09

नवमोऽङ्कः
(नेपथ्ये)
मोहाकूपारकुक्षिंभरिरयमनघो मुक्तिवीरुत्प्ररोहः प्रज्ञासौधैकदीपः प्रतिसमयकथातूलवातूलवेगः ।
दुःखद्वारोपरोधस्थिरतरपरिघो दूरतः प्रत्युपैति क्रूरक्रोधाशुशुक्षण्युपशमनसुधासारसेको विवेकः ॥ १ ॥
[चूलिका ।]
[ततः प्रविशति राजा व्यवसायश्च ।]
राजा - (सहर्षबहुमानम्) सेनापते! अद्य खलु मया त्वत्पुरस्कारेण निर्जितः सर्वदोषप्रसूतिः मधुकैटभादिभिर्महासुरैः महद्भिरपि देवैः दुर्जयो महामोहः ।
व्यवसायः - देव! वयं हि भवतो वाहनादिवदुपकरणमात्रम्, प्राधान्यं तु सर्वत्र भवत एव । अनुस्मरतश्च ते तादृशं समरविहारमद्यापि विस्मयाविद्धं मे मानसम् । तदा खलु,
न भ्रूरभज्यत न च भ्रकुटी निबद्धा नैवारुणं प्रकृतितो नयनाञ्चलं ते ।
कुत्राभवन्निति न वेद्मि भवत्प्रतीपाः चण्डद्युतावुदयतीव तमःप्रबन्धाः ॥ २ ॥
किं च,
त्रिगुणात्मिकया तिरस्करिण्या स्थगयामास शुभं य एष मोहः ।
स बभूव तदा त्वदाभिमुख्ये दिवसारोपितदीपनिष्प्रकाशः ॥ ३ ॥
अद्य तु,
लम्बालकैरविरलक्षरदश्रुपूरैः म्लानैरपत्रतिलकैर्वदनारविन्दैः ।
शंसन्ति शौर्यविभवं भुजशालिनस्ते मोहावरोधसुदृशो मुषिताङ्गरागाः ॥ ४ ॥
विवेकः - (सान्तस्तोषम्) स्वयंप्रवृत्तस्वतन्त्रकृत्ये किं परतन्त्रानस्मान् प्रशंससि? तथा हि,
वायुर्दोधूयते यद्यदयमुडुगणो बंभ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि न जलधिर्माधवीं दोधवीति ।
भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ५ ॥
किं च,
यथाधिकरणं प्रभुर्यजनदानहोमार्चनाभरन्यसनभावनाप्रभृतिभिस्समाराधितः ।
फलं दिशति देहिनामिति हि संप्रदायस्थितिः श्रुतिस्मृतिगुरूक्तिभिर्नयवतीभिराभाति नः ॥ ६ ॥
ततश्च,
प्रभुणैव सर्वजगदुद्भवस्थितिप्रलयप्रवाहपरिरब्धकेलिना ।
अहमस्त्रमन्त्रपरिमृष्टदर्भवद्गमितः स्ववध्यनिधने निमित्तताम् ॥ ७ ॥
व्यवसायः - देव! विक्रमादपि गरीयांस्तवासौ विनयगरिमा । (साद्भुतरोमाञ्चम्) देव!
दर्पोदग्रनियुद्धतावकभुजानिर्घातपातोदितस्फारासृक्परिवाहगद्गदरवो मोहः पतन्नग्रतः ।
अद्यापि स्मृतिमभ्युपैति मथनक्षोभक्षरद्गैरिकस्रोतःसंप्लुतमन्दरक्षितिधरक्षेपक्षणाक्षेपकः ॥ ८ ॥
इह पुनरिदानीं विश्वविख्यातवीरायितस्य ते विभूतिसमुचितं किमपि मङ्गलमाचरणीयम् । अद्य तु,
युक्तायुक्तवितर्कदक्षमतिभिर्युष्मद्भटैरुद्भटैर्निर्धूताखिलशल्यकण्टकततिर्नैश्रेयसी पद्धतिः ।
मोहध्वंसधुरन्धरस्य तव तु त्रय्यन्तपीठे महत्यासीदत्यभिषेकमङ्गलविधेरभ्यर्हितोऽयं क्षणः ॥ ९ ॥
राजा - सेनापते! मैवं वादीः । अनिष्पन्नसमाधौ पुरुषे कथमहमभिषेक्तव्यः । तथा हि,
करणहरिणश्रेणीदूरापकर्षणदारुणां कलुषतपनस्फायन्मायानिदाघविजृम्भिताम् ।
विषमविषयास्वादोत्कण्ठामयीं मृगतृष्णिकां मुनिरतिपतन्मुक्तिद्वारं गवेषयते मुहुः ॥ १० ॥
प्रक्रान्तमात्रा खल्विदानीं परब्रह्मोपलब्धिः । परिनिष्पत्तिस्तु दुर्लभेति परिपश्यामि । तथा हि,
कथमद्य निरालम्बं कर्मशृङ्खलितः पुमान् । आरोहतु दुरारोहं समाधिगगनस्थलम् ॥ ११ ॥
(विचिन्त्य) अस्त्वेवं तावत् -
सत्त्वोदग्रसमग्रनन्दथुभुवस्सालम्बनध्यानतः शुद्धे चेतसि यद्यपि प्रभुरिहादृश्यो दरीदृश्यते ।
प्रत्यग्वस्तुविशेष्यवर्ष्मणि पुनस्तस्मिन् दृढप्रेक्षिते नाथस्सोऽहमहं स इत्यपि गिरो नाध्यासमध्यासताम् ॥ १२ ॥
व्यवसायः - देव! अद्यापि कथमध्यासः । पुरुषः खल्विदानीं स्वशरीरे स्वात्मबुद्धिं विहाय स्वात्मनि परशरीरत्वबुद्धिमनुरुन्धे ।
राजा - हन्त! सिद्धप्रायमपि सर्वं सान्तश्शल्यमिवाद्य संदृश्यते । तथा हि,
तत्त्वज्ञाने विशुद्धे शमयति दुरितारम्भमात्मावधाने व्यक्ताकृष्टेतराक्षे विरमति च मनोवानरे चापलात्स्वात् ।
भस्मच्छन्नाग्निकल्पः परपरिभवनाद्यागमे दीप्यमानः श्लक्ष्णस्संस्कारसारश्शिथिलयति शनैरुज्जिहानं समाधिम् ॥ १३ ॥
अपि च,
क्रमपक्त्रिमकर्मजागरूकस्थिरसंस्कारनिरुध्यमानचित्तः ।
स्मरति प्रणिधातुमेकतानो बहिरर्थान्विवशः पितामहोऽपि ॥ १४ ॥
तथाऽपि स्वतन्त्रानुग्रहदत्तहस्तेन मया कदाचिदपि न स्खलितव्यम् । संभावितस्खलितं च सिषाधयिषितम् ।
बहुरपि लघुः प्रत्यक्चि(त्ता)न्ता बहिर्विषयाटवीविहृतिचटुलं चेतो रोद्धुं कथं प्रभविष्यति ।
अनिभृततटक्रीडोत्कण्ठाविजृम्भितसंभ्रमे कलभचरणे लूतातन्तुः कथं निगलायते ॥ १५ ॥
व्यवसायः - महाराज! किमिह पुनः प्रत्यूहशङ्कया ।
स्वयमिह विपदो वा स्वप्नवत्संपदो वा नियतिविपरिवृत्तौ नेमिवृत्त्या भवन्त्याम् ।
शतमपि विशयानां शस्त्रवच्छातयन्ती नयनिगमसमीची नव्यतिस्ते मतिस्ते ॥ १६ ॥
राजा - सेनापते! सिद्धमपि सर्वं साध्यशेषावमर्शनादसत्कल्पमिवाभाति । अद्य हि,
अपि निर्मुक्तजीवानां कामादीनां बलीयसाम् । अविद्या कर्मसंज्ञा तु मृतसञ्जीविनी स्थिता ॥ १७ ॥
व्यवसायः - महाराज! त्वत्प्रसादादेषाऽपि न स्थास्यति ।
राजा - (सानुशयम्) अहितनिवहवन्या हन्त सन्तन्यमाना कथमियमपचेतुं कल्पकोट्याऽपि शक्या ।
व्यवसायः - इत्थमेव - दहति निरवशेषं देवसंभूतिरेनां युगपदिह समिद्धो योगकल्पान्तवह्निः ॥ १८ ॥
न च तदुत्पत्तिरपि कथं भवित्रीति शङ्कनीयम् । यत ईदृगवस्थः पुरुषः -
सत्कारकालकूटं तरुणीकुणपं सभाभुजङ्गीं च ।
परिहरति राजधानीकुम्भीपाकं च गुप्तमाहात्म्यः ॥ १९ ॥
अपि च,
मुकुन्दे निक्षिप्य स्वभरमनघो मुक्तवदसौ स्वतन्त्राज्ञासिद्धां स्वयमविदितस्वामिहृदयः ।
परित्यागे सद्यः स्वपरविविधानर्थजननादलङ्घ्यामा मोक्षादनुसरति शास्त्रीयसरणिम् ॥ २० ॥
ततश्च,
अनघमतिरनुज्झन्नाश्रमादिव्यवस्थां हरिचरणसपर्यास्वादतुष्टो मनीषी ।
अवतरति विरक्त्या गाढमालिङ्गितोऽसौ मुषितनिखिलखेदे मुक्तिघण्टापथेऽस्मिन् ॥ २२ ॥
इदमपि यथावत्प्रतिसन्धातव्यम् ।
संसाराख्यज्वलनभसितीभूतसञ्जीवनार्हा धर्मोत्पत्तिप्रथितविभवा धार्यमाणा गिरीशैः ।
गम्भीरत्वादकलुषगतिर्गम्यतीर्थोपपन्ना गङ्गेवान्या पुरुषजलधिं गाहते विष्णुभक्तिः ॥ २२ ॥
अपि च, शान्तमेव रसमेकं शरणयतो मनीषिणः पुनरपि संप्रति रसान्तराण्यपि पुष्णातीव विष्णुभक्तिः । तथा हि,
जुगुप्सां देहादौ विषयरसभोगेषु हसनं प्रकोपं निद्रादौ परपरुषवादादिषु भयम् ।
शुचं योगालाभे फलपरिणतौ विस्मयमपि प्रयच्छत्युत्साहं दुरितविरतौ ब्रह्मणि रतिम् ॥ २३ ॥
न चात्र महाराजेन संस्कार(शेषितस्य)शेषतस्समाधिप्रत्यूहः शङ्कनीयः । यतः,
पृथुकतरुणप्रायावस्थाव्यवस्थितसञ्चया बहुलनिगमप्रत्यादिष्टा बहिर्मुखवासना ।
पटुतरदृढप्रत्याहारक्रियापरिपक्त्रिमा ज्वलति महति ज्योतिष्यन्तर्लयं प्रतिपत्स्यते ॥ २४ ॥
अद्य च,
प्रत्यक्तत्त्वसतत्त्ववेदनसुखप्रत्यूहसिद्धिप्रदैः क्षुद्रैः केवलकालयापनपरैरन्यैरनाकृष्टधीः ।
मुक्तिद्वारकवाटिकाविघटनध्वानप्रतिश्रुन्निभैरध्यक्षीकृतसत्पथैर्मुनिरसौ मन्त्रैर्धृतिं विन्दति ॥ २५ ॥
राजा - सेनापते! संप्रधारयताऽपि त्वदुक्तं त्वराधिक्यात्प्रचलितेनेव मया नानुभूयते । यावदिह पुरुषस्य निःश्रेयसोपायमविकलं न निष्पादयामि, यावद्वा प्रियाप्रियेषु सुकृतदुष्कृते न सङ्क्रमयामि, न तावन्निद्रामाद्रिये । अद्य तु,
कामातङ्कमतीत्य कोपदहनं निर्वाप्य वित्तस्पृहावेतालीं व्यवधूय बान्धवकथागर्तं समुत्तीर्य च ।
सङ्गोत्तंसितवासनासहचरस्संसारकाराकुटीनिष्क्रान्तिक्रमपादुकां तनुमनुद्विग्नो मुनिः क्षाम्यति ॥ २६ ॥
व्यवसायः - महाराज! मैवमाशङ्केथाः ।
स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले कालं कञ्चिज्जगति विधिना केनचित्स्थाप्यमानाः ।
तत्त्वोपायप्रभृतिविषये स्वामिदत्तां स्वनिष्ठां शेषां कृत्वा शिरसि कृतिनः शेषमायुर्नयन्ति ॥ २७ ॥
ततश्च,
सिद्धप्रायसमीहितस्य वितथोदर्को वितर्कः पुनः स्थूलाभ्यूहविसंस्थुलस्थितिमतामत्के चमत्कारिणः ।
दूरीकृत्य बलात्त्वया रिपुचमूदुर्वारदर्वीकरान् किञ्चिन्न्यूनमनोरथेन कृतिना किं नाम सञ्चिन्त्यते ॥ २८ ॥
राजा - (विचिन्त्य) अस्तु तावदेवम् -
विमुक्तिपथदेशिकैर्वितथवृत्तिवैदेशिकैर्विमृष्टशुकशौनकप्रभृतिभाषितैरुज्झितम् ।
भिषज्यति भवं प्रभौ पितरि शेषिणि श्रीपतावपथ्यविनिवर्तकं किमपि भद्रमभ्यर्थये ॥ २९ ॥
अद्य च,
जननविलयवृत्त्या जाङ्घिकस्यास्य जन्तोः समयमवमृशन् नस्तिष्ठति श्रीसहायः ।
प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः प्रजनयतु समाधिं स्वात्मनैव स्वल(क्ष्य)क्षम् ॥ ३० ॥
तद्वयमत्यासन्नेन महोदयेन पुरुषमभिनन्दयितुं प्रतिष्ठेमहि । (नूपुररवमाकर्ण्य) का पुनरिहेदानीं चरणकमलकलहंसायमानमणिनूपुररवेणामृतमिव शृण्वतां कर्णेप्वभिवर्षति?
(नेपथ्ये) भट्टिणि! दिट्ठिआ वढ्ढसि । मोहं जेऊण पडिणिवुत्तो महाराओ । ता इदो इदो भट्टिणी। [भर्त्रि! दिष्ट्या वर्धसे । मोहं जित्वा प्रतिनिवृत्तो महाराजः । तदित इतो भर्त्री ।]
राजा - (कर्णं दत्त्वा) सेनापते! तदिदं प्रणिधानसिद्ध्या पुरुषमभिनन्दयितुं प्रतिष्ठमानान्नः प्रथमोपस्थितं मङ्गलम् । यदसावभिमुखमायाति मङ्गलदेवतेव महागुणा देवी ।
[ततः प्रविशति सुमतिः चेटी च ।]
चेटी - भट्टिणि! एसो महाराओ सेणावइणा सह इदो भट्टिणीए आअमणं पडिवाळअंतो चिठ्ठइ । ता तुरिअं एव्व उवसप्पदु भट्टिणी । [भत्रि! एष महाराजस्सेनापतिना सह इतो भर्त्र्या आगमनं प्रतिपालयन् तिष्ठति । तस्मात् त्वरितमुपसर्पतु भर्त्री ।]
सुमतिः - (उपसृत्य) जेदु महाराओ।
गअणंमि अच्चराणं जएण तुंहाण जणिअतोसाणम् । वीणा मे पिअमहुरं पहरिसगीअं सुणावेइ ॥ ३१ ॥
[जयतु महाराजः।
गगनेऽप्सरसां जयेन युष्माकं जनिततोषाणाम् । वीणा मे प्रियमधुरं प्रहर्षगीतं श्रावयति ॥ ३२ ॥]
राजा - देवि ! जितं मया, यस्य भवत्या जयशब्दः प्रयुज्यते ।
व्यवसायः - देवि! किमत्राश्चर्यम्, यत् त्वत्प्रियेण जितं जेष्यते चेति? कस्तावदतः परं निस्तार इति तु निर्धारणीयम् ।
सुमतिः - सेणावई! कज्जसेसणिव्वहणम्मि णिव्वूढसमरकज्जो महाराओ एव्व पमाणम् । [सेनापते! कार्यशेषनिर्वहणे निर्व्यूढसमरकार्यो महाराज एव प्रमाणम् ।
राजा - देवि! मैवं मय्येव भारमारोपयेथाः । अस्ति खलु सर्वधुरीणः (कश्चित्) सर्वजगदन्तर्यामी पुरुषः । तथा हि,
आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरं सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् ।
विश्वं पश्यन्निति भगवति व्यापकादर्शदृष्टे गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥ ३२ ॥
व्यवसायः - एतदेव तत्त्वम् । तथाऽपि तन्निबन्धनं किञ्चिदहमध्यवस्यामि । कर्मनिगलयन्त्रितस्य हि पुरुषस्य कालक्षेपरहितकल्याणनिर्वहणाय कश्चित्समाधिकदरिद्रः समाधिराधातव्यः । तदुपसंपत्तये चासौ समयनियतसाधिष्ठसूक्ष्मसन्मन्त्ररहस्यवेदिना पुनरपि दिव्येन केनचिद्देशिकेन दत्तदृष्टिर्भावयितव्यः ।
राजा - एतदेव ममापि हृदये वर्तते । संपत्तिस्तु परस्मिन्नेव समायतते ।
सुमतिः - (अग्रतोऽवलोक्य) अय्यउत्त! अअण्डचन्दोदयो विअ अइविशदो कोवि पआसो अग्गदो दीसइ ।
[आर्यपुत्र! अखण्डचन्द्रोदय इवातिविशदः कोऽपि प्रकाशोऽग्रतो दृश्यते ।]
राजा - सेनापते! किमिदमैन्द्रजालिकमिव किमप्यतर्कितोपस्थितमनिर्धारितकारणममृतपारावारपूरपर्यायप्रसरमाप्लावितदशदिशावकाशमवदातमनोहरमदृष्टपूर्वं धाम ।
व्यवसायः - नूनं नारदेन भगवता समागतेन भवितव्यम् । न ह्यन्यस्य कस्यचिदास्थितश्वेताद्वैतमेतादृशं तेजः ।
(नेपथ्ये) अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनी(शी)लाः प्रतिभास्सन्तु ममान्तिमप्रयाणे ॥ ३३ ॥
राजा - अहो नु खलु भगवतो महामुनेः प्रपञ्चितपरमपुरुषभावनाविशेषा विपञ्चीनिनादकर्बुरा विभ्रमगीतिः ।
सुमतिः - अय्यउत्त! एदेण खु आअदेण इसिणा तुम्ह जाव संवाओ होज्ज । अहं दाव सहीअणसहिदा सळ्ळवंती तव समीहिदे तुरम्मि । [आर्यपुत्र! एतेन खल्वागतेन ऋषिणा तव यावत् संवादो भवेत्; अहं तावत् सखीजनसहिता संलपन्ती तव समीहिते त्वरे ।
[इति निष्कान्ता ।]
[ततः प्रविशति नारदः ।]
नारदः - अहो नु खलु महाराजोऽयमनादिसंसारसागरनिमग्नं पुरुषमाध्यात्मिकविज्ञानपोतमारोप्य बहुविधबाह्यकुदृष्टिजलजन्तुभिरनुपप्लुतेन सुपथा समाधिपारसंनिकर्षमानीय (सान्निध्यविशेषे)साध्यशेषे संत्वरमाणस्तिष्ठति । अद्य किल,
सुमतिबहुमतेन स्वात्मना सत्त्वधाम्ना बहिरबहिरुदीर्णे वारिते वैरिवर्गे ।
जनयति पुरुषस्य ज्यायसीं चित्तवृत्तिं समविषमविभेदी सार्वभौमो विवेकः ॥ ३४ ॥
ततश्च,
तितिक्षुर्द्वन्द्वानि द्रुतमतिरयत्नोपनतभुक्परित्याज्यत्यागी भ्रमर इव सारग्रहरुचिः ।
कृतज्ञः प्राप्तव्ये नियतधृतिरेकान्तरसिको मुमुक्षुस्संधत्ते मुनिरनिभृतं ब्रह्मणि मनः ॥ ३५ ॥
राजा - (त्वरितमुपसृत्य) भगवन्! अद्य खलु धन्या वयमनुगृहीताः स्मः ।
अयमहमभिवादये भवन्तं (विविध)सकलसुरासुरबृन्दवन्दनीयम् ।
विधिवशपरिभूतमोहपक्षो विनयपरिष्कृतसंनतिर्विवेकः ॥ ३६॥
नारदः - आयुष्मन्! अप्रतिहतमनोरथः पुरुषमपवर्गे स्थापयेथाः । अवधूतमहामोहेन भवता नूनमन्तरितोऽयमन्तिमयुगारम्भः । किं तु
वीरश्रीरतिवेलविक्रमभवद्दोश्शृङ्गनिश्शृङ्खलक्रीडादत्तकृतार्थतापरवती न त्वत्परं प्रेक्षते ।
अद्यत्वे पुनरद्भुतप्रणयिनी दृष्टिस्त्वया पात्यतामन्तर्द्रष्टुमनन्यदृष्टमनघं त्यक्तावधिं शेवधिम् ॥ ३७ ॥
राजा - भगवन्! किमस्ति कश्चिच्छत्रुशेषः, यतोऽस्माभिस्सावधानैर्भवितव्यम्?
नारदः - न कश्चिदस्ति । तथाऽपि नीतिप्रधानेन भवता नित्यं विमृश्यते । अद्य तु,
समग्रबलयोगेन समरे पातितास्त्वया । कामक्रोधादयो वीराः स्वर्गस्त्रीभिः स्वयंवृताः ॥ ३८ ॥
किंच,
तत्त्वबोधजनके तवाहवे मोहवीरविजयेन मोहिताः । अप्रविष्टसमराः प्रदुद्रुवुर्हर्षशोकभयचापलादयः ॥ ३९ ॥
तथाऽपि किञ्चिदिह चिन्तनीयम् । इह हि,
त्रैगुण्याम्भोधिवेलावनतृणविषयग्रासदुर्वासनोद्यद्भोगैदंपर्यपर्याकुलितमनुयुगोत्कण्ठितोदग्रवृत्तिम् ।
भूयो भूयः स्वचक्रे भ्रमयति नृपशुं गाढबन्धोपरुद्धं कालोऽसौ कर्ममालाघटितभवघटीयन्त्रतन्त्रस्वतन्त्रः ॥ ४० ॥
राजा - अत एव खल्वहमनेहश्चक्रभ्रमणादह्नाय बहिर्भावयितुमभिवाञ्छामि । तथा हि,
कालावर्तान् प्रकृतिविकृतीः कामभोगेषु दोषान् ज्वाला(व)गर्तप्रतिमदुरितोदर्कदुःखानुभूतिम् ।
याथातथ्यं स्वपरनियतं यच्च दिव्यं पदं तत् काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥ ४१ ॥
अत्र तु भगवता निस्समाभ्यधिकनिवृत्तिधर्मात्मना निपुणमस्मन्मनीषिते साहायकमाचरणीयम् । निजदुरितनिदाघनिष्टप्तजन्तुसञ्जीविनी खलु भव्यवृत्तीनां भवादृशां वागमृतवृष्टिः ।
लुप्तदृष्टिभिरलब्धदेशिकैर्लोकवेदपदवी दुरत्यया ।
तत्प्रसीद भगवन् मदीक्षितं पुण्डरीकमिव पाहि मन्त्रतः ॥ ४२ ॥
व्यवसायः - स्वधर्म एव भगवता श्रुतिशिरसि गीतः सूचितोऽसौ देवेन ।
नारदः - अस्मदभिमतमेव समादिष्टं महाराजेन । यतिष्ये चाहं (यथासारम्) यथावसरम् ।
अधिकमिह मुमुक्षोरागमग्राह्यवर्गात् स्वयमिह गुरुभक्त्या दर्शितं स्वानुभूतौ ।
प्रथयति मयि सौम्य त्वन्निदेशेन (लग्ने) मन्ये सपदि भवति चित्ते गाढलग्नस्समाधिः ॥ ४३ ॥
तदिह यदभ्यर्थिता वयं भवद्भ्यां किमपि करणीयम्, तत्साधयितुमितस्साधयामः ।
[इति सहर्षनृत्तगत्या निष्क्रान्तः ।]
राजा - सेनापते! संप्रति सिद्धप्रायं समाधिमुत्पश्यामि । अस्ति (किञ्चित्) तावत् ।
षडङ्गमथवाऽष्टाङ्गं समाधिमधिरोक्ष्यतः । अवलम्बनमक्षुद्रा दयैका दानवद्रुहः ॥ ४४ ॥
तयैव गाढावलम्बितोऽसौ पुरुष इदानीमालक्ष्यते । तथा हि,
विषयमदिरामुग्धैस्त्यक्तस्स एष पृथग्जनैः क्वचन समये यत्रैकाग्र्यं क्वचिच्च तदास्पदे ।
निभृतकरणग्रामस्तृप्यन्निरुद्धमरुद्गणः परमिह परे धाम्नि प्रत्यङ्मुखः प्रतितिष्ठति ॥ ४५ ॥
अपि च,
पुलकमुकुलोत्तुङ्गैरङ्गैरुदश्रुभिरीक्षणैरयमनुभवत्यन्तर्दृष्टिस्समाधिरसं पुमान् ।
ध्रुवमिह महानन्दब्रह्मोपलम्भनलक्षणे महति विभवे निष्प्रत्यूहा मनोरथपद्धतिः ॥ ४६ ॥
व्यवसायः - देव! अहमप्येवमवगच्छामि ।
तृणक्षोदं क्षेप्तुं प्रलयपवनो न प्रभवति क्षमस्तन्निर्दग्धुं यदनभिमतौ कालदहनः ।
तदर्वाचस्सर्वानजहदवधिद्वन्द्वनियमान् विदन्नासौ तृप्यत्यथ च न विषादे निपतति ॥ ४७ ॥
अपि च,
तुलायन्त्रोदन्तक्रमघटितनिम्नोन्नतिभृतौ गुणौ मूढक्रूरौ युगपदधरीकृत्य मुदितः ।
मुनिर्मुक्तिद्वारं मुरमथनधीसन्ततिसुधानिधिप्रादुर्भावं भजति पुरुषः सत्त्वमनघम् ॥ ४८ ॥
तदहं निष्पन्नकल्पमेवास्य समाधिमभिमन्ये । अस्य च,
स्वफलेन तुलारूढः समाधिर्मुक्तिसाधकः । न्यूनाधिकसमत्वेषु विकल्पायैव कल्पते ॥ ४९ ॥
राजा - सेनापते! अपावृतार्धमहमिह मुक्तिद्वारमभिमन्ये । अद्य पुनरत्यासन्नमनोरथैरस्माभिरवहितैरास्थेयम् ।
अविकलबहुमत्या सेवितोऽहं सुमत्या नियतिमनतिलङ्घ्यां निर्ममः सान्त्वयामि ।
त्वरयितुमिह देवीं त्वन्मते विष्णुभक्तिं गणयितुमपि सिद्धिं गच्छ सेनापते! त्वम् ॥ ५० ॥
व्यवसायः - यदादिशति देवः ।
[इति निष्क्रान्तः ।]
राजा - (पुरस्तादवलोक्य) सुमतिनिकेतनमेतत् (स्वयंप्रभमासीदामि) स्वयमासीदति । (सहर्षबहुमानम्)
बलदर्शनमण्टपं श्रुतीनां बहुभिर्भावितवैभवं प्रमाणैः ।
अवधूतरजस्तमस्कमेतत्सुमतेस्सत्त्वमयं विभाति सौधम् ॥ ५१ ॥
(विलोक्य) कासाविह विशुद्धसुधासन्दोहसौम्यस्वभावा श्वेतद्वीपदेवतेव संदृश्यते । (किञ्चिदुपसृत्य) प्रत्यभिजानाम्येनाम् । परिणतिविशेषादसावन्येव भाति ।
इयमखिलपुमर्थप्रार्थनाकल्पवल्ली सितमतिभिरनन्यैः सेविता सिद्धबृन्दैः ।
द्युतिभिरविरलाभिर्द्योतयन्ती दिगन्तान् विशति सुमतिसौधं विष्णुभक्तिर्विशुद्धम् ॥ ५२ ॥
तदहमप्यत्र प्रविश्य यावत्पुरुषं कृतकृत्यं कृतार्थं च निर्धारयामि, तावदवहितः सहधर्मचारिण्या देव्या सुमत्या सह नैश्रेयसीं नियतिमास्थाय निवत्स्यामि ।
[इति सविमर्शं निष्क्रान्तः ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (समाधिसंभवो नाम) नवमोऽङ्कः ।