चतुर्थोऽङ्कः
[ततः प्रविशति कामो वसन्तश्च ।]
कामः - सखे वसन्त!
इक्षुः पेशलमीदृशं मम धनुः पुष्पाण्यमी सायकास्तन्त्रीमञ्जुलनिस्वना मधुकरश्रेणी शुभा शिञ्जिनी ।
भीरुः सन्नबलाजनो मम बलं तथ्यं परं कथ्यते सोऽहं निर्जितशूलभृत्प्रभृतिकः सङ्कल्पसिद्धोदयः ॥ १ ॥
अपि च,
त्वयि संभृतशस्त्रास्त्रे सहाये मम संस्थिते । महता पश्य मोहेन विश्वमेकातपत्रितम् ॥ २ ॥
वसन्तः - किमुच्यते? कामः खल्वसि ।
कामंकामं कामपि सिद्धिं करणैः स्वैः कारंकारं कर्म निषिद्धं विहितं वा ।
न्यस्यन्ति त्वय्यद्भुतसीम्नि प्रतिबुद्धाः कामोऽकार्षीन्मन्युरकार्षीदिति नाम ॥ ३ ॥
अपि च,
विषमनयनमुख्यर्विक्रमक्रीडितं ते सुरपतिभवनानि स्वैरसञ्चारभूमिः ।
उदधिवलयितेयं क्षोणिरुद्यानसीमा कथमिव मदन त्वं वर्ण्यसे कान्तिसिन्धुः ॥ ४ ॥
कामः - सखे! सर्वलोकविदितमात्मनोऽपि वैभवमनुचिन्तय । यदेतत्,
प्रख्यातस्त्वयि संभवः सुमनसां विश्वं त्वया नन्द्यते मुख्यस्त्वं किल षड्विधेषु ऋतुषु ज्योतिस्त्वदेकाश्रयम् ।
यत्र श्रीर्धृतपङ्कजा स च परस्त्वत्संश्रयो माधवः कामस्ते सचिवः क एव भविता कालोत्तमस्त्वत्समः ॥ ५ ॥
अपि च,
वसन्तस्त्वं वह्निर्मलयपवनः सारथिरसावशोकादिर्ज्वाला मधुकरगणो धूमपटली ।
सुधासूतिः स्नेहस्तदिह जितनिर्वाणवचसो विरक्तिस्ते दाह्यं द्रहिणगिरिशादेरपि सतः ॥ ६ ॥
वसन्तः - महावीर मकरकेतन! मादृशामतिशयस्त्वदर्थ एव । यथा,
ऋतत्रो हि मत्प्रधानास्तवैव नानास्त्रशिल्पिनः सृष्टाः ।
विजयसमयं शशाङ्को विश्रमकालं व्यक्ति दिवसेशः ॥ ७ ॥
कामः - आस्तामयमन्योन्यप्रशंसनविस्तरः । अवधातव्यं राजकृत्ये ।
वसन्तः - यदुच्यते वयस्येन, तदिह समानमा(भा)वयोः समाधिप्रवणपुरुषचेतःक्षोभणे । शृङ्गारोद्दीपनविभावकृत्यं मय्यायत्तम् । भवता पुनरालम्बनविभावसंपत्तिरुपपादनीया ।
कामः - सुहृत्संमतमहमिदानीमाचरामि । अयं खल्वपरिचितशुभाश्रयधारणाभिलाषी पुरुषश्चिरपरिचितसुखालम्बने खुखेन संमुखयितुं शक्यते । अस्ति हि देवासुरसिद्धगन्धर्वविद्याधरकिंनरकिंपुरुषमानुषादिसर्वपुरुषचक्षुःप्रत्यक्षं स्वतःपुरुषार्थभूतं सुलोचनाभिधानं ब्रह्म । न चैतदनुपपन्नम् ।
परमानन्ददायिन्यः प्रजानां सृष्टिहेतवः । ब्रह्मलक्षणशालिन्यो न कथं ब्रह्म योषितः ॥ ८ ॥
वसन्तः - सखे! त्रय्यन्तसंमतश्च त्वदभिमतोऽयमर्थः । स्त्रियो ब्रह्मेति हि प्रथममामनन्ति । उत वा पुमानिति तु वैभवादुक्तिः । अपि च,
अलसललितमन्दं स्पन्दनं लोचनानामकृतकरमणीया वृत्तयो विभ्रमाणाम् ।
अपि तरुणवधूनामाहरेयुर्मुनीन्द्रान् शतमपि च विधूय ब्रह्मणां शाश्वतानाम् ॥ ९ ॥
कामः - (सहर्षम्) सखे वसन्त! अवितथमेवैतदभिलप्यते । ततश्च,
अयमप्सरसां गणः प्रनृत्यन्विशिखासारविकल्प्यमानदृष्टिः ।
अभिगच्छतु मङ्क्षु मत्प्रयुक्तः पुरुषं काङ्क्षितपुण्यहीनयोगम् ॥ १० ॥
वसन्तः - वयस्य पुष्पधन्वन्! त्वदादेशवर्तिनीषु मत्तकाशिनीषु सिद्धं नः समीहितम् । अद्य हि,
स्वादुगीतामधुमोहितश्रुतेश्चारुनृत्तवशवर्तिचक्षुषः । भावभेदभृतकीकृतात्मनो योगिनस्त्यजति यौवतं न धीः ॥ ११ ॥
कामः - (विचिन्त्य, सरोषहासम् ।)
यदि मामवमत्य संयतेत व्यवसायान्वयदर्पितो विवेकः ।
वनिताशतवञ्चितस्य पुंसः स्वयमाधास्यति सौभरेरवस्थाम् ॥ १२ ॥
वसन्तः - किमत्राद्भुतम्? विश्वविदितं हि भवतो वीरायितम् ।
विकस्वरसुरद्रमप्रसवशस्त्रमाध्वीमदभ्रमद्भ्रमरसुन्दरीनिकरसंभृतज्याभृतः ।
प्रहृष्टपरभृत्प्रियापणववेणुवीणादिभिः क्वणद्भिरुपघुष्यते कुसुमधन्वनो विक्रमः ॥ १३ ॥
तदिह लघुव्यापारलभ्ये वस्तुनि न त्वया त्वरितेन प्रयतितव्यम् ।
मा भूदमोघविशिखं नमितं धनुस्ते मौर्वी च मा भवतु पुङ्खितचित्रपुङ्खा ।
मद्दर्शितैरपि सखे विभियाद्विवेकः शाखानिषङ्गनिहितैः शतशस्त्वदस्त्रः ॥ १४ ॥
कामः - महति प्रतिपक्षे मैवं मन्दोत्साहेन भवितव्यम् । दृश्यते हि,
मितप्रद्योतनिष्पाद्ये तमसामपसारणे । सहस्रेण करैः सार्धमुदेति दिवसेश्वरः ॥ १५ ॥
अपि च,
तिष्ठतु सङ्ग्रामकथा द्यूते पुरुषस्य वादमात्रे वा ।
भवति परिभूतिलेशे कति कति विपदो निदर्शिताः कविभिः ॥ १६ ॥
वसन्तः - किमित्येवमात्मप्रभावमवमत्य परावरविश्वपरिभाविनस्ते कुतश्चित्परिभूतिलेशमाशङ्कसे? न खलु शलभाः सहस्रमपि सहस्रकिरणमभिभवन्ति । अद्य च,
विपुलसुषुमापत्तौ नृत्यद्विहारतुरङ्गमे मधुमदसमारम्भस्तम्बेरमस्थगितान्तरे ।
रतिरसरथोत्सेधे कश्चिद्विधित्सितसंयमः क्वचन भवतः स्कन्धावारे न जीवति जीवति ॥ १७ ॥
न चेदानीं पुरुषः समाधिसौधमधिरूढः, यतस्ते तस्मिन्मनोरथप्रतिहतिशङ्का । दृश्यते हि,
स्मरति महतामातङ्कानां मनस्कुरुते गृहान्प्रसजति परब्रह्मप्राप्तौ समृद्धिमपेक्षते ।
अभिनिविशते भोगोदन्वत्यपत्रपते पुनः प्रणिधिरधुना सिद्धापायः सितासितपद्धतिः ॥ १८ ॥
कामः - तदिह सौप्तिकावसरः संदर्शितः प्रियसखेन । तथा हि,
सोऽयमसमग्रयोगे पुरुषे सर्वास्त्रमोक्षसमयो मे । रथवैगुण्यविलक्षे राधेये फल्गुनस्येव ॥ १९ ॥
वसन्तः - भवतु नामैवं भवतः समीची समीहितसिद्धिः ।
विरक्तिकपटक्रमाद्वृजिनकोटिभिर्दुर्दमे परप्रणिधिकर्दमे पतितुमेकतानः पुमान् ।
त्वदस्त्रगणताडनत्रुटितगर्वनिर्वेदवान्भवप्रभृतिसेवितं भजतु भोगवर्गं पुनः ॥ २० ॥
अपि च,
मलयपवनज्योत्स्नामल्लीमधुव्रतकूजितप्रभृतिविजयस्कन्धावारप्रधानपताकया ।
हसितलपितक्रीडाचित्रैरनुज्झदभिख्यया युवतिकथया योगी सन्नप्यसङ्गमुपैति कः ॥ २१ ॥
कामः - सखे! सर्वधा नूनमविचक्षणो विवेकः । यत्सागरतरणगगनातिलङ्घनमरीचिकाचर्वणमहीतलमज्जनादिवदशक्यमेव समाधिलाभमाधिव्याधिशालिनः पुरुषस्य बालिश इव साधयितुमीहते । अपि च,
पुरुषमजहद्भोगश्रद्धापुरस्कृतसंभ्रमं विषयमदिरास्वादक्षीबं विमोचयितुं स्थितः । अमृतमिलितद्राक्षावल्लीफलद्रवसंपदाममरतरुणीबिब्बोकानामवैति न वैभवम् ॥ २२ ॥
दृश्यतां पुनरियमुभयतःस्पाशा रज्जुः ।
विवेकावष्टम्भादुपजनितवैराग्यविभवो यदि क्रुध्येन्मह्यं भवति स (न) कथं क्रोधविजितः ।
अथ त्यक्तक्रोधो यदि कथमपक्रामयतु मां मुधा कामक्रोधप्रशमनकथा मूढमनसाम् ॥ २३ ॥
(ततः प्रविशति विकृतवेषः क्रोधः)
क्रोधः - (ससंभ्रममुपसृत्य ।) स्वस्ति सुहृदे स्वैरसंचारविजितविवेकविभवाय कुसुमधन्वने । कः खल्वसौ विवेकवशवर्ती कामक्रोधप्रशमनकथावृथाजल्पमुपकल्पयति? (विकटं परिक्रम्य साट्टहासम्)
अयमहमुद्भटप्रथनचारभटारभटीनटपतिरुत्थितः कथमुदेति विवेककथा ।
यदनुविधायिदैत्यभयसंज्यरितासु मुधा सुरसुभटीपयोधरतटीषु पटीररसः ॥ २४ ॥
कामः - स्वागतं प्रियसुहृदे मत्प्रतिपक्षनियतमन्यवे मन्यवे महारथाय । समागतोऽसि च स्वामिकार्यनिर्वहणसमयमनुचिन्त्य मत्साहायकमनोरथेन । वर्तयसि च स्ववशे वशिनोऽपि महेश्वरादीन् । अहो जितं महाराजेन । किं च,
मुधारम्भे डम्भे मयि च मदने मुक्तकदने मितोत्साहे मोहे वृजिनगहने व्याप्तदहने ।
अवज्ञालेशाद्यैरपि खलु भवानिन्धनशतैः प्रदीप्तः प्रत्यञ्चं प्रणिधिमुपरोद्धं प्रभवति ॥ २५ ॥
वसन्तः - नन्वसौ पवनपावकसमागमः, यदुत कामस्य तव च सङ्गतम् । तदिह किमिति सामग्रीसंभवे साध्यसंपत्तावुदास्यते? अनुसरति खलूत्साहमभिलषितसिद्धिः । एतदेव चेदानीमात्मसंभवेन प्रियसुहृदा पुनःपुनरभिहितमभिमतप्रतिलम्भनमनुपश्यामि । यदुत,
रतिपतिवारयोषिदनुपालितरत्नलतास्तबकविलोभनीयललितस्तनभारनताः ।
अमरमृगेक्षणाः परिचरन्तु विरक्तिधनं मदनधनुर्गुणभ्रमरमन्थरतारदृशः ॥ २६ ॥
कामः - सखे! कालोचितकार्यप्रतिसंधायकः खलु कालतल्लजो वसन्तः । तदेनमेव विबुधपतिनगरवेशनारीपुरःसरं नासीरयोधमहमधिज्यधनुरनुव्रजामि । त्वमपि परितः परिवृत्तदृष्टिः पार्ष्णिमभिरक्षन्सावधानमन्वीयेथाः ।
[सर्वे तथाऽनुसर्पन्ति ।]
वसन्तः - श्रूयतामयमिह महामोहसमरसैनिकधुरंधराभ्यां मन्मथप्रतिघाभ्यां मामको व्याहारः । अयमेवावसरः संयमारम्भं सौप्तिकेन संस्थापयितुम्, यत्र समुत्थितं चतुरुदधिबृंहणं चान्द्रमसं महः । अद्य खलु पुरतः सरन्त्यमी मुग्धयुवतिमुखचन्द्रकिङ्करस्य कुमुदिनीपतेरुदयवार्ताहराः कतिचन किरणाङ्कुराः । अमी च,
तिमिमुखपीतमुक्तसितसागरपूरनिभा रजनिविलासहासललिता हरिणाङ्ककराः ।
शुभघनसारमिश्रहरिचन्दनपङ्करुचः स्फुटमनुलेपयन्ति पुरुहूतदिशासुदृशम् ॥ २७ ॥
अपि च,
प्रथमस्य कान्तिमद्रेः पश्यतमेतेन भावितां शशिना । मदजलकलङ्कभाजा करटिन इव कर्णशङ्खेन ॥ २८ ॥
क्रोधः - सखे शम्बरासुरसूदन! सूनृतवादी सोऽयं सुरभिः । अद्य हि,
हरेरिह दिगन्तरे हसितदुग्धसिन्धुद्युतिः श्रियं कुमुदवासिनी प्रजनयत्यसौ चन्द्रिका ।
मनागिव विवर्तितं मधुरतारकोन्मीलने निशामय निशामुखे तिमिरकन्दलं कुन्तलम् ॥ २९ ॥
कामः - संभावनीयः खल्वसौ बहुलतरतमःपटलपाटनपटीयस्तरकिरणः समाक्रान्तपशुपतिजटामण्डलः सखा मे तारकेश्वरः । अयं च,
कुर्वन्कामपि कौमुदीं कुमुदिनीसंमोददानव्रती सान्द्रातङ्करथाङ्गनामतरुणीसन्तापचिन्तामणिः ।
शृङ्गारागमदेशिकस्त्रिजगतामानन्दनाडिंधमो रुन्धे सर्वदिशां निरन्तरतमस्तन्द्रालुतां चन्द्रमाः ॥ ३० ॥
अपि च;
पदे विष्णोरेषा प्रभवमधिगम्य प्रसृमरा स्फुरत्ताराफेनस्तबकपरिपाटीपरिगता ।
क्षरन्ती पूर्वाद्रेरमरतटिनीसंप्लवसखी तमिस्राकालिन्दीं शबलयति चन्द्रांशुपटली ॥ ३० ॥
सखे क्रोध! पश्य मे सहायसंपत्तिम् ।
ताराकान्तः प्रियसुहृदयं चन्द्रिकेयं वयस्या बाणारम्भाद्बहुमतिपदं बान्धयो मे वसन्तः ।
त्वं च त्राता विपदुपगमे क्रोध दुर्वारवेगः को वा मह्यं कुसुमधनुषे तिष्ठते जीवितार्थी ॥ ३२ ॥
क्रोधः - सखे! अनुकूलो हि विधिः किं नाम नानुकूलयति? अपि च,
विजेतुकामः कामं त्वां निष्काम इति का कथा । त्वन्निवर्तननिष्कामः सकामस्त्वय्यनुज्झिते ॥ ३३ ॥
कामः - अलमनेन विलम्बहेतुना व्याक्षेपेण । उपक्रान्तसमाधिरस्माभिरुपसर्पणीयः पुरुषः । (सर्वे तथा कुर्वन्ति)
वसन्तः - पश्य तमेनं परमपुरुषचरणयुगलनिगलिताशयं परिहृतबहिर्विषयरागं प्रतिपन्नकारिणा विवेकेन प्रचोदितं प्रक्रान्तयोगं पुरुषम् । अयं हि,
भयस्थानग्रन्थान्परिपठति निद्राति च मुहुः स्वमात्मानं पश्यत्युपचरति देहं च विधिना ।
निवृत्तिं दुःखाब्धेरभिलषति रज्यत्यपि सखे द्विधावृत्त्या दुःख्यन्पुरुष इह दोलायत इन ॥ ३४ ॥
कामः - सखे क्रोध! अद्य खलु संक्षोभणीयदशामनतिक्रान्त इति समर्थितं वसन्तेन । दूरावधूतबाह्याभ्यन्तरवैरिभिरपि दुर्जयास्मत्सहायिन्यनादिसन्ततिविचित्रप्ररोहा वैषयिकी वासना ।
भवत्यतिपतिष्यतो भवपयोधिमेकान्ततो रतिः सह मुमुक्षया ललितभाषितं योगिभिः ।
तदप्यवसरे क्वचित्सपदि पार्ष्णिमालम्बते ममत्वशतवासनारचितवारवाणं मनः ॥ ३५ ॥
वसन्तः - इदमप्यपरमवधारणीयमरातिजनभयङ्कराभ्यां भवद्भ्याम् । सर्वसङ्गनिवृत्तस्यापि संमानागतिः समाधिपरिपन्थिनी । अत एव खल्वनुचिन्तितहिरण्यगर्भवचसः संवर्तभरतविदुरादयो दुरितोच्छेदकारणं जनावमानमिच्छन्त उन्मत्तचर्यामभ्यनैषुः । तदिदानीं यावदयमवमानापेक्षामाददीत, ततः पूर्वमेव संमानभङ्गादिकं द्वारीकृत्य प्रसभं क्षेत्रज्ञे प्रवेष्टव्यं क्रोधेन । अथवा,
शृणोति कथयत्यसौ परिचिनोति संपृच्छते समर्चयति गायति स्पृशति पश्यति स्तौति च ।
इतीव नियतादरो मुरभिदङ्घ्रिसेवारसे न भेत्तुमिह शक्यते स्थिरविवेकदुर्गस्थितः ॥ ३६ ॥
अपि च,
वितथपरिग्रहत्यजननिर्वृतबुद्धिरसौ तदितरसंग्रहेऽपि विधिनैव परं नियतः ।
उपनतमप्यधर्म्यमुपभोगमपोह्य भजत्यजगरवृत्तिमात्रमवधीरितभूतहतिः ॥ ३७॥
कामः - (सविलक्षस्मितम्) सखे! नूनमप्रगल्भ इव संग्रामसमये साध्वसमवलम्बसे । कालोपपन्नं कार्यं न प्रतिसंधत्से ।
ऋतुश्रेष्ठस्त्वं नः सुहृदमितभोगार्हविभवः स्वयं कामः सोऽहं सुरनरतिरश्चः स्ववशयन् ।
अयं क्रोधः क्रूरप्रकृतिरसहन्नस्मदहितं त्रिभिः कार्यं द्रौणिप्रभृतिविहितं सौप्तिकमिह ॥ ३८ ॥
वसन्तः - सखे! प्रतिसंहितकार्य एवाहमस्मि । अवस्कन्दसमयमतिक्रामति पुरुषे कथमस्माभिरमोघवृत्तिभिर्भवितव्यमिति तु विमृशामि । पाटच्चरलुण्ठितेषु भवनेषु जाग्रतोऽपि यामिकाः किमुपकरिष्यन्ति? अयं हि,
प्रचेतुमनघां वृत्तिमपचेतुमपाक्रियाम् । भजते विश्वकर्तारं भिषज्यन्तमिवातुरः ॥ ३९ ॥
क्रोधः - (ससंरम्भम्) श्रोतव्यमेतत्सुरभिणा सुहृदा च कामेन मामकं मनीषितनिष्पादनकौशलम् । यदुत,
जमदग्निमुखान्परित्यजन्परिगृह्णन्दशकंधरादिकान् । विनिपातितवानुपायतः पुरुषानद्भुतपौरुषानहम् ॥ ४० ॥
वसन्तः - प्रख्यातमिदमित्थं भवतश्चातुर्यम् । तथाऽप्यत्यन्तवीतरागे क इव तवावकाशः?
क्रोधः - (हाहाकारमाम्रेडयन्) अस्त्येव संमतोऽत्राप्यवकाशः । यथा,
पुंसस्त्यक्तपरिग्रहस्य विषयग्राहोज्झितस्याप्यहं कन्थाविष्टरकुण्डिकादिहरणप्रच्छादनाद्याश्रयः ।
अन्तःक्षोभमलीकजल्पमसदारोपस्पृहां पैशुनं संमोहादि च संमुखय्य सहसा दास्ये समाधिक्षयम् ॥ ४१ ॥
किं च, महेश्वरप्रमुखमहापुरुषचित्तविक्षोभकस्य मे समाहितहृदयसमारम्भविघटने किमत्राश्चर्यम्? यतः,
बिभर्तु विबुधेश्वरं क्षिपतु दानवानीकिनीं भिनत्तु कुलपर्वतान्वनशतानि मृद्नातु वा ।
अयत्नविवृतक्षितिस्तबकशेखरालङ्कृतः किमद्भुतपदं भवत्ययममीभिरैरावणः ॥ ४२ ॥
कामः - सखे पुष्पाकर! क्रोधोदीरितमप्यवितथमिदमवधारणीयम् ।
निद्रामुग्धिनिमीलितेष्वसुलभं निर्धूतनिम्नोन्नतं निद्राणाखिलवर्णभेदनियमं विष्वक्प्रवृत्तोदयम् ।
कः क्रोधोद्भवमुत्सहेत तरितुं कल्पान्तकादम्बिनीकालोद्वेलकलिन्दशैलतनयाकल्लोलकालं तमः ॥ ४३ ॥
अपि च,
वाल्मीकिप्रभृतिभिर्महर्षिभिरप्युद्घोषितं मामकं महिमानं मावमंस्थाः । अहह!
विराधकरिकेसरी विशिखवह्निदग्धार्णवः प्रभूतखरदूषणप्रभृतिनैर्ऋतव्यूहजित् ।
विलूनदशकन्धरो मृदितकुम्भकर्णस्तदा मदस्त्रजनिते स्थितः क्वचन लाघवे राघवः ॥ ४४ ॥
वसन्तः - काम! साधु कृतं भवता ।
कामः - वयस्य! आत्मानं बहुमन्येथाः । त्वदायत्तवृत्तिना खलु मया सर्वमेतदाचरितम् ।
वसन्तः - हन्त मकरध्वज! महावीराणामपि भवति वैक्लब्यं भवत्प्रभावेन, यदुन्मत्तदशामप्यधिगच्छन्ति । अथवा,
रागोपलिप्तदृष्टिः प्रलपति मुह्यति विघूर्णते स्खलति । युवतिमदिरामदान्धो युक्तायुक्तं न जानाति ॥ ४५ ॥
(विचिन्त्य) यद्यपि दुर्जयौ युवां कामक्रोधौ, तथापि किञ्चिन्मनसि मे परिवर्तते । सहायभूयस्त्वं सर्वेष्वपि कार्येष्वयत्नसिद्धिकारणम् । (पदशब्दं सूचयन्)
धर्मध्वसधुरन्धरः शमदमप्रारम्भसर्वङ्कषः प्रज्ञावारिधिघस्मरः प्रणिदधत्प्रत्यूहमृत्युञ्जयः ।
मुक्तिप्रार्थनमोचनाय महता मोहेन संप्रेषितस्तृष्णावारविलासिनीसहचरो लोभः किलोदीयते ॥ ४६ ॥
(कामक्रोधौ सहर्षमवलोकयतः)
वसन्तः - विश्वहृल्लोभनो लोभ इहाकार्यः ।
कामक्रोधौ - सुष्ठु चिन्तितं सुहृदा वसन्तेन ।
[कामः छोटिकां ददाति; क्रोधः सोद्घोषमनुमोदते]
[ततः प्रविशति लोभस्तृष्णा च ।]
लोभः - महामोहस्याज्ञां शिरसि निदधानः सजमिमामहं तृष्णाजानिस्त्वरितमिह लोभः समुदितः ।
प्रदिष्टैस्तत्तादृक्प्राथिमविकटैर्हाटकमयैरखण्डब्रह्माण्डैर्मम क इव तृप्तिं घटयिता ॥ ४७ ॥
(तृष्णां परिष्वज्य) प्रिये!
अशेषसुरनारीणामाभिरूप्यसमुच्चयैः । अजहद्यौवनां तृष्णे विदधै त्वां विधिः स्वयम् ॥ ४८ ॥
तदिदं निदर्शयामि,
कनककलधौतशैलप्रभृतिभिरपि हन्त पूरणे क्षिप्तैः । तृष्णे भजति समृद्धिं भूयो भूयस्तवोदरे कार्यम् ॥ ४९ ॥
तृष्णा - अय्यउत्त! तुम्ह वळ्ळहाए मह रमणिज्जत्तणं सव्वरमणीसमब्भहिअंति किं अच्चरिअं? तह वि देवासुरघरगअसअळरअणोवहारेण मह सोभग्गजोग्गाइ हारकेऊरमेहळाणूउराइ तुए करणिज्जाइ । [आर्यपुत्र! तव वल्लभाया मम रमणीयत्वं सवरमणीसमभ्यधिकमिति किमाश्चर्यम्? तथाऽपि देवासुरगृहगतसकलरत्नोपहारेण मम सौभाग्यसदृशानि हारकेयूरमेखलानूपुराणि त्वया करणीयानि ।
लोभः - प्रिये! ईषत्करमिदमभ्यर्थयसे । निर्जिताः खलु मया देवासुरकिंनरकिंपुरुषविद्याधरमुनिमनुष्यतिर्यञ्चः, यथा परस्परमेव व्यतिहन्यन्ते, यथा वा तुषकणमपि मेरं मन्यन्ते । तत्र तावद्धनदबिरुदविख्यातस्य त्र्यम्बकसखस्य मत्कृतामवस्थामाकर्णय ।
लब्धं न मुञ्चति विलक्षमतिर्न भुङ्क्ते धत्ते पुनः पुनरसौ महतीं धनायाम् ।
निद्रारसं न लभते महतां निधीनां रक्षापिशाच इव संप्रति राजराजः ॥ ५० ॥
तृष्णा - अय्यउत्त! तुए अत्थपुरुसत्थसद्धासण्ठाविअहिअए तेळ्ळोक्के विवेअपरिगहिअस्स पुरुसस्स का उण दसा?
[आर्यपुत्र त्वया अर्थपुरुषार्थश्रद्धासस्थापितहृदये त्रैलोक्ये विवेकपरिगृहीतस्य पुरुषस्य का पुनर्दशा]
लोभः - प्रिये! विमर्शनीयमेतत् । तस्य पुनः समाधिकौतुकं प्रशमयितुं महाराजेन महामोहेन समाविष्टौ कामक्रोधौ मदागमनकाङ्क्षिणौ तिष्ठतः । इमौ तावदुपसर्पावः । (उपसृत्य) लोभनामाहमभिवादये ज्यायांसौ कामक्रोधौ ।
तृष्णा - सुण्हा एसा पणमइ गुरुअणं । [स्नुषैषा प्रणमति गुरुजनम् ।]
[इत्युभौ प्रणमतः ।]
कामक्रोधौ - दीर्घायुषौ भूयास्तम् ।
वसन्तः - अहो निदाघपवनदवाग्नीनामिव भवतां समागमः! किं न सेत्स्यति राज्ञो महामोहस्य? मा भूद्विवेकतो भवत्पत्नीनां रतिजिघांसातृष्णानां माङ्गल्यभूषणवैकल्यम् ।
[सर्वे परस्परमाश्लिष्यन्ति]
कामः - अपि स्वागतमस्मदुपजीव्यमर्थपुरुषार्थमभिरक्षते लोभाय?
लोभः - अथ किम् । अनुग्रहपदं खल्वहं भवताम्?
क्रोधः - अपि कथममोघवृत्तिरपवर्गोदन्तवैदेशिकस्त्वमवधत्से स्वामिकृत्यम्?
लोभः - युष्मदवष्टम्भेन सर्वत्रामोघवृत्तिरस्मि । पश्य सुयोधनादिवन्मत्परिगृहीतस्य लोकस्येदानीमद्वितीयां द्वितीयपुरुषार्थनिष्ठाम् ।
क्षुद्रक्षोणिरजःकणस्थिरतृषः क्षुभ्यन्ति पृथ्वीभृतस्तप्येत स्वपदाय कः क्वचिदिति त्रस्यन्त्यमर्त्येश्वराः ।
भिक्षाकेष्वपि केषुचित्क्वचिदुपक्षिप्तेष्वधिक्षेपतः पक्षे दुर्मतिभृत्ययोरिह जगत्तिष्ठत्यसूयेर्ष्ययोः ॥ ५१ ॥
अपि च,
अटन्ति हरितो दश स्थपुटयन्ति विश्वंभरां पठन्ति धनिनां चटून्परपरिच्छदं बिभ्रति ।
तरन्ति जलधिं प्लवैः समरमारभन्ते मुधा दुरन्तधनदोहलग्रहिलचेतसो देहिनः ॥ ५२ ॥
वसन्तः - आयुष्मन् महामोहामात्यधुरीण! पुनस्तृष्णासहायस्य ते पूर्वापरपुरुषार्थसाधके स्वयं च सर्वचित्तसाक्षिकं स्वादुतयोपलभ्यमाने सर्वराजन्यसेवनीयचरमोपवेदसिद्धे प्रत्यक्षपुरुषार्थे कः प्रत्यूहः? अयं च,
कालप्राप्ताद्धर्मतोऽधर्मतो वा कक्षीकार्यः कामतन्त्रप्रधानैः ।
लाभे गुप्तावप्रदानव्रते वा त्वय्यायत्तो ह्यर्थनामा पुमर्थः ॥ ५३ ॥
शृण्वन्तु सर्वे भवन्तो मामकमनुयोगम् । विवेककवचदुर्भेदविज्ञानो विपश्चित्तमः कथंकारमवस्कन्दनीयः?
कामः - सखे! एवमहमेतदध्यवस्यामि । अहं तावदग्रेसरो गच्छामि । भवद्भिस्तु पक्षद्वयं पार्ष्णिं च परिपालयद्भिरन्तरा निवेश्य तृष्णामनुप्लवैर्भवितव्यम् । तदनेन दुर्भेदेन व्यूहेन विवेकस्य स्वकुलविध्वंसनमनोरथप्रत्यूहीभविष्याम इति । (तथा व्यूह्य सर्वे पञ्चषाणि पदानि परिक्रामन्ति)
कामः - (सरभसपुङ्खितशरं पौष्पं धनुरान्दोलयन्) पश्यत तावदिदानीमधिज्यधन्वनो मे ललितघोराणामिषूणां लक्ष्यलाभम् ।
प्रणिधानविशेषभावितात्मा करणग्रामनिरोधनिष्प्रकम्पः ।
निभृतश्वसनो निवृत्तिधर्मा पुरुषस्त्यक्तपरिग्रहोऽयमास्ते ॥ ५४ ॥
वसन्तः - (सूक्ष्ममवलोक्य) हन्तावहितैरस्माभिर्भवितव्यम् । अत्र हि,
वितमसि पदे विधास्यन्मायाजलधेः समुद्धृतं पुरुषम् ।
विमृशति किमपि रहस्यं सुमतिसहायो विवेक एकान्ते ॥ ५५ ॥
क्रोधः - (सभ्रुकुटीभङ्गम्) भो वसन्त! विमृश्यतां किमपि दुरात्मना विवेकेन । पुरुषस्तावत्पुरस्कृतमन्मथानामस्माकमभिमतं नातिवर्तते । यतः,
अनघसमाधिसंपदुदरंभरिरात्मभवः प्रबलमहोर्मिजालभरिते दुरिताम्बुनिधौ ।
जडमतिजन्तुजातमुपजातविहारमसौ सुखबडिशावकृष्टमुपदंशदशां नयति ॥ ५६ ॥
पश्यतु भवानेतस्य पुरुषस्य भावनाविशेषम् ।
स्वसंबोधः सौधः शुभगुणगणो मण्डनविधिः समाधिः संभोगो रहसि जयशैली रतिकथा ।
सुषुप्ते लोकेऽद्य श्रुतिपरिषदन्तःपुरगतो मुनिः शान्तिव्याजान्मुखरयति शृङ्गारनिगमम् ॥ ५७ ॥
वसन्तः - (स्वगतम्) आशामात्रकृतेयमन्यथाकल्पना । (प्रकाशम्) सखे! प्रबलप्रतिपक्षसंनिधौ किमनेन प्रगल्भभाषितेन?
लोभः - सखे वसन्त! प्रिया तावन्ममैषा प्रतिपक्षप्रतिक्षेपभीता प्रत्याश्वासयितव्या । (तृष्णामवलोक्य) सुमुखि तृष्णे!
महावीरव्यूहमध्यगता महत्यपि प्रतिपक्षे मा भैषीः ।
तृष्णा - सअळसुरासुरमहिअमाहप्पेसु तुम्हेसु जीवन्तेसु णिच्चं णिब्भअम्हि । [सकलसुरासुरमहितमाहात्म्येषु युष्मासु जीवत्सु नित्यं निर्भयाऽस्मि ।]
कामः - (सान्तस्त्रासं परिवृत्यावलोक्य) पश्चात्पदानि प्रतिक्षेप्यन्तामस्माभिः । अद्य हि,
अनिद्राणप्रज्ञासहजबलधीराद्भुतगतिस्तितिक्षासन्तोषस्थिरतरतनुत्राणघटितः ।
प्रयुक्तं केनापि प्रणवरथमास्थाय पुरतो विवेकः प्रत्युद्यन्विघटयति मे व्यूहघटनाम् ॥ ५८ ॥
[सर्वे भयं नाटयन्ति ।]
वसन्तः - युष्मासु त्रिषु कस्यचिद्यदि विपत्संपत्स्यते केनचित्त्यक्षत्येव हि भक्तजीविततया मोहः स्वयं जीवितम् ।
सद्यश्चैनमनुम्रियेत नियतं तद्वल्लभा दुर्मतिस्तत्संप्रत्यपसर्पणं क्षममितः क्षिप्रं विवेकास्पदात् ॥ ५९ ॥
लोभः - अराजकैरस्माभिरत्र न योद्धव्यम् । मन्त्रयिष्यति च राजा स्वयमेव कृत्यशेषम् ।
क्रोधः - (सनिर्वेदम्) धिग्धिक्! किमियता कालेनास्माभिराचरितं राजकृत्यम्!
लोभः - सखे!
अतिक्रामन्कालस्तपनरथवेगेन महता न रोद्धुं शक्येत प्रतिवहन(वात्यावि)वातूलरहितः ।
गतस्रोतोरोधे न खलु यतितव्यं कृतधिया तदारम्भः श्रेयानुपरितनभीतिप्रतिभटः ॥ ६० ॥
तदत्रायुस्तावदस्माभिरभिरक्षणीयम्, ‘सर्वत एवात्मानं गोपायेत्’ इति हि श्रूयते ।
कामः - समयोचितमिदं समर्थ्यते लोकवृ(त्तान्त)त्तवेदिना लोभेन ।
आधे(दे)यो न हि सौप्तिकप्रणिहितैरस्माभिराकस्मिकः पातः क्रुद्धविवेकलक्षणमहापातालगर्तोदरे ।
सद्यः संप्रति डम्भदर्पकुहनासूयादिदत्तक्षणः प्रत्यर्थिप्रतिरोधकर्मणि महामोहः प्रवर्तिष्यते ॥ ६१ ॥
तद्वयमिदानीं भिन्नदिक्काः प्रतिष्ठेमहि । ‘आत्मार्थे पृथिवीं त्यजेत्’ इति हि वदन्ति । [इति निष्क्रान्ताः सर्वे ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु संकल्पसूर्योदयनाटके (कामादिव्यूहभेदो नाम) चतुर्थोऽङ्कः ।