सत्य-सङ्कल्पस्य निरुपाधिकसुहृदो भगवतो यः सङ्कल्पः
‘अमुं मोक्षयिष्यामि ’ इत्य्-आद्य्-अध्यवसाय-रूपः,
स एव मुमुक्षूणां मोक्ष-साधनम् इत्यौपनिपदः सिद्धान्तोऽत्र
प्रधानप्रतिपाद्यो विषयः ।
यथा-यथं भक्ति-प्रपत्तिभ्याम् आराधितस्य भगवतो
निरर्गल-प्रसराया दयाया घनी-भूयम् आपन्नात्
परवाहाद्+++(=वाहनात्??)+++ एवोदय-गिरेस्
तदीय-दिव्य-सङ्कल्प-रूपस्य सूर्यस्योदये
पुंसोऽनादि-सिद्धम् अपि त्रिगुण-त्रियामानु-बन्धि-मोहान्ध-तमसं
समूल-काषं कषितम् अनवशेषं विलयम् उपैति ।
सूर्यो ह्युदीयमानो
न तमसो मात्रया ऽप्य् अवशेषं सहते ।
ततो मुक्तस्य यथाऽभिलषित-मोक्ष-साम्राज्य-सिद्धिर् इति
भगवद्-रामानुजीयं सिद्धान्त-रहस्यम् ।
अयम् एव चौपनिषदः सिद्धान्त इति तदीयो निर्णयः ।
तथाहि-
नायमात्मा प्रवचनेन लभ्यो,
न मेधया, न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्,
तस्यैष आत्मा विवृणुते तनूं स्वाम्’ ॥ 1
इति मुण्डके श्रूयते ।
अत्रात्मशब्दः परमात्मपरः, प्रकरणात् ।
पूर्वस्मिन् वाक्ये हि " स वेदैतत् परमं ब्रह्म धाम "
इति परमात्मा प्रस्तुतः ।
प्रवचन-शब्देन मननं लक्ष्यते ।
मेधा-शब्दोऽत्र निदिध्यासन-वाची ।
तद् अयम् अर्थः- अयम् आत्मा परमात्मा प्रवचनेन केवलमननेन न लभ्यः ।
मेधया केवल निदिध्यासनेन च न लभ्यः ।
बहुना श्रुतेन ‘बहुभ्यः श्रोतव्यं बहुधा श्रोतव्यम् ’ इति विहितेन श्रवणेनापि न लभ्यः ।
तर्हि केन पुनर् लभ्य इत्य् अत्राह -
यम् एवैष वृणुते तेन लभ्य
इति । एष परमात्मा यम् उपासकं पुरुषं वृणुते
’ अयं मुक्तो भवतु’ इति स्व-सङ्कल्प-विषयं करोति,
तेन पुरुषेण लभ्यः ।
तस्यैवोपासकस्य एष परमात्मा
स्वां तनूं स्वस्वरूपं, स्व-याथात्म्यम् इति यावत् ।
विवृणुते प्रकाशयति ।
स्वानुभवम् उत्पादयतीत्यर्थः ।
तथा-
अणोर् अणीयान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तम् अक्रतुं पश्यति वीतशोको
धातुः प्रसादान् महिमानम् ईशम् ॥
इति । अयम् आत्मा परमात्मा
अणोर् अणीयान् सर्वसूक्ष्मवस्तु प्रवेशयोग्यतया, निरतिशय सौक्ष्म्ययुक्तः ।
महतो महीयान् सर्वप्रपञ्च व्यापकः ।
एतादृश आत्मा अस्य जन्तोः** हृदयआत्म्-आगुहायां निहितः ।
तम् अक्रतुम् अपहत-पाप्मानं महिमानं महिमशालिनम् ईशं सर्वशेषिभूतं यदा पश्यति,
तदा धातुः सर्व-जगत्-स्रष्टुस् तस्य परमात्मनः प्रसादात् प्रसाद-मूलक-सङ्कल्पात् वीतशोको भवति - मुक्तो भवतीत्यर्थः ।
भक्त्य्-आदेर् मोक्षोपायत्व-कथनं तु
भगवत्-प्रसाद-सङ्कल्प-द्वारैवेति ध्येयम्;
यथा क्षीरस्य कलिल+++(=मिश्रण)+++-द्वारा दध्य्-उत्पादकत्वेऽपि
क्षीराद् दधीति प्रामाणिकं व्यपदेशः । यद् आहुः-
" क्षीराद् इदं तत इदं च ततो दधीति
क्षीराद् दधीति वदतां किल को विशेषः " 11
इति । तत् सिद्धं भगवत्-सङ्कल्प एव पुंसां मोक्ष-हेतुर् इति ।
तथा च वक्ष्यत्य् अत्रैव ग्रन्थे -
“शुभस् तत्-सङ्कल्पश् चुलकयति संसार-जलधिम् "
इति । अतः सङ्कल्पसूर्योदय इत्यस्य नामधेयमुचितमन्वर्थे चोत्पश्यन्ति विपश्चितः ।
-
मुण्ड उ. ३. २. ३. ↩︎