षष्ठोऽङ्कः
[ततः प्रविशति कञ्चुकी]
कञ्चुकी - अहं हि देवस्य महामोहस्य दर्पसंभवः स्तम्भो नाम सदागमप्रतिरोधकः प्रतिहारी । मम च,
वलिभिरविरलाभिर्वर्ष्म सोपानकल्पं द्रतपदमधिरूढा दुर्निवारा जरेयम् ।
तदपि नियतिभूम्ना तादृशी वेत्रयष्टिस्सहचरति मयाऽसौ शैशवे सङ्गृहीता ॥ १ ॥
किं च,
निश्शङ्कसंचरणविघ्नविधायिनीभ्यां निष्पीडितोऽस्मि जरसा च नृपाज्ञया च ।
मध्योपलक्षितमनोरथभङ्गदीना वाञ्छा न शाम्यति वयः सकलं प्रशान्तम् ॥ २ ॥
आस्तां तावदशेषसाधारणगतिर्जरा । “न हि जानपदं दुःखमेकश्शोचितुमर्हति” इति नीतिविदः । नृपाज्ञा तु निष्ठुरतरा ।
तरतु विवित्सयाऽब्धिमधिरोहतु शैलतटीं धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदं यदुत बह्ववधाय भिया धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ ३ ॥
आः! कष्टम् ।
प्रत्यङ्गकंपपरिणर्तितकञ्चुकेऽस्मिन् पर्याप्तरूढपलिते परतन्त्रपिण्डे ।
अक्षीणरागमजरामरजीविताशं मामेव हन्त हसतीव ममान्तरात्मा ॥ ४ ॥
(सनिःश्वासं विचिन्त्य) निरधिकारतैव नूनं सुखस्याधिकारः । अथ वा किमनेन महामोहपरवशस्य मे मुधा निर्वेदेन । स्वतन्त्रस्य तीक्ष्णदण्डस्य स्वामिनः प्रेषणे स्थातव्यम् । अतिनिपुणपरिजनोचितं च नित्यमाचरितव्यम् । अद्य खलु देवो महामोहश्चारचक्षुषा विपक्षवृत्तान्तं दिदृक्षमाणः विपक्षभूमिषु कल्मषप्रवर्तनाय सर्वधर्मनिर्मूलने कलौ प्रस्थापिते, प्रतिबलभेदनोपायकोविदं पाकशासनादिषु पशुपक्ष्यादिषु च अविशेषेण निरङ्कुशगतिं विघ्ननामानमपसर्पमपसर्प्य, सदसद्वा किं वदिष्यतीति सन्देहडोलाधिरोहतरलिताशयस्तत्प्रत्यागतिमावेदितुमावेदयितुं च मामादिक्षत् । स चायं विघ्नः सत्वरपरिक्रान्तयमनियमादिस्थानपञ्चकः तत्रतत्र सन्निहितैः कुशलाचारैः सर्वतः प्रतिहतगतिः संप्रति संयमारम्भसंभृतसंरम्भं स्यन्दनेन सह देवं विवेकं देवयानेन दृष्ट्वा प्रत्यागतः स्वामिसन्दर्शनसमयप्रतीक्षः समया शुद्धान्तमवतिष्ठते । यथादृष्टार्थवादी चासौ । तथा चेदानीं तदुक्तमध्यक्षेण संवदति । यदुत,
मनोरथरथारूढो विवेकस्तर्कसारथिः । दिदृक्षुः संयमस्थानं इतस्समभिवर्तते ॥ ५ ॥
तदहमपि यथादिष्टमाचरामि ।
[इति निष्क्रान्तः ।]
शुद्धविष्कम्भः ।
[ततः प्रविशति यथानिर्दिष्टो विवेकः]
विवेकः - अये सूत! आहार्यहेतुमुखेनापि अन्ततस्सूनृतवादिना निष्प्रतिघवृत्तिना नियमभूयिष्ठेन परानुकूलत्यजा तदनिष्टप्रसञ्जकेन तद्विपर्ययपर्यवसायिना त्वयाऽसौ मे मनःपूर्वो रथस्सुपथा सञ्चरते ।
तर्कः - देव! अहमपि खलु त्वदायत्तप्रसरः । अपि च,
स्वपक्षपरपक्षादीन् विविङ्क्ते यदि न त्वया । कृत्याकृत्यविवेकान्धः किं करिष्यति पूरुषः ॥ ६ ॥
विवेकः - वयं खलु सूत! इदानीं वशीकृतसर्वेन्द्रियस्य पुरुषस्य धारणादिसिद्धिसाधनस्थानमन्वेषयन्तः सर्वलोकपरिक्रमणेन मध्यमलोकावलोकनाय मेरुशिखरमधिरूढाः । (समन्ततोऽवलोक्य)
स्फुरदरपरिपाटीचारुशैले विशाले गुरुणि धरणिचक्रे चक्रवालाद्रिनेमौ ।
दधति जलधयोऽमी सप्त संपूर्णवृत्ताः प्रचितविविधपट्टस्पष्टसङ्ख्यामभिख्याम् ॥ ७ ॥
इदं हि त्रिगुणमरुकान्तारगतागतखेदनिर्वेदविधुराणां कामकामानां किमपि विश्रमस्थानम् । अयं च,
भुजगपतिनालविधृते भूपद्मे कर्णिकारूपः । विलसति केसरभूधरपरिवृततनुरत्र काञ्चनक्ष्माभृत् ॥ ८ ॥
असाविह समन्ततो निपतदलिपटलविरुतमुखरपरिसरा प्रफुल्लवकुलमुकुलप्रणालिकामुखगलितमधुरमधुधाराधोरणीपूर्यमाणमूलालवाला प्रत्यासीदति विबुधसिन्धुसविधवनतरुवाटिका । इह च,
निष्प्रत्यूहसमुन्नमन्मदसिराकण्डूलगण्डस्थलीहेलाधूननधूतभृङ्गपटलीमूर्च्छन्मृषाचामरः ।
मन्दान्दोलितमन्दराचलतटीनिष्ठ्यूतधातुच्छटासिन्दूरद्युतिबन्धुरो विहरति स्तम्बेरमग्रामणीः ॥ ९ ॥
अपि च,
क्षरत्यारादैरावणकरटिशुण्डाचुलकिता कथञ्चित्सन्तानद्रुमकिसलयापादितलया ।
स्मरस्मेरोत्कण्ठाविहरदमरीलोलकबरीजरीजृम्भन्माला मधुलवहरी वातलहरी ॥ १० ॥
तर्कः - (स्वगतम्) रत्नसानुरामणीयकलग्नचित्तं महाराजं प्रक्रान्ते संत्वरयामि । (प्रकाशम्) देव! किमसौ केसरायमाणकेसरशैलपरिवृतकाञ्चनशिखरिकर्णिकास्थितेन भवता सर्वतः समीक्षितः क्षितिपद्मः?
विवेकः - सत्पथप्रवर्तिना भवता प्रदर्शितः समीक्षित एव सामस्त्येन, प्रस्तुतानुगुण्याय तु प्रतीकशो विवेक्तव्यः ।
अथवा,
द्विसप्तभुवनात्मकद्रुहिणगह्वरप्रेक्षणे क्षितिस्तु परिशिष्यते तदिह सर्वधर्मास्पदे ।
त्रिवर्गपुटभेदनत्रिदशयोग्यवर्षत्यजं प्रवर्तय रथोत्तमं सपदि भारतैकोन्मुखम् ॥ ११ ॥
तर्कः - यदाज्ञापयति देवः । [इति वेगतो रथं प्रवर्तयति ।]
विवेकः - अये! तिष्ठ तिष्ठ । यावदनङ्गविजयिनो भवानीपतेरावासः कलधौतगिरिरवलोक्यते ।
[तर्कः रथवेगं स्थापयति]
विवेकः - (परितो दत्तदृष्टिः परामृश्य)
विजितमनोभवेन विभुनाऽधिगतोऽपि सदा निरुपधिसंयमस्य न पदं कलधौतगिरिः ।
गजमुखगण्डशैलघनदानकलिन्दसुतालहरिझलंझलाबहलकज्जलकम्बलितः ॥ १२ ॥
तर्कः - (अग्रतो रथं प्रवर्त्य) पश्य देव! गन्धर्वयूथसेवितं गन्धमादनम् ।
विवेकः - (सकुतुकं दृष्ट्रा)
एतं गिरिवरं सूत मन्ये विश्वमनोहरम् । आगामिस्वर्गसृष्टीनामादिकन्दमिव स्थितम् ॥ १३ ॥
अयमपि सिद्धैरासेव्यमानो न साधकानामावासः । अपि च,
सहचरदिव्यभव्यशबरीकबरीविकसन्मदनमहेषुजालमधुसौरभसारभृतः ।
इह मरुतो वहन्ति मददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीफरिताः ॥ १४ ॥
तर्कः - इतस्तर्हि दिव्ये तपोवने दीयतां दृष्टिर्देवेन ।
विवेकः - (दूरतः पश्यन्) स्वकल्पितरघूद्वहप्रथनकेलिगाधाशतप्रयुक्तिपथशिक्षणप्रवणसिद्धबृन्दाश्रितः ।
क इत्थमुपसर्पति स्थिरकठोरवीरव्रणः कपिः कदलिकावनं कनकशैलशृङ्गाकृतिः ॥ १५ ॥
तर्कः - अवधारयतु देवः ।
परिणतफलग्रासश्रद्धाजिघृक्षितभास्करः पवनगरुडस्पर्धादानप्रवीणजवोल्बणः ।
दशमुखपुरीदाहोत्सिक्तस्ववालधिवैभवः रघुपतिरणारम्भक्रीडारथोऽयमुपस्थितः ॥ १६ ॥
विवेकः - (सादरचमत्कारमवलोकयन्) अयमिह श्रोतृजनकर्णामृतायमानं वर्णनातिशायिवैभवं किमपि गायति ।
भगवति भरद्वाजे भुक्तिस्तथा शबरीगृहे प्रभुरनुसृतो विश्वामित्रः प्लवङ्गपतिस्तथा ।
भृगुपतितपो लूनं दृष्टिः खगस्य च दक्षिणा जयति ललितोत्तुङ्गा वृत्तिर्दशास्यरिपोरिति ॥ १७ ॥
(विमृश्य) विजिताक्षतया विज्ञातस्याप्यमुष्यानवरतजोघुष्यमाणदुन्दुभिवीणावेणुमृदङ्गैरङ्गीकृतलास्यताण्डवैरनुपमगान्धारग्रामगीतरसिकैर्गन्धर्वदंपतिभिरावृतस्य सत्त्वोत्तरेऽपि तपोवने संयमसिद्धिं न श्रद्दधे । पश्यामि च सरसगीतास्वाद समाकृष्टावस्थितमपूर्वं सजीवं चित्रम् । इह च,
परिणमति जनानां संविदानन्दरूपा निखिलमपि विहाय स्निह्यतीवात्तराग(न्तरङ्ग)म् ।
स्वरपरिणतिचित्रां मूर्च्छनां भूषयद्भिः श्रुतिसुरभिततन्त्रीझंकृतैस्स्वैरगीतैः ॥ १८ ॥
अशक्यश्च संनिधौ परित्यागस्संयमारम्भविरोधिनां विषयाणाम् ।
अहत्वा विक्रीणन्निह मदनहस्ते त्रिभुवनं वरस्त्रीमञ्जीरध्वनिरपि किमालोकितमुखैः ।
यदृच्छासम्पन्नो यमिनमनघं मुक्तमपि वा विकर्तुं पर्याप्तो विजितकलहंसीकलरवः ॥ १९ ॥
अपि च,
कठिननियमोऽपि पुरुषः सहसा नवनीतकुंभवद्भवति । वरयुवतिवह्निकुण्डे सन्निहिते सपदि लीयमानमतिः॥ २० ॥
तर्कः - अस्त्वेवम् । तथाऽपि सर्वधातुरत्नचित्रितं सर्वौषधिसंभवस्थानं सर्वोर्वीधरसमधिकमहिमवन्तं हिमवन्तमवलोकयतु देवः ।
एष मैनाकजनको धरणीधेनुतर्णकः । त्रिदशाचलजामाता त्र्यम्बकश्वशुरो गिरिः ॥ २१॥
विवेकः - (सर्वतो दृष्टिं प्रसार्य) इयं हि भगवती भागीरथी । अत्र च,
वाहिन्यः कति सन्ति वन्यमहिषश्रेणीविषाणाहतिक्षुभ्यद्दुर्दमकर्दमाङ्कपयसस्तत्संमितिं क्षाम्यति । वारिक्रीडितवल्गिताङ्गवलभिच्छुद्धान्तसीमन्तिनीवक्षोजक्षरदङ्गरागसुभगोत्सङ्गा न गङ्गापगा ॥ २२ ॥
अयमिह विषयस्तपोधनानां न भवति संयमिनां निवासयोग्यः ।
हरिचरणनदीनिपातघोषैः मुखरितकाननगह्वरो हिमाद्रिः ॥ २३॥
(ससंभ्रमाद्भुतम्) अये ! कथमिहाचिन्तितोपस्थितं घ्राणस्पर्शनोन्मादनम् । इह हि, उद्यानायातविद्याधरमिथुनरतिश्रान्त्यपक्रान्तिहेतुः तिम्यद्गात्रस्तुषारैः त्रिदशयुवतिनिश्वासविश्वासभूमिः । नीहारत्विट्कलङ्कप्रतिवदनपदन्यस्तकस्तूरिकोद्यन्नेपालीगण्डपालीपरिमलललितः स्पन्दते मन्दवातः ॥ २४ ॥ अतस्त्वरितमार्यावर्ताय प्रवर्त्यतां रथः । अत्र च,
नवयौवनदुर्मदान्धनारीदुरितोपप्लवदूषिताऽपि जातिः ।
अनपायपतिव्रताप्रवाहैः अधुनाऽपि प्रलयं न याति सत्सु ॥ २५ ॥
तर्कः - प्रविष्टमिदं विविधतीर्थतपोवननिरन्तरं विन्ध्यहिमवतोरन्तरम् । अत्र च तीर्थयात्राचरितार्थस्सार्थवाहसार्थश्चिरतरोपोषितस्य चक्षुषः परां पारणां पूरयन् अनवधिकधर्मलाभसन्तोषेण गन्धसिन्धुरस्कन्धमधिरूढ इव ततस्ततः प्रसर्पति । (सर्वतोऽवलोक्य सविषादम्) हन्त! निरङ्कुशकलिबलसङ्कुचितनिगमवर्त्मनि चास्मिन् देशे प्राच्योदीच्यपाश्चात्यपाषण्डिगणकरम्बिते भग्नचरणत्रये च भगवति धर्मे प्रायशः परीक्ष्यमाणं न किञ्चित् स्थानमवशिष्यते । तथाऽपि मुरभिदवतारमुषितकलुषोऽयं संदृश्यतां साकेतजनपदः ।
अयोध्या दिव्येयं वहति सरयूरत्र विरजा विभोरेते यूपा विधिनियमनिर्मुक्तपशवः ।
अकुण्ठस्वातन्त्र्यः स्वपदमधिरोहन्नवसरे सहानैषीदेषः स्थिरचरमशेषं रघुपतिः ॥ २६ ॥
विवेकः - (सर्वतो दृष्टिं प्रसार्य)
उपवनशुकबृन्दैरुद्गृणद्भिस्त्रिवेदीं प्रतिकलमनुमेयप्राच्यधर्मानुबन्धम् ।
चिरगतजनघोषं तीरमेतत्सरय्वाः रघुकुलनृपतीनां शोभते रत्नयूपैः ॥ २७ ॥
(सहर्षपुलकोद्गममनुस्मृत्य)
विषयिभिरसौ वक्त्रैर्घोरं मनो रजनीचरं प्रशमयति यो युञ्जानानां प्रबोधशरोत्करैः ।
जनकसुतया देव्या जुष्टो दिशत्यभयं सतां दशरथसुतो देवः श्रीमान् दयामृतवारिधिः ॥ २८ ॥
(सकौतुकमञ्जलिं बध्नन्)
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजनस्वयंरक्षादीक्षासमधिकसमिन्धानयशसे ।
सुराधीशस्वैरक्षणकुपितशापायुधवधूदृषत्तादुर्जातप्रशमनपदाम्भोजरजसे ॥ २९ ॥
(विचिन्त्य) अये सूत अयमप्यद्य पाषण्डिमण्डलप्रचारखण्डितकार्तयुगधर्मो निवृत्तिधर्मनिष्ठैरनिष्ठुरबुद्धिभिः परित्यक्तो देशः।
तर्कः - देव! प्रतिपद्यतामियं तर्हि प्रादुर्भावभूमिरपरा ।
विवेकः - (मथुरां पश्यन्) अत्र खल्ववतीर्णमवनिभारमपजिहीर्षता सपर्यङ्केन वासुदेवेन । (सहर्षम्)
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमैः भूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिकारङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्यायते ॥ ३० ॥ (सर्वतोऽवलोक्य सहर्षम्) निरङ्कुशाः खल्वत्र भगवतः परिहसनवृत्तयः । स खलु,
हर्तुं कुंभे विनिहितकरस्स्वादु हैयङ्गवीनं दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन् मिथ्यागोपस्सपदि नयने मीलयन्विश्वगोप्ता ॥ ३१ ॥
अपि च,
वासो हृत्वा दिनकरसुतासंनिधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ ३२ ॥
हन्त सूत! मुरभिदुपभुक्तमुग्धगोपिकावृत्तान्तमुद्घाटयति संप्रति मथुरा ।
इमामधर्मेण विभाव्य विप्लुतामुदन्वता द्वारवतीमिवाधुना ।
न भावये संयमसंपदास्पदं न कालतः कस्य गुणव्यतिक्रमः ॥ ३३ ॥
तर्कः - (रथं प्राङ्मुखयित्वा) देव! परमपुरुषप्रादुर्भावपवित्रीकृतक्षेत्रद्वयविप्लवे क्षेत्रान्तरेषु का प्रत्याशा? तथाऽपि स्वाभाविकसुदर्शनचिह्नभूषितशिलाकलापसूचितभगवदभिमानविशेषः प्रागुत्तरः प्रेक्ष्यतां देशः ।
पुनरुपजनिभीतैः पुण्डरीकादिभिस्तैः चिरपरिचितपूर्वं श्रीहरिक्षेत्रमेतत् ।
सकृदपि विमलेऽस्मिन्मज्जतश्चक्रतीर्थे भवजलनिधिगर्तात् क्षिप्रमुन्मज्जनं स्यात् ॥ ३४ ॥
विवेकः - (दूरतः पश्यन्) पुण्यतमोऽप्यसौ भूभागः नेदानीं मम चेतसे रोचते । यतः,
अयमुपहतस्सालग्रामोपलान्तरवस्थितद्रविणकणिकालुब्धैर्देशो मलिम्लुचलुब्धकैः ।
बहुगुणपरब्रह्मप्रेक्षासुधाब्धिमनोरथैः मुहुरुपनतप्रत्यासेधैर्मुमुक्षुभिरुज्झितः ॥ ३५ ॥
तर्कः - इदं तर्हि भागीरथीतरङ्गधौतपर्यन्तभागभावितनियमैः परमर्षिभिरुप(सेवितं)शोभितं भवत्कटाक्षपात्रं भवतु वारानसीनामकनदीद्वयपरिगतोपकण्ठं वसुमतीललामभूतं वाराणसीक्षेत्रम् ।
विवेकः - (सबहुमानमवलोक्य)
लब्ध्वा तु मूर्तिमधरीकृतपूर्वरूपां रत्या समेत्य च रथाङ्गभृतः प्रसादात् ।
धर्मोपरोधमिह नेच्छति पुष्पधन्वा त्रैयम्बकात्प्रच(कि)लितो नयनात्तृतीयात् ॥ ३६ ॥
अपि च,
इह पुरुषमजानतां पुराणं नियतिवशेन निमीलतां दयालुः ।
उपदिशति पतिस्स्वयं पशूनामुपनिषदामपि दूरगं रहस्यम् ॥ ३७ ॥
अद्यत्वे पुनरतिचिरसमुपचितदुरितावलीमलीमसैरनाघ्रातभागवतधर्मैरवैदिकयवनतुरुष्काद्यभिन्नजातीयदेशाधिपतिसन्निधानलुप्तशौचाचारैः पुरुषैरविशेषितत्रिचतुरसाधुसमेतामेतां वाराणसीं समाधिसौधाधिरोहणसोपानभूतधारणाध्यानसिद्धिस्थानमिति न मन्यते चेतः । तथा हि,
सा काशीति न चाकशीति भुवि सायोध्येति नाध्यास्यते साऽवन्तीति न कल्मषादवति सा काञ्चीति नोदञ्चति ।
धत्ते सा मथुरेति नोत्तमधुरां नान्याऽपि मान्या पुरी या वैकुण्ठकथासुधारसभुजां रोचेत नो चेतसे ॥ ३८ ॥
(विचिन्त्य) अहो दुर्विलसितं महामोहस्य ।
विटविदूषकगायकवैशिकः विषमितेव विभाति वसुन्धरा ।
क्वनु निवेशमुपेत्य परं पदं विमृशता भवितव्यमिह क्षणम् ॥ ३९ ॥
तर्कः - देव, भवन्तमन्तरेण को नाम सदसत्परीक्षार्हः? आस्तामयमाजानशुद्धोऽप्यन्तिमयुगसङ्क्षोभगलितसौभाग्यो मध्यमदेशः । दक्षिणापथस्तु निरीक्षणीयः । तत्र हि मरुद्वृधादिमहानदीसेवितेषु श्रीरङ्गादिषु तेषुतेषु स्थानेषु नारायणपरायणा महान्तस्सांप्रतमपि सभवन्तीति पौराणिकाः पठन्ति ।
विवेकः - सूत, प्रमाणानुगुणवृत्तिः खल्वसि । किंत्ववधारितधर्मविप्लवमनार्यजनभूयिष्टम् अचिरादेव विन्ध्याचलपरिसरमतिलङ्घयेम । पश्य,
मिषतो विलोभयन्ती मृगतृष्णाभिस्तरङ्गिताभिरसौ ।
मरुभूमिरुज्झितरसा दुर्जनपरिषदिव दूरपरिहार्या ॥ ४० ॥
अयं चात्र हुतवहज्वालामध्यमध्यासीन इव दृश्यते पथिकः । आः कष्टम्!
अतिमथनगृहीतानन्धकूपस्य पान्थः कतिचन जलबिन्दून् कुण्डिकापीतशेषान् ।
करचरणकपोलेष्वर्पयन् गाढतापः कथमपि मरुभूमिं क्रामति क्लान्तदेहः ॥ ४१ ॥
अपि च, अत्र कतिचिदभिगतकुसीदवृत्तयः कृच्छ्रलब्धधनमुदितकृपणतरमानसाः कीकटाः पुरुषाः ।
न धर्ममनुवर्तन्ते न कामं नापुनर्भवम् । अर्थमेकमुपाश्रित्य दुःखमेवोपभुञ्जते ॥ ४२ ॥
एष चैषामाधिपत्यमारूढो नवधनमूढः ।
प्रलपति घूर्णते स्खलति मुह्यति हुङ्कुरुते न च पदवीमवैति न च धाम न च त्रपते ।
विकृतिशतप्रसूतिविषमाशयदोषभुवा धनमदिरामदेन धमतीव धरावलयम् ॥ ४३ ॥
अपि च,
अभिजनवयोविद्यावृत्तैरकिल्बिषकर्बुरैरतिशयभृतस्तृप्यन् मत्वा तृणाय महीयसः ।
नवधनमदक्षीबः क्षुद्रो नटप्रकृतिः क्रमात् नरकिगणनालेख्यारूढिं न किं प्रतिपत्स्यते ॥ ४४ ॥
हन्त, निरर्थिका खल्वीदृशपुरुषसृष्टिरीश्वरस्य । अथवा महीयसामुपकाराय ।
विदधातु धाम तमसा कृतेन किं यदि वा न वेत्ति न विधिर्न वा वयम् ।
प्रथमोपकारि चरमं यतस्ततः प्रतियोगिनो भवति तस्य सार्थता ॥ ४५ ॥
तर्कः - (रथवेगमभिनय,)
अतिक्रान्तो विन्ध्यः शबरगणभूयिष्ठगहनः पुरस्तात्किष्किन्धावनमथ च पश्चादपसृतम् ।
असह्यप्रारम्भा परिपतति सह्याद्रिशिखरात् असौ कावेर्याख्या सरिदमरसिन्धोरधिगुणा ॥ ४६ ॥
विवेकः - (परितोऽवलोक्य सविषादम्)
इमां मधुरपानीयां दक्षिणापथजाह्नवीम् । चोरैः परिवृतां मन्ये विद्यां कुमतिविप्लुताम् ॥ ४७ ॥
इह हि परित्यक्तपरिग्रहा अपि परिसरभाजः पाटच्चरगणजनितरणरणकचटुलचेतसः प्रवातकदलीन्यायेन वर्तन्ते । अपि च, अमी कलियुगधर्मसञ्चया इव कतिचन पुरुषा वसुमतीसुतनुहारायमाणानग्रहारानुपघ्नन्ति । तथा हि,
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसंपीडनम् ।
उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः ॥ ४८ ॥
तर्कः - अयं पुनरमुष्याः परिसरे पुरुहूतपुरोहिताभ्यधिकबुद्धिभिः पुराणपुरुषचरणारविन्दमधुकरायमाणमानसैः मनीषिभिरधिष्ठितो यदुकुलसार्वभौमस्य भगवतः परिग्रहात् प्रख्यातगुणसमाख्यः यादवाचलो नाम पर्वतोत्तमः । इह च,
कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद्द्रुहिणतन्त्रयन्त्रोदरम् ।
कुदृष्टिकुहनामुखे निपततः परब्रह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ ४९ ॥
अपि च, बादरायणादिभिरभ्यर्चिते दक्षिणबदरिकाश्रमे नारायणगिरौ,
लक्ष्मीकौस्तुभलक्षणेन वपुषा वाचं विनैव स्वयं श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् । विद्यावीचिसहस्रसंभ्रममिलद्दुग्धार्णवाडम्बरे स्थानं संयमिसार्वभौमविजयस्थाने विधत्ते विभुः ॥ ५० ॥
अमुं च,
कटाक्षलहरीमहःकबलितामृतस्तोमया विलोचनयुगश्रिया विवृतसर्वदानव्रतम् ।
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५१ ॥
विवेकः - (सकौतुकमवलोक्य सविमर्शम्) सूत! सह्यपर्वतप्रत्यासत्तेरसह्यपवनसंक्षोभसंत्रासितस्य दुर्बलबुद्धेः कथमत्रावकाशः ।
यद्वा तावदयं भवेदधिगुणो वासो यदुक्ष्माधरः कर्णालङ्कृतिविभ्रमं भजति यः कर्णाटदेशश्रियः ।
अन्यान्यप्यरविन्दलोचनपदानुध्यानमेधाविनां स्थानान्यालप कौतुकं मम पुनः सर्वत्र निर्वर्तते ॥ ५२ ॥
तदन्यतो रथं प्रवर्तय ।
तर्कः - (तथा कृत्वा) देव! दृश्यतामसौ दंभोलिदारुणपरशुदारितदुष्टराजन्यरुधिरभरभरितबहुमहाह्रदतर्पितपितृगणस्य
पात्रसात्कृतभूमण्डलस्य भगवतो भार्गवस्य दिव्यप्रायो निवासदेशः । अत्र हि,
नाहं नापि च मत्सुतो न च सुराः सर्वे न चामी सदा ध्यानारोपितचेतसो मुनिगणा जानन्ति विष्णोः पदम् ।
इत्थं नाभिसरोजशायिपृथुकव्याहारमाकर्णयन् शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५३ ॥
विवेकः - (दृष्ट्वा सहर्षमञ्जलिं बध्नन्)
क्रोधाग्निं जमदग्निपीडनभवं संतर्पयिष्यन् क्रमात् अक्षत्रामपि संततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन् अब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ५४ ॥
(विचिन्त्य) अयं खलु मलयाचलवासिना महर्षीणां निवृत्तिधर्ममुपदिश्य यथाधिकारं परिमितमतीनामिह प्रवृत्तिधर्मं प्रवर्तयन्नास्ते । अपि च,
बुभुक्षाभिक्षाकब्रुवपठितमिथ्यागुणगणा मुमुक्षूनक्षुद्रानिह मुहुरुपघ्नन्ति परुषैः ।
कदध्वोपानीतद्रविणकणदुर्मानमदिरागुणक्षैब्यक्षुभ्यन्मतिकलहकाकोलकलुषैः ॥ ५५ ॥
तर्कः - मलय एव तर्हि विलोक्यतां देवेन ।
विन्ध्यस्तम्भप्रकटमहिमा विष्वगाचान्तसिन्धुः कुंभीसूनुर्दनुजकबलग्रासदीप्तोदराग्निः ।
नाकाधीशं नहुषभुजगीकारदुर्वारशक्तिर्ब्रह्मापत्यं मुनिरिह वसन् राजते मुक्तकल्पः ॥ ५६ ॥
विवेकः - (उक्तमुपलालयन्) स कथमस्माभिः सुप्रेक्षः?
निरवधिमहिमा निरुद्धविन्ध्यो निगममहार्णवनित्यकर्णधारः ।
सुचरितमिव नः स्वयं स काले कतकनिभांशुरुदेति चेत्समीक्ष्यः ॥ ५७ ॥
तर्कः - देव! तस्येदमाश्रमपदम् ।
तापोन्मुक्तं दिवसमखिलं शर्वरी नातिशीता शाखारूढाः स्वयमिह शुकास्तत्त्वविद्यां पठन्ति ।
सिंहैस्सार्धं विहरति गणः सैन्धुरः शान्तवैरः तन्नः पुण्यैरिव परिणतं स्थानमेतत्समाधेः ॥ ५८ ॥
अमी च कुम्भसंभवानुगामिनामन्येषामपि महर्षीणामाश्रमाः ।
इह प्रशान्तेषु तपोवनेषु प्राधीत वेदान् प्रतिपन्नदीक्षान् ।
अन्वासते वह्निमतो यथार्हं छायाः सजीवा इव धर्मदाराः ॥ ५९ ॥
विवेकः - (सर्वतो निर्वर्ण्य) हन्त!
एलालिङ्गितचन्दना वनभुवो मुक्ताप्रसूतिर्नदी तांबूलीपरिणद्धपूगपटली कच्छोपकण्ठस्थली ।
काले दक्षिणमारुता विदधते कामाग्निसंधुक्षणं कुञ्जान्यत्र च भुञ्जते युवतिभिः स्वर्लोकशृङ्गारिणः ॥ ६० ॥
अतो मनुष्यभोग्यमिदं भौमं त्रिविष्टपम् । अत्र चैवं मनोहरतरे मन्मथकथापराङ्मुखा महर्षयश्चरन्तीत्याश्चर्यमेतत् ।
वयं पुनरन्यदास्पदमन्वेषयेम ।
तर्कः - देव! आलक्ष्यतामयमदूरादेव नलसेतुसंदर्शनोत्सुकमुनिजनगतागतविभवताण्डवितवैभवः पाण्ड्यदेशः । अत्र च,
सारस्सारस्वतानां शठरिपुफणितिश्शान्तिशुद्धान्तसीमा मायामायामिनीभिः स्वगुणविततिभिर्बन्धयन्तीं धयन्ती ।
पारं पारंपरीतो भवजलधिभवन्मज्जनानां जनानां प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम् ॥ ६१ ॥
विवेकः - (सहर्षभक्तिर्पुलकोद्गमम्)
निरञ्जनमयं जनः किमपि नेत्रमुन्निद्रयन् नमस्यति शठद्विषे नरकवैरिजीवातवे ।
अगस्त्यगिरिनिम्नगासुभगवीचिकासोदरस्वलक्षणसरस्वतीसुरभिकेसरश्लाघिने ॥ ६२ ॥
तर्कः - अन्यदपि किञ्चिदिहावलोकनीयं महाराजेन ।
अग्रे पश्य वृषाचलं क्षितिभृतामग्र्यं यदग्रे हरेः मञ्जीरोदकमाबिभर्ति महतीं मन्दाकिनीसंपदम् ।
नृत्यच्चन्दनगन्धवाहनियतव्यालोलचूडाटवीशाखाताडितचन्द्रमश्च्युतसुधाधाराभिसंवर्धितम् ॥ ६३ ॥
विवेकः - अहहात्र सर्वतः प्रसर्पिणी खल्वियं वृषगिरिपतेरनुकम्पा । (साञ्जलिबन्धम्)
त्वया जुष्टस्तुष्टिं भजति परमेष्ठी निजपदे वहन्मूर्तीरष्टौ विहरति मृडानीपरिबृढः ।
बिभर्ति स्वाराज्यं वृषशिखरिशृङ्गारकरुणे शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६४ ॥
(दक्षिणतोऽवलोक्य)
नलहस्तनिवेशितै(रुदग्रै)रदभ्रैर्हिमवन्मन्दरमेरुविन्ध्यशृङ्गैः ।
हरिचक्रपदक्रमैरसीदन्नुदधेरूर्मिगणं रुणद्धि सेतुः ॥ ६५ ॥
(विमृश्य) नलसेतुनिबन्धनयन्त्रितधरणीधरशिखरनिकरास्फालनमुखरतरदक्षिणोदन्वदूर्मिघोषजर्झरितजानपद(जन)कर्णरन्ध्रे नास्मिन्नपि देशे समाधिसंभवं संभावयामि । तदितः प्रागुत्तरं तु रथः प्रवर्त्यताम् ।
तर्कः - (तथा कृत्वा) देव! इयं पुनरविरलनालिकेरपङ्तिपरिवृतक्रमुकनवकुहलिकापरिमलानुरञ्जितपान्थजनहृदया चोलभूमिः ।
विवेकः - (परितोऽवलोक्य सोद्वेगम्)
इतस्त्वरितमन्यतः प्रहिणु सारथे! मद्रथं यदत्र कवयश्चरन्त्यपटुचित्तपाटच्चराः ।
द्रुतप्रचरणक्वणद्द्रुहिणसुन्दरीनूपुर(स्वन)ध्वनिप्रचयसूचनासुभगसूक्तिविष्फूर्तयः ॥ ६६ ॥
इह खलु संयमसिद्धिमिच्छतः पुरुषस्य सिद्धमपि विनङ्क्ष्यति । तथा च वृद्धिमिच्छतो मूलस्यापि नाशवदपहास्यता ।
तर्कः - (अग्रतो निर्दिश्य) देव! कथमिह निखिलनिगमहृदयान्तरङ्गमभङ्गुरप्रसरया भगवदनुकम्पया तरङ्गितविविधवैभवं रङ्गमपि नावलोकयसि ।
विवेकः - (विलोक्य) सूत! अनवरतविकसितकह्लारपरिमलानुबन्धादुल्लोकमहिमशालिनीभिः चोलभूपवनलहरीभिः
चुलकितसर्वेन्द्रियप्रवृत्तिना परमापातदृष्टिवि(भ्रा)श्रान्तेन न खलु मया (द्रा)प्रागेव सम्यगवधारितम् । (सान्तस्तोषम्)
निरातङ्कं रङ्गाध्युषितललितोदारपुलिनां चिरक्लिष्टा दृष्टिश्चुलकयति मे चोलतटिनीम् ।
यदृच्छानिद्राणत्रियुगशयनीयद्विरसनप्रतिच्छायान्तर्वत्पृथुमधुरवीचीपरिगताम् ॥ ६७ ॥
(साञ्जलिबन्धम्) घनकरुणारसौघभरितां परितापहरां नयनमहश्छटां मयि तरङ्गय रङ्गपते ।
दुरितहुताशनस्फुरितदुर्दमदुःखमषीमलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ६८ ॥
अपि च,
दास्यं लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे नित्यं किङ्करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लितभ्रुणि मुहुर्दत्तावमानाक्षरे भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां दृशम् ॥ ६९ ॥
(विचिन्त्य) अये सूत! अस्तु तावदिदमाद्यं स्थानम् । किमन्यदप्यावेदयिष्यसि?
तर्कः - (उत्तरतो निर्दिश्य) देव! इदं पुनः इहाखण्डभुवनशिखण्डकायमानं तुण्डीराभिधानं मण्डलम् । अत्र च,
किमपि विबुधमुख्यैः सेवितं क्षेत्रमेतद्भवभयशमनार्हं भाति सत्यव्रताख्यम् ।
निजसुतहयमेधे यत्र दिव्येन पुंसा क्षितिकलुषमशेषं क्षेप्तुमाविर्बभूवे ॥ ७० ॥
अयं खल्वेतद्देशवासिनामन्ववायसिद्धो निर्णयः ।
आत्मैक्यं देवतैक्यं त्रिकसमधिगतातुल्यतैक्यं त्रयाणामन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः । त्रैय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥ ७१ ॥ इति । इह च मुनिपरिषदनुगृहीतो मुक्तप्रायः कश्चिदाधित्सितवह्निमनुजानाति ।
इह बहुविधिसिद्धैः शोधकैरिन्दिरेशं प्रणिपतनमुखैश्च प्राज्यभक्तिः प्रसाद्य ।
प्रभुतरपरिपूतः कर्मयोग्यः प्रजानाम् अनुपधिसुहृदग्नीनाद(धीथा)धानो यजेथाः ॥ ७२ ॥ इति ।
विवेकः - (सहर्षबहुमानमञ्जलिं बद्ध्वा)
द्विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्यां श्यामलो हव्यवाहः ।
कलशजलधिकन्यावल्लरीकल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ ७३ ॥ (मुहूर्तमनुचिन्त्य)
संसारावर्तवेगप्रशमनशुभदृग्देशिकप्रेक्षितोऽहं सन्त्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः । निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ ७४ ॥
(सूतमवलोक्य) दृष्टमेव खलु निखिलं द्रष्टव्यम्?
तर्कः - इतश्च दीयतां दृष्टिर्देवेन । अयं खल्वधिगतपरावरतत्त्वयाथार्थ्यैः महात्मभिः अध्यक्षितमिव परमपदमनेकदेशदर्शनप्रयासपरिश्रान्तयोरावयोर्विश्रान्तिभूमिरिव भगवता स्वयमेव निर्मितो दूरादवलोक्यमानविकटतरहाटककूटविराजमानदशदिशावकाशः कलिबलप्रसारितसकलसङ्कटप्रशमनो वेङ्कटाद्रिरालक्ष्यते ।
पारे शृङ्गमिहादिपूरुषपदप्रस्यन्दिपाथस्विनीपाथःपातपरंपराद्भुतमहारण्ये शरण्ये सताम् । पारावर्यविवेकपक्त्रिमधियस्सत्त्वाश्च तत्त्वं परं पश्यन्तः प्रचरन्ति हन्त सुखिनः सर्वेऽपि निर्वैरतः ॥ ७५ ॥
इह खलु कश्चिदनादिपापवासनाजलधिकुक्षिंभरीमादिपूरुषकृपां भगवतीमनवरतमभिष्टौति ।
मृदुहृदये दये मृदितकामहिते महिते धृतविबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीं भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ७६ ॥ इति । अन्यदप्येतदनवरतमावर्तयति ।
निषादानां नेता कपिकुलपतिः काऽपि शबरी कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ ७७ ॥
विवेकः - (सबहुमानमवलोक्य साष्टाङ्गं प्रणमति)
सूतः - (सर्वतो निर्दिश्य)
श्रीरङ्गं वृषभाचलः करिगिरिर्दृष्टानि देव त्वया दीप्यन्ति द्रमिडेष्वमी च कतिचिद्देशाः प्रजेशार्चिताः । प्रत्यग्रोदितघोरपश्चिमयुगप्रक्षोभविक्षोभकेष्वेतेषु क्वचिदस्तु संयमविधिस्वास्थ्यं त्रिवर्गत्यजः ॥ ७८ ॥
विवेकः - सूत! सांप्रतमेव त्वया सांप्रतं प्रदर्श्यते । स्मर्यते च मुनिभिः - “निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः । तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्कराणि च ॥” इति । अपि च,
परिक्रान्ता पृथ्वी प्रणिधिपदमन्विष्य बहुधा कलिक्षोभग्रस्ते जगति न गतिः क्वापि सुलभा ।
अथाऽपि द्रष्टव्यं पुनरिह किमप्यादिमयुगक्रियायोग्यं किञ्चित् कथमपि मया स्थानमनघम् ॥ ७९ ॥
संभवन्ति च सर्वत्र श्रेयसामन्तरायाः । शमयितव्याश्च ते सर्वनिर्वोढारमेकमेव शरणमुपगच्छद्भिः । अपि च स्वयमेवाह भगवान् - “मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इति । अथ वा,
बहिर्भूतैरेतैर्विविधविनिपातस्थपुटितैः यदृच्छासंवादप्रचितगुणविख्यातिभिरलम् ।
प्रतिक्षिप्तावद्यं प्रवरगुणभूयिष्ठमधुना नियच्छाम्यन्तःस्थं किमपि यमिनः संयमपदम् ॥ ८० ॥
किं च,
पुरुषस्य पुराणस्य पुंसश्च शरणार्थिनः । अपृथक्सिद्धयोरेकमदूष्यं स्थानमान्तरम् ॥ ८१ ॥
इदमपि सारथे! मन्वीथाः ।
शुद्धाचारतपोवनैकनियतः प्रज्ञानशैलाश्रितः पद्माकान्तपदस्पृहासुरनदीनित्याभिषेकोज्ज्वलः ।
अध्यात्मश्रुतिचिन्तनेन तपसा निर्धूतदोषः पुमान् कस्मै कुत्र गमिष्यति स्थितमिदं कस्मै च निर्देक्ष्यति ॥ ८२ ॥
अपि च,
गङ्गासेतुसरस्वतीरविसुतागोदावरीनर्मदातुङ्गाशोणमरुद्वृधाप्रभृतिभिः तीर्थैरलं प्रार्थितैः ।
नित्यासन्नमशेषपापशमनं निःश्रेयसप्रापकं ग्रीष्मे शीतमिव ह्रदं बहुगुणं ब्रह्म प्रविष्टो मुनिः ॥८३॥
तद्वयं शुभाश्रयनिर्धारणेन धारणादिकक्ष्यासु विशदतमां वृत्तिं पुरुषस्य विभावयामः।
[इति ससूतो निष्क्रान्तः ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (स्थानविशेषसङ्ग्रहो नाम) षष्ठोऽङ्कः ।