श्रीमद्वेदान्तदेशिकमङ्गलाशासनप्रक्रिया-प्रदर्शिनी॥
(श्रीतूप्पुल् वेतान्ततेशिकऩ् मङ्कळाशासन श्लोकङ्कळ् कोयिल् तेशिकऩ् सन्निति वाचलिल्)
विश्वास-प्रस्तुतिः
दिव्यस् संप्रति-दुन्दुभिर् दिशि दिशि ध्वानैर् मुहुश् श्रूयते
देवानाम् अपि हावु-हावु-लहरी विक्षोभयत्य् अम्बरम्।
आरब्ध-प्रतिसंस्कृतिः कृत-मुखैर् अर्चिर्-मुखैश् श्रीपतेः
आज्ञाधारिभिर् आतिवाहिक-गणैर् आदिश्यते पद्धतिः॥
मूलम्
दिव्यस्संप्रति-दुन्दुभिर्दिशि दिशि ध्वानैर्मुहुश्श्रूयते
देवानामपि हावु हावु लहरी विक्षोभयत्यम्बरम्।
आरब्धप्रतिसंस्कृतिः कृतमुखैरर्चिर्मुखैश्श्रीपतेः
आज्ञाधारिभिरातिवाहिकगणैरादिश्यते पद्धतिः॥
(“श्रीमत् वेङ्कटनाथार्य फणिधरणिधराधीश-दिव्यघण्टावतार! ऎत्सरिकै स्वामि ऎत्सरिकै विजयीपव विजयीपव विजयीपव ऎत्सरिकै स्वामि ऎत्सरिकै”)
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥
(श्रीवरतराजपञ्चाशत् आरम्पम्. तॊण्टरटिप्पटियिल्)
विश्वास-प्रस्तुतिः
भुजङ्गम-विहङ्गम-प्रवर–सैन्य-नाथाः प्रभो
तथैव कुमुदादयो नगर-गोपुर-द्वार-पाः।
अचिन्त्य-बल-विक्रमास् त्वम् इह देश-संरक्षकाः
जितन्त इति वादिनो जगदनुग्रहे जाग्रतु।
मूलम्
भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो
तथैव कुमुदादयो नगरगोपुरद्वारपाः।
अचिन्त्यबलविक्रमाः त्वम् इह देशसंरक्षकाः
जितन्त इति वादिनो जगदनुग्रहे जाग्रतु।
(अपिषेकमण्टपम्)
विश्वास-प्रस्तुतिः
विश्वप्रीणन-विश्वकर्म-रचना-चातुर्य-कातर्य-दैः
शिल्पैः कल्पयतीव मण्डनम् असौ चेतस्-स्थितेर् मण्टपः।
रत्न-स्तम्भ-भुवोपि रश्मय इमे सोपान-गोपानसी+++(=rafter)+++-
मध्यं यत्र गवाक्षयन्ति विहित-प्रत्यग्र-चित्त-क्रमाः।
मूलम्
विश्वप्रीणनविश्वकर्मरचनाचातुर्यकातर्यदैः
शिल्पैः कल्पयतीव मण्डनमसौ चेतस्स्थितेर्मण्टपः।
रत्नस्तम्भभुवोपि रश्मय इमे सोपानगोपानसी
मध्यं यत्र गवाक्षयन्ति विहितप्रत्यग्रचित्तक्रमाः।
(श्रीपुण्यकोटिविमानम्)
विश्वास-प्रस्तुतिः
यच्-छायम् आश्रित्य विनिर्मितं यत्
पुण्ये भवेत् कोटि-गुणं विवृद्धम्।
तत्-पुण्य-कोटीति भुवि प्रसिद्धं
विमानराजं भुवि भावयामः॥
मूलम्
यच्छायमाश्रित्य विनिर्मितं यत् पुण्यॆ भवेत् कोटिगुणं विवृद्धम्।
तत्पुण्यकोटीति भुवि प्रसिद्धं विमानराजं भुवि भावयामः॥
(श्रीरामऩ् सन्निति)
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजन
स्वयंरक्षादीक्षासमधिकसमिन्धानयशसे।
सुराधीसस्वैरक्षणकुपितशापायुधवधू-
दृषत्तादुर्जातप्रशमनपदाम्भोजरजसे॥
पारवारपयोविशेषणकलापारीणकालानल
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः।
सर्वावस्थसकृत्प्रपन्नजनता संरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः॥
येनाचलप्रकृतिना रिपुसंक्षयार्थी वारांनिधिं वरद पूर्वमलङ्घयस्त्वम्।
तं वीक्ष्य सेतुमधुनापि शरीरवन्तः सर्वे षडूर्मिबहुलं जलधिं तरन्ति॥
राकान्ते रुद्धलङ्कच्युतफणिकदनो धूम्रदिग्वज्रदंष्ट्रौ
भङ्क्त्वा कम्पं प्रहस्तं दशमुखमकुटं कुम्भकर्णातिकायौ।
ब्रद्मास्त्रछिन्नकुम्भादिकमथ मकराक्षं च हत्वेन्द्रशत्रुं
जित्वा घस्रैस्त्रिभिस्तं सहबलमवधीत् रावणं रामभद्रः॥
विषयिभिरसौ वक्त्रैर्घोरैर्मनोरजनीचरं
प्रशमयति यो युञ्जानानां प्रबोधशरोत्करैः।
जनकसुतया देव्या जुष्टो दिशत्यभयं सतां
दशरथसुतो देवश्श्रीमान् दयामृतवारिधिः॥
आयोद्या दिव्येयं वहति सरयू यत्र विरजा
विभोरेते यूपाविधिनियमनिर्मुक्तपशवः।
आकुण्ठस्स्वातन्त्र्यः स्वपदमधिरोहन्नवसरे
सहानैषीदेषस्स्थिरचरमशेषं रघुपतिः॥
भगवति भरद्वाजे भुक्तिस्तथा शबरीगृहे
प्रभुरनुसृतो विश्वामित्रः प्लवङ्गपतिस्तथा।
भृगुपतितपो लूनं दृष्टिःखगस्य च दक्षिणा
जयति ललितोत्तुङ्गावृत्तिः दशास्यरिपोरिति॥
शिलादेः स्त्रीत्वादिविपरिणतिरस्त्वद्भुतमिदं
ततोप्येतच्चित्रं यदुत दहन्स्यैव हिमता।
तृणस्यैवास्त्रत्वं रिपुषु निहतेरेव हितता
पदत्रेणैवेह त्रिभुवनपरित्राणमिति च॥
दर्पोदग्रदशाननेन्द्रियमनोनक्तंचराधिष्ठिते
देहेस्मिन्भवसिन्धुना परिगतं दीनां दशामास्थितः।
अद्यत्वे हनुमत्समेतगुरुणा प्रख्यापितार्थः पुमान्
लङ्कारुद्धविदेहराजतनया न्यायेन लालिप्यते।
श्रीहऩुमाऩुक्कु हारत्ति
परिणतफलग्रासश्रद्धाजिक्षितभास्करः
पवनगरुडस्पर्धादानप्रवीणजवोल्बणः।
दशमुखपुरीदाहोत्सिक्त स्ववालधिवैभवः
रघुपतिरणारम्भक्रीडारथोयमुपस्थितः॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीशटारि मरियातै
श्रीरकुवीरकत्यम् आरम्पम्)
( तिरुवनन्ताऴ्वाऩ् सन्निति)
अनन्तख्यातिसंपन्नश्शुद्धसत्वसुधीबलः।
धत्ते बहुविधं भोगे श्रुतिदृष्टिः स्थिराश्रयः।
जगन्त्यशेषाणि यदेकशेषे पर्यङ्कतां यस्य गतः प्रथिम्ना।
अलङ्घनीयं बहुमानमन्यैः भजत्यसौ भावितशेषभावः॥
(श्रीतेशिकऩ् मरियातै)
श्लिष्यद्रुद्रासुकीर्तिस्तनतटघुसृणालेपसंक्रान्तसार
स्फारामोदाभिलाषोन्नमितपृथुफणाचक्रवालाभिरामः।
प्रायः प्रेयःपटीरद्रुमविटपधियाश्लिष्टपक्षीन्द्रबाहुः
व्याहन्यादस्मदीयं वृजिनभरमसौ बृन्दशो दन्दशूकः॥
श्रीकरियमाणिक्कवरतऩ् सन्निति
लक्ष्मीनेत्रोत्पलश्रीस्सततपरिचयादेष संवर्धमानः
नाभीनाळीकरिङ्खन्मधुकरपटलीदत्तहस्तावलम्बः।
अस्माकं संपदोघानविरलतुलसीदामसञ्जातभूमा
कालिन्दीकान्तिहारी कलयतु वपुषः काळिमा कैटभारेः ॥
(श्रीतेशिकऩ् मरियातै)
यस्य प्रसादकलया बधिरश्शृणोति
पङ्गुः प्रधावति जवेन च वक्ति मूकः।
अन्धः प्रपश्यति सुतं लभते च वन्ध्या
तं देवमेव वरदं शरणंगतोस्मि॥
(तिरुमटप्पळ्ळि)
पद्मापतेः स्तुतिपदेन विपच्यमानं
पश्यन्त्विह प्रपदनप्रवणा महान्तः।
मद्वाक्यसंवलितमप्यजहत्स्वभावं
मान्यं यतीश्वरमहानस संप्रदायम्।
(श्रीतेशिकऩ् मरियातै)
इति यतिराजमहानसपरिमलपरीवाहवासितां पिबत।
विभुधपरिषन्निषेव्यां वेदान्तोदयनसंप्रदायसुधाम्॥
(श्रीकल्याणकोटिविमानम्.)
यच्छायं समुपेत्य तातयगुरुः लक्ष्मीकुमाराभिधः
कन्यानां शतलक्षलक्षितमहादानेन सद्वर्णितः।
गार्हस्थ्याश्रममाकलय्य वरदं प्रीणाति तं भास्वरं
सेवे श्रीनिलयं विमानमपरं कल्याणकोट्याह्वयम्॥
(श्रीकण्णऩ् सन्निति)
नाथायैव नमः पदं भवतु नश्चित्रैः चरित्रक्रमैः
भूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते।
कालिन्दीरसिकाय कालियफणिस्स्फारस्फटावाटिका
रङ्गोत्सङ्गविशङ्कचङ्क्रमधिया पर्याय चर्यायते॥
कंसध्वंसैकवीरो दनुजभटहतक्षोणिदुर्जातबन्धुः
गोपीनां प्राणमित्रं गुरुसुतपुनरुज्जीवनोदारकीर्तिः।
नाथो वृष्ण्यन्धकादेर्नरकपुरवधूपत्रभङ्गापहारी
पाञ्चालीवल्लभानां पृथुतनयसुहृत्पञ्चमाम्नायसारः॥
एकीभवद्भिरयुतैरपि मन्मथानां
यत्कान्तिसिन्धुपृषतानुकृतिर्न शक्या।
संप्रेक्ष्य तं यदुपतिं यमिनोपि नूनं
स्त्रीभावमेव मनसा बिभरां बभूवुः॥
प्रणिपतामि भवन्तमनन्यधीः
अखिलकारममाश्रिततारणम्।
अनुगमादनिदंप्रथमा गिरः
किमपि यत्पदमेकमधीयते॥
(श्रीतेशिकऩ् मरियातै
श्रीकोपालविम्शति आरम्पम्
श्रीतायार् सन्निति)
अनादेर्निस्सीम्नो दुरितजलधेर्यन्निरुपमं
विदुःप्रायस्चित्तं यदुरघुधुरीणाशयविदः।
तदारम्भे तस्यागिरमवदधानेन मनसा
प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम्॥
महेन्द्राग्नाविष्णुप्रभृतिषु महत्वप्रभृतिवत्
प्रपत्तव्ये तत्वे परिणमितिवैशिष्ट्यविभवाम्।
अधृष्यत्वं धूत्वा गमितुरभिगम्यत्वजननीं
श्रियं शीतपाङ्गामहमशरणो यामि शरणम्॥
सेवे देवि त्रिदशमहिळामौळि मालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम्।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः॥
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातस्सोहं जननि युवयोरेकलक्ष्यं दयायाः।
दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि॥
कस्याणानमविकलनिधिः कापि कारुण्यसीमा
नित्यामोदा निगमवचसां मौळिमन्दारमाला।
संपद्दिव्या मधुविजयिनस्सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थना कामधेनुः॥
सहधर्मचरीं शौरेः सम्मन्त्रितजगद्धिताम्।
अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम्॥
इयमत्र विश्वजननी समुत्थिता कमलाविकासि कमलोदरस्थिता।
मुरमर्दनस्य बुजमध्यपीठिकामधिरुह्य विश्वमवति स्ववीक्षणैः॥
प्राकारत्तिल् प्रम्हचारिक्कु तनम् वर्षित्तल्
योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम्।
तेषां भूमेर्धनपतिगृहादम्बरादम्बिधेर्वा
घारा निर्यान्त्यधिकमधिकं वाञ्चितानां वसूनाम्॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीशटारि मरियातै
श्रीस्तुति आरम्पम्
श्रीकरुटऩ् सन्निति )
अर्यम्णा धुर्ययोक्त्रग्रसनभयभृता सान्त्वितोनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकितधिया शङ्कितश्शङ्करेण।
तल्पे कल्पेत मा ते मतिरिति हरिणाप्यादरेणानुनीतः
पक्षीन्द्रस्त्रायतां नः फणधरमहिषी पत्रभङ्गापहारी॥
वामे वैकुण्ठशय्या फणिपतिकटको वासुकिः ब्रम्हसूत्रः (वासुकिब्रह्मसूत्र इति वा??)
रक्षेन्नस्तक्षकेण ग्रथितकटितटश्चारु कार्कोटहारः।
पद्मं कर्णेपसव्ये प्रथित (प्रथिमवति??) महापद्ममन्यत्र बिभ्रत्
चूडायां शङ्खपालं गुलिकमपि भुजे गक्षिणे पक्षिमल्लः॥
वेगोद्वेलस्सुवेलः किमिदमिति मिथो मन्त्रितो वानरेन्द्रैः
माया मानुष्यलीलामभिनयति हरौ लब्घसेवाविशेषः।
वेदेही कर्णपूरस्तहकसुरभिणा यस्समाश्लेषि दोष्णा
तृष्णा पारिप्लवानां स भवतु गरुडो दुःखवारिप्लवो नः॥
दुग्धोदन्वत्प्रभूतः स्वकमहिमपृथर्विष्णुना कृष्णनाम्ना
पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टः किरीटः।
वीरो वैरोचनास्त्रव्रणकिणगुणितोदग्रनिर्घातघातः
सङ्घातं सर्पघाती स हरतु महतामस्मदत्याहितानाम्॥
(श्रीतेचिकऩुक्कु मरियातै
श्रीकरुटतण्टकम् आरम्पम्
श्रीअऴकियचिङ्कर् सन्निति)
किमत्र हरिरित्यथ प्रकटितोपहासक्रमं
हिरण्यकरधट्टितात् सपदि जृम्भतस्तंभतः।
पुरः स्फुरतिसम्भ्रमस्फुटसटाच्छटाच्छोटन
लुटद्घनघनारवद्विगुणबृंहितस्सिम्हराट्॥
भक्तस्य दानवशिशोः परिपालनाय
भद्रां नृसिम्हकुहनामधिजग्मुषस्ते।
स्तम्भैकवर्जमधुनापि करीश नूनं
त्रैलोक्यमेतदखिलं नरसिम्हगर्भम्॥
सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधिपरिस्फुटद्भ्रुकिटिकेपि वक्त्रे कृते।
कृपा कपटकेसरिन् दनुजडिम्भदत्तस्तना
सरोजसदृशा दृशा व्यतिभिषज्यते व्यज्यते॥
प्रत्यादिष्टपुरातनप्रदरणग्रामः क्षणं पाणिजैः
अव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः।
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित् सहसा महासुरगृहस्थूणा पितामह्यभूत्॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षस्थली
निरर्गलविनिर्गल्द्रुधिरसिन्धुसन्ध्यायिताः।
अवन्तु मदनासिकामनुजपञ्चवक्त्रस्य मां
अहं प्रथमिकामिथःप्रकटिताहवा बाहवः॥
दम्भोलिश्रेणिदीप्यत्खुरनखरमुखक्षुण्णदैतेयवक्षो
निष्ठ्यूतासृक्स्रवन्तोभरितदशदिशादर्शिता पूर्वसन्ध्यः।
स्वामिध्वंसप्रकुप्यत्सुररिपुपृतनास्तोमरूपं स एषः
ब्रम्हस्तंभैकचन्द्रो बहुभिरिह करैरन्धकारं निरुन्धे॥
विदारयति दारुणैर्वलभिदस्त्रभङ्गोद्भटां
सटाविधुतिसम्भ्रमभ्रमितसप्तलोकस्थितिः।
कुलाचलशिलातलद्रढिमडम्बरस्तम्भिनीं
प्रभुर्द्विषदुरस्थलीं नखरशृङ्गदम्भोळिभिः॥
प्रह्लादाह्लादनानि प्रणतसुरजनप्राणनप्रीणनानि
प्रत्यूढस्थेमभीमप्रलयघनघनाघोषणाडम्बराणि।
क्षुभ्यत्सप्ताम्बुधीनि क्षुरपरुषनखक्रीडितक्षुण्णशत्रोः
अस्मद्भीतिं व्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीशटारि मरियातै
श्रीकामासिकाष्टकम्)
(श्रीआण्टाळ् सन्निति)
आर्द्रापराधिनि जनेप्यभिरक्षणार्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने।
पार्श्वे परत्र भवती यदि तत्र नासीत्
प्रायेण देवि वदनं परिवर्तितं स्यात्॥
शतमखमणिनीला चारु कल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः॥
(श्रीतेचिकऩुक्कु मरियातै
श्रीकोतास्तुति आरम्पम्
श्रीचेऩैमुतऩ्मैयार् सन्निति)
अशेषविघ्नशमनमनीकेश्वरमाश्रये।
श्रीमतः करुणाम्बोधौ शिक्षास्रोत इवोत्थितम्॥
वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम्।
यद्वेत्रशिखरस्पन्दे विश्मेतद्व्यवस्थितम्॥
(श्रीतेचिकऩुक्कु मरियातै)
सुरासुराधीश्वरमौलिघातात् विशीर्णजाम्बूनदवेत्रशृङ्गम्।
आलक्ष्य सन्तोषमलक्ष्यमन्यैः अनीकनेतारमहं प्रपद्ये॥
(तिरुमलैयटिवारत्तिल्)
तस्यास्तीरे सरसिजभुवस्सौम्यवैतानवेदिः
दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः।
यस्योपान्तेकृतवसतयो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः॥
सञ्चिन्वाना तरुणतुलसीदामभिस्स्वामभिख्यां
अस्या वेद्यामनुविदधती शीतळं हव्यवाहम्।
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः
भूयश्श्यामा भुवनजननी देवता सन्निधत्ते॥
श्रीअम्माळ् मण्टपत्तिल्
बलदर्शनमण्टपं श्रुतीनां बहुभिर्भावितवैभवं प्रमाणैः॥
अवधूतरजस्तमस्कमेतत् सुमतेस्सत्वमयं विभाति सौधम्॥
(24 पटिकळिल्)
इयमखिलपुमर्थ प्रार्थना कल्पवल्ली
सितमतिभिरनन्यैः सेविता सिद्धबृन्दैः।
द्युतिभिरविरलाभिर्द्योतयन्ती दिगन्तान्
विशति सुमतिसौधं विष्णुभक्तिर्विशुद्धम्॥
सेयं सोपानपदवी श्रीमता विहिता स्वयम्।
शुद्धसत्वमयं भृत्यान् स्वसौधं नेतुमैच्छत॥
निरपायदेशिकनिदर्शितामिमां कमलासहायकरुणाधिरोहिणीम्।
क्रमशोधिरुह्य कृतिनस्समिन्धते परिशुद्धसत्वपरिकर्मिते पदे॥
श्रीअम्माळ् कालक्षेपकोष्टी
दिवि भुवि च निविष्टान् देशिकान् दिव्यभूम्नः
प्रणतिनियतवृत्तिः प्रार्थये कञ्चिदर्थम्।
अधिजिगमिषुराद्यं धाम युष्मत्प्रभावात्
प्रियगतिरनुगृह्य प्रेक्ष्यतां भृत्य एषः॥
अस्मद्गुरुपरमगुरून् यतिवरपूर्णौ च यामुनं रामम्।
पद्माक्षनाथशठजित्सेनेशरमारमापतीन् वन्दे॥
संसाराध्वगतागतश्रमहरः सर्वावगाह्य स्वयं
श्रीसंश्लेषसमुल्लसत्घनरसश्श्रीशस्तटाको महान्।
नेदिष्ठेन महापथेन सुगमो येषां प्रसादादभूत्
तीर्थं तत्र शुभं प्रकाशयतु नस्तेभ्यो गुरुभ्यो नमः॥
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे।
वृणीमहे च तत्राद्यौ दम्पती जगताम्पती॥
एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः
त्रैय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह।
श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगा व्यापकाः
स्पर्धाविप्लवविप्रलम्भपदवी वैदेशिका देशिकाः॥
हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोष-
क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाण्।
दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्तत्
सिद्धान्तस्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका।
आभगवत्तः प्रथितामनघामाचार्यसन्ततिं वन्दे।
मनसि मम यत्प्रसादात् वसति रहस्यत्रयस्यसारोयम्॥
कर्मब्रह्मात्मके शास्त्रे कौतस्कुतनिवर्तकान्।
वन्दे हस्तिगिरीशस्य वीथीशोधककिङ्करान्॥
अध्यासीनतुरङ्गवक्त्रविलसज्जिह्वाग्रसिम्हासनात्
आचार्यादिह देवतां समधिकामन्यां न मन्यामहे।
यस्यासौ भजते कदाचिदजहत्भूमा स्वयं भूमिकां
मग्नानां भविनां भवार्णवसमुत्ताराय नारायणः॥
प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः
प्रतिपदमिह प्रज्ञादायं दिशन्तु दयाधनाः।
शठरिपुशुकव्यास प्राचेतसादिनिबन्धन-
श्रमपरिणतश्रद्धाशुद्धाशया मम देशिकाः॥
प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः।
भूयस्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम्॥
श्रीपॆरुमाळ् कर्पक्रुहत्तिल् हारत्ति
यामिन्यपैति यदुनाथ विमुञ्च निद्रां
उन्मेषमृच्छति तवोन्मिषितेन विश्वम्।
जातस्स्वयं खलु जगद्धितमेवकर्तुं
धर्मप्रवर्तनधिया धरणीतलेस्मिन्॥
दृष्टिद्वयं नियतकालमिदं प्रजानां
एका निमीलिततयोरितराप्यलक्ष्ये।
तत्तादृशोस्तव दृशोर्युगपत्प्रबोधात्
आलोकयोगमनघं भजतां त्रिलोकी॥
मधुन इव दयायास्सामरस्यं दधानैः
कमलवनमनन्यां कान्तिमध्यापयद्भिः।
फणइपतिरमणीयं नाथ पर्यङ्कमुब्जन्
परिणमय शुभं नः पावनैरक्षिपातैः॥
प्रबोधसुभगैस्स्मेरैः प्रसन्नैः शीतळैश्च नः।
कटाक्षैः पावय क्षिप्रं कृपैकोदन्वदूर्मिभिः॥
अनिभृतपरिरम्भैराहितामिन्दिरायाः
कनकवलयमुद्रां कण्ठभागे दधानः।
फणिपतिशयनीयादुत्तथितस्त्वं प्रभाते
वरद सततमन्तर्मानसं सन्निधेयाः॥
जनन्या सर्वलोकानां विष्णुवल्लभयानया।
कृपया कल्पितस्सोहं त्वद्भ्रूविभ्रमकिङ्करः॥
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे।
वृणीमहे च तत्राद्यौ दम्पती जगताम्पती॥
साधारण्ये सत्यपि स्वेच्छयैव द्वेधा विश्वं यद्विभूतिर्व्यभाजि।
चूडाभागे दीप्यमानौ श्रुतीनां दिव्यावेतौ दम्पती मे दयेथाम्॥
त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पड्चहेतये।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे॥
वरद तव विलोकयन्ति धन्याः
मरकतभूधरमातृकायमाणम्।
व्यपगतपरिकर्मवारवाणं
मृगमदपङ्कविशेषनीलमङ्गम्॥
तुरगविहगराजस्यन्दनान्दोलिकादिषु
अधिकमधिकमन्यां आत्मशोभां दधानम्।
अनवधिकविभूतिं हस्तिशैलेश्वरं त्वां
अनुदिनमनिमेषैर्लोचनैर्निर्विशेयम्॥
निरन्तरं निर्विशतस्त्वदीयं अस्पृष्टचिन्तापदमाभिरूप्यम्।
सत्यं शपे वारणशैलनाथ वैकुण्ठवासेपि न मेभिलाषः॥
व्यातन्वाना तरुणतुलसीदामभिस्सवामभिख्यां
मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे नः।
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः
भूयश्श्यामा भुवनजननी देवता सन्निधत्ताम्॥
मानार्हं महतां महानटजटापर्यन्तनिर्यन्त्रण
क्रीडाबन्धुरसिन्धुराजमहिषीजन्मास्पदं तत्पदम्।
मातङ्गाचलमौळिमण्डनमणेर्वन्दारुबृन्दारक
श्रेणीशेखरपारिजातकलिकाचूडालमीडामहे॥
वितर्कडोलां व्यवधूय सत्वे बृहस्पतिं वर्तयसे यतस्त्वम्।
तेनैव देव त्रिदशेश्वराणां अस्पृष्टडोलायितमाधिराज्यम्॥
त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत्
त्वय्यस्ति भक्तिरनघा करिशैलनाथ।
संसृज्यते यदि च दासजनस्त्वदीयः
संसार एष भगवन्नपवर्ग एव॥
संसारसागरोत्तारकारणं वारणाचले।
अविकल्पविकल्पाभ्यामध्यक्षितमुपास्महे॥
अहं मद्रक्षणभरो मद्रक्षणफलं तथा।
न मम श्रीपतेरेवेत्यात्मानं निक्षपेद्बुधः।
न्यास्याम्यकिञ्चनश्श्रीमन् अनुकूलोन्यवर्जितः।
विश्वासप्रार्थना पूर्वं आत्मरक्षाभरं त्वयि॥
स्मामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यसि मं स्वयम्॥
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम्॥
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम्।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम्॥
देवीभूषणहेत्यादिजुष्टस्य भगवन्स्तव।
नित्यं निरपराधेषु कैङ्कर्येषु नियुञ्क्ष्व माम्।
मां मदीयं च निखिलं चेतनाचेतनात्मकम्।
स्वकैङ्कर्योपकरणं वद स्वीकुरु स्वयम्॥
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे।
क्षमस्व निखिलं देव प्रणतार्तिहरप्रभो॥
श्रीमन्नियतपञ्चाङ्गं मद्रक्षणभरार्पणम्।
अचीकरत्स्वयं स्वस्मिन् अतोहमिहनिर्भऱः॥
संसारावर्तवेगप्रशमनशुभदृग्देशिकप्रेक्षितोहं
सन्त्यक्तोन्यैरुपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः।
निश्शङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयेस्मि॥
एकं वेगवतीमध्ये हस्तिशैले च दृश्यते।
उपायफलभावेन स्वयं व्यक्तं परं महः॥
शरणमुपगतानां सोयमादेशकारी
शमयति परितापं सम्मुखस्सर्वजन्तोः।
शतगुणपरिणामस्सन्निधौ यस्य नित्यं
वरवितरणभूमा वारणाद्रीश्वरस्य॥
कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम्।
प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यस्स्वयम्॥
आत्मैक्यं देवतैक्यं त्रिकसमधिकता तुल्यतैक्यं त्रयाणां
अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः।
त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च
श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः॥
तिरुमार्पु नाच्चियार् हारत्ति
इयमत्र विश्वजननी समुत्थिता कमलाविकासि कमलोदरस्थिता।
मुरमर्दनस्य बुजमध्यपीठिकामधिरुह्य विश्वमवति स्ववीक्षणैः॥
(कोलप्पटियिल् स्वामितेचिकऩुक्कु तीर्त्तम्,तिरुप्परिवट्टम् चात्तुप्पटि,पवित्रम्, तकटि, मालै, श्रीचटारि मरियातै
श्रीवरतराजपञ्चाशत् आरम्पम्.
अपिषेकमण्टपत्तिल्)
वशंवदवचोवृत्तिर्वादाहवमहारथः।परिभूतविपक्षोसौ पारितोषिकमर्हति॥
दयया देशिकेन्द्रस्य दिष्ट्या चास्य महीपतेः।परितोषेण चैवं ते प्राप्तोहं पारितोषिकम्।
सभाजयतुमिच्छामि प्रत्यक्षितसभाजयम्। एनं भगवतश्छात्रमेकभक्त्या परिष्कृतम्॥
(स्वामि तेचिकऩुक्कु कटैचि मरियातै)
त्रय्यन्तस्थापकोयं दृढतरममुना तत्वदृष्टिश्च दृष्टया
दिष्ट्याचादिष्टमेतत् दिशिदिशि लडहो डिम्डिमस्ताडनीयः।
शुष्कोपन्यासशिक्षापटिमकुटरटद्वैरिविद्वत्करोटी
कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु॥
(पेरिवात्यम् वाचित्तल्)
मानार्हं महतां महानटजटापर्यन्तनिर्यन्त्रण
क्रीडाबन्धुरसिन्धुराजमहिषीजन्मास्पदं तत्पदम्।
मातङ्गाचलमौळिमण्डनमणेर्वन्दारुबृन्दारक
श्रेणीशेखरपारिजातकलिकाचूडालमीडामहे॥
निर्विष्टं यतिसार्वभौमवचसामावृत्तिभिर्यौवनं
निर्धूतेतरपारत्न्त्र्यनिरया नीतास्सुखं वासराः।
अङ्गीकृत्य सतां प्रसक्तिमसतां गर्वोपि निर्वापितः
शेषायुष्यपि शेषिदम्पतिदयादीक्षामुदीक्षामहे॥
स्वतस्सिद्धश्श्रीमान् अमितगुणभूमा करुणया
विधाय ब्रह्मादीन् वितरति निजादेशमपि यः।
प्रपत्त्या साक्षाद्वा भजनशिरसा वापि सुलभं
मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम्॥
आस्तिक्यवान् निशितबुद्धिरनभ्यसूयुः
सत्सम्प्रदायपरिशुद्धमनास्सदर्थी।
सङ्केतभीतिरहितस्सतृणेष्वसक्तः
सद्वर्तनीमनुविधास्यति साश्वतीं नः॥
युगपदखिलं प्रत्यक्षेण स्वतस्सततं विदन्
निरवधिदयादिव्योदन्वानशक्यविवर्जितः।
जलधिसुतया सार्धं देवो जगत्परिपालयन्
परमपुरुषस्सिद्धोपायः प्रतीष्टभरस्सताम्॥
विश्राम्यद्भिरुपर्युपर्यपि दिवानक्तं बहिर्दर्शनैः
अस्मद्देशिकसंप्रदायरहितैः अद्यापि नालक्षितः॥
स्वप्राप्तेस्स्वयमेव साधनतया जोघुष्माणश्श्रुतौ
सत्वस्थेषु भजेत सन्निधिमसौ शान्तावधिश्शेवधिः॥
सन्दृष्टस्सारवाग्वित् स्वपरनिशितधीस्सङ्गजिन्नैकसंस्थः
स्पष्टोपायोतिखिन्नस्सपरिकरभरन्यासनिष्पन्नकृत्यः।
स्वावस्थार्हं सपर्याविधिमिहनियतं त्यागसङ्क्वापि बिभ्रत्
निर्मुक्तस्लूसूक्ष्मप्रकृतिरनुभवत्यच्युतं नित्यमेकः॥
अविश्रान्त श्रद्धाकलह कल्लोलकलुषाः
ममाविर्भयासुर्मनसि मुनिसिद्धादिसुलभाः।
मधुक्षीरन्यायस्वगुणविभवासञ्जनकनत्
महानन्दब्रह्मानुभवपरीवाहा बहुविधाः॥
स्तोतुं निन्दितुमस्मदुक्तमथवा सोढुं समूढं जगत्
किन्नस्छिन्मनन्तचिन्तनरसे सुस्थे सुखं तस्थुषाम्।
शिष्याश्शिक्षितबुद्धयश्श्रुतिपथे येषां वयं ये च नः
तत्सन्तोषसमर्पणक्षममिदं साडम्बरैः किम्परैः॥
कलकण्ठगणास्स्वाद्ये कामस्यास्त्रे निजाङ्कुरे।
निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते॥
वरद विरचय त्वं वारिताशेषदोषां पुनरुपचितपुण्यां भूषितां पुण्यकोट्या।
सितमुदितमनोभिस्तावकैर्नित्यसेव्यां हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम्॥
श्रीरङ्गद्विरदवृषाद्रिपूर्वकेषु स्थानेषु स्थिरविभवा भवत्सपर्या।
आकल्पं वरद विधूतवैरिपक्षा भूयस्स्या भवदनुकम्पयैव भूयात्॥
संक्षिप्तं विस्तृतं वा सरळसमुचितं सावधानप्रियं वा
प्राधान्येन प्रणीतं परफणितिपरिष्कारवृत्त्या स्थितं वा।
शिक्षासैकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धं सुधीभिः
श्रद्धेयं नाथजुष्श्रुतियुवतिशेरोभूषणं भाषणं नः॥
विद्याभेदैरुपचयवतां वेदकल्पद्रुमाणां
व्यक्तोल्लासद्विजपरिबृढव्याप्तशाखाशतानाम्।
श्रेयोमार्गप्रतिभटजितश्श्रीवेङ्कटेशस्य मौळौ (pl check chandas)
भूयोभूयस्सपदि भविता भूयसी पुष्पवृष्टिः॥
स्वामितेचिकऩ् तिरुमुटियिल् पुष्पव्रुष्टि वर्षित्तल्
वायुर्दोधूयते यद्यद्यमुडुगणो बम्ब्रमीति द्रुतं खे
तेजो जाज्वल्यते यत् यदपि न जलधिः माधवीं दोधवीति।
भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं
स्वायत्ताशेषसत्तास्थतियतनपरब्रह्मलीलोर्मिचक्रम्॥
युक्तायुक्तवितर्कदक्षमतिभिर्युष्मद्भटैरुद्भटैः
निर्धूताखिलशल्यकण्टकततिर्नैश्श्रेयसी पद्धतिः।
मोहध्वंसधुरन्धरस्य तव तु त्रय्यन्तपीठे महति
आसीदत्यभिषेकमङ्गलविधेरभ्यर्हितोयं क्षणः॥
श्रीपॆरुमाळुक्कु त्रुष्टि कऴित्तु तिरुवन्तिकाप्पु
तॊण्टरटिप्पटि तिरुम्पियतुम् श्रीयतिराजसप्तति आरम्पम्.
कुळक्करैयिल् श्रीवेणुकोपालऩ् सन्निति
अधराहितचारुवमसनाळा मकुटालम्बिमयूरपिञ्चमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥
(श्रीतेचिकऩुक्कु मरियातै, श्रीकोपालविम्शति आरम्पम्)
(श्रीवराहऩ् सन्निति)
गोपायेदनिशं जगन्ति कुहनापोत्रीपवित्रीकृत
ब्रह्माण्डप्रलयोर्मिघोषगुरुभिरघोरारवैर्घुर्घुरैः।
यद्दंष्ट्राङ्कुरकोटिघाटघटनानिष्कम्पनित्यस्थितिः
ब्रह्मस्तंभमसौदसौ भगवती मुस्तेव विश्वम्भरा॥
स्थिरचरजगन्मातुः क्षोण्याःक्वचिच्चतुरर्णवी
विपदि सपदि क्रोडक्रीडां विभावयत प्रभोः।
श्रुतिपरिपणश्श्लोक्लोकद्वन्दात्मनापरिपक्त्रिमः
रमयतु मनस्सत्वस्थानां रहस्यशिखामणिः॥
(श्रीतेचिकऩुक्कु मरियातै),
क्वापि कल्पान्तवेशन्ते खुरदघ्नेसमुद्झृताम्।
वहते मेदिनीमुस्तां महते पोत्रिणे नमः॥
(श्रीरङ्कनातऩ् सन्निति)
पादाम्भोजं स्पृशति भजते रङ्गनाथस्यजङ्घां
ऊरुद्वन्दे विलगति सनैरूर्ध्वमभ्येति नाभिम्।
वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा
वक्त्राभिख्यां पिबति वहते वासनाम्मौलिबन्धे॥
(श्रीतेचिकऩुक्कु मरियातै, पकवत्याऩसोपानम् आरम्पम्
श्रीसुतर्शनाऴ्वाऩ् सन्निति.)
क्रियाशक्तिं केचित् दनुजमथनीं हेतिमपरे
मनस्तत्वं चान्ये मधुविजयिनस्त्वामभिदधुः।
तमेवैके तत्तत्पदविषयजुष्टं तदिह नः
सदोत्तुङ्गः प्रादुर्भवति भवसिन्धु प्रमथनः॥
स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः।
जुष्टष्षोडशिभिर्दिव्यैः जुषतां नःपरः पुमान्॥
यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम्।
पातु न स्तत्परं चक्रं चक्ररूपस्य चक्रिणः॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीशटारि मरियातै
श्रीनम्माऴ्वार् सन्निति)
निरञ्जनमयञ्जनः किमपि नेत्रमुन्निद्रयन्
नमस्यति शठद्विषे नरकवैरिजीवातवे।
अगस्त्यगिरिनिम्नगासुभगवीचिकासोदर
स्वलक्षणसरस्वती सुरभिकेसरश्लाघिने॥
यस्य सारस्वतं स्रोतो वकुळामोदवासितम्।
श्रुतीनां विश्रमायालं शठारि तमुपास्महे॥
वर्णस्तोमैर्वकुलसुमनो वासनामुद्वहन्तीं
आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम्।
पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः
त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः॥
सारस्सारस्वतानां शठरिपुफणितिश्शान्तिशुद्धान्तसीमा
मायामायाविनीभिः स्वगुणविततिभिर्बन्धयन्तीं धयन्ती।
पारं पारंपरीतो भवजलधिभवन्मज्ज्नानां जनानां
प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निदानम्॥
सेवायोग्योतिभोग्यश्शुभसुभगतनुस्सर्वभोग्यातिशायी
श्रेयस्तद्धेतुदाता प्रपदनसुलभोनिष्टविध्वंसशीलः।
भक्तच्छन्दानुवर्तीनिरुपधिकसुहृत्सत्पदव्यां सहायः
श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः॥
पाञाचालीगात्रशोभाहृतगृदयवधूवर्गपुंभावनीत्या
पत्यौ पद्मसहायेप्रणयिनि भजतः प्रेयसी पारतन्त्रयम्।
भक्तिः शृङ्गारवृत्त्या परिणमति मुनेर्भावबन्धप्रथिम्ना
योगात् प्रागुत्तरावस्थितिरिह विरहो देशिकास्त्र दूताः॥
मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियं
सुघासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने।
निरुन्ध्युः के विन्ध्याचलनिकटसन्ध्यानटजटा-
परिभ्रान्ता पङ्कोरुपरि यदि गङ्गा निपतति॥
परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः
प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम्।
तमेव स्वात्यर्थप्रियमथ च भोक्तुं व्यवसितो
वरेण्यत्वं तस्य प्रथमवरणीयं प्रथयति॥
श्रीमन्नातमुनिकळुक्कु हारत्ति
नाथेन मुनिना तेन भवेयं नाथवानहम्।
यस्य नैगमिकं तत्वं हस्तामलकतां गतम्।
दृष्टेपह्नुत्यभावात् अनुमितिविषये लाघवस्यानुसारात्
शाश्त्रेणैवावसेये कुमतिविरहिते नास्तिकत्व प्रहाणात्।
नथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः
त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्सनं नः॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीशटारि मरियातै)
वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम्।
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः॥
विन्ध्यस्तंभादविहतगतेर्विष्वगाचान्तसिन्धोः
कुम्भीसूनोरसुरकबलग्रासिन- स्वैरभाषा।
नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते
प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या॥
श्रीउटैयवर् सन्नितियिल् आऴ्वार्कळुक्कु हारत्ति
भूतसरोवेतालान् कुलशेखरविष्णुचित्तभक्तिधनान्।
भक्ताङ्घ्रिरेणु शठजित् कलिरिपुमुनिवाहनानभिभजामि॥
श्रीआलवन्तारुक्कु हारत्ति
मानत्वं भगवन्मतस्य महतः पुंसस्तथा निर्णय़ः
तिस्रस्सिद्धय आत्मसंविदखिलाधीशान तत्वाश्रयाः।
गीतार्थस्य च सङ्ग्रहस्स्तुतियुगं श्रीश्रीशयोरित्यमून्
यद्ग्रन्थाननुसन्दधे यतिपतिस्तं यामुनेयं नुमः॥
विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम्।
निरस्तजिम्हगस्पर्शे यत्र कृष्णः कृतादरः॥
स्वशेषाशेषार्थो निरवधिकनिर्बाधमहिमा
फलानां दाता यः फलमपि च शारारकमितः।
श्रियं तत्सध्रीचीं तदुपसदनत्राससमनीं
अभिष्टौति स्तुत्यामवितथमुनिर्यामुनमुनिः॥
श्रीमद्यामुनमुनिना नाथसहायेन नाथनास्मि।
यद्वदनचन्द्रजनिता स्तोत्रसुधा बवति सुमनसां भोग्या॥
प्राप्यप्रापकभूते भगवति यामुनमुनेरयं प्रसृतः।
दुरितानि हन्त जगतां द्वयानुसन्धानसिन्धुपरिवाहः॥
(श्रीतेशिकऩुक्कु मरियातै
श्रीउटैयवरुक्कु हारत्ति)
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्।
शरणागतसार्थवाहमीडे शिखया शखरिणं पतिं यतीनाम्॥
जयति सकलविद्यावाहिनी जन्मशैळः
जनिपथपरिवृत्तिश्रान्तविश्रान्तशाखी।
निकिलकुमतिमाया शर्वरी बालसूर्यो
निगमजलधिवेला पूर्णचन्द्रो यतीन्द्रः॥
नाथस्स एष यमिनां नखरश्मिजालैः
अन्तर्निलीनमपनीय तमो मदीयम्।
विज्ञानचित्रमनघं लिखतीव चित्ते
व्यख्यानकेलिरसिकेन कराम्बुजेन॥
वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा
पन्थानं परिपन्थिनां निजदृशारुन्धानमिन्धानया।
दत्तं येन सुधाम्बुनिधिना पीत्वा विशुद्धं पयः
काले नः करिशैलकृष्णजलदः काङ्क्षधिकं वर्षति॥
विष्वग्व्यापिन्यगाधे यतिनृपतियशस्संपदेकार्णवेस्मिन्
श्रद्धाशुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोभिषिक्तः।
प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्थूलवातूलवृत्त्या
सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम्॥
(श्रीतेशिकऩुक्कु तीर्त्तम् मालै श्रीपिळ्ळाऩ् मरियातै)
विश्वास-प्रस्तुतिः
स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः।
करिशैलकृष्णमेघः काङ्क्षितवर्षी यदर्पितैस्तोयैः॥
मूलम्
स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः।
करिशैलकृष्णमेघः काङ्क्षितवर्षी यदर्पितैस्तोयैः॥
(श्रीउटैयवर् सन्निति वाचलिल्)
श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम्।
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥
श्रीतेशिकतिनचर्या स्तोत्रम् आरम्पम्
(कोयिल् तेशिकऩ् सन्नितियिल् श्रीतूप्पुल् तेचिकऩुक्कु हारत्ति)
वेदान्तदेशिकपदाम्बुजमेव नित्यं मद्दैवतं किमपि काङ्क्षितसर्वदायि।
यद्वैभवस्य लवलेशविचिन्तनेन बुद्धिः प्रसीदति विभूतियुगावलम्बा॥
श्रीताततेशिकऩुक्कु श्रीतूप्पुल् तेशिकऩिटमिरुन्तु मालै श्रीनयिनाराचार्यर् सातित्तल्
तुषारधरणीधरस्फुरदुदारकोटीतटी निरर्गलविनिर्गलद्विबुधवाहिनीविभ्रमैः।
वचोभिरवनीतले कुमतिगर्वसर्ङ्कषःमम स्फुरतु मानसे सपदि वेदचूडागुरुः॥
(श्रीतेशिकमङ्कळम्)
कवितार्किकसिम्हाय कल्यामगुणशालिने।श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥
(श्रीतेशिकऩुक्कु त्रुष्टि कऴित्तु तिरुवन्तिकाप्पु शुपम्)