अष्टमोऽङ्कः
[ततः प्रविशति अभिनिवेशः]
अभिनिवेशः - (स्वसामर्थ्यं बहुमत्य)
हृष्यन्ति व्यसनेषु सप्तसु मुधारब्धेषु मत्प्रेक्षिताः प्रारब्धं न परित्यजन्ति च मुहुः प्रत्यूहवात्याहताः ।
नानादुःखभयानकेऽपि न जहत्यर्थे पुमर्थे रतिं मोहस्याभिनिवेश एकदृगहं कोशाधिकारे स्थितः ॥ १ ॥
अपि च, लोभोऽपि महामोहसर्वस्वभूतो मामेव दर्शितसौभ्रात्रं सहायीकृत्य सर्वत्र विजयते । यतः,
अवसादप्रसङ्गेषु स्वयमुत्तम्भनोद्यतः । अहमार्यस्य लोभस्य भ्राता चरमसंभवः ॥ २ ॥
अहो महत्सांपरायिकमुपस्थितमास्माकस्यान्ववायस्य । यदिह विवेकेन प्रथममध्यात्मविद्यामशिक्षि पुरुषः । यच्चासौ मतान्तरदौर्बल्यप्रकाशनेन परब्रह्मप्रकाशके शास्त्रे प्रशमितश्रद्धावैकल्यः । यदपि च सपरिकरे मोक्षोपाये संमुखीकृतः, विमुखीकृताश्च कामक्रोधादयः, विमृष्टं च किमपि संयमस्थानम्, अवधारितं च धारणायाश्शुभमालम्बनम्, आरिप्सितश्च शमदमवैराग्यादिपरिकर्मितस्सालम्बनो महायोगः । (दीर्घं निश्वस्य सविषादम्)
विजिग्ये यैरिदं स्त्रीभिः विजिताभिर्जगत्त्रयम् । त एव सुभटाः ख्याताः स्त्रीभिरेव जिगीषिताः ॥ ३ ॥
(नेपथ्ये) अळिअं एव्व भणइ भावो । जं इत्थिआहिं एव्व जिईसिआ महामोहसैणिअधुरंधराइत्ति । [अलीकमेव भणति भावः, यत् स्त्रीभिरेव जिगीषिता महामोहसैनिकधुरन्धरा इति ।]
अभिनिवेशः - (कर्णं दत्त्वा, सरोषहासम्) काऽसौ रण्डा, या मामप्यलीकवादिनं मन्यते ।
(पुनर्नेपथ्ये) एदेण वि तुह अळीअभासिअं पडिठ्ठाविअं । जं उण अग्गिसक्खिअं तुए गहीदपाणिं परपुरुसदंसणविमुहिं मं रंडेत्ति भणसि । [एतेनापि तवालीकभाषितं प्रतिष्ठापितम् । यत्पुनरग्निसाक्षिकं त्वया गृहीतपाणिं परपुरुषदर्शनविमुखीं मां रण्डेति भणसि ।]
अभिनिवेशः - किमसावस्मद्गेहिनी दुर्वासना । शान्तं पापम्, शान्तं पापम् । अद्य पुनरियमुपसृत्य क्षान्तपरिवादा सत्यवादिनं मां संभावयतु ।
[ततः प्रविशति दुर्वासना]
दुर्वासना - अय्यउत्त! इयम्हि । अहं दुम्मइचळणसेवारसपरवसहिअआ अण्णाअलोअवुत्तंदा पुच्छम्मि । के पुरुसा काहिं इत्थिआहिं जिईसिआ । [आर्यपुत्र! इयमस्मि । अहं दुर्मतिचरणसेवारसपरवशहृदया अज्ञातलोकवृत्तान्ता पृच्छामि । के पुरुषाः काभिः स्त्रीभिर्जिगीषिताः ।]
अभिनिवेशः - प्रिये! कामो जुगुप्सया, कोपस्तितिक्षया, लोभस्तुष्ट्या, अहङ्कार आत्मविद्यया, एवमन्येऽपि ।
दुर्वासना - किं उच्चाहमेत्तेण कज्जं संघटइ । हदासा खु एदा सळहीओ विअ अप्पविणासणे सअं पउत्ता । [किमुत्साहमात्रेण कार्यं सङ्घटते । हताशाः खल्वेताः शलभ्य इवात्मविनाशने स्वयं प्रवृत्ताः ।]
अभिनिवेशः - अहमप्येवमध्यवस्यामि । अथापि यदृच्छादेवी किमाचरेदिति दुरवधरम् । शलभीनिपाते प्रदीपोऽपि कदाचिद्विनाशमधिगच्छति ।
दुर्वासना - (सविषादम्) जइ एव्वं महामोहपेरंताणं अम्हपहूणं विणासो होज्ज । [यद्येवं महामोहपर्यन्तानामस्मत्प्रभूणां विनाशो भवेत् ।]
अभिनिवेशः - (सभ्रूक्षेपं विचिन्त्य) प्रिये! मया जीवितव्यमेव सर्वदा । अत्र चोपायमेवमुत्पश्यामि । भोगसंचयरूपात् महामोहकोशगृहात् निर्गत्य मुमुक्षापुरस्कारेण विवेकमाश्रितः समाध्यभिनिवेश इति सविशेषगृहीतनामकः चिरं जीविष्यामि ।
दुर्वासना - णाह! अहं उण तुम्ह पिआ कहं होम्मि । [नाथ! अहं पुनस्तव प्रिया कथं भवामि ।]
अभिनिवेशः - प्रिये! किं भीरुरसि? त्वमपि दुरन्वयं परित्यज्य मामेव परिचरन्ती सुसङ्गता चिरं जीविष्यसि ।
दुर्वासना - महंतो पसाओ अय्यउत्तस्स । जं चिरसेविअस्स रण्णो महामोहस्स विणासेवि सअं जीविऊण जीविअसमं मं च रक्खिदुं, अहिणिविससि । [महान् प्रसाद आर्यपुत्रस्य । यच्चिरसेवितस्य राज्ञो महामोहस्य विनाशेऽपि स्वयं जीवित्वा जीवितसमां मां च रक्षितुमभिनिविशसे ।]
अभिनिवेशः - न केवलं जीवितसमा त्वम्; जीवितेश्वरी खल्वसि!
दुर्वासना - धण्णिआ खु एसा संवृत्तम्हि, जं एव्वं संभावेसि । [धन्या खल्वेषा संवृत्ताऽस्मि, यदेवं संभावयसि ।]
अभिनिवेशः - (सर्वतोऽवलोक्य विचिन्त्य साशङ्कम्) पश्यामि दारुणान् दिव्यान्तरिक्षभौमानुत्पातान् ।
गृध्रास्तोरणशूलशृङ्गमभितोऽगृह्णन्नभोमण्डलीं वात्यामण्डलखण्डितध्वजपटीशून्यानि सैन्यानि नः ।
शूलप्रासकृपाणमुद्गरधनुःक्रूरैर्मुहुः किंकरैः दृश्यन्ते परिवारिता इव दिशस्संवर्तसंवर्तकैः ॥ ४ ॥
आः कष्टं!
निवृत्तिधर्मः पर्येति नाम्ना लोकेषु नारदः । अयं च तुम्बुरुस्तौ च प्रणिधी मोहवैरिणः ॥ ५ ॥
तयोरपि प्रविष्टश्चायं त्रिभुवनविदूषको नारदः श्वेतवायस इव राजधानीम् । कलहकुतूहलं च तस्य स्वलक्षणम् । विप्रलम्भकवशंवदश्च वीराभिमानी देवो महामोहः । न जाने भवितव्यतावैभवेन किं भविष्यति? अथ वा यदेव भविष्यति तदेव तथा । आत्मच्छायेव खलु नियतिरलङ्घनीया । अहह! महामोहविजयलक्ष्मीः! नूनमिदानीं संशयमापन्नाऽसि ।
(नेपथ्ये)
छत्रैरुत्तभ्यतां द्यौर्दश झटिति दिशश्चामरैरात्रियन्तां संवर्तोदन्वदूर्मिध्वनिमुखरमुखस्ताड्यतां वाद्यवर्गः ।
काल्यन्तां लोकपालाः क्षणरुचिपटलीविभ्रमैर्हेमवेत्रैः क्रुद्धः सन्नह्यतेऽसौ घटयितुमचिरादाहवं मोहवीरः ॥ ६ ॥
अभिनिवेशः - (कर्णं दत्त्वा) किं देवो महामोहः स्वयमेव समराय सन्नह्यति? (सभयविषादम्) प्रिये! महदत्याहितम् ।
अमुष्मिन् दिवसे श्वो वा नूनं नियतिवैभवात् । अमोहमविवेकं वा जगदेतद्भविष्यति ॥ ७ ॥
तदसावस्माकमवधानस्य प्रधानसमयः । अद्य खलु विविधभोगभाण्डागारलुण्टाकानां संसारकण्टकानां विवेकसैन्यनासीरवीराणाम् अतिधीराणां शमदमादीनां प्रचारमुपरोद्धुं पदवीषु प्रतिपदमयःशङ्कवः प्रतिष्ठापनीयाः । अन्यदपि चैवं समयोचितं सर्वमनुष्ठातव्यम् ।
[इति सभयसंभ्रमं सभार्यो निष्क्रान्तः ।]
मिश्रविष्कम्भः ।
[ततः प्रविशति महामोहो दुर्मतिर्नारदश्च ।]
महामोहः - भगवन्! धन्याः खलु वयमिदानीं संवृत्ताः । यद्भगवतः पितामहस्य प्रियसुतेन चतुर्दशभुवनवैचित्र्यदर्शिना सकललोकपालमौलिमालोपलालितपादपङ्कजेन भगवता संभावितेयं मायाभिधाना मदीया राजधानी ।
नारदः - राजन्! अनितरसाधारणं भावत्कमा(भवत्कर्मा)श्चर्यमनुभवितारो वयमेव धन्याः ।
महामोहः - देवि! दीयतामस्मै देवर्षये पाद्यमर्घ्यं मधुपर्कश्च ।
दुर्मतिः - (सविनयमुपसृत्य) भअवं! इदं पज्जं, इदं अग्धं, इमो महुपक्को। [भगवन्! इदं पाद्यम्, इदमर्घ्यम्, अयं मधुपर्कः ।]
नारदः - (हस्तेन वारयन्) संपन्नो ममासौ सत्कारः । अद्य खल्वौपवस्तं मया व्रतमङ्गीकृतम् । यावदिह तुलसीवनवासिनीं द्वादशीं संभावयामि, तावन्न किञ्चित्कुतश्चित्प्रतिगृह्णामि ।
महामोहः - भगवन्! अत्यद्भुतमनोहरोऽयं भवत्स्वभावः । तथा हि,
लास्यान्विता च ललिता च गतिस्त्वदीया मञ्जुस्वना बहुगुणा च विभाति वीणा ।
देहश्च दर्शयति चान्द्रमसीमभिख्यां प्राप्तोऽसि नस्त्वमिह भोगसमृद्धिहेतुः ॥ ८ ॥
नारदः - (स्वगतम्) मूढस्वभावोऽसौ विश्वमपि विपरीतं कल्पयति । हन्त विजितमस्मन्मनोरथेन । (प्रकाशम्) महाराज! त्वमेव खल्वत्यद्भुतः । यदुत पुष्करपलाशवन्निर्लेपस्वभावं पुरुषमनन्तान् भोगाननुभावयसि । अपि च,
प्रत्यूढोत्सेकनम्रप्रतिभटमकुटीपादपीठीसनाथं दुर्दान्तद्वेषिदन्तावलरदनपदं भाति भद्रासनं ते ।
त्वत्सन्नाहप्रसङ्गप्रथमदुहितरं भीतिमेवाश्रयन्ते लोकालोकोपरोधप्रतिहतगतयो लोकपालावरोधाः ॥ ९ ॥
(नेपथ्ये) भो भोः प्रतिहारिन्! अयमहमागतो देवस्य विवेकस्य दृष्टप्रत्ययो नाम दूतः । आवेद्यतां महाराजाय ।
[प्रविश्य ]
प्रतिहारी - देव! प्रतिरुद्धप्रवेशस्तिष्ठति बाह्यद्वारे विवेकदूतः ।
महामोहः - प्रवेश्यताम् ।
प्रतिहारी - यदादिशति देवः ।
[इति निष्कान्तः ।]
[ततः प्रविशति दूतः]
दूतः - (मोहसमीपे नारदमवलोक्य स्वगतम्) अयमसौ चण्डालसदनवापिकायां चन्द्र इव प्रतिबिम्बितस्समीक्ष्यते
देवर्षिर्विप्रलम्भकचक्रवर्ती । अस्त्वसावपि साहायकमाचरिष्यति ।
नारदः - (दूरतो दूतं निर्दिशन्) महाराज!
चलघुरुघुरुमालाश्लेषवाचालजङ्घः शर इव निरपायश्चारुचण्डातकश्रीः ।
अयमिह रुचिराभिः स्रग्भिरुन्नद्धमौलिः त्वरितमुपसमेति स्वेदभिन्नस्सुगन्धिः ॥ १० ॥
तदयं कोऽसाविति विचारणीयः, उपचरणीयश्च ।
महामोहः - आस्तामुपचारः, विचारणीयस्तावत् ।
दूतः - (उपसृत्य) इदं महाराजस्य शासनम् । (इति भूर्जपत्रं दर्शयति)
महामोहः - (अपवार्य) किं महामोहोऽपि केनचिच्छासनीयः?
नारदः - महाराज! किं परीक्षया परिजनोपचाराणाम् ।
महामोहः - भद्र! असंस्तुतयुष्मद्द्वीपलिपयो वयम् । तत्स्वयमेव वाचय ।
दूतः - (उद्घाट्य वाचयति) ‘स्वस्ति श्रीश्वेतद्वीपविहारमण्टपिकामातस्थुषा विबुधमहितवृत्तिना महाराजविवेकेन महामोहाय संदिश्यते । प्रसिद्धं खल्विदम् - ‘नीचाः कलहमिच्छन्ति सन्धिमिच्छन्ति साधवः’ इति ।
महामोहः - किमतः? स्वनैच्यमेवैतेन सूचयति ।
दुर्मतिः - भद्द, तदो तदो! [भद्र ततस्ततः ।]
दूतः - ततश्च,
दीयन्तामिह दक्षिणापथभुवो यावत्कलेरत्ययस्तत्र स्थावरतिर्यगंशमखिलं भुङ्क्ष्व त्वमप्यक्षतः ।
इथं नाम कुलक्षयोपशमनोपाये त्वया तस्थुषा सन्धिस्सत्यगिरामतुच्छमनसामच्छात्मनामस्तु नः ॥ ११ ॥
महामोहः - (सहस्तास्फालनं विहस्य) तदिदं सहस्रकिरणस्य तेजोवरदानम्, वैश्रवणस्य वा किमप्यैश्वर्यप्रदानम्, यदाजानसिद्धनिरवधिकवैभवस्य मे विक्लबेन विवेकेन विभूतिभागभोगलेशाभ्यनुज्ञानम् ।
नारदः - (सान्तर्हासं स्वगतम्) हन्त, समापतति मम चक्षुषोः पारणा । सर्वदा चाहं विवेकमहामोहयोः सन्धिं प्रतिरोत्स्यामि । (प्रकाशम् । मूर्धानमान्दोलयित्वा सविषादम्) अहह,
भ्रूभङ्गेषु पृथग्विधेषु बलिनो यस्यायतन्ते जगत्यासंसारमलङ्घ्यशासनगतेराजन्मधीरात्मनः ।
ब्रह्मस्तम्बभटस्य मुक्तजनकद्रोहस्य मोहस्य ते तस्यासीदितरेण सन्धिवचनं किं कस्य वा कथ्यते ॥ १२ ॥
दुर्मतिः - अय्यउत्त! एव्वं मे ळाअकज्जं पडिभाइ । संधिव्ववदेसेण अम्ह सआसं आसाइज्ज विवेओ । तासौ जीवग्गाहं गहिऊण दिढपीडणिज्जो होज्ज । [आर्यपुत्र! एवं मे राजकार्यं प्रतिभाति । सन्धिव्यपदेशेनास्मत्सकाशमासाद्यतां विवेकः । तत् सजीवग्राहं गृहीत्वा दृढपीडनीयो भवेत् ।]
महामोहः - (सोच्चैर्हासम्) मुग्धे! स्वप्नेऽप्येवंविधं कातर्यवचनं मा वोचः । नन्वहं महामोहः? किमिदानीमन्यमिव मामभिमन्यसे! अथ वा, न हि कदाचिदपि परिस्फुरन्ति प्रमदानां राजकार्यगतयः । प्रिये! शृणु चैतन्महामोहस्य वीरव्रतम् ।
क्रकचैः कृत्तदेहोऽपि दीपितोऽपि दवाग्निना । न सूच्यग्रं प्रदास्यामि न सन्धास्यामि केनचित् ॥ १३ ॥
अथ वा,
नाहमस्मि महामोहः न च विश्वं जितं मया । विभूतिरमिता यस्य विभक्तव्यपदास्पदम् ॥ १४ ॥
नारदः - (स्वगतम्) कलहकौतुकिनामस्माकं तपांसि परिणमन्ति । ननु स्वात्मावधिर्महामोहस्य शवमुष्टिवद्गृहीतग्राहिता । (प्रकाशम्) देवि! दुर्मते! परमकृत्यमध्यवसितं प्रियतमेन ते, अथ तु निर्धारणीयः सन्देशवाक्यशेषः ।
महामोहः - (अनादरातिशयं नाटयन्) किं नःश्छिन्नम् । श्रुणुमस्तावत् । ततस्ततः,
दूतः - ततश्च यदि नस्सन्धिः, यथास्थानं पुनरवस्थास्यामहे । यदि विग्रहः, तदा तु -
निष्कामक्रोधलोमं निपतितकुहनाडम्भदर्पाभिमानं निर्धूतेर्ष्याभ्यसूयामदविहृति जहन्मत्सरस्तम्भजाड्यम् ।
अद्य श्वो वा विदध्यादपि चरमयुगे विश्वमक्षुद्रसत्त्वं वेलातीतप्रसर्पन्मधुमथनदयादत्तसेको विवेकः ॥ १५ ॥
महामोहः - (सरोषसंरम्भं दन्तान्कटकटापयन्) भगवन्! आः कष्टम्, अश्रुतपूर्वमिदं श्रुतम् , वाचिकशेषस्तु भवतु वा मा वा । कः कोत्र भोः! हन्यतामयं वार्ताहरः ।
नारदः - राजन्! दूतः किल ।
महामोहः - तर्हि व्यङ्गीकृत्य निष्कास्यताम् ।
दूतः - स्वयमहमपसर्पामि । (इति तिरस्करिणीमास्थाय, स्वगतम्) विदितवृत्तान्तशेषः प्रतिगमिष्यामि ।
नारदः - (अनाहितदृष्टिरवलोकयन् इङ्गितेन दूतमभिनन्दति ।)
महामोहः - (सक्रोधनिर्वेदं समधिकताम्राक्षः पादेन पादपीठीमाहत्य दन्तेनाधरमापीडयन्) धिग्ब्रह्माण्डकरण्डगह्वरकुटीकर्पूरपूरं यशः धिक्प्रह्वत्रिदशेन्द्रफालफलकस्पष्टोपमृष्टं पदम् ।
धिग्दोर्विक्रममद्भुतं मम पुनर्धिग्वादमेवास्तु धिक्सोढा वैरिकथामपि स्वयमहं नीचाय मह्यं नमः ॥ १६ ॥
(विचिन्त्य सनिःश्वासम्) प्रिये! विपक्षप्रतार्यमाणं पितरमनुचिन्त्य भृशं दूये ।
गतजलसेतुबन्धगजयूथपशौचकथागगनतलानुलेपगणिकापरिणीतिनिभैः ।
व्यथितमतिर्विवेकहतकस्य विचारशतैः कुलपतिरद्य नः कथमसौ भविता पुरुषः ॥ १७ ॥
नारदः - महाराज! किमत्र चिन्त्यते । न कुतश्चिदप्ययमन्यथा भविष्यति ।
महामोहः - (सक्रोधकम्पम्) भगवन्! अतिपापीयान्खल्वसौ अशेषभोगनिर्मूलनोद्यतो विवेकहतकः ।
(आकाशे लक्ष्यं बद्धा) आः पाप! दुराचार! विश्वविद्वेषदूषित! मूढ! विवेकापशद!
मोघारम्भक्षपितमनसा मोहवीरस्त्रिलोकीवेलाभेदस्वरसरसिको विभ्रमप्राणमित्रम् ।
ब्रह्मस्तम्बप्रसृतनिगमस्तोमशाखाविभङ्गक्रीडाचण्डः कृपण भवता किं न दृष्टः श्रुतो वा ॥ १८ ॥
नारदः - महाराज! न श्रुतं, न दृष्टं वा केन भवदपदानम्? आसंसारं प्रसिद्धवैभवः खल्वसि ।
महामोहः - (सक्रोधं) भगवन्निदमपि भवन्तमनुस्मारयामि ।
पुरा किल निराकृतस्वपरभेदनिर्धारणे रणे विहरता मया रदनयन्त्रितश्चन्द्रमाः ।
अपर्वणि सुपर्वणामधिपतेस्समक्षं क्षणात् अरुन्तुदविधुन्तुदग्रहणवेदनामन्वभूत् ॥ १९ ॥
नारदः - (सान्तर्हासं स्वगतम्) किमसावुन्मत्तदशां प्राप्तः । यदयं जरद्गवादिवाक्यवदपार्थं किमपि जल्पति । उपस्थितमहाविपत्तिरपि दुर्मतिमेव पुरस्कृत्य शृङ्गारगर्ते निमज्जति । (प्रकाशम्) महाराज! सोऽयमिदानीं पश्चिमे पारावारे
सान्ध्यं नियममिव चिकीर्षुः अम्बरतलादवलम्बते मयूखमाली । तदहं साधयामि कालोचितकर्मणे ।
[इति निष्फ्रान्तः ।]
महामोहः - प्रिये! संप्रति संसारसन्ततिनिदानभूतसम्भोगारम्भसमयसूचिका प्रजापतिपरिभुक्तपूर्वा प्रवर्तते पितृप्रसूरियमपरा सन्ध्या । इह च,
क्षीयन्ते सवितुः क्षणात्क्षितिधरैरुत्तंसिता दीप्तयः श्रूयन्ते यजतां तृतीयसवनब्रह्मप्रणादोर्मयः ।
लीयन्तेपतगाः कुलायतरुषु प्रत्युद्व्रजत्पोतकाः स्त्यायन्ते च तमश्छटास्तत इतः श्रीकण्ठकण्ठत्विषः ॥ २० ॥
अपि च,
कादम्बन्ति जलाशयेषु वितताः कालाम्बुदन्त्यम्बरे मातङ्गन्ति महीधरेषु मधुपस्तोमन्ति मल्लीषु च ।
स्पृष्ट्वा निश्चिनु पाणिना कुवलयापीडन्ति ते कुन्तले धम्मिल्लन्ति निशामुखेषु सुमुखि स्त्यानास्तमःपङ्क्तयः ॥ २१ ॥
दुर्मतिः - अय्यउत्त! पबलतमेहिं विवेअप्पमुहेहिं पक्कन्तजुत्थस्स तुह संभोअसमअवण्णणं किं अणएण पउत्तं, अहवा अइधीरत्तणेण । [आर्यपुत्र! प्रबलतमैर्विवेकप्रमुखैः प्रक्रान्तयुद्धस्य तव संभोगसमयवर्णनं किमनयेन प्रवृत्तम् अथ वा अतिधीरत्वेन ।]
महामोहः - अयि महावीरपत्नि! किं बिभेति भवती कृपणाद्विवेकहतकात्? किं न वेत्थ?
वश्यं तिष्ठति षड्विधं मम बलं मायाविनस्सैनिका मोहस्सोऽहमभङ्गुरो मुनिमनःप्रक्षोभदक्षोदयः ।
आस्तामन्यदनङ्गतन्त्रनिपुणैरङ्गीकृतस्सांप्रतं सेतुर्घोरविवेकसिन्धुतरणे शृङ्गारदेवार्चनम् ॥ २२ ॥
अथवा किमिहान्येन दैवतेनार्चितेन मे । त्वामेव शरणं यामि कामतन्त्राधिदेवताम् ॥ २३ ॥
तदेतां रात्रिं वासगृहे त्वया सह निर्वेष्टव्यमखिलं निर्विश्य प्रभाते संयतिष्ये शत्रुविजयाय । [इति सभार्यो निष्क्रान्तः ।]
[ततः प्रविशति नभोयानेन तन्त्रीविनोदतरलकरपल्लवो नारदस्तुम्बुरुश्च ।]
नारदः - सखे! सुप्रभातं त्रैलोक्यस्य । यन्महामोहविजिगीषया सत्यसन्धो विवेकः सपदि संयतिष्यते । अहह! सूच्यते संप्रति विवेकाभ्युदयः । यतः,
इदं पुरः स्वयमुदयक्षमाभृतिप्रबोधनं प्रबलतमोविमोचनम् ।
विवेचितस्थिरचरभेदमद्भुतं त्रयीमयं किमपि महो विजम्भते ॥ २४ ॥
तुम्बुरुः - भगवन्! वयमिव नूनं महासमरसंदर्शनकुतूहली त्वरितमुत्तिष्ठते मयूखमाली । अद्य हि,
प्राचीनाचलतुङ्गशृङ्गनिकटप्रक्रीडदैरावणक्षोभोदीरितधातुधूलिपटलीपर्यायधुर्योदयाः ।
व्योमारण्यतमालवीथिमलिनामुन्मूलयन्तस्तमीमुन्मीलन्त्यरविन्दगर्भसुहृदो भानोरमी भानवः ॥ २५ ॥
नारदः - सखे! सुव्यक्तमिव विवेकवैभवं सूच्यते । तथा हि,
दिवि च भुवि च विष्वग्दृष्टिरोधे निसृष्टं मुकुलितनिखिलाशामण्डलं मोहवृत्त्या ।
मलिनमतिमहीयो मङ्क्ष्वमोघैः करौघैः कबलयति तमिस्रा कश्मलं रश्मिमाली ॥ २६ ॥
तदिह रामरावणरणावलोकनरसश्चिरान्निवृत्तोऽपि नियतिवृत्त्या पुनरिदानीमस्माकं प्रादुर्भविष्यति । यदिह महामोहडम्भदर्पादयः विवेकव्यवसायादिभिः योत्स्यन्ते । अद्य चातिगाढवैरमूलस्य आहवानोकहस्य फलं हस्तापचेयं भविष्यति विवेकस्य । तथा हि,
द्वेधा कल्पितदेवदानवचमूनासीरमासीदतोरारब्धे तु विवेकमोहनृपयोरायोधनैकोत्सवे ।
वैलक्षण्यनिरूपणप्रहरणो बिभ्रत्प्रमाकङ्कटं जेताऽसौ जगदन्धकारमितरं देवो विवेकेश्वरः ॥ २७ ॥
ततश्च,
विद्याभेदैरुपचयवतां वेदकल्पद्रुमाणां व्यक्तोल्लासद्विजपरिबृढव्याप्तशाखाशतानाम् ।
श्रेयोमार्गप्रतिभयजितः श्रीविवेकस्य मौलौ भूयो भूयस्सपदि भविता भूयसी पुष्पवृष्टिः ॥ २८ ॥
तुम्बुरुः - भगवन्! अव्यवस्थिता हि युद्धसिद्धिः । तत् कथमेव संप्रधार्यते?
नारदः - कथ्यते न मया मिथ्या किं वा संद्रक्ष्यसे स्वयम् । दर्पणं किमपेक्षन्ते कङ्कणस्य निरीक्षणे ॥ २९ ॥
(नेपथ्ये महान् कलकलः; उभौ सचमत्कारकौतुकमाकर्णयतः)
नारदः - (सहर्षम्) सखे! आगतोऽयमनेकधा कर्णास्वादः । यदुत,
पणवमड्डुक्रमद्दलजर्झरीमुरवडिण्डिमदुन्दुभिसंभवः ।
त्रिदिवगोपुरसन्धिविभेदनः प्रसभमुत्पतति ध्वनिरद्भतः ॥ ३० ॥
तुम्बुरुः- (सहर्षकौतुकम्) अहो समरारम्भस्य दर्शनीयता! अत्र हि,
नीरन्धं व्योमरन्ध्रं भवति कुलगिरिस्तोमतुङ्गैश्शताङ्गैर्जाट्यन्ते मदान्धा दिशि दिशि करिणः कल्पजीमूतकल्पाः ।
घोराणां घोटकानां खुरपुटरटितैः त्रुट्यतीव त्रिलोकी प्रत्युड्डीयन्त एते प्रतिहतिषु मिथः पत्तयो दत्तवेगाः ॥ ३१ ॥
अपि च, महानयं प्रवृत्तश्शस्त्रसंपातः । एकीभूते एव च मिथः प्रतिरोधाद्विवेकमोहवाहिन्यौ । निर्वर्त्यते चायमाकालिको निशीथः । यतः,
सूचिभेद्यतिमिरोपलंभने मेदिनीरजसि मेघमेदुरे ।
श्रूयते कलकलैर्महीयसी वाहिनी रणखलापवाहिनी ॥ ३२ ॥
किं च,
क्षतजमधु रणस्थैर्दत्तमुत्तम्भिताग्रध्वजपटपुनरुक्तस्वर्धुनीकैरनीकैः ।
पलभुज इह जाग्रन्नन्दथूनां वधूनां पृथुकरटिकरोटीकर्परैरर्पयन्ति ॥ ३३ ॥
नारदः - न तृप्यत्यद्य मे किमिदमिति कुतूहलोल्लसितं चक्षुः ।
पत्तीनुद्यद्विपत्तीन्त्रुटितपृथुशिरःकन्धरान्सिन्धुरेन्द्रान् वाहानाकीर्णदेहान्व्यतिहननमिथःखण्डिताङ्गान्शताङ्गान् ।
शस्त्राशस्त्रिप्रसङ्गप्रभवचटचटारावघोरप्रचाराः कुर्वन्त्युद्दामगर्वाः कृतिन इह रणे विक्रमैरक्रमेण ॥ ३४ ॥
अपि च,
एतस्य संभृतविवेकविमोहभूम्नः सेनायुगस्य समराङ्गणसंभ्रमेण ।
प्रायेण संप्रति विकल्पितया स्ववृत्त्या डोलाधिरोहणरसं लभते जयश्रीः ॥ ३५ ॥
तुम्बुरुः - (सबीभत्सम्) अयमिह कश्चित् क्रव्यादडिम्भः डिम्भमाकर्षन्नित्थं भाषते ।
शोहइ शुमइशहाए ईळिअळोहाइमाळणशमत्थे । एशे अ शुळहशोळहळुहिळशुहाशाळशीअळे संखे ॥ इति,
[शोभते सुमतिसहाय ईदृशलोभादिमारणसमर्थः । एष च सुलभसौरभरुधिरसुधासारशीतले सङ्ख्ये ॥ ३६ ॥]
इयं च काचन पिशाची संतोषादेवमाह -
पणममि विवेअदेवं पकुविदपतिपक्खपडिमहणपहणम् । सोणिअणवमहुणिवहे सुज्जं व समग्गळग्गपडिमाणम् ॥
[प्रणमामि विवेकदेवं प्रकुपितप्रतिपक्षप्रतिमथनप्रधनम् । शोणितनवमधुनिवहे सूर्यमिव समग्रलग्नप्रतिमानम् ॥ ३७ ॥] नारदः - (दूरतो निर्दिशन्) सखे! द्वन्द्वयुद्धमिह नूनमुपक्रम्यते । तत्र हि,
अभिलाषरथारूढस्सुभटो लोभलुब्धकः । एकस्त्वरितमाधावत्येकलव्य इवापरः ॥ ३४ ॥
तुम्बुरुः - अहह!
दुरध्वविहृतिक्षमो दु(रुपरोध)रपनोददुर्वासनासहस्रपृतनौघवानभिनिवेशसत्सारथिः ।
विरुद्धमतिशस्त्रिकाविषमदत्तमूर्छादशालुठत्प्रतिभटः परिभ्रमति लोभवीरो युधि ॥ ३९ ॥
नारदः - (सान्तर्हासम्) द्रविणपरिणामरूपं जगदिदमविभज्य दत्तमप्येषः ।
बध्नन् कुसीदकुहनां बहुगुणयितुमीहते भूयः ॥ ४० ॥
तुम्बुरुः - भगवन्! दृष्टमिदानीमप्यस्य दुश्शकदुरन्तविवेकविजिगीषोद्योगेन ।
नारदः - सखे! आश्चर्यमाश्चर्यम् । अदोषागमसमयेऽप्यमृतकिरणसंदोहेन संप्लुतमिव त्रिभुवनमखिलमवलोक्यते । नूनं कयाचिदवदातप्रकाशया देवतया प्रादुर्भूतया भवितव्यम् । (सूक्ष्मं निर्वर्ण्य) आलक्षितोऽयमाश्चर्यसंभवः । यथा,
सैषा पञ्चमुखी तुष्टिश्शेषसृष्टिरिवापरा । अतर्कितमुपस्थाय ग्रसते लोभमूषकम् ॥ ४१ ॥
तुम्बुरुः - (सहर्षम्) भगवन्! संप्रति लोभविध्वंसेन लुप्तलोकायतमिव लोकमवलोकयामि । अद्य हि,
प्रशस्तिं विन्दन्ति प्रशमरसदिव्यामृतरसप्रलीनोदन्यानां परिषदि न संपत्तिसरितः ।
अमित्रोपक्षेपक्षणविगलदात्मीयपृतनादृढामर्दत्रस्यद्द्रमिडभटजङ्घाजवभृतः ॥ ४२ ॥
अपि च,
प्रशमितलोभमिदानीं प्रौढविवेकप्रयुक्तया तुष्ट्या ।
धनमनघनीतिसिद्धं जातं सर्वत्र दत्तभुक्तफलम् ॥ ४३ ॥
नारदः - नन्वसावपरीक्षितलोकवृत्तान्तानामविवेकिनामेव लुप्तसर्वगुणो लोभः ।
ब्रह्मायुतायुतविभूतिरपि ह्यपूर्णः कल्पायुतायुतशतायुरपि व्यतीयात् ।
नागायुतायुतसहस्रबलोऽपि बाध्यः किं तद्भवेद्यदिह किञ्चन लोभयोग्यम् ॥ ४४ ॥
अद्य तु लोभविध्वंसादवधीरितलाभान्तरा परिहृतप्रत्यूहा बुद्धिः परमपुरुषपदकमलपरिचरणमेव परं धनमभिनिविशते । अपि च,
नलनहुषमुखानां नाकलोकेश्वराणामपि नलिनभवानामस्मदग्राह्यभूम्नाम् ।
अगणितमुपनन्त्रीमापदं प्रेक्ष्य बिभ्यत्क्वचिदिह न विधत्ते कौतुकं जातु कश्चित् ॥ ४५ ॥
किं च,
अपैति पुरुषायुषं निमिषनिर्विशेषं नृणां तृणाग्रजलबिन्दुवत्प्रतिकलं गलन्ति श्रियः ।
तथापि नृपमन्दिरप्रघणसीम्नि संक्षीयते महानहह देहिनां द्रविणमोहदाहज्वरः ॥ ४६ ॥
तद्वयं च नैराश्यमेव परमं सुखमुपतिष्ठामः । ततश्च,
उत्तालद्विपकर्णतालतरलप्रस्थानदुःस्थासिकानित्यातङ्कतरङ्गितं विजहतस्त्रैविष्टपानां पदम् ।
प्रत्यूढापदनन्तसंपदुदयं पद्मापतेस्तत्पदं प्रत्यादिष्टपुनर्भवं परिहृतावद्यं प्रपद्येमहि ॥ ४७ ॥
तुम्बुरुः - (ससंभ्रममवलोक्य) भगवन्! अयमिह पुनः कश्चिदसह्यवेगो महावीरः प्रशिथिलसङ्घटितपलायमानां लोभवाहिनीं मुखरितहरिता घोषेण मुहुर्मुहुः प्रत्याश्वासयन् मुग्धामध्याप्रगल्भाभिः वरूथिनीभिरुपगतो विवेकाभिमुख उपसर्पति । कतमः, कीदृशो वा सोऽयमिति न विजानामि ।
नारदः - सखे!
महितमधुप्रदिष्टमधुदिग्धविचित्रशरः परभृतवन्दिमान् भ्रमरसंहतिगीतगुणः ।
मलयमरुत्सखो मकरलक्षणकेतुरसौ धृतधनुरभ्युपैति मदनः प्रमदापृतनः ॥ ४८॥
पश्य पश्य सखे! प्रसूनबाणस्य पारिपार्श्विकसमृद्धिम् ।
काचित्क्रीडति पद्मिनीह पुरतः काप्यन्यतश्चित्रिणी शङ्खिन्यप्यपरत्र काचिदितरा हस्तिन्यसावन्यतः ।
तस्यैतस्य समृद्धिमेति सरसप्रेक्षानिरूढोदयं चित्रं मन्त्रिचतुष्टयं त्रिभुवनावस्कन्दिनो धन्विनः ॥ ४९ ॥
तुम्बुरुः - भगवन्! अत्यासन्नवृत्तिरयमसौ विवेकरथस्य । अपि च,
ऋतुस्नाता नृत्तग्लपिततनुरध्वश्रमवती मदक्षीबा क्रुद्धप्रसदनवती भिन्नघटिता ।
इदंपूर्वेत्येवंविधयुवतिवर्गेण सहितो युयुत्सत्युन्मत्तः स्मर इह विवेकेन महता ॥ ५० ॥
नारदः - (सहासम्) किमस्यानेन दुर्भेदयुवतियूथव्यूहकल्पनेन ।
स्वायत्तसिद्धविभवस्य समग्रशक्तेः स्वच्छन्दचेष्टितभृतः स्वयमेव योद्धुः ।
किं मुग्धया किमिह मध्यमयाऽऽत्मयोनेः किं प्रौढयाऽपि जरठापि हि जैत्रमस्त्रम् ॥ ५१ ॥
(नेपथ्ये) विवेकपरिषत्पुरस्कृतविरक्तिवाराङ्गनाकचग्रहविचक्षणप्रथितगर्वदोर्विक्रमः ।
रतिप्रियतमः स्वयं रणविहारमारिप्सते विमुक्तिपुरवर्तनीविपरिवर्त(र्ति)नीतिस्थितिः ॥ ५२ ॥
उभौ - (कर्णं दत्त्वा) विकत्थनमिदं युयुत्सतो विषमास्त्रस्य । (पुनर्नेपथ्ये)
स्वभर्तव्यं भार्यादुहितृपितृपुत्रप्रभृतिकं विसृज्य प्रव्रज्यामुपनिहितवत्यै भवभृताम् ।
अमुष्यै किं कुर्मो निरवधिकनैर्घृण्यवपुषे नियत्यै भूयिष्ठं भवतु भगवत्यै नम इदम् ॥ ५३ ॥
नारदः - सखे! विडम्बयति चासौ विषयरसवैमुख्यकारिणीं नियतिम् ।
तम्बुरुः - भगवन्! पश्य पश्य । मुषितव्यवसाय इवासौ संप्रति समीक्ष्यते मुखवैमुख्येन । परिजनश्चास्य साङ्ग्रामिक्यां सिद्धौ साशङ्क इवाभाति । यदुत,
मधुसमयावरोधवदनासवदोहलिनां वकुलमहीरुहामलघुभिस्सुमनोभिरिमाः ।
मदनधनुःप्रकाण्डगुणनिस्त्रुटनावसरप्रतिनिधिशिञ्जिनीं प्रजनयन्त्यभितः प्रमदाः ॥ ५४ ॥
नारदः - सखे! प्रहसनविनोदमात्रप्रस्तावकमिदमखिलं प्रायशः प्रभूतव्यवसायसंपदो विवेकस्य । अपि च, महतो विवेकाद्बिभ्यदप्ययमपरावर्ती मन्मथः प्रवर्तते । तथा हि,
जगत् क्षिपति चापले ललितचापलेखा(युधो)धरो युनक्त्यपथि वाहयन्युगलदेहयन्त्रद्वयम् ।
त्रिवर्गबडिशामिषग्रसनवेधतो बाधते स एष दृढसाहसः सकलजन्तुचिन्ताभटः ॥ ५५ ॥
अद्य च निरन्तरपरिणमदविद्यया कयाचन शिल्पविद्यया दुर्निरूपघटनया विवेकयूथविघटनमसौ विधातुमभिलषति ।
ततश्च,
रथवारणवाजिभिः प्रहृष्यन् महिलारत्नसमूहनेन सिद्धैः ।
मकरध्वज एष पुष्पधन्वा रणमभ्येति रतिप्रियापदानः ॥ ५६ ॥
तुम्बुरुः - भगवन्! असहायशूरोऽयं विभ्रममात्रबलाभिरबलाभिरेव संहतान्विवेकव्यवसायशमदमादीन् विजेतुमभिलषति । अपि च,
अङ्कुरत्स्मितमकेवलेक्षणं भङ्गुरभ्रुवदनं नतभ्रुवाम् ।
अञ्चिताधरमवञ्चितादरः पञ्चबाणसुभटः प्रतीक्षते ॥ ५७ ॥
नारदः - सखे! तथैव खल्वेतमपि विजेतुं विश्वजिद्विवेको विरक्तिनामानं स्त्रियमेव प्रत्यस्त्रतया प्रयुङ्क्ते ।
(नेपथ्ये) भोगेषु यौवतानां योगेषु लभेत सारमर्थानाम् ।
कन्देषु कन्दलीनां स्तम्भेषु च क इव राजरम्भाणाम् ॥ ५८ ॥
[उभौ सादरमाकर्णयतः; पुनर्नेपथ्ये]
अदभ्रजघनस्तनप्रभृतिमांसविस्फूर्जितप्रसक्तविकटव्रणप्रतिपदज्ञया प्रज्ञया ।
स्त्रियस्त्रिगुणवीचिमद्गरलवीचिकाश्चिन्तयन्नसभ्यपरिपाटिकां पठति गाढमूढो जनः ॥ ५९॥
नारदः - सखे! श्रूयते किलायमायोधनाभिमुखहृदयाया विरक्तेरालापः ।
तुम्बुरुः - (सभयसंभ्रमम्) भगवन्! अतिपतति चासौ विरक्तिमपहस्तयितुकामः कामः । (क्षणमिव निर्वर्ण्य) अहह,
स्वमित्रमुपधात्रयप्रथितशुद्धिलोभात्मकं झटित्यलघुतुष्टिकुक्ष्यनलदग्धमित्याकुलः ।
विरक्तिरणदेवताविपुलदृष्टिवैश्वानरं प्रविश्य मकरध्वजः पुनरनङ्गतामागतः ॥ ६० ॥
अपि च शृङ्गारोऽप्ययमनङ्गसमरनासीरयोधी सर्वतो भङ्गमनुभवन् अभङ्गुरमहिमशालिना विरक्तिवैभवेन विलयमधिगच्छति । इह च,
निःसंबोधमशेषतो वितनुते देवासुरान्तःपुरं कर्णेषु प्रचिनोति कामपि सुधां कामागमद्रोहिणाम् ।
क्षिप्रक्षोभितचक्रवालशिखरिप्राकाररिङ्गारटच्छृङ्गाघातनिरोधपिण्डितपटुश्शृङ्गारभङ्गारवः ॥ ६१ ॥
नारदः - हन्त जुगुप्सनीयाः संप्रति योषितः संवृत्ताः ।
तुम्बुरुः - उचितमेवैतत् ।
महेन्द्रप्रतिनन्द्यानां वपुरप्सरसामपि । त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लमयं न किम् ॥ ६२ ॥
किं च,
वर्ष्मेदं सप्तधातु त्रिविधमलमयं योनियुग्मप्रसूतं चातुर्विध्योपपन्नस्थिरचरविविधाहारसारात्मकं च ।
इत्थंत्वेऽनन्तदोषाकर इति मुनिभिर्घोषिता योषिदाख्या मीमांस्या मांसरेतोरुधिरकफवसानिर्मिता चर्मभस्त्रा ॥ ६३ ॥
ततश्च,
गर्हणीयबहुदोषगर्हिते योषितां वपुषि तोषितात्मनः ।
नारकेऽप्यमितदुःखकारके रौरवे भवतु गौरवेण धीः ॥ ६४ ॥
भगवन्! य एतावन्तं कालमत्यन्तबहुमतिपदम्, स एवेदानीमत्यन्तजुगुप्सनीयः संवृत्तः सर्वलोकमौलिधार्यसायकः सयूथो मन्मथः । (सनिर्वेदमिव निश्वस्य)
परिचरति तवासौ पार्श्ववर्ती वसन्तः किमपि मधुकरीभिर्गीयते नाम जैत्रम् ।
तदपि मदन दैन्यं प्रापितस्त्वं नियत्या क इव कथय दैवं पौरुषेणोपरुन्ध्यात् ॥ ६५ ॥
भगवन्! अभङ्गुरा खलु देवी नियतिः ।
संभोगैकान्त्यवादी निरयभयकथाभङ्गसङ्गी निकामं शस्त्रच्छिन्नार्धदेहद्वयघटनभवद्दिव्यदांपत्यशिल्पः ।
प्रख्यातातिक्रमोऽसौ परपुरुषवशैर्गोपकन्यासहस्रैरेकस्त्रैलोक्यवीरः स्मर इह मृदितः क्वावतिष्ठेत कोपः ॥ ६६ ॥
नारदः - सखे! मा नाम सहसा कोपमेवमवमंस्थाः । अयं किल पुरस्ताल्लोभस्य कामस्य च विनिपातमसहमानः क्रोधस्समुत्पत्य विश्वलोकप्रथितकीर्तिं विवेकमास्कन्दितुमीहते । तथा हि,
क्षुदिन्धनवसुन्धराधरधुरन्धरः किं मृषा तृषारभसचूषणक्षपितपञ्चषाम्भोनिधिः ।
हठत्रुटितहाटकाचलतटीबृहत्कुण्डलः प्रसर्पति रणाङ्कणं प्रथित एष कोपासुरः ॥ ६७ ॥
तुम्बुरुः - (सभयसंभ्रमम्) अतिघोरचेष्टितः खल्वसावशेषविध्वंसनतर्षवानमर्षः । तथा हि,
अपि वैरवरूथिनीमशेषामपि शैलानपि सागरानपि क्ष्माम् ।
ग्रसितुं प्रभवत्ययं प्रदीप्तः प्रथितः कोपतनूनपादनूनः ॥ ६८ ॥
नारदः - सखे! पश्य पश्य ।
जिघांसाजानिनाऽनेन स्थिरत्रसमिदं जगत् । वध्यघातकभावेन विभज्य विनियुज्यते ॥ ६९ ॥
अपि च,
करचरणनखरदन्तप्रभृतिकमपि जगति सहजमितरदपि ।
प्रतिघसुभटस्य विश्वं प्रहरणमथवा विहर्तुमुपकरणम् ॥ ७० ॥
अत्र पुनरसह्योत्थानममर्षमुपशमयितुमप्रधृष्योदयां क्षान्तिं पुरस्कृत्य निस्तरङ्गजलधिरिव निरूढधैर्यस्तिष्ठति विवेकः । इह च,
रुन्धानस्सिन्धुघोषप्रथनमनिभृतं क्रन्दयन्क्ष्माधरेन्द्रान् भिन्दानस्स्कन्धभेदान्सुरपथरथिनां शुष्मणस्सारथीनाम् ।
शुद्धालोकेन सद्य क्षयमुपगमितः क्षान्तिमन्दस्मितेन क्षुभ्यद्वैधात्रसौधध्वनिगुणितरवः कोऽपि कोपाट्टहासः ॥ ७१ ॥
अमी च,
कुलशिखरिगरिष्ठाः क्षोणिवृत्यर्हकुंभाः कुलिशकठिनदन्ताः क्ष्वेलसङ्घातघोराः ।
कतिचन रणरङ्गे कन्तुकीकृत्य मुक्ताः न जहति भयमस्मादन्तिमं दन्तिमल्लाः ॥ ७२ ॥
तुम्बुरुः - भगवन्!
अपि विश्वमिदं दिधक्षतोऽस्य त्रिपुरारातिमुखेषु लब्धभूम्नः ।
मदहस्तिघटावमर्दलीलां मशकामर्शनमात्रमित्यवैमि ॥ ७३ ॥
भगवन्! अयमसाविदानीममर्षस्य संप्रति संवर्तधाराधरगर्जितगम्भीरभैरवप्रसृतिस्त्रिभुवनमपि बधिरयति कुलगिरिकुहरभरितप्रतिनिवृत्तः संहताकृतिः सिंहनादः । तदाकर्णनसमयसमुत्थितया निष्प्रतिक्षेपया क्षमया निरुध्यमानः स्तब्धवृत्तिरयं संदृश्यते कोपः । तथा हि,
अयमिह क्षमया दलितः क्षणात् प्रतिमुखोऽपि पराङ्मुखवद्भवन् ।
स च न याति न तिष्ठति च ह्रिया भवति सप्रतिघः प्रतिघः परः ॥ ७४ ॥
(क्षणं निर्वर्ण्य) हन्त भगवन् पश्य पश्य!
अपरावर्त्यपि कोपः पश्चादाकृष्टपाद इव भाति ।
नारदः - (सान्तर्हासम्) क्वचिदतिसङ्कटविषये सुभटानां संमतोऽयमपसर्पः ॥ ७५ ॥
तुम्बुरुः - (सहर्षसंभ्रमम्)
यस्य त्रासनतर्जनप्रभृतयः क्रूरोद्धता वृत्तयः यस्योन्मेषनिमेषयोस्त्रिभुवनं निद्राति जागर्ति च ।
आबध्यैनमवैधहिंसनमहासंरम्भसंभावितक्रीडोड्डामरबाहुदण्डलडहं क्रोधं निहन्ति क्षमा ॥ ७६ ॥
अपि च,
गुरुवधमुखक्रूरक्रीडाकठोरपराक्रमः प्रथितमहितध्वंसो दक्षाध्वरप्रभृतिष्वसौ ।
स्वयमिह सुखारातिः स्वर्गापवर्गविघातकः क्षणरुचिपदं क्षान्त्या गच्छत्यमर्षहुताशनः ॥ ७७ ॥
नारदः - सर्वगुणातिशायिनी खल्वियं क्षान्तिः । यन्न किंचिदपि स्वावष्टब्धं केनाप्यवद्येन योजयति । तथा हि,
विबुधमहिते मेरावैरावणः करटी मुहुः कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम् ।
भजतु च तटक्रीडां पीडाभिसन्धिरसौ दृढं न तु मलिनता नापि क्षोभः क्षमाभृति संभृतः ॥ ७८ ॥
तुम्बुरुः - भगवन् दुर्जयोऽसौ कोपः । कथं नाम विजितमिति विस्मयाविष्टं चेतः ।
नारदः - न वयमिह विस्मयामहे । यतः
न शापो नाभिचरणं न वह्निर्न विषं तथा । नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥ ७९ ॥
ततश्च,
अहार्येण कदाप्यन्यैरसंहार्येण केनचित् । तितिक्षाकवचेनैव सर्वं जयति संवृतः ॥ ८० ॥
तथा हि,
प्रतिघोऽयमसह्यविस्फुलिङ्गैः प्रलयोदीर्णहुताशनप्रकाशः ।
अमृतोदधिसंप्लुतिप्रथिम्ना क्षमया क्षिप्रमभूदसावलक्ष्यः ॥ ८१ ॥
(विचिन्त्य) कथमिह विवेकभूभृतः सांग्रामिकविहारशेषः संपत्स्यते । अथ वा,
मदनक्रोधलोभानां निपाते मोहभूपतिः । योधयिष्यति यं कञ्चित् स्वयं वा योद्धुमर्हति ॥ ८२ ॥
तुम्बुरुः - भगवन्! अलङ्घनीयस्वभावः खल्वभिनिवेशः । येन प्रत्यक्षितबलपराक्रमेऽपि विवेके प्रतिहतमनोरथस्यापि महामोहस्य पुनर्विजिगीषा विजृम्भते । श्रुतं किल महाभारते - ‘हते भीष्मे’ इत्यादि । (अन्यतो निर्वर्ण्य)
कामादिनिधने दृष्टे कैमुत्यमपरामृशन् । क इवासीदति क्षुद्रः कश्चिदेष रणाङ्कणम् ॥ ८३ ॥
नारदः - सखे! प्रख्यातनामा खल्वसावगणितपरहृदयशल्यः शल्य इव सन्नह्यति । तथा हि,
अवधीरयिता महत्तराणामवलेपोऽयमयन्त्रितस्वभावः ।
परकीर्तिवधूनिराचिकीर्षासुभगंभावुकबाहुरुज्जिहीते ॥ ८४ ॥
सर्वधा तावन्मोघोद्योग एव भविष्यत्ययमपि मोहसचिवः । तथा हि,
दर्पस्येह दृढप्रतिष्ठितमदोदग्रैर्विवेकाग्रतो डिम्भक्षोभकडम्भरस्थपुटितारम्भैरलं सम्भ्रमैः ।
मृग्यं केसरिणो विधित्सितरणे रङ्कौ परं कौतुकं क्रीडाखण्डितचण्डवारणघटातन्त्रस्वतन्त्रश्रियः ॥ ८५ ॥
तुम्बुरुः - (साश्चर्यम्) भगवन्! किमयमिदानीं मेघनाद इव तिरस्करिणीं विद्यामास्थितः, यदसाविदानीमेवास्माभिः दृष्टः, क्षणान्तरे न दृश्यते ।
नारदः - (सहर्षं विहस्य) तस्यैव मेघनादस्य लक्ष्मणेनेव परप्रयुक्ता खल्वियमस्य तिरस्करिणी ।
अभिजनधनविद्यावृत्तदाक्ष्यादिरूपैः उपधिभिरयमेकोऽनेकधा जृम्भमाणः ।
पृथुमहिमविवेकप्रेक्षणादुत्पतन्त्या प्रसभमधिकदृष्ट्या प्रापितो वीरशय्याम् ॥ ८६ ॥
तुम्बुरुः - (ससंभ्रमाद्भुतम्)
काचैषा कलियुगताटकेव भीमा धिक्कष्टं कृतकलहेयमभ्यसूया ।
आसीदत्यभिपतति स्वयं विवेकं तामेतां द्यति मुदिता समग्रभूमा ॥ ८७ ॥
नारदः - (सहर्षम्) दर्पनिधनमसहमानेयमसूयाराक्षसी देहिनीव भैमरथी रणमुखमागत्य दैवयोगेन दीर्घनिद्रामासादिता । तुम्बुरुः - अहो दुर्निरोधा खलु भगवती भवितव्यता ।
आत्यन्तिकीमभिजनादिभिरप्रधृष्यां तृष्णादिभिः प्रियतमाभिरिहोपगूढाः ।
दर्पादयः क्षितितले दधति प्रसुप्तिं वीराः स्वयं विधिवशादुपशान्तवैराः ॥ ८८ ॥
नारदः - सखे! न खल्विदमद्भुतं यन्निरवधिकपौरुषाणामप्यनतिक्रमणीया नियतिरिति । एतस्यैव खल्वियमुदाहृतिः -
इतरेतराभ्यधिकभीमविक्रमाः पुनरुच्यमानमधुकैटभादयः ।
प्रविशन्त्युदग्रविगलन्मदग्रहाः त इमे विपत्तिमिह मोहमन्त्रिणः ॥ ८९ ॥
(अन्यतोऽवलोक्य) अहो महदिदमापतितमिदानीमप्रतिद्वन्द्वं द्वन्द्वयुद्धम् । इह हि,
अतिबलेन विवेकमहीभृता निरवशेषितमन्त्रिगणः क्षणात् ।
अहह मोहमहीपतिराहवे सपदि राघवशत्रुरिवोत्थितः ॥ ९० ॥
अत्र चायमहितबलनिर्मूलनसमुन्मीलितसमरसंरम्भः स्वयमिह समायाति सुरगणसंस्तूयमानवैभवः सुमतिवल्लभः । अयं हि,
मर्यादातीतवादद्विरदमृगपतिर्वक्रतर्काद्रिवज्रः प्रत्यग्वैमुख्यतूलप्रलयदिनमरुद्भ्रान्तिवीरुद्दवाग्निः ।
कामक्रोधाहितार्क्ष्यः कलिकलुषकथाकालरात्रिप्रभातं मोहावश्यायभानुर्विहरति समिति व्यक्तवेगो विवेकः ॥ ९१ ॥
तुम्बुरुः - (सहर्षाद्भुतम्) भगवन्! इदं पुनरिह महामोहस्य मौलिताडनम् । अत्र हि,
निरुद्धरिपुडम्बरो निगमघोषनिष्पादितप्रतिश्रुतिरनुद्रुतप्रलयसिन्धुधीरध्वनिः ।
त्रिवर्गपुटभेदनप्रथमकम्पकर्णेजपो विवेकसुभटाग्रतो विजयदुन्दुभिस्ताड्यते ॥ ९२ ॥
नारदः - सखे! नूनमिदानीमत्यासन्नो विवेकस्य मनोरथलाभः । अत्र हि,
दुराशादुर्मानच्छलनमदमात्सर्यकुहनापरीवादद्रोहप्रभृतिपरिवारस्तुतगतिः ।
मनीषासारथ्यप्रमुदितविवेकप्रतिमुखं महामोहः क्रुद्धः स्वयमयमुपायाति समरम् ॥ ९३ ॥
अपि च,
प्रत्यासन्नं प्रतिभटमिह प्रत्युदेता विधत्ते गाढामर्षस्फुरणकुटिलान् कार्मुके दृष्टिपातान् ।
दूरोद्धूतस्वपरनियतिं दुर्मतिं प्रेक्षमाणो रागाभिख्यं दुरितजलधिं गाहते मोहवीरः ॥ ९४ ॥
तम्बुरुः - (सभयसंभ्रमाद्भुतम्) भगवन्! अतिघोरवृत्तिरसौ रथयूथवीधिकापथेन रणाङ्गनमवतीर्णः ।
उद्भटकबन्धताण्डवमुन्मदभारुण्डतुण्डहृतमुण्डम् ।
रणभूमिमण्डलमसौ मण्डलमिह चरति मोहदण्डेशः ॥ ९५ ॥
अपिच,
पातालक्षिप्तसिन्धुः प्रशकलितकुलक्ष्माभृदुत्कीलभूमिर्निर्धूतादित्यचन्द्रद्युतिगणनिबिडध्वान्तनीरन्ध्रदिक्कः ।
वेधस्सौधप्रभेदी विघटितपवनस्कन्धपर्यस्ततारः प्रारब्धोऽसौ विवेकप्रतिरथिनि महानाहवे मोहवेगः ॥ ९६ ॥
नारदः - (सहर्षसंभ्रमम्) सखे! दिष्ट्या वर्धसे । पश्य पश्य ।
अप्रत्यूढचरः सुरासुरगणैरक्षोभितो राक्षसैरद्य प्रत्यवरुद्धवैरिसमरोत्सेके विवेकेश्वरे ।
स्वस्थप्रत्ययितव्यदोषमलिनस्वर्वासदुर्वासनामूलच्छेदविलीयमानमहिमा मोहस्य मोघस्स्यदः ॥ ९७ ॥
अहह,
विवेकाशनिवेगेन महामोहविषद्रुमः । पतितः क्ष्मातले दिष्ट्या द्वितीय इव कैटभः ॥ ९८ ॥
तुम्बुरुः - हन्त!
जागर्त्यद्भुतमुद्भटं यदधुना वीरव्रतैकव्रती विष्वग्वृत्तिविवेकदेवविशिखस्कन्धैरवस्कन्दितः ।
मोहः प्रापितमूर्छनो मुनिगणप्रद्विष्टदैत्यप्रियो धिक्कष्टश्रुतिघट्टितश्रुतिरसौ बुद्ध्वा पुनर्युध्यते ॥ ९९ ॥
नारदः - (सहर्षसंभ्रममुत्तरीयाजिनमुद्धून्वन्) अहह निपातितः पुनरसौ निष्प्रतिघवृत्तिना महामोहस्सुमतिवल्लभेन ।
जितं कार्तयुगैर्धर्मैर्जितं शमदमादिभिः । महता यद्विवेकेन महामोहः पराहतः ॥ १०० ॥
भवतु सब्रह्मता । भवतु सब्रह्मता । (सर्वतः परिक्रामति ।)
तुम्बुरुः - (सहर्षम्)
निखिलसुभटश्लाघारेखाविलङ्घनजाङ्घिको निरवधिबलो मोहः क्रीडन्ननुत्तरणे रणे ।
विविधनिगमग्रामस्थेयाद्विवेकमहीभृतो विपदमधुना वीरादरमादिदंप्रथमां गतः ॥ १०१ ॥
अपि च,
दिनकर इव दीव्यन् दृष्टशक्तिस्तथाऽसौ मुनिपरिषदभीष्टे मोहभङ्गे विवेकः ।
समतनुत यथैकः साधुपीडोद्यतानां रजनिचरपतीनां राघवो दीर्घनिद्राम् ॥ १०२ ॥
(नेपथ्ये) हा महाराअ, हा दुम्मइजीविएसर, हा णिहिळजणमोहण, कहिं गओसि? बंदिग्गाहं गहिआहिं णूणं संभरिअगुरुवेराहिं बंदिग्गाहं गहीदो मम णाहो ताहिं तिअसमहिळाहिं । [हा महाराज! हा दुर्मतिजीवितेश्वर! हा निखिलजनमोहन! कुत्र गतोऽसि? बन्दिग्राहं गृहीताभिर्नूनं संभृतगुरुवैराभिर्बन्दिग्राहं गृहीतो मम नाथस्ताभिस्त्रिदशमहिलाभिः ।]
नारदः - सखे! हन्त हन्त! प्रतिबुद्धा दुर्मतिस्सोरस्ताडनं स्वयं विलपति ।
(पुनर्नेपथ्ये) बाहिअजणेहिं सत्थं दीहमग्गं तुए पक्कंतेण दीणदसासंतत्तो दइअजणो णाह किंति संच्चत्तो? [बाह्यजनैस्सार्धं दीर्घमार्गं त्वया प्रक्रान्तेन दीनदशासंतप्तो दयितजनो नाथ किमिति संत्यक्तः ।]
नारदः - सखे! अश्रुतपूर्वमिदमाकर्णितम् ।
तुम्बुरुः - भगवन्! अयं खलु सुरासुरसमरनाटकसूत्रधारस्य भगवतस्सूत्ररचनापरिपाकः ।
नारदः - हतजीवजीवितेशां विषादमूर्छादिलुप्तनिश्वासाम् ।
तृष्णादयस्सकुल्या दुर्मतिमभितो निपत्य विलपन्ति ॥ १०३ ॥
(निष्प्रतिघातः) दुष्परिहरः खल्वसौ दारुणो नियतिपरिणामः । यतः,
आकर्ण्य चामरभृताममराङ्गनानां मञ्जूनि तानि मणिकङ्कणशिञ्जितानि ।
शृण्वन्नसौ विलपितानि निजप्रियाणां मोहः प्रयात्यपुनरुन्मिषिताय निद्राम् ॥ १०४ ॥
तुम्बुरुः - भगवन्! महाप्राणोऽसावद्यापि निद्राति मूर्छति निमिषति वेति संशयडोलामधिरूढोऽस्मि ।
नारदः - भवतु दृष्टं तावदेतावत् । शिष्टमपि यथागमं द्रक्ष्यावः । अयं पुनरत्र मधुकैटभादिमहासुरनिरसनप्रकाशितप्रभावो महापुरुष इव विजितमहामोहो विबुधपतिभिरभिष्टूयते सुमतिपतिः ।
तुम्बुरुः - भगवन्! इदमस्य विक्रमप्रीणितवियच्चरगणप्रयुक्तं वीराभिषेकमङ्गलम् । यदेतत्,
अमुष्य दृढविक्रमद्रुतनिपीतमोहाम्बुधेर्विवेकनृपतेरसौ विनयसंनते मूर्धनि ।
परप्रणिधिपक्त्रिमस्थिरसुखापवादोद्गतिप्रतिप्रसवसौरभा पतति पुष्पवृष्टिर्दिवः ॥ १०५ ॥
नारदः - सखे! संप्रति चिरप्रार्थितमहासमरसंदर्शनेन सन्तोषितं चक्षुः । तदिह भवता परिविवाहयिषितहर्षप्रकर्षेण विश्वेषु भुवनेषु विवेकविजयो विश्रावयितव्यः । अहं तु प्रशमितप्रतिपक्षं स्ववशीकृतहृषीकगणं सुमतिसहायं महाराजं समयोपनतसार्वभौमपदाभिषेकं सौस्नातिकवृत्त्या संभाव्य समाधिसप्ततन्तुसाहाय्यकेन संतोषयितुमात्मानमिच्छामि ।
[इति निष्कान्तौ ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (मोहादिपराजयो नाम) अष्टमोऽङ्कः ।