प्रकीर्णम्

विश्वास-प्रस्तुतिः

भाद्र-पद-मास-गत–विष्णु-विमलर्क्षे
वेङ्कट-महीध्र-पति–तीर्थ-दिन-भूते ।
प्रादुर् अभवज् जगति दैत्य-रिपु-घण्टा
हन्त कवि-तार्किक-मृगेन्द्र-गुरु–मूर्त्या ॥ 14

मूलम्

भाद्रपदमासगत विष्णुविमलर्क्षे वेङ्कटमहीध्रपति तीर्थदिनभूते ।
प्रादुरभवज्जगति दैत्यरिपुघण्टा हन्त कवितार्किक मृगेन्द्र गुरु मूर्त्या ॥ 14

विश्वास-प्रस्तुतिः

स-शंख-चक्र-लांछनस् सद्-ऊर्ध्व-पुण्ड्र-मण्डितः
सकण्ठ-लग्न-सत्-तुलस्य्-अनर्घ-पद्म-मालिकः ।
सितान्तरीय-सूत्तरीय-यज्ञ-सूत्र-शोभितः
ममाविर् अस्तु मानसे गुरुस् स वेङ्कटेश्वरः ॥ 15

मूलम्

सशंखचक्रलांछन स्सदूर्ध्वपुण्ड्रमण्डितः सकण्ठलग्नसत्तुलस्यनर्घ पद्ममालिकः ।
सितान्तरीय सूत्तरीय यज्ञसूत्र शोभितः ममाविरस्तु मानसे गुरुस्स वेङ्कटेश्वरः ॥ 15

विश्वास-प्रस्तुतिः

अनन्त-सूरि-सूनवे ऽभिनन्द्यमान-वैभवात्
दिगन्त-वादि-हंस-जैत्र-काल-मेघ-देशिकात् ।
उपात्त-सर्व-शासनाय हन्त वर्ष-विंशतौ
पुनः-पुनर् नमस्-क्रिया ऽस्तु वेङ्कटेश-सूरये ॥ 16

मूलम्

अनन्त सूरि सूनवेऽभिनन्द्यमान वैभवात् दिगन्त वादिहंस जैत्रकालमेघ देशिकात् ।
उपात्त सर्वशासनाय हन्त वर्षविंशतौ पुनःपुनर्नमस्क्रियाऽस्तु वेङ्कटेशसूरये ॥ 16

विश्वास-प्रस्तुतिः

गुरौ वादि-हंसाम्बुदाचार्यशिष्ये
जना भक्तिहीना यतीन्द्राप्रियाः स्युः ।
यतीन्द्राप्रिया विष्णु-कारुण्य-दूराः
कुतो मुक्ति-वार्ता हि तादृग्-विधानाम् ॥ 17 +++(5)+++

मूलम्

गुरौ वादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीना यतीन्द्राप्रियाः स्युः ।
यतीन्द्राप्रिया विष्णु कारुण्यदूराः कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ 17

विश्वास-प्रस्तुतिः

(डिण्डिम कविः)
वेदे सञ्जात-खेदे, मुनि-जन-वचने प्राप्त-नित्या-वमाने
संकीर्णे सर्ववर्णे, सति तद्-अनुगुणे निष्प्रमाणे पुराणे ।
मायावादे समोदे, कलि-कलुष-वशाच् छून्य-वादेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु-घण्टावतारः ॥ 18

मूलम्

(डिण्डिम कविः) वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे ।
मायावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णुघण्टावतारः ॥ 18

विश्वास-प्रस्तुतिः

कवितार्किक-सिंहाय
कल्याण-गुण-शालिने।
श्रीमते वेङ्कटेशाय
वेदान्त-गुरवे नमः॥

मूलम्

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

विश्वास-प्रस्तुतिः

वादि-द्विप-शिरो-भङ्ग- पञ्चानन-पराक्रमः।
श्रीमान् वेङ्कटनाथार्यः
चिरं विजयतां भुवि ॥ 19

मूलम्

वादिद्विपशिरोभङ्ग पञ्चानन पराक्रमः।
श्रीमान् वेङ्कटनाथार्यः चिरं विजयतां भुवि ॥ 19