते –
“ न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वम् आनशुः
इति ।
मोक्षस्य कर्मणां च विरोधात्
सर्व-कर्म-परित्यागो मुमुक्षुभिः कर्तव्य
इति त्यागेनेत्यस्यार्थः ।
अत एव
" नैष्कर्म्य-सिद्धिं परमाम्” इत्यादि सङ्गच्छते ।
अतः
सकल-व्यापारोपरतिरूप-योग प्रधानः शान्तो रसोऽभिनेतुं न शक्यत
इति चेत्; नैवम् - न कर्मणेत्यादौ श्रूयमाणस् त्यग-शब्दो
न कर्म-स्वरूप-त्याग-विषयः ।
किं तु फल-सङ्ग–कर्तृत्व-त्याग-विषयः,
यः सात्त्विक-त्याग इत्य् उच्यते तत्त्व-वेदिभिः ।
यद् आह भगवान् गीताचार्यः
“ कार्यम् इत्य् एव यत् कर्म
नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव
स त्यागः सात्त्विको मतः ॥ "
इति ।
कर्मस्वरूपत्यागं स एव विनिन्दति -
" मोहात् तस्य परित्यागस्
तामसः परिकीर्तितः”
इति ।
एवं च परम-मुक्ति-रूप-फल-लब्धेः पूर्वतनावस्थासु
सर्वास्व् अपि कर्मणां नियतत्वान्
न सर्व-व्यापारोपरति-प्रसङ्गः ।
“ शान्तो दान्त उपरतः " इत्यत्रोच्यमानोपरतिस् तु
प्राकृत-तृष्णा-क्षय-रूपः शान्तस्य स्थायिभाव इति ।
एवं च समस्त-व्यापारोपरति-रूपावस्था
न कदापि बद्धावस्थायां पुरुषस्य सम्भवति ।
अतः शान्तस्य पर्यन्तावस्थायाम् अपि
पुरुषस्य सव्यापारत्वम् एवेति
न कदापि शान्तस्याभिनयानर्हता ।
[[१२]]
प्रत्युत रसान्तराणाम् एव पर्यन्तावस्थायाम् अभिनयानर्हता सुस्पष्टेति
तदपेक्षया शान्त एवाभिनये साधीयान् इत्य् उक्तं भवति ।+++(5)+++
यद् आहात्रैव-
" असभ्य-परिपाटिकाम् अधिकरोति शृङ्गारिता
परस्पर-तिरस्कृतिं परिचिनोति वीरायितम् ।
विरुद्ध-गतिर् अद्भुतस्, तद्-अलम् अपसारैः परैः
शम् अस्तु परिशिष्यते शामित-चित्त-खेदो रसः ॥"+++(5)+++
इति । परिपोष-पर्यन्तावस्थायाम् अपि
शान्तस्य रसनीयत्वं रसनाऽर्ह-सदस्य-सम्पत्तिं चाह
स्वयम् एव कविः-
“रसपरिपोषश् च सहृदय-ग्राह्यः” इति ।
एवं स्थिते
शान्त-रसस्य सुतराम् असम्भवः,
तुष्यतु-न्यायेन श्रव्य-काव्येषु तद्-अङ्गीकारेऽपि
रूपकेषु सुतराम् असम्भवः,
तथा कृत्वा चिन्तायाम् अपि,
प्राधान्यस्य सुतराम् असम्भवात्
तस्य रूपकेष्व् अप्रधानतयैव निवेश
इति च बहुधा वादेभ्यो बिभ्यतो ये
“नागानन्दादिषु दया-वीर एव रसो, न शान्तः,
तत्-सद्-भावे ऽप्य् अङ्गतयैव तन्-निवेशो
नाङ्गितये"ति वदन्ति,
तान् मनसि निधायाहात्र कविः-
" शम-धन-निधिं सत्त्वप्रायं प्रयोगम् अयोगिनः
स्व-गुण-वशतः स्तोतुं यद् वा वरीव्रतु +++(←वृ)+++ निन्दितुम् ।
किम् इह बहुभिः, किं नश् छिन्नं, न विश्वम् अनीश्वरं
तद्-उपनिहिता जाग्रत्य् एवं चतुर्-दश +++(→आदित्यचन्द्रावनिलोऽनलश्च …)+++ साक्षिणः ॥ २३ ॥”
इति । तदेवं शान्तस्य रसत्वे प्राधान्ये च
मनाग् अपि न विमन्तव्यम् इति स्थितम् ।
शान्त-रस-प्रधानाः ग्रन्थाः
अथ शान्त-रस-प्रधानेषु ग्रन्थेषु
कतिचित् प्रधानतमा निर्दिश्यन्ते ।
ब्रह्म-मीमांसा-परा उपनिषदः
पञ्चमाम्नायसारो महाभारतं भक्ति-विरक्ति-प्रदं
श्री-भागवतमित्यादयो ग्रन्थाः
शान्त-रस-प्रधाना इत्य्-अत्र नास्ति विसंवादो विपश्चिताम् ।
[[१३]]
बौद्धाचार्याश्वघोषस्य बुद्धचरितं सौन्दरानन्दं च शान्तरस-प्रधानमेव ।
एवं बहूनि श्रव्य-काव्यानि शान्त-रस-प्रधानानि निर्देष्टुं शक्यन्ते ।
रूपकाणि
रूपकेषु च —
१. शारीपुत्रप्रकरणम् – अश्वघोषस्य
२. प्रबोधचन्द्रोदयः
३. मोहपराजयः – यशःपालस्य -कृष्णमिश्रस्य.. -कृष्ण मिश्रस्य
४. चैतन्यचन्द्रोदयः कविकर्णपूरस्य.
५. विद्यापरिणयः - - आनन्दरायमखिनः .
६. धर्मविजयः – शुक्लभूदेवस्य.
७. भावनापुरुषोत्तमम् — रत्नखेट-श्री-निवासदीक्षितस्य
८. मुक्तिपरिणयः - सुन्दरदेवस्य
९. जीवन्मुक्ति-कल्याणम् - नल्लादीक्षितस्य.
१०. चित्तवृत्तिकल्याणम् - तस्यैव
११. सिद्धान्तभेरी —– सुदर्शनाचार्यस्य.
१२. विवेकविजयः रामानुजकवेः.
१३. भक्तिवैभवम् — जीवदेवस्य .
१४. मिथ्याज्ञान-खण्डनम् - रविदासस्य.
१५. पूर्ण-पुरुषार्थचन्द्रोदयः — जातवेदसः.
१६. प्रबोधोदयः – शुक्लेश्वरनाथस्य.
१७. ज्ञानसूर्योदयः - -वादि-चन्द्रस्य.
१८. स्वानुभूतिनाटकम् - अनन्तपण्डितस्य.
१९. विवेक-चन्द्रोदयः - शिवकवेः.
२०. धर्मोदयः - धर्मदेवस्य
२१. माया-विजयः - अनन्तनारायणस्य.
२२. ज्ञानचन्द्रोदयः – पद्मसुन्दरस्य.
२३. षण्मतनाटकम् – जयन्त भट्टस्य.
२४. चित्सूर्यालोकः नृसिंह-दैवज्ञस्य
२५. स्वात्मप्रकाशः - सुन्दर-शास्त्रिणः
२६. कृष्णभक्ति-चन्द्रिका — अनन्तदेवस्य.
२७. भर्तृहरिर्निर्वेदनाटकम् — हरिहरस्य ।
सर्वाण्यप्येतानि शान्तरसप्रधानानि
कानिचिद् अध्यात्म-विषयाणि चेत्य् अवगन्तव्यम् ।
(Vide, for more details on these works, pages 36 to 41 of the Number of Rasas by Dr. V. Raghavan, No. 23 of the Publications of the Adyar Library, 1940.)