02

द्वितीयोऽङ्कः  

[ततः प्रविशति श्रद्धा विचारणा च ।]
विचारणा - समजळबिन्दुणिअरणिभ्भासिअणिडाळअळा वच्चदंसणूसुआ वच्चळेव्व तुरन्ती (वंटसि) वट्टसि ।
मुहचन्दसन्दिअसुहासुहआ छविफुळ्ळमळ्ळिमअरन्दणिहा ।
णवसोम्मजोव्वणळआकळिआसिरिमुव्वहन्ति तुह सेअकणा ॥ १ ॥
[श्रमजलबिन्दुनिकरनिर्भासितनिटालतला वत्सदर्शनोत्सुका वत्सलेव त्वरमाणा वर्तसे ।
सुखचन्द्रस्यन्दितसुधासुभगाश्छविफुल्लमल्लीमकरन्दनिभाः ।
नवसौम्ययौवनलताकलिकाश्रियमुद्वहन्ति तव स्वेदकणाः ॥ १ ॥]
श्रद्धा - पिअसहि, दाणिं किळ एक्कमुहप्पडिठ्ठाविअसुइसिरसिद्धन्तस्स पडिपख्खपडिख्खेवभाविअपडिण्णस्स भत्तुणो विवेअस्स सहधम्मआरिणी देवी सुमई पक्कन्दणिव्वहणदोहळेण परिगहिअमङ्गलाआरा पमदावणपारिसरअणसेळं आसिदा कमलावइचळणकमळसमच्चणजोग्गाइ कञ्चणपदुमाइ उवहरिउं आणविऊण सोहणेक्कताणहिअआ सुहं ठाइ । ता झत्ति उवसप्पम्मि पङ्कआसणवअणपङ्कअराअहंसिं भारइं विअ पसण्णप्पवाहं भाईरहिं । [अध्वश्रममभिनीय]
कछ्छुत्तंसिअकप्परुख्खसिहरुभ्भासन्तवासन्तिआगन्धुग्गारफुरन्तसोम्मळहरीसोहन्तरोहन्तरा ।
अह्मे दूसहजम्मसंचरसमासिद्धाइ सुद्धाकिदी दुक्खाइं कइआ णु काहइ स मन्दाइ मन्दाइणी ॥ [प्रियसखि, इदानीं किल एकमुखप्रतिष्ठापितश्रुतिशिरःसिद्धान्तस्य प्रतिपक्षप्रतिक्षेपभावितप्रतिज्ञस्य भर्तुर्विवेकस्य सहधर्मचारिणी देवी सुमतिः प्रक्रान्तनिर्वहणदोहलेन परिगृहीतमङ्गलाचारा प्रमदावनपार्श्वरत्नशैलमाश्रिता कमलापतिचरणकमलसमर्चनयोग्यानि काञ्चनपद्मानि उपहर्तुमाज्ञाप्य शोभनैकतानहृदया सुखं तिष्ठति । तज्झटित्युपसर्पामि पङ्कजासनवदनपङ्कजराजहंसीं भारतीमिव प्रसन्नप्रवाहां भागीरथीम् ।
कच्छोत्तंसितकल्पवृक्षशिखरोद्भासमानवासन्तिकागन्धोद्गारस्फुरत्सौम्यलहरीशोभमानरोधोन्तरा ।
अस्माकं दुस्सहजन्मसंचरश्रमासिद्धानि शुद्धाकृतिर्दुःखानि कदा नु करिष्यति स्वयं मन्दानि मन्दाकिनी ॥ २ ॥]
विचारणा - (अग्रतो निर्दिश्य) एसा खु सा अम्हाणं आसण्णअरा । ता इमस्सिं सज्जनहिअअसीअलमन्दमारुअन्दोळिअमन्दारद्दुमकुसुममअरन्दसोरहभरिअमहुमहणपअसरिआपुळिणमाहवीलदाघरे खलवअणतिण्हउण्हअरकिरणसन्तावं उवसमऊण खणन्तरे गमिस्ससि । जद्ध अ,
एदे णिब्भरणिय्यसोरहसुहापब्भारविभ्भाइअं माणुळ्ळुञ्छणमीणलञ्छणमहाधाणुक्कबाणुक्करं । छाआळीणमहिन्दवारवणिआधम्मिळ्ळमळ्ळोइअं साखग्गेहि मुअन्ति पुप्फणिअरं रुक्खा मरुख्खोहिआ ॥
[एषा खलु साऽस्माकमासन्नतरा । तदेतस्मिन् सज्जनहृदयशीतलमन्दमारुतान्दोलितमन्दारद्रुमकुसुममकरन्दसौरभभरितमधुमथनपदसरित्पुलिनमाधवीलतागृहे खलवचनतीक्ष्णोष्णकरकिरणसन्तापमुपशमय्य क्षणान्तरे गमिष्यसि । यत्र च,
एते निर्भरनिर्यत्सौरभसुधाप्राग्भारविभ्राजितं मानोल्लुञ्छनमीनलाञ्छनमहाधानुष्कबाणोत्करम् ।
छायालीनमहेन्द्रवारवनिताधम्मिल्लमाल्योचितं शाखाग्रैर्मुञ्चन्ति पुष्पनिकरं वृक्षा मरुत्क्षोभिताः ॥ ३ ॥]
श्रद्धा - जह रोअइ पिअसहीए । [यथा रोचते प्रियसख्यै ।] [उभे सललितमासाते]
श्रद्धा - हळा विआरणे, तुमं उण किंणिमित्तं इमं देसं आअदा? [हला विचारणे, त्वं पुनः किंनिमित्तमिमं देशमागता?]
विचारणा - सुय्यउ पिअसहीए । अज्ज खु विवेअमहाराअस्स ववसाअसेणावइसहाअस्स संणाहं सुणिऊण कुविएण रण्णा महामोहेण बुद्धजिणप्पमुहसिद्धन्तठावणप्पवीणा कुहअवाइणो कुमइगणेहिं सह पुरुसुत्तमपअपदुमणिअमिअचित्तं पुरुसं हालिअजम्बुअदंसणण्णाएण अत्थन्तरप्पसङ्गेण पआरेउं आदिट्ठा उवसप्पन्तित्ति किंवअन्तिं आकण्णअन्तीए भठ्ठिणीए सुमदीए विपख्खउत्तन्दं एअन्ते सेणावइणो विण्णवेदूं आणता महाराएण विवेएण स हमन्तणप्पउत्तं तं एव्व दट्ठुं उवठ्ठिअम्हि । [श्रूयतां प्रियसख्या । अद्य खलु विवेकमहाराजस्य व्यवसायसेनापतिसहायस्य संनाहं श्रुत्वा कुपितेन राज्ञा महामोहेन बुद्धजिनप्रमुखसिद्धान्तस्थापनप्रवीणाः कुहकवादिनः कुमतिगणैः सह पुरुषोत्तमपदपद्मनियमितचित्तं पुरुषं हालिकजम्बुकदर्शनन्यायेन अर्थान्तरप्रसङ्गेन प्रतारयितुमादिष्टा उपसर्पन्तीति किंवदन्तीमाकर्णयन्त्या भर्त्र्या सुमत्या विपक्षवृत्तान्तमेकान्ते सेनापतये विज्ञापयितुमाज्ञप्ता महाराजेन विवेकेन सह मन्त्रणप्रवृत्तं तमेव द्रष्टुमुपस्थिताऽस्मि ।]
श्रद्धा - अज्ज उण पिसाअविवाहम्मि गद्दभगाणं संवुत्तं, जं महामोहसमीहिए दुव्वाइणं सण्णाहो । होदु णाम ईसक्करं एव्व परसिद्धन्तणिम्मूलणं महाराअस्स । [अद्य पुनः पिशाचविवाहे गर्दभगानं संवृत्तम्, यन्महामोहसमीहिते दुर्वादिनां संनाहः । भवतु नाम ईषत्करमेव परसिद्धान्तनिर्मूलनं महाराजस्य ।]
विचारणा - हळा, बिअप्पइप्पमुहेहिं पडिठ्ठाविआणं पबलाणं बहूणं पडिपख्खाणं एक्केण णिम्मूळणं तुए कहं आसंसिअं? [हला, बृहस्पतिप्रमुखैः प्रतिष्ठापितानां प्रबलानां बहूनां प्रतिपक्षाणामेकेन निर्मूलनं त्वया कथमाशंसितम्?]
श्रद्धा - जं सच्चं तं एव्व णिच्चं होइ, जं उण मिछ्छा तं काळेण अळीअं होइत्ति जणवादसंवाइणा बलवन्तेण पमाणेण । पेख्खिहिसि तुमं एव्व मह वअणसच्चत्तणं ।
दीसन्तो दिअसेसरोव्व बहळं अन्धारपब्भारअं दिप्पन्तो अ दवाणळोव्व विउळं विञ्झाटवीमण्डळम् ।
तूरन्तो अ पहञ्जणोव्व तुळिअं सेळेण तूळुक्करं पेख्खन्तो णिहिळं वि दुम्मइमअं भेत्तुं विवेओ पहू ॥ ४ ॥
ता विवेअविअअकामस्स महामोहस्स कुमइगणसङ्गहणं साअरलङ्घणू सुअस्स उवलसहाआण्णेसणं ।
[यत्सत्यं तदेव नित्यं भवति, यत्पुनर्मिथ्या तत्कालेनालीकं भवतीति जनवादसंवादिना बलवता प्रमाणेन । प्रेक्षिष्यसे त्वमेव मम वचनसत्यत्वम् ।
दृश्यमानो दिवसेश्वर इव बहुलमन्धकारप्राग्भारकं दीप्यमानश्च दवानल इव विपुलं विन्ध्याटवीमण्डलम् ।
त्वरमाणश्च प्रभञ्जन इव तुलितं शैलेन तूलोत्करं प्रेक्षमाणो निखिलमपि दुर्मतिमतं भेत्तुं विवेकः प्रभुः ॥
तस्माद्विवेकविजयकामस्य महामोहस्य कुमतिगणसंग्रहणं सागरलङ्घनोत्सुकस्य उपलसहायान्वेषणम् ।]
विचारणा - पच्चाइअम्हि पिअसहीवअणेन । संता मे विचिकिच्चा । अविलम्बिअकिअप्पेसणं भट्टिणिं पेख्खामि ।
[प्रत्यायिताऽस्मि प्रियसखीवचनेन । शान्ता मे विचिकित्सा । अविलम्बितकृतप्रेषणां भर्त्रीं प्रेक्षे ।]
श्रद्धा - हळा, समाणचित्तउत्तित्तणं सहित्तणं तुए पआसिअं । अहं अ कमलाइ अवचेउं आरद्धा । तुमं वि राअघरं पविससु । [हला, समानचित्तवृत्तित्वं सखित्वं त्वया प्रकाशितम् । अहं च कमलान्यपचेतुमारब्धा । त्वमपि राजगृहं प्रविश ।
[इति निष्कान्ते ।]
[प्रवेशकः]
(ततः प्रविशति राजा व्यवसायश्च ।)
राजा - सेनापते! कठिनतरकर्मपाशकोटिनिबिडयन्त्रितमुधाव्यापारमोमुह्यमानपुरुषमोक्षणव्रतदीक्षितस्य मम स एष समयः सत्त्वमार्गविषयकृताकृतप्रत्यवेक्षणेन कृत्यशेषनिर्धारणस्य । (मुहूर्तमिव स्थित्वा, सविषादम्)
जडमतिबहुलेऽस्मिन् दैवकोपाज्जनित्वा जगति निरपराधे जातनिर्व्याजवैराः ।
कति कति कलहार्थं कॢप्तसिद्धान्तभेदाः प्रलपनमुखभेदान् पाठयन्ति प्रगल्भाः ॥ ५ ॥
आः कष्टम्! व्यामोहजनकविविधसमयोपप्लुते जगति कथमियमध्यात्मविद्या प्रतिष्ठास्यति? (आकाशे) भो भो महामोहापशद, त्रिभुवनसंमोहनेन भवता किं नाम लब्धं लप्स्यते वा? अपि च,
सर्वतः करवीरादीन् सूते सागरमेखला । मृतसञ्जीविनी यत्र मृग्यमाणदशां गता ॥ ६ ॥
तदहमीदृशोपप्लवशमनाय भगवन्तमेवाभिगच्छामि । (स्मरणमभिनीय)
स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ ७ ॥
अपि च,
समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्प्रतिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ८ ॥
सेनापतिः - महाराज, सर्वत्र सिद्धारम्भः खल्वसि । अमोघ एव खल्वनरण्यशाप इवारण्यकवादो भवत्प्रभावेन महामोहविध्वंसनवादी । अद्य च,
त्वया त्रय्यन्तविज्ञानं पुरुषस्य विभावितम् । श्रद्धावैकल्यमात्रं तु शमनीयमतः परम् ॥ ९ ॥
राजा - (सपरितोषम्) भद्र, साधु संबोधितोऽस्मि भव्यवृत्तेन भवता । त्वत्सहायस्य मे कृत्यशेषमपि कृतप्रायमेव निश्चिनोमि ।
शमदममुखास्तिष्ठन्त्वेते शतं शतमुत्थिता निरुपधिमहामोहश्रद्धानिवारणलम्पटाः ।
दनुजमथने विष्वक्सेनो हरेस्तदनन्यधीः प्रतिमततमश्छेदे हेतुस्त्वमप्यनघो मम ॥ १० ॥
सेनापतिः - देव, प्रहरणनयेन परेषु प्रयोक्तव्यतया परतन्त्र एवाहं भवतः ।
निष्प्रत्यूहसमुत्थितैरधिगतस्थैर्यः प्रमाणादिभिः स्वच्छन्दप्रथमानशौर्यविभवः स्वायत्तसिद्धिर्भवान् ।
इत्थं सत्यनुपप्लवं परिपतच्चिन्ताफलस्रोतसः सत्तावस्थितिवृत्तिषु स्वयमहं छायासमस्तस्य ते ॥ ११ ॥
तस्मादहं वा सुमतिर्वा जलोद्धृतमत्स्यन्यायेन भवन्तं विना मुहूर्तमपि न जीवावः ।
राजा - (विचिन्त्य) सेनापते, पश्य पश्य,
असुरादिमोहनविधौ विहिताः प्रमितावतीतसमयाः समयाः ।
तपनापनेयतिमिरक्रमतः प्रचरन्ति हन्त जगदन्तरतः ॥ १२ ॥
एते च मधुमथनभुजबलपरिभ्रमितमन्दरमहीधरमथ्यमानमहार्णवनिर्घोषनिर्विशेषनिरर्थकविविधवाचो वाचस्पतिमपि वनस्पतीकर्तुमुद्युञ्जते वशिका वावदूकाः । तदमी सावधानसंप्रयुक्तारम्भेण प्रकटप्रकाशितसाधनोपालम्भदंष्ट्राङ्कुरेण प्रतिपन्नखरतरतर्कपञ्चकनखरेणारण्यकारण्यवर्तिना प्रमाणपराक्रमकण्ठीरवेण नियतमकुण्ठशक्तिना निरसनीयाः सत्पथविस्रम्भरम्भावनमथनविहितसंरम्भाः प्रचण्डा वैतण्डिकवेतण्डाः ।
सेनापतिः - देव, नियुक्तो हि त्वया वादेन सह वेदान्तसिद्धान्तः प्रतिमतनिर्मूलनाय । तदासीदत्येषा कथासंग्रामसीमा ।
(ततः प्रविशतो गुरुशिष्यवेषधारिणौ सिद्धान्तवादौ ।)
गुरुः - आयुष्मन्, अवधारितपरमार्थेन प्रतिभटकथकलङ्काभटहनूमता भवता स्थूणानिखननन्यायेन संचलितनिष्कम्पमध्यात्मतत्त्वमवगच्छामि ।
शिष्यः - (सप्रश्रयम् ।) भगवन्, दिव्येन यतीन्द्रवेषेण दत्तात्रेय इव संदृश्यसे । योऽसौ महर्षिभिरनुस्मर्यते -
काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी ॥ १३ ॥ इति ।
गुरुः - आयुष्मन्, असुराः खल्वेते बाह्याः कुदृष्टयश्च । तानहं विष्णुरूपमाश्रित्य विजिगीषे ।
शिष्यः - भगवन्, विष्णुरूपी सन्विष्णुभावेन नमस्यः खल्वसि । ततश्च,
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ।
शरणागतसार्थवाहकं त्वां शिखया शेखरशालिनं भजामि ॥ १४ ॥ (इति साष्टाङ्गं प्रणमति)
गुरुः - आयुष्मन्,
प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः । भूयास्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥
(इति दिव्यशक्तिमयं दर्भपवित्रं ददाति; शिष्यः तदादाय शिरसि निधाय दक्षिणे हस्ते धारयति ।)
गुरुः - अविश्रान्तश्रद्धाशतकलहकल्लोलविषमास्तवाविर्भूयासुर्मनसि मुनिसिद्धादिसुलभाः ।
मधुक्षीरन्यायस्वगुणविभवासञ्जनकनन्महानन्दब्रह्मानुभवपरिवाहा बहुविधाः ॥ १६ ॥
शिष्यः - (सप्रश्रयम्) अमोघाशिषो भगवतः प्रसादेन सिद्धमेव मे सर्वं समीहितम् । अथ च भगवन्, यदहमिह किञ्चित्पृच्छामि, तद्यदि श्रावयितुमर्हामि, श्रावयितव्योऽस्मि ।
गरुः - सम्यगुपसन्नस्य सच्छिष्यस्य समये सति किं न श्रावयितव्यम्?
शिष्यः - भगवन्, विगृह्य कथाकरणं महर्षिभिः प्रतिषिध्यते । वादेन ब्राह्मणं जित्वा हृष्टस्य पापिष्ठपादपत्वप्राप्तिश्च प्रतिपाद्यते । कथमिदानीं विजिगीष्यन्ते विपक्षवादिनः?
गुरुः - (सप्रसादम्) भद्र, साधुबुद्धिना त्वया सम्यगनुयुज्यते । किं तु वर्णाश्रमजातिगोत्रप्रवरकुलचरणदेशकालादिविषयभेदेन व्यवस्थितैव हि विधिनिषेधमर्यादा । तदहमिदानीं परिगृहीतनियमानुगुणं स्वयं विपक्षनिरसनमकुर्वाणः कौशिक इव राघवं त्वां पुरस्कृत्य कुदृष्टीन्बाह्यांश्च निराचिकीर्षामि । तत्र च,
दूरे भवतु ते वीर जल्पः सह वितण्डया । त्वमेव स्थिरवादात्मा निरुन्धि परिपन्थिनः ॥ १७ ॥
अथवा, त्वया मन्निदेशानुवर्तिना कौशिकनियमितेन राघवेणेव लब्धाधिकारेण यथाविधि वीतरागकथानवसरे वेदेश्वरविदूषकाः सर्वे तत्त्वाध्यवसायसंरक्षणार्थं बलातिबलाभ्याभिव जल्पवितण्डाभ्यामपि जेतव्याः ।
शिष्यः - (साञ्जलिबन्धम्) शिरसा प्रतिगृहीतोऽयं भगवतः समादेशः । अथापि भगवता विश्वाचार्येण भवता कथमिह मितंपचे मयि कथकभार आरोप्यते?
गुरुः - अवधार्यतामेतत् ।
नित्यक्षिप्तपरस्परेषु समयग्रामेषु निष्णातिनः शिष्याः केचन सन्ति नः क्षितितले शिक्षाधिकग्राहिणः ।
तत्र त्वद्भुतनिर्भरप्रसरया बुद्ध्या परिष्कारिणस्त्वत्तः प्रत्ययितो न कश्चिदपरः प्रत्यर्थिभिः प्रार्थितः ॥
शिष्यः - यदादिशति भगवान् । अत्र तु कञ्चित्सिद्धान्तमनवलम्ब्य न कापि कथा प्रवर्तते । अतः स्वाभिमते कुत्रचिन्मामवस्थापयतु भगवान् ।
गुरुः - भद्र, इह किल सयूथ्यकलहे समानतन्त्रे त्वया स्थातव्यम् । विपक्षविप्रतिपत्तौ तु वेदान्तसिद्धान्ते । तत्रापि पराशरपाराशर्यशुकशौनकबोधायनप्रभृतिभिः परिचितं पन्थानमाश्रित्य परमार्थदर्शिदेशिकदत्तदृष्टिभिरस्माभिः परिमितविशदगम्भीराः पञ्चषाः प्रबन्धाः प्राभन्त्सत । तेष्ववहितचेतसा त्वया प्रतिसंहितपरमार्थेन पारिषदहृदयङ्गमाः प्रमाणतर्काः प्रयोक्तव्याः ।
शिष्यः - भगवति प्रसेदुषि न क्वचित्प्रमाद्यामि । यतः,
गुरुप्रसदनस्फुरद्गुणगरिम्णि यन्मानसे सकृत्स्फुरति वस्तु तन्न हि किमप्यपभ्रश्यति ।
ऋषिस्तदितरोऽपि वा यदि गृणाति गत्यन्तरं विकल्प्य तदपि क्षणाद्विलयमभ्युपैति स्वयम् ॥ १९ ॥
गुरुः - भद्र, विश्वव्यामोहनविषमयुक्तिभयात्त्वां नित्यमवधानेन योजयामि । इह हि,
कुटिलमतिभिः कॢप्ता बाह्यैः कुदृष्टिभिरप्यसौ कथकपरिषद्धौरेयाणामपि क्षणकर्कशा ।
प्रलपनगुणीभूतालीकप्रकाशनपत्रला युवतिहृदयक्रूरा युक्तिर्युनक्त्यमितं भयम् ॥ २० ॥
शिष्यः - भगवन्, मय्यतिस्नेहेन नूनमियमतिशङ्का ।
त्वदादर्शितसर्वार्थे त्वन्निदेशे व्यवस्थिते । कथं कथकमानी स्यात्कश्चिदन्यो मयि स्थिते ॥ २१ ॥
गुरुः - भद्र, इदमपि पुनर्मन्वीथाः ।
शिष्यः - अनुगृह्णन्तु भगवन्तः ।
गुरुः - संक्षिप्तं विस्तृतं वा सरलसमुचितं सावधानप्रियं वा प्राधान्येन प्रणीतं परफणितिपरिष्कारवृत्त्या स्थितं वा । शिक्षासौकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धं सुधीभिः श्रद्धेयं नाथजुष्टश्रुतियुवतिशिरोभूषणं भाषणं नः ॥ २२ ॥
शिष्यः - किमुच्यते? उपनिषदुपघ्नभूतानि खलु भगवतो भाषितानि । तथा हि,
अनुदिनमनपायस्नेहदत्तावसेकैः सुमतिभिरनुभाव्यः शोभनायां दशायाम् ।
शरणमुपगतानां प्रीणनार्थं भवद्भिर्भवकलुषनिशीथे भावितो भाष्यदीपः ॥ २३ ॥
अपि च,
असत्तामुच्छेत्तुं प्रकटयितुमीशप्रसदनं तमः क्षेप्तुं तत्त्वप्रमितिसुखमुच्छृङ्खलयितुम् ।
अमार्गादाहर्तुं पथि च पदमाधातुमिह नः त्वदादिष्टं शास्त्रं प्रभवति सकृद्भावितमपि ॥ २४ ॥
तथापि पारिप्लवमतिरहमिह किमप्यधिगतप्रमुषितं पृच्छामि ।
गुरुः - किं तत्?
शिष्यः - आदिश्य स्वयमन्यथा नियमयन्नाप्तः कथं कल्पितः
गुरुः - अहो नु खलु सूक्ष्मार्थानुयोगकुशलता!
शिष्यः - सामग्रीवशदुर्निवारवृजिने शिष्टा निवृत्तिः कथम् ।
गुरुः - एतदपि सूक्ष्मात्सूक्ष्मतरमनुयुज्यते ।
शिष्यः - स्वेच्छाभावितदुष्कृतस्य च कथं दण्डः स्वयं पातितः
गुरुः - त्रिष्वप्यत्र न काचिदस्ति विहतिः कर्मोपधौ सावधौ ॥ २५ ॥
शिष्यः - (सहर्षम्) परिमितगहनगम्भीरमिदं पटुमतिनिर्धारणीयं भाषितं भगवतः । इदमेव सभासदः श्रावयामि ।
इदंप्रथमसंभवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः ।
क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयश्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥ २६ ॥
अपि च,
चिन्ताशेषदुरर्थदन्तुरवचःकन्थाशतग्रन्थिलाः सिद्धान्ता न समिन्धते यतिवरग्रन्थानुसन्धायिनि ।
मुक्ताशुक्तिविशुद्धसिद्धतटिनीचूडालचूडापदः किं कुल्यां कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥
भगवन्, अपरिमतबहुमतावष्टब्धे जगति परिमितमेतद्भवन्मतमिति पारिषदपार्श्ववर्तिनः केचित्प्रलपन्ति । प्रतिवदामि तावदेतान् । (परिवृत्यावलोक्य च) भो भो देवानांप्रियाः!
कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तरग्रहिलमनसः पश्यन्त्यल्पां यतीश्वरभारतीम् ।
विकटमुरभिद्वक्षःपीठीपरिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ २८ ॥
अपि च,
स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा ।
रसपरिमलश्लाघाघोषस्फुटत्पुटभेदनं लवणवणिजः कर्पू(रोद्घं)रार्धं किमित्यभिमन्वते ॥ २९ ॥
(कर्णं दत्वा) किं ब्रूथ? नवीनमेतद्भवतो मतमिति । (सहस्तास्फालनं विहस्य)
किञ्चित्केनापि दृष्टं प्रतिहतविषयं त्वेन तत्त्वेन तैस्तैर्द्वे चोपादायिषातां द्वितयमपि सदित्यप्रमत्तो न वक्ता ।
इत्थं सत्येकभक्तैरितरपरिहृतौ न व्यवस्थानसिद्धिः प्रत्येतव्यं तदर्थ्यं पटुतरमतिभिः प्राक्तनं नूतनं वा ॥ ३० ॥
किं च,
तदात्वे नूतनं सर्वमायत्यां च पुरातनम् । न दोषायैतदुभयं न गुणाय च कल्पते ॥ ३१ ॥
गुरुः - किमेतैः किंपचानैः? अपरे पुनरर्थसंस्पर्शिदोषवादिनः प्रतिक्षिप्यन्ताम् ।
शिष्यः - भगवन्, निरस्तनिखिलदोषगन्धे भवन्मते कथमर्थसंस्पर्शिनो दोषाः स्वप्नेऽपि केनचिदुद्भाव्येरन्? इह हि,
श्रुतिश्रेणीचूडापदबहुमते ताकमते स्वपक्षस्थान् दोषान्वितथमतिरारोपयति यः ।
स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ३२ ॥
किं च, अभञ्जनीयः खल्वयमशेषैरपि भगवत्सिद्धान्तः । इह किल मोघप्रलापा एव मूढाः प्रतिवावदूकाः ।
निमीलयतु लोचने न हि तिरस्कृतो भास्करः श्रवः स्थगयतु स्थिरं परभृतः किमु ध्वाङ्क्षति ।
स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः कदर्थयतु मुष्टिभिः कथय किं नमः क्षुभ्यति ॥ ३३ ॥
गुरुः - सूनृतमेव सौम्य भाषसे । अद्य खलु सर्वप्रतिकथकसमापनप्रवृत्तस्य ते सभापतिं सभ्यं च विमृशामि ।
[ध्यानमभिनयति ।]
राजा - सेनापते, अयमिहास्मदुपसर्पणावसरः ।
सेनापतिः - मह्यमपि रोचते महाराजस्य मनीषितम् । (उभावुपसर्पतः)
शिष्यः - संनिहितः खलु भगवन्, सभापतिः सेनापतिसहायः ।
गुरुः - (परिवृत्यावलोक्य, सहर्षबहुमानम्)
उदितः सहसा स एष काले व्यवसायातपसेवितो विवेकः ।
विनिवर्तयति स्वयं प्रजानां विचिकित्सारजनीं विलुप्तबोधाम् ॥ ३४ ॥
अयं च,
विवेकस्य गुणश्रेयान्व्यवसायश्चमूपतिः । स्वपक्षे तिष्ठमानेभ्यः सूरिभिः सह तिष्ठते ॥ ३५ ॥
राजा - (सविनयम्) उचितमुपचरति विवेक इह ससेनापतिर्भगवन्तम् ।
गुरुः - महाराज, सर्वत्र कुशली भूयाः । अपि च, शाक्यौलूक्याक्षपादक्षपणककपिलामर्त्यवन्द्यप्रधानैरन्यैराम्नायचर्चाकवचधृतिकनद्गोमुखद्वीपिभिश्च ।
बंहीयः क्षोभितापि श्रुतिरिह बहुधा जायमानेन गोप्त्रा काले कालेऽभिगुप्ता कलहमतितरत्यक्षता रक्षता त्वाम् ॥ ३६ ॥
राजा - भगवन्, अद्य खलु भवदवलोकनादेव संमुखीभूतसकलमङ्गलानामस्माकमधिकोऽयमाशीर्वादः ।
गुरुः - राजन्, विमर्शकाले सुचरितवशात्सेनापतिसेवितः संनिहितोऽसि । तदादिश्यतामयमन्तेवासी समीहितसमर्थनाय सदसस्पतिना महाराजेन ।
राजा - अत्र भवदभिमतमादिशामि । (शिष्यमवलोक्य) सौम्य ब्रह्मन्, सम्यगुपसन्नोऽसि सर्वविदं भगवन्तम् । इह च,
स्वयं त्रय्यन्तसिद्धान्तो विभाति गुरुरेष ते । प्रभुः प्रवदतां योऽभूत्स वादस्त्वं मतो मम ॥ ३७ ॥
इदं त्विह भवता प्रथममवधातव्यम् ।
शिष्यः - आज्ञापयतु महाराजः ।
राजा - सत्त्वस्थान्निभृतः प्रसाधय सतां वृत्तिं व्यवस्थापय त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय ।
नित्ये शेषिणि निक्षिपन्निजभरं सर्वंसहे श्रीसखे धर्मं धारय चातकस्य कुशलिन् धाराधरैकान्तिनः ॥ ३८ ॥
सेनापतिः - ब्रह्मन्, अवधारितं हि भवता महाराजस्य वचनम् ।
शिष्यः - किमन्यदवधातव्यम्?
राजा - परिचिनु निगमान्तभारतीं परिहर बाह्यजनेन संगमम् ।
परिचर नियमेन सज्जनान् परिभव बाह्यमुखान्विरोधिनः ॥ ३९ ॥
गुरुः - आयुष्मन्, अवहितमनाः शृणु ।
शिष्यः - महानयं प्रसादः ।
राजा - ब्रह्मन्,
प्रमाणपथविभ्रष्टप्रधानार्थविमर्दनैः । स्थालीपुलाकनीत्यैव निवर्त्याः प्रतिवादिनः ॥ ४० ॥
न खल्वखिलमपि निघृष्यते सुवर्णखण्डो वर्णनिष्कर्षाय ।
शिष्यः - यदादिशति महाराजः । तदहं सन्धुक्षयामि कथासमरसंनाहाय कौतस्कुतान् (किञ्चिदुच्चैः)
जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ ४१ ॥
(नेपथ्ये) तर्कव्याकृतितन्त्रशिक्षितधियः पक्षेषु बाह्येष्वपि प्रत्यक्षीकृतपौरुषा वयममी मध्येसभं ब्रूमहे ।
वादाटोपमुपेयुषः प्रतिभटानासेतुहैमाचलं तूलायापि तृणाय वा न च तुषच्छेदाय मन्यामहे ॥ ४२ ॥
सेनापतिः - आर्य, श्रूयते किल प्रतिभटवादिनां प्रगल्भवादः ।
शिष्यः - (सक्रोधम्) अलमतिगर्वेण ।
यतीश्वरसरस्वतीसुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणतिशालिना मौलिना ।
तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥ ४३ ॥
राजा - भगवन्, अभङ्गुरस्वामिभक्तेरवसरोपपन्नं हनूमत इवेदमार्यस्य विकत्थनम् ।
गुरुः - (स्वगतम्) क इवाभिप्राय इह विकत्थनमुद्घाटयतो विवेकस्य? (प्रकाशम्)
श्रुतिसिद्धान्तशूरस्य तद्विरुद्धान्निरुन्धतः । वल्गितं वावदूकस्य कृतिनः किं न शोभते ॥ ४४ ॥
शिष्यः - (सविनयभयं स्वगतम्) अतर्कितोपनतमात्मश्लाघनदोषमपमार्ष्टुमभिष्टवानि देशिकांस्तद्दर्शनं च । (प्रकाशम्)
हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोषक्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् ।
दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्तत्सिद्धान्तस्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥ ४५ ॥
किं च,
नाथाश्लेषसनाथनश्रुतिवधूवैधव्यखेदच्छिदं प्राचीनां नयपद्धतिं यतिपतिः प्राचीकशन्नैष चेत् ।
व्यासो हासरसोचितो विगलितः प्राचेतसश्चेतसः कॢप्तः केलिशुकश्शुकस्स च मुधा बाधाय बोधायनः ॥ ४६ ॥
राजा - (सप्रसादम्) अभङ्गुरगुरुभक्तेरार्यस्य क इव न जेतव्यः? तथा हि,
अशिथिलगुरुभक्तिस्तत्प्रशंसादिशीलः प्रचुरबहुमतिस्तद्वस्तुवास्त्वादिकेऽपि ।
गुणवति विनियोक्तुं गोपयन् संप्रदायं कृतविदनघवृत्तिः किं न विन्देन्निधानम् ॥ ४७ ॥
शिष्यः - सिद्धान्तबलादेव विजिगीषे । तदत्र संपश्यतां महाराजः ।
निराबाधा बोधायनफणितिनिष्यन्दसुभगाः विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः ।
अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैरनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम् ॥ ४८ ॥
किं च,
दृष्टेऽपह्नुत्यभावादनुमितिविषये लाघवस्यानुसाराच्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् ।
नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रवन्धेस्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शनं नः ॥ ४९ ॥
राजा - किमुच्यते?
[नेपथ्ये ‘तर्कव्याकृति’ इत्यादि पुनः पठित्वा सप्रतिज्ञं महान् कलकलः । सर्वे समाकर्णयन्ति ।]
(शिष्यः ‘यतीश्वर’ इत्यादि पुनः पठन्नर्धोक्ते विरम्य राजानमवलोकयति ।)
राजा - पठ्यतां पठ्यताम् ।
[शिष्यः शेषं पठति ।]
राजा - आर्य, सर्वज्ञाद्भगवतः समासादितसर्वविद्यानिधेरत्रभवतः संप्रति विपश्चितामपश्चिमैरेतैरापतद्भिः संव्यवहारेण संशयप्रशमनमिच्छामि ।
शिष्यः - (सगर्वहासम्) निशमयतु निपुणमेतन्महाराजः ।
पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे मीमांसामांसलात्मा समजनिषि मुहुस्सांख्ययोगौ समाख्यमम् ।
इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्रकान्तारपान्थैरन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥ ५० ॥
किं च,
यद्येतं यतिसार्वभौमकथितं विद्यादविद्यातमःप्रत्यूषं प्रतितन्त्रमन्तिमयुगे कश्चिद्विपश्चित्तमः ।
तत्रैकत्र झटित्युपैति विलयं तत्तन्मतस्थापनाहेवाकप्रथमानहैतुककथाकल्लोलकोलाहलः ॥ ५१ ॥
गुरुः - महाराज, एते मोघप्रलापमुखरमुखदुन्दुभयः कलहकोलाहलकुतूहलिनः कथकाः ।
श्वावराहकलहक्रमादमी संपतन्ति निगमान्तरोधकाः । तानिमान्युगलवादसिद्धये वारयत्वयमसौ चमूपतिः ॥ ५२ ॥
शिष्यः - (सान्तर्हासम्)
अध्यक्षं यच्छ्रुतं वा लघु तदिति भवत्यादिमो वादिमोहस्तत्त्वोदर्का न तर्कास्तदिह जगति किं मेधया साधयामः ।
तिष्ठन्त्वेते लघिष्ठाः कतिचन दधतो मानसे मानसेतुं हंहो सभ्यानसभ्यस्थपुटमुखपुटा दुर्जना निर्जयन्ति ॥ ५३ ॥
निशम्यतां चेदं सभापतिसेनापतिभ्याम् ।
बाधादिभिः स्वमतहेतुगणे निरस्ते नित्यागमप्रतिहतेषु निजागमेषु ।
प्रागल्भ्यमात्रशरणाः प्रतिवावदूकाः संभूय वादकरणेऽपि न मे प्रभूताः ॥ ५४ ॥
[विहस्य] अहो नु खल्वन्धैरन्धस्य यष्टिः प्रदीयते, पङ्गोर्वा पङ्गुभिरतिवहनम्! यदेते कर्मान्धकारप्रतिहतमतयः कुमतयो महामोहस्य साचिव्यमाचरन्ति । किञ्च,
वशिकतटिनीवर्षारम्भप्रवाहविडम्बकैरलघुभिरपभ्रश्यद्गुम्भोपलम्भितडम्बरैः ।
उपकरणयन्त्येते बालानुदग्रकुतूहलानुपलनिकरग्रासप्रायैरुपन्यसनक्रमैः ॥ ५५ ॥
अहहामीषां प्रतिवावदूकानां प्रवादमनुमोदमाना महामोहपक्षपातिनो गर्दभगाने शृगालविस्मयमनुस्मारयन्ति!
राजा - सेनापते, नियम्यन्तामेते निर्भरनिगमान्तवैरविप्लुतप्रतिपत्तयः प्रत्येककथाप्रवर्तनाय ।
सेनापतिः - नियच्छामि तानेतान्निरर्थकादाटोपात् (परिवृत्यालोक्य) भो भोः त्रयीबाह्याः कुदृष्टयश्च,
अलमिह मिथःश्लाघामाद्यन्मितंपचसंमतैरनघपरिषत्प्रत्यादिष्टैरलीकविकत्थनः ।
अवितथकथाधौरेयाणामनुप्रसृतौ सतां ध्रुवमिह भवद्वृत्तेराविर्भविष्यति पङ्गुता ॥ ५६ ॥
शिष्यः - भगवन्, इ(ह)तः प्रसार्यतां दृष्टिः ।
माहाराष्ट्रीं मागधीं शौरसेनीं लाटीं गौडीमित्थमन्यादृशीं च ।
अङ्गीकुर्वन्त्यागमीकृत्य दत्तां हास्यां भाषां हन्त बुद्धार्हताद्यैः ॥ ५७ ॥
अहं त्वशेषभाषावेदी तत्तदभ्यस्तभाषयाऽपि तार्किकानेतान्प्रतिक्षेप्स्यामि । वदन्ति हि पिशाचानां पिशाचभाषयैवोत्तरं देयमिति ।
गुरुः - यथारुचि दैवीमदैवीं वा भाषां पुरस्कुर्याः । अपि तु दैव्येव विश्वहृदयङ्गमा । महाराजोऽपि प्रायशस्तस्यामेव बहु(लं)लदत्तदृष्टिः ।
राजा - भगवन्, अतिधृष्टोऽयं भवत्प्रसादगोचरो महानुभावः ।
सेनापतिः - किमत्र चित्रम्?
कथाकलहकौतुकग्रहगृहीतकौतस्कुतप्रथाजलधिसंप्लवग्रसनकुम्भसंभूतयः ।
जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासनप्रभावपरिपक्त्रिमप्रमितिभारतीसंपदः ॥ ५८ ॥
अपि च,
विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति ।
वितण्डाहङ्कुर्वत्प्रतिकथकवेतण्डपृतनावियातव्यापारव्यतिमथनसंरम्भकलहः ॥ ५९ ॥
शिष्यः - सभापतिसेनापतिसाक्षिकं प्रवृत्तस्य दयारूपदेशिकदृष्टिदृढदंशितस्य कथाहवेषु कस्त्रासः? अद्य हि,
अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती पत्या संयमिनामनेन जगतामत्याहितच्छेदिना । यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनां प्रस्वापाय न बोभवीति भगवन्मायामहायामिनी ॥ ६० ॥
अपि च, वयमेतावन्तमनेहसमनेकसहस्रवैतण्डिकमण्डलमण्डितेषु तुण्डीरचोलपाण्ड्यकेरलकर्णाटनेपालमालवगौडलाटादिकटकेष्वखण्डिताहङ्काराः निष्कण्टकेन नीतिघण्टापथेन निगमसञ्चारेषु सञ्चरमाणाः सद्भिरेव जातसख्याः सुख्यामः । किं बहुना?
आस्तां नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा मतिस्तच्चाव्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् ।
को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटाशस्त्राशस्त्रिविहारसंभृतरणास्वादेषु वादेषु नः ॥ ६१ ॥
सेनापतिः - किमुच्यते?
एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् । न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥ ६२ ॥ अध्यासीनतुरङ्गवक्त्रविलसज्जिह्वाग्रसिंहासनादाचार्यादिह देवतां समधिकामन्यां न मन्यामहे ।
यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकां मग्नानां भविनां भवार्णवसमुत्ताराय नारायणः ॥ ६३ ॥
गुरुः - महाराज, भव्यभाषितेन भवच्चमूपतिना नियमितास्त एते परमतकथकधौरेयाः प्रत्येकमुपतिष्ठन्ताम् ।
(शिष्यमवलोक्य ।) शृणु सौम्य, श्रुतिशिरःप्रत्यासन्नतया प्रथमसमुत्थितानां सांख्यानां संप्रति स्वमतोपन्यासम् ।
अमी च,
कपिलासुरिपञ्चशिखादिमुनिप्रतिपादितसांख्यमतप्रवणाः ।
प्रकृतिं पुरुषं च विभज्य परं पुरुषं न पठन्त्यघरुद्धधियः ॥ ६४ ॥
शिष्यः - (स्वगतम् ।) संप्रवृत्तेऽस्मिन्वादे संवननीयाश्चैते प्रथमं सभासदः । (प्रकाशम् ।)
अक्षय्यशान्तिमकरन्दरसप्रसक्तानभ्यर्थये मुरभिदङ्घ्रिसरोजभृङ्गान् ।
कामं प्रसीदत यथाऽहमनन्यभावः कर्णामृतानि भवतामवतारयेयम् ॥ ६५ ॥
(गुरुमवलोक्य सविनयमञ्जलिं बद्ध्वा) भगवन्, भवदाज्ञया प्रतिक्षिपामि तावत्सांख्यान् ।
प्रधानपुरुषौ यदि प्रकृतियन्त्रितैरादृतौ परः किमपराध्यति श्रुतिसहस्रचूडामणिः ।
कुतर्कशतकर्कशैर्यदि विभुः प्रतिक्षिप्यते भवत्परिगृहीतमप्यपहरन्तु पाटच्चराः ॥ ६६ ॥
सेनापतिः - देव,
विश्वपतिमार्यवचसा सांख्याः संमत्य विगतसंरम्भाः । गणयन्ति पञ्चविंशं षड्विंशं सप्तविंशं वा ॥ ६७ ॥
राजा - भगवन्, यदि खल्वेते सेश्वरतामानीताः, भजन्तु तावद्भवत्क्षमागोचराः सांख्यास्त्रय्यन्तपार्श्वम् ।
गुरुः - महाराज, मैवं वादीः । किं तु, अभ्युपगतेश्वराणामपि सांख्यानां प्रायिकसंवादयोगसमयसिद्धपरिच्छिन्नैश्वर्येश्वरपक्षप्रणिहितचक्षुषां प्रतिवक्तव्यमयमादिश्यतामौपनिषदवादी ।
राजा - आदिष्ट एवायमीदृशेन भगवतो वाक्येन ।
शिष्यः - य एते योगाख्ये कतिचिदपतन्त्रे पठितिनः प्रजल्पन्त्यैश्वर्यं प्रतिफलनकल्पं भगवतः ।
स्वतःसिद्धान्बोधप्रशकनबलादीन्गुणगणान्गृणन्तस्त्रय्यन्ताः प्रतिफणितिरेषामवितथा ॥ ६८ ॥
सेनापतिः - देव,
कृतं सांख्यकृतान्तस्थैः कृपणैरद्य शिक्षितैः । काणादमतभङ्गाय कार्यमार्यस्य शासनम् ॥ ६९ ॥
राजा - नियुक्त एवायं भगवता यथार्हं निगमान्तविपक्षपक्षप्रतिक्षेपाय ।
शिष्यः - महाराज, अनुतिष्ठामि यथानियोगम् । इह हि,
असद्द्रव्यसृष्टिप्रभृत्यर्थकॢप्त्या श्रुतिप्रक्रियाणामधिक्षेपतश्च ।
उलूकोपदेशापदेशप्रवृत्तः कथाशेषितोऽसौ कणादप्रणादः ॥ ७० ॥
(गुरुः सबहुमानमीक्षते ।)
शिष्यः - (सापहासम्) आकर्ण्यतामिदमत्यद्भुतं महाराजेन ।
राजा - किं तत्?
शिष्यः - एते किल कणचरणमतानुवर्तिनः परमानन्दलक्षणं परमपुरुषसाम्यमपहाय पाषाणसाधर्म्यलक्षणं मोक्षमाचक्षते । तथा च कुम्भकर्ण एव विजयते, शाप एव तस्यानुग्रहः स्यात् ।
राजा - सत्यमेतत् ।
सेनापतिः - देव,
अर्धवैनाशिकास्तावदार्येण विमुखीकृताः । अथ वैनाशिकास्त्वेते विनाश्या वेददूषकाः ॥ ७१ ॥
राजा - (साशङ्कम्) आर्य, पर्याप्तोऽसि तर्केन्द्रजालकोविदानां तथागतानां निरासे?
शिष्यः - (सामर्षमिव) राजन्, अपर्याप्तास्त्वेते त्वदादिष्टस्य ममैकस्यापि प्रतिक्षेपाय । तथा हि,
कथयति जडो विश्वं वैभाषिकः क्षणभङ्गुरं परमनुमितं बाह्यं सौत्रान्तिको मतिचैत्र्यतः ।
तदिदमनृतं योगाचारस्तथा निखिलं परे स्ववचनहताः सर्वे गर्वं त्यजन्ति ममाग्रतः ॥ ७२ ॥
तथाहि,
दन्तादन्तिविधानलम्पटधियो दिङ्नागमुख्या जडाः शृण्वन्त्वद्य विपद्यते परमियं शिक्षा भवत्पक्षतः ।
बुद्ध्वा बोध्यमुदाहरन्ति विशदं बुद्धादयश्चेज्जितं नो चेद्धन्त जितं पुनस्तदिह नस्तूर्यं तु जोघुष्यताम् ॥ ७३ ॥
सेनापतिः - (सश्लाघम्) देव, परिमितगभीरमक्षोभ्यमिदं पारिषदहृदयङ्गममार्यवचनमुपश्रुत्य पलायिताः सौगतापशदाः दिशंदिशं प्रविशन्ति । अपि त्वयं माध्यमिको नाम बौद्धमतनासीरवीरः कथितमपि दूषणमनादृत्य वैयात्यमात्रावष्टम्भेन पाण्डित्यं प्रख्यापयति । तदयं विशेषतोऽप्युन्मूलयितव्यः, यश्चैवमुद्घोषयति -
भाषा वैभाषिकाणां शुभमनुभवतु स्वस्ति सौत्रान्तिकेभ्यो योगाचाराः प्रयोगं विजहतु किमु तत्किङ्करैः शङ्कराद्यैः । मिथ्यातत्त्वव्यवस्थाविघटनघटनोद्दण्डशौण्डीर्यचण्डो निस्तत्त्वाद्वैतवादी निरुपधिककथादुर्जयो निर्जिहीते ॥ इति ।
राजा - आर्य, विश्वमिथ्यात्वव्यवस्थापनो वैतण्डिकपण्डितंमन्यः शून्यवादी पुनः शून्यतां प्रापयितव्यः ।
गुरुः - भद्र, सावधानमभिदध्याः ।
शिष्यः - किमत्रावधातव्यम्? अयं खलु जननीवन्ध्यात्वप्रतिज्ञानसंवादिभिरयथायथप्रलापैरात्मनोऽपि मौनमाजन्ममरणमुपपादयिष्यति । अपि च,
परस्परविघट्टनत्रुटिततर्कशस्त्रच्छटातिरस्कृतचमत्कृतिः स्वयमखण्डि वैतण्डिकः ।
किमत्र परिशिष्यते किमपि दूषणोद्भावनं स्वतोनिहतमुद्गरप्रहरणप्रयासायते ॥ ७५ ॥
[नेपथ्ये] पिशाचाः पिशाचाः ।
सेनापतिः - मैवम् । दिगम्बरास्त्वेते सौगतमतनिरसनसंतोषविषादशबलिताः प्रत्यक्षं परोक्षं च प्रमाणमनुरुन्धानाः प्रतारयन्ति पामरान् ।
शिथिलोदयसप्तभङ्गिशिक्षाविषमोपन्यसनव्यथाविलक्षाः ।
मलिनास्त इमे मयूरपिञ्छभ्रमणैरेव विलोभयन्ति मन्दान् ॥ ७६ ॥
तत्प्रतिक्षेपार्थमयमनुज्ञायतामार्यः ।
राजा - प्रतिक्षिप्तं विदधतां विहितं प्रतिषेधताम् । क इवात्र प्रतिक्षेपः कार्यः स्ववचनादृते ॥ ७७ ॥
(गुरुमवलोक्य) भगवन्, अमीषामादित्यस्तम्भनपाषाणस्फोटनप्रतिमाजल्पनादिविप्रलम्भोपायानां भवत्प्रसाद एव प्रतिक्षेपकर्ता ।
गुरुः - महाराज, तथाविधकुहकवृत्तीनां राजभिरेव दण्डो दातव्यः ।
शिष्यः - (सापहासम्)
भक्ष्याभक्ष्यस्वपरसमयस्थापनादूषणादिष्वैकान्त्यं ये जहति विहतिं क्वापि नैते विदन्ति ।
दैवैरेषां निगमपदवीदूषणोदीर्णरोषैर्दत्तो नूनं स्थिरशिरसिजोल्लुञ्छनेनैव दण्डः ॥ ७८ ॥
शेषं तु भगवति महाराजे चायतते ।
राजा - सेनापते, आः कष्टममीषामालोकनम्! उत्सार्यन्तामेते दृष्टिगोचरात् ।
सेनापतिः - देव, भवत्प्रतापतपनप्रतिहतदृष्टयो दिवाभीता इवानार्याधिष्ठितेषु गिरिगह्वरेषु निभृतं निलीयन्ते ।
राजा - के पुनरेते क्षपणकादिवदनैगमिकलिङ्गधारिणः किमप्युग्रं व्रतमास्थाय तापसविडम्बिनस्त्रय्यन्तमुपरुन्धते? प्रमथगणानुकारिणः केचित् ।
गुरुः - एते च नैगमिकधर्मकलमोपमर्दिनः कडङ्गरीया इव दूरतः परिहरणीयाः ।
शिष्यः - स्वयमेवैते दूरीभवन्ति ।
कपिलकणादबुद्धकचलुञ्छनतन्त्रकथाकलकलकोविदेषु कथकेषु गलन्मतिषु ।
मुनिवरसापराधजनमोहनकौतुकिना पशुपतिना यदुक्तमपयान्त्यथ तत्प्रवणाः ॥ ७९ ॥
सेनापतिः - देव, अमी पुनरार्यवचनमसहमाना दिगम्बरादिवत्केनापि विप्रलम्भोपायेन स्वसिद्धान्तश्रद्धासंवर्धनाय प्रयतन्ते । अत्र तावदिमां प्रत्यायनामाचरन्ति, यदकाण्ड एव वर्षासमयमादिशन्ति ।
[नेपथ्ये] ‘पलायध्वं पलायध्वम्’ ।
राजा - किं किम्? (इत्यवलोकयति)
सेनापतिः - नान्यत्किञ्चित् ।
अक्ष्णोरञ्जनवर्तिका यवनिका विद्युन्नटीनामियं स्वर्गङ्गायमुना वियज्जलनिधेर्वेलातमालाटवी ।
वर्षाणां कबरी पुरन्दरदिशालङ्कारकस्तूरिका कंदर्पद्विपदर्पदानलहरी कादम्बिनी जृम्भते ॥ ८० ॥
किं च, प्रत्यग्रप्रतिबुध्यमानकलिकानीरन्ध्रनीपाटवीनिःसाधारणनिःसरन्मधुसुधासौरभ्यसारस्पृशः ।
क्रोडादम्बुमुचां क्षरन्ति कतिचित्क्रोडीकृता दन्तिभिः धारासिक्तवसुन्धरासुरभयो जञ्झासमीराङ्कुराः ॥ ८१ ॥
(सर्वे ससंभ्रमाद्भुतमवलोकयन्ति)
राजा - भगवन्, किमस्त्येषां प्रतीकारः?
गुरुः - किमस्माभिरत्र यतितव्यम्?
स कैटभतमोरविर्मधुपरागजञ्झामरुद्धिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुमः ।
किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः कथं न भवति स्वयं कपटकर्मनिर्मूलनः ॥ ८२ ॥
सर्वे - (सहर्षविस्मयम्) प्रसन्नाः खल्वेता दिशो विदिशश्च ।
गुरुः - भक्तजनवत्सले भगवति प्रसेदुषि किं नाम न प्रसीदति?
राजा - भगवन्, अमी पुनः सात्वतं शास्त्रमधीयानास्त्रय्यन्तवादिभिरैक्यमिवापन्ना बल्बजप्रायबहुविधविद्याजल्पविमुखीकृतमानसा बहिरन्तश्च शुद्धाः श्वेतद्वीपवासिन इव शुभंयवः पुरुषास्तामिमामौपनिषदीं परिषदमुपजिगमिषन्ति ।
अपि च,
परमपुरुषप्रत्यासत्त्या विमुक्तपृथग्जनास्तदभिगमनोपादानाद्यैरवन्ध्यमनोरथाः ।
नमति दिविषद्वर्गे नाथप्रभावसमीक्षया जहति त इमे मानाटोपं परस्परजीविताः ॥ ८३ ॥
किमेतन्मते प्रतिवक्तव्यमस्त्यार्यस्य?
गुरुः - (मूर्धानमान्दोलयन्कर्णौ पिधाय) न खलु न खलु ।
न बाधः प्रतिरोधो वा वेदसात्त्वतयोर्मिथः । कुदृशां तद्भ्रमो वार्यः श्रुत्योरिव परीक्षकैः ॥ ८४ ॥
शिष्यः - तदहं वारयामि । शृण्वन्तु च परमपुरुषप्रणीते पञ्चरात्रतन्त्रे तन्त्रान्तरवत्प्रादेशिकदोषोत्प्रेक्षकाः पण्डितंमन्याः -
आरोहन्त्वनवद्यतर्कपदवीसीमादृशां मादृशां पक्षे कार्तयुगे निवेशितपदाः पक्षे पतद्भ्यः परान् । सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशनक्रीडाकुण्डलमौलिरत्नघृणिभिः सारात्रिकाः सूक्तयः ॥ ८५ ॥
निरूपितं हि सात्वतप्रामाण्यं निखिलनिगमव्यसनव्यसनिना मतिमन्थाननिर्मथितनिगमसिन्धुसमुदितमहाभारतचन्द्रचन्द्रिकानिरवशेषमुषितभुवनभवनोदरतिमिरेण बादरायणेन भगवता नारायणेन । तत्र च,
स्वतः सर्वावेक्षी श्रुतिशतशिरस्त्राणचरणः स्वभृत्यान्नस्त्रातुं यदिदमनघं तन्त्रमकृत ।
इदं श्रेयः पुण्यं हिततममितीव व्यपदिशन्मुनिः पाराशर्यः प्रकटयति मानं तदखिलम् ॥ ८६ ॥
सेनापतिः - देव, अपर इवायं पाराशर्यः पञ्चरात्रतन्त्रं प्रतिष्ठापितवान् ।
राजा - भगवन्, गुरुकुमारिलमतानुसारिणः किमेते निरसनीया भवच्छिष्येण?
गुरुः - महाराज, अमी पुनरागमाभिरक्षणप्रवृत्ता वेदान्तपरित्यागिनस्तोषयितव्या भीषयितव्याश्च ।
शिष्यः - (सापहासम् ।)
निरस्ताखिलदोषेषु निगमान्तेषु सत्स्वमी । कथं सदसि मीमांसाकबन्धमनुरुन्धते ॥ ८७ ॥
अयं खल्वखिलवैदिकसदःशिखामणीनामध्यात्मविदां निर्णयः, पापवत्परित्यक्तकाम्यधर्मैर्नित्यनैमित्तिकानुष्ठाननिष्णातैर्विष्णुभक्तैर्भवितव्यमिति । अत एव कर्मब्रह्ममीमांसयोरैकशास्त्र्यमामनन्ति सन्तः ।
राजा - (सपरितोषम्) भगवन्, यथाश्रुतं यथाहृदयमुपपाद्य स्वपक्षं रक्षता परपक्षांश्च प्रतिक्षिपता प्रशमितनिगमान्तखेदेन भवदन्तेवासिना स्थूणानिखननन्यायेन स्थिरीकृतमिदं सम्यग्ज्ञानम् । तथाप्यामुक्तनिगमकञ्चुकानाममुक्तबाह्यवर्त्मनां कथं प्रतीकारः?
गुरुः - (सान्तर्हासम्)
नियत्या वैयात्यान्निगमपदवीमुज्झितवतां परेषामेतेषां परिहसनगुम्भार्हवचसाम् ।
पुरन्ध्रीसंभाव्यस्वमतरुचिनीरन्ध्रितधियामहङ्कारं सोढुं प्रभवति कथङ्कारमवनिः ॥ ८८ ॥
शिष्यः - महाराज, छिन्नमूलाः खल्वेते बाह्यनिरसनेन । तथा हि,
गाथा ताथागतानां गलति गमनिका कापिली क्वापि लीना क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवाद्दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ ८९ ॥
अथवा, पारिप्लवविविधपरिकल्पनाकल्लोलकलहजनितसितासितविकल्पविप्लवेन सिद्धिकामजनमोहनप्रवृत्तांस्तानिमान्प्रतिक्षिपामि ।
[सहस्तास्फालनं विहस्य]
अविद्यामाहात्म्यादनहमिदमर्थे जगदिदं गृणन्त्येते भातं गगन इव गन्धर्वनगरम् ।
अवन्ध्यैर्व्याघातैरतिपतितविन्ध्यद्रढिमभिर्निबन्ध्यास्ते वन्ध्यासुतनृपतिवैतालिकगणे ॥ ९० ॥
अपि च, निध्यायन्त्वनसूयवः शुभगुणं निर्दोषमाराध्यमित्यध्वा विश्वविशेषशून्यकथकैरप्यादितः स्वीकृतः ।
यद्यर्थस्थितिरेतदेकशरणा सप्रत्यवायो भवत्यध्यक्षादिविरुद्धनिर्गुणकथानिर्वाहगर्वाहवः ॥ ९१ ॥
अतः स्थाने खलु मेघनादवदङ्करितविश्वव्यामोहनेन शङ्करदत्तेन केनापि मायातन्त्रेण समानाधिकरणोपप्लवमाचरतामाचरिततमःप्रवृत्तीनामनवरतकर्बुरप्रकृतीनां कलिब्रह्ममीमांसकानामेतेषां निरासाय लक्ष्मणाचार्यप्रादुर्भावः । हन्त! परिगृहीतपौण्ड्रकाद्वैतानाममीषां नित्यमुक्तवादोऽपि नित्यमुक्तवादतामापादयति । तथा हि,
मुक्तस्य नित्यमविशिष्टतनोरपूर्वां मुक्तिं प्रकल्पयितुमात्तविचारयत्नः ।
स्वप्नप्रसूनमकरन्दरसस्य मन्ये स्वादुत्वमन्यदुपपादयितुं क्षमेत ॥ ९२ ॥
आलक्ष्यतामयं रजनिचरवंशबान्धवानां राहुमीमांसकानां सुभगाभिक्षुकन्यायः, यदेते निगमान्तपरित्यागिनः परानधिक्षिपन्ति प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् । अतः सभाकम्पाभावप्रतिपादकजडपुरुषप्रयुज्यमानभसापङ्काभाववचनवदपहास्यवचसाममीषां प्रतिक्षेपेऽप्यपत्रपामहे । श्रुतयस्तु त्रिभुवनसंरक्षणे प्रवृत्ताः प्रतिक्षिपन्ति । यदपि चैतेषां चिदचिदीश्वरयाथार्थ्यतस्कराणामन्तिमयुगमस्करिणां नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयमभिदधति, तच्च तत्त्वातत्त्वविवेकाभावः रागद्वेषादिसाधनसंपत् लौकिकवैदिककर्मानुष्ठानवैमुख्यं बुभुक्षुत्वं चेति यथानुष्ठानं विपरिणामेन परिहसन्ति सन्तः ।
गुरुः - भद्र, किमत्र विस्तरेण ।
शिष्यः - भगवन्, पक्षान्तरमपि प्रतिक्षिपामि ।
यदि भास्करयादवप्रकाशौ निगमान्तस्थितिनिर्णयप्रवीणौ । अपरैः किमिवापराद्धमार्यैरयथाभाषणचातुरीधुरीणैः ॥ ९३ ॥
अत एव निर्गुणब्रह्मवादिनां प्रच्छन्नबौद्धप्रसिद्धिवदनयोरपि जैनगन्धिवेदान्तिनामधेयमनुशोश्रूयामहे । इदं किल निखिलोपनिषदेकरहस्यम् (दैकरस्यम्) ।
मिथो भेदं तत्त्वेष्वभिलपति भेदश्रुतिरतो विशिष्टैक्यादैक्यश्रुतिरपि च सार्था भगवती ।
इमावर्थौ गोप्तुं निखिलजगदन्तर्यमयिता निरीशो लक्ष्मीशः श्रुतिभिरपराभिः प्रणिदधे ॥ ९४ ॥
राजा - ब्रह्मन्, तत्त्ववृत्तोभयभ्रष्टपाषण्डगणसङ्कुलः । कृती भवति कालोऽयं कृतिना संप्रति त्वया ॥ ९५ ॥
शिष्यः - महाराज, सर्वमेतद्भगवतः प्रसादेन । अद्य हि,
कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ।
तथागतकथाशतैस्तदनुसारिजल्पैरपि प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ९६ ॥
किं च,
मुकुन्दाङ्ध्रिश्रद्धाकुमुदवनचन्द्रातपनिभा मुमुक्षामक्षोभ्यां दधति मुनिबृन्दारकगिरः ।
स्वसिद्धान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्दिवाभीतप्रेक्षादिनकरसमुत्थानपरुषाः ॥ ९७ ॥
सेनापतिः - देव, वशंवदवचोवृत्तिर्वादाहवमहारथः । परिभूतविपक्षोऽसौ पारितोषिकमर्हति ॥ ९८ ॥
शिष्यः - सेनापते,
दयया देशिकेन्द्रस्य दृष्ट्या चास्य महीपतेः । परितोषेण चैवं ते प्राप्तोऽहं पारितोषिकम् ॥ ९९ ॥
राजा - भगवन्, प्रियहितमेवासौ वदति ।
सेनापतिः - ततश्च,
सभाजयितुमिच्छामि प्रत्यक्षितसभाजयम् । एनं भगवतश्छात्रमेकभक्त्या परिष्कृतम् ॥ १०० ॥
शिष्यः - महाराज, भगवन्त एव संभावनामर्हन्ति ।
गुरुः - त्वमपि मन्नियोगेन ।
राजा - भगवन्,
त्रय्यन्तस्थापकोऽयं दृढतरममुना तत्त्वदृष्टिश्च दिष्टा दिष्ट्या चादिष्टमेतदिशि दिशि लडहो डिण्डिमस्ताडनीयः ।
शुष्कोपन्यासशिक्षापटिमकटुरटद्वैरिविद्वत्करोटीकुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥ १०१ ॥
[इति कटकं ददाति]
शिष्यः - (गुरुमवलोकयति)
गुरुः - अस्त्वेवम् । अलङ्घनीया खलु राजाज्ञा ।
शिष्यः - यदाज्ञापयति भगवान् । (इति कटकमादत्ते)
गुरुः - आयुष्मन्, अवधार्यतामिदमद्यप्रभृति ते कर्तव्यम् ।
सत्कारकीर्तिधनलब्धिषु निर्व्यपेक्षः प्रश्नोचितेषु परया कृपया प्रसीदन् ।
सत्तर्कतन्त्रपरिकर्मितमाशरीराच्छारीरकप्रवचनव्रतमाद्रियेथाः ॥ १०२ ॥
शिष्यः - यदादिशति भगवान् ।
[नेपथ्ये] गम्यतां गम्यताम् । आः कष्टमापतितम् ।
रागद्वेषाभिख्यया ख्यातपूर्वौ मूढावेतौ दानवौ मोहभृत्यौ ।
निष्प्रत्यूहं निर्जिहाते विरक्तिं बन्दीकर्तुं विष्णुभक्त्या समेताम् ॥ १०३ ॥
[सर्वे ससंभ्रममाकर्णयन्ति ।]
राजा - भगवन्, अद्य खलु शान्तिकर्मणि वेतालोदयः संवृत्तः । तत्साधयन्तु भवन्तः समीहितसमर्थनाय । वयमपि वैरिबलनिर्मूलनाय संप्रति यतामहे ।
[इति निष्क्रान्ताः सर्वे ।]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (प्रतिमतभङ्गो नाम) द्वितीयोऽङ्कः ।