०२ प्रबोध-चन्द्रोदयः

ग्रन्थस्यास्य सङ्कल्प-सूर्योदय इति नामधेय-करणेन
प्रबोध-चन्द्रोदयाख्याद् अपरस्माद् अध्यात्म-विषय-प्रतिपादकान् नाटकाद्
अस्य वैलक्षण्यं प्रदर्शितं भवति ।
तद्धि नाटकं भगवत्-पाद-शङ्कराचार्यस्योपनिषदं सिद्धान्तं प्रकटयत्
ज्ञानान् मोक्ष इति तदीय-सिद्धान्त-सारं प्रतिपादयति ।

“अविद्याऽस्तमयो मोक्षः, सा +++(→अविद्या)+++ संसार” इति तन्-मत-प्रक्रिया ।
उदाहृतः " त् त्वम् असि " इत्य्-आदि-महा-वाक्यार्थ-विमर्शात्
‘अहं ब्रह्मास्मि’ इति जीव-ब्रह्माभेदापरोक्ष-रूप–तत्त्व-ज्ञाने जाते चन्द्रोदये
तम इव तद्-भेद-ज्ञान-रूपाविद्या स्वयम् एव विलीयते ।
स एव मोक्षः ।
न तु तत्-साध्यं मोक्षो नाम किञ्चिद् दशान्तरं समस्ति ।
ज्ञानस्यैव मोक्ष-साधनत्वम् उपनिषदः प्रतिपादयन्ति ।
तथा हि - “ब्रह्म-विदाप्नोति परम्”
“ब्रह्म वेद ब्रह्मैव भवति”
“तम् एव विदित्वा ऽतिमृत्युम् एति ।
नान्यः पन्था विद्यतेऽयनाय "
इत्यादिकाः श्रुतयो हि ज्ञानस्यैव मोक्ष-साधनत्वम् अभिदधति ।

तादृश-तत्त्व-ज्ञाने जाते ऽपि
दग्ध-पट-न्यायेनाविद्या-वासनात्मना कञ्चित् कालम् अनुवर्तमाना
ज्ञानिनम् अपि पुरुषम् अमुक्तम् इवावगमयति । +++(5)+++
तदा स जीवन्मुक्त इत्युच्यते ।
तथा च प्रबोधे जाते ऽप्य्
अविद्याया वासनात्मना ऽनुवर्तनात्
प्रबोधोदयश् चन्द्रोदयात्मना रूप्यत
इति महद्-औचित्यम् ।
चन्द्रोदये हि तमो न सर्वात्मना विलीयते ।
किं तु तत्र तत्र विरलेषु वृक्षाद्य्-अधः प्रदेशेषु छायात्मना ऽवतिष्ठते ।

आह च लोकानुभव-रसिकः कवि-सार्वभौमः -

“क्वचित् प्रभा चान्द्रमसी तमोभिश्
छाया-विलीनैः शबलीकृतेव”

इति ।
अतो यथा प्रबोध-चन्द्रोदयो निर्विशेष-ब्रह्माद्वैत-मत-रीत्या
औपनिषदं सिद्धान्तम् अवबोधयति,
तथा ऽयं सङ्कल्प-सूर्योदयो ऽपि
स-विशेष-ब्रह्माद्वैत-रीत्या तम् एव सिद्धान्तम् अवबोधयतीति
बाह्य-तमो-निरसने सूर्याचन्द्रमसाव् इवान्तर-तमो-निरसने द्वाव् अपीमौ ग्रन्थौ
महद् उपकुरुतो लोकस्येति सिद्धम् ।