०४ पात्राणि

परावर-शुद्धाशुद्धादि-विवेचनात्मा विवेको नायकः ।
सुमतिस् तस्य प्रिया ।
व्यवसाय-शम-दमादयः परिजनाः ।

तथा परावर-शुद्धाशुद्ध-वैचित्त्य्+++(=सम्भ्रम)+++-आत्मा महामोहः प्रतिनायकः ।
दुर्मतिस्तस्य प्रिया ।
काम-क्रोधादयस् तत्-परिजनाः ।

पुरुष-मोक्षणोद्युक्तो विवेकस्
तत्-परिपन्थिनं महामोहं पराजित्य
पुरुषं भगवत्-समाधाव् आधाय
भगवतो दया-निघ्नेन सङ्कल्पेन
तं संसारान् मोचयतीत्य् अत्रत्येतिवृत्तत्-असङ्क्षेपः ।