सप्तमोऽङ्कः
[ततः प्रविशति संस्कारः]
संस्कारः - अहं खलु अनुभवामुष्यायणः संस्कार(ापर)नामा देवस्य विवेकस्य शिक्षितसकलविद्यः शिल्पी । देवशिल्पिनं विश्वकर्माणम् असुरशिल्पिनं मयं च विजित्य विश्रमाभिलाषी चिरमस्वाप्सम् । तावच्चेदमन्तरमासाद्य महामोहप्रयुक्ताभ्यां मधुकैटभाभ्यामिव महाबलाभ्यां मध्यमचरमगुणाभ्यां सत्त्वमित्रमसाविति जिघांसितः । नूनमप्रबुद्धतैव पुरुषेषु प्रतिपक्षजनस्य हस्तावलम्बः । ततश्चाहं प्रतिबोधितः सहसैव परमपुरुषदयाचोदितया देव्या सुमत्या सहजदृष्टिसदृशदृष्टिसंज्ञाभ्यां दासीभ्याम् । तदिह निरवकाशतया ततस्ततः पलायिते प्रतिपक्षे केनापि हेतुना विश्वचित्रं दिदृक्षमाणस्य महाराजविवेकस्य सेनापतिना व्यवसायेन स्वामिसंमतमादिष्टोऽस्मि । यथादिष्टं च तदाहितदृष्टिरन्वतिष्ठम् । अवसरानुकूलवृत्तीनां खल्वधिकारिणामाधिपत्यं प्रतितिष्ठति । ततश्च,
विदुषश्चिन्त(ना)नां शक्त्या चित्रभित्तिं वितन्वता । शुद्धाशुद्धविभागार्हं विश्वं विलिखितं मया ॥ १ ॥
(सर्वतोऽवलोक्य) अहह! सहस्रेष्वपि शिल्पकर्मसु किञ्चिदेव कदाचिदतिशेते । इह च,
श्लक्ष्णं स्थानं सान्द्रलग्नो विलेपः सूक्ष्मा रेखाः सुस्थितः सूत्रपातः ।
स्निग्धो वर्णस्तत्तदर्हो विशेषः शङ्के पक्वं शिल्पविद्याफलं नः ॥ २ ॥
अपि च, आजानसिद्धशक्तीनामभ्युच्चयो हि शिक्षाप्रकर्षः । वदन्ति हि - ‘प्रतिनियतैव हि वस्तुशक्तिः’ इति । यद्वा भवतु नामैतत्साधारणं सर्वशिल्पिनाम् । मम पुनरालेखनीयानां भगवदवताराणां प्रसादादद्य यावददृष्टचरमीदृशं हस्तकौशलमुपलभ्यते । किं प्रतिपत्स्यते देवः । निरङ्कुशाः खलु राजानः परिजनकृत्येषु; यथाक्रमं प्रसीदेयुरुपेक्षेरन्वा । अथ वा न खल्वयमसमीक्ष्यकारी नयपथनियतवृत्तिरस्मत्स्वामी । तदहं देवस्य विवेकस्य देव्याः सुमतेश्च सबहुमानप्रसादेन धन्यो भविष्यामि । अत्र च,
विश्वप्रीणनविश्वकर्मरचनाचातुर्यकातर्यदैः शिल्पैः कल्पयतीव मण्डनमसौ चेतःस्थितेर्मण्डपः ।
रत्नस्तम्भभुवोऽपि रश्मय इमे सोपानगोपानसीमध्यं यत्र गवाक्षयन्ति विहितप्रत्यग्रचित्रक्रमाः ॥ ३ ॥
(नेपथ्ये) कः कोत्र भोः!
संस्कारः - (श्रुत्वा सहर्षम्) किमासीदति शिल्पशालां व्यवसायदत्तहस्तः सुमतिसहायो विवेकः । तदहं यथोचितपरिजनकृत्ये वर्तिप्ये ।
[इति निष्क्रान्तः ।]
शुद्धविष्कम्भः ।
[ततः प्रविशति विवेकः सुमतिर्व्यवसायश्च ।]
व्यवसायः - इत इतो देवः । इयं सा सर्वाश्चर्यसमुच्चयालोकनकुतूहलाहूतपुरुहूतपुरपुरन्ध्रीपरिष्कृतखलूरिकोपान्तभागा बहिरन्तश्च लम्बितामन्दमकरन्दपरिमलमन्दारदामचित्रिता चित्रशाला । यत्र च परस्परप्रतिफलनादलिखिताऽपि भित्तिः लिखितेवावभासते ।
[सर्वे प्रवेशं नाटयन्ति।]
व्यवसायः - (चित्रशालां दर्शयन्) आलोकयतु देवो देवी च । इह हि,
परिचयमहिमानं प्राप्य सञ्जातभूमा दिविषदनुविधेयो दिव्यसंस्कारशिल्पी ।
व्यलिखदनघरूपं विश्वमेतद्यथावत् चिरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥ ४ ॥
अपि च,
प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः । अपि भूतानि भावीनि भवन्तीव भवन्ति नः ॥ ५ ॥
राजा - (विश्वतो दृष्टिं प्रसारयन्) देवि! दृश्यतामिदमपूर्वमद्भुतम् । यस्य पुनः स्वेन विना नोपमानान्तरमुपलभामहे । अस्ति किञ्चित् । तथा हि,
परिमितमपरिमितानामास्पदमेतत्प्रपञ्चचित्राणाम् ।
दहरगगनाभिधानं दिव्यं पुरुषं निदर्शयति ॥ ६ ॥
(विमृश्य) अथ वा, जठरविवरविन्यस्तसमस्तवस्तुजातस्य कल्पान्तबालस्य कल्पयति कल्पनाम् । अपि च,
नैतद्बाह्यैस्तूलिकावर्णकाधैः कॢप्तं चित्रं किन्तु सन्तोषलिप्ताम् ।
नानाकारां भावनामेव शिल्पी शिल्पव्याजान्नूनमत्रोज्जगार ॥ ७ ॥
सुमतिः - णाह! अचिंतणिज्जमाहप्पस्स ईसरस्स विअ तुह सत्तीए इअरदुघ्घटं सव्वं संघटइत्ति किं अच्चरिअं।
[नाथ! अचिन्तनीयमाहात्म्यस्य ईश्वरस्येव तव शक्तेरितरदुर्घटं सर्वं संघटत इति किमाश्चर्यम् ।]
राजा - अत्र किल विश्वतश्चित्रे विश्वचित्रे,
अशुद्धसृष्टिविषयं भागं भवभृदाश्रयम् । अधिकप्रतिकोटिस्थं दृष्टिस्तव दिदृक्षते ॥ ८ ॥
अत्र च,
प्रवर्तयितुमिच्छतः प्रगुणवृत्तिमन्तर्दृशं गुणत्रयविचित्रिता यवनिकेयमाच्छादिका ।
तदत्र भवदुर्ज्वरज्वलनजन्मभूमौ त्वया दिदृक्षणमितः परं दृढविलक्षया त्यज्यताम् ॥ ९ ॥
व्यवसायः - देवि! सम्यगिदमादिष्टं देवेन । तथा हि,
विविधविषयद्वीपारोहावरोहविसंस्थुलस्थितिभिरमुकैरन्योन्यस्मादुपस्थितसाध्वसैः ।
कमठमकरग्राहप्रायैरबुद्धिभिराश्रितः त्रिगुणजलधिर्न द्रष्टव्यस्समीहितसंयमैः ॥ १० ॥
सुमतिः - अय्यउत्त! ठिरणिबद्धाहिं वासणाहिं आकिट्टा वि मह दिट्ठी दाणिं तुह णिओएण पञ्चाणिज्जइ । [आर्यपुत्र! स्थिरनिबद्धाभिर्वासनाभिराकृष्टाऽपि मम दृष्टिरिदानीं तव नियोगेन प्रत्यानीयते ।]
व्यवसायः - इतस्तर्हि शुद्धसृष्टिमये भगवतो विभूतिभागे देवेन देव्या च दत्तदृष्टिभ्यां भवितव्यम् । अत्र च,
परव्यूहव्यूहान्तरपदविभक्तेषु बहुषु त्रिधाम्नो रूपेषु स्थितिमनधिगम्यापि मनसः ।
अवैजात्यं बृन्दारकनरतिरश्चामभिनयत्यमुष्मिन् दृष्टिस्ते भवतु विभवव्यक्तिनिवहे ॥ ११ ॥
राजा - देवि! उचितमेवोत्प्रेक्षितं सेनापतिना । परिचितसजातीये ह्ययत्नलभ्यो भावबन्धः ।
व्यवसायः - देव! अवताररहस्यवेदिनाम(प्य)पुनर्जननेन परप्राप्तिरपि गीयते स्वयमनघोपदेशेन परमपुरुषेण । अपि च,
ईक्षणध्यानसंस्पर्शप्रमुखैः पोषयन्प्रजाः । मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः ॥ १२ ॥
अत्र च,
अनासीदद्दोषो जहदवधिषाड्गुण्यजलधिः विहारस्वाच्छन्द्यात् विभुरिह दधानो विभवताम् ।
तिरश्चामप्येतैः कमठकिटिपाठीनपतगप्रकारैराकारैः परिबृढतमत्वं द्रढयति ॥ १३ ॥
राजा - अपारकारुण्यसंभवो ह्ययमशेषजनसंरक्षणाभिलाषिणः परमपुरुषस्यावतरणगणः । तथा हि,
प्रणतदुरितप्राणाकृष्टिप्रयोगपटीयसः प्रथितविविधप्रादुर्भावात्प्रभोरनुभावतः ।
जगति बलवन्मोहद्रोहाद्यमित्रशतावृते जनिपथमहापान्थास्सर्वे जना जितकाशिनः ॥ १४ ॥
अपि च,
त्रातुं जगन्ति कृपया कल्पेकल्पे भवन्ति दिव्यानि । चरितानि चक्रपाणेः प्रवाहवृत्त्या परस्परप्राञ्चि ॥ १५ ॥
व्यवसायः - (विस्मयावेशमभिनयन्)
मयस्त्वष्टाऽन्यो वा विपुलमहिमा विश्वसृडपि स्वशक्त्येदं चित्रं किमपि न विधातुं कृतमुखः ।
अखण्डब्रह्माण्डप्रथमतरशिल्पी स भगवान् स्वयं पद्माजानिर्व्यलिखदिह शिल्पं स्वविषयम् ॥ १६ ॥
अत्र च जलधिमधिकरणीकृत्य दर्शितास्त्रयोऽवताराः । तत्र तावदिममवलोकयतु देवो देवी च । इदं हि,
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।
निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथश्छटाडोलारोहसदोहलं भगवतो मात्स्यं वपुर्दृश्यते ॥ १७ ॥
राजा - देवि! पश्य पश्य । त्वदक्षिसारू(प्येणाभिव्यक्तं)प्यमभिव्यनक्ति भगवतो रूपम् ।
सुमतिः - (दृष्ट्वा स्वगतम्) माणुसस्स जोइणो माणुससरिच्छे चित्तसंगो संपाअणिज्जो । (प्रकाशम्) अय्यउत्त! एदेन विअ तुए साअरणिमग्गा विअ मोहन्धआरणिमग्गा वेदा उद्धरिऊण रख्खिज्जन्ति । किं णाम परमपुरुसस्स एआरिसाइ रुवन्तराइ वि होन्ति । [मानुषस्य योगिनः मानुषसदृक्षे चित्तसङ्गस्संपादनीयः । आर्यपुत्र! एतेनेव त्वया सागरनिमग्ना इव मोहान्धकारनिमग्ना वेदा उद्धृत्य रक्ष्यन्ते । किं नाम परमपुरुषस्यैतादृशानि रूपान्तराण्यपि भवन्ति?]
व्यवसायः - भवन्त्येव । तेष्वेतदेकमवलोक्यताम् ।
आखण्डलीयमजरामरमाधिराज्यं त्रैयम्बकं सुभगशेखरमुत्तमाङ्गम् ।
औदन्वतं प्रियतरं स्वगृहं यतोऽभूत् स्वाधार एष कमठो विधृताद्रिमन्थः ॥ १८ ॥
इयं चात्र तद्विषया शिल्पिनैव लिखिता श्लोकाक्षरावली ।
अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्मवपुषः निश्वासवातोर्मयः ।
यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किकानित्यारोहणनिर्वृतो विहरते देवस्सहैव श्रिया ॥ १९ ॥
राजा - स्वकारणभूतमेनमप्रत्यभिजज्ञिवांसं प्रजापतिं प्रति पूर्वमेवाहमिहासमिति वादी सोऽयं पुरुषः ।
सुमतिः - अय्यउत्त! ळच्छिस्सयंवरणजोग्गतारिससोउमळ्ळणिहिणो कहं एआरिसं कठिणत्तणं आसी । [आर्यपत्र! लक्ष्मीस्वयंवरणयोग्यतादृशसौकुमार्यनिधेः कथमेतादृशं कठिनत्वमासीत् ।]
राजा - किं किं न कारयति कार्यगौरवम् ।
व्यवसायः - देव! अत्यद्भुतेयं भगवतः कूर्मरूपस्य अमृतमथनारम्भभाविन्यवस्था । यथा,
क्वचिद्वाहाधीशः क्वचिदमरदन्तावलपतिः क्वचित्प्रालेयांशुः क्वचिदमृतविच्छर्दितमिति ।
अतिक्षोभे सिन्धोरयमनघनिद्रो धृतगिरिः विषादं देवानां विघटयति वैकुण्ठकमठः ॥ २० ॥
सुमतिः - अय्यउत्त! तुमम्मि विअ इमम्मि वि अमिअळाहभारो पडिट्ठिओ । [आर्यपुत्र! त्वयीवास्मिन्नप्यमृतलाभभारः प्रतिष्ठितः ।]
राजा - प्रिये! मम खल्वीदृशभारवहने त्वमप्यर्धभागिनी ।
व्यवसायः - इतश्च दीयतां दृष्टिर्देवेन ।
आरादाकर एष कौस्तुभमणेर्वारी मरुद्दन्तिनः क्रीडाशेखरशिल्पकृत्पुरुभिदो गञ्जागृहं पाशिनः ।
प्राचीनाङ्कुरपालिका सुरतरोरालक्ष्यतामद्भुतः स्वैराहारमहानसः सुमनसां शुद्धान्तशय्या हरेः ॥ २१ ॥
राजा - (सकौतुकमवलोक्य) देवि! दृश्यतां स एष त्रिगुणपरिणतिरूपोऽपि परमपुरुषपरिग्रहात् परिशुद्धतरः पारावारः । अपि च सुरभिसुरद्रुमचिन्तामणिप्रभृतिपात्रसात्करणजनितहर्षप्रकर्षताण्डवोद्यत इवायमकूपारस्तरङ्गमण्डलेन ।
सुमतिः - एव्वं एव्व इमं पेक्खंताणं वि हिअअं । [एवमेवेमं प्रेक्षमाणानामपि हृदयम् ।]
व्यवसायः - निशाम्यन्तामिह ।
इतरेतरसन्निकर्षवन्तः क्रमनिम्नोन्नतयो महोर्मिभेदाः ।
परितो वितताः पयःपयोधेः स्फटिकारोहणविभ्रमं वहन्ति ॥ २२ ॥
अपि च,
इयमत्र विश्वजननी समुत्थिता कमला विकासिकमलोदरस्थिता ।
मुरमर्दनस्य भुजमध्यपीठिकामधिरुह्य रक्षति जगन्ति वीक्षणैः ॥ २३ ॥
राजा - (विलोक्य सानन्दम्)
कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४ ॥
(अञ्जलिं बद्ध्वा) सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २५ ॥
(सुमतिं विलोक्य) देवि! इयं सा निखिललोकजननी जलधिराजदुहिता जनार्दनवल्लभा देवी । दुस्सहापराधभीतानामपि यत्पुरस्कारेणायमसौ भगवानधिगम्यतमो भवति । अत्र च,
सैवाकृतिस्तव त एव गुणानुभावाः स्यादेव सागरसुता लिखिता त्वमेव ।
शिञ्जानमञ्जुमणिनूपुरमेखलस्ते सञ्चार एष चतुरो यदि नान्तरायः ॥ २६ ॥
सुमतिः - अय्यउत्त! एदेण विअढ्ढवअणेण अप्पाणं एव्व सिरिवळ्ळहसरिच्छं पआसेसि । [आर्यपुत्र! एतेन विदग्धवचनेन आत्मानमेव श्रीवल्लभसदृक्षं प्रकाशयसि ।]
व्यवसायः - देवि! पठन्ति खल्विमं भवद्भ्यां प्रतिपादितमर्थं पौराणिकाः - ‘देवतिर्यङ्मनुष्येषु पुंनामा भगवान् हरिः । स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ॥’ इति ।
राजा - सेनापते! उभयोर्विभूतिभूतमुभयविधं जगदित्युक्तं भवति ।
व्यवसायः - एवमेतत् ।
राजा - साधारण्ये सत्यपि स्वेच्छयैव द्वेधा विश्वं यद्विभूतिर्व्यभाजि ।
चूडाभागे दीप्यमानौ श्रुतीनां दिव्यावेतौ दंपती मे दयेताम् ॥ २७ ॥
आस्तां तावदेतत् । अपरमप्यैश्वरं रूपमभिपश्येम ।
व्यवसायः - प्रदर्शितमिदं लक्ष्मीधरं रूपम् । भूधरमपि प्रदर्शयामि ।
प्रवर्धमानात्प्रलयाम्बुराशेराविर्भवन्नादिवराह एषः ।
दंष्ट्रानुषक्तां धरणीं दधानो जम्बालरेखामिव केलिलग्नाम् ॥ २८ ॥
राजा - अहो महत्तरमद्भुततरं च महीधरमिदं रूपम् । (अञ्जलिं बद्ध्वा सहर्षभक्तिरोमाञ्चगद्गदम्)
क्वापि कल्पान्तवेशन्ते खुरदघ्ने समुद्धृताम् । वहते मेदिनीमुस्तां महते पोत्रिणे नमः ॥ २९ ॥
अपि च,
नम इदमजहत्सपर्याय पर्यायनिर्यासितभ्रमदमितपयोधिवेलाविलोलाय कोलाकृते ।
पृथुविकटविटङ्कनिष्कम्पविष्कम्भविश्वंभराभरभरणधुरीणघोणापरीणाहकोणाय ते ॥ ३० ॥
अयं खलु,
गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृतब्रह्माण्डः प्रलयोर्मिघोषगुरुभिः घोणारवैर्घुर्घुरैः ।
यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थितिः ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वंभरा ॥ ३१ ॥
(देवीमवलोक्य, सप्रणामम्)
पूर्वं वराहवपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः प्रलयवारिधयस्तवासन्नुद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ ३२ ॥
अपि च,
संभावयन्मधुरिपुः प्रणयानुरोधात् वक्षस्थलेन वरुणालयराजकन्याम् ।
विश्वंभरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीं शिरसा दधाति ॥ ३३ ॥
सुमतिः - जह एसो महावराहो पळअण्णवणिमग्गं भूमिं उद्धरइ, तह अय्यउत्तो वि संसारसाअरणिमग्गं पुरिसं
उद्धरिज्ज । अण्णं वि भणामि । दिढअरदढग्गदारिअहिरण्णक्खवक्खअडकठिनकवाडसंपुटोट्टिअघणसोणिअणईपवाहघणघणाअंतघोणन्तरस्स जण्णवराहस्स विअ अय्यउत्तस्स जण्णणेउणं दट्ठुं उक्कण्ठिअम्हि । [यथैष महावराहः प्रलयार्णवनिमग्नां भूमिमुद्धरति, तथाऽऽर्यपुत्रोऽपि संसारसागरनिमग्नं पुरुषमुद्धरेत् । अन्यदपि भणामि । दृढतरदंष्ट्राग्रदारितहिरण्याक्षवक्षस्तटकठिनकवाटसंपुटोत्थितघनशोणितनदीप्रवाहघणघणायमानघोणान्तरस्य यज्ञवराहस्येवार्यपुत्रस्य जन्यनैपुणं द्रष्टुमुत्कण्ठिताऽस्मि ।]
व्यवसायः - देवि! सेत्स्यति खलु मङ्गल्यनिधेः भवत्या मान्यं समीहितम् ।
राजा - सेनापते! अपरमपि एतादृशमभिपश्येमाद्भुतं रूपम् ।
व्यवसायः - अस्तु तर्ह्ययमसौ प्रह्लादपरिरक्षिता दिव्यनरसिंहो देवो दिदृक्षितव्यः । तेन चासौ जिघांसितो हिरण्याक्षानुजन्मा हिरण्यो नाम दानवेन्द्रः ।
कल्पान्तपावकनिभैस्तपसां प्रपञ्चैरुष्णालुरस्य समुपेत्य किल प्रसन्नः ।
दत्ते वरेऽभिलषिते प्रतिपन्नभीतिस्सौवस्तिकत्वमगमत्स्वयमेव वेधाः ॥ ३४ ॥
अपि च,
दूरे हन्त गिरां दुरासदयशोदुर्वारगर्वानलज्वालालुण्ठितजम्भकण्टकबलारण्यो हिरण्योऽसुरः ।
यस्यास्थानिकपादपीठविलुठत्कोटीरकोटीरवैः स्वच्छन्दप्रसरं स्तुवन्ति चरितं सेवासु देवासुराः ॥ ३५ ॥
अनेन च परमपुरुषप्रशंसी कुमारः प्रह्लादस्सोपालम्भमधिक्षिप्तः क्वनु ते पुरुषोत्तम इति पृष्टस्सर्वत्रेति प्रत्यवादीत् ।
राजा - ततस्ततः ।
व्यवसायः - किमत्र हरिरित्यथ प्रकटितोपहासक्रमं हिरण्यकरघट्टितात्सपदि जृम्भितः स्तम्भतः ।
पुरस्स्फुरति संभ्रमस्फुटसटाच्छटाच्छोटनत्रुटद्घनघनारवद्विगुणबृंहितस्सिहराट् ॥ ३६ ॥
अयं च,
विदारयति दारुणैर्वलभिदस्त्रभङ्गोद्भटां सटाविधुतिसंभ्रमभ्रमितसप्तलोकस्थितिः ।
कुलाचलशिलातलद्रढिमडम्बरस्तम्भिनीं प्रभुर्द्विषदुरःस्थलीं नखरशृङ्गदम्भोलिभिः ॥ ३७ ॥
राजा - (सविस्मयम्) अहो महानयमद्भुतनरसिंहः ।
दम्भोलिश्रेणिदीव्यत्खरनखरमुखक्षुण्णदैतेयवक्षोनिष्ठ्यूतासृक्स्रवन्तीभरितदशदिशादर्शितापूर्वसन्ध्यः ।
स्वामिध्वंसप्रकुप्यत्सुररिपुपृतनास्तोमरूपं स एष ब्रह्मस्तम्बैकचन्द्रो बहुभिरिह करैरन्धकारं निरुन्धे ॥ ३८ ॥
तदहमिह महामोहनिरसनाय दुरितभङ्गमाशासे ।
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थलीनिरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।
हरन्तु मदघं रमासहचरस्य लीलाहरेरहंप्रथमिकामिथःप्रकटिताहवा बाहवः ॥ ३९ ॥
व्यवसायः - देव! इयं पुनरस्मदभिमतमर्थमभिमुखयन्ती स्वयमेव भगवता भावनामात्रनिर्मितेव सुभगविन्यासशालिनी निखिलभयनिर्मूलिनी श्लोकाक्षरपरंपरा । यथा,
प्रह्लादह्लादनानि प्रणतसुरजनप्राणनप्रीणनानि प्रत्यूढस्थेमभीमप्रलयघनघटाघोषणाडम्बराणि ।
क्षुभ्यप्सताम्बुधीनि क्षुरपरुषनखक्रीडितक्षुण्णशत्रोरस्मद्भीतिव्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि ॥ ४० ॥
राजा - (सहर्षमवलोकयति)
व्यवसायः - देव! इयं च काचित् । यथा,
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैरव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥ ४१ ॥
सुमतिः - अय्यउत्त! एसो हिरण्णो विअ महामोहासुरो पुरिससीहेण तुए पसमणिज्जो। [आर्यपुत्र! एष हिरण्य इव महामोहासुरः पुरुषसिंहेन त्वया प्रशमनीयः ।]
व्यवसायः - देव! कालोपपन्नमिह कर्तव्यं स्मारयति देवी । तदिह नातीवेदानीमत्र निहितदृष्टिभ्यां भवितव्यम् । तथाऽपि संक्षेपेण तु किञ्चिद्दर्शयामि । अयमिहासुरापहृतत्रैलोक्यप्रत्यानयनेन देवगणसंतोषणाय प्रवृत्तो दिव्यवामनः । अमी च……..इत्यर्धोक्ते
राजा - तिष्ठ तिष्ठ सेनापते! यावदेतस्मादपि दिव्यवामनात् किमपि मङ्गलमाशासे । (सहर्षम्)
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥ ४१ ॥
सुमतिः - देव! अस्स विअ तुम्ह वि पडिहअपडिपक्खस्स भाईरईव्व जसप्पवाहो पडिदिसं संवढ्ढइ । [देव! अस्येव तवापि प्रतिहतप्रतिपक्षस्य भागीरथीव यशःप्रवाहः प्रतिदिशं संवर्धते ।]
व्यवसायः - अमी च भृगुरघुयदुवंशसंभवाः प्रबलतरदुष्टनिरसनेन परित्रातलोकत्रयास्त्रयो रामाः । एष पुनरेतेषु बहुमुखपुण्यजनबाधनेऽपि परित्रातपुण्यजनो मध्यमो रामः । अनेन किल कोसलसुताकुमारभावकञ्चुकितकारणाकारेण, कौमारकेलिगोपायितकौशिकाध्वरेण, रणाध्वरधुर्यभव्यदिव्यास्त्रशालिना, प्रणतजनविमतविमथनदुर्ललितदोर्ललितेन, मैथिलनगरसुलोचनालोचनचकोरचन्द्रेण, दिनकरकुलकमलदिवाकरेण, खण्डपरशुकोदण्डप्रकाण्डखण्डनशौण्डभुजदण्डेन, भृगुपतिसुगतिविहतिकरनतपरुडिषुपरिघेण, पितृवचनपरिपालनप्रतिज्ञावज्ञातयौवराज्येन, दण्डकतपोवनजङ्गमपारिजातेन, खरतरखरतरु(षण्ड)खण्डनचण्डपवनेन, द्विसप्तरक्षस्सहस्रनलवनविलोलनमहाकलभेन, महितमहामृथदर्शनमुदितमैथिलीदृढपरिरम्भणविरोपितविकटवीरव्रणेन, मारीचमायामृगचर्मपरिकर्मितनिर्भरदर्भास्तरणेन, गृध्रराजदेहदिधक्षालक्षितभक्तजनदाक्षिण्येन, अवन्ध्यमहिममुनिजनभजनमुषितहृदयकलुषशबरीमोक्षसाक्षिभूतेन, प्रभञ्जनतनयभावुकभाषितरञ्जितहृदयेन, तरणिसुतशरणागतिपरतन्त्रितस्वातन्त्र्येण, विपुलभुजमूलनिबिडनिपीडितरावणरणरणकजनकचतुरुदधिविहरणचतुरकपिपतिहृदयविशालशिलातलदारणदारुणशिलीमुखेन, विमतसहोदररक्षःपरिग्रहसंरम्भविजृम्भितसर्वेश्वरभावेन, सकृत्प्रपन्नसंरक्षणदीक्षितसत्यव्रतेन, कपिकुलकरतलतुलितगिरिनिकरसाधितसेतुपथसीमासीमन्तितसमुद्रेण, लङ्कावरोधवेपथुलास्यलीलोपदेशदेशिकेन, विशङ्कटविशिखविताडनविघटितमकुटविह्वलविश्रवस्तनयविश्रमसमयविश्राणनविख्यातविक्रमेण, कुम्भकर्णकुलगिरिदलनदम्भोलिना, मघवजिदभिहननकृदनुजसाक्षिकराक्षसद्वन्द्वयुद्धेन, निखिलजगदनवरतभयजनकदशलपन(मुख)लपनदशकलवनजनितकदनदलितरजनिचरयुवतिजनविलपनवचनविख्यापितपारम्येण, विभीषणवशंवदीकृतलकैश्वर्येण, पुष्पकरभसगोष्पदीकृतगगनमहार्णवेन, प्रतिज्ञार्णवतरणकृतक्षणभरतमनोरथसिंहासनाधिरूढेन, दिव्यभौमायोध्याधिदैवतेन, जानकीसहधर्मचारिणा, सर्वधर्मसमाराधनीयेन, सनातनधर्मेण, साकेतजनपदजनिधनिकजङ्गमतदितरजन्तुजातदिव्यगतिदानदर्शितनित्यनिस्सीमवैभवेन, भगवता, भक्तजनाभिरामेण, श्रीरामेण विश्वमेतत्सनाथीकृतम् ।
राजा - (सहर्षविष्फारिताक्षमवलोकयन्)
पारावारपयोविशोषणकलापारीणकालानलज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥ ४३ ॥
सुमतिः - देव! णळसेतुकत्तुणा इमिणेव्व धम्मसेतुसंठावएण तुए वि धम्मिअजणो किअद्धीकरिज्जइ । [देव! नलसेतुकर्त्राऽनेनेव धर्मसेतुसंस्थापकेन त्वयाऽपि धार्मिकजनः कृतार्थीक्रियते ।]
व्यवसायः - देव! अयं पुनराप्रादुर्भावमनुगतपररूपः समस्तनिगमान्तसारभूतगीतोपनिषदाचार्यो भगवान्वासुदेवः ।
कंसध्वंसैकवीरो दनुजभटहतक्षोणिदुर्जातबन्धुर्गोपीनां प्राणमित्रं गुरुसुतपुनरुज्जीवनोदारकीर्तिः ।
नाथो वृष्ण्यन्धकादेर्नरकपुरवधूपत्रभङ्गापहारी पाञ्चालीवल्लभानां प्रथनमुखसुहृत्पञ्चमाम्नायसारः ॥ ४४ ॥
अमुना किल पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकादिदुष्टजनमर्दनेन गोपालकुलवर्धनाय समुद्धृतो गोवर्धनः ।
राजा - (सहर्षमवलोक्य) ।
निकटेषु निशामयामि नित्यं निगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ॥ ४५ ॥
व्यवसायः - इयं पुनरिह वासुदेवस्य वामतो वर्णपरम्परा ।
जयति ललितवृत्तिं शिक्षितो वल्लवीनां शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णोः अधरमणिसुधायामंशवान्वंशनालः ॥ ४६ ॥
इयं चापरा,
फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादयः तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथक्भूताः प्रभूतैर्गुणैः आकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥ ४७ ॥
सुमतिः - अय्यउत्त! अवणिभारुद्धरणप्पवुत्तं जउधुरंधरं विअ तुम वि संसइभअभरनिस्सेसद्धंसणसण्णद्धं अइरा एव्व किअकज्जं पेक्खिहिम्हि । [आर्यपुत्र! अवनिभारोद्धरणप्रवृत्तं यदुधुरन्धरमिव त्वामपि संसृतिभयभरनिश्शेषध्वंसनसन्नद्धमचिरादेव कृतकार्यं प्रेक्षिष्ये ।]
व्यवसायः - सत्यमेतत् । आलक्ष्यतामयमखिलदोषनिर्मूलनः कल्की ।
राजा - (विलोक्य)
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।
निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥ ४८ ॥
व्यवसायः - देव! इत्थं किल भगवतः कतिचिदवतारभेदाः । कति कति भवन्ति भूता भाविनश्च भगवतः खच्छन्दावताराः । अमीषां चातिशयवर्णने निगमान्तवेदिनोऽपि निवृत्तव्यापाराः । अपि च,
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।
क्रीडावल्लव कल्कवाहनदशाकल्किन्निति प्रत्यहं जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥ ४९ ॥
तेषु चैतेषु भगवदवतारेषु निराशिषः पुरुषस्य यथाभिमतमेकमालम्बनं निर्धारणीयं महाराजेन ।
राजा - सेनापते! साधीयः संचिन्तितम् । तदहं संप्रति,
विशुद्धे विश्वरूपस्य यत्र क्वचन विग्रहे । समाधिजननीं पुंसः साधयिष्यामि भावनाम् ॥ ५० ॥
न चात्रास्माकमतिभारः । यतः,
पदकमलनतानां भासमानः प्रमाणैः प्रणिहितरुचिभेदः प्राच्यसंस्कारशक्त्या ।
प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः परिकलयति रूपं भावनालम्बनार्हम् ॥ ५१ ॥
तदिह कृतं शिल्पदर्शनेन । दीयतां शिल्पाधिकारिणस्संस्कारस्य अस्मत्प्रसादोचितं पारितोषिकम् ।
व्यवसायः - यदाज्ञापयति देवः ।
राजा - सेनापते! बलवदभियुक्ता वयं संत्वरेमहि समनन्तरकरणीयाय ।
[इति निष्क्रान्तास्सर्वे ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (शुभाश्रयनिर्धारणं नाम) सप्तमोऽङ्कः ।