श्रीः
श्रीमत् प्रतिवादिभयङ्करार्यविरचिता
॥ श्रीमन्निगमान्तदेशिक-सप्ततिरत्नमालिका ॥
विश्वास-प्रस्तुतिः
श्रीमत्त्रयीमकुटदेशिकपादपद्म-
भृङ्गायमाणवरदार्यदयैकपात्रम् ।
तत्सूक्तिलेशविभवात्तसमस्ततत्त्वं
भक्त्या भजामि परवादिभयङ्करार्यम् ॥
मूलम्
श्रीमत्त्रयीमकुटदेशिकपादपद्म-
भृङ्गायमाणवरदार्यदयैकपात्रम् ।
तत्सूक्तिलेशविभवात्तसमस्ततत्त्वं
भक्त्या भजामि परवादिभयङ्करार्यम् ॥
विश्वास-प्रस्तुतिः
जीवनं जगतां जीयात् किमप्यपगतस्पृहम् ।
स्वतन्त्रं सर्वतन्त्रेषु वेङ्कटेशाह्वयं महः ॥ 1 ॥
मूलम्
जीवनं जगतां जीयात् किमप्यपगतस्पृहम् ।
स्वतन्त्रं सर्वतन्त्रेषु वेङ्कटेशाह्वयं महः ॥ 1 ॥
विश्वास-प्रस्तुतिः
शोश्रूयमाणा यच्छब्दं कवितार्किककुञ्जराः ।
स्वप्ने प्रसुस्रुवुर्नित्यं सिंहं कमपि तं भजे ॥ 2 ॥
मूलम्
शोश्रूयमाणा यच्छब्दं कवितार्किककुञ्जराः ।
स्वप्ने प्रसुस्रुवुर्नित्यं सिंहं कमपि तं भजे ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीमतां हरिदासानां पादरक्षावलम्बिना ।
तेन वेङ्कटनाथेन सनाथास्सुखिनो वयम् ॥ 3 ॥
मूलम्
श्रीमतां हरिदासानां पादरक्षावलम्बिना ।
तेन वेङ्कटनाथेन सनाथास्सुखिनो वयम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
वेदान्तदेशिकपदं यस्मै श्रीरङ्गशायिना ।
दत्तं तस्मै नमस्कुर्मो वेङ्कटेशविपश्चिते ॥ 4 ॥
मूलम्
वेदान्तदेशिकपदं यस्मै श्रीरङ्गशायिना ।
दत्तं तस्मै नमस्कुर्मो वेङ्कटेशविपश्चिते ॥ 4 ॥
विश्वास-प्रस्तुतिः
दक्षिणोत्तरदेशीयसूक्त्या वरददेशिकः ।
यस्मादजनि सोदर्यस्तस्मान्नान्या गतिर्मम ॥ 5 ॥
मूलम्
दक्षिणोत्तरदेशीयसूक्त्या वरददेशिकः ।
यस्मादजनि सोदर्यस्तस्मान्नान्या गतिर्मम ॥ 5 ॥
विश्वास-प्रस्तुतिः
ज्ञानं तु विनयो भक्तिस्सम्पत्तिर्वीतरागता ।
आरोग्यं यस्य तस्यास्मि दासो वेदान्तसद्गुरोः ॥ 6 ॥
मूलम्
ज्ञानं तु विनयो भक्तिस्सम्पत्तिर्वीतरागता ।
आरोग्यं यस्य तस्यास्मि दासो वेदान्तसद्गुरोः ॥ 6 ॥
विश्वास-प्रस्तुतिः
यस्मिन्ननन्यसामान्या वेदान्ताचार्यता गुरौ ।
यथा पुरुषता विष्णौ तस्मिन्यस्तभरोऽस्म्यहम् ॥ 7 ॥
मूलम्
यस्मिन्ननन्यसामान्या वेदान्ताचार्यता गुरौ ।
यथा पुरुषता विष्णौ तस्मिन्यस्तभरोऽस्म्यहम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
सर्वतन्त्रस्वतन्त्रत्वाच्छास्त्रदीपप्रदानतः ।
श्रीवेङ्कटाद्रिनाथोऽसौ साक्षाद्वेदान्तदेशिकः ॥ 8 ॥
मूलम्
सर्वतन्त्रस्वतन्त्रत्वाच्छास्त्रदीपप्रदानतः ।
श्रीवेङ्कटाद्रिनाथोऽसौ साक्षाद्वेदान्तदेशिकः ॥ 8 ॥
विश्वास-प्रस्तुतिः
आविर्भूतिर्यस्य वंशादनर्घात्
वैश्वामित्राद्विष्णुघण्ठांशकस्य ।
श्रीमान् सोऽयं सर्वतन्त्रस्वतन्त्रो
वक्ता व्याख्यासार्वभौमो विभाति ॥ 9 ॥
मूलम्
आविर्भूतिर्यस्य वंशादनर्घात्
वैश्वामित्राद्विष्णुघण्ठांशकस्य ।
श्रीमान् सोऽयं सर्वतन्त्रस्वतन्त्रो
वक्ता व्याख्यासार्वभौमो विभाति ॥ 9 ॥
विश्वास-प्रस्तुतिः
भाद्रपदमासगतविष्णुविमलर्क्षे
वेङ्कटमहीध्रपतितीर्थदिनभूते ।
प्रादुरभवज्जगति दैत्यरिपुघण्टा
हन्त ! कवितार्किक मृगेन्द्रगुरुमूर्त्या ॥ 10 ॥
मूलम्
भाद्रपदमासगतविष्णुविमलर्क्षे
वेङ्कटमहीध्रपतितीर्थदिनभूते ।
प्रादुरभवज्जगति दैत्यरिपुघण्टा
हन्त ! कवितार्किक मृगेन्द्रगुरुमूर्त्या ॥ 10 ॥
विश्वास-प्रस्तुतिः
तमिमं श्रीमद्वेङ्कटनाथाचार्यं वदन्ति किल सन्तः ।
श्रीवेङ्कटाद्रिनाथं सदसद्गुणराशियोगहानिभ्याम् ॥ 11 ॥
मूलम्
तमिमं श्रीमद्वेङ्कटनाथाचार्यं वदन्ति किल सन्तः ।
श्रीवेङ्कटाद्रिनाथं सदसद्गुणराशियोगहानिभ्याम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
श्रीभाष्यं विरचय्य संयमिवरो जित्वा स्वयं वादिनो
बाह्यांश्चापि कुदृष्टिकान् भुवि पुनर्भाष्यप्रतिष्ठाशया ।
श्रीमद्वेङ्कटनाथदेशिकशिरोरत्नात्मनाऽऽविर्बभौ
इत्येवं च वदन्ति हन्त ! कृतिनस्त्रैकालिकज्ञानिनः॥ 12 ॥

अवनायसतामसद्गुणप्रबलाटोपनिबर्हणाय च।
अपि वैष्णवधर्मवृद्धये जननं श्री निगमान्तसद्गुरोः ॥ 13 ॥
मूलम्
अवनायसतामसद्गुणप्रबलाटोपनिबर्हणाय च।
अपि वैष्णवधर्मवृद्धये जननं श्री निगमान्तसद्गुरोः ॥ 13 ॥
विश्वास-प्रस्तुतिः
यद्ययं हि कवितार्किकसिंहो नाभविष्यदिह भुव्यवतीर्णः ।
तर्हि बाह्यकुदृगुद्धतपक्षैः मेदिनी परिवृता ह्यभविष्यत् ॥ 14 ॥
मूलम्
यद्ययं हि कवितार्किकसिंहो नाभविष्यदिह भुव्यवतीर्णः ।
तर्हि बाह्यकुदृगुद्धतपक्षैः मेदिनी परिवृता ह्यभविष्यत् ॥ 14 ॥
विश्वास-प्रस्तुतिः
वेङ्कटेश्वरविपश्चिति जाते निस्सपत्नमभवत् किल भाष्यम् ।
तत्त्वमप्रतिहतं च तदासीद्येन मोक्षपदवी सुखलभ्या ॥ 15 ॥
मूलम्
वेङ्कटेश्वरविपश्चिति जाते निस्सपत्नमभवत् किल भाष्यम् ।
तत्त्वमप्रतिहतं च तदासीद्येन मोक्षपदवी सुखलभ्या ॥ 15 ॥
विश्वास-प्रस्तुतिः
पुत्रोऽनन्तार्यसूरेः पुरुषसमगुणः पुण्डरीकाक्षयष्टुः
पौत्रस्तोतारभिख्या श्रुतवरजननीगर्भवाराशिचन्द्रः ।
विश्वामित्रान्ववायो वरदगुरुपिता वादिहंसांबुवाहात्
आचार्यादाप्तशास्त्रो वरदगुरुमतस्सर्वतन्त्रस्वतन्त्रः॥ 16 ॥

अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवात्
दिगन्तवादिहंसजैत्रकालमेघदेशिकात् ।
उपात्तसर्वशासनाय हन्त ! वर्षविंशतौ
पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये ॥ 17 ॥
मूलम्
अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवात्
दिगन्तवादिहंसजैत्रकालमेघदेशिकात् ।
उपात्तसर्वशासनाय हन्त ! वर्षविंशतौ
पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये ॥ 17 ॥
विश्वास-प्रस्तुतिः
वेदान्ताचार्यवर्यो विदितबहुगुणो वीतरागाग्रयायी
विद्वान्विद्यानिषद्याविरचितविविधानेकदिव्यप्रबन्धः ।
विष्णौ विष्ण्वाश्रितेषु प्रकटितविनयप्रेमशेषत्ववृत्तिः
विख्यातश्श्रेयसे स्याद्विषयजिदिह नो वेङ्कटाचार्यवर्यः॥ 18 ॥

यस् संस्कृत-कवितायां
प्रौढिम्नान्वेति कूरनाथ-सुतम् +++(=पराशरभट्टम्)+++।
द्रामिड-कविता-मार्गे
परकालं+++(=तिरुमंगैयाल्वार्)+++ वाथ भक्तिसारं+++(=तिरुमलिशै आल्वार्)+++ वा ॥ 19 ॥
मूलम्
यस्संस्कृतकवितायां प्रौढिम्नान्वेति कूरनाथसुतम्।
द्रामिडकवितामार्गे परकालं वाथ भक्तिसारं वा ॥ 19 ॥
विश्वास-प्रस्तुतिः
परश्शतं वापि परस्सहस्रं
श्रीवेङ्कटाचार्यकृताः प्रबन्धाः।
तत्रालम् एकः खलु भुक्ति-मुक्त्योः
कार्त्स्न्येन कस् तान् गणयेत् समस्तान् ॥ 20 ॥
मूलम्
परश्शतं वापि परस्सहस्रं
श्रीवेङ्कटाचार्यकृताः प्रबन्धाः।
तत्रालमेकः खलु भुक्तिमुक्त्योः
कार्त्स्न्येन कस्तान् गणयेत्समस्तान् ॥ 20 ॥
विश्वास-प्रस्तुतिः
यदीयचरितं सतां सुचरितव्यवस्थापकं
यदीयवचनं परं सकलसंशयोन्मूलनम्।
यदीयकरुणा गतिस्सकलधर्मशून्यात्मनां
स नश्शरणमस्त्वसौ सकलतन्त्रनिर्वाहकः ॥ 21 ॥
मूलम्
यदीयचरितं सतां सुचरितव्यवस्थापकं
यदीयवचनं परं सकलसंशयोन्मूलनम्।
यदीयकरुणा गतिस्सकलधर्मशून्यात्मनां
स नश्शरणमस्त्वसौ सकलतन्त्रनिर्वाहकः ॥ 21 ॥
विश्वास-प्रस्तुतिः
दान्तिश्शान्तिश्शुचित्वं विषयविजयिता धीरता निस्पृहत्वं
शेषत्वं श्रीशतद्दासजनविषयकं पारतन्त्र्यं च तत्र ।
अक्षोभ्यत्वं पटुत्वं मृदुसमवशिता निर्भरत्वानसूये
यस्मिन्नाजानसिद्धं स खलु विजयते वेङ्कटाचार्यवर्यः॥ 22 ॥

कलये सततं करुणाजलधिं
करुणाविषयं कमलाधिपतेः।
कलिवैरिशठारिवचोरसिकं
कवितार्किककेसरिसूरिगुरुम् ॥ 23 ॥
मूलम्
कलये सततं करुणाजलधिं
करुणाविषयं कमलाधिपतेः।
कलिवैरिशठारिवचोरसिकं
कवितार्किककेसरिसूरिगुरुम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
सरोभूतवेतालसारस्वतानां
शठद्विङ्कलिध्वंसिमुख्योदितानाम् ।
अविच्छिन्नसत्संप्रदायार्थवेदी
गुरुर्वेङ्कटेशो गुरूक्तिष्वतुल्यः ॥ 24 ॥
मूलम्
सरोभूतवेतालसारस्वतानां
शठद्विङ्कलिध्वंसिमुख्योदितानाम् ।
अविच्छिन्नसत्संप्रदायार्थवेदी
गुरुर्वेङ्कटेशो गुरूक्तिष्वतुल्यः ॥ 24 ॥
विश्वास-प्रस्तुतिः
युक्त्वा अलूक्षा अपि धर्मकामा-
स्सम्मर्शिनो युक्तिसमन्विताश्च ।
सद्ब्राह्मणा वेदशिरः प्रसिद्धाः
श्रीवेङ्कटाचार्यमुखा हि नूनम् ॥ 25 ॥
मूलम्
युक्त्वा अलूक्षा अपि धर्मकामा-
स्सम्मर्शिनो युक्तिसमन्विताश्च ।
सद्ब्राह्मणा वेदशिरः प्रसिद्धाः
श्रीवेङ्कटाचार्यमुखा हि नूनम् ॥ 25 ॥
विश्वास-प्रस्तुतिः
जटावर्णचर्चाद्यनेकप्रकार -
त्रयीलक्षणोच्चारणे व्यासकल्पः ।
तथा कल्पसूत्रप्रयोगाद्यभिज्ञो
जयत्यन्वहं सर्वतन्त्रस्वतन्त्रः॥ 26 ॥
मूलम्
जटावर्णचर्चाद्यनेकप्रकार -
त्रयीलक्षणोच्चारणे व्यासकल्पः ।
तथा कल्पसूत्रप्रयोगाद्यभिज्ञो
जयत्यन्वहं सर्वतन्त्रस्वतन्त्रः॥ 26 ॥
विश्वास-प्रस्तुतिः
भरद्वाजशाण्डिल्यहारीतमुख्य -
स्मृतिस्तोमसूक्ष्मार्थनिर्णीतिदक्षः ।
पुराणागमादिष्वसाधारणश्री -
स्सुतो भाति लोकेष्वनन्तार्यसूरेः ॥ 27 ॥
मूलम्
भरद्वाजशाण्डिल्यहारीतमुख्य -
स्मृतिस्तोमसूक्ष्मार्थनिर्णीतिदक्षः ।
पुराणागमादिष्वसाधारणश्री -
स्सुतो भाति लोकेष्वनन्तार्यसूरेः ॥ 27 ॥
विश्वास-प्रस्तुतिः
ज्योतिश्छन्दश्शब्दशास्त्रप्रवीणः
काव्यश्रेणीनाटकालङ्कृतिज्ञः ।
मीमांसायां ब्रह्मकर्मानुगायां
स्रष्टा साक्षात्सर्वतन्त्रस्वतन्त्रः॥ 28 ॥
मूलम्
ज्योतिश्छन्दश्शब्दशास्त्रप्रवीणः
काव्यश्रेणीनाटकालङ्कृतिज्ञः ।
मीमांसायां ब्रह्मकर्मानुगायां
स्रष्टा साक्षात्सर्वतन्त्रस्वतन्त्रः॥ 28 ॥
विश्वास-प्रस्तुतिः
साङ्ख्ये योगे भाट्टतन्त्रे गुरूक्ते
शैवे जैने शाङ्करे भास्करे च ।
शास्त्रे बौद्धे यादवे गर्वितानां
प्रत्याख्याता सर्वतन्त्रस्वतन्त्रः॥ 29 ॥
मूलम्
साङ्ख्ये योगे भाट्टतन्त्रे गुरूक्ते
शैवे जैने शाङ्करे भास्करे च ।
शास्त्रे बौद्धे यादवे गर्वितानां
प्रत्याख्याता सर्वतन्त्रस्वतन्त्रः॥ 29 ॥
विश्वास-प्रस्तुतिः
सर्वोज्जीवनचिन्तया घटकताभावेन दानात्कृति -
श्रेष्ठानां बहुशस्तदुद्धरणतस्त्रय्यन्तसंरक्षणात् ।
श्रीमच्छ्रीशठकोपमुख्यदिविषन्नाथार्यरामानुजा -
चार्यान् अप्यनुयाति हन्त ! निगमान्ताचार्यचूडामणिः॥ 30 ॥

इह रङ्गपतिप्रसादलब्धोभयवेदान्तधुरन्धरत्वकीर्तिः ।
अपि तत्सहधर्मिणीकृपात्ताखिलतन्त्रप्रभुताक एष सूरिः ॥ 31 ॥
मूलम्
इह रङ्गपतिप्रसादलब्धोभयवेदान्तधुरन्धरत्वकीर्तिः ।
अपि तत्सहधर्मिणीकृपात्ताखिलतन्त्रप्रभुताक एष सूरिः ॥ 31 ॥
विश्वास-प्रस्तुतिः
अखिलतन्त्रधुरन्धरता हरेस्
त्वयि तु वेङ्कटनाथगुरौ स्थिता ।
विधिशिवादिजनेष्वितरेषु वा
क्वचिदपीह न सा परिदृश्यते ॥ 32 ॥
मूलम्
अखिलतन्त्रधुरन्धरता हरेस्
त्वयि तु वेङ्कटनाथगुरौ स्थिता ।
विधिशिवादिजनेष्वितरेषु वा
क्वचिदपीह न सा परिदृश्यते ॥ 32 ॥
विश्वास-प्रस्तुतिः
क्षमायां हि यस्योपमानं मुकुन्दः
श्रुतौ तस्य तल्पो मतौ देवमन्त्री ।
जये वैरिणां दैत्यसंहारकारी
स जीयाच्छिरं सर्वतन्त्रस्वतन्त्रः ॥ 33 ॥
मूलम्
क्षमायां हि यस्योपमानं मुकुन्दः
श्रुतौ तस्य तल्पो मतौ देवमन्त्री ।
जये वैरिणां दैत्यसंहारकारी
स जीयाच्छिरं सर्वतन्त्रस्वतन्त्रः ॥ 33 ॥
विश्वास-प्रस्तुतिः
आचार्यत्वोपयुक्ता मुनिगणकथिता देशिकैस्स्वेन चोक्ताः
सर्वे भद्रा गुणास्स्स्समुदितविभवास्सर्वतन्त्रस्वतन्त्रे ।
शिष्यत्वे चोपयुक्ता अपि च गुणगणाः कूरनाथे यथा स्युः
नान्यत्राचार्यवर्गे कति च न हि गुणाः प्रायशस्तत्र दृष्टाः॥ 34 ॥

यतिपतिसम्प्रदायपरिपोषकस्य सततं निगमान्तगुरोः
अतिपतितामृता सरसतागुणेन सुमनस्स्रजो मृदुतरा ।
अधिगतलक्षणा विमलसूक्तिरार्तिशमनी विपक्षमथनी
कलयतु नश्शुभानि भगवत्तदीययतिराजहर्षजननी ॥ 35 ॥

अपि च भवाहिदष्टपरिमूर्च्छितस्य भविनः प्रबोधनकरी
शमदमदोषभीतिभगवत्तदीयजनभक्तिमुक्तिजननी ।
विषयपरत्वकोपमदमोहलोभ शठतादिदोषशमनी
भुवि सदृशीतरास्ति न हि सूक्तिरद्य निगमान्तदेशिकगिरः ॥ 36 ॥

कर्मविचिकित्सा वृत्तविचिकित्सा
धर्मविचिकित्सा सर्वविचिकित्सा ।
शाम्यति ह नूनं सर्वपुरुषाणां
वेङ्कटविपश्चिद्वाग्विलसितेन ॥ 37 ॥
मूलम्
कर्मविचिकित्सा वृत्तविचिकित्सा
धर्मविचिकित्सा सर्वविचिकित्सा ।
शाम्यति ह नूनं सर्वपुरुषाणां
वेङ्कटविपश्चिद्वाग्विलसितेन ॥ 37 ॥
विश्वास-प्रस्तुतिः
यदुक्तयो यतिपतितन्त्रदीपिकाः
सलक्षणास्सरसतमास्सतां मताः ।
समत्सरैरपि सततं परोक्षतः
प्रशंसिताः परिकलयेत्स नः श्रियम् ॥ 38 ॥
मूलम्
यदुक्तयो यतिपतितन्त्रदीपिकाः
सलक्षणास्सरसतमास्सतां मताः ।
समत्सरैरपि सततं परोक्षतः
प्रशंसिताः परिकलयेत्स नः श्रियम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
वाणी यस्य द्रामिडी सांस्कृती
च प्रायः प्राचामाशयानन्ववादीत्।
अर्वाचामप्यास वैयात्यमूलं जीयात्
सोऽयं सर्वतन्त्रस्वतन्त्रः ॥ 39 ॥
मूलम्
वाणी यस्य द्रामिडी सांस्कृती
च प्रायः प्राचामाशयानन्ववादीत्।
अर्वाचामप्यास वैयात्यमूलं जीयात्
सोऽयं सर्वतन्त्रस्वतन्त्रः ॥ 39 ॥
विश्वास-प्रस्तुतिः
यदीयकृतिषु क्षणं परिचितिस्सतां चातुरीं
तनोति बहुवत्सर श्रममनुस्तुतामन्यतः।
तमद्य यतिभूपति प्रथितसन्मतोद्धारकं
भजे कविकथारतद्विरदबृन्द कण्ठीरवम्॥ 40 ॥
मूलम्
यदीयकृतिषु क्षणं परिचितिस्सतां चातुरीं
तनोति बहुवत्सर श्रममनुस्तुतामन्यतः।
तमद्य यतिभूपति प्रथितसन्मतोद्धारकं
भजे कविकथारतद्विरदबृन्द कण्ठीरवम्॥ 40 ॥
विश्वास-प्रस्तुतिः
कविवादिकरिसिंहकृतिरत्नतिलकं
यतिराजवरसप्ततिमिमामनुदिनम् ।
प्रवदन्ति परवादि तिमिरौघमिहिराः
इमे हि यतिराजकरुणैकविषयाः ॥ 41 ॥
मूलम्
कविवादिकरिसिंहकृतिरत्नतिलकं
यतिराजवरसप्ततिमिमामनुदिनम् ।
प्रवदन्ति परवादि तिमिरौघमिहिराः
इमे हि यतिराजकरुणैकविषयाः ॥ 41 ॥
विश्वास-प्रस्तुतिः
वेङ्कटेशविदुषा रचितानां
ज्ञायते न गणनापि कृतीनाम् ।
तत्र चापि न हि रङ्गपतिश्री -
पादुकास्तुतिसहस्रसमाऽन्या ॥ 42 ॥
मूलम्
वेङ्कटेशविदुषा रचितानां
ज्ञायते न गणनापि कृतीनाम् ।
तत्र चापि न हि रङ्गपतिश्री -
पादुकास्तुतिसहस्रसमाऽन्या ॥ 42 ॥
विश्वास-प्रस्तुतिः
वेङ्कटेश्वरगुरुग्रथितं ये
पादुकास्तुतिसहस्रमजस्रम् ।
सार्थबोधमनुसन्दधते ते
संयमीन्द्रमतसारविदस्स्युः ॥ 43 ॥
मूलम्
वेङ्कटेश्वरगुरुग्रथितं ये
पादुकास्तुतिसहस्रमजस्रम् ।
सार्थबोधमनुसन्दधते ते
संयमीन्द्रमतसारविदस्स्युः ॥ 43 ॥
विश्वास-प्रस्तुतिः
अनन्यसाधारणचातुरी च
काव्यादिषु ब्रह्मविदग्रणीत्वम् ।
तथाष्टभाषाकवितापटुत्वं
सङ्कल्पसूर्योदयदृश्यमस्य ॥ 44
मूलम्
अनन्यसाधारणचातुरी च
काव्यादिषु ब्रह्मविदग्रणीत्वम् ।
तथाष्टभाषाकवितापटुत्वं
सङ्कल्पसूर्योदयदृश्यमस्य ॥ 44
विश्वास-प्रस्तुतिः
दूषण्यादौ तार्किकाग्रेसरत्वं
स्पष्टं श्रीमद्वेङ्कटेशस्य सूरेः ।
अन्यालभ्या चातुरी पद्यगुम्भे
सर्वज्ञत्वं तत्त्वमुक्ताकलापे ॥ 45 ॥
मूलम्
दूषण्यादौ तार्किकाग्रेसरत्वं
स्पष्टं श्रीमद्वेङ्कटेशस्य सूरेः ।
अन्यालभ्या चातुरी पद्यगुम्भे
सर्वज्ञत्वं तत्त्वमुक्ताकलापे ॥ 45 ॥
विश्वास-प्रस्तुतिः
कलयतां कवितार्किककेसरि
प्रकटितं शतदूषणिकां हृदि ।
मशकवत्सुजयाः खलु मायिनः
प्रणिपतन्ति परं पदयोर्मुहुः ॥ 46 ॥
मूलम्
कलयतां कवितार्किककेसरि
प्रकटितं शतदूषणिकां हृदि ।
मशकवत्सुजयाः खलु मायिनः
प्रणिपतन्ति परं पदयोर्मुहुः ॥ 46 ॥
विश्वास-प्रस्तुतिः
अहह शङ्करयादवभास्कर -
प्रथितदुर्मददुर्मतवादिनाम्।
कलकलः कवितार्किककेसरि-
प्रथितदूषणिकाश्रवणावधिः ॥ 47 ॥
मूलम्
अहह शङ्करयादवभास्कर -
प्रथितदुर्मददुर्मतवादिनाम्।
कलकलः कवितार्किककेसरि-
प्रथितदूषणिकाश्रवणावधिः ॥ 47 ॥
विश्वास-प्रस्तुतिः
सर्वार्थसिद्धिश्शतदूषणी च
द्वे खेटशस्त्रे कथकाग्रगानाम् ।
आद्येन तत्र क्रियते स्वरक्षा
प्रत्यर्थिभङ्गः कलहेऽन्यतरस्यात् ॥ 48 ॥
मूलम्
सर्वार्थसिद्धिश्शतदूषणी च
द्वे खेटशस्त्रे कथकाग्रगानाम् ।
आद्येन तत्र क्रियते स्वरक्षा
प्रत्यर्थिभङ्गः कलहेऽन्यतरस्यात् ॥ 48 ॥
विश्वास-प्रस्तुतिः
अत एव सर्वजगतां स गुरु -
र्यतिचक्रवर्तिमतदिद्विरदः ।
कवितार्किकद्विरदपञ्चमुखो
यत ऊर्जितं ह्यकृत भाष्यमिदम् ॥ 49 ॥
मूलम्
अत एव सर्वजगतां स गुरु -
र्यतिचक्रवर्तिमतदिद्विरदः ।
कवितार्किकद्विरदपञ्चमुखो
यत ऊर्जितं ह्यकृत भाष्यमिदम् ॥ 49 ॥
विश्वास-प्रस्तुतिः
श्रुतिशीर्षदेशिकशिरोमणिना
जनकेन येन हि सुशिक्षितधीः ।
वरदो गुरुश्च यतिराजमत -
प्रतिवादिकोटिशतकोटिरभूत् ॥ 50 ॥
मूलम्
श्रुतिशीर्षदेशिकशिरोमणिना
जनकेन येन हि सुशिक्षितधीः ।
वरदो गुरुश्च यतिराजमत -
प्रतिवादिकोटिशतकोटिरभूत् ॥ 50 ॥
विश्वास-प्रस्तुतिः
सर्व-तन्त्र-धूर्वहस्य वेङ्कटेश-धीमतः
कुर्वते ऽवमाननां तु केचनाधुनोद्भवाः ।
हन्त! हन्त! राम-कृष्ण-दूषणाभिधायिनां+++(→स्मारकाणाम्)+++
किन् नु चित्रम् अत्र चैद्य-रावणानुसारिणाम् ॥ 51 ॥
मूलम्
सर्वतन्त्रधूर्वहस्य वेङ्कटेशधीमतः
कुर्वतेऽवमाननां तु केचनाधुनोद्भवाः ।
हन्त! हन्त! रामकृष्णदूषणाभिधायिनां
किन्नु चित्रमत्र चैद्यरावणानुसारिणाम् ॥ 51 ॥
विश्वास-प्रस्तुतिः
अपि काममदलोभशठतादिरहिता
अपि नीतिधृतिशान्तिमतिदान्तिसहिताः ।
यतिराजमतधुर्यपदपद्मविमुखाः
अवलोकनतिमाननुतिबाह्यविषयाः ॥ 52 ॥
मूलम्
अपि काममदलोभशठतादिरहिता
अपि नीतिधृतिशान्तिमतिदान्तिसहिताः ।
यतिराजमतधुर्यपदपद्मविमुखाः
अवलोकनतिमाननुतिबाह्यविषयाः ॥ 52 ॥
विश्वास-प्रस्तुतिः
विमतिर् अथवा तेषां युक्ता यतीश्वर-जीवने
कवि-कथक-पञ्चास्ये देवे सतां च धुरन्धरे ।
परिचितिर् अहो तन् माहात्म्य-प्रकाशक-तत्-कृतिष्व्
अपि लवम् इता स्वप्ने ऽप्य् एषां यतो न हि विद्यते ॥ 53 ॥
मूलम्
विमतिरथवा तेषां युक्ता यतीश्वरजीवने
कविकथकपञ्चास्ये देवे सतां च धुरन्धरे ।
परिचितिरहो तन्माहात्म्यप्रकाशकतत्कृति
ष्वपि लवमिता स्वप्नेप्येषां यतो न हि विद्यते ॥ 53 ॥
विश्वास-प्रस्तुतिः
न द्रष्टारो वैभवस्यास्य साक्षात्
नैवाभ्यासस् तत्-कृतिष्व् अस्ति येषाम् ।
येषां नित्यं मानसं साभ्यसूयं
तेषां भक्तिस् स्यात् कथं वेङ्कटेशे ॥ 54 ॥+++(5)+++
मूलम्
न द्रष्टारो वैभवस्यास्य साक्षात्
नैवाभ्यासस्तत्कृतिष्वस्ति येषाम् ।
येषां नित्यं मानसं साभ्यसूयं
तेषां भक्तिस्स्यात् कथं वेङ्कटेशे ॥ 54 ॥
विश्वास-प्रस्तुतिः
गुरौ वादि-हंसाम्बुदाचार्य-शिष्ये
जनाः भक्ति-हीनाः यतीन्द्राप्रियास् स्युः ।
यतीन्द्राप्रियाः विष्णु-कारुण्य-दूराः
कुतो मुक्ति-वार्ता हि तादृग्-विधानाम् ॥ 55 ॥+++(5)+++
मूलम्
गुरौ वादिहंसाम्बुदाचार्यशिष्ये
जनाः भक्तिहीनाः यतीन्द्राप्रियास्स्युः ।
यतीन्द्राप्रियाः विष्णुकारुण्यदूराः
कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
निःश्रेयसं ये ऽभिलषन्ति तस्य
मूलं कृपां चापि रमा-सखस्य ।
दयां यतीन्द्रस्य च तैर् अवश्यं
कार्या हि भक्तिः कवि-वादि-सिंहे ॥ 56 ॥+++(4)+++
मूलम्
निःश्रेयसं येऽभिलषन्ति तस्य
मूलं कृपां चापि रमासखस्य ।
दयां यतीन्द्रस्य च तैरवश्यं
कार्या हि भक्तिः कविवादिसिंहे ॥ 56 ॥
विश्वास-प्रस्तुतिः
सेवा विष्णोर् वैष्णवाराधनान्ता,
तद्वत् सेवा स्वामिनस् संयमीनाम् ।
वेदान्ताचार्याङ्घ्रि-पद्मार्चनान्ता
यस्माद् आत्मा वेङ्कटेशस्य सूरेः ॥ 57 ॥+++(5)+++
मूलम्
सेवा विष्णोर्वैष्णवाराधनान्ता
तद्वत्सेवा स्वामिनस्संयमीनाम् ।
वेदान्ताचार्याङ्घ्रिपद्मार्चनान्ता
यस्मादात्मा वेङ्कटेशस्य सूरेः ॥ 57 ॥
विश्वास-प्रस्तुतिः
कर्माद्य्-उपाया इह केचन स्युः
केचिच् च लक्ष्मी-रमणाङ्घ्र्य्-उपायाः ।
श्रीमद्-यतीन्द्र-प्रिय-वेङ्कटेश -
गुर्वङ्घ्र्युपाया वयम् एव धन्याः॥ 58 ॥+++(5)+++
मूलम्
कर्माद्युपायाः इह केचन स्युः
केचिच्च लक्ष्मीरमणाङ्घ्र्युपायाः ।
श्रीमद्यतीन्द्रप्रियवेङ्कटेश -
गुर्वङ्घ्र्युपाया वयमेव धन्याः॥ 58 ॥
विश्वास-प्रस्तुतिः
सशङ्खचक्र लाञ्छनस्सदूर्ध्वपुण्ड्रमण्डित
स्सकण्ठलग्नसत्तुलस्यनर्घपद्ममालिकः ।
सितान्तरीय सूत्तरीययज्ञसूत्रशोभितो
ममाविरस्तु मानसे गुरुस्स वेङ्कटेश्वरः ॥ 59 ॥
मूलम्
सशङ्खचक्र लाञ्छनस्सदूर्ध्वपुण्ड्रमण्डित
स्सकण्ठलग्नसत्तुलस्यनर्घपद्ममालिकः ।
सितान्तरीय सूत्तरीययज्ञसूत्रशोभितो
ममाविरस्तु मानसे गुरुस्स वेङ्कटेश्वरः ॥ 59 ॥
विश्वास-प्रस्तुतिः
निगमान्तदेशिकपदाम्बुजद्वयं
निरसूयवैष्णवजनप्रियं धनम् ।
कुलदैवतं मम कुदृष्टिमस्तक
क्षितिभृद्विभेदिकुलिशायुधायितम् ॥ 60 ॥
मूलम्
निगमान्तदेशिकपदाम्बुजद्वयं
निरसूयवैष्णवजनप्रियं धनम् ।
कुलदैवतं मम कुदृष्टिमस्तक
क्षितिभृद्विभेदिकुलिशायुधायितम् ॥ 60 ॥
विश्वास-प्रस्तुतिः
महोत्पलायितपादयुगलं
रतिप्रियेषुधिप्रतिरोधिसुजङ्घिकम् ।
ककुत्समानसुजानुकम्
अञ्चितस्फुरत्कटीविलसत्परिधानकम् ॥ 61 ॥
मूलम्
महोत्पलायितपादयुगलं
रतिप्रियेषुधिप्रतिरोधिसुजङ्घिकम् ।
ककुत्समानसुजानुकम्
अञ्चितस्फुरत्कटीविलसत्परिधानकम् ॥ 61 ॥
विश्वास-प्रस्तुतिः
प्रशस्तनाभिकमुज्ज्वलवक्षसं
प्रसन्नसस्मितसन्मुखपङ्कजम्।
मदीयहृत्कमलासनसंस्थितं
भजामि वेङ्कटनाथविपश्चितम् ॥ 62 ॥
मूलम्
प्रशस्तनाभिकमुज्ज्वलवक्षसं
प्रसन्नसस्मितसन्मुखपङ्कजम्।
मदीयहृत्कमलासनसंस्थितं
भजामि वेङ्कटनाथविपश्चितम् ॥ 62 ॥
विश्वास-प्रस्तुतिः
प्रबुद्धतामरसाभविलोचनं
प्रसिद्धशिष्यजनैः परिवारितम् ।
प्रबद्धरागतमं गुरुपादयोः
प्रबुद्धचेतसमर्थसमर्थने ॥ 63 ॥
मूलम्
प्रबुद्धतामरसाभविलोचनं
प्रसिद्धशिष्यजनैः परिवारितम् ।
प्रबद्धरागतमं गुरुपादयोः
प्रबुद्धचेतसमर्थसमर्थने ॥ 63 ॥
विश्वास-प्रस्तुतिः
सरत्नकम्बल पीठपरिग्रहं
समर्थमुत्थित संशयनोदने ।
विरक्तसज्जनसङ्गशिरोमणिं
भजामि वेङ्कटनाथविपश्चितम् ॥ 64 ॥
मूलम्
सरत्नकम्बल पीठपरिग्रहं
समर्थमुत्थित संशयनोदने ।
विरक्तसज्जनसङ्गशिरोमणिं
भजामि वेङ्कटनाथविपश्चितम् ॥ 64 ॥
विश्वास-प्रस्तुतिः
कवितार्किककलभव्रजकबलीकृतिसिंहं
कमलापतिकरुणारसपरिवर्धितबोधम्।
यतिनायकपदपङ्कजयुगलीपरतन्त्रं
भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ 65 ॥
मूलम्
कवितार्किककलभव्रजकबलीकृतिसिंहं
कमलापतिकरुणारसपरिवर्धितबोधम्।
यतिनायकपदपङ्कजयुगलीपरतन्त्रं
भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ 65 ॥
विश्वास-प्रस्तुतिः
यतिनृपतिपदकमलसकलविधबन्धुं
कविशिखरिपतिनगरसुचिरकृतवासम् ।
भज हृदय कविकथकहरिमपि च रङ्ग -
क्षितिरमणचरणयुगसततकृतसेवम् ॥ 66 ॥
मूलम्
यतिनृपतिपदकमलसकलविधबन्धुं
कविशिखरिपतिनगरसुचिरकृतवासम् ।
भज हृदय कविकथकहरिमपि च रङ्ग -
क्षितिरमणचरणयुगसततकृतसेवम् ॥ 66 ॥
विश्वास-प्रस्तुतिः
अतिमृदुलमनसमतिविपुलशुभनेत्रं
अतिचतुरमधिकगुणयतिनृपतिभाष्ये ।
उपकरणपरमनिशमपकरणशीले-
ष्वपि कलय मम हृदय कविकथकसिंहम् ॥ 67 ॥
मूलम्
अतिमृदुलमनसमतिविपुलशुभनेत्रं
अतिचतुरमधिकगुणयतिनृपतिभाष्ये ।
उपकरणपरमनिशमपकरणशीले-
ष्वपि कलय मम हृदय कविकथकसिंहम् ॥ 67 ॥
विश्वास-प्रस्तुतिः
भो निगममौलियुगदेशिक ! दयामृतसमुद्र ! भगवन् !
मामकमिदं वचनमद्य श्रुणुनाथ कवितार्किकहरे ! ।
सोहमतिखिन्नमिह वीक्ष्य जनमत्र भवदङ्घ्रिविमुखं
त्वं च कुरु तावकपदाम्बुजयुगप्रवणमद्य कृपया ॥ 68 ॥

किं च मम मानसमिदं च समुदञ्चितमिहान्यविषये -
ष्वञ्चति न जातु कविवादिकरिपञ्चमुख ! तावकपदम् ।
वञ्चनपरं शठमकिञ्चनजनप्रिय ! सपञ्चशरजं
चञ्चलमिदं पुनरचञ्चलतरं कुरु भवच्चरणयोः ॥ 69 ॥
मूलम्
किं च मम मानसमिदं च समुदञ्चितमिहान्यविषये -
ष्वञ्चति न जातु कविवादिकरिपञ्चमुख ! तावकपदम् ।
वञ्चनपरं शठमकिञ्चनजनप्रिय ! सपञ्चशरजं
चञ्चलमिदं पुनरचञ्चलतरं कुरु भवच्चरणयोः ॥ 69 ॥
विश्वास-प्रस्तुतिः
श्रीवेङ्कटेशस्य गुरोः पदाब्जयो -
स्समर्पिता सप्ततिरत्नमालिका ।
धृता सुधीभिर्हृदये विमत्सरैः
पुष्णाति शोभां पुरुषार्थनिर्भराम् ॥ 70 ॥
मूलम्
श्रीवेङ्कटेशस्य गुरोः पदाब्जयो -
स्समर्पिता सप्ततिरत्नमालिका ।
धृता सुधीभिर्हृदये विमत्सरैः
पुष्णाति शोभां पुरुषार्थनिर्भराम् ॥ 70 ॥
विश्वास-प्रस्तुतिः
वेदान्ताचार्यसप्तत्या गुणवत्या परिष्कृताः ।
वेदान्तवेद्यश्रीभाष्यकारकारुण्यगोचराः ॥ 71 ॥
मूलम्
वेदान्ताचार्यसप्तत्या गुणवत्या परिष्कृताः ।
वेदान्तवेद्यश्रीभाष्यकारकारुण्यगोचराः ॥ 71 ॥
विश्वास-प्रस्तुतिः
वीतरागावशिष्टार्था वेदान्ताचार्यसप्ततिः।
वैष्णवैस्सादरं ग्राह्या विद्वद्भिर्वीतमत्सरैः ॥ 72 ॥
मूलम्
वीतरागावशिष्टार्था वेदान्ताचार्यसप्ततिः।
वैष्णवैस्सादरं ग्राह्या विद्वद्भिर्वीतमत्सरैः ॥ 72 ॥
विश्वास-प्रस्तुतिः
प्रतिवादिभयङ्करेण सा
सुधिया सप्ततिरत्नमालिका ।
निगमान्तगुरौ समर्पिता
हृदये तद्भजतां स्वया धिया ॥ 73 ॥
मूलम्
प्रतिवादिभयङ्करेण सा
सुधिया सप्ततिरत्नमालिका ।
निगमान्तगुरौ समर्पिता
हृदये तद्भजतां स्वया धिया ॥ 73 ॥
॥ इति श्रीमन्निगमान्तदेशिक सप्ततिरत्नमालिका समाप्ता ॥