श्रीरस्तु ॥
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
॥ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥
कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्ताचार्यविरचितम्
॥ संकल्पसूर्योदयनाटकम् ॥
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
प्रथमोऽङ्कः
यद्भक्तिप्रचयात्मके दिनमुखे दृष्टिक्षमः क्षेत्रिणः क्षिप्रं संसृतिशर्वरीं क्षिपति यत्सङ्कल्पसूर्योदयः ।
तत्त्वैरस्त्रविभूषणैरधिगतस्वाधीननित्योन्नतिः श्रीमानस्तु स मे समस्तविपदुत्ताराय नारायणः ॥ १ ॥
अपि च -
लक्ष्ये यत्र श्रुतिमितगुणाकृष्टिलब्धावधानैः प्रत्यग्बाणः प्रणवधनुषा सत्त्ववद्भिः प्रयुक्तः ।
मध्येवक्षः स्फुरति महसा पत्रलः कौस्तुभात्मा पद्माकान्तः स भवतु दयादुग्धसिन्धुः श्रियै वः ॥ २ ॥
(नान्द्यन्ते)
सूत्रधारः - आदिष्टोऽस्मि निखिलसुरासुरकोटीरकोटीमणिनिकरनीराजितपादपीठस्य शरणागतपरित्राणसप्ततन्तुदीक्षितस्य सरसीरुहवासिनीसहचरितधर्मणः संसरणदवदहनतापनिर्वापणवलाहकस्य सर्वेश्वरस्य भगवतः श्रीरङ्गवृषगिरिसत्यव्रतयदुगिरिपुरुषोत्तमपाण्डुरङ्गप्रभृतिषु दिव्याभिव्यक्तिप्रदेशेषु यथाभिमतयात्रोत्सवसेवाहेवाकविहितगतागतचटुलचरणनलिनधूलीपटलपवित्रितक्ष्मातलैः यदृच्छया मरुद्वृधान्तरीपमध्यमध्यासीनैः शेषशेषाशनगरुडनिर्विशेषैः अशेषजनसंभावनीयैः असंभवदवद्यगन्धैः अभिजनविद्यासमुचितसदाचारशीलशालिभिः अनादिमायामहावर्तबंभ्रम्यमाणबाह्यकथकरम्भावनमथनगन्धसिन्धुरैः अधिजिगमिषितमुक्तिघण्टापथैः अखण्डदिङ्मण्डलशिखण्डकैः औपनिषदरहस्योपदेशदेशिकैः अवगतसकलकलाकलापैः अत्रभवद्भिरार्यमिश्रैः । यदुत -
ललितमनसां प्रीत्यै बिभ्रद्रसान्तरभूमिकामनवमगुणो यस्मिन्नाट्ये रसो नवमः स्थितः ।
जननपदवीजङ्घालार्तिच्छिदा(दानु)नृगुणीभवन्नटपरिषदा तेनास्वादं सतामुपचिन्विति ॥ ३ ॥
परिगृहीता च मया भरतमतोपाध्यायस्य सन्मार्गवर्धनस्यान्तेवासिनः सन्तोषपालकनामधेयस्य शैलूषचक्रवर्तिनः पुत्रेण, प्रतिभटकुशीलवकुञ्जरकण्ठीरवेण वैकुण्ठविनोदिना सप्रतिज्ञं विदुषामाज्ञा । दिव्यप्रयोगदिदृक्षादत्तक्षणा विचक्षणाश्च समुदिताः सामाजिकाः । तथा हि - अवधारितनाट्यदेशिमागैरसमीचीनपराङ्मुखैरमीभिः । भरतागमदैवतैरिवैषा परिषत्संप्रति भासते महद्भिः ॥ ४ ॥
तदहमशेषविद्यास्थानसम्पदुपलम्भिनीमभूतपूर्वबहुविधभूमिकापरिग्रहेऽप्यतिरस्कृतपारम्यामनवबोधजलधिकुक्षिंभरीमनन्यभक्त्युन्मीलिनीमादिमां देवतामभिगच्छामि ।
प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ५ ॥
(अञ्जलिं बद्धा)
देवो नः शुभमातनोतु दशधा निर्वर्तयन्भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ ६ ॥
(मुहूर्तमिव स्थित्वा ध्यानमभिनीय सोल्लासम्)
सोऽहमिदानीं स्वाधीनसर्वतत्त्वसत्ताकस्य सर्वतन्त्रदैवतस्य कृपया कटाक्षितः ।
श्रुतिकिरीटविहारजुषा धिया सुरभितामिह नाटकपद्धतिम् ।
मुहुरवेक्ष्य विवेकमुपघ्नयन्मतमपश्चिमयामि विपश्चिताम् ॥ ७ ॥
(नेपथ्याभिमुखमवलोक्य)
आद्रियतां तावदियमार्यया रङ्गभूमिः ।
(प्रविश्य)
नटी - अय्य, एसम्मि, आणविज्जउ पिअप्पेसणो, एसो परिअणो । [आर्य, एषास्मि । आज्ञाप्यतां प्रियप्रेषण एष परिजनः ।]
सूत्रधारः - अपि नाम सत्त्वोपपन्नसामाजिकसमादिष्टनाटकसाधनसमुचितभूमिकापरिग्रहे संनह्यन्ति कुशलाः कुशीलवाः?
नटी - करचलणदिट्ठिकप्पा खु एदे अय्यस्स । किं ण तुह चिन्तिए तुरन्ति? एदं उण परिपुच्छम्मि किंणामअं कीरिसं रूवअं अहिणेदुं आरद्दंति । [करचरणदृष्टिकल्पाः खल्वेते आर्यस्य । किं न तव चिन्तिते त्वरन्ते? इदं पुनः परिपृच्छामि किंनामकं कीदृशं रूपकमभिनेतुमारब्धमिति ।]
सूत्रधारः - आर्ये, किं न जानासि सङ्कल्पसूर्योदयाख्यं नायकीकृतविवेकं नवीनं नाटकम् ।
भावं विदन्ति परमत्र परावरज्ञाः प्रज्ञाधनाः प्रगुणनूतनसंविधानम् ।
यस्मिन्गुणास्तनुभृतः सदसत्प्रकाराः पात्रीभवन्त्यनुगुणैरधिदैवतैः स्वैः ॥ ८ ॥
अपि च,
विवेकप्रागल्भ्यस्फुरितरणवीरव्यतिकरः परब्रह्मोदन्तप्रकटितदयावीरविभवः ।
प्रबुद्धक्षेत्रज्ञस्थितिघटितशान्ताकृतिरभूत्प्रयोगश्चित्रोऽयं भवरसभुजामप्यभिमतः ॥ ९ ॥
अमुष्य तावदतिशयोक्ताववधिमपि न संभावयामि । कतिकति न सन्त्यकूपारे शङ्खाः? किं ते परिष्कृतपुरुषोत्तमपाणिपद्मः पाञ्चजन्यः? किं च,
ये लोकानिह वञ्चयन्ति विरलोदञ्चन्महःकञ्चुकास्ते तिष्ठन्तु महद्गृहेषु मणयः किं तैरिदं चिन्त्यताम् ।
श्रीवत्सप्रतिवेशदीपरुचिना सार्धं किमाभाष्यते पद्मोल्लासनदर्पणेन मणिना प्रत्नेषु रत्नेष्वपि ॥ १० ॥
इतश्चायमतीव बहुमन्तव्यः ।
अपदिश्य किमप्यशेषगुप्त्यै निगमान्तेषु निरूढगौरवेण ।
प्रविभक्तहिताहितः प्रयोगः कविना कारुणिकेन कल्पितोऽसौ ॥ ११ ॥
नटी - अय्य, कस्स उण कइणो पओओ एसो, जत्थ बहुमागेण अम्हेसु वि पअडिअपख्खवाआ एसा परिसआ? [आर्य, कस्य पुनः कवेः प्रयोग एषः, यत्र बहुमानेन अस्मास्वपि प्रकटितपक्षपातैषा परिषत्?
सूत्रधारः - आर्ये किं न श्रुतमिदं ते? अस्ति खलु सकललोकसंभावनीयस्य विश्वातिशायिनो विश्वामित्रगोत्रभूषणस्य विशुद्धविद्याविहारपुण्डरीकस्य पुण्डरीकाक्षसोमसुत्संभवस्यानन्तगुणशेवधेरनन्तसूरेरात्मसंभवः श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यपदः कवितार्किकसिंह इति प्रख्यातगुणसमाख्यः छात्रजननिबद्धजैत्रध्वजप्रसाधितदशदिशासौधः सर्वतन्त्रसङ्कटप्रशमनविशङ्कटमतिः श्रीमद्वेङ्कटनाथो नाम कविः ।
गौडवैदर्भपाञ्चालमालाकारां सरस्वतीम् । यस्य नित्यं प्रशंसन्ति सन्तः सौरभवेदिनः ॥ १२ ॥
अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये ।
जन्म द्वितीयमृषिभिः कथितं यतः सा देवी च विश्वजननी यदनन्यगोत्रा ॥ १३ ॥
अपि च,
वित्रासिनी विबुधवैरिवरूथिनीनां पद्मासनेन परिचारविधौ प्रयुक्ता ।
उत्प्रेक्ष्यते बुधजनैरुपपत्तिभूम्ना घण्टा हरेः समजनिष्ट यदात्मनेति ॥ १४ ॥
स च,
विंशत्यब्दे विश्रुतनानाविधविद्यस्त्रिंशद्वारं श्रावितशारीरकभाष्यः ।
श्रेयः श्रीमान्वेङ्कटनाथः श्रुतिपथ्यं नाथप्रीत्यै नाटकमर्थ्यं व्यधितैतत् ॥ १५ ॥
नटी - अय्य, कहं णाम एअस्स एअन्तणिअमन्तविआणसन्दिअमाणसस्स कक्कसअरतक्ककुलिसणिस्सुठिअपासण्डदुमसण्डा भारई अह्मारिसकेलिजोग्गिअं रूप कुणज्ज? [आर्य, कथं नाम एतस्य एकान्तनिगमान्तवितानसन्दितमानसस्य कर्कशतरतर्ककुलिशनिस्त्रुटितपाषण्डद्रुमषण्डा भारती अस्मादृशकेलियोग्यं रूपकं कुर्यात्?]
सूत्रधारः - (सान्तर्हासम्) यदेतदुभयमार्या पर्यनुयुङ्क्ते, अत्र तावदादौ किमेनमप्रवृत्तनिखिलकरणव्यापारमनुभवैकतानमानसमत्यन्तनिभृतावस्थं निबद्धारमवधारयसि । अथापि ब्रूमः ।
मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियं सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरन्ध्युः के विन्ध्याचलविकटसन्ध्यानटजटापरिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ १६ ॥
अन्यदपि निध्यायतु भवती ।
गम्भीरभीषणगतिर्गिरिखण्डनादौ चूडापदं पशुपतेरपि घूर्णयन्ती ।
स्वादुप्रसन्नसुभगानि वसुन्धरायां स्रोतांसि दर्शयति किं न सुरस्रवन्ती ॥ १७ ॥
नटी - (सानन्दम्) जुत्तं एव्व एदं वाहिदं अय्यस्स । तह वि सन्तो णाम रसो णत्थित्ति गन्धव्वाअमदेसिएहिं, समत्थिज्जइ । ता अत्थ कहं तारिसस्स रसस्स णिवेसो? [युक्तमेवैतद्व्याहृतमार्यस्य । तथापि शान्तो नाम रसो नास्तीति गन्धर्वागमदेशिकैः समर्थ्यते । तस्मादत्र कथं तादृशस्य रसस्य निवेशः?]
सूत्रधारः - (सावज्ञावहित्थम्) आर्ये न खलु संभावयामि तानहं भरतमतपारदृश्वनः । (विमृश्य)
अथवा तादृशान्सभ्यान्मत्वा जगति दुर्लभान् । शङ्के शान्तिरसोल्लासमशक्यमभिमेनिरे ॥ १८ ॥
अपि च,
असभ्यपरिपाटिकामधिकरोति शृङ्गारिता परस्परतिरस्कृतिं परिचिनोति वीरायितम् ।
विरुद्धगतिरद्भुतस्तदलमल्पसारैः परैः शमस्तु परिशिष्यते शमितचित्तखेदो रसः ॥ १९ ॥
नटी - होदु णाम, सणअसणन्दणादिमुणिअणसङ्गहीदो सो वि तारिसो रसो । तहवि कहं निप्पन्दणिहिलकरणणिप्पादणिज्जजोअप्पहाणो एसो सव्वजणपेख्खणिज्जेण णाडअउत्तन्देण संपाइज्जइ? [भवतु नाम सनकसनन्दनादिमुनिजनसङ्गृहीतः सोऽपि तादृशो रसः । तथापि कथं निष्पन्दनिखिलकरणनिष्पादनीययोगप्रधान एष सर्वजनप्रेक्षणीयेन नाटकवृत्तान्तेन संपाद्यते?]
सूत्रधारः - आर्ये, मैवं वादीः । न हि वयमवधूतनिखिलधर्माणामलेपकानां मतमभिनेष्यामः, येनैवमाशङ्कसे ।
सन्ति खलु भगवता गीताचार्येण सहस्रशः प्रतिपादिताः सात्त्विकेन त्यागेन परिकर्मिता निवृत्तिधर्मपद्धतिनियता विविधा व्यापाराः, यदभिनयेन रङ्गोपजीविनामाजीवावकाशः । अपि चेदं निशमयतु निशामयतु वा नाट्यवैभवं भवती । श्रूयते हि -
न तच्छास्त्रं न सा विद्या न तच्छिल्पं न ताः कलाः । नासौ योगो न तज्ज्ञानं नाटके यन्न दृश्यते ॥ २० ॥
नटी - अइदुक्करमारद्धं तुह्मेहिं । अहं उण इत्थिआसभावघुण्णन्तहिअआ मच्चरग्गहगहिआदो पडिपख्खपण्डिअजणादो भअकम्पिअह्मि । [अतिदुष्करमारब्धं युष्माभिः । अहं पुनः स्त्रीस्वभावघूर्णमानहृदया मत्सरग्रहगृहीतात्प्रतिपक्षपण्डितजनात् भयकम्पिताऽस्मि ।]
सूत्रधारः - अलं कातर्येण । अद्य खल्वस्माकमभिमुखं भागधेयम् ।
तथा हि -
लक्षणसमृद्धिरनघा रसपरिपोषश्च सहृदयग्राह्यः । संपतति नाटकेऽस्मिन्स एष शैलूषसुकृतपरिपाकः ॥ २१ ॥ किं च, विद्यासंपन्निधिरवहितो वेङ्कटेशः कवीन्द्रः सिद्धारम्भश्चिरमभिनये मामकः पात्रवर्गः ।
प्रख्यातेयं परिषदनघा पक्षपातानभिज्ञा रामादीनां कुलधनमिदं रङ्गतां याति रङ्गम् ॥ २२ ॥
अन्यच्च भवत्या भावनीयम् ।
शमधननिधिं सत्त्वप्रायं प्रयोगमयोगिनः स्वगुणवशतः स्तोतुं यद्वा वरिव्रतु निन्दितुम् ।
किमिह बहुभिः किं नश्छिन्नं न विश्वमनीश्वरं तदुपनिहिता जाग्रत्येवं चतुर्दश साक्षिणः ॥ २३ ॥
नूनमतर्कितोपनता अप्यचिरद्युतिवदारम्भनियतावसाना मनीषिणामीर्ष्यादयः । यद्वा,
मौनं बिभ्रतु मत्सरेण नमितास्तूर्णं त एव ध्रुवं कालोन्निद्रकदम्बगोलवपुषः कम्पस्फुरन्मौलयः ।
किञ्चिद्व्रीडितकुञ्चिताक्षमवशादुत्तानदत्ताननाः प्रस्तोष्यन्त्यवधिं प्रयोगपदवीसारस्यसारस्य नः ॥ २४ ॥
सन्तु वा निरन्तरनियमितमत्सरनीरन्ध्रहृदया निर्विकाराः । तथापि सर्वथा तावत् -
उपवेदमुदारधीः स्वनाम्ना भरतः सूचितभावरागतालम् ।
यमुदाहरति स्म विश्वगुप्त्यै तदभिज्ञैरबहिष्कृता वयं स्मः ॥ २५ ॥
नटी - अय्य, एव्वं एदं । तहवि सुअगुरुएसु बहुसु विरुद्धेसु छिद्दं गवेसन्तेसु कहं अप्पमत्तेहिं अम्हेहिं पडिण्णादं णिव्वहणिजं? [आर्य, एवमेतत् । तथापि श्रुतगुरुकेषु बहुषु विरुद्धेषु छिद्रं गवेषयत्सु कथमप्रमत्तैरस्माभिः प्रतिज्ञातं निर्वहणीयम्?]
सूत्रधारः - अयि परगुणसंतोषिणि, श्रुतबाहुल्ये तव केयमास्था? अथवा अवधारितपरमार्थानामप्यवगतसंवादनार्थमुत्तरोत्तरं परिप्रश्नाः प्रवर्तन्ते । भवतु नाम । विशुद्धविद्यांस्तावदभिमन्यस्व । दृश्यते हि -
भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ।
एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ॥ २६ ॥
तदहमिदानीं पराशरपाराशर्यादिबहुमतामबहुमतदुर्विनीतजनवृत्तिमनवरतपरिचितगान्धर्वविद्याविनोदनप्रसादितपरमपुरुषामेतां परिषदमेकतानयामि । (सप्रश्रयमञ्जलिं बद्ध्वा)
विवेकप्रारम्भे विमतमतभङ्गप्रयतने मुमुक्षासंसिद्धौ मुरमथनयोगे च सफले ।
मुखादीन्निध्यातुं निभृतमिह नाट्ये कृतमुखैर्भवद्भिः स्थातव्यं भरतमतधौरेयमतिभिः ॥ २७ ॥
(नेपथ्ये) समयनियतैः प्रयोगैस्सत्पथसीमामनुज्झतो विदुषः । किरणैरिव दिवसकृतः क्षिप्यन्ते तामसारम्भाः ॥ २८ ॥
सूत्रधारः - (कर्णं दत्वा सानन्दम्) आर्ये, सम्यगवधार्यतामस्मद्वृत्तिमापवर्गिकवृत्तिं च तन्त्रयन्तीयमौद्धातिकी गीतिः ।
ततश्च,
दुर्जनं प्रतिपक्षं च दूरदृष्टिरयं जनः । विवेकश्च महामोहं विजेतुं प्रभविष्यतः ॥ २९ ॥
(नेपथ्ये) कः खल्वसौ कुशीलवकुलाङ्गारः करतलकलितकठोरमधुरधन्वनि सुरभिसुकुमारचित्रपुङ्खे वित्रासितनिखिलवैरिजने
जीवति, सकलसुरासुरमुनिमनुजचित्तवृत्तिसार्वभौमस्य दुर्मतिसहधर्मचारिणो रणरङ्गमहानटस्य देवस्य महामोहस्य विवक्षानर्हं किमपि विपक्षसकाशादाशंसते?
सूत्रधारः - (सभयसंभ्रमं परिवृत्य पश्यन्) आर्ये, कोऽयममर्षसंप्लवादभ्यधिकलोहिताक्षः ससहाय इतोऽभिवर्तते? आः! कष्टमवधारितम् । अयं हि -
अपवर्गविरुद्धेषु त्रिषु वर्गेषु तिष्ठताम् । प्रधानपुरुषार्थस्य पश्चिमस्याधिदैवतम् ॥ ३० ॥
किं च, अर्धावशेषितमहेश्वरपौरुषोऽयं वर्गं तृतीयमवधीरयतां विनेता ।
रत्या सलीलपरिरम्भणलोलगत्या पुष्पायुधः पुलकितैकभुजोऽभ्युपैति ॥ ३१ ॥
तदिह वयं त्वरितमपसृत्य कालोपपन्नकामोत्सवविहारसङ्कुले जीवलोके संवलितगुप्तवृत्तयः समनन्तरकरणीयमाचरामः ॥
इति निष्क्रान्तौ ।
॥ इति प्रस्तावना ॥
[ततः प्रविशति वसन्तदत्तहस्तः कान्तासमेतः कामः ।]
कामः - (कः खल्वित्यादि पुनः पठित्वा) रे, रे, भरतकुलपांसन,
दरनमितमनोज्ञभ्रूलताचापभाजां तरलहृदयलक्ष्ये तादृशस्नेहदिग्धे ।
कुवलयनयनानां कूणिते लोचनास्त्रे शरणयतु विवेकः कां दिशं कांदिशीकः ॥ ३२ ॥
वसन्तः - (स्वगतम्) उत्पथमनोरथोऽयम् उपचितमदो विषमबाणः । अहं पुनरपुनरावृत्तिवर्तनीपथिकानामातिवाहिकगणे परिगणितोऽपि न सहसा परित्यक्तुं शक्नोमि चिरन्तनं चित्तजन्मसौहार्दम् । (प्रकाशम्) सखे मकरध्वज, एवमेतत् । अहं पुनर्महाराजस्य महामोहस्य माङ्गलिकं विवेकवित्रासनं भावत्कं महोत्सवं प्रक्रमयामि । पश्यतु भवान् ।
चूडावेल्लितचारुहल्लकभरव्यालम्बिलोलम्बकाः क्रीडन्त्यत्र हिरण्मयानि दधतः शृङ्गाणि शृङ्गारिणः । तन्वङ्गीकरयन्त्रयन्त्रणकलातन्त्रक्षरद्भस्त्रिकाकस्तूरीपरिवाहमेदुरमिलज्जम्बाललम्बालकाः ॥ ३३ ॥
कामः - साधु, वसन्त, साधु । विशेषतश्चैतत् सर्वथा विजित एवासौ विवेकहतकः, यदयमवधीरितत्रिविष्टपविहारकान्तारेषु मरुद्वृधोपान्तभागेषु महोत्सवारम्भः । इह च,
उन्निद्राम्बुजवाटिकामुभयतो रोधोनिरोधोल्ललत्स्रोतःसंभृतसारणीशतकृतस्वच्छन्दकच्छाप्लवाम् ।
खेलच्चोलवधूविधूतकबरीशैवालितामन्वहं पश्येम प्लवमानहंसमिथुनस्मेरां कवेरात्मजाम् ॥ ३४ ॥
रतिः - अय्यउत्त, आपाअमहुरो एसो महूसवो । एण्हिं किळ अम्हकुलसाभिणो महामोहस्स अणिवारणिज्जेण केण वि विहिणा अमोहारम्भो विवेओ दुज्जओ पडिपख्खोत्ति दूमिअं मे हिअअं । [आर्यपुत्र, आपातमधुर एष महोत्सवः । इदानीं किल अस्मत्कुलस्वामिनो महामोहस्यानिवारणीयेन केनापि विधिना अमोघारम्भो विवेको दुर्जयः प्रतिपक्ष इति धूमितं मे हृदयम् ।
कामः - बाले, विषमशरजीवितेश्वरि, विलासिनीदेवते, किमिति नाम समग्रबलजेतव्यलब्ध्या संतोष्टव्येऽपि भावितस्त्रीचापला विवेकवैभवं वर्गयसि? पश्यतु भवती,
करधृतललितेक्षुधन्वनो मे भ्रमरगुणार्पितपुष्पमार्गणस्य ।
मरुदनलशरोऽपि मेरुधन्वा क्षणमतिलङ्घितशासनः कथं स्यात् ॥ ३५ ॥
वसन्तः - सखि, सत्यमेवैतत् । मा खल्विदं विकत्थनं मंस्थाः । न हि जगति भवति मशको मातङ्गस्य प्रतिस्पर्धी । अथवा न खलु भवती विश्ववृत्तान्तवैदेशिकी । दृष्टचर एव हि त्वत्प्रियस्यासौ वीरायितवृत्तान्तः । तथा हि,
वहति महिलामाद्यो वेधास्त्रयीमुखरैमुखैर्वरतनुतया वामो भागः शिवस्य विवर्तते ।
तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते कथं त्वितरे जनाः ॥ ३६ ॥
कामः - साधु, वसन्त, साधु । कालानुरूपवादी खल्वसि ।
विश्वं युवतिसात्कर्तुं भवता दत्तसायके । विवेकः किं नु वर्तेत विपक्षे मयि संस्थिते ॥ ३७ ॥
रतिः - अय्यउत, एव्वं एदं । तहवि विसमठ्ठिरसंठाणवेरग्गदुग्गपडिठ्ठिओ अप्पमत्तेहिं समदमप्पमुहेहिं अमच्चेहिं
अभिरख्खिओ सअं असहाअसूरो अणवाअसाहसो अ विपख्खो किण्णाम कइआ काहिइत्ति कळुसिअहिअअम्हि । [आर्यपुत्र, एवमेतत् । तथापि विषमस्थिरसंस्थानवैराग्यदुर्गप्रतिष्ठितोऽप्रमत्तैः शमदमप्रमुखैरमात्यैरभिरक्षितः स्वयमसहायशूरोऽनपायसाहसश्च विपक्षः किं नाम कदा करिष्यतीति कलुषितहृदयाऽस्मि ।]
कामः - अयि भीरु, अलमतिशङ्कया । नूनं विपक्षपक्षपातिबालिशजनविप्रलब्धा स्वयूथ्यवैभवं न निर्धारयसि । पश्य
तावद्विश्वविजयिनस्त्वत्प्रियस्य मे जगत्त्रयप्रसिद्धं जैत्रमुपकरणम् -
वपुरप्रतिमं नितम्बिनीनां दृढसौन्दर्यगुणं दरावनम्रम् । श्रवणावधिनेत्रचित्रपुङ्खं धनुराद्यं मम मुष्टिमेयमध्यम् ॥ ३८ ॥
अपि च, शैलीं विलोपयति शान्तिमधःकरोति व्रीडां व्युदस्यति विरक्तिमपह्नुते च ।
कर्णामृतं किमपि तत्कलभाषिणीनां नामापि किं न विकरोति निशम्यमानम् ॥ ३९ ॥
वसन्तः - ननु कैमुतिकमेतत्, यदिदं योषितां यदृच्छाकीर्तनश्रवणादिकमपि चित्तसंक्षोभहेतुरिति ।
तिष्ठतु गुणावमर्शः स्त्रीणामालोकनादिभिः सार्धम् । दोषानुचिन्तनार्था स्मृतिरपि दूरीकरोति वैराग्यम् ॥ ४० ॥
अपि च प्रभूतमदमेदुरात्मनो विषयाटवीषु विविधासु धावतः ।
स्वबलेन हन्त मनसो निवर्तनं बिसतन्तुनेव सुरदन्तियन्त्रणम् ॥ ४१ ॥
रतिः - अय्यउत्त, दिढभूमिविब्भमसमुम्मूलणख्खमाणं जोईसराणं दिट्ठिं परिहरन्तेण तुए परक्कमणिज्जं । [आर्यपुत्र,
दृढभूमिविभ्रमसमुन्मूलनक्षमाणां योगीश्वराणां दृष्टिं परिहरता त्वया पराक्रमणीयम् ।
कामः - (विहस्य) प्रिये, पश्यामि चक्षुषीव ते चेतस्यपि कातर्यम् । योजयामि खल्वहं योगीश्वरानपि युवतियोगीश्वरपादे ।
सुभगपरुषैर्मदस्त्रैः कीलितमन्योन्यकवचितैकार्धम् ।
किं न विदितं भवत्या किमपि मिथःस्यूतजीवितं मिथुनम् ॥ ४२ ॥
रतिः - अय्यउत्त, अवहारिअं मए तुह माहप्पं । दाणिं उण दीहबुद्धिबळेण देव्वदिण्णहत्थेण जमणिअमप्पमुहबहुसहाअसंपण्णेन अहण्डुच्चाहप्पहुत्तणमन्तसत्तिणा सत्तुणा काहे किं होज्जत्ति पबळपवणाहआ कअळिएव्व तरळअरम्हि । पसिद्धं खु पण्णाबळं मोख्खपेरन्ताणं अइदुक्कराणं सिद्धीणं साहणं त्ति । [आर्यपुत्र, अवधारितं मया तव माहात्म्यम् । इदानीं पुनः दीर्घबुद्धिबलेन दैवदत्तहस्तेन यमनियमप्रमुखबहुसहायसंपन्नेन अखण्डोत्साहप्रभुत्वमन्त्रशक्तिना शत्रुणा कदा किं भवेदिति प्रबलपवनाहता कदलिकेव तरलतरास्मि । प्रसिद्धं खलु प्रज्ञाबलं मोक्षपर्यन्तानामतिदुष्कराणां सिद्धीनां साधनमिति ।
कामः - (सरोषहासम्) अयि मुग्धे, मञ्जुभाषिणि, गुञ्जन्मधुकरशिञ्जिनीसंहितविश्वलक्षविषमविशिखस्य नित्यविजयजागरूकस्य त्वत्प्रियस्य मे सन्निधौ का पुनः प्रज्ञा, केन वा कस्य मुक्तिर्भवित्री, किमिति नाम मध्य इव भवत्या मानसेऽपि सौक्ष्म्यं नालक्ष्यते? (विहस्य) प्रिये, हन्त! विदितमेतत् नूनमिदानीं स्तनगतं स्थौल्यमेतदन्तरापि संक्रान्तमिति । अथवा अविचारितरमणीयमबलाजनस्वाभाव्यं भवत्यामपि वर्तते । संपश्यतां भवती,
मयादिष्टः क्रोधः प्रथयति किमप्यान्ध्यमथ च स्मृतिभ्रंशः सेद्धा विघटयति बुद्धिं सपदि सः ।
तया मुक्तः क्षेत्री तमसि गहने विन्दति लयं तथाभूते किं वा जनयति विवेको जडमतिः ॥ ४३ ॥
तदेवमसह्यवेगमस्मद्व्यूहं विवेकामात्याः शमदमादयो न प्रसहिष्यन्ते । स्वयं च दुर्जयो निखिलसुरासुरकोटीरविन्यस्तवामपादो महामोहः । न हि तरक्षुर्मृगराजस्य परिपन्थी ।
परस्य पुरुषस्येव पञ्चभिश्च ममायुधैः । समयेषु विमथ्यन्ते सत्त्ववन्तोऽपि शत्रवः ॥ ४४ ॥
अपि च, अलमिह विबुधाद्यैरागमग्राह्यवाचो मुनिपरिषदि धर्मान्गायतो मुक्तिहेतून् ।
तपसि नियतवृत्तेस्तस्य देवस्य शान्तिं जनितयुवतिरत्नं दर्शयत्यूरुकाण्डम् ॥ ४५ ॥
रतिः - अय्यउत्त, संभावेमि सच्चं तुह भासिअं । अब्बम्हकीडं अत्पडिहअं खु तुह माहप्पं । एदं उण अण्णाअपुव्वं आणवेदु अय्यउत्तो । [आर्यपुत्र, संभावयामि सत्यं तव भाषितम् । आब्रह्मकीटमप्रतिहतं खलु तव माहात्म्यम् । एतत् पुनरज्ञातपूर्वमाज्ञापयत्वार्यपुत्रः ।]
कामः - किं तत्?
रतिः - विवेअप्पहुदीणं महामोहप्पहुदीणं अ मिअन्दमाअङ्गाणं विअ किण्णिमित्तं वेरं त्ति । [विवेकप्रभृतीनां महामोहप्रभृतीनां च मृगेन्द्रमातङ्गानामिव किंनिमित्तं वैरमिति ।]
कामः - प्रिये, आकर्ण्यतामिदमादितः प्रभृति ।
त्रिगुणघटिताद्भोक्तुर्बुद्धिः सती तदनुव्रता समयनियतोच्छ्रायं त्रेधा कुलं समजीजनत् ।
प्रथममिह तद्भोगद्वेष्यं विवेकपुरःसरं द्वितयमितरज्जुष्टं रागप्रमोहमुखं मिथः ॥ ४६ ॥
अत्र विवेकश्च महामोहश्च समानशीलाभिः प्रकृतिभिरभिषिक्तौ राजन्यौ । तयोरपि,
मोहस्य धर्मपत्नी दुर्मतिरपवर्गदोषदृष्टिमयी । विषयरसदोषदृष्टिः सुमतिरनन्या विवेकस्य ॥ ४७ ॥
रतिः - तदो तदो । [ततस्ततः।]
कामः - ततश्च रजःप्रधाना रागादयः तमःप्रसूतेः संसारचक्रवर्तिनो महामोहस्य दैत्यानुकूलरक्षःकुलन्यायेन साचिव्यमाचरन्ति । सत्त्वसंभवं तु विवेककुलमसहायमल्पसारं च जगति वर्तते । जनकश्चास्माकं क्षेत्रज्ञः स्वयं मध्यस्थस्वभावोऽपि सहधर्मचारिण्या देव्या बुद्ध्या सहाद्य यावदस्मासु बहुलं दत्तदृष्टिः । तदिदमसहमाना नित्यनृशंसा विवेकादयः जातिवादिन इव स्वभङ्गमप्यनुमन्यमानाः पुरुषस्य भोगं तत्संवर्धकानस्मांश्च उत्सादयितुमीहन्ते । अस्मत्तातेन चानादिभुक्तायां प्रकृतौ विविधान्दोषानुद्घाट्य तातं च तस्यामुपजनितवैराग्यं केनचिदपायेन विरचय्य महाप्रस्थानेनापुनरावर्तिनं कर्तुमारभन्ते । तथा मर्कटरक्षःपती महापातकिनौ सुग्रीवविभीषणौ स्वकुलोत्सादने प्रमाणयन्ति । न च तदारम्भसमये तातस्य दुर्दशा शक्या वर्णयितुम् । अयं खलु,
जात्यन्धः परदोषदृष्टिषु परीवादेषु मूकाग्रणीः बाधिर्यप्रथमावतारसरणिर्निन्दासमाकर्णने ।
स्त्रीप्रायः परदारसंग्रहविधौ तद्वत्परावर्जने संपद्येत समीक्षणेऽपि विकलः पापैर्विवेकादिभिः ॥ ४८ ॥
अत एवास्माभिरपि परित्यक्तसौभ्रात्रैः तेऽपि दुरात्मानो जिघांस्यन्ते । ततः प्रवृत्तिनिवृत्तिपद्धती समाश्रित्य वयं च ते च संयतिष्यामहे । तदा तु सत्त्वप्रधानं कुलं ज्योतिरिङ्गणज्योतिरिव द्युमणिकिरणैरस्माभिरभिभूयते ।
सौहार्दमित्थमनवाप्य सहोदराणामासीत्स्वमूलगुणभेदवशाद्विरोधः ।
एकप्रजापतिभुवामपि वैरबन्धः स्वात्मावधिः स्वयमुदेति सुरासुराणाम् ॥ ४९ ॥
रतिः - सन्तं पावं सन्तं पावं । पुत्ता एव्व पितुणो भोअं विणासेन्ति । तह कहं सोअरा एव्व इअरेअरविद्धंसणळंपटहिअआ होंति । णाह, किं ण होज्ज ताणं तुम्हाणं वि समरदुद्दसाणिवारणसाहणं सन्धी? [शान्तं पापम्, शान्तं पापम् । पुत्रा एव पितुर्भोगं विनाशयन्ति । तथा कथं सोदरा एव इतरेतरविध्वंसनलम्पटहृदया भवन्ति? नाथ, किं न भवेत् तेषां युष्माकमपि समरदुर्दशानिवारणसाधनं सन्धिः?]
कामः - मुग्धे, कथंचिदपि नात्र सन्धिः संभाव्यते ।
सतः सत्त्वविहीनानां सत्तयैवापराध्यतः । कथंकारं प्रतीकारः कल्पकोटिशतैरपि ॥ ५० ॥
प्रतिपुरुषविभक्तमूर्तिभेदा वयमितरे च मिथः प्रतीपवृत्ताः ।
क्वचिदधिकरणे समापतन्तः सुतनु दधीमहि वध्यघातकत्वम् ॥ ५१ ॥
न खल्वर्थकामपराणामस्माकं नारायणपरायणैः कथायामपि संगतिरुपपद्यते । किं च, यथाकथंचिदुपपद्यमानमपि अखण्डवैरिखण्डनपण्डितो महामोहः कथंचिदपि संधिं नानुमन्यते । अहं वा कथमसहायवीरस्तमनुमन्ये? न खलु क्षुधितोऽपि शार्दूलः कदाचिदपि शाद्वलमत्ति ।
रतिः - को उण तेहिं कुळघ्घेहिं महाबलाणं तुम्हाणं वि उम्मूलणे उवाओ संमन्तिओ? [कः पुनस्तैः कुलघ्नैः महाबलानां युष्माकमप्युन्मूलने उपायः संमन्त्रितः?]
कामः - अयि भीरु, अनुद्घाटनीयमिदं राजरहस्यम् । विशेषतः स्त्रीषु ।
रतिः - (हस्तं संगृह्य) अय्यउत्त, साविदोसि मए पिअसहेण वसन्तेण अ । सच्चं विवरिज्जइ राअरहस्सम् ।
[आर्यपुत्र, शापितोऽसि मया प्रियसखेन वसन्तेन च । सत्यं विव्रियतां राजरहस्यम् ।
वसन्तः - (स्वगतम्) किमत्र विवरणीयम्? दुष्परिहरः खलु अनिर्धारितकालो नियतिविपर्यासः । (प्रकाशम्) सखे मकरध्वज,
मनोरथसमर्थानां महामोहविरोधिनाम् । मन्त्रभेदनमस्माभिः कार्यं तत्परिपन्थिभिः ॥ ५२ ॥
कामः - प्रिये, कथयामि तर्हि । अस्ति खलु अनभिज्ञकुलसार्वभौमविवेकमूलाकर्तृत्वाभिमानादिनानाविधविषमदृष्टिसहकृतः कश्चिदस्मत्कुलाभिचारकाङ्क्षिभिः उपनिषदूषरनिष्ठैः कैश्चिन्निष्ठुरैः अनुष्ठीयमानो निवृत्तिसंज्ञको धर्मः, यन्निष्ठस्य पुरुषस्य परदोषदर्शनादिष्वन्धबधिरषण्डपङ्गुमूकादिवदत्यन्तमवसन्नावस्थानमाकर्ण्यते । तेन च निष्प्रतिक्रियेण केनचिदव(प)ग्रहेणेव पुरुषमाविशता बुद्धिः संगस्यते । तस्मात् लकि तत्संगमादस्मत्कुलप्रद्वेषदूषितहृदया प्रशान्तमधुरवेषप्रच्छन्ना भवरसभोगभैमरथी परभक्त्यपरपर्याया ब्रह्मराक्षसी प्रादुर्भविष्यति ।
तथा हि,
गुणत्रेतोन्मेषक्रमपरिणतानन्तविकृतिः क्वचित्काले बुद्धिः कुलयुगलकूटस्थगृहिणी ।
अतिक्रूरात्यन्तप्रलयविधिदुर्मन्त्रपरुषां पुरा भीमाकारां सृजति परभक्तिं परवती ॥ ५३ ॥
ततश्च,
प्रव्रज्यादियुता परत्र पुरुषे पातिव्रतीं बिभ्रती भक्तिः सा प्रतिरुद्धसर्वकरणा धोरं तपस्तप्यते ।
तुष्टा तेन जनार्दनस्य करुणा कुर्वीत तत्किङ्करं कंचित्कैटभकोटिकल्पमसुरं….(इत्यर्धोक्ते विरमति)
वसन्तः - (स्वगतम्) स खलु सङ्कल्पसूर्योदयः, ‘निर्मूलनस्त्वेष नः’ इति शेषः । अन्यथा तु पूरयामि । (प्रकाशम्)
शेषं पुनर्दुर्वचम् ॥ ५४ ॥
रतिः - (सभयसंभ्रमम्) णाह, परिरख्ख परिरख्ख । [नाथ, परिरक्ष परिरक्ष] (इति भर्तारमाश्लिष्यति ।)
कामः - (गाढमुपगुह्य अभुक्तपूर्वमिव निर्वेशं नाटयन्, आत्मगतम्)
जनितवलयभङ्गे दत्तहारावमर्दे मुषितनिखिलखेदे मोहसंतोषहेतौ ।
सचकितपरिरम्भे सांप्रतं कातराक्ष्यास्त्यजति युगलचिन्तामङ्गयोरन्तरात्मा ॥ ५५ ॥
(प्रकाशम्) सखि, महामोहसैनिकधुरन्धरस्य मम प्रेयसी सती मा भैषीः । समाश्वसिहि, समाश्वसिहि । इदं खल्वैन्द्रजालिकनगरनिगरणप्रायमनिपुणनैगमिकरथ्यापुरुषनिर्मितं किमप्यैतिह्यम् । तथा हि,
कुवृत्तमिति कौक्कुटं व्रतमधिक्षिपद्भिस्तथा सुधाकरशतक्रतुप्रभृतिभिः स्वयं चस्खले ।
नदद्भ्रमरपङ्तिके नमति कार्मुके मामके विरक्तिगृहदेहलीं क इह दोहली वीक्षते ॥ ५६ ॥
तिष्ठन्तु च महाबला मन्त्रिवर्गाः,
प्रमादालस्यनिद्रादिविविधव्यूहविग्रहः । प्रज्ञावरणघोरात्मा मोहः केन विजेष्यते ॥ ५७ ॥
रतिः - (स्वगतम्) विहिवसेण विवरीअं भणिअं अय्यउत्तेण । (प्रकाशम्) होज्ज मङ्गलं महाराअस्स । [विधिवशेन विपरीतं भणितमार्यपुत्रेण । भूयान्मङ्गलं महाराजस्य ।]
वसन्तः - अयि मन्मथपत्नि मा स्म भैषीर्ननु मोहादिषु संस्थितेषु सत्सु ।
प्रकृतिं पुरुषः प्रपित्समानः प्रतिपद्येत विरक्तितो विमुक्तिम् ॥ ५८ ॥
रतिः - (आत्मगतम्) आः! वसन्तमासिअं वि विवरीअं विअ दीसइ । [आः! वसन्तभाषितमपि विपरीतमिव दृश्यते ।] (प्रकाशम्) अय्यउत्त, किं विवेअस्स णद्धि विवेओ, अमच्चाणं वा तस्स समदमप्पमुहाणं? पुरुसे खु पइदिं मोक्कूण गए अम्हाणं ताणं वि अविसेससुळहं अवसाणं । [आर्यपुत्र, किं विवेकस्य नास्ति विवेकः, अमात्यानां वा तस्य शमदमप्रमुखाणा(ना?)म्? पुरुषे खलु प्रकृतिं मुक्त्वा गते अस्माकं तेषामपि अविशेषसुलभमवसानम् ।]
कामः - एवमेतत् । अस्मदुन्मेषमसहमानाः पुनरेते पापाः प्रज्ञाचक्षुषि क्वचित्पुरुषे साक्षिणि कुलद्वयमूलकूलङ्कषासु
कुहनासु गहनमीहन्ते । सर्वथा मूढचेतसश्चैते मोघकर्माणो भविष्यन्ति । यतः,
प्रसुप्तानपि युद्धेन सुग्रीवसुभटानिव । कर्मशक्तिरनुच्छेद्या पुनरुद्बोधयिष्यति ॥ ५९ ॥
(नेपथ्ये) कोऽसौ विपर्यस्तदृष्टिरनुग्रहैकनियतकौतुकानस्मानेव पापान् प्रलपति? रे रे! दुर्विनीत, दुराचार, निष्पन्दनिगलितकूटस्थानां नृशंसवृत्तीनां वः प्रतिक्षेपे पुरुषस्य निरस्तनिखिलदुःखनिरतिशयानन्दप्रापणे तदापि तद्बुद्ध्यनुप्रवेशेन स्वकुलसञ्जीवने च दनुजमथनदयाधीनवृत्तयो वयं प्रवर्तामहे । अस्ति चौपनिषदोऽयमुद्घोषः,
स्वाधीनसंसरणनाट्यनिरूढवृत्तेः संतोषितः प्रणतभूमिकयाऽस्य पुंसः ।
स्थाने विधास्यति विभुः स्थिरचिह्नभेदं क्रीडानटस्य भगवान्कृपया स्वसाम्यम् ॥ ६० ॥
ततश्च,
रिपुमथनकृतं यशो महीयः पितृपरिरक्षणसंभृतश्च धर्मः ।
अभिमतघटनोद्भवश्च हर्षः सपदि विधास्यति संनिधिं स्वयं नः ॥ ६१ ॥
कामः - (सभयावहित्थमवलोक्य) प्रिये, मोहपरिपन्थिपक्षे मूर्धामिषिक्तः स्वयमसौ स्वसहधर्मचारिण्या सुमत्या सहाभ्यमित्रीण उपसर्पति । अयं हि,
मुकुलयति विवित्सां मोहविध्वंसमिच्छन् विमृशति निगमान्तान्वीक्षते मोक्षधर्मान् ।
निशमयति च गीतां नित्यमेकान्तभक्त्या गुणपरिषदवेक्षी गुप्तमन्त्रो विवेकः ॥ ६२ ॥ अपि च,
प्रत्यङ्मुखीं सुमतिदीप्तिमिह प्रचिन्वन् प्राप्तोदयोऽप्यमितरागबलोपपन्नः ।
क्षाम्यन्नहंकृतिमयीमवशो हिमानीं भास्वानसौ भजति विष्णुपदं विवेकः ॥ ६३ ॥
तन्न सांप्रतमस्माभिरप्राप्तसमयैरसहायैश्चारातिसन्निधावात्मानं प्रकाशयितुम् । [इति समित्रकलत्रो निष्क्रान्तः ।]
॥ इति मिश्रविष्कम्भः ॥
[ततः प्रविशति राजा, सुमतिश्च ।]
राजा- (सविमर्शम्) प्रिये, समाकर्णितस्त्वया अनवधिकदुरितविषवनमूलभूतस्यामन्ददर्पस्य कन्दर्पवटोराटोपः? यदसावशेषपापनिष्कृतौ प्रवर्तमानानस्मानेव पापारोपेण परिवदति । अथवा,
पश्यति परेषु दोषानसतोऽपि जनः सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मिन्महिमा मोहाञ्जनस्यैषः ॥
सुमतिः - अय्यउत्त, विरूपा खु जणा णिअमुहदोसं णिम्मळेसु वि दप्यणेसु समप्पन्ति । [आर्यपुत्र, विरूपाः खलु
जना निजमुखदोषं निर्मलेष्वपि दर्पणेषु समर्पयन्ति ।]
राजा - देवि, सत्यमेतत् । यथार्थदर्शिनी यथादृष्टार्थवादिनी च भवती । किं च,
निर्धूतनिखिलदोषा निरवधिपुरुषार्थलम्भनप्रवणा ।
सत्कविफणितिरिव त्वं सगुणालङ्कारभावरसजुष्टा ॥ ६५ ॥
(विचिन्त्य) प्रिये, हन्त, निर्विकारपुरुषपीडया क्रीडन्त एते कामक्रोधलोभादयः सुपन्थानमास्थिताः, वयं पुनस्तमेव निश्रेयसे नियोजयितुं समस्तजनसांसिद्धिकसुहृदो भगवतस्तापत्रयाभिहतसर्वजनसंजीविनीं दयादृष्टिमावहन्तः कदध्वना प्रवृत्ताः । अहो! महानयमुन्मत्तालापः । पश्य मे त्वया सह निर्वर्तनीयं परानुग्रहव्रतम् ।
महत्यारम्भेऽस्मिन्मधुरिपुदयासंभृतधृतिर्बहिष्कृत्यारातीन्सुमुखि बहिरन्तश्च भवतः ।
समाधावाधाय क्षपितवृजिनं क्षेत्रिणमहं परप्राप्त्या धन्यं परिणमयितुं प्राप्तनियमः ॥ ६६ ॥
सुमतिः - अय्यउत्त, कहं सो णिच्चणिम्मळमहाणन्दसअंपहो सव्वजणदंसणजोग्गसहावो पुरुसो महामोहेण माणमदमच्चरप्पमुहेहिं वि दुव्विणीएहिं दुव्वारगव्वसंकुळदुरिअमहोम्मिसंघाअसंघडणभीसणे दुख्खसाअरम्मि णिख्खित्तो [आर्यपुत्र, कथं स नित्यनिर्मलमहानन्दस्वयंप्रभः सर्वजनदर्शनयोग्यस्वभावः पुरुषः महामोहेन मानमदमत्सरप्रमुखैरपि दुर्विनीतैः दुर्वारगर्वसंकुलदुरितमहोर्मिसंघातसंघटनभीषणे दुःखसागरे निक्षिप्तः?
राजा - प्रिये सूक्ष्मदर्शिनि, किं दृष्टमपह्नोतव्यम्? आगमिकं वा न प्रत्येतव्यम्? पश्यतु भवती ।
स्वतः प्राप्तं रूपं यदिह किल भावेषु तदपि त्यजन्तस्ते दृष्टा नियतिघटितोपाधिवशतः ।
प्रकृत्या तिष्ठन्ति ह्युपधिविगमे ते च तदसावनादिः संसारः पुरुषमुपरुन्धे गलति च ॥ ६७ ॥
सुमतिः - एव्वं एदं । तह वि कहं एआवन्तं काळं परमकारुणिएण देव्वेण लच्छीवळ्ळहेण दुस्सहदुख्खसअधूमिओ पुरुसो उवेख्खिओ? [एवमेतत् । तथापि कथमेतावन्तं कालं परमकारुणिकेन देवेन लक्ष्मीवल्लभेन
दुःसहदुःखशतधूमितः पुरुष उपेक्षितः?]
राजा - किं न श्रूयते भवत्या - यदनादिनिजकर्मरूपाविद्योपरोधेन क्षेत्रज्ञोऽयमीश्वरेण क्षिप्तः संसरन्नवसरे तेनैव समुद्ध्रियत इति ? यथा -
मिथःकलहकल्पनाविषमवृत्तिलीलादयापरिग्रहणकौतुकप्रथितपारवश्यः प्रभुः ।
स्वलक्षितसमुद्गमे सुकृतलक्षणे कुत्रचित् घुणक्षतलिपिक्रमादुपनिपातिनः पाति नः ॥ ६८ ॥
अत्र च,
सुखदुःखवाहिनीनां व्यत्ययविनिमयनिवर्तनानर्हे ।
नियतक्रमे प्रवाहे निपतितमुत्क्षिप्य मोदते देवः ॥ ६९ ॥
सुमतिः - अय्यउत्त, अणादिम्मि गए काले अळद्धपुव्वो मोख्खो अणन्ते वि उवरिअणकाळम्मि केण कहं लहिज्जत्ति सङ्काकळङ्ककब्बुरिअं मे हिअअं । [आर्यपुत्र, अनादौ गते काले अलब्धपूर्वो मोक्षः अनन्तेऽप्युपरितनकाले केन कथं लभ्यत इति शङ्काकलङ्ककर्बुरितं मे हृदयम् ।]
राजा - देवि विवेकवल्लभे, अनधिगतप्रमाणतर्कसरणिरिव कथमेवमाशङ्कसे? अथवा,
कालस्वभावनियतियदृच्छादिषु वस्तुषु । कारणं किमिवात्रेति तापसैरपि तर्कितम् ॥ ७० ॥
इदमत्र तावदवधातव्यम् ।
कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे तत्तत्काले विपक्तिर्भवति(बह)हि विविधा सर्वसिद्धान्तसिद्धा । तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचिन्मुक्तैश्वर्यान्तसंपन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥
स च मोक्ष्यमाणो मत्समक्षमादौ तावत्,
दर्पोदग्रदशेन्द्रियाननमनोनक्तञ्चराधिष्ठिते देहेऽस्मिन्भवसिन्धुना परिगते दीनां दशामास्थितः ।
अद्यत्वे हनुमत्समेन गुरुणा प्रख्यापितार्थः पुमान् लकारुद्धविदेहराजतनयान्यायेन लालप्यते ॥ ७२ ॥
अपि च, बहुलदुरितद्वारे ब्राह्मे पुरे परसंमतः(त) स्वमतिघटितस्वातन्त्र्यत्वादयन्त्रितचेष्टितः ।
विषमसचिवैः स्वे स्वे कार्ये विगृह्य विकृष्यते नरपतिरिव क्षीबो नानाविधैरयमिन्द्रियैः ॥ ७३ ॥
सुमतिः - अय्यउत्त, एव्वं हुदवहवेडिअघरगअं विअ अप्पाणं अप्पमत्तबुद्धी किं ण णिज्जिगमिसाए रख्खइ पुरुसो?
[आर्यपुत्र, एवं हुतवहवेष्टितगृहगतमिवात्मानमप्रमत्तबुद्धिः किं न निर्जिगमिषया रक्षति पुरुषः?]
राजा - प्रिये सर्ववेदिनि, अनादिः खल्वयमलङ्घनीयो रागजलधिः ।
स्थिरत्रसविभक्तिमत्त्रिविधरागदृश्योदयं सुमृष्टमणिभित्तिवत्स्वयमभिद्यमानः पुमान् ।
त्रियुग्मगुणशिल्पिना त्रिगुणतूलिकाधारिणा विविच्य विनिवेशितं वहति चित्रमत्यद्भुतम् ॥ ७४ ॥
सुमतिः - (सविषादम्) इदि णाम उम्मत्तदसं पुरुसं बुद्धी पिअदमा किं ण बोहेइ? [इति नाम उन्मत्तदशं पुरुषं
बुद्धिः प्रियतमा किं न बोधयति?]
राजा - प्रिये सूक्ष्मवादिनि, साऽपि खलु इदानीं स्वयंप्रकाशाऽपि सुप्तप्राया वर्तते । यथा,
पत्यौ दूरं गतवति रवौ पद्मिनीव प्रसुप्ता म्लानाकारा सुमुखि निभृता वर्तते बुद्धिरम्बा ।
मायायोगान्मलिनितरुचौ वल्लभे तुल्यशीला राहुग्रस्ते तुहिनकिरणे निष्प्रभा यामिनीव ॥ ७५ ॥
सुमतिः - अय्यउत्त, अइकरुणा इमा बुद्धिसहिअस्स पुरुसस्स बद्धदसा, एअस्स विउळदुःखजालविह्हळस्स वित्थरेण मोख्खागमं पकासेन्तो विसङ्कं मं कुणसु । [आर्यपुत्र, अतिकरुणेयं बुद्धिसहितस्य पुरुषस्य बद्धदशा, एतस्य विपुलदुःखजालविह्वलस्य विस्तरेण मोक्षागमं प्रकाशयन्विशङ्कां मां कुरुष्व ।]
राजा - देवि अनवरतशोभनाशंसिनि, निदानमिह निपुणमुपपादयन्प्रतिपन्नमेव भवतीं प्रत्यभिज्ञापयामि ।
दुरासेधस्थेम्ना दुरितपरिपाकेण भविनः प्रमाथी संसारः प्रशमरहितोऽयं प्रभवति ।
निरोधे तस्यैका निरुपधिककारुण्यघटितस्वतन्त्रेच्छाशक्तिः स्वयमुपधिमाधाय रमते ॥ ७६ ॥
सुमतिः - जइ मए वि सो उवाही सुणिअव्वो, ता मं अय्यउत्तो आणवेदु । [यदि मयाऽपि स उपाधिः श्रोतव्यः,
तदा मामार्यपुत्र आज्ञापयतु ।]
राजा - प्रिये विशुद्धभाषिणि, श्रूयतामिह सूक्ष्मार्थसंग्रहः ।
मदनमत्सरमानमयः पुमान्बहुपिशाचगृहीत इवार्भकः । निगमसिद्धनरेन्द्रनिरीक्षया निपुणपद्धतिमभ्यवपद्यते ॥ ७७ ॥
ततश्च,
अनघदेशिकदृष्टिसुधाप्लवे विधिवशादुपसेदुषि देहिनः ।
विमलबोधमुखा विविधा गुणाः परिणमन्त्यपवर्गदशाङ्कुराः ॥ ७८ ॥
अपि च,
स्वाधीनेतरपातभीतिपरुषस्वर्वासदुर्वासनापाशाकर्षणयन्त्रणाभिरभितः क्षिप्तात्मनः क्षेत्रिणः ।
निष्प्रत्यूहविजृम्भमाणकरुणादुग्धार्णवे निर्भरा भक्तिः सेत्स्यति भागधेयवशतः प्राप्ये परब्रह्मणि ॥ ७९ ॥
अत्र चान्तरा सर्वस्वदक्षिणोऽयमध्वरः प्रवर्तते । यत्र तु,
त्वया जुष्टः पत्न्या विधिवदिह यष्टा स्वयमहं विधत्ते चार्त्विज्यं शमदममुखोऽयं गुणगणः ।
अकस्मादुद्देश्यो भवति भगवानात्महविषः पशुर्बद्धो मुक्तिं भजति विगलत्कर्मनिगलः ॥ ८० ॥
इदमप्यत्रभवत्या भावनीयम् -
स्वरक्षणभरार्पणक्षणिकसत्रिणः क्षेत्रिणः प्रवर्त्य कृपया स्थितिं प्रभुरभूतपूर्वोदयाम् ।
जगद्विपरिवर्तनप्रथितनित्यशक्तिः स्वयं क्षिपत्यपुनरङ्कुरं दुरितमस्य लक्ष्मीपतिः ॥ ८१ ॥
सुमतिः - अय्यउत्त, एव्वं णाम वण्णिज्जन्ती ओवग्गदसा पुरुसस्स कइआ होहिइ? [आर्यपुत्र, एवं नाम वर्ण्यमानापवर्गदशा पुरुषस्य कदा भविष्यति?]
राजा - देवि त्रैलोक्यवेदिनि, दुःसहानादिदुःखसागरनिमग्नस्य यथागमं यथान्यायं च केनचित्कारणेन समुत्तारः संभविष्यतीति संतोष्टव्यं तावत् । इह हि,
निरपायदेशिकनिदर्शितामिमां कमलासहायकरुणाधिरोहणीम् ।
क्रमशोऽधिरुह्य कृतिनः समिन्धते परिशुद्धसत्रपरिकर्मिते पदे ॥ ८२ ॥
अपि च,
स्वयमुपशमयन्ती स्वामिनः स्वैरलीलां स्वमतमिह दुहाना स्वादु पथ्यं प्रजानाम् ।
नियतमिदमिदानीमन्यदा वा भवित्री निरवधिसुखसिद्ध्यै निष्प्रकम्पानुकम्पा ॥ ८३ ॥
इयं हि, अविरलगुणच्छाया मायात(मः)पप्रतिरोधिनी परिहृतरजःपङ्का तापैरसङ्घटिता त्रिभिः ।
मधुरिपुदयामूर्तिर्दिव्या निराकृतकण्टका वहति निगमाद्वर्तन्येका पुरीमपराजिताम् ॥ ८४ ॥
सुमतिः - अय्यउत्त, अपरिमिअदुरिअभरिअस्स जन्तुणो दुख्खसाअरादो उत्तारवअणं बालजणसन्तोसवअणं विअ
उवच्छन्दणंत्ति पेख्खामि । [आर्यपुत्र, अपरिमितदुरितभरितस्य जन्तोः दुःखसागरादुत्तारवचनं बालजनसंतोषवचनमिव उपच्छन्दनमिति पश्यामि ।]
राजा - भद्रे अबाधितार्थग्राहिणि, मा स्म मिथ्यादृष्टिमुपतिष्ठ । सुमतिः खल्वसि, अपि दृष्टः क्वचिदाप्तागमस्य बाधः, ऐश्वरस्य वा भक्तजनसंरक्षणप्रतिज्ञानस्य? इयं ते प्रत्यायना ।
शपे दैष्टिक्येन स्वयमिह भवत्या च सुमते त्वयैव द्रष्टव्यः स्वपनविगमोन्मीलितधिया ।
अहंकारग्राहग्रहकदनसाक्रन्दतनुभृन्मुमुक्षासंरब्धो मुरमथनसंकल्पमहिमा ॥ ८५ ॥
अथवा, साधारणश्चायमाश्रितसंरक्षणसमारम्भः । तथा हि -
दीनो दृप्यतु वाऽपराध्यतु परं व्यावर्ततां वा ततस्त्रातव्यः शरणागतः शकनतः सद्भिस्तथा स्थाप्यते ।
विश्वामित्रकपोतराघवरघुव्योमाध्वगप्रेयसीनालीजङ्घबृहस्पतिप्रभृतिभिर्नन्वेष घण्टापथः ॥ ८६ ॥
सुमतिः - अय्यउत, होन्ति खु महन्ता पिआमहप्पमुहा वि मोख्खकामेहिं तेहिं तेहिं उवासिज्जन्ता । ता किं सिरीवई
एव्व णिव्वाणस्स काळणं भणिज्जइ? [आर्यपुत्र, भवन्ति खलु महान्तः पितामहप्रमुखा अपि मोक्षकामैस्तैस्तैरुपास्यमानाः । तत्किं श्रीपतिरेव निर्वाणस्य कारणं भण्यते ?]
राजा - प्रिये सूक्ष्मदर्शिनि, किं न मन्यसे? असाधारणं हि मधुमथनस्य माहात्म्यम् ।
पुरा वेधःस्तम्बावधि पुरुषसृष्टिस्थितिमति स्थिरा भक्तिः सूते विपदुपरतिं पंसि परमे ।
तदन्यानभ्यर्चन्नभिलषितमुक्तिः सुरगणानुदन्यां प्रालेयैरुपशमयितुं वाञ्छति जडः ॥ ८७ ॥
न खलु सहस्रमप्यालेख्यदिवसकरा अन्धकारं प्रतिक्षिपन्ति । ततश्च,
आबध्नती विगतशान्तिमनादिनिद्रां चेतस्विनस्त्रिगुणशक्तिमयी त्रियामा ।
नाथस्य केवलमसौ नरकान्तकर्तुः सङ्कल्पसूर्यविभवेन समापनीया ॥ ८८ ॥
सुमतिः - अय्यउत्त, अज्ज खु देवाणं मुणीणं वि परावरपुरुसविवेअणे डोळाअइ चिन्ता । तुए उण कहं एक्कम्मि
पुरुसोत्तमे णिठ्ठा णिजन्मइ? [आर्यपुत्र, अद्य खलु देवानां मुनीनामपि परावरपुरुषविवेचने डोलायते चिन्ता । त्वया पुनः कथमेकस्मिन्पुरुषोत्तमे निष्ठा नियम्यते?]
राजा - देवि, ननु सोपबृंहणनिपुणनिरूपिताभिरुपनिषद्भिरेव प्रसिद्धं खलु वेदविप्रकेशवनामैकराश्यम् ।
मेयं विष्णुर्वेदवादाश्च मानं मातारश्च ब्रा(श्चेद्ब्रा)ह्मणाः सत्त्वनिष्ठाः ।
इत्थं तेषामैकराश्यं प्रतीमः कीटप्रायैर्दुर्विदग्धैः किमन्यैः ॥ ८९ ॥
अपि च,
शास्त्राण्यालोड्य सर्वाण्यशिथिलगतिभिर्युक्तिवर्गैर्विचार्य स्वान्तर्निर्धार्य तत्त्वं स्वभुजमपि महत्युद्धरन्सूरिसङ्घे ।
सत्यं सत्यं च सत्यं पुनरिति कथयन्सादरं वेदवादी पाराशर्यः प्रमाणं यदि क इह परः केशवादाविरस्ति ॥ ९० ॥
‘महाजनो येन गतः स पन्थाः’ इति च महर्षिभाषितम् । दृश्यते चैतत् ।
तर्को न प्रतितिष्ठति प्रभवति त्रय्यापि वैयाकुली क्षोभं यान्ति मिथः क्षता ऋषिगिरः क्षुद्रोक्तयः किं पुनः ।
इत्थं तत्त्वविनिश्चयो निधिरिव क्षिप्तो गुहाभ्यन्तरे पन्थानं तु महाजनस्य निपुणः प्रत्यञ्चमध्यञ्चति ॥ ९० ॥
महान्तश्च व्यासवाल्मीकिमनुबृहस्पतिशुकशौनकप्रभृतयः प्रवदन्त्यस्माकमध्वानम् । तिष्ठन्त्वेते बहवः । अयं पुनरेकोऽपि,
अपजन्मजरादिकां समृद्धिं कृपया संमुखयन्नशेषपुंसाम् । परदैवतपारमार्थ्यवेदी परिगृह्णातु पराशरः स्वयं नः ॥ ९१ ॥
सुमतिः - अय्यउत्त, अणुत्तरं एदं उत्तरं । अज्ज उण अणन्तसाहणणिअमन्तणिरूपणं असहन्तस्स तुरन्तहिअअस्स
चेअणस्स सव्वागमसारं संकळऊण दंसेदुं तुमं पेत्थम्मि । [आर्यपुत्र, अनुत्तरमेतदुत्तरम् । अद्य पुनरनन्तसाधननिगमान्तनिरूपणमसहमानस्य त्वरमाणहृदयस्य चेतनस्य सर्वागमसारं सङ्कलय्य दर्शयितुं त्वां प्रार्थये ।
राजा - साधु विचिन्तितं भवत्या । तदिदं प्रदर्शयामि,
स्वसङ्कल्पोपघ्नत्रिविधचिदचिद्वस्तुविततिः पुमर्थानामेकः स्वयमिह चतुर्णां प्रसवभूः ।
शुभस्रोतोभाजां श्रुतिपरिषदां श्रीपतिरसावनन्तः सिन्धूनामुदधिरिव विश्रान्तिविषयः ॥ ९३ ॥
अपि च,
परः पद्माकान्तः प्रणिपतनमस्मिन् हिततमं शुभस्तत्सङ्कल्पश्चुलकयति संसारजलधिम् ।
झटित्येवं प्रज्ञामुपजनयता केनचिदसावविद्यावेतालीमतिपतति मन्त्रेण पुरुषः ॥ ९४ ॥
प्रिये, संमितमतीनामपि चित्तसमाधानहेतुसंग्रहो दर्शितः । किं तु,
धृतनिगमकवचगूढाः कष्टं संप्रति कुदृष्टयः केचित् । छलयन्ति सौगतादीन् स्यालोपालम्भतुल्यया वाचा ॥ ९५ ॥
अथ विस्तरेण प्रतिविधिरस्य वेदान्तेषु विपुलमतिभिरनुसन्धीयते । इष्टमेव खलु विदुषां समासव्यासधारणम् ।
सुमतिः - सुट्ठु भणिअं अय्यउत्तेण । एव्वं वि तेहिं तेहिं महेसिमएहिं तक्केहिं वि तारिसेहिं पारिज्जन्ता णिअमन्ता
चोराकिट्टगोधणसरिसा होहिन्तित्ति संपण्णसद्धसा मह चिन्ता । [सुष्ठु भणितमार्यपुत्रेण । एवमपि तैस्तैर्महर्षिमतैस्तर्कैरपि तादृशैः प्रतार्यमाणा निगमान्ताश्चोराकृष्टगोधनसदृशा भविष्यन्तीति संपन्नसाध्वसा मम चिन्ता ।
राजा - अलमतिशङ्कया ।
अविप्लुतपरिग्रहस्मृतिशतैककण्ठी श्रुतिः स्वभक्तिविकलस्मृतीः स्वपनतोऽपि न प्रेक्षते ।
स्वतःप्रमितिसाधिनी सुदृढतर्कगुप्ता च सा रुणद्धि पुनरप्रतिष्ठितकुतर्ककोलाहलम् ॥ ९६ ॥
(नेपथ्ये) मूलच्छेदभयोज्झितेन महता मोहेन दुर्मेधसा कंसेन प्रभुरुग्रसेन इव नः कारागृहे स्थापितः ।
विख्यातेन विवेकभूमिपतिना विश्वोपकारार्थिना कृष्णेनेव बलोत्तरेण घृणिना मुक्तः श्रियं प्राप्स्यति ॥ ९७ ॥
राजा - (कर्णं दत्त्वा सानन्दम्) प्रिये, श्रूयते सेयमकृत्रिमसरस्वतीवावितथवादिन्यशरीरिणी भारती ।
सुमतिः - (सानन्दम्) अय्यउत्त, तिदसभासिदं खु एदं । ण खु कहं वि अळिअं होज्ज । [आर्यपुत्र, त्रिदशभाषितं खल्वेतत् । न खलु कथमप्यलीकं भवेत् ।]
राजा - प्रिये, सर्वथा तावत्त्वत्सहायस्य मे हस्तगतैव विजयसिद्धिः । अपि च,
रिपुगणविजिगीषाबिन्दुलेशोऽप्यसौ मे मधुजिदनुजिघृक्षावाहिनीवर्धितात्मा ।
सफलयितुमधीष्टे साधु संप्लावयिष्यन् यतिगणबहुमान्यं यत्नसन्तानवृक्षम् ॥ ९८ ॥
[पुनर्नेपथ्ये दुन्दुभिध्वनिः । उभौ कर्ण दत्तः ।]
सुमतिः - (सविस्मयम्) अय्यउत्त,
कुळवइमोख्खणूसवमिअङ्गकहा कइआ णवसमरूसुआ वि ण अ होइ गइन्दघडा ।
तह वि जुअन्तहोन्तथणइण्णुणिहक्कणिओ कह कह को वि हन्त णिहिळं मुहळेइ णहं ॥ ९९ ॥
[आर्यपुत्र,
कुलपतिमोक्षणोत्सवमृदङ्गकथा कदा नवसमरोत्सुकाऽपि न च भवति गजेन्द्रघटा ।
तथापि युगान्तभवत्स्तनयित्नुनिभक्कणितः कथं कथं कोऽपि हन्त निखिलं मुखरयति नमः ॥]
राजा - प्रिये, अस्मद्विजयसंनाहसंधुक्षकैरमरपतिभिरयमभिहन्यते दुन्दुभिः । तदिह स्थापितस्वपक्षैरस्माभिः परपक्षप्रतिक्षेपे प्रयतितव्यम् ।
[इत्युभौ निष्क्रान्तौ]
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (स्वपक्षप्रकाशो नाम) प्रथमोऽङ्कः ।