नाटकं चेदं दशभिर् अङ्कैः परिकर्मितम् । दशाङ्कत्वाविशेषे ऽपि नाटक-प्रकरणयोः प्रख्यातोत्पाद्येतिवृत्तत्वादिना भेदः । प्रमाण-पद-मूर्धाभिषिक्तोपनिषद्-आदि-प्रख्यातम् इतिवृत्तम् अत्रोपनिबद्धम् ।