10

दशमोऽङ्कः
[ततः प्रविशति विष्णुभक्तिः ।]
विष्णुभक्तिः - (आलम्बनविशेषाधीनमात्मनो वैभवं निर्वर्ण्य)
अहं वैकुण्ठदास्यैकलास्यलीलाविनोदिनी । विश्वकिल्बिषसंहारविभ्रमारभटी नटी ॥ १ ॥
किं च,
अम्बा मे पुरुषस्य बुद्धिरनघा तातस्स धर्मोत्तरः सन्तुष्टिस्सहजा क्षमा प्रियसखी सद्वृत्तिराज्ञाकरी ।
विद्यैव स्वयमस्मि विश्ववृजिनप्रध्वंसनं क्रीडितं साऽहं प्राणिमि विष्णुभक्तिरचला सन्तिष्ठते संसृतिः ॥ २ ॥
अपि च प्रत्यक्षितपरावरतत्त्वैर्महर्षिभिर्भगवतैव च गीतं परमार्थभूतमन्यमप्यर्थमनुकथयामि ।
निरुध्य तरसा मरुत्करणमण्डलीं कुण्डलीं विचिन्त्य विगणय्य वा धमनिधातुमर्मादिकम् ।
किमत्र निगमत्रयस्थितिमताऽपि वा लभ्यते मयि स्थितिरवस्थिता यदि किमुच्यते मुच्यते ॥ ३ ॥
यश्चासौ निवृत्तिधर्मकाष्ठारूपो नैश्रेयसो योग उच्यते, सोऽपि मदनु(रो)वेधादेव महतीं सिद्धिमापादयति । अद्य च,
मुमुक्षुत्वे सिद्धे मुषितमतिमोहस्य मुरभित्समाधिः संरोहन्नुपहरति सर्वाघविरतिम् ।
परस्तादास्थेयं यदिह विदुषाऽनिष्टजनुषा फलार्थं तत् किं वा फलमिति वितर्कः श्रमफलः ॥ ४ ॥
(विचिन्त्य) कीदृशी पुनरिदानीं किङ्कर्तव्यता? इयं तावत्,
अघपरिणमितैरमित्रभेदैः करणकलेबरपुत्रदारकाद्यैः ।
ग्रहिल इह मयैव मोचनीयो मुरभिदनुग्रहलीलया मुमुक्षुः ॥ ५ ॥
अत्र चैतदभिनिष्पन्नम् ।
भवरोगैकभिषजा विवेकेन विपश्चिता । शमं दोषगणो नीतः शारीर इव मानसः ॥ ६ ॥
अयं च क्षेत्रज्ञ इदानीमपुनर्भवयोग्यामवस्थामारूढः । तथा हि,
कामादिकेष्वपगतेषु कथावशेषं सम्प्रत्यसौ शमदमादिगुणोपपन्नः ।
मैत्रीदयादिपरिकर्मविभूषितेन श्रद्धाधनेन मनसा लभते समाधिम् ॥ ७ ॥
अपि चास्य परश्शतप्रत्यूहशालिन्यपि पश्चिमयुगे परमपुरुषचरणयुगलपातिव्रतीप्रभावेन प्रथमयुग इव परम्परितवृद्धिरिव सन्दृश्यते समाधिसिद्धिः । तथा हि,
कलया विहितोदयः कयाचित् प्रतिपच्चन्द्र इवैष विश्ववन्द्यः ।
उपयाति दिनेदिने समृद्धिं पुरुषो विष्णुपदाश्रितः सितात्मा ॥ ८ ॥
स्वतस्सिद्धस्वच्छस्थिरमधुरचिन्तासुरसरित्प्रवाहोपश्लिष्टात्प्रणिधिमुखभागादवतरन् ।
चिदानन्दोदन्वत्यनघगुणरत्नौघभरिते निमज्जत्यन्यस्मिन्नयमपुनरुन्मज्जनमिह ॥ ९ ॥
सम्प्रत्येतस्य सम्भृतसमाधेरुत्तरपूर्वाघाश्लेषविनाशकरणाय विवेकव्यवसायादिभिरुपचि(कीर्षे)क्रंसे ।
(नेपथ्ये) लुलितभुवनपद्मां लुम्पतो वासतेयीमुदयशिखरिमध्यादुज्जिहानस्य भानोः ।
अपतमसि पदेऽस्मिन् वैष्णवे दृश्यमारादिह भवति पताकास्थानकं धाम पूर्वम् ॥ १० ॥
विष्णुभक्तिः - (कर्णं दत्त्वा) सुप्रभातं प्रख्यापयत्यसौ सुमतिपतेर्विवेकस्य वैतालिकः । अपि च निमित्तान्यपि नैश्रेयसीं सिद्धिं सूचयन्ति ।
त्रिभुवनमिदं शान्तक्षोभं समाधिरनाकुलः प्रसृमरसुधाधाराकारा प्रसीदति शेमुषी ।
स्फुरति च मुहुर्दृष्टिस्सव्या तदप्यपरिस्फुटं तदिह महतीं सिद्धिं मन्ये झटित्युपतस्थुषीम् ॥ ११ ॥
तदयमवसरस्समीहितसमर्थनस्य । ततश्च,
वैकुण्ठकृपया देव्या मदभीष्टे व्यवस्थितम् । प्राध्वं सङ्कल्पमार्ताण्डं प्रवर्तयितुमुत्सहे ॥ १२ ॥
न च प्रभूतसंरम्भयाऽपि मया भगवत्कृपामनालम्ब्य प्रारिप्सितपरिसमाप्तिस्सुप्रापा । तथा हि,
शरणागतरक्षणैकदीक्षः समये तत्परिपन्थिनो निरुन्धन् ।
प्रभुरायतते परः कृपायां सचिवास्तस्य च सर्व एव देवाः ॥ १३ ॥
अतस्तामेव तावदापतिष्ठे । अद्य च प्रत्यक्षितेव मे भाति पद्मापतेरनुकम्पा । (साञ्जलिबन्धम्)
त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे जगति गतिमिहान्यां देवि सम्मन्यते यः ।
स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ १४ ॥
अपि च,
त्वद्दृष्ट्या सकृदीक्षिता दिविषदः स्वं स्वं पदं भुञ्जते भोगानत्र च भूभुजामभिमतान् पुष्णासि तृष्णाधिकान् ।
किञ्चोदञ्चदनुग्रहाकृपणतामालक्ष्य वैलक्ष्यतो नैराश्यप्रमुखानि सौति भवती निर्वाणपर्वाण्यपि ॥ १५ ॥
अद्य पुनर्मातेव स्तनन्धयानामस्माकमभिरक्षणे पक्षपातिनी भवती ।
फलवितरणदक्षं पक्षपातानभिज्ञं प्रगुणमनुविधेयं प्राप्य पद्मासहायम् ।
महति गुणसमाजे मानपूर्वं दये त्वं प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ १६ ॥
(पुरस्तादवलोक्य; सहर्षम्) अयमसाविह विवेकमहाराजागारपूर्वभागे दनुजमथनदयानियुक्तो नृत्तोद्यत इवावतिष्ठते निखिलनिगमनैगमिकविद्यैकराशिर्विहङ्गराजः । प्रसीदति चासौ मे पन्नगरिपुः ।
आनेतुमात्मरभसेन समीहमानो रक्षोन्मुखं नतगृहेषु रमासहायम् ।
प्रायः प्रभोस्तदपृथक्स्थितिवृत्तिशक्तिं सङ्कल्पमप्युपहरिष्यति तद्रथोऽसौ ॥ १७ ॥
तदेनमभिष्टौमि ।
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने । श्रुतिसिन्धु(रसो)सुधोत्पादमन्दराय गरुत्मते ॥ १८ ॥
अपि च,
क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।
पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिं ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ १९ ॥
दण्डकेन चैनमण्डजनाथमनुनाथेय ।
गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठवैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोपगूढस्फुरत्कण्टकव्रातवेधव्यथावेपमानद्विजिह्वाधिपाकल्पविष्फार्यमाणस्फटावाटिकारत्नरोचिश्छटाराजिनीराजितं कान्तिकल्लोलिनीराजितम् ।
जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पतिक्षिप्तदम्भोलिधाराकिणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरायितोद्यच्चमत्कारदैत्यारिजैत्रध्वजारोहनिर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित्समस्ते नमस्ते पुनस्ते नमः ।
नम इदमजहत्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेलपाथोधिवीचीचपेटाहतागाधपातालभाङ्कारसङ्क्रुद्धनागेन्द्रपीडासृणीभावभास्वन्नखश्रेणये चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ।
मनुरनुगतपक्षिवक्त्रस्फुरत्तारकश्चित्रभानुप्रियाशेखरस्तावकस्त्रायतामायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन् वलद्वेषिदर्पज्वलद्वालखिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनान्तक ।
इदं च श्रुतमनुचिन्तयामि ।
व्यक्तौ सन्नाहसङ्कल्पौ विश्वगोप्तुरिमौ हरेः । प्रथितावागमग्रामे पक्षीश्वरसुदर्शनौ ॥ २० ॥
(सर्वतोऽवलोक्य) अहो नु खलु विष्वक्प्रकाशा दिशो विदिशश्च । तदासीदतीव दयावल्लभस्य देवस्य सङ्कल्पः ।
[ततः प्रविशति सङ्कल्पः ।]
सङ्कल्पः - (आत्मानं निर्वर्ण्य)
यस्मिन्विस्मयनीयभूमनि मनागुन्मीलितेनैकधा सिध्यन्त्यस्य सितासितस्य जगतः स्वर्गापवर्गादयः ।
ऐशस्सोऽहमवासरात्ययभवन्मायामहायामिनीसत्ताशेषसुषुप्तबोधनपटुः सङ्कल्पसूर्योदयः ॥ २१ ॥
आदिष्टस्सोऽहमनघपरविद्याप्रसादितया प्रदित्सितपारितोषिकया सकलगुणसेव्यया देव्या भगवदनुकम्पया । यथा मदधीनवृत्तिना मोहादिविजयिना विवेकेन जनितभूमा विनिष्पन्नसमाधिः पुरुषः त्वयैव मोचनीय इति । अहं तु सर्वदा निखिलजगदम्बायास्तदनुकम्पायाः प्रियमाचरामि । न च (मया साधुपरित्राणे तद्विरुद्धनिरसने) तदनुरोधिपरित्राणे तद्विरोधिनिरसने च दुष्करं किञ्चित् । अहं हि,
अचरन्मधुकैटभान्पयोधीन् अहिरण्याक्षहिरण्यविप्लुतां द्याम् ।
अदशाननकुम्भकर्णघोषां पुनरुर्वीमपि विक्रमैरकार्षम् ॥ २२ ॥
आस्तामेतत् । अद्य तु,
अनिदम्प्रथमां निद्रां विनिवर्त्य क्षणादहम् । अनिदम्पश्चिमां पुंसो जनयिष्यामि जागराम् ॥ २३ ॥
तदर्थमपि तावदिदमिदानीमाददीय । यदुत,
मयि विनिहितभारं मध्यमे वृत्तिभेदे स्थिरमनसमुपायापायरथ्यानिवृत्तम् ।
मुरमथनसमीक्षाशेखरेण स्वभूम्ना मुषितनिखिलदोषं मोचयिष्यामि जीवम् ॥ २४ ॥
(परिक्रम्य) क्व पुनरिदानीं मत्समर्थनीयसाध्यसाकाङ्क्षा महाभागा निखिलपापनिराकरिष्णुः विष्णुभक्तिः, यत्प्रीणनार्थोऽयमस्माकमारम्भः । (पुरस्तादवलोक्य) इयं सा,
नियतपुलकिताङ्गी निर्भरानन्दबाष्पा गलितनिखिलसङ्गा गद्गदस्तोत्रगीतिः ।
अमृतलहरिवर्णा हर्षनृत्तोपपन्ना विगतनरकभीतिर्विष्णुभक्तिर्विभाति ॥ २५ ॥
अपि च,
नियताक्षहयं सैषा स्फुरत्प्रशमपत्तिकम् । मनोरथमधिष्ठाय विष्णुभक्तिरिह स्थिता ॥ २६ ॥
विष्णुभक्तिः - (सहर्षसाध्वसम्) देव! इयमहमस्मि । (इति गद्गतस्वरा दूरतः साष्टाङ्गं प्रणमति ।)
सङ्कल्पः - (सत्वरादरोदात्तगतिरुपसृत्य सहस्तालम्बमुत्थापयति ।)
विष्णुभक्तिः - देव! नन्तव्योऽसि मया त्वं नाथसङ्कल्पः । (इति पुनःपुनः प्रणमति)
सङ्कल्पः - भद्रे! अलमेतावता । महायोगेश्वरि! महाप्रभावा खल्वसि । तदिह नामयति भवती मामप्यनेन नमसा ।
विष्णुभक्तिः - देव! धन्येयं खल्विदानीमहमस्मि । याऽहमिह निरङ्कुशैश्वर्यशालिना भवतैवं सम्भाव्ये ।
सङ्कल्पः - भद्रे! परावरनिखिलतत्त्वान्तरात्मना भगवताऽपि सम्भावनीयां त्वामहं सम्भावयामीति किमत्र चित्रमवगच्छसि? यदीदृशी भवती,
शमधननिधिस्संविद्वल्लीसमग्रफलोदयः श्रु(ति)तपरिणतिश्शुद्धिस्थेमा सुखप्रतिभूरसि ।
भवभयतमःप्रातस्सन्ध्यापरावरदीपिका भगवति हरौ भक्तिर्दिव्या परिष्कृतिरात्मनः ॥ २७ ॥
अपि च,
जनन्या सर्वलोकानां विष्णुवल्लभया तया । कृपया कल्पितस्सोऽहं त्वद्भ्रूविभ्रमकिङ्करः ॥ २८ ॥
तदादिशतु भवती मामभिमतसाधनाय ।
विष्णुभक्तिः - अहो देव! पारतन्त्र्यपरिग्रहोऽपि स्वातन्त्र्यकाष्ठैव भवतः । तदहमिदानीं भवतैव भावनीयं प्रहर्षपरवशा प्रत्यभिज्ञापयामि । अद्य हि,
प्रकृतः क्रियया धिया च योगः परमैकान्त्यपरिष्कृतस्य पुंसः ।
निधिदर्शनवन्निरूढहर्षं प्रणिधत्ते विशदं परप्रकाशम् ॥ २९ ॥
अयं तावदिदानीमान्तरस्य योगस्य परिपाकः । बाह्यस्य चैतादृशीं दशामनुभवति पुरुषः ।
सिद्धे महति पाण्डित्ये सनिर्वेदश्चतुर्विधे । प्रणवद्विचतुष्काद्यैः प्रशान्तैरेव मोदते ॥ ३० ॥
सङ्कल्पः - अहो! वैभवमकम्पनीयभगवदनुकम्पासम्भृतमहिम्नो विवेकस्य । यदयमिह कर्मशृङ्खलैर्निगलितः करणकलेबरकारागृहे निरुद्धगतिरन्तर्लुठन्नपि निर्मोचितमोहमहाग्रहो निवृत्तिधर्मकाष्ठां प्रापितः । अथवा भवत्या एवायं प्रभावः ।
विष्णुभक्तिः - देव! विश्ववेदिना भवता विवेके मयि च किमिति वैभवमारोप्यते? पश्यतु भवानेतत्,
स्वमायाशैलूषीविहरणपरिभ्रान्ततनुभृत्परित्राणोद्योगप्रवणकरुणावेशविवशः ।
प्रतिक्षेप्तुं तापान् प्रभुरयमपर्यन्तमहिमा हिमानीमानीय स्वपदनतिमेनः प्रणुदति ॥ ३१ ॥
ततश्च,
उपायः स्वप्राप्तेरुपनिषदधीतः स भगवान् प्रसत्त्यै तस्योक्ते प्रपदननिदिध्यासनगती ।
तदारोहः पुंसस्सुकृतपरिपाकेन महता निदानं तत्रापि स्वयमखिलनिर्माणनिपुणः ॥ ३२ ॥
अपिच,
ग्रस्ते पित्तेन चित्ते गलकुहरमुखे सन्निरुद्धे कफेन व्याप्ते वातेन गात्रे दिलपति लपने कान्दिशीके हृषीके ।
जङ्घाले जीवितांशे जिगमिषति बले जन्तुमुद्भ्रान्तबन्धुं कस्त्रातुं चक्रहस्तादपर इह दयादत्तदृष्टिः क्षमेत ॥
संवेद्मि च भगवद्दृष्टस्य सर्वविद्भिरपि दुरूहां साम्परायिकीं सम्पदम् । यथा,
कालोपयातकमलापतिदृष्टिपाताद्दूरापनीतदुरितादिपरिप्लवोऽसौ ।
सुप्तोऽपि जागरमुपैत्यपुनर्निमेषं स्वान्तेन निष्प्रतिघमुक्तिमनोरथेन ॥ ३४ ॥
अत्यद्भुतप्रेक्षणीयमिदं त्वदनुग्रहसुधासारचातकव्रतिनः पुरुषस्येदानीमवस्थानम् । अयं हि,
कलत्रसुतसोदरप्रभृतिकल्पनाबर्बरैरशक्यविनिवर्तनैरहितशृङ्खलैर्यन्त्रितः ।
निसर्गसुहृदि प्रभो निहितगुप्तिभारः पुमानुपस्थितमुपस्थितं हितमशेषमुद्वीक्षते ॥ ३५ ॥
अतः परं तु भवन्नि(र्दिष्ट)ष्ठमेव भव्यमवधारयामि ।
सङ्कल्पः - यदिह भवत्या प्रख्याप्यते, प्रत्यक्षयामि तावदेतदखिलम् ।
दुरितजलधिद्वीपप्राये सुखे विगतस्पृहा पुरुषविषये यत्त्वं ब्रूषे पुरस्कृतगौरवम् ।
हिततमतया दुर्लङ्घेऽस्मिन् क्रियापरमुत्तरं तदपि किमपि प्रत्युक्तं नः प्रतीक्षणमर्हति ॥ ३६ ॥
यद्यसावनादिभवरसभोगवासनापाशपरवशः पुरुषः सत्यलोकप्रभृतिषु संसारमरुकान्तारपथिकपानीयशालासु विश्रममभिकाङ्क्षेत्, तदा कथमहमेनमस्थाने सपदि मोक्षयेयम् ।
विष्णुभक्तिः - (कर्णौ पिधाय करकमले धून्वाना) मा मैवमाशङ्कनीयं मदेकसाक्षिकमनोरथे महात्मनि पुरुषे भूतभाविसमस्तवस्तुसाक्षात्कारिणा भवता । इदं च विज्ञापयामि ।
अपि पद्मयोनिरवशो भजते मधुकैटभादिजनिता विपदः ।
इति दृष्टदोषनिवहः पुरुषो न वहेत नाकनरकेषु रतिम् ॥ ३७ ॥
(अपि च,)
अमृतस्यन्दिनं कञ्चित्कृष्णमेघं द्विजः स्मरन् । उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ ३८ ॥
तदसौ झटिति निस्त्रुटितनिगलयुगलः त्वया विधातव्यः । अहं त्विदानीमभिनिर्वर्तिताभिगमनादिनियतिरहिंसादिमयीमष्टपुष्पीमुपादाय त्वत्प्रभावनष्टाश्लिष्टपूर्वोत्तरपुण्यपापराशिमनन्ययाजिनमनन्यध्यायिनं च पुरुषमासन्नमुक्तिलाभव्यवसायजनितनिरवधिकप्रमोदमनुमोदितुं त्वदेकान्तिना विवेकेन सह त्वरितमागमिष्यामि ।
[इति निष्क्रान्ता ।]
सङ्कल्पः - (परितोऽवलोक्य) अयमसावनवधिकस्वमाहात्म्यगोपनप्रदर्शितबालभावः प्रशान्तमधुरगम्भीराकृतिः परब्रह्मसमाधिप्रारम्भभावितममन्दमानन्दमनुभवन् पुलकितनिखिलगात्रविडम्बितकदम्बगोलकमलनालः पुण्यतमदर्शनः पुरुषः । अहो महदिदमाश्चर्यम् ।
शृङ्गारवीरकरुणाद्भुतहास्यभीतिबीभत्सरौद्रविषयानतिवर्तमानः ।
तत्त्वावलोकनविभावसमेधितात्मा शान्तो रसः स्फुरति मूर्त इवैष धन्यः ॥ ३९ ॥
अपि च,
अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं मानसं चिन्ता च द्रुतशर्कराप्रतिनिधिश्शीताश्रुणी लोचने ।
मायासारथिगीतयोपनिषदा दृष्टक्रमं द्रागसौ मन्ये याति मनोरथेन पुरुषो वैकुण्ठघण्टापथम् ॥ ४० ॥
तमेतं सर्वधर्मक्षेत्रगिरिनगरतीर्थाश्रमारण्यसारसमाहारमिवैकत्र सम्भृतमस्मदागमनप्रतीक्षमकालक्षेपेणोपसर्पामि । अथवा अन्तर्हितः क्षणमस्याभिप्रायमवधारयामि ।
[ततः प्रविशति श्रद्धादत्तहस्तः प्रशान्तमधुरवेषः पुरुषः ।]
पुरुषः - (स्वावस्थां परामृश्य सनिर्वेदम्) हन्त! निरन्तरदुरन्तदुरितकान्तारजाङ्घिकस्य मम दुःसहदुःखजालजटिला जन्मसन्ततिरनन्ताऽतिक्रान्ता । अतः परमपि पूर्वावस्थानिर्विशेषपुनर्भवपरम्पराहेतुभिरपरिमितैः कर्मसञ्चयैरावृतोऽहमवसरप्रतीक्षया भगवदनुकम्पया कथञ्चिन्निवृत्तिधर्मे निवेशितः प्रबलतमविवेकवैभवप्रतिक्षिप्तमोहपक्षोऽपि परप्राप्तिविरहादवसीदामि । (दीर्घं निश्वस्य)
चिरपरिचितदेहाद्यर्थचिन्तानुवृत्त्या नियतिमनुसरन्त्या नित्यडोलायितात्मा ।
अयमहमिह मन्दद्योतखद्योतकल्पः कतिकति दिवसानि क्षीणशक्तिः क्षिपेयम् ॥ ४१ ॥
अपि च,
न मुक्तो न च बद्धोऽहं यथा पश्चाद्यथा पुरा । कृपणः किं करिष्यामि न करिष्यामि वा स्वयम् ॥ ४२ ॥
अस्ति वा कश्चिदनिदम्प्रथमनिरवधिककारुण्यराशिरभङ्गुरस्वातन्त्र्यः पथ्यप्रवृत्तावपथ्यपरिहारे च प्रभुरेकः प्रमाणम् । तदाहितमतिस्तदेकाधीनप्रवृत्तिश्चाहं प्रतिबुद्धोऽस्मि । (विचिन्त्य मुहूर्तमिव स्थित्वा)
अमतिविहितैरंहस्तोमैर्झटित्यहमुज्झितश्शमितविपथैस्सत्त्वोदग्रैश्शमादिभिराश्रितः ।
परमपुरुषध्यानस्तोत्रप्रणाममुखैर्मखैः परिहतमुधाकालक्षेपः फलोदयमाद्रिये ॥ ४३ ॥
श्रद्धा - भट्ट! अण्णाअपरमत्था इद्धिआवि किं वि विण्णवेमि पहरिस जोग्गेवि समए किं पुणो अप्पा अवमाणिज्जइ । णम् अच्चासण्णा खु तुम्हाणं मोक्खसिद्धी । [भर्तः! अज्ञातपरमार्था स्त्र्यपि किमपि विज्ञापयामि । प्रहर्षयोग्येऽपि समये किं पुनरात्माऽवमन्यते । नन्वत्यासन्ना खलु युष्माकं मोक्षसिद्धिः ।]
पुरुषः - भद्रे! भविष्यत्यपि परमपुरुषार्थे दृष्टिं प्रतिरुणद्धि मे दुर्वाराऽसौ दोषानुवृत्तिः । तथा हि,
सकृदपि विनतानां सर्वदे सर्वदेहिन्युपनिषदभिधेये भागधेये विधेये ।
विरमति न कदाचिन्मोहतो हा हतोऽहं विषमविषयचिन्तामेदुरा मे दुराशा ॥ ४४ ॥
श्रद्धा - भट्ट! बाळिसबुद्धि अहं किं वो पडिभणामि । तह वि तरळसहावाए मए भणिज्जइ । चिरगअं वि उत्तन्तं दाणिं वि चिन्ताहिम् आअड्डिऊण भट्टिणा अप्पा विळपज्जइ । [भर्तः! बालिशबुद्धिरहं किं वः प्रतिभणामि । तथाऽपि तरलस्वभावया मया भण्यते । चिरगतमपि वृत्तान्तमिदानीमपि चिन्ताभिराकृष्य भर्त्रा आत्मा विलप्यते।]
पुरुषः - अयि सूनृतवादिनि श्रद्धे! कीदृशः पुनरनागतः प्रारब्धकर्मफलप्रवाहः भविष्यतीति नित्यं बिभेति मे चेतः । अथ वा किमनया निरर्थकचिन्तया? अच्छिद्रपरभजनयोगिना तु मया नित्यमवहितेन वर्तितव्यम् । तत्र च,
मृत्युरद्येति विदुषा यत्कर्तव्यं हितैषिणा । तदेव नित्यं कर्तव्यमनिर्धारितमृत्युना ॥ ४५ ॥
श्रद्धा - एव्वं वि पडिऊळचिन्ता भट्ठिणा ण काअव्वा। अज्ज वा परं वा मोक्खो होहित्ति विस्सद्धहिअएण होदव्वम् ।
[एवमपि प्रतिकूलचिन्ता भर्त्रा न कर्तव्या । अद्य वा परं वा मोक्षो भविष्यतीति विस्रब्धहृदयेन भवितव्यम् ।]
पुरुषः - भद्रे! साधु भवत्या संस्मारितोऽस्मि । यत्तदाम्नातं ‘इति यस्य स्यादद्धा न विचिकित्सास्ति’ इति । तद्भवती मद्विमोक्षणैकतानमनसो विष्णुभक्त्यास्सकाशं गत्वा ममेदृशीमवस्थामावेदय ।
श्रद्धा - जं भट्टा आणवेइ । [यद्भर्ता आज्ञापयति ।]
[इति निष्क्रान्ता ।]
पुरुषः - (विचिन्त्य साभिलाषमिव स्थित्वा) नाद्यापि तावत्,
पितृपथघटीयन्त्रारोहावरोहपरिभ्रमैर्निरयपदनीयातायातक्रमैश्च निरन्तरैः ।
अधिगतपरिश्रान्तीनाज्ञाधरैरतिवाह्य नस्सुखयति निजच्छायादायी स्वयं हरिचन्दनः ॥ ४६ ॥
सङ्कल्पः - (सहर्षम्) अवधारितस्वभावोऽयमस्मत्स्वामिसम्मतोऽनन्यभक्तः ।
मिथ्यादृष्टिमुखैर्विवेकमुषितैरस्पृष्टधीः कश्मलैरुत्तीर्णः प्रतिबुद्धदोषचिदचिद्भोगस्पृहाकर्दमात् ।
निध्यानस्थिरदर्पणप्रतिफलं निःश्रेयसश्रीरसावद्य प्रत्यवपत्तुमिच्छति भवाकूपारपारस्थलीम् ॥ ४७ ॥
अपि च,
प्रगुणवृत्तिरपथ्यपराङ्मुखः कृपणचित्तहरैर्व्यसनग्रहैः ।
अयमपत्रपते निरुपप्लवः परगतैरपि दृष्टपरावरः ॥ ४८॥
अहह! कति कति जगति न सन्ति कर्मिणो योगिनस्तपस्विनश्च । न तेषु कस्यचिदेतादृशस्स्वभावः ।
कम्पन्ते यमकिङ्कराः स्वयमसौ कालश्च सर्वङ्कषः शङ्कन्ते किल निर्जरा निजपदावष्टम्भनं पाक्षिकम् ।
रक्षोदानवयक्षगुह्यकमुखा धावन्त्यतो दूरतः पद्मावल्लभपादपद्मयुगलप्रत्यर्पितस्वात्मनः ॥ ४९ ॥
यत्राप्यसौ सुकृतिभिर्विदितानुभावैरभ्यर्चितो जनपदे निवसत्यनन्यः ।
सिद्धाश्रमप्रतिनिधाविह सर्व एते निर्व्याधयश्च विचरन्ति निराधयश्च ॥ ५० ॥
अहो नु स्वल्वमुष्य परमपुरुषप्रीतितोऽपि तद्भक्तप्रीतिरतिशेते । इत्थं किलास्य नियतमालापः ।
नाथे नस्तृणमन्यदन्यदपि वा तन्नाभिनालीकिनीनालीकस्पृहणीयसौरभमुचा वाचा न याचामहे ।
शुद्धानां तु लभेमहि स्थिरधियां शुद्धान्तसिद्धान्तिनां मुक्तैश्वर्यदिनप्रभातसमयासत्तिं प्रसत्तिं मुहुः ॥ ५१ ॥
तदेनमतिगाढसमाधिसंश्लेषादमृतजलधिनिहितमकरन्दबिन्दुवदविभक्तमिव भगवताऽवस्थितमनन्ययोगिनम(हं)नुमन्यमानः स्वयमपि धन्यो भवितुमिच्छामि । (सहर्षबहुमानमुपसृत्य) महात्मन्! आश्चर्योऽसि, धन्योऽसि, परमपुरुषदास्यप्रियोऽसि ।
पुरुषः - (सहर्षसम्भ्रमसाध्वसमुत्थाय तत्प्रभावपरवशः प्रणिपत्य प्राञ्जलिस्तिष्ठन्) भगवन्!
अनवधिकवैभवं त्वामवधारयितुं न पारयति चेतः । आद्यस्स एव भगवानथ वा तस्य त्वमन्तरङ्गतमः ॥ ५२ ॥
सङ्कल्पः - महाभाग! अहं किल परमपुरुषसङ्कल्पः । परमैकान्तिपरिषदग्रगण्यमनन्तसुकृतदुष्कृतनिगलयुगलविगलनपूर्विकया परमपदपर्यङ्कपरिष्कारकपरब्रह्मसेवापर्यन्तया भक्तिपरिपाकसम्पदा सङ्घटयितुं तदेकवल्लभया कृपणजनविषयकृतपक्षपातया कृपया नियुक्तश्चिरप्रार्थितदर्शनं भवन्तमुपगच्छामि । तदिह निकटवर्तिन्यां निःश्रेयससम्पदि निर्विशङ्केन भवता भवितव्यम् । अद्य च,
कच्चित्क्षिप्तरजस्तमस्कमधुना सत्त्वं समुज्जृम्भते कच्चिन्मोचितविप्लवश्च करणग्रामो वशे तिष्ठति ।
कच्चित्सङ्घटते समाधिरनघः कच्चित्प्रसन्नं मनः किं वा कैटभकण्टकस्य कृपया जुष्टस्य ते दर्घटम् ॥ ५३ ॥
पुरुषः - (सहर्षगद्गदम्) अहो नु खलु धन्योऽयमनन्यशरणो जनः । यदेनमनिदम्प्रथमसम्पदा भगवदनुकम्पया प्रचोदितस्तत्रभवान् प्रसीदन् प्रेक्षते । कश्च त्वदीक्षितः समीहितसिद्धौ सन्दिग्धे । निर्धारितश्च निगमान्तनिरूढबुद्धिभिस्त्वदनुभावः ।
यस्याज्ञा विबुधेशमौलिवलभीवास्तव्यपारावती यद्भ्रूविभ्रमकिङ्करी विधिशिवस्वस्थानसुस्थासिका ।
ब्रह्मस्तम्बधुरन्धरेण मुरभित्सङ्कल्पभूम्ना त्वया कस्मिन् किं नु न जाघटीति न च किं कस्मिन्न जाघट्यते ॥ ५४ ॥
सङ्कल्पः - (स्वगतम्) प्रष्टव्यः पुनरसौ विशेषतः सांयमिकीं सिद्धिम् । (प्रकाशम्) भद्र! कीदृशी भवत इदानीं कृपणजनदवीयसी कृतमुखसम्मुखी समाधिसम्पत्तिः ।
पुरुषः - देव! प्रस्पष्टमनुभूयमानाऽप्यसौ विशेषतो निर्देष्टुं न शक्यते । तथाऽपि किञ्चिदावेदयामि ।
निरूढनिगमत्रये निखिललोकचिन्तामणौ प्रसत्तिमधिजग्मुषि प्रणिदधानभावास्पदे ।
रतिं भजति भावनालयमिवोपयाति द्रुतं रमावसुमतीसहाचरितधर्मणि ब्रह्मणि ॥ ५५ ॥
सङ्कल्पः - (सहर्षम्) महात्मन्! अनन्यलभ्या तवेयमवस्था विस्मयावेशविह्वलं विदधाति मामकं मानसम् । इयं हि
निवृत्तिरसवासनानिरवशेषितोपप्लवा परप्रणिधिपद्धतौ धृतिमुपेयुषी शेमुषी ।
द्रुतप्रवरशर्कराभरितदुग्धधाराकृतिप्रतिक्षणविकल्पनाकलहलङ्घिनी वर्तते ॥ ५६ ॥
अपि च,
कवित्वमदकश्मलं कथकदर्पतिग्मज्वरं विकत्थनमिलद्बहुप्रलपनाभिमानग्रहम् ।
परप्रतिपदार्पणप्रथनयातनां च स्वयं निवर्त्य निरवग्रहान्निभृतवृत्तिमातिष्ठसि ॥ ५७ ॥
पुरुषः - देव! भवत्प्रसादसम्भवेयं पराङ्मुखस्वभावस्य मे प्रत्यङ्मुखी बुद्धिवृत्तिः । अचिन्त्यप्रभावश्च भवानागमेषु जोघुष्यते ।
क्रियाशक्तिं केचिद्दनुजमथनीं हेतिमपरे मनस्तत्त्वं चान्ये मधुविजयिनस्त्वामभिदधुः ।
तमेवैके तत्तत्पदविषयजुष्टं तदिह नः सदोत्तुङ्गः प्रादुर्भवसि भवसिन्धुप्रमथनः ॥ ५८ ॥
सङ्कल्पः - भद्र! अप्रत्यूहस्त्वयि भगवत इदानीमनघः प्रसादः । अहमपि तदनुप्लवः । ततश्च,
निरपायमुख्यरागं निजपक्षनिविष्टनित्यहरितत्त्वम् ।
गुणपञ्जरस्थितं त्वां शुकमिव मोक्ष्यामि दिव्यगतियोग्यम् ॥ ५९ ॥
शृणु चेदानीमागामिनीमनन्यलभ्यामपवर्गसिद्धिम् ।
निर्णिक्तत्रिगुणाञ्जनस्य सगुणब्रह्मोपसम्पत्तितः प्रादुर्भूतगुणाष्टकस्य परमं साधर्म्यमभ्येयुषः ।
पारावर्यविभागलक्षणपरित्यागप्रसङ्गोज्झिता शेषादेरिव शेषवृत्तिरपि ते सत्तावधिस्सेत्स्यति ॥ ६० ॥
अपि च,
सुहृदस्तवाददीरन् सुकृतफलं यत्त्वया परित्यक्तम् ।
दुष्कृतफलं द्विषन्तः प्रारब्धान्ते परं पदं विशतः ॥ ६१ ॥
पुरुषः - देव! भवत्प्रसादलभ्यां भाविनीमवस्थां प्रतिबुध्य निरूढहर्षा मुक्तकलिर्नृत्यतीव मे बुद्धिः । अपुनर्भवस्तु भविष्यति न वेति सन्दिहानो भृशं दूये । तदिह कथं कल्पितोऽहमिति,
वितमसि पदे लक्ष्मीकान्तं विचित्रविभूतिकं सचिवगमितः सम्पद्याविर्भवत्सहजाकृतिः ।
स्फुटतदपृथक्सिद्धिः सिद्ध्यद्गुणाष्टकतत्फलो भजति परमं साम्यं भोगे निवृत्तिकथोज्झितम् ॥ ६२ ॥
ततश्च यद्यहमभिज्ञातुमर्हामि तदाज्ञापयितुमभिवाञ्छामि ।
सङ्कल्पः - भद्र! (कथं) किं नु भवते प्रदित्सितस्वाराज्याय सिद्धं न संवेद्यते ।
अवताररहस्यतत्त्ववेदी विबुधग्रामटिकासु वीतरागः ।
अपुनर्भवने न निर्व्यपायं प्रतिगन्ताऽसि परं पदं विधाम्नः ॥ ६३ ॥
श्रद्धत्स्व चैनमपि सत्यवाचो मे सशपथं व्याहारम् ।
स्वसेवासार्वभौमत्वं भवते परमात्मना । विवेकस्य च वीरस्य यौवराज्यं प्रदित्सितम् ॥ ६४ ॥
अपि च,
मुक्तस्त्वं सकृदेव साम्प्रतमितः प्रागुत्तरैः कर्मभिः प्रत्यक्षाल्परसं परित्यज न वा प्रारब्धभोगं प्रियम् ।
अस्माभिः पुनरादिपूरुषदयादेवीकृतप्रेक्षणैः त्वद्वृत्तान्तसतत्त्वविज्ञपनतस्सिद्धोत्सवा सेव्यते ॥ ६५ ॥
तदामन्त्रयामि भवन्तम् । (इति द्वित्रिपदमतिक्रम्य) विद्यासन्तत्यविच्छेदाय जगति विख्यापयामि किञ्चित् ।
भगवति नियतात्मा भागधेये श्रुतीनां पुरुष इह महात्मा वर्तते भूतधात्र्याम् ।
तदयमवदधानैः सर्वमन्तेवसद्भिः पृथुमतिभिरभीष्टं पृच्छ्यतां विश्वदर्शी ॥ ६६ ॥
[इति पुरुषं परिवृत्य पश्यन्निष्क्रान्तः ।]
पुरुषः - (सहर्षम्) प्रत्यक्षितप्रभावा मयीदानीं विश्रुतपूर्वा विश्वकर्तुरघटितघटनाशक्तिः । यदहमनन्तापराधसन्ततोऽप्यपवर्गहेतुना प्रसादेन परिगृहीतोऽस्मि । किं च,
यदिह पुरा पुराणपुरुषेण बहिष्करणात् प्रमितविरुद्धवृत्तिविषमं प्रचचार बहिः ।
तदिदमहो तमेकमनुभूय रसातिशयात् स्वपिति मनो मदीयमवलिम्पति मुह्यति वा ॥ ६७ ॥
अपरमपि विचित्रमेतदनुभवामि ।
अन्येषामजहत्त्रिवर्गमनसामायुःक्षयत्रासदैरप्रत्यूहगतिक्रमैरवितथव्यापारधन्यस्य मे ।
भ्रश्यद्भिर्दिवसैः प्रवृद्धवृजिनाकूपारपारीभवन् प्रत्यासीदति मुक्तिवासर इति प्रीतिः प्रतिष्ठाप्यते ॥ ६८ ॥
इदमपि महत्तरं प्रीतिकारणम् ।
यदेतत्,
दहरकुहरे देवस्तिष्ठन्निषद्वरदीर्घिकानिपतितनिजापत्यादित्सावतीर्णपितृक्रमात् ।
धमनिमिह नस्तस्मिन् काले स एव शताधिकामकृतकपुरप्रस्थानार्थं प्रवेशयति प्रभुः ॥ ६९ ॥
अधिगतं च महदिदानीमस्माकमैश्वर्यम् ।
प्रत्यूहानवधीद्विवेकसुभटो युद्धेषु बद्धेषुधिस्तद्भूम्नैव हता धियस्तरलता सम्भूय सा भूयसा ।
प्रत्यक्षागमयुक्तिभिः प्रणिहितत्रित्वेषु तत्त्वेष्वमी लक्ष्यालक्ष्यगुणेषु लब्धधिषणोत्सेधास्समेधामहे ॥ ७० ॥
अपि च, निरन्तरमन्तरात्मानुभवरसमीश्वराज्ञानुवर्तनप्रीतिं च यावज्जीवमनुपालयतो मे नित्यसन्निहितैव नैश्रेयसी सिद्धिः । तदेतदखिलं यन्मुखेन मया समधिगतं तमसहायवीरं विवेकं विचित्रमहिमशालिनीं विष्णुभक्तिं चामोघवाञ्छितः सन्द्रष्टुमिच्छामि । अत्र चैतौ तुलसीवननिवासिनीं द्वादशीमुपसेवमानौ नूनमुपस्थास्येते । यावदिमावुपसर्पामि,
[ततः प्रविशतिविवेकः सुमतिर्विष्णुभक्तिश्च ।]
विष्णुभक्तिः - महाराज! दिष्ट्या त्वया जिताश्शत्रवः । पुरुषश्चाशेषविकृतिप्रसूत्या प्रकृत्याऽनिदम्प्रथमबम्भ्रम्यमाणगर्भजन्मजरामरणादिचक्रयन्त्रमारोप्य निपीड्यमानो निवृत्तिधर्मप्रभृतिनिःश्रेणिकाक्रमेण निःश्रेयसप्रासादसमारोहणाय नियोजितः । अहो नु खलु भवन्तमनवधिकवैभवमवधारयामि ।
महासत्त्वोदारस्थिरमधुरगम्भीरहृदयः कृपोत्साहोत्तुङ्गः कृतविदभिगम्यः प्रणयिनाम् ।
श्रुतप्रज्ञामेधास्मृतिजलधिरक्षुद्रचरितः त्वमेकः सर्वासामनघफणितीनामभिमतः ॥ ७१ ॥
अपि च,
धीरोदात्तानुकूलोत्तमगुणमहिमानायकेष्वग्रणीस्त्वं स्वाधीना त्वत्सनाथा सुमतिरभिमता धर्मपत्नी तवासौ ।
स्वायत्ता चाद्य सिद्धिस्समजनि भवतस्स्वामिनिःश्रेयसार्था रामस्त्वं च त्रिलोक्यां रणविहृतिमुखैरप्रधृष्यानुभावौ ॥ ७२ ॥
राजा - महाप्रभावे! सर्वमिदं त्वत्प्रसादप्रसूतमेव । ‘भक्त्या त्वनन्यया’ इति भगवतैव च गीयते । (विचिन्त्य) अद्यापि न प्रकृत्या पुरुषः परित्यक्तः, नापि चासौ ।
ज्वलनदिवसज्योत्स्नापक्षोत्तरायणवत्सरान् पवनतपनप्रालेयांशून् क्रमादचिरद्युतिम् ।
जलधरपतिं देवाधीशं प्रजापतिमागतस्तरति विरजां दूरे वाचस्ततः परमद्भुतम् ॥ ७३ ॥
अयं हि,
मलिनिमदशामातन्वानैर्मलीमसवस्तुभिर्मणिरिव महानन्तर्ज्योतिर्निरुद्धनिजप्रभः ।
शुभतररुचिप्रत्यासेधस्वकर्मफलच्छलाज्जडपरिषदि न्यस्तो दैव्या न दीव्यति मायया ॥ ७४ ॥
सुमतिः - अय्यउत! अविच्छिण्णप्पवुत्तकेवळपरसन्तवणकेळिसाळिणीए माआए किं फळं ळद्धं ळहिज्जइ वा?
[आर्यपुत्र! अविच्छिन्नप्रवृत्तकेवलपरसन्तपनकेलिशालिन्या मायया किं फलं लब्धं लभ्यते वा?]
राजा - न किञ्चिदपि । (सनिश्वासम्)
विषतरुफलपाकदर्शनीयैर्विषयरसैः पुरुषं निरुद्धदृष्टिम् ।
अलभत किमसौ फलं विचेता विषमगुणागुणिनं विलोभ्य माया ॥ ७५ ॥
विष्णुभक्तिः - नासौ महाराजस्य निर्वेदावसरः । अद्य हि परसङ्कल्पकल्पान्तपावकेन प्रारब्धकर्मलेशपरिशेष उपशोषितः पुरुषस्य दुरितार्णवः । प्रकृतिरपि निर्मोककल्पाशेषपरिशुद्धस्वभावं पुरुषमायुषः पारे तमसः पारे च निर्मोक्ष्यति ।
राजा - (सहर्षम्) भगवति सिद्धप्रायस्समीहितः । तर्हि सफलप्रयासोऽस्मि ।
सुमतिः - अय्यउत्त! किम् एदं भअवईए भासणम् अम्हाणम् उवच्छन्दणम् अहवा अणळिअं ति डोळाअन्तमाणसम्हि ।
[आर्यपुत्र! किमेतद्भगवत्या भाषणमस्माकमुपच्छन्दनम्, अथवा अनलीकमिति डोलायमानमानसाऽस्मि ।]
राजा - प्रिये! मैवं मन्वीथाः । सत्यवादिनी खल्वेषा सनकसनन्दनादिभिर्महनीया महातपस्विनी । श्रद्धत्स्व चैतत्,
निर्जरीभिरपि नित्यदुर्लभे जातु काचिदिह जातकौतुका ।
लप्स्यसे ललितकाङ्क्षिणी स्वयं मत्प्रिया त्वमनघं मनोरथम् ॥ ७६ ॥
सुमतिः - महन्तो खु एसो पसाओ सहधम्मआरिणीविसए महाराअस्स । [महान् खल्वेष प्रसादः सहधर्मचारिणीविषये महाराजस्य ।]
राजा - (परिक्रम्य) इदमहमिदानीं मदेकार्थेभ्यश्चिरपरिचर्यापरिश्रान्तेभ्यः प्रहर्षकारणं विज्ञापयामि ।
विद्याभिः स्वविपक्षभङ्गपटुषु स्थानेष्ववस्थीयतां सिद्धार्थैरनुमन्यतां शमदमस्वाध्यायतोषादिभिः ।
मत्सूतस्य मनोरथस्य रथिना दृष्टाध्वना सम्प्रति प्रत्यावृत्तिकथोज्झितेन परमं ब्रह्म प्रतिष्ठाप्यते ॥ ७७ ॥
अपि च,
प्राचीमेकपदीं त्यक्त्वा प्रतीचीमास्थितः प्रभुः । उदीचीमेव गन्ताऽसौ नत्ववाचीं कथञ्चन ॥ ७८ ॥
(आकाशे डिण्डिमध्वनिः । सर्वे समाकर्ण्याद्भुतकौतुकं नाटयन्ति ।)
विष्णुभक्तिः - श्रूयतामिदं महाराजेन,
निवृत्तमतिकश्मलो निभृतबुद्ध्यबुद्धीन्द्रियः परप्रणिधिवैभवत्रुटितकर्मबन्धः कृती ।
विमुक्तिपदमद्भुतं द्रुतमुपैति विद्वानिति त्रिवर्गरसघस्मरस्त्रिदशडिण्डिमस्ताड्यते ॥ ७९ ॥
पुरुषः - (सहर्षं) अस्मन्महोदयसन्तुष्टोऽयं वत्सो विवेकः सुमतिविष्णुभक्तिभ्यां सह इत एवाभिवर्तते । तदहमेतान् प्रत्युद्गच्छामि ।
विवेकः - (पुरस्तान्निर्दिश्य) प्रिये! एष कुलपतिरस्माकम् अतर्कितोपनतपरसङ्कल्पनिवृत्तपूर्वापरपुण्यपापराशिरस्मद्दिदृक्षया समायाति । तदयमस्माभिस्समाहितैरभिगम्योपसर्तव्यः । (सर्वे सप्रश्रयं त्वरितमुपसृत्य प्रयतबुद्धयः प्रणिपतन्ति ।)
पुरुषः - सर्वे दीर्घायुषो भूयास्त । भद्रे विष्णुभक्ते! अनन्यसाधारणावगतप्रभावनिर्धूतनिखिलपरपक्षेण जितकाशिना वत्सेन विवेकेन दिष्ट्या समागतोऽस्मि । (विवेकमुपगृह्य सस्नेहबहुमानम्) वत्स विवेकमहावीर! निजकर्मसन्ततिप्रवृत्तया निद्रया निर्भरप्रसुप्तोऽहं त्वयैव खलु अस्मत्प्रतिकूलसकुल्यघातिना प्रतिबुद्धदशां प्रापितः । अनया च परित्यक्तफलान्तरया विष्णुभक्त्या पुनरस्मद्धितैकनिरतया दुःसहानन्तदुःखसन्तत्यनुवृत्तिनिदानभूतदुरितराशिरुपसंहृतः ।
राजा - (स्वगतं) हन्त कुलक्षयहेतुरयमिति कुलपतिरक्षकं मां कुटिलमतयः केचिदपवदितुमिच्छन्ति ।
गतद्रविणदोहलं गलितमाननागौरवं यशस्यनभिसन्धिकं यमिनमप्यनुद्गृह्णति ।
तिरस्करणकौतुकग्रहगृहीतचित्ते जने गुणग्रहणलालसो न खलु कश्चिदालक्ष्यते ॥ ८० ॥
अलमनेन । (प्रकाशं) तात …. इत्यर्धोक्ते सवैलक्ष्यमवनतमुखस्तिष्ठति ।
विष्णुभक्तिः - भगवन्! महाराजस्य विवेकस्य विवक्षितं विज्ञापयामि ।
कुल्यत्वेन परिग्रहेऽपि कुटिलप्रस्थानगामिष्वसौ कूटस्थप्रतिकूलवृत्तिषु कृपादाक्षिण्यलेशोज्झितः ।
कामादेः स्वयमौर्ध्वदेहिकविधिं कृत्वा यथार्हं कृती द्रष्टुं त्वां त्रुटितस्वकर्मनिगलं प्राप्तो विवेकः प्रभुः ॥ ८१ ॥
पुरुषः - (सहर्षबहुमानम्) भद्रे, परमयोगिबहुमतप्रभावे, विष्णुभक्ते! परित्यक्तस्वप्रयोजनमसम्भवत्प्रत्युपकारमेवमुपकृतवद्भ्यो भवद्भयः परितोषानुगुणं कमपि वरं प्रयच्छामि ।
विवेकोऽयं तत्त्वेष्ववितथविशेषग्रहतनुर्भवोदन्वद्दोषप्रतिगमनिकात्मा च सुमतिः ।
परप्रेमाकारा त्वमिति समवेतास्त्रय इमे तमःपारे त्यक्तत्रिगुणमपि च त्यक्ष्यथ न माम् ॥ ८२ ॥
(विवेको विष्णुभक्तिश्च साञ्जलिबन्धम्) अनन्यलभ्यः प्रसादोऽयम् अस्मास्वत्रभवतः ।
सुमतिः - (सहर्षम्) महन्तो हि एसो वरो महणिज्जो जम् अय्यउत्तस्स सहधम्मआरिणी होम्मि । [महान् हि एष वरः महनीयः यदार्यपुत्रस्य सहधर्मचारिणी भवामि ।]
विष्णुभक्तिः - भगवन्! अद्य खल्वासन्नसिद्धिरेव स भवानिति देशिकप्रसादलब्धदिव्यश्रुतिचक्षुषो मे हृदयमेव कथयति । तथा च, सिद्धपूर्वैः सुनिमित्तैरपि सूच्यते । इह हि,
दिव्यस्सम्प्रति दुन्दुभिर्दिशि दिशि ध्वानैर्मुहुः श्रूयते देवानामपि हावुहावुलहरी विक्षोभयत्यम्बरम् ।
आरब्धप्रतिसंस्कृतिः कृतमुखैरर्चिमुखैः श्रीपतेराज्ञाधारिभिरातिवाहिकगणैरादिश्यते पद्धतिः ॥ ८३ ॥
पुरुषः - (सहर्षोल्लासं) अतस्तर्हि कृतकृत्यान् भवतः कृतार्थोऽहमामन्त्रयामि ।
अलं कालप्रहाणेन प्रतीक्षे पश्चिमं दिनम् । अस्मदेकहितैषिभ्यः स्वस्ति वः साधयाम्यहम् ॥ ८४ ॥
अपि च,
ग्रहस्वप्ननिमित्तादिमोघचिन्तापराङ्मुखः । प्राप्तं प्राप्तमुपासीनः प्रवेक्ष्यामि परं पदम् ॥ ८५ ॥
अहह! रसरुधिरपिशितमेदःकीकसमज्जाशुक्लमयकलेबरकारागृहान्निष्क्रान्तः शबरकुटीरकोटरात् सार्वभौमपितृसदनसौधाधिरोहणाय सन्त्वरमाण इव राजकुमारस्तत्तद्देशाधिकारिभिः आतिवाहिकगणैः अनितरसुलभेन देवयानेन त्रिगुणमरुकान्तारमतिवाहितस्तमःपारभूतं परमपदमधिरोक्ष्यामि । यत्र च
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे देवीभूषादिजुष्टो जनयति जगतां शर्म वैकुण्ठनाथः ॥ ८६ ॥
(परिक्रम्य, सविनयमञ्जलिं बद्ध्वा ।)
दिवि भुवि च निविष्टान् देशिकान् दिव्यभूम्नः प्रणतिनियतवृत्तिः प्रार्थये कञ्चिदर्थम् ।
अधिजिगमिषुराद्यं धाम युष्मत्प्रभावात् प्रियगतिरनुगृह्य प्रेक्ष्यतां भृत्य एषः ॥ ८७ ॥
अपि च,
एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।
श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः स्पर्धाविप्लवविप्रलम्भपदवीवैदेशिका देशिकाः ॥ ८८ ॥
[इति विवेकसुमतिविष्णुभक्तीस्सप्रसादबहुमानं समीक्षमाणः सिपाधयिषितोत्तरकृत्यो निष्क्रान्तः ।]
सुमतिः - अय्यउत्त! अह किं पडिवाळिअ मोख्खदिअहस्स अम्ह कुळवइणो अहिळसिअळाहो विळम्बिज्जइ ।
[आर्यपुत्र! अथ किं प्रतिपालितमोक्षदिवसस्य अस्मत्कुलपतेरभिलषितलाभो विलम्बेत ।]
राजा - देवि! अस्माभिरनया च महाप्रभावया विष्णुभक्त्या नित्यप्रत्यूढनिखिलान्तरायस्य किं नाम सम्प्रति काङ्क्षितविलम्बकारणम् । पश्य पश्य ।
नन्वहं सुमतिजानिरेकधीः त्वं विवेकसहधर्मचारिणी । आवयोर्मतमनन्यभावयोरर्थ्यमेतदचिरेण सेत्स्यति ॥ ८९ ॥
सुमतिः - अय्यउत्त! दाणिं कुत्थ गओ एसो किअकज्जो महापुरुसो । [आर्यपुत्र! इदानीं कुत्र गत एष कृतकृत्यो महापुरुषः ।]
राजा - प्रिये! वक्तव्यमेतत् । भूतभाविसमस्तवस्तुवेदिन्या भगवत्या विष्णुभक्त्या ।
विष्णुभक्तिः - (निमीलितदृष्टिः प्रणिधानमभिनीय) नूनमनिकेतो यत्रसायङ्गृहत्वमास्थितो यथालब्धवृत्तिर्योगी । अथ वा,
श्रीरङ्गं वृषभाचलं करिगरिं श्रीमद्यदुक्ष्माधरं साकेतं मधुरामुपैष्यति हरिक्षेत्रं बदर्याश्रमम् ।
अन्तस्सम्भृतसप्ततन्त्ववभृथादादेहपातोदयाद्यद्वा सम्प्रति यत्र कुत्रचिदसौ यत्रेकतानं मनः ॥ ९० ॥
अपि च,
स्वयंव्यक्तक्षेत्रे विपिनविषये वा विधिवशात्प्रशस्ते दुष्टे वा क्वचन विषये त्यक्तवपुषः ।
मुकुन्दस्त्रय्यन्तप्रथितमहिमा सोऽयमनघान् प्रपन्नानुद्धृत्य स्वपदमनपायं गमयति ॥ ९१ ॥
अद्य चासौ निखिलजगदेकदेहिना नित्यनिरवद्येन देवेन निजनगरपर्यन्तमनघमपुनरावृत्तिमध्वानं निनीषितः । तेन,
देवर्षिभूतपितृमर्त्यऋणातिलङ्घी दत्ताभयस्य कृपया दृढभक्तिशाली ।
पत्युः समस्तजगतां परमं पदं तत्प्राप्स्यत्यसौ गुरुजनैः प्रथमाधिरूढम् ॥ ९२ ॥
इदमपि किञ्चिदचिन्त्यमहिमशालिनि अमुष्मिन् महात्मनि अद्भुतमवलोकयामि । अद्य हि,
कृतमिह दुरितं प्रमादवृत्त्या किमपि मुकुन्दकृपानिमग्नमेनम् ।
पवनतनयवालवह्निनीत्या न दहति धक्ष्यति योजितं परेषु ॥ ९३ ॥
राजा - (सहर्षबहुमानम्) भगवति विष्णुभक्ते! विश्वसाक्षात्कारविचक्षणायास्ते किमेतावत्परिमितातिशयदर्शनमाश्चर्यम् । (विचिन्त्य स्वगतम्) महाप्रभावैषा मम वन्दनीया । (प्रकाशम्)
विधिवशनियतेन विष्णुभक्ते प्रणिपतनेन वयःक्रमाधिकोऽपि ।
उचितमुपचरामि विश्वमान्यां हरिपदपद्मरतिं परामहं त्वाम् ॥ ९४ ॥
(सुमतिं विलोक्य) प्रिये! त्वमप्येनामस्मत्प्रयुक्तप्रतिष्ठामप्यादिपूरुषमूर्तिमिव प्रणन्तुमर्हसि ।
विष्णुभक्तिः - (सप्रश्रयम्) महाराज! अनादिसंसारसागरनिमग्नमस्मत्कुलपतिं पुरुषमुद्धृतवते पूर्वजाय भवते प्रतिप्रणाममभिरोचयामि ।
विवेकः - महायोगेश्वरि!
किं विज्ञानैः किं तपोदानयज्ञैः किं वाऽन्यैश्च त्वत्परित्यागदीनैः ।
ज्ञातु द्रष्टुं तत्त्वतश्च प्रवेष्टुं शक्यं ब्रह्मानन्यभाजा त्वयैव ॥ ९५ ॥
विष्णुभक्तिः - (विचिन्त्य) भवत्वेतदेवमन्यथा वा । प्रत्येमि तावन्मत्समक्षमेव मनीषितं साधयतः स्वयमकर्तृत्वाभिमानाभिप्रायम् । सर्वथा निस्तरति तावदयमसौ निष्प्रत्यूहभगवदनुकम्पावलम्बितः पुरुषस्सर्वदोषाकरं संसारसागरम् । प्रविशति च परमं पदम् । किं ते भूयः प्रियमुपहरामि ।
राजा - भगवति महानुभावे!
किं तत्प्रियं परमतः प्रतिपादनीयं पद्मासहायपदपद्मजुषा भवत्या ।
पश्यामि यत्पुरुषमेवमपास्तपङ्कं राकाशशाङ्कमिव राहुमुखाद्विमुक्तम् ॥ ९६ ॥
अपि च,
अपुनरुदयो मायामोहः स्थलीमधिशायितः स्फुरति मुरभिद्भक्तिर्भव्या भवत्यनुपप्लवा ।
सरणिमपुनःप्रत्यावृत्तिं भजत्यनघः पुमान् किमिह बहुभिः क्रीडत्यग्रे समीहितमद्य नः ॥ ९७ ॥
किमन्यदहमिह भवत्यास्सकाशादाशासे । तथापीदमस्तु । - भरतवाक्यम् ।
अङ्गीकुर्वन्त्वकलुषधियो नित्यमध्यात्मविद्यामाद्यो धर्मः स्पृशतु वसुधामाशिषः पारवर्ती ।
देवः श्रीमान् निरवधिदयासिन्धुरस्मिन्प्रबन्धे वक्ता श्रोता वचनविषयः प्रीयतां वासुदेवः ॥ ९८ ॥
[इति निष्क्रान्तास्सर्वे ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (निःश्रेयसलाभो नाम) दशमोऽङ्कः ।

स्तोतुं निन्दितुमस्मदुक्तमथवा सोढुं समूढं जगत् किं नश्छिन्नमनन्तचिन्तनरसे सुस्थे सुखं तस्थुषाम् ।
शिष्याः शिक्षितबुद्धयः श्रुतिपथे येषां वयं ये च नस्तत्सन्तोषसमर्पणक्षममिदं साडम्बरैः किं परैः ॥

॥ ग्रन्थश्च समाप्तः ॥