श्रीमान् वेङ्कटनाचार्यः
कविताविककेसरी।
वेदान्ताचार्यवयो मे
सनिधत्तां सदा इदि ॥
विश्वास-प्रस्तुतिः
श्रीमल्-लक्ष्मण-योगीन्द्र-
सिद्धान्त-विजय-ध्वजम्।
विश्वामित्र-कुलोद्भूतं
वरदायम् अहं भजे ॥ 0
मूलम्
श्रीमल्-लक्ष्मण-योगीन्द्र-
सिद्धान्त-विजय-ध्वजम्।
विश्वामित्र-कुलोद्भूतं
वरदायम् अहं भजे ॥ 0
विश्वास-प्रस्तुतिः
सर्वतन्त्र-स्वतन्त्राय
सिंहाय कवि-वादिनाम्।
वेदान्ताचार्य-वर्याय
वेङ्कटेशाय मङ्गलम् ॥ 1
मूलम्
सर्वतन्त्र स्वतन्त्राय सिंहाय कविवादिनाम्।
वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गलम् ॥ 1
विश्वास-प्रस्तुतिः
नभस्य-मासि श्रोणायाम्
अवतीर्णाय सूरये।
विश्वामित्रान्वयायास्तु
वेङ्कटेशाय मङ्गलम् ॥ 2
मूलम्
नभस्यमासि श्रोणायामवतीर्णाय सूरये।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥ 2
विश्वास-प्रस्तुतिः
पिता यस्यानन्त-सूरिः
पुण्डरीकाक्ष-यज्वनः।
पौत्रो यस् तनयस् तोतार्-
अम्बायास् तस्य मङ्गलम् ॥ 3
मूलम्
पिता यस्यानन्तसूरिःपुण्डरीकाक्ष यज्वनः।
पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥ 3
विश्वास-प्रस्तुतिः
वेङ्कटेशावतारोऽयं
तद्-घण्टांशो ऽथवा भवेत्।
यतीन्द्रांशोऽथवेत्येवं
वितर्क्यायास्तु मङ्गलम्॥ 4
मूलम्
वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत्।
यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम्॥ 4
विश्वास-प्रस्तुतिः
श्री-भाष्य-कारः पन्थानम्
आत्मना दर्शितं पुनः।
उद्धर्तुम् आगतो नूनम्
इत्य् उक्तायास्तु मङ्गलम् ॥ 5
मूलम्
श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः।
उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गलम् ॥ 5
विश्वास-प्रस्तुतिः
यो बाल्ये वरदार्यस्य
प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितस्
तस्मै योग्याय मङ्गलम् ॥ 6
मूलम्
यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितस्तस्मै योग्याय मङ्गलम् ॥ 6
विश्वास-प्रस्तुतिः
रामानुजार्याद् आत्रेयान्
मातुलात् सकलाः कलाः।
अवाप विंशत्यब्दे यस्
तस्मै प्राज्ञाय मङ्गलम्॥ 7
मूलम्
रामानुजार्यादात्रेयान्मातुलात् सकलाः कलाः।
अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम्॥ 7
विश्वास-प्रस्तुतिः
श्रुत-प्रकाशिका भूमौ
येनादौ परिरक्षिता।
प्रवर्तिता च पात्रेषु
तस्मै श्रेष्ठाय मङ्गलम्॥ 8
मूलम्
श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥ 8
विश्वास-प्रस्तुतिः
सांस्कृतीभिर् द्रामिडीभिर्
बह्वीभिः कृतिभिर् जनान्।
यस् समुज्जीवयाम् आस
तस्मै सेव्याय मङ्गलम् ॥ 9
मूलम्
सांस्कृतीभिर्द्रामिडीभिर्बह्वीभिः कृतिभिर्जनान्।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥ 9
विश्वास-प्रस्तुतिः
यः ख्याति-लाभ-पूजासु
विमुखो वैष्णवे जने।
क्रयणीय-दशां प्राप्तस्
तस्मै भव्याय मङ्गलम् ॥ 10
मूलम्
यः ख्याति लाभ पूजासु विमुखो वैष्णवे जने।
क्रयणीयदशां प्राप्तस्तस्मै भव्याय मङ्गलम् ॥ 10
विश्वास-प्रस्तुतिः
यस्माद् एव मया सर्व-
शास्त्रम् अग्राहि नान्यतः।
तस्मै वेङ्कट-नाथाय
मम नाथाय मङ्गलम् ॥ 11
मूलम्
यस्मादेव मया सर्व शास्त्रमग्राहि नान्यतः।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥ 11
विश्वास-प्रस्तुतिः
पित्रे ब्रह्मोपदेष्ट्रे मे
गुरवे दैवताय च।
प्राप्याय प्रापकायास्तु
वेङ्कटेशाय मङ्गलम् ॥ 12
मूलम्
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥ 12
विश्वास-प्रस्तुतिः
यः कृतं वरदार्येण
वेदान्ताचार्य-मङ्गलम्।
आशास्ते ऽनुदिनं सोऽपि
भवेन् मङ्गल-भाजनम्॥ 13
मूलम्
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम्।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गळ भाजनम्॥ 13
श्रीमते निगमान्तमहादेशिकाय नमः