तृतीयोऽङ्कः
[ततः प्रविशतो रागद्वेषौ ।]
रागः - सखे, त्वत्सहायस्य मे स्वामिकार्यनिर्वर्तनं सिद्धप्रायमिति निश्चिनोमि ।
द्वेषः - वयस्य, त्वद्विरुद्धविषयविवेकसंरम्भनिरोधेन त्वदेककार्य एव ह्यहमादिष्टोऽस्मि महाराजेन ।
रागः - सखे, अन्यदपि तावदवसरोचितमाज्ञप्तिगोचरमावेदयामि ।
विवेककुहनाबलाद्व्यतिहतेषु बाह्येष्वसौ त्रिवर्गपदवी परं शरणमद्य मोहश्रियः ।
विरक्तिमिह तापसीं व्यपनयामि दूरादहं विमथ्य विनिवर्त्यतां सपदि विष्णुभक्तिस्त्वया ॥ १ ॥
संभवति च सर्वथा सर्वतः प्रसारिताभ्यां स्वर्गापवर्गगुणदोषजालाभ्यां तयोरुपरोधः । अहं पुनर्मायासहस्रवेदी मारीचमैथिलीन्यायेन विरक्तिं तावत्तपस्विनीं विप्रलभे । भवतस्तु विष्णुभक्तिविमथने पौलस्त्य एव प्रमाणम् ।
द्वेषः - अथ किम्?
रागः - यद्यपि त्रय्यन्तवादिना महामोहसौवस्तिकानामग्रगण्या हिरण्यासुरपुरोहिता इव धरण्यामवतीर्णाः कबन्धमीमांसकाः प्रतिक्षिप्ताः, तथाऽपि तन्मतमेव सोपपत्तिकमुत्तम्भयन्स्वामिकार्यं निर्वर्तयामि ।
द्वेषः - स्थाने खलु भवतः समारम्भः, यदिह नास्तिक्यसंवर्धकानां महामोहसैनिकधुरंधराणां नासीरविजयपताका निरीश्वरमीमांसा समालम्ब्यते ।
रागः - अल्पमस्थिरमानन्दमिच्छतो यदि रागिता । अनन्तस्थिरकामस्य विरक्तिः कस्य कीदृशी ॥ २ ॥
स्वस्यैवाप्तिः सुखमिति मृषा स्वेतरस्यानुभूतौ कामादन्यः क इव घटते मोक्षनामा पुमर्थः ।
तस्मादस्मद्बहुमतनिरध्यक्षमीमांसकोक्तः(क्त्या) स्वेच्छानृत्यद्बहुगुणनिधिः स्वर्ग एवापवर्गः ॥ ३ ॥
द्वेषः - किमुच्यते? अयं पुनर्महामोहतन्त्रपारदृश्वभिः परमार्थोपदेशिभिस्सावधाननिपुणनिरूपितसंप्रदायपरंपरासमधिगतोऽर्थः
प्रपञ्चकृतकञ्चुकं यदि परं महः प्राप्यते न दुःखमपहस्तितं भवति नैकधोपप्लवात् ।
अथैकमखिलोज्झितं न खलु भोग्यतामेति तत्ततो निगममस्तकैर्निगदमात्रशेषैः स्थितम् ॥ ४ ॥
रागः - सखे, साधु भाषितम् । नूनमीदृशेन वचसा दवदहनदन्दह्यमानतरुशिखरकुलायकुहरनिष्क्रान्ता विहङ्गपङ्क्तिरिव विष्णुभक्तिरपसर्पति । अद्य खल्वनादिभोगवासनाजालजटिलबुद्धेरात्मनः कथं नाम निर्विवेको विवेकः संसारजिहासां साधयिष्यति? प्रत्युत दिव्यभौमयुवतिगुणापह्नवकुतूहली तद्गुणैरेव निबिडं निबध्यते । पश्य तावदमृतोद्भवाः परलोकतिलकभूताः पद्मलोचनाः । यासाम्,
स्मेरेण स्तनकुड्मलेन भुजयोर्मध्यं तिरोधित्सितं नेत्रेण श्रवणं लिलङ्घयिषितं नीलोत्पलश्रीमुषा ।
अङ्गं सर्वमलञ्चिकीर्षितमहो भावैः स्मराचार्यकैस्तन्वीनां विजिगीषितं च वयसा धन्येन मन्ये जगत् ॥ ५ ॥
तिष्ठतु तावदभिनवयौवनविजृम्भणम् । परामृश्यतां पुनर्विभ्रमावेशः ।
अभिनयति यथार्थान्भ्रूपताका पुमर्थान्गतिरपि गतिमन्यां मन्यते गर्हणीयाम् ।
मदकलुषितमन्तर्मन्मथाद्वैतगर्भामुपनिषदमधीते लोचनं लोलतारम् ॥ ६ ॥
द्वेषः - (सहर्षामर्षम्) सखे, विश्वपुरुषार्थविशेषविद्भिस्त्वन्मतप्रतिष्ठापकैः कामकामैरेभिः कक्षीकृतं महानन्दलक्षणं मोक्षतया महर्षिविशेषभाषितं पुरन्दरपुरीभुजिष्याभोगमवधूय विपश्चितामपि क एवायं विप्रतिषिद्धवादः?
सर्वाधारः कथं नु स्यात्सर्वदोषविवर्जितः । तथैव सर्वकामार्थी निरपेक्षः कथं प्रभुः ॥ ७ ॥
रागः - सखे, न चैतावदेव ।
मधुभरितहेमकुम्भीमधुरिमधुर्यौ पयोधरौ सुदृशाम् ।
पिशितमिति भावयन्तः पिशाचकल्पाः प्रलोभयन्ति जडान् ॥ ८ ॥
(आकाशे) किं ब्रूथ? किं न तथेति? अहह! अन्धानां कथमभिलप्यते पयसो नैर्मल्यम्?
द्वेषः - अहो महानयमध्यात्माभिनिवेशो विवेकपरतन्त्राणां वेतालानाम्! अथवा युक्तमेवैतत् । न खलु बधिराणां कुतूहलमातनोति कोकिलालापः । तिष्ठन्त्वते । विवेक एव तावज्जेतव्यः । यतः,
विवेकविजयादेव विद्वत्परिषदो जयः । उपघ्नतरुविच्छेदे न किमुच्छिद्यते लता ॥ ९ ॥
रागः - साधु विचिन्तितम् ।
द्वेषः - (सोच्चैर्हासम्)
अनघगुणौघमेकमवधूतसमाभ्यधिकं स्ववितरणीयसर्वपुरुषार्थमुपास्तिपदम् ।
उपनिषदूषरान्तरुपवर्तनधूसरधीर्न खलु विवेक एष मयि तिष्ठति साधयिता ॥ १० ॥
(नेपथ्ये) कः कोऽत्र भोः?
उभौ - (कर्णं दत्त्वा सभयसंभ्रमम्) आः कष्टमापतितम्! नरपतिनियोगनिर्वाहकौ कथमावां भविष्यावः? हन्त विपरिवृत्तमिवास्माकं भागधेयम्! अद्य हि,
अतिक्रम्य दुरुच्छेदामास्माकीं गुणवागुराम् । विरक्तिर्विष्णुभक्तिश्च विवेकस्थानमृच्छतः ॥ ११ ॥
स चैष नूनं विरक्तिविष्णुभक्तिभ्यां प्रोत्साहितो देव्या सुमत्या दत्तहस्त इतोऽभिसमेति । जितकाशिनश्चामुष्य संनिधाने मन्दभाग्यैर्नास्माभिः स्थातव्यम् । जीवन्तो हि भद्राणि पश्यन्ति । अस्मदवरजाभ्यामपि कामक्रोधाभ्यामविलम्बितकारिभ्यां विलम्बनीयम् । काले हि सर्वं संपद्यते । न चानेन व्यवसायसहायेन दुर्जयः कश्चित् । एवं च नूनमापत्स्यते राजकृत्यम् ।
धिग्धिग्वासवशम्भलीनयनयोरालोलमालोकितं धिग्धिङ्मान्मथकार्मुकं युधि सदा टङ्कारसाडम्बरम् ।
धिग्धिक्पञ्चमपाठकान्परभृतो धिग्धिक्किमन्यैर्जडैः शृङ्गारागमरङ्गमण्टपनटीं मोहेन्द्रवीरश्रियम् ॥ १२ ॥
अद्य हि,
निर्जित्य मोहमसुरेन्द्रमिवामरेन्द्रो बद्धस्य मङ्क्षु पुरुषस्य विमोक्षणेन ।
अश्रूण्यकृत्रिमगिरामभिषङ्गजातान्यानन्दजैर्विपरिवर्तयिता विवेकः ॥ १३ ॥ [इति वदन्तौ निष्क्रान्तौ ।]
इति शुद्धविष्कम्भः ।
[ततः प्रविशति विवेकः सुमतिश्च ।]
विवेकः - देवि, समाश्वसिहि समाश्वसिहि । प्ररप्रयुक्तपाटच्चरभयापनोदनेन विरक्तिविष्णुभक्ती त्वत्सकाशं प्रापिते ।
सुमतिः - (दीर्घं निश्वस्य) णाह, तह वि अज्ज वि किं होज्जत्ति तरळहिअआ किं भणामि? पच्छण्णआरिणो खु राअद्देसा ओसरं पेक्खन्ति । [नाथ, तथापि अद्यापि किं भवेदिति तरलहृदया किं भणामि? प्रच्छन्नचारिणौ खलु रागद्वेषाववसरं प्रेक्षेते ।]
विवेकः - भीरु, मा ते भूदिह मनोदौर्बल्यम् । किमस्माकमपि संनिधौ रागद्वेषयोरवकाशः? अपि च,
अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमलमतिमात्रैरद्य बाले विषादैः ।
उपनिषदमुदारामुद्वमन्क्वापि लक्ष्ये शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥ १४ ॥
सुमतिः - (सविषादं संस्कृतमाश्रित्य ।) आर्यपुत्र,
सर्गेषु प्रतिसंचरेषु बहुशः स्वर्गे तथा दुर्गतौ जाग्रत्स्वप्नसुषुप्तिमुग्धिमरणावस्थासु दुःस्थासु च ।
दुःख्यन्प्रस्तरवद्भयन्बहुपशुः सुख्यन्नसौ देहभृत् दग्धादग्धसजीवितद्रुमदशादीनो दरीदृश्यते ॥ १५ ॥
अपि च,
विचित्रजवविश्वकृद्विहृतिमारुतप्रेरणाविभक्तभवितव्यताविपिनसिन्धुविष्फूर्तिभिः ।
जटालवृजिनाविले जवनयौवनास्वादने जरामरणभीषणे जगति जन्तुरावर्त्यते ॥ १६ ॥
विवेकः - (सानुशयम्) देवि, सत्यमिदमितः पूर्वम् । अद्य खलु अपुनरावृत्तिवर्तनीमारुरुक्षतः पुरुषस्य चिरकालसंचितपुण्यसंचयविशेषमाकर्णय ।
पातत्रासनिरीक्षणप्रशमितस्वर्वासदुर्वासना पुंसः संप्रति शेमुषी निरवधिं पुष्णाति तृष्णां परे ।
अर्थित्वे मतिकश्मलप्रचलितेऽप्येवं प्रतिष्ठापिते सामर्थ्यं च समाधिसीम्नि नियतावस्थं व्यवस्थाप्यते ॥ १७ ॥
अपि च, प्रतिक्षिप्तावद्यप्रवरगुणनिर्धारणभुवा परप्रेम्णा जुष्टो भवभृदधुना भाग्यवशतः ।
अभिन्नास्वादानाममृतलहरीणामिव धियां विकल्पं विज्ञाता विधिपवनवैषम्यजनितम् ॥ १८ ॥
अयं च परमपुरुषचरणारविन्दमकरन्दमधुकरो बृन्दारकनगरमपि नरकमिव परं निश्चेष्यति । अत्र च,
भवपथकथारागे भग्ने गतागतचिन्तया परमपुरुषप्रेप्सालाभे तदद्भुतबोधनात् ।
गुणगणभिदासंभेदाभ्यामुपस्कृतविग्रहे क्षममिह परं विद्यावर्गे विमोहनिवर्तनम् ॥ १९ ॥
इह च मोहप्रशमनं दिङ्मात्रेणोदाहरामि ।
समाना मुक्तिश्चेन्न खलु घटते साधनभिदा न चेत्स्वर्गन्यायस्तरतमतयान्याभिमतया ।
प्रमाणप्रागल्भ्यप्रणिधिमवधूय प्रलपतामतिक्षीबः क्षोभः स्वमतिविहतेरेव निहतः ॥ २० ॥
एवमपि ये मुह्यन्ति ते मुह्यन्त्येव । न खलु सहस्रैरपि सलिलकुम्भैर्बलिभुजः प्रक्षाल्यमाणा वलर्क्षतां प्रतिपद्यन्ते । दुर्वादिगर्वसर्वस्वनिर्वापकैः सर्वज्ञबुद्धिवेदिभिर्वर्णितं निर्विशङ्कमखिलमधिगम्य सर्वेश्वरं निर्विशन्ति सन्तः ।
सुमतिः - (सश्लाघम्) णाह, पडिठ्ठाविअम्हि दाणिं पमाणप्पणअपेसळेण तुम्हभासिएण । पडिबुद्धजणसंभावणिज्जे पमाणउत्तन्दणिरिक्खणम्मि समब्भहिअदरिद्दं खु तुह माहप्पं । दाणिं किळ,
कप्पारम्भपअण्डतण्डवकळाकीळन्तकाळन्तअख्खोहुव्वेळकवद्दसिन्धुळहरीधूअन्तचन्दप्पहं ।
एक्कैक्कक्खरणिय्यणिब्भरसुहासन्दोहसन्तोसिआ अम्मेळन्ति भुअङ्गिआ तुह जसं वेळन्तसेळन्तरे ॥
[नाथ, प्रतिष्ठापितास्मि इदानीं प्रमाणप्रणयपेशलेन युष्मद्भाषितेन । प्रतिबुद्धजनसंभावनीये प्रमाणवृत्तान्तनिरीक्षणे समाभ्यधिकदरिद्रं खलु तव माहात्म्यम् । इदानीं किल,
कल्पारम्भप्रचण्डताण्डवकलाक्रीडत्कालान्तकक्षोभोद्वेलकपर्दसिन्धुलहरीधूयमानचन्द्रप्रभम् ।
एकैकाक्षरनिर्यन्निर्भरसुधासन्दोहसन्तोषिता आम्रेडयन्ति भुजङ्गिकास्तव यशो वेलान्तशैलान्तरे ॥ २१ ॥]
(विद्यामाहात्म्यमनुचिन्त्य सहर्षरोमाञ्चम्)
जिम्भाअन्तदइच्चमद्दणदआसळ्ळोअसोतस्सिणीवीईसीअळसाहुसुद्धसुहआ सोहन्ति विज्जा इमा ।
जाणं कं वि भवग्गिदाविअजणो घेत्तूण चिन्ताणिअं मुत्तिं पेख्खइ हत्थमज्झणिहिअं मोहम्मि सन्ते चिअ ॥ [जृम्भमाणदैत्यमर्दनदयास्वर्लोकस्रोतस्विनीवीचीशीतलसाधुशुद्धसुभगाः शोभन्ते विद्या इमाः ।
यासां कामपि भवाग्नितापितजनो गृहीत्वा चिन्तानीतां मुक्तिं प्रेक्षते हस्तमध्यनिहितां मोहे सत्येव ॥ २२ ॥]
विवेकः - किमुच्यते? अवरोपितप्रायः खलु पुरुषस्य चिन्ताभारः । अपि चास्य संसारदोषदर्शनसातत्यसमुत्थितादपि परब्रह्मदिदृक्षासंरम्भजृम्भितं परमवैराग्यमुपधानीभवति । तथा हि,
निषिद्धं विद्यार्थादधिकमपि काम्यं च विजहत्परप्रीत्यै कर्म प्रतिनियतमादाय मुदितः ।
शुभश्रद्धादुग्धोदधिनवसुधोल्लासललिते समाधावाधातुं त्वरयति मुनिः संप्रति मनः ॥ २३ ॥
अपि च,
विलक्षोपक्षिप्तं विषयरसगन्धर्वनगरप्रशंसायाथार्थ्यं प्रणिदधति चित्तेऽपि तनुभृत् ।
मया दत्ते हस्ते मतिकलुषमुल्लङ्घ्य तरसा परब्रह्मैकान्ती भवजलनिधिं गोष्पदयति ॥ २४ ॥
सुमतिः - (सविमर्शम्) तह वि पिआमहप्पमुहे महाजोइजणे वासणादाविअविसअरसबळिसमोहिए, णिसाअरग्गहणकोदूहळप्पसारिअकरस्स बाळिसस्स विअ कहं उण कस्स वि मोक्खो होज्जत्ति विअळिआसं संवीळिअं विअ मह माणसं । [तथापि पितामहप्रमुखे महायोगिजने वासनादापितविषयरसबडिशमोहिते, निशाकरग्रहणकौतूहलप्रसारितकरस्य बालिशस्येव कथं पुनः कस्यापि मोक्षो भवेदिति विगलिताशं संव्रीडितमिव मे मानसम् ।]
विवेकः - अयि भीरु, अवधारितपरमार्थाऽपि किंपचानमानसेव किं पुनरप्यतिशङ्कसे । शृणु चैतत्,
विषमधु बहिष्कुर्वन् धीरो बहिर्विषयात्मकं परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखः ।
निरवधिमहानन्दब्रह्मानुभूतिकुतूहली जगति भविता दैवात्कश्चिज्जिहासितसंसृतिः ॥ २५ ॥
निःसंशयः खलु पटुभिरपि विटपमारोहद्भिरप्राप्तानां पचेलिमानां फलानामयतमानस्यापि सुकृतपरिपाकेन पान्थजनस्य पुरतः परिपातः । अपि च,
विवित्सति यदि स्वयं किमपि सूरिसेव्यं पदं कृतस्य यदि निष्कृतिर्यदि करिष्यते नाहितम् ।
निसर्गसुहृदीश्वरो यदि च(ह) लक्ष्यमन्वीक्षते किमत्र परमुच्यते किमिति नात्मविन्मुच्यते ॥ २६ ॥
सुमतिः - णाह, जइ एव्वं तुए दिण्णहत्थो संसारसाअरं अइळङ्घेइ पुरुसो, ता कहं दवदहणपज्जळिअपस्सजुअळदारूअरगओव्व कीडो, सारमेअगणपरिगओ व्व सारङ्गो, समीरणन्दोळणडोळाअन्तपोओदरगओव्व सञ्जत्तिअसत्थो, महप्पवाहमझ्झणिरोहसंभन्तणअणो व्व जम्बुओ, विसअरपरिगहिअघरघुरन्तहिअओ व्व कुडुम्बिअणो, विअडअरभङ्गसंभमसंखुहिअगङ्गाअडवेपन्तसंहणणो व्व साहिमण्डळो, राहवसरणिअरख्खोहिअरअणाअरमज्झट्टिओ व्व मच्चसङ्घाओ सद्धसगहिओ होइ? [नाथ, यद्येवं त्वया दत्तहस्तः संसारसागरमतिलङ्घते पुरुषः, तत्कथं दवदहनप्रज्वलितपार्श्वयुगलदारूदरगत इव कीटः, सारमेयगणपरिगत इव सारङ्गः, समीरणान्दोलनडोलायमानपोतोदरगत इव सांयात्रिकसार्थः, महाप्रवाहमध्यनिरोधसंभ्रान्तनयन इव जम्बुकः, विषधरपरिगृहीतगृहघूर्णमानहृदय इव कुडुम्बिजनः, विकटतरभङ्गसंभ्रमसंक्षुभितगङ्गातटवेपमानसंहनन इव शाखिमण्डलः, राघवशरनिकरक्षोभितरत्नाकरमध्यस्थित इव मत्स्यसङ्घातः साध्वसगृहीतो भवति?]
विवेकः - भद्रे, पाण्डित्यमपि निर्विद्य वाल्येन तिष्ठसि, यन्मोक्षमाणमपि मुक्तमिवाभिमन्यसे । पश्य पश्य,
वर्णितगुणप्रकर्षा वर्णाश्रमनियमदेशकालमुखाः । अनवहितमानसानां भवन्ति नित्यं भयोदयस्थानम् ॥ २७ ॥
अन्येषु तु विशेषं बोधयामि ।
भयाभयस्थानविशेषवेदिनः प्रमादमुक्तस्य परीक्ष्यकारिणः ।
परानुभूतिप्रतिबन्धशङ्कया भयानुबन्धोऽप्यभयाय कल्पते ॥ २८ ॥
आ मोक्षाच्च विदुषोऽपि निरनुबन्धा भीतिरिति नभःप्रसूनसौरभावादः ।
दिग्देशकालकरणाकरणादिरूपे देहादिके च हितसाधनभावयोग्ये ।
दुष्कर्मपङ्क्तिमनुचिन्तयतो विचित्रां किं तद्यदस्य पुरुषस्य न भीतिहेतुः ॥ २९ ॥
सुमतिः - एव्वं किळ सव्वं वि जइ भअठ्ठाणं, ता कहं णिब्भअणिप्पाअणिज्जं पणिहाणं संपज्जइ? [एवं किल सर्वमपि यदि भयस्थानम्, तत्कथं निर्भयनिष्पादनीयं प्रणिधानं संपद्यते?]
विवेकः - भद्रे, सम्यगनुयुक्तं भवत्या । अस्ति खलु सूक्ष्मं किञ्चित् । तदपि प्रतिपन्नमेव त्वां बोधयामि । प्रतिसन्धीयतामिदं तावत् ।
सुमतिः - आणवेदु अय्यउत्तो । [आज्ञापयत्वार्यपुत्रः ।]
विवेकः - प्रवृद्धमतिकश्मलप्रलयपावकप्रक्रियां विमुच्य भगवत्कृपां वृजिनसिन्धुकुक्षिम्भरिम् ।
कदध्वपरिवर्तिभिर्यदिह कर्म निर्मीयते तदस्तु लवणाकरे लवणसेतुराधित्सितः ॥ ३० ॥
यः पुनरनन्यभावेन भगवदनुकम्पामालम्बते तस्य तु तादृशीं सिद्धिमवधारय ।
विविक्तनिखिलस्थितिर्विषयवृत्तिनिर्वेदवान्विरक्तिपरिरम्भणग्लपितसर्वदुर्वासनः ।
निवृत्तिपथजाङ्घिको निभृतचित्तवृत्तिः परं प्रपद्य मुरभित्पदं भवमतीत्य संसिध्यति ॥ ३१ ॥
सुमतिः - जुत्तं एदं । तह वि पच्चक्खिअपरमत्थं तुमं एव्व परिपुच्छम्मि । णिम्मळगुरुसआसणिद्धारिअणिअमन्तहिअआणं णिठ्ठाविअणिहिळपडिपख्खाणं णिस्सेसपसमिअणिज्जरघरवासरसवासणाणं अणालक्खिअदोसगन्धमङ्गळेक्कताणमहुमहणचळणसेवामहाणन्दळाहळम्पडाणं अप्पमाअपरिगहिअणिउत्तिधम्माणं असम्भाविअपच्चूहाणं वि महापुरुसाणं केण उण विणिवाएण मोक्खोवाओ सिग्धं ण संपज्जइ? [युक्तमेतत् । तथापि प्रत्यक्षितपरमार्थं त्वामेव परिपृच्छामि । निर्मलगुरुसकाशनिर्धारितनिगमान्तहृदयानां निष्ठापितनिखिलप्रतिपक्षाणां निःशेषप्रशमितनिर्जरगृहवासरसवासनानाम् अनालक्षितदोषगन्धमङ्गलैकतानमधुमथनचरणसेवामहानन्दलाभलम्पटानाम् अप्रमादपरिगृहीतनिवृत्तिधर्माणामसंभावितप्रत्यूहानामपि महापुरुषाणां केन पुनर्विनिपातेन मोक्षोपायः शीघ्रं न संपद्यते?]
विवेकः - प्रिये, इदमपि ते महामतिभिरवधारणीयमतिगहनमभिदधामि, यत्तत्सनकसनन्दनसनत्कुमारनारदशाण्डिल्यप्रभृतयः परमैकान्तिनः प्रतिपादयन्ति । आकर्ण्यतामेतदवहितया भवत्या ।
तिमिं किल तिमिङ्गिलो गिलति तद्गिलस्तं तथा तमप्यथ च तद्गिलस्तदिह पश्य कर्मक्रमे ।
समस्तवृजिनोदधिग्रसनडम्भकुम्भोद्भवं निवृत्तिमपि धर्ममत्त्यनघतत्त्वविन्निग्रहः ॥ ३२ ॥
अन्यदप्येतादृशमवधारयेथाः ।
प्रथितं पातकिवर्गं कृतघ्न एको हि कृत्स्नमतिशेते । तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥ ३३ ॥
सुमतिः - (विचिन्त्य) इइ णाम णिस्समब्भहिअमाहप्पस्स पडिबुद्धअणणिग्गहस्स पहावो दंसिओ । अस्स उण णाह किं णत्थि परिहारो? [इति नाम निःसमाभ्यधिकमाहात्म्यस्य प्रतिबुद्धजननिग्रहस्य प्रभावो दर्शितः । अस्य पुनर्नाथ किं नास्ति परिहारः?]
विवेकः - अस्ति तु कश्चिदेकः, यदिह पुनस्तत्प्रसादनम् । तथा हि,
तोयोज्झनेन परितापमुपेत्य जन्तुस्तोयेन जीवति पुनः क्रमयोजितेन ।
तद्वन्महत्त्यजनतस्तमसि प्रविष्टस्तत्संश्रयेण भजते परमार्थदृष्टिम् ॥ ३४ ॥
अपि च,
बहुजन्मसुकृतसिद्धं ब्रह्मविदपचारदूरगं पुरुषम् ।
अभिसरति नित्यरक्ता सत्वरमपवर्गसाधिनी विद्या ॥ ३५ ॥
सा च,
परभक्तिरप्रकम्प्या निवृत्तिधर्मानुबन्धिगुणबन्धैः ।
भवजलधिपोतपात्री जाता वृद्धिं दिने दिने भजते ॥ ३६ ॥
सुमतिः - (सविमर्शम् ।) जुत्तं एदं, जइ दुण्णिवारणिअइबळणिम्मिआ अपक्कणिस्सेसकसाअस्स मोक्खपक्खणिक्खेवजोग्गा अणिममहिमगरिमळहिमवसत्तणेसत्तणपत्तिपाअम्मप्पमुहा परमपुरुसत्थसिद्धिसाहणजोअन्तराआ ण होन्ति । [युक्तमेतत्, यदि दुर्निवारनियतिबलनिर्मिता अपक्वनिःशेषकषायस्य मोक्षपक्षनिक्षेपयोग्या अणिममहिमगरिमलघिमवशित्वेशत्वप्राप्तिप्राकाम्यप्रमुखाः परमपुरुषार्थसिद्धिसाधनयोगान्तराया न भवन्ति ।]
विवेकः - सत्यं देवि, दुर्जया एते दुरन्तवैरिणो योगान्तरायाः । तदेषां संभवे परिहरणादपि संभवस्यैव परिहरणेन निष्प्रत्यूहा भवति नैश्रेयसी सिद्धिः ।
[ततः प्रविशति भूर्जपत्रभूषितोत्तमाङ्गो दूतः ।]
दूतः - (साञ्जलिबन्धम्) राजन्, अयमहमस्मि देवस्य महाराजस्य महामोहस्य दृष्टिपथमनुज्झन् सर्वत्राप्रतिहतगतिः संवृतिसत्यो नाम दूतः । तदभिवादये सावरोधं भवन्तम् ।
विवेकः - (स्वगतम्) किंनिमित्तमयमुपागतः? (प्रकाशम्) अस्थानवृत्तिमपहायापरिमितायुर्भूयाः ।
दूतः - (उत्तमाङ्गादवतारितं दरविकसिताञ्जलिकोशनिहितं भूर्जपत्रमुपदर्शयन्) इदं किल महाराज, चतुर्दशभुवनचक्रचक्रवर्तिनो द्वापरमन्त्रिनिर्धारितनिखिलकार्यस्य दुर्मतिमतप्रतिष्ठितस्य देवस्य महामोहस्य लोभनाम्ना गणकेन लिखित्वा त्वदर्थं प्रेषितमन्तरङ्गेण मया उपहृतमलङ्घनीयं शासनम् ।
विवेकः - (सानादरावहित्थम्) भद्र, अस्माकमप्यभिमतः खल्वसि । तदिह उपह्वरे त्वमेव वाचय ।
दूतः - यदादिशति महाराजः । (इति विनयनिभृतं वाचयति ।)
एतत्कामादिमान्यस्य महामोहस्य शासनम् । संसारहासभीतानां स्वर्गिणामपि संमतम् ॥ ३७ ॥
विवेकः - (अपवार्य सान्तर्हासम्) देवि, किं वयमपि शासनीया दुरात्मनो महामोहस्य? परचित्तवेदनार्थमिह वाचिकं तावच्छ्रोतव्यम् । भद्र, ततस्ततः ।
दूतः - परोपास्तिश्रद्धावधिकमतिवृत्तं यदिह ते तदैश्वर्यप्राप्त्यै भातु बहुमन्येमहि तदा ।
विवेकः - (अवज्ञां नाटयन्) प्रिये, आकर्णितः किलायं भिक्षुपादप्रसरणन्यायः? अथवा, स्वाभाव्यमेव शवमुष्टिवद्गृहीतग्राहिता महामोहस्य ।
सुमतिः - एव्वं एदं । [एवमेतत् ।]
विवेकः - ततः ।
दूतः - अतिक्रान्तावस्मद्भ्रुकुटिनटनारम्भसमयप्रदीप्तक्रोधादिप्रतिभटनिरुद्धो न भवसि ॥ ३८ ॥
विवेकः - प्रिये स्वधर्मनिरतानस्मान् प्रति सोऽयमाशीर्वादः । अयि मोहदूत, किमस्ति शेषं वाचिकस्य?
दूतः - अस्ति किञ्चिदात्मीयबलाध्यक्षकामक्रोधवैभवविषयम् ।
विवेकः - अस्तु को दोषः? शृणुमस्तावत् ।
दूतः - विश्वाधिको विलयमेष्यति कस्य भूम्ना वीरः प्रसिद्धमहिमा विबुधेषु कामः ।
क्रोधोदितं यदनुभाववशेन शंभोः शृङ्गारशीतलमभून्नयनं तृतीयम् ॥ ३९ ॥
अपि च,
कामोऽसौ समवर्तताग्र इति हि ब्रूते समीची श्रुतिः कामादेव जगज्जनिस्थितिलयैराद्यः पुमान्क्रीडति ।
निष्कामोऽपि सकाम एव लभते निःश्रेयसं दुर्लभं कामः कस्य वशे क एष भुवने कामस्य न स्याद्वशे ॥
सुमतिः - महाराअ, किं तुम्हेहिं वि दुज्जओ मअरलञ्छणो? [महाराज, किं युष्माभिरपि दुर्जयो मकरलाञ्छनः?]
विवेकः - देवि! मिथ्यादृष्टिप्रियस्य मोहस्य प्रलपिते किं प्रत्युच्यते? अवशिष्टमपि निशमयामः ।
दूतः - यदि कुप्यति कोपाय न कोपमतिवर्तते । अकोपविषयं कोपं कथं कश्चिद्विजेष्यते ॥ ४१ ॥
तदिदमुभयतस्पाशा रज्जुः ।
सुमतिः - णाह! णं कामादो वि कोवो दुज्जओ, जेण कामजअम्मि वि सअं काळणं होइ । [नाथ! ननु कामतोऽपि कोपो दुर्जयः, येन कामजयेऽपि स्वयं कारणं भवति ।]
विवेकः - प्रिये! स्थानक्रोधो न खलु दोषाय, योऽसौ कामादिनिरसनार्थतया परमार्थवेदिभिः प्रशस्यते । (दूतमवलोक्य) दूत! श्रुतमिह श्रोतव्यम् । ब्रूहि मद्वचनाद्युष्मत्स्वामिनम् ।
अप्राणितमहामोहमनङ्गीकृतमन्मथम् । विधूतप्रतिघं लोको विवेकं बहु मंस्यते ॥ ४२ ॥
दूतः - साधयाम्यहम् (इति द्वित्रिपदमतिक्रम्य, स्वगतम्)
सुप्तप्रबोधनसमुत्सुकया सुमत्या पत्न्या सहाचरितविश्वहितं विवेकम् ।
जेतुं क एव जगति प्रभवेत्तथाऽपि स्वामी नियोजयति मोह इति स्वयं नः ॥ ४३ ॥ (प्रकाशम्) महाराज, ‘त्यजेदेकं कुलस्यार्थे’ इति नीतिं नातिवर्तेथाः ।
(इति निष्क्रान्तः ।)
सुमतिः - अय्यउत्त! जइ मुत्तिसाहणसज्जो पुरुसो मोहप्पउत्तेहिं कामक्कोहळोहमअमच्छरप्यहुदीहिं अहिहूअइ, एआवन्तो तुम्ह परिस्समो विअळो होइ । [आर्यपुत्र! यदि मुक्तिसाधनसज्जः पुरुषो मोहप्रयुक्तैः कामक्रोधलोभमदमत्सरप्रभृतिभिरभिभूयते, एतावांस्तव परिश्रमो विफलो भविष्यति ।]
विवेकः - देवि! मैवं मन्वीथाः । आशंसेथाः पुनः शोभनमेव ।
त्रय्यन्तैरवधारिते भगवति क्षिप्ते विरोधभ्रमे साङ्गोपायविभागसंभृतमतिः संप्रत्यसौ साधकः । कामक्रोधनिशातकण्टकमिलत्कालुष्यपङ्कच्छटानिर्मुक्तेन सुशीतलेन च पथा निःश्रेयसं प्राप्स्यति ॥ ४४ ॥
(नेपथ्ये)
दिव्यवैतालिकौ - विजयतां देवः ।
प्रथमः - रम्या यामवतीपदार्पणपटी रागाब्धिवेलोद्गतिश्चेतोजन्मकदम्बधूलिविततिः शृङ्गारचूडाजपा ।
संमोहद्विपशोणबिन्दुपटली सन्ध्या जरीजृम्भ्यते प्रत्यग्दिग्वनितापयोधरतटीकाश्मीरपङ्कद्युतिः ॥ ४५ ॥
द्वितीयः - दिनाधिपविनाकृतिव्यसनखिन्नसन्ध्यावधूविधूतकबरीभरप्रसरकौतुकापादकम् ।
विशृङ्खलकलिन्दजाजलतरङ्गभङ्गावलीमलीमसमिदं तमो जगदशेषमाचूषति ॥ ४६ ॥
विवेकः - (कर्णं दत्त्वा) देवि! दिवाभीतप्रायस्यास्मत्प्रतिपक्षस्य सौप्तिकसंनाहसमयं सूचयतः प्रायेण स्वतो वियातवादिनौ वैतालिकौ । संपश्यतां भवती,
प्रकाशः संकोचं भजति जगतः सीदति रवौ तमिस्राविष्फूर्तिः स्थगयति मुखं शक्रहरितः ।
अवस्कन्दन्विश्वं सुमुखि मधुना साकमधुना विधत्ते दुर्दान्तो विविधमपनीतं रतिपतिः ॥ ४७ ॥
अपि च,
अश्रान्तसन्ततिभिराभरणप्रकाशैराम्नेडयन्त्य इव मङ्गलदीपभासः ।
अन्तःपुरं तिलकयन्ति समं समन्तादारात्रिकं मृगदृशो नियमं विधातुम् ॥ ४८ ॥
तदहमिह सान्ध्यं नियममनुपाल्य परब्रह्मप्रवणमानसं पुरुषमभिरक्षामि, भवत्यपि क्षान्तिशान्त्यादिपरिजनसेविता मङ्गलाचरणसौधमधिरुह्य मत्प्रत्यागमनप्रतीक्षा वर्तेथाः ।
[इति सुमत्या सह निष्क्रान्तः ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतियु सङ्कल्पसूर्योदयनाटके (मुक्त्युपायारम्भो नाम) तृतीयोऽङ्कः ।