पञ्चमोऽङ्कः
[ततः प्रविशति डम्भः कुहना च]
डम्भः - अहहारे त्वां धर्मपत्नि कुहने! संबोधयामि । त्वं हि मे तारेव बृहस्पतेः अहल्येव गौतमस्यास्पृष्टपुरुषान्तरा
क्षणविरहाक्षमा सहधर्मचारिणी ।
कुहना - जं बम्हणेसरो भणइ । तह वि ळज्जामि णिद्दिठ्ठादो णिदंसणादो । अरुन्धई विअ वसिट्ठस्सेत्ति वअणिज्जं घरसामिणा । जाहे अहं तक्करहिं किदवेहिं गामणीहिं णरिन्दामच्चेहिं पासण्डीहिं अण्णेहिं वि तारिसेहिं पत्थिदम्हि, ताहे वि ता तुमं एव्व सुमरिऊण सेवम्मि । [यद्ब्राह्मणेश्वरो भणति । तथाऽपि लज्जामि निर्दिष्टान्निदर्शनात् । अरुन्धतीव वसिष्ठस्येति वचनीयं गृहस्वामिना । यदाहं तस्करैः कितवैर्ग्रामणीभिर्नरेन्द्रामात्यैः पाषण्डिभिरन्यैरपि तादृशैः प्रार्थिताऽस्मि, तदाऽपि तांस्त्वामेव स्मृत्वा सेवे ।]
डम्भः - (सान्तर्हासम्) अत एव सर्वलोकपतिव्रता खल्वसि । अद्य पुनरनुगतानपि मे गार्हपत्यादीन् यतः कुतश्चिदानीतैरपि शुष्मभिः समादधानया यज्ञपत्न्या त्वया न कदाचिदपि मामकमग्निहोत्रं विच्छिद्यते । पर्वकालेषु च अनाविष्कृतपुष्पया त्वया दर्शपूर्णमासौ च नित्यमनुवर्त्यते । निर्वर्त्यते च पिण्डपितृयज्ञादिकम् । का कथा प्रायश्चित्तस्य?
कुहना - सन्तं पावं; सन्तं पावं । जाअम्मि खु विच्छेए समाहाणिज्जं । ण खु काहे वि अम्हघरे अग्गीणं विच्छओ । पसण्णाहिं खु कुळदेवआहिं णिच्चं रक्खिज्जन्ति अम्हाणं अग्गिणो । तह उप्पण्णं खु पुप्फं अणाविक्करणिज्जं । पत्तो वि अ पव्वसु ताहिं एव्व कुळदेवआहिं विळम्बीअदि पुप्फसमओ । [शान्तं पापम्, शान्तं पापम् । जाते खलु विच्छेदे समाधानीयम् । न खलु कदाऽप्यस्मद्गृहेऽग्नीनां विच्छेदः । प्रसन्नाभिः खलु कुलदेवताभिर्नित्यं रक्ष्यन्तेऽस्माकमग्नयः । तथा उत्पन्नं खलु पुष्पमनाविष्करणीयम् । प्राप्तोऽपि च पर्वसु ताभिरेव कुलदेवताभिर्विलम्ब्यते पुष्पसमयः ।]
डम्भः - साधु कुहने! साधु । अस्मत्सहधर्मचारिणी खल्वसि । बहु मन्ये त्वां ब्राह्मण्यप्रतिष्ठापिकां यज्ञपत्नीं परमश्रोत्रियधर्मपुत्रीम् । नित्यमेव खल्वशनायोदन्याभ्यामातुरस्य मे हरिवासरेषु मृष्टमपि भोजनमनाविष्कुर्वाणया त्वया प्राप्यते द्वादशीव्रतम् । प्रख्याप्यते च प्रतिगृहं साधनसंपत्तिसंभ्रमेण । किं तु किञ्चिद्रहस्यमुपदिशामि । सन्तीदानीमन्तिमयुगभूमिकाभेदा इव केचिदवधीरितसकलधर्माः प्रव्रजितवेषभाजः प्रकटितमायाविलासाः पूर्वदेवाः । ते च रावणधनञ्जयन्यायेन भवतीं जिघृक्षेयुः । अतो मत्समीपं कदाचिदपि नातिवर्तेथाः । न च परमब्राह्मणं मां मुहूर्तमपि त्वदन्याः परिचरितुमर्हन्ति । अहं पुनरधुना दिव्यादिव्यसर्वभोगसार्वभौमस्य राज्ञो महामोहस्यानुचितमाचरन्तमाततायिनं विवेकमभिचरितुं देव्या दुर्मत्या प्रार्थितोऽस्मि । यथा ‘वत्स डम्भ! विश्वधर्मोपप्लावकेन त्वया विवेकः प्रध्वंसनीयः’ इति । ततश्चाहं नित्यनिःस्पृहोऽपि दाक्षिण्यपरवशतया ‘षट्स्वनभिचरन्पतेत्’ इति महर्षिभाषितं चानुवर्तमानः कामप्यलक्ष्यां देवतामारिराधयिषुरास्थितनियमोऽस्मि । तन्मे दिव्यगङ्गाजलाप्लुतलोकपालपुरोहितोपनीतानि पारिजातपुष्पफलान्युपाहर ।
कुहना - हद्धि हद्धि! सअळाअमसारग्गहणविसारदो विवेओ समदमप्पमुहेहिं अमच्चअणेहिं संरक्खिओ कहं अभिचरिज्जइ? तारिसेसु पवुतो अभिआरो कत्तुणो एव्व वाहं आवहइत्ति सुणीअदि । [हा धिक् हा धिक्! सकलागमसारग्रहणविशारदो विवेकः शमदमप्रमुखैरमात्यजनैः संरक्षितः कथमभिचर्यते? तादृशेषु प्रयुक्तोऽभिचारः कर्तुरेव बाधामावहतीति श्रूयते ।]
डम्भः - अयि मुग्धब्राह्मणि! अविचारितास्मद्वैभवा किं भाषसे?
विद्याश्चतुष्कसहिता विदिता द्विसप्त क्षिप्रं चतुर्गुणितचन्द्रकलाः कलाश्च ।
काले च साधु विहिताः क्रतवः सहस्रं धर्मध्वजाश्च भुवनेषु मया निबद्धाः ॥ १ ॥
अयि परमधार्मिकसहधर्मचारिणि! आस्तामिदं तावद्विद्याचारमाहात्म्यम् । निःस्पृहत्वमपि निपुणमवधारय ।
निर्जित्य क्षितिमण्डलं भृगुपतिर्मह्यं प्रदातुं पुनः प्रह्वः प्रार्थयत न्यषेधि च मया विश्वं तृणीकुर्वता ।
अस्मद्वैभवदृष्टिसंभृतचमत्कारैरमर्त्येश्वरैर्दत्तौ धिक्कृतवानहं शमधनः स्वर्गापवर्गावपि ॥ २ ॥
कुहना - (सविमर्शम्) एव्वं णाम महप्पहावाणं तुम्हाणं विवेआभिआरो किं सेणो, अण्णारिसो वा जो वि को कि? जत्थ अहं सहधम्मआरिणी होम्मि । [एवं नाम महाप्रभावाणां युष्माकं विवेकाभिचारः किं श्येनः, अन्यादृशो वा योऽपि कोऽपि? यत्राहं सहधर्मचारिणी भवामि ।]
डम्भः - अयि महाश्रोत्रियधर्मपत्नि! महानुभावानामस्मदन्तेवासिनामत्यन्तरहस्यमिदमावेदयामि । सखीभ्यस्तृष्णादिभ्योऽपि नैतद्ब्रूयाः । न खलु श्येनादिवद्विशेषतो विहितोऽयमभिचारः । किं तु,
ये तु धर्मतयाऽधीतास्ते सर्वे मत्परिग्रहात् । अविशेषेण गच्छन्ति विवेकस्याभिचारताम् ॥ ३ ॥
कहना - सुट्ठु चिन्तिअं । को उण इमस्सिं परपीडणजण्णे तुम्हाणं उवदेसं कुणुज्ज? [सुष्ठु चिन्तितम् । कः पुनरस्मिन्परपीडनयज्ञे युष्माकमुपदेशं कुर्यात्?]
डम्भः - अहह! अयि मुग्धे! सर्वज्ञस्य मे किमन्येनोपदेष्ट्रा? सर्वेऽपि हि पण्डितंमन्या मामेवाश्रित्य संशयं प्रशमयन्ति । अथापि मयेदानीं साक्षिमात्रतया स्थापितः कश्चिदुत्कृष्टसर्वजनतिरस्कारको गर्वो नाम सर्वजनहृदयसंवादी महामोहसमयमहोपाध्यायः । तस्य चेदानीमागमनं प्रतीक्ष्यास्मिन् सिद्धाश्रमे नवकृत्वः पुण्याहपूते संभृतसंभारः सप्तर्षिभिः प्रदिष्टां ब्रसीमधितिष्ठामि ।
कुहना - जुत्तं आअरिअं । कज्जसिद्धी अ तुम्ह करगआ होज्ज । [युक्तमाचरितम् । कार्यसिद्धिश्च युष्माकं करगता भूयात् ।]
डम्भः - (निमित्तं सूचयन्) अस्मत्कुलधर्मपालिनि कुहने! स्पन्दते मम दक्षिणं चक्षुः । अद्यैव च सुहृत्समागमः संपत्स्यते । (पुरस्तादवलोक्य) कः खल्वसौ ज्वलत्प्रभाकञ्चुकितदुर्निरीक्ष्यमूर्तिर्महात्मा मध्यमं लोकमवतीर्यास्मदाश्रमाभिमुखमागच्छति?
[ततः प्रविशति परिगृहीतपृथुलपादुकः प्रतिक्षणविक्षिप्यमाणविकटभुजदण्डो दृढतरदण्डावलम्बितप्रतिज्ञापत्रिकापताको दर्पः ।]
दर्पः - अहं किल राज्ञा महामोहेन प्रकृष्टजनतिरस्काराय प्रणिहितः सकललोकतारतम्यदिदृक्षया परिक्रान्तः पितामहगृहान्मध्यमलोकमवतरन्नाचक्रवालमवलोकितदिशाचक्रवालः पुरन्दरपुरोगमैर्लोकपालैरभ्यर्चितः सुरभिमदिरासुधाचन्द्रपारिजातमणिवरवितरणमहावदान्येन मन्दरमन्थमथनसंक्षोभसर्वंसहेन मधुकैटभमथनबन्धुना सिन्धुना समाहृतं हारोपहारमाबिभ्राणः प्रत्यागतोऽस्मि भारतं वर्षम् । अद्य च,
त्रयोदशमिवादित्यं रुद्राणां द्वादशं तथा । मन्वीत नियतं लोको वसूनां नवमं च माम् ॥ ४ ॥
(विचिन्त्य सरोपहासम्) अहो नु खलु जगतो मौढ्यम्! येषामस्मदनुचरप्रतिनिधिपर्वण्यप्यवस्थानमपहास्यम्, तेऽपि मत्साम्यमाधिक्यं वा प्रतिलब्धुं मोघवृत्तिं मनोरथमारोहन्ति । इह हि,
छन्दश्छन्दितबुद्धयः पदविदः कल्पे विकल्पत्यजः शिक्षाशिक्षितमानसा विगणितज्योतिर्गणावृत्तयः ।
निर्णीतार्थनिरुक्तयस्त्रिविधया मीमांसया मांसला नृत्यन्तो नयविस्तरेषु सुधियः सर्वे मया खर्विताः ॥
(आकाशे) रे रे बालिश! किं ब्रवीषि? कुतस्तवेयं शिक्षा कीदृशी च परिचितिरिति? (सहस्तास्फालनं विहस्य)
विधिमन्तरेण विहगेन कुतः पयसोरशिक्ष्यत विवेकविधिः ।
कति वा दिनानि वद पर्यचिनोत्कलशीसुतः कबलयञ्जलधिम् ॥ ६ ॥
आस्तां तावद्विश्वतोमुखीयमास्माकी विद्या । अभिजनवृत्ताभ्यामप्यहं निःसमाभ्यधिकः । तथा हि, मद्वंशोद्भवयाजनार्हपुरुषाभावादमुष्मिञ्जगत्यागोत्रप्रथमादनध्वरतया प्रख्यातमस्मत्कुलम् ।
अप्रत्यक्षमनक्षपीडनविधिप्रागल्भ्यतः स्थापितं विष्वग्वृत्ति तपः परं किमपि मे विश्वाधिकं के विदुः ॥ ७ ॥
(पुरस्तात्पश्यन्) अह ह!
बहव इह नश्छात्रा बाह्याः कुदृष्टय इत्यमी मिषति विबुधस्तोमे मेरुं विगूहयितुं क्षमाः ।
प्रबलकुहनागम्भीराभिः प्रलोभनयुक्तिभिर्जडबधिरपङ्ग्वन्धप्रायं जगज्जनयन्ति च ॥ ८ ॥
अथवा, अनपह्नुतवद्भिरद्य यावत्प्रतिपक्षानिह किं प्रमाणवर्गैः ।
स्ववशे विनिवेशयामि विश्वं मणिमन्त्रौषधिवञ्चनोपजापैः ॥ ९ ॥
किमाह कश्चित् - प्रतिष्ठिते प्रमाणवर्गे कथं कैश्चिदेवं पाटच्चरवृत्तिः प्रतिपत्तव्येति? (सरोषहुंकारम्) पश्य, अरे ब्राह्मणा पशद! सार्वलौकिकं गगन(तल)मलिनिमप्रत्यक्षं किं न प्रामाणिकैः परिभूयते? अपि च,
षड्भिः पूर्वप्रणीतैरलमिह समयैः श्रद्दधानप्रमाणैर्वस्तुस्थित्यैकरूप्ये मतिविहतिहते कस्य कीदृग्व्यवस्था । अक्षुभ्यद्द्वित्रकक्ष्याव्यवहरणसहानस्मदुन्नीतनीत्या सिद्धान्सिद्धान्तभेदान्मदुपहितधियः प्रत्यवस्थापयन्तु ॥ १० ॥
(अपसव्यं पश्यन्) एते मगधकलिङ्गान्ध्रद्रमिडकर्णाटकेरलकोङ्कणादयो जनपदाः । अहह!
अष्टाचत्वारिंशतं बौद्धभेदान्नीचोक्त्याहं हेलया निर्मिमाणः ।
अध्यासीनो बोधिवृक्षस्य मूलं विद्यादर्पं वैदिकानामहार्षम् ॥ ११ ॥
ततः प्रभृति सुगृहीतनामानो नाममात्रनिःशेषितविपक्षाः सप्तद्वीपनिहितजयस्तम्भाः संचरन्त्यस्माकमन्तेवासिनः । अपि च,
अद्वैतं क्वचिदर्पितं क्वचिदिह द्वैतं मया साधितं द्वैताद्वैतसमाहृतिः क्वचिदसौ दुःस्था व्यवस्थापिता ।
तत्तद्भक्तिमुधाग्रहोदितकथाकल्लोलतो वादिनां मन्ये संप्रति मल्लमेषसमरप्रेक्षारसं प्राप्नुमः ॥ १२ ॥
(परिवृत्यावलोक्य) एते पुनर्यवनतुरुष्काद्युपप्लुताः प्रत्यन्तदेशाः । इह च,
वादद्यूतपणं प्रकल्प्य किमपि क्षिप्ताभिमानः क्वथन् कश्चिद्वैदिकपद्धतिं द्विजपतिः क्षिप्रं मया त्याजितः ।
अर्हद्बुद्धबृहस्पतिप्रभृतिभिः कॢप्तान्कृतान्तक्रमानन्योन्यव्यतिहारितानपि पठन्व्यामोहयत्यर्भकान् ॥ १३ ॥
अमी च पशुमृगपक्ष्यादिकल्पैरनार्यैरधिष्ठिता नास्मद्दृष्टिगोचरतामर्हन्ति । एतेष्वनिश्चिताक्षराः कक्षावलम्बितपुस्तका विस्तारितकूर्चभाराः केचिदेते विपश्चित इवाभान्ति । आः प्रतारितोऽस्मि गाढमापातदृष्टया । तथा हि,
अनियतबहुजल्पैरल्पबोधावलिप्तैरवमतगुरुवर्गैरत्रिवर्गापवर्गः ।
अभिनयविधुताङ्गैरङ्गुलीनृत्तसारैरलमिह जडभूभृत्पीठमर्दैरमीभिः ॥ १४ ॥
(उत्तरतो दृष्टिं दत्त्वा) कश्चिदिहासौ काश्मीरतो वा जलन्धराद्वा दक्षिणाभिमुखः समायाति । एतस्मात्तावत्प्रिययोरवस्थानं परिपृच्छामि । भद्र सुब्राह्मण! किं जानासि दुर्मतिसमादेशादद्रिराजपरिक्रमणाय प्रस्थितयोरस्मद्गृहिण्योरीर्ष्यासूययोरधुनातनं वृत्तान्तम्? (कर्णं दत्त्वा) किमाह? ते किल सुमतिसखीभिर्मैत्रीकरुणामुदितोपेक्षाभिः प्रतारिकाभिः कस्यां चिन्निवृत्तिपथसुरङ्गायां निरुद्धे इति । (सक्रोधम्) आः पापोऽयमलीकवादी ब्राह्मणवेतालः । रे रे दुरात्मन् वैधवेय श्रोत्रियब्रह्मराक्षस! कथं सर्वलोकाभिसरणेऽप्यस्मत्सहधर्मचारिणीत्वमनुज्झन्त्योर्महाभागयोरनयोरेतादृशमत्याहितं संभविष्यति? (निर्वर्ण्य) प्रागप्यवगतोऽयं पर्वतीयैर्व्याधपतिभिः प्रतिजनपदं प्रणिधिभावेन प्रेषितः पर्यटनशीलः कश्चित्पान्थः । (सपरिहासम्) अहो देशकालविशेषसंभवोऽयं दोषसमवायः । यथा,
श्वश्रूरस्य दिगम्बरव्रतवती संबन्धिनः सौगता माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः ।
जाया तिष्ठति सांख्ययोगसमये चार्वाकशिष्यः सखा मिथ्याचारसमाह्वयः स्वयमसौ विप्लावको वैदिकः ॥ १५ ॥
तदयं मिथ्याचारनामा व्याधप्रणिधिरलीकवादी चासंभाष्यो मादृशैर्महात्मभिः । एतदवलोकनदोषपरिहाराय दिवाकरमात्मानं वा पश्यामि । (विकटं परिक्रम्य) अहह महानद्योरिह गङ्गायमुनयोरमी मध्यमा जनपदाः । एतेषु चावधीरितबृहस्पतिप्रज्ञानामस्माकमनन्तसिद्धान्तसृष्टिकर्बुरमुपन्यासं प्रजापतिपशुपतिदत्तवरोऽपि कः पुनः प्रत्येष्यति? कुतः पुनरनुवादादयः? इह चापवर्गमार्गनिरोधोद्यतेनास्मत्स्वामिना समाहूतैरपरान्तवासिभिर्म्लेच्छभूपतिभिरधरोत्तरीकृता राजधान्यः । चरन्ति चात्र केचिदमी चक्रवर्तिनो डाम्भिकानाम् । एते च,
अयाचन्तः किंचित्स्वयमुपनतेऽनादरगिरो धनायाशैलूषीसहचरितसाकूतगतयः ।
निवृत्त्याख्ये धर्मे स्थितिमभिनयन्तो निरुपधिं नमस्यन्ते सद्भिर्नवमरसनाडिंधमदृशः ॥ १६ ॥
अपि च, हन्तैतत्कलेरनङ्कुशमाधिराज्यं; महामोहस्य वा तपसां परिपाकः ।
स्वतन्त्रवरवर्णिनीसुरतकेलिसौत्रामणीरसार्पितमनोभवां रहसि निर्विशद्भिः क्षपाम् ।
दिवा विविधभूमिकाविहितकञ्चुकैर्वञ्च्यते वियातकितवैरिदं वितथदत्तवित्तं जगत् ॥ १७ ॥
अत्र चामी म्लेच्छाधिष्ठितं देशमपरित्यजतां बहिरावरणमात्रसंरक्षितवर्णाश्रमधर्माणामनन्यगतिकानां द्विजानामग्रहाराः । एतेषु च,
संस्काराः परमुत्सवैकवपुषः सन्ध्या विनोदावधिः सावित्री जनवादजर्झरतनुः शौचं नटप्रायिकम् ।
इत्थं मोहमहीपतेरभिमते विश्वं विपर्यस्यतः कालस्यैष कलेरलेपकमतव्यक्तक्रमः प्रक्रमः ॥ १८ ॥
अहो नु खल्वयमपि महानत्र धर्मक्रमः ।
तरुणाकृतयः कचेषु कृष्णास्त इमे दम्पतयः सहैव साध्यम् ।
इतरेतरदैवतं भजन्ते मदनोपज्ञमजस्रमग्निहोत्रम् ॥ १९ ॥
अपि च,
प्रतिवीथिकमाश्रयन्त एते कुहनासूक्तिमयीं कुसीदवृत्तिम् ।
अपरीक्षितशिष्यमद्य सर्वे शुकवद्ब्रह्म पठन्ति शुद्धवेषाः ॥ २० ॥
(अन्यतोऽवलोक्य) एते चित्रार्पितमुक्तपुरुषसन्निभाः पुराणमठभित्तिकोणमाश्रित्य जोषमासते । (सूक्ष्मं निर्वर्ण्य) अहहामी दीर्घतरदर्भपूलपूरिताङ्गुलीविवरेण दक्षिणकरेण नासिकां कबलयन्तः प्राणसंशयेनापि प्राणसंयमनमभिनयन्ति । (सहस्तास्फालनम्)
अपटुफणितिभावाद्बिभ्रतो मौनमुद्रामनितरशरणत्वादादृतान्योन्यसङ्घाः ।
अगतिविहितभिक्षावृत्तयः केचिदेते चिरविधृततुरङ्गब्रह्मचर्या महान्तः ॥ २१ ॥
[सोपक्रोशं हस्तौ विधून्वन्]
अनल्पमदपित्तलैरनुपरुद्धमानग्रहैरजल्परणकर्कशैरपरिदृष्टतर्कक्रमैः ।
अतथ्यनियमस्थितैरनतिवृत्तडम्भोद्यमैरशिक्षितचमत्कृतैरलमसद्भिरेतादृशैः ॥ २२ ॥
(अन्यतो दृष्टिं प्रसारयन्) अमी पुनरमुष्टिमेययज्ञोपवीतसंछन्नवक्षसः करावलम्बिताक्षमालाः करचरणनयननासादिषु मन्त्रवर्णान्निरन्तरं न्यस्यन्तस्तीर्थयात्रोत्सुकपथिकसार्थयातायातपद्धतिपरिसरप्रतिष्ठापितं चेलाजिनकुशोत्तरमासनमधितिष्ठन्ति । हन्तैषां महायोगिनामत्यद्भुतं नैरपेक्ष्यम्, येन स्वयमप्यन्तर्हसन्ति । यतश्च,
डम्भस्येव ध्वजममितया मण्डितं दर्भमुष्ट्या द्राघीयांसं कमपि पुरतः संप्रतिष्ठाप्य दण्डम् ।
पादोपान्तप्रणिहितधनान्प्राणिनो भक्तिनम्रान्नावेक्षन्ते कितवमुनयो नामतस्तीर्थपादाः ॥ २३ ॥
अहहामी निरन्तरमान्तरं ध्यानमभिनयन्तः पुरः प्रतिष्ठापितां देवतामपि नोद्वीक्षन्ते । अभ्यर्णमागतानप्याचार्यमातापितृप्रमुखानर्धनिमीलितेन लोचनेनावलोकयन्तोऽप्यनवलोकनं नाटयन्ति? का कथा प्रणामादीनाम् । एतेषु च,
शमदमवृत्तसमाधिषु निःस्पृहभावे च नैष्ठिका डम्भाः ।
अयुतायुतांशकक्ष्यामडम्भडम्भस्य नाहन्ति ॥ २४ ॥
अयं पुनररिहानुपतितमार्जारधूर्तबकवृत्तीनां त्रयीविद्यातपस्विनामग्रगण्यो महातपाः,
शिक्षाविशेषनिभृताकृतिरूर्ध्वबाहुः प्रक्रीडयन्निव निजां तपसि प्रतिष्ठाम् ।
दर्भावृते क्षितितले निहितैकपादश्चित्रं सजीवमिव तिष्ठति डाम्भिकेन्द्रः ॥ २५ ॥
इतश्चायमेतादृशो यायजूकः,
अलिकचिबुकनासाजानुबाहूदराद्यैर्विवृतनतिविशेषो मृत्तिकालेपचिह्नैः ।
कनकगिरिमिवेच्छन्कश्चिदग्नीन्समिन्धे मुकुलितनयनार्धो मूर्तिमानेष डम्भः ॥ २६ ॥
(परिवृत्यावलोक्य) अहो नु खलु काषायदण्डमात्रशरणानां कलियुगसंन्यासिनां नैरपेक्ष्यम् ।
भिक्षेति शिष्यजनरक्षणदक्षिणेति शाटीति शाश्वतमठोपधिकल्पनेति ।
ग्रन्थोपसङ्ग्रहणमूल्यमिति ब्रुवाणाः संन्यासिनोऽपि दधते सततं धनायाम् ॥ २७ ॥
(सहर्षम्) नूनमीदृशपुरुषावष्टव्धे जीवलोके सिद्धप्रायं समीहितं महामोहस्य । अथाप्येतदिह सितासितनदीसंभेदे विवेकस्थानमिव किञ्चिदाभाति । यदुत,
आचारोदधिसैकतप्रतिनिधिर्मृत्पिण्डकूटः क्वचित्पापच्छेदनशस्त्रजालपरुषः कुत्रापि दर्भोत्करः ।
पूजाशेषितपुष्पपल्लवफलस्तोमः स्फुरत्यन्यतो मन्ये कस्यचिदेतदाश्रमपदं मान्यं महायोगिनः ॥ २८ ॥
अत्र च,
विरुद्धमतिकर्दमं विषयवृत्तिविन्ध्याटवीं त्रिवर्गमृगतृष्णिकां त्रिगुणवागुरायन्त्रणाम् ।
निवर्त्य नियमक्रमैः स्फुरति मुक्तवत्कोऽप्यसावपत्यमथ वाऽग्रजः सवितुरेष तातोऽपि वा ॥ २९ ॥
उपसर्पामि तावदेनम् । (इत्याश्रममासीदति । निमित्तं सूचयन् सहर्षम्) नूनमिह मे प्रियासमागममत्यासन्नमभिव्यनक्ति दर्शितस्पन्दलास्यं दक्षिणं चक्षुः ।
[ततः प्रविशति प्रव्रजितवेषधारिणी असूया]
असूया - अहं हि विवेकपरिपन्थिचूडामणेर्महाराजस्य महामोहस्य देव्या दुर्मत्या विश्वजनहृदयविस्रम्भकवेषपरिग्रहेण विदुषां चित्तमुपप्लावयितुमादिष्टा परिक्रान्तचतुर्दशभुवना प्रयागतीर्थमवगाह्य प्रतिगताऽस्मि भगवतो धर्मध्वजाख्यस्य कुलपतेराश्रमम् । निपुणमिहापि गुणवद्विषये दोषानुद्घाटयितुं चारतन्त्रं तन्त्रयितव्यम् । (स्वसामर्थ्यं बहुमत्य)
मयि दत्तावधानायां विश्वदोषापहारिणा । न शक्यमीश्वरेणापि निरवद्येन वर्तितम् ॥ ३० ॥
निरङ्कुशाः खलु मत्परिगृहीताः पुरुषा नित्यमविद्यमानमपि दोषं विद्यमानवदापादयन्ति । किमुत विद्यमानम् । तथा हि,
निरवधिगुणग्रामे रामे निरागसि वागसिस्फुरणमुषितालोका लोका वदन्ति सदन्तिके ।
वरतनुहतिं वालिद्रोहं मनागपसर्पणं परिमितगुणे स्पष्टावद्ये मुधा किमुदासते ॥ ३१ ॥
(परिक्रम्य) क एते प्रत्यासन्नसुरसरिदनूपनीपवनमहीतलनिहितयोगासनाः स्थिरतरपर्यङ्कबन्धबन्धुरनिभृतोन्नततरर्जुकायाः मुण्डजटिलशिखाजटा मुनयः । (निर्वर्ण्य) हन्त विदितमेतत्! (सान्तर्हासम्)
स्तनभरनतमन्तर्ब्रह्म संचिन्तयन्तः पुलकितनिभृताङ्गाः पुष्पबाणागमस्थाः ।
विजितकरणवर्गा विश्रुतात्मान एते मुषितनिखिलधर्मा मुक्तभावं भजन्ते ॥ ३२ ॥
नामतश्चैतान्निर्दिशामि ।
श्रद्धायाजी षड्रसब्रह्मवादी कामैकान्ती काकिणीनिष्कदासः ।
मार्जाराणां कुक्कुटानां बकानां छात्रा एते सिद्धचार्वाकतन्त्राः ॥ ३३ ॥
स्वस्ति चैतादृशां स्वोपकारमात्रसंरम्भाय । दृश्यते हि,
नवदलपुटे कल्प्या यस्य प्रभोरपि तल्पधीर्नटपरिबृढो यस्याधस्ताच्छ्रमं शमयिष्यति ।
वटविटपिनस्तस्याङ्कूराननुत्कटपल्लवान्स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणमीक्षते ॥ ३४ ॥
(आकाशे कर्णं दत्त्वा) किं ब्रूथ भिक्षवः? प्रव्रज्यापरिग्रहः परिवदनं चेति विप्रतिषिद्धमिति? ही ही! निगृहीता एव यूयं स्ववचनविरोधेन । प्रव्रजिताः खलु भवन्तोऽपि स्वगृहेभ्यः, परिवदन्ति च मामिति । (अन्यतोऽवलोक्य) अयमपरः कश्चिदिह रौक्मकुण्डलदण्डकमण्डलुमण्डितः कटितटनिबिडनिगुम्भितदर्भरज्जुः अष्टगयाश्राद्धभोजननिरन्तराध्मातकुक्षिरनवरतविरचितहुङ्कारभर्त्सितपुरोवर्तिजन इतस्ततो दत्तदृष्टिस्तृणीकृतजगत्त्रयस्त्रैविष्टपैरपि दुष्प्रवेशं धर्मध्वजस्य कुलपतेराश्रममुपजिगमिषति । इमं तावदाश्रमद्वारोपरोधेन तस्थुषी विशेषतो विविदिषामि ।
दर्पः - (उपसृत्य प्रश्रयमभिनयन्) अयि भगवति! भारतकथाप्रसिद्धवैभवा प्रव्रजिताश्रमाधिदेवताकल्पा प्रत्यायितयोगसिद्धिः *सुलभेव (*सुलभाया उपाख्यानं महाभारते शान्तिपर्वणि ३२५ तमाध्याये सुलभम् ।) संदृश्यसे । तदहमिह ग्रामकुलगोत्रादिभिर्विशेषतस्त्वां विजिज्ञासे ।
असूया - भद्र! अन्तिमाश्रमप्रविष्टैरवक्तव्यं पृच्छसि । अप्रणम्य तु मां कथं यूपवत्तिष्ठसि?
दर्पः - वयःकर्मविद्यादिभिरधिकोऽहम्, आश्रमाधिका तु भवती । इह तु नन्तृनन्तव्यभावे संदिहानस्तिष्ठामि ।
असूया - अथ तर्ह्यस्मिन्नाश्रमे योऽसौ कुलपतिरशेषधर्मविदास्ते, तमेव धर्मसङ्कटं पृच्छावः ।
दर्पः - यदभिमतं भवत्यास्तदभ्युपगच्छामि । तिष्ठत्वयं विमर्शः । किं तु किञ्चिदन्तर्वर्तते ।
भवतीं संनिवेशेन भाववीक्षितचेष्टितैः । अनुभूतचरीं मन्ये वेषस्तु विषमस्तव ॥ ३५ ॥
असूया - अहमपि दृष्टपूर्वमिव भवन्तं भावयामि । तिष्ठत्वयं विमर्शः । परमहंसपरिव्राजकैरपि महानुभावैर्वृत्तवद्धेति क्रियासमभिहारेण वन्दितपादां महाभागां मामप्रणम्य दीपदण्डवत्तिष्ठतः पाण्डरपटस्य ते प्रायश्चित्तिं ब्राह्मणेन विधापयितुं तव च शुद्धिमापादयितुमिच्छामि ।
दर्पः - (स्वगतम्) परिगृहीतान्त्याश्रमा प्रगल्भमिव किमपि प्रजल्पति । (प्रकाशम्; सविचिकित्सम्) अस्तु तर्ह्यसावाश्रमस्वामी प्रष्टव्यः । [इत्युभावुपसर्पतः । डम्भः उभौ दृष्ट्वा मौनव्रतमभिनीय पत्नीं चेष्टया चोदयति ।]
कुहना - (ससंभ्रममुपसृत्य) भद्द बम्हण! भअवइ सण्णासिणि! तुम्हेहिं अम्हघरवइसआसादो दूरे ठादव्वं । दीहमग्गागमणदूसिआणं तुम्हाणं अकिअमज्जणाणं अच्चासत्ती दूरपरिहरणिज्जा । मन्तसिद्धिपरिपन्थिणी अ तुम्हाणं छाआ महाजोइविग्गहे मा होज्ज । णं खु महप्पाणो वि मुणिअणा दूरे पणमन्ति । तेहिं वि उवणीअं भाईरहीसळिळं ण काहे वि घरसामी हत्थेण घेप्पइ । [भद्र ब्राह्मण! भगवति संन्यासिनि! युवाभ्यामस्मद्गृहपतिसकाशाद्दूरे स्थातव्यम् । दीर्घमार्गागमनदूषितयोर्युवयोरकृतमज्जनयोरत्यासत्तिर्दूरपरिहरणीया । मन्त्रसिद्धिपरिपन्थिनी च युवयोश्छाया महायोगिविग्रहे मा भूत् । एनं खलु महात्मानोऽपि मुनिजना दूरे प्रणमन्ति । तैरप्युपनीतं भागीरथीसलिलं न कदाऽपि गृहस्वामी हस्तेन गृह्णाति ।]
दर्पः - अतिमहानयमपूर्वदम्पत्योर्युवयोधर्मनियमः । अपि च वयमाप्लुता गङ्गायमुनासंगमे पुण्यतमैश्च मन्त्रैः पुनः पुनः प्रोक्षिताः । आदित्यवत्तेजस्विनां स्वयंप्रकाशविग्रहाणामस्माकं किं त्वया च्छायोपलभ्यते? लभ्यते तु परं निरयपातः । अहह सर्वलोकसंभावितं सर्वाधिकं मामतिथिमिमां च परमहंसपरिव्राजिकामन्योन्यनन्तृनन्तव्यभावसंशयनिर्मोचनाय समधिगतावनादृत्य नूनमसौ ते पतिराश्रमापस्मारो मौनव्याजेन स्वमौढ्यमेव प्रच्छादयति ।
(डम्भः सभ्रूक्षेपं हुङ्करोति ।)
कुहना - (सरभसमुपसृत्य करतलेन मुखं पिधाय) महप्पहाव धम्मध्धअ! वाअणिअमं जोग्गेण कम्मणा मोक्कूण जोग्गाणं अइहीणं जोग्गं पडिवअणं दाअव्वं । [महाप्रभाव धर्मध्वज! वाङ्नियमं योग्येन कर्मणा मुक्त्वा योग्ययोरतिथ्योर्योग्यं प्रतिवचनं दातव्यम् ।]
डम्भः - (प्राणसंयमनमभिनीय प्रणवमुद्घोष्य स्वगतम्) अकामोपनतमिदमसंभाप्यसंभाषणम् । (प्रकाशम्) रे रे व्रात्यब्राह्मण मूढजनर्धाभिषिक्त! स्वमौढ्यप्रच्छादकं मां (मूढं) प्रख्यापयसि । दिष्ट्या खलु मया तपःसंक्षयभीरुणा नैतावन्तं कालं शप्यसे । शप्ताः खलु मया कति कति भस्मसात्समपद्यन्त । अविदितपूर्व दुराचार! दूरं गच्छ गच्छ । मा ते भून्मम दृष्टितेजसा भस्मीभावः ।
दर्पः - (सक्रोधम्) रे रे मूढ! द्विजातिरिति जातिबहुमानादेव मया पादेन शिरसि न ताड्यसे । अपि च,
तुण्डीरं मण्डलं मे कुलपतिरपि च स्कन्दभूपालवन्द्यः क्षेत्रं सत्यव्रताख्यं क्षितितलतिलकं क्षुद्रकाञ्च्यग्रहारः ।
प्रख्यातः शिष्यभूम्ना दिशि दिशि भवता कूपकूर्मोपमेन स्थाता वादाहवेषु स्थविर कथमहं न श्रुतो नापि दृष्टः ॥ ३६ ॥
(विहस्य) अहो महाडाम्भिक! अविदितमदीयाचार! किमिति दुराचार इत्युपक्रोशसि? अथवा कः खलु मया विना मत्प्रभावज्ञः? यस्य मे महायोगिनोऽपि अभिजनविद्यावृत्तेषु षोडशीमपि कलां नार्हन्ति, किमुत पृथग्जनाः । अत एव हि श्रोत्रियानपि त्रिवर्षपूर्वान्न नमस्करोमि । किं न वेत्थ मामकं धर्मप्रवर्तनाभिसन्धिम्?
रथ्यावादविशङ्क्यमानजरठासंबन्धिसंभाषणात्त्यक्ता हन्त पतिव्रता गुणनिधिः सत्रासमम्बा मया ।
विद्यातश्च विवाहतश्च विदितादाचारतश्च क्षितौ कूटस्थाभ्यधिकस्य मे किमधिकः को वा समः कथ्यते ॥ ३७ ॥
डम्भः - रे ब्रह्मबन्धो, दुर्विनीत, दुराग्रह! यद्येवं त्वमास्थितसमाचारः किं न परिव्राजिकां प्रणमसि? पितरमिव सर्वलोकाभ्यर्चितं विदितसकलवेदितव्यैर्महात्मभिरप्यविदितवैभवं त्रिवर्षपूर्वं श्रोत्रियं मां, धर्मपत्नीं च मम पतिव्रतावृत्तिनियमेन प्रत्यक्षितपरावरतत्त्वैरपि पितामहादिभिः क्रियासमभिहारेण कृतनमस्कारां किं नाभिवादयसि?
दर्पः - हे धर्मध्वज! आत्मश्लाघापातकिन्! अद्य खलु पूज्यपूजाव्यतिक्रमेण कपूयां योनिं प्रतिपत्स्यसे; श्वयोनिं वा चण्डालयोनिं वा । अहमपि सर्वलोकसञ्चारी त्वदभ्यर्चकं क्वापि कमपि न पश्यामि । (सोच्चैर्हासम्) भो जडवञ्चक!
प्रजानां पतयो दृष्टाः पशूनां बृहतामपि । न च त्वमधिकस्तेभ्यो न चास्मान्बहुमन्यसे ॥ ३८ ॥
नूनमधिकजनपरिवादेन सहसैव निरयं गमिष्यसि ।
कुहना - भअवइ! एसो दुब्बम्हणो महेसिपरिवाएण विणासं पडिवज्जइ । [भगवति! एष दुर्ब्राह्मणो महर्षिपरिवादेन विनाशं प्रतिपद्यते ।] असूया - अयि धार्मिकपत्नि! दुर्ब्राह्मणीव किमिति नामाभ्यागतमतिथिमधिक्षिपसि? किं तु अन्योन्यपरिवादिनावेतौ महानुभावौ क्षणमावाभ्यां क्षन्तव्यौ ।
डम्भः - (सक्रोधम्) रे रे वाचाटवायस! सारमेय इव वृथा पर्यटनशीलोऽसि । तथा हि,
जातिमात्रशरणा बहिष्कृताः केचिदादृतजघन्यवृत्तयः । रोषणा विपरिधाविनो मुधा ह्रेपयन्ति जनमुज्झितह्रियः ॥ ३९ ॥
दर्पः - (सहस्तास्फालनं विहस्य) यथावस्थितवादिने मह्यं मर्कट इव किमिति कुप्यसि?
डम्भः - रे रे स्तम्भ इव वृथास्थूलस्त्वं विश्ववृत्तान्तं न जानासि?
मयि चरति कदाचित्सत्यलोकोपकण्ठे सपदि सनकमुख्यैः साकमभ्युज्जिहानः ।
सविनयनिभृताङ्गः सप्तशः क्षालितेन स्वयमुदवहदर्घ्यं पाणिना पद्मयोनिः ॥ ४० ॥
कति कतीह पुरातनतापसाः कमलसंभववंशसमुद्भवाः ।
अतितरन्ति महान्त्यपि पातकान्यहह मामकपादजलाप्लुताः ॥ ४१ ॥
कुहना - सच्चं एदं, दिट्ठं मए वि सहधम्मआरिणीए । [सत्यमेतत्, दृष्टं मयाऽपि सहधर्मचारिण्या ।]
दर्पः - (स्वगतम्) नूनमयमार्यो डम्भः, इयमपि कुहना । न खल्वन्येषामीदृशं चारित्रमतिवदनं वा संभवति । तदेतावेवास्मद्बन्धुभूतावभ्युपगमयामि । (प्रकाशम्) भगवति विश्ववेदिनि! युक्तिसिद्धमिह किमपि भगवत्यै निवेदयामि ।
परधनहरणप्रवीणभावा कुटिलमतिः कुहनैव सेयमार्या ।
पशुवधपरिशेषनामयज्ञः स्ववशजनः स्वयमेव डम्भ एषः ॥ ४२ ॥
तत्कथमेतत्सकाशाद्धर्मसङ्कटं मोक्ष्यावः ।
असूया - अहमप्येवं संभावयामि ।
डम्भः - (सान्तर्हासम्) युवामप्यहं युक्तितः स्थापयामि ।
ध्रुवमत्र गुणोत्तरापवादी ध्वनिसारः स्वयमागतोऽसि दर्पः ।
परिकल्पितवीतरागवेषा तव भार्यैव भवेदसावसूया ॥ ४३ ॥
(नेपथ्ये) गृहपतिरतिथिश्च सत्यवादिनावेतौ गौडलाटधार्मिकौ ।
[सर्वे सप्रत्यभिज्ञं परस्परमवलोक्य सन्तोषमभिनयन्ति]
डम्भः - (सानन्दम्) सखे दर्प! अभिव्यञ्जिता वयमशरीरिण्या भारत्या ।
दर्पः - अवितथवादिनी खल्वेषा । तदार्येणापराधो मामकः क्षन्तव्यः ।
डम्भः - मयाऽपि खल्वपराद्धम् ।
(डम्भदर्पावन्योन्यमञ्जलिं बध्नीतः; निबध्नीतश्च प्रियवचनम् । असूयाकुहने गाढं मिथः श्लिष्यतः ।)
डम्भदर्पौ - यथामनोरथमिह वयं यदृच्छया देव्या समागताः । अभिगन्तव्यस्त्वनन्तरं समये महाराजः ।
[ततः प्रविशति महामोहो दुर्मतिश्च ।]
महामोहः - (विचिन्त्य) प्रिये! महासाहसिकस्य कुलघ्नस्य विवेकस्य विध्वंसने कृतप्रतिज्ञेन मया समाधिसाकाङ्क्षापुरुषसंक्षोभणाय प्रेषिताः सिंहवनगुप्तिन्यायेन परस्पराभिरक्षिताश्च कामक्रोधादयः कालोपपन्नकातर्यकलुषिताः सैकतसेतव इव भग्नव्यूहाः प्रतिनिवृत्य कथमप्यस्मन्मुखमवलोकयितुमक्षमाः प्रतिदिशं प्रस्थाय प्रायोपवेशमास्थिता इत्युपश्रुतमस्माभिः । तदिह भवत्या तत्प्रेयसी रतिजिघांसातृष्णास्तत्सकाशं गमयित्वा मामकास्ते मन्त्रिणः समाश्वासयितव्याः ।
दुर्मतिः - अय्यउत्त! पुव्वं एव्व ताओ ताणं समीवं गमिआओ । [आर्यपुत्र! पूर्वमेव तास्तेषां समीपं गमिताः।]
महामोहः - साधु, प्रिये साधु! यदस्मद्वल्लभोचितमनुष्ठितं भवत्या । प्रत्याश्वस्तास्ते समरसमये समाह्वातव्याः ।
दुर्मतिः - एव्वं एव्व । [एवमेव ।]
महामोहः - (विषादातिशयं नाटयन्) प्रिये! अद्य यावदप्रतिहतकीर्त्तिरपत्रपेऽहमसदृशेन दुरात्मना विवेकेन सह विवादः संवृत्त इति । यथा त्वं नारीषु निःसमाभ्यधिका, तथाऽहं पुरुषेषु । यतः,
सुरदनुजगणाः स्वमूर्ध्नि नित्यं निदधति शासनपत्रिकां मदीयाम् ।
प्रतिफलितलिपिप्रकारदीव्यन्मणिमकुटांशुमषीरसानुलिप्ताम् ॥ ४४ ॥
अपि च,
वर्गः स्वर्गसदां मया नियमितः क्षोणीभृतः किं पुनः पद्माम्भोनिधिपर्वतेषु निहितास्तिस्रो मया मूर्तयः ।
विश्वं कर्तुमकर्तुमन्यथयितं मद्भ्रूरमोघक्रमा सोऽहं कस्य वशे क एष न च मे किं कस्य वा कथ्यते ॥ ४५ ॥
(स्वगतम्) किं तावदद्य केनापि हेतुना प्रदीप्यमाने विवेके प्रतिविधातव्यम्? अस्तु, नन्वहं महामोहः । (प्रकाशम्) प्रिये! यद्यपि सर्वत्र मया प्रवर्तिताः समयभेदाः कैश्चिदौपनिषदापशदैरहस्करकिरणा इव घनैः किञ्चिदन्तर्धापिताः, यद्यपि च कामादयश्चिकीर्षितवैकल्यजनितवैलक्ष्यवशादनालक्ष्या गूढमासते, तथाऽपि भेदमभेदं च वस्तूनां पूर्वपक्षसिद्धान्तौ च सर्वत्र विपर्यस्य विश्वं व्यामोहयामि । अथ वा पुनरहमहङ्कारादिसंमतमचरमप्रमाणप्रधानमलौकिकार्थकल्पनादुर्व्यसनहीनमर्थकाममात्रपुरुषार्थहृद्यमवितथं सिद्धान्तं गम्भीरयुक्तिभिरुत्तम्भयन्वृथोत्साहमेव जडमतिं विवेकं विधित्सामि ।
अहह,
पृथिव्यापस्तेजः पवन इति तत्त्वानि मिलितैरमीभिश्चैतन्यं भवति मदशक्त्यादिनयतः ।
किमात्मा दृष्टोऽन्यः किमुत वपुषि ध्वंसिनि सुखं तदेतद्वागीशः समतनुत लोकायतमतम् ॥ ४६ ॥
उपनिषदपि खलु बलवदभिमतसमयबलीयस्त्वमभिसन्धाय व्यवस्थापयति ‘असुराणां ह्येषोपनिषत्’ इति । तदिह त्रय्यन्तवादिभिरुपनिषत्प्रामाण्यसमर्थनमप्यस्माकमरातिकरलिखितविजयपत्रायते । अपि च,
स्वमतविपरीतमन्यैः क्रोशति हृदये विधीयते स्वैरम् । अमरगुरुशिक्षितार्थैरस्मत्सार्थैर्यथाहृदयम् ॥ ४७ ॥
दर्मतिः - अय्यउत्त! पच्चक्खमत्तप्पमाणो बुहप्फइसिद्धन्तो बहुप्पमाणसाहिअपरोख्खविसआणं बहूणं इदरसिद्धन्ताणं पुरओ कहं ठाइ? [आर्यपुत्र! प्रत्यक्षमात्रप्रमाणो बृहस्पतिसिद्धान्तो बहुप्रमाणसाधितपरोक्षविषयाणां बहूनामितरसिद्धान्तानां पुरतः कथं तिष्ठेत्?]
महामोहः - प्रिये! नूनं स्वमतप्राबल्यबुभुत्सया परिपृच्छसि । तदेतदाकर्ण्यताम्,
परमनुगुणयन्तः पण्डितंमन्यवर्गानवितथमिव जल्पन्त्यागमाः किञ्चिदेते ।
विबुधगुरुमतेऽस्मिन्व्यक्तमुत्तभ्यमाने मुषितनिखिलसारा मौनमुद्रां भजन्ते ॥ ४८ ॥
न खलु सहस्रमपि प्रतिसूर्याः कदाचिदपि सूर्यमभिभवन्ति ।
दुर्मतिः - अय्यउत्त! पबळअमे इमस्सिं पुरन्दरपुरोहिअमए का भुत्ती को वा भोओ का वा देवआ? [आर्यपुत्र! प्रबलतमेऽस्मिन्पुरन्दरपुरोहितमते का मुक्तिः, को वा भोगः, का वा देवता?]
महामोहः - श्रूयतां तावदवहिततया ।
शरीरप्रलयो मुक्तिर्भोगस्तु रतिरुत्तमा । देवतास्तत्प्रदायिन्यः स्त्रियस्तारुण्यभूषणाः ॥ ४९ ॥
एवं च देवि! परमार्थदर्शिन्यास्तव प्रत्यक्षत एवैते परिप्रश्नाः प्रत्युक्ताः । अपि चास्माकं विवेकरूपवैरिविजये एतासामेव प्रत्यक्षदेवतानां प्रसादः प्रधानकारणम् ।
दुर्मतिः - होदु णाम पसादो इत्थिआणं सळ्ळावजोग्गाणं सचेअणाणं देवआणं । तेण कहं विवेओ विजेउं तिरिज्जइ? [भवतु नाम प्रसादः स्त्रीणां संलापयोग्यानां सचेतनानां देवतानाम् । तेन कथं विवेको विजेतुं तीर्यते?]
महामोहः - इत्थं नाम,
अपि तपसि रतानामप्यधीतागमानामपि यमनियमाद्यैरन्वहं शिक्षितानाम् ।
शिथिलयति समाधिं शिल्पिहस्तानपेक्षं वरतनुमयचित्रं वासनाभित्तिलग्नम् ॥ ५० ॥
पठन्ति चौपनिषदाः परिहृतविषयानुरागतया परमपुरुषमुपसन्नस्यापि जक्षणादिकमक्षीणविहृतिशालिनीभिरुपभोगं चेति महदिदं सारस्यम् । न खलु वृश्चिकभयात्पलायमानैराशीविषमुखे निपतितव्यम् । अपि च,
तमिस्राशीतांशुस्तबकवियदावर्तघटितैः प्रकॢप्तानां रम्भामणिमुकुरतूणीरनलिनैः ।
स्मरन्तः के धैर्यं दधति युवतीनामभिमुखं स्मरस्कन्धावारप्रचलितपताकाप्रतिभुवाम् ॥ ५१ ॥
अहह! अनादिशुद्धतया संमतानां वैकुण्ठवैमानिकानां वैनतेयादीनामाजानसिद्धाः कति कति विलासिन्यः श्रूयन्ते । श्रूयते किल सकलसंसारनिवर्तकः सर्वेश्वरो लक्ष्मीभूमिनीलानायकः । तदिह कामपुरुषार्थप्रतिक्षेपकैः कापेयवृत्तिभिः प्रतिभटनगरदिधक्षानिक्षिप्तेन पावकेन स्वनगरमपि दंदह्यते । यश्चासौ मोक्षप्रद इति मुमुक्षुभिरुद्घुष्यते, स च,
सत्त्वप्रवर्तकः सन्सह प्रियाभिः पुराणपुरुषोऽपि । बहुमुखभुजङ्गसङ्गी विहरति विविधासु राजधानीषु ॥ ५२ ॥
ततश्चार्वाकपक्षप्रतिक्षेपो दिव्यदम्पतिसमर्थनं चेति शतप्रदानप्रतिक्षेपिणो महाप्राज्ञस्य पञ्चविंशतिप्रदानवचनवदपहास्यम् । किं च,
मूढग्राह्यान्मोक्षधर्मप्रबन्धान्निर्मातॄणां निष्प्रमादप्रयुक्तः ।
भोगप्राप्त्यै कल्पते भूरिभूम्नां ब्रह्मादीनां ब्रह्मचर्यप्रयासः ॥ ५३ ॥
(कर्णं दत्त्वा) किं ब्रवीति कश्चित्?
दाम्पत्यं सहजं समस्तजगतां पित्रोस्तदिच्छावशात्कामिन्यादिविभागकॢतिरपि तत्कैङ्कर्यसिद्ध्यै नृणाम् ।
इत्थं शेषमशेषमद्य तु भवत्सारस्यसंवर्धकं वैरस्यं विदधाति हन्त विदुषां वैरोचनं दर्शनम् ॥ ५४ ॥
(सक्रोधम्) कः कोऽत्र भोः! उत्सार्यतामसौ दृष्टिगोचराद्दैष्टिकदिवाभीतः । (इत्यवज्ञां नाटयति ।)
दुर्मतिः - अय्यउत्त! मम किळ णिहिळाओ कामिणीओ दासीओ । ताहिं एव्व तुह विवेअविअओ त्ति सम्पण्णबहुमाणम्हि । (विचिन्त्य) पच्चक्खमिद्धपरमाणन्दजुवइसम्भोअप्पहाणं तुह सिद्धन्तं मुअन्तो किं त्ति ठिरप्फहाणेसु तेसु तेसु मएसु पउराअरा जणा होन्ति? [आर्यपुत्र! मम किल निखिलाः कामिन्यो दास्यः । ताभिरेव तव विवेकविजय इति संपन्नबहुमानाऽस्मि । प्रत्यक्षसिद्धपरमानन्दयुवतिसंभोगप्रधानं तव सिद्धान्तं मुञ्चन्तः किमिति स्थिरप्रधानेषु तेषु तेषु मतेषु प्रचुरादरा जना भवन्ति?]
महामोहः - प्रिये! अविचारितप्रवृत्तोऽयमास्तिकवेतालानामन्धपरम्परान्यायः ।
अमरगुरुप्रणीतमनपायमपोह्य मतं विविधकुतर्कजालकलहायितकौतुकिनः ।
कपिलहिरण्यगर्भकणभोजनबुद्धजिनप्रभृतिसमर्थितेषु समयेषु भजन्ति रतिम् ॥ ५५ ॥
अपि च,
चरमितरदप्यशेषं चन्द्रकनयतः स्वभावचित्रमिदम् ।
किं वा निरूपणीयं कण्टकतैक्ष्ण्यादिकारणं कविभिः ॥ ५६ ॥
इत्थं नाम दुस्त्यजः स्वभाववादः । कार्यकारणभावश्च काकतालीयन्यायमनुसरति । एवमपि,
अतत्तदिति वा न तत्तदिति वा वृथोद्यत्कथाकनत्कथककत्थनक्रमविकल्पितप्रक्रमा ।
जगद्विपरिवर्तिनी जनपदेषु जोघुष्यते कुतर्कशतशर्करानिकरकर्कशा पद्धतिः ॥ ५७ ॥
इत्थमुपप्लुतेऽपि जगति,
चिरसेवनतोषितेन धात्रा निपुणस्थानविदा निवेदितार्थः ।
असुरोपनिषद्रहस्यमग्र्यं प्रथयामास विरोचनः प्रजानाम् ॥ ५८ ॥
अत्र च,
करणविलयरूपा मुक्तिरित्युक्तमाद्यैर्वितथमिति मयाऽन्यद्वार्तिके विन्यवेशि ।
स्तनयुगलबृहत्त्वस्थापनीयस्वभूम्ना बहुगुणविभवेन ब्रह्मणा भोगसाम्यम् ॥ ५९ ॥
दुर्मतिः - अय्यउत्त! एव्वं तुम्हेहिं रक्खिज्जन्तं जीअलोअं पीडेन्ति णिकारणविद्देसा परसिद्धन्तपरिवाडीपक्खपडिआ ।
[आर्यपुत्र! एवं युष्माभी रक्ष्यमाणं जीवलोकं पीडयन्ति निष्कारणविद्वेषाः परसिद्धान्तपरिपाटीपक्षपातिताः ।]
महामोहः - भवतु किं नश्छिन्नम्? न खलु पाटच्चराः प्रकृतिं मुञ्चन्ति । न चाप्रमत्तमतयस्तैरुपहन्यन्ते ।
पठन्तस्त्रय्यन्तान्परिहसनकाकुं विदधतां भजन्तस्ताटस्थ्यं परिभवितुमिच्छन्तु महतः ।
उदन्तः शान्तानामयमिति च जल्पन्वभिमतं किमन्तर्दुर्दान्तैः कृपणकथकैरेभिरिह नः ॥ ६० ॥
(विचिन्त्य) प्रिये! अद्य तावदस्मत्सिद्धान्तपुनःप्रतिष्ठापनपटीयांसः पुरुषा गवेषणीयाः । कः कोऽत्र भोः!
डम्भादयः - (त्वरितमुपसृत्य) अमी वयमागताः । ( इत्युपसीदन्ति ।)
महामोहः - स्वागतं स्वकुलहितैषिभ्यो भवद्भ्यः ।
डम्भदर्पौ - (सप्रश्रयम्) महाराज! त्वत्प्रसादात्सर्वत्राप्रतिहतगतयः समागताः स्मः । किं कर्तव्यमनेन किंकरजनेन?
महामोहः - कामादीनामिदानीं का वार्ता?
डम्भः - (स्वगतम्) किं राज्ञे विज्ञापयामि? (प्रकाशम्) देव दुर्मतिवल्लभ! ‘सत्यं राजसु शोभते’ इति प्रियेतरदपि दृष्टं ब्रवीमि । वेद्मि कामस्य लोभस्य चाहमधुनातनीमवस्थाम् । तयोश्च,
अनन्तविषयस्पृहाजलधिसंप्लुते मानसे वसन्तसमये स्थिते मलयमारुते जीवति ।
सकृद्विहितसौप्तिकप्रतिनिवृत्तिवैलक्ष्यतः प्रसुप्त इव हन्त न स्पृशति पञ्चबाणः शरान् ॥ ६१ ॥
अन्यस्मिन्नपि कैमुत्यसिद्धमावेदयामि ।
पुरुषस्य विवेकविप्रलम्भात्स्वशरीरेऽपि विरज्यमानबुद्धेः ।
कृपणप्रतिनन्दनीयवृत्तिः किमिवालम्बनमाश्रयेत लोभः ॥ ६२ ॥
दर्पः - देव दुर्मतिपण्डित! अहं पुनः क्रोधस्य सांप्रतिकीमवस्थितिमद्राक्षम् । ‘याथातथ्येन पण्डितम्’ इति नीतिमनुसरन् यथानुभूतमेवावेदयामि । यथासौ,
द्विसप्तदलपत्रलद्रुहिणसृष्टिभङ्गक्रियापुरस्कृतयुगक्षयभ्रुकुटिताण्डवाडम्बरः ।
विरक्तिविषवल्लरीव्यतिकरेण रोषः स्वयं सुषुप्त इन वर्तते सुभटकेलिसौवस्तिकः ॥ ६३ ॥
महामोहः - (सविषादं विहस्य) अहो विवेकस्य कुलघातिनो दुर्मन्त्रितमेतत्! यथासौ सर्वत्र निरवकाशः स्यात्तथाऽस्माभिरवहितैर्विश्वमिदमधर्मेण व्यापनीयम् । स्वकुलसंरक्षणप्रवृत्तानामस्माकं त्वयमधर्म एव धर्मः । पठन्ति चैतिहासिकाः - ‘स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत्’ इति । एवमुपप्लुतावस्थानो विवेकः स्वयं चानतिप्रबलः सुखेन साधनीयः । अथ वा कोऽयं विवेकः । न खलु शाकुटस्य लवने शङ्कुलायाः कियानिव भारः । न चेषीकातूलमिन्धनयितुं वह्निना संरभ्यते । (विमृश्य) प्रिये कुलधर्मपालिनि! त्वदभिमतवृत्तेरुत्तमगुणस्य मे पश्य यावज्जीवं प्रारब्धकर्मापरित्यागम् ।
कामस्ताम्यतु कोपलोभसहितः काले समभ्येतु वा रक्षःसंयति राघवस्थितिमहं व्यङ्क्ता विवेकाहवे ।
कालस्त्वेष रथो भवत्विह कलिस्त्वं सारथिर्दुर्मते डम्भः संप्रति जैत्रदुन्दुभिरसौ दर्पस्तथा कङ्कटः ॥ ६४ ॥
डम्भः - महाराज! स्वायत्तसिद्धेस्तव किमायत्तमस्मासु?
कस्तुभ्यं रणरङ्गखेलनकलामातिष्ठते तिष्ठते कश्च प्रेप्सति कामतन्त्रनियतस्वैराय वैरायितम् ।
येन क्षोदयितुं क्षमा प्रभवति क्षेप्तुं कुलक्ष्माभृतः पातुं सप्त सरस्वतोऽपि भवता साकूतमालोकितः ॥ ६५ ॥
तथाऽपि वयं त्वदादिष्टास्त्वदधीनवृत्तयो यथासामर्थ्यं यतिष्यामहे । कपयोऽपि काकुत्स्थस्योपकुर्वन्ति । वल्लवाश्च वासुदेवस्य साह्ये संनह्यन्ति ।
महामोहः - अभिमतमेव युष्माकमहमादिशामि -
डम्भ त्वमद्य नियतो निजधर्मगुप्त्यै पुण्यापगापरिसरान्पुनराश्रयेथाः ।
गाढोपलक्षितविरक्तिमदेषु (गर्व)दर्पस्तन्वीत वासमनघेषु तपो(ध)वनेषु ॥ ६६ ॥ [इति सभार्यौ निष्क्रान्तौ]
डम्भदर्पौ - स्वीकृतोऽयं स्वामिसमादेशः ।
महामोहः - (स्वगतम्) किं नामारातिविहतावाद्यं साधनम् । ननु प्रत्यवमृष्टम् ।
प्रज्वलति जाठराग्नौ क्षिपन्यथावच्चतुर्विधं हव्यम् । प्राणाग्निहोत्रमेकं परिपालयिताऽस्मि दुर्मतिसहायः ॥ ६७ ॥
ततश्च जात्याश्रयनिमित्तदुष्टैरिष्टैरेव द्रव्यैर्दृष्टाहारविहारे(र) दृष्टचेष्टे पुरुषे कथमिव विवेकस्य विजयाशंसा । (प्रकाशम्)
अलं मेरुस्तोमैरलमपि च कैलासनियुतैरलं द्वीपैरष्टादशभिरखिलैर्वाऽपि भुवनैः ।
अखण्डैर्ब्रह्माण्डैरपि न खलु तृप्तिर्भवति मे विरुन्धानध्वंसं त्वभिनिविशते संप्रति मनः ॥ ६८ ॥
दुर्मतिः - अमच्चा एव्व पुणो अराइविद्धंसणे पेसणेण अणुग्गहणिज्जा । [अमात्या एव पुनररातिविध्वंसने प्रेषणेन अनुग्रहणीयाः ।
महामोहः - प्रिये! कृत्याकृत्यवेदिनी खल्वसि । अहमपि तथा मन्त्रयामि । तदाहूयतामन्तःपुरे कश्चिदन्तरङ्गपरिजनः ।
दुर्मतिः - हळा दुव्वासणे! इदो होहि । [सखि दुर्वासने! इतो भव ।]
[ततः प्रविशति दुर्वासना ।]
दुर्वासना - एसाहं उवट्ठिअम्हि । आणवेदु महाराओ राइणी अ । [एषाऽहमुपस्थिताऽस्मि । आज्ञापयतु महाराजो राज्ञी च ।]
महामोहः - भद्रे! ब्रूहि मद्वचनादधिगतगणितविद्यान्करणाधिकारिणः । आदिशति भवतो महाराजाधिराजपरमेश्वरो दुर्मत्या सह महामोहः । कामक्रोधलोभमदमात्सर्यडम्भस्तम्भेभ्यः सप्तभ्यः सचिवेभ्यः सप्त मुक्तिक्षेत्रतया प्रसिद्धा राजधान्यः ससागराश्च सप्त महाद्वीपा दत्ता महामोहेनेति लिख्यताम् । अपि च,
स्वकीयाख्यामात्रच्छुरणपरिणह्यद्भयभरान्बहिष्कृत्येदानीं विजहदधिकारान्क्रतुभुजः ।
यदृच्छावाक्येऽपि व्यवहरतु लोकोऽयमखिलो नमःस्वस्तिस्वाहास्वधमिह महामोहविषयम् ॥ ६९ ॥ इति ।
दुर्वासना - जं आणवेइ भट्टा भट्टिणी अ । [यदाज्ञापयति भर्ता भर्त्री च ।] [इति निष्क्रान्ता]
(नेपथ्ये) विजयतां देवः ।
भुक्तिक्षमं समयमेकरुचिं वितन्वन्पुंसां निजप्रतपनेन गतिप्रतीपः ।
आशाविशेषमपरं प्रतिपत्स्यमानो मोहेश्वर त्वमिव भाति मयूखमाली ॥ ७० ॥ इह च,
उपहरति सूपकर्ता महतो मोहस्य दुर्मतिप्रेष्यः । वलरिपुवरुणगृहाभ्यां स्वाद्यं धारान्तमुचितमाहारम् ॥ ७१ ॥
महामोहः - (कर्णं दत्त्वा) प्रिये! प्राणशब्दाभिलप्यानां सर्वशरीरव्यापिनीनां सर्वसिद्धान्तसंमतानां देवतानां समर्चनसमयमावेदयति वैतालिकः । तत्प्रविशावः शुद्धान्तम् ।
[इति निष्क्रान्ताः सर्वे ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (दम्भाद्युपालम्भो नाम) पञ्चमोऽङ्कः ।