अष्टोत्तरशतनामस्तोत्रम्

Source: TW

[[56]]

श्रीः श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् ॥

विश्वास-प्रस्तुतिः

निगमान्तगुरोर् नाम्नाम्
प्रभावो येन वर्णितः।
तं वेङ्कटार्यमनिशं
तातार्यतनयं भजे

मूलम्

निगमान्तगुरोर्नाम्नाम् प्रभावो येन वर्णितः। तं वेङ्कटार्यमनिशं तातार्यतनयं भजे

विश्वास-प्रस्तुतिः

सुदर्शन-कृपा-लब्ध–
वेद-तत्त्वार्थ-सागरम् ।
अनुष्ठित-क्रतु-शतं
वन्देऽस्मत्-पितरं गुरुम् ॥

मूलम्

सुदर्शनकृपालब्ध वेदतत्वार्थसागरम् ।
अनुष्ठित क्रतुशतं वन्देऽस्मत्पितरं गुरुम् ॥

विश्वास-प्रस्तुतिः

कुमार-तातयाचार्यं
सदाचार-परं सदा ।
वेदान्ताचार्य-सिद्धान्त-
विजय-ध्वजम् आश्रये ॥

मूलम्

कुमारतातयाचार्यं सदाचारपरं सदा ।
वेदान्ताचार्यसिद्धान्तविजयध्वजमाश्रये ॥

विश्वास-प्रस्तुतिः

साङ्ख्य-सौगत-चार्वाक-
शाङ्करादि-तमो-नुदम् ।
त्रय्य्-अन्त-देशिकं वन्दे
वेङ्कटेश-ह्वयं महः ॥

मूलम्

साङ्ख्यसौगतचार्वाकशाङ्करादि तमोनुदम् ।
त्रय्यन्तदेशिकं वन्दे वेङ्कटेशह्वयं महः ॥

विश्वास-प्रस्तुतिः

श्रीमद्-वेङ्कट-नाथस्य
नाम्नाम् अष्टोत्तरं शतम् ।
संगृह्य तत्-प्रसादाय
वक्ष्ये सर्वार्थ-सिद्धिदम् ॥

मूलम्

श्रीमद्वेङ्कटनाथस्य नाम्नामष्टोत्तरं शतम् ।
संगृह्य तत्प्रसादाय वक्ष्ये सर्वार्थसिद्धिदम् ॥

विश्वास-प्रस्तुतिः

घण्टा-वतारो ऽनन्तार्य-
तनयो वेङ्कटाधिपः ।
श्रीमल्-लक्ष्मणयोग्यंशो
वरदाचार्य-वीक्षितः ॥

मूलम्

घण्टावतारो ऽनन्तार्यतनयो वेङ्कटाधिपः ।
श्रीमल्लक्ष्मणयोग्यंशो वरदाचार्यवीक्षितः ॥

विश्वास-प्रस्तुतिः

रामानुजार्य-सन्दृष्टस्
सौपर्ण-मनु-चिन्तकः ।
तार्क्ष्य-दत्त-वरश् शुद्धः
प्रसादित-हयाननः ॥

मूलम्

रामानुजार्यसन्दृष्टस्सौपर्णमनुचिन्तकः ।
तार्क्ष्यदत्तवरश्शुद्धः प्रसादितहयाननः ॥

विश्वास-प्रस्तुतिः

अधीत-साङ्ग-सकल-
श्रुति-स्मृति-विद्-अग्रणीः ।
इतिहास-पुराणज्ञस्
सुकविस् तर्क-तत्व-वित् ॥

मूलम्

अधीतसाङ्गसकलश्रुतिस्मृतिविदग्रणीः ।
इतिहासपुराणज्ञस्सुकविस्तर्कतत्ववित् ॥

विश्वास-प्रस्तुतिः

भाष्य-कारो भय-हरस्
सुधा-शी दुग्ध-राशि-कृत् ।
प्रधान-प्रतितन्त्र-ज्ञो
देवता-पारमार्थ्य-वित् ॥

मूलम्

भाष्यकारो भयहरस्सुधाशीदुग्धराशिकृत् ।
प्रधानप्रतितन्त्रज्ञो देवतापारमार्थ्यवित् ॥

विश्वास-प्रस्तुतिः

श्रुत-विद्य-श्रावयिता
श्रुत-पालश् श्रुत-प्रदः ।
श्रितः पाण्डित्य-दाता च
कृत-कृत्यः कृती सुधीः ॥ ९

मूलम्

श्रुतविद्यश्रावयिता श्रुतपालश्श्रुतप्रदः ।
श्रितः पाण्डित्यदाता च कृतकृत्यः कृती सुधीः ॥ ९

[[57]]

विश्वास-प्रस्तुतिः

निरस्त-साङ्ख्यः प्रत्युक्त-
योगः काणाद-भञ्जनः।
अचिच्-चैतन्य-वाद-घ्नः
क्षणिकाणु-मतार्दनः ॥

मूलम्

निरस्तसाङ्ख्यः प्रत्युक्तयोगः काणादभञ्जनः।
अचिच्चैतन्यवादघ्नः क्षणिकाणुमतार्दनः ॥

विश्वास-प्रस्तुतिः

साकार-धी-निराकर्ता
शून्य-वाद-तमो-नुदः ।
कु-दृष्ट्य्-उरग-पक्षीशः
सप्त-भङ्गी-विलोपनः ॥

मूलम्

साकारधी निराकर्ता शून्यवादतमोनुद ।
कुदृष्ट्युरगपक्षीशः सप्तभङ्गीविलोपनः ॥

विश्वास-प्रस्तुतिः

भेदाभेद-मत-छेत्ता
धूत-यादव-कल्पनः ।
अनीश-वादि-दम्भोलिः
पाषण्ड-मत-खण्डनः ।

मूलम्

भेदाभेदमतछेत्ता धूतयादवकल्पनः ।
अनीशवादिदम्भोळिः पाषण्डमतखण्डनः ।

विश्वास-प्रस्तुतिः

सम्रक्षितागमश् शङ्ख-
चक्र-धारण-रक्षिता ।
ऊर्ध्व-पुण्ड्राङ्कन-त्राता
शुद्ध-सत्त्वमयाकृतिः ॥

मूलम्

सम्रक्षितागमश्शङ्खचक्रधारणरक्षिता ।
ऊर्ध्वपुण्ड्राङ्कनत्राता शुद्धसत्त्वमयाकृतिः ॥

विश्वास-प्रस्तुतिः

यत्य्-आचार-प्रतिष्ठाता
सर्व-तन्त्र-स्वतन्त्र-धीः ।
अवतार-रहस्य-ज्ञस्
त्व् अर्चा-सौन्दर्य-सक्त-धीः ॥

मूलम्

यत्याचारप्रतिष्ठाता सर्वतन्त्रस्वतन्त्रधीः ।
अवताररहस्यज्ञस्त्वर्चासौन्दर्यसक्तधीः ॥

विश्वास-प्रस्तुतिः

अर्थ-पञ्चक-तत्व-ज्ञस्
तत्त्व-त्रय-विशेष-वित् ।
भक्ति-योग-विरोधिघ्नो
भक्तिमान् भगवत्-प्रियः ॥

मूलम्

अर्थपञ्चकतत्वज्ञस्त्वत्रयविशेषवित् ।
भक्तियोगविरोधिघ्नो भक्तिमान्भगवत्प्रियः ॥

विश्वास-प्रस्तुतिः

ज्ञातैक-सारो द्वय-विद्
विभक्ताधिकृति-त्रयः ।
चतुश्-श्लोक्य्-अर्थ-सार-ज्ञस्
सम्यग्-ज्ञाता-ऽङ्ग-पञ्चकः ॥

मूलम्

ज्ञातैकसारो द्वयविद्विभक्ताधिकृतित्रयः ।
चतुश्श्लोक्यर्थसारज्ञस्सम्यग्ज्ञाताङ्गपञ्चकः ॥

विश्वास-प्रस्तुतिः

षड्-अङ्ग-योग-निर्णेता
सप्त-तन्तु+++(→व्याहृति=यज्ञ)+++–कृद्-उत्तमः ।
अष्टाक्षरैक-निरतो
नवमैक-रसाश्रयः ॥

मूलम्

षडङ्गयोगनिर्णेता सप्ततन्तुकृदुत्तमः ।
अष्टाक्षरैकनिरतो नवमैकरसाश्रयः ॥

विश्वास-प्रस्तुतिः

दश-तात्पर्य-विज्ञाता
शत-कृच् च सहस्रवित् ।
स्थूल-लक्षो ऽनेक-नाना-
कोटि-ज्ञान-निवर्तकः ॥

मूलम्

दशतात्पर्यविज्ञाता शतकृच्च सहस्रवित् ।
स्थूललक्षोऽनेकनानाकोटिज्ञाननिवर्तकः ॥

विश्वास-प्रस्तुतिः

धर्म-शङ्कुस् साधु-बृन्द-
वन्दिताङ्घ्रि-सरो-रुहः ।
पद्माक्ष-नन्द-जनकस्
तथाऽनन्त-गुणाकरः ॥ १९

मूलम्

धर्मशङ्कुस्साधुबृन्दवन्दिताङ्घ्रिसरोरुहः ।
पद्माक्षनन्दजनकस्तथाऽनन्तगुणाकरः ॥ १९

[[58]]

विश्वास-प्रस्तुतिः

त्याग-शब्दार्थ-विद्–धर्म-
वेदी विधि-विशेष-वित् ।
उत्तम-श्लोक-भाव-ज्ञः
पञ्च-काल-परायणः ॥

मूलम्

त्यागशब्दार्थविद्धर्मवेदी विधिविशेषवित् ।
उत्तमश्लोकभावज्ञः पञ्चकालपरायणः ॥

विश्वास-प्रस्तुतिः

सुर-सेव्यः पूर्ण-मनास्
सूरीन्द्र-प्रतिरूपकः ।
कवितार्किक-पञ्चास्यो
निगमाञ्चल-देशिकः ॥

मूलम्

सुरसेव्यः पूर्णमनास्सूरीन्द्रप्रतिरूपकः ।
कवितार्किकपञ्चास्यो निगमाञ्चलदेशिकः ॥

विश्वास-प्रस्तुतिः

वैद्यो मुनीन्द्रस् सर्वज्ञः
उपकर्ता तथैव च ।
सत्-संप्रदाय-स्थिर-धीर्
अनघस् सत्य-वाग् अपि ॥

मूलम्

वैद्यो मुनीन्द्रस्सर्वज्ञः उपकर्ता तथैव च ।
सत्संप्रदायस्थिरधीरनघस्सत्यवागपि ॥

विश्वास-प्रस्तुतिः

साधु-वृत्तिर् मुक्त-डम्भो
जिताक्षो दीर्घ-बन्धुमान् ।
दयालुश् शासिता सर्व-
हिताचरण-तत्-परः ॥

मूलम्

साधुवृत्तिर्मुक्तडम्भो जिताक्षो दीर्घबन्धुमान् ।
दयाळुश्शासिता सर्वहिताचरणतत्परः ॥

विश्वास-प्रस्तुतिः

महा-गुरुस् स्वर्ण-वर्णस्
सु-बाहुः पुण्डरीक-दृक् ।
पवित्र-पाणिर् व्याख्यान-
मुद्राङ्कित-कराम्बुजः ॥

मूलम्

महागुरुस्स्वर्णवर्णस्सुबाहुः पुण्डरीकदृक् ।
पवित्रपाणिर्व्याख्यानमुद्राङ्कितकराम्बुजः ॥

विश्वास-प्रस्तुतिः

सव्य-पाणि-तल-न्यस्त-
दिव्य-पुस्तक-भूषणः ।
पर-शीर्ष-न्यस्त-वाम-
पादाब्ज-कटकोज्ज्वलः ॥

मूलम्

सव्यपाणितलन्यस्तदिव्यपुस्तकभूषणः ।
परशीर्षन्यस्तवामपादाब्जकटकोज्ज्वलः ॥

विश्वास-प्रस्तुतिः

इतीदं देशिकेन्द्रस्य
नाम्नाम् अष्टोत्तरं शतम् ।
संकीर्तयेद् अनुदिनं
सर्व-पापापनुत्तये ॥

मूलम्

इतीदं देशिकेन्द्रस्य नाम्नामष्टोत्तरं शतम् ।
संकीर्तयेदनुदिनं सर्वपापापनुत्तये ॥

विश्वास-प्रस्तुतिः

पठन् नाम-शतं भक्त्या
श्रुत्वा गुरु-मुखाम्बुजात् ।
प्रसादाद् देशिकेन्द्रस्य
भुक्ति-मुक्ती समशुनुते ॥

मूलम्

पठन्नामशतं भक्त्या श्रुत्वा गुरुमुखाम्बुजात् ।
प्रसादाद्देशिकेन्द्रस्य भुक्तिमुक्ती समशुनुते ॥

विश्वास-प्रस्तुतिः

एकैकम् अपि तन् नाम
कीर्तयन् सकृद्-उत्तम् ।
सर्वान् कामान् अवाप्नोति
किम् उताऽष्टोत्तरं शतम् ॥

मूलम्

एकैकमपि तन्नाम कीर्तयन्सकृदुत्तम् ।
सर्वान्कामानवाप्नोति किमुताऽष्टोत्तरं शतम् ॥

नामावली

ओं घण्टावताराय नमः
अनन्तार्यतनयाय नमः
वेङ्कटाधिपाय नमः
श्रीमलक्ष्मणयोग्यंशाय नमः
वरदाचार्यवीक्षिताय नमः
रामानुजार्यसन्दृष्टाय नमः
सौपर्णमनुचिन्तकाय नमः
तार्क्ष्यदत्तवराय नमः
सुद्धाय नमः
प्रसादितवहयाननाय नमः
अधीतसाङ्गसकलश्रुतये नमः
स्मृतिविदे नमः
अग्रण्ये नमः
इतिहासपुराणज्ञाय नमः
सुकवये नमः
तर्कतत्वविदे नमः
भाष्यकाराय नमः
भयहराय नमः
सुधाशिने नमः
दुग्धराशिकृते नमः
प्रधानप्रतितन्त्रज्ञाय नमः
देवतापारमार्थ्यविदे नमः
श्रुतविद्याय नमः
श्रावयित्रे नमः
श्रुतपालाय नमः
श्रुतप्रदाय नमः
श्रिताय नमः
पाण्डित्यदात्रे नमः
कृतकृत्याय नमः
कृतिने नमः
सुधिये नमः
निरस्तसाङ्ख्याय नमः
प्रत्युक्तायोगाय नमः
काणादभञ्जनाय नमः
अचिचैतन्यवादघ्राय नमः
क्षणिकाणुमतार्दनाय नमः
साकारधीनिराकर्त्रे नमः
शून्यवादतमोनुदाय नमः
कुदुष्ट्यरग पक्षीशाय नमः
सप्तपङ्गीविलोपनाय नमः
भेदाभेदमतछेत्रे नमः
धूतयादवकल्पनाय नमः
अनीशवादिदम्भोळये नमः
पाषण्डमतखण्डनाय नमः
ओं सम्रक्षितागमाय नमः
शङ्खचक्रधारणरक्षित्रे नमः
ऊर्ध्वपुण्ड्राङ्कनत्रात्रे नमः
शुद्धसत्वमयाकृतये नमः
यत्याचार प्रतिष्ठात्रे नमः
सर्वतन्त्र स्वतन्त्रधिये नमः
अवताररहस्यज्ञाय नमः
अर्चासौन्दर्यसक्तधिये नमः
अर्थपञ्चकतत्वज्ञाय नमः
तत्वत्रयविशेषविदे नमः
भक्तियोगविरोधिघ्नाय नमः
भक्तिमते नमः
भगवत्प्रियाय नमः
ज्ञातैकसाराय नमः
द्वयविदे नमः
विभक्ताधिकृतित्रयाय नमः
चतुश्लोक्यर्थ सारज्ञाय नमः
सम्यक्ज्ञाताङ्ग पञ्चकाय नमः
षडङ्गयोग निर्णेत्रे नमः
सप्ततन्तुकृदुत्तमाय नमः
अष्टाक्षरैकनिरताय नमः
नवमैकरसाश्रयाय नमः
दशतात्पर्यविज्ञात्रे नमः
शतकृते नमः
सहस्रविदे नमः
स्थूललक्षाय नमः
अनेकनानाकोटिज्ञाननिवर्तकाय नमः
धर्मशङ्कवे नमः
साधुवृन्दवन्दिताङ्घ्रिसरोरुहाय नमः
पद्माक्षानन्दजनकाय नमः
अनन्तगुणाकराय नमः
त्यागशब्दार्थविदे नमः
धर्मवेदिने नमः
विधिविशेषविदे नमः उत्तमश्लोकभावज्ञाय नमः पञ्चकालपरायणाय नमः सुरसेव्याय नमः

पूर्णमनसे नमः
सूरीन्द्रप्रतिरूपकाय नमः
कवितार्किकपञ्चास्याय नमः
निगमाञ्चलदेशिकाय नमः
वैद्याय नमः
मुनीन्द्राय नमः
सर्वज्ञाय नमः
उपकर्त्रे नमः
सत्सम्प्रदायाय नमः
स्थिरधिये नमः
अनघाय नमः
सत्यवाचे नमः
साधुवृत्तये नमः
मुक्तडंभाय नमः
जिताक्षाय नमः
दीर्घबन्धुमते नमः
दयाळवे नमः
शासित्रे नमः
सर्वहिताचरणतत्पराय नमः
महागुरवे नमः
स्वर्णवर्णाय नमः
सुबाहवे नमः
पुण्डरीकदृशे नमः
पवित्रपाणये नमः
व्याख्यानमुद्राङ्कितकरांबुजाय नमः
सव्यपाणितलन्यस्तदिव्यपुस्तक भूषणाय नमः
परशीर्षन्यस्तवामपादाब्ज-कटकोज्वलाय नमः

नामावली २

श्रीमत्सारे मूलमन्त्राधिकारे
मूलमन्त्रे चिन्तनीय-भगवत्प्रकाराः
नामावलि रूपेण परिवर्तिताः

इति शठकोपार्यः।

ओं रक्षकाय नमः
ओं स्वभावसिद्ध रक्षकाय नमः
ओं सर्वविषय रक्षकाय नमः
ओं रक्ष्यवस्तुविशेषानुरूप-नानाप्रकार-रक्षाय नमः

ओं सर्वदा रक्षकाय नमः

ओं सर्वत्र रक्षकाय नमः

ओं सर्वप्रकार रक्षकाय नमः

ओं स्वार्थ रक्षकाय नमः

ओं सर्व रक्षकत्वापेक्षित सर्वज्ञाय नमः

ओं सर्वशक्तये नमः

१० ओं स्वेच्छाव्यतिरिक्तानिवार्याय नमः

ओं अनतिक्रमणीय संरक्षणसंरम्भाय नमः

ओं परमकारुणिकाय नमः

ओं अवसरप्रतीक्षाय नमः

ओं व्याजमात्र सापेक्षाय नमः

ओं आश्रित सुलभाय नमः
ओं विश्वसनीयाय नमः
ओं सापराधघटनाद्यनुगुण विशेषणवते नमः

ओं शेषिणे नमः

ओं निरुपाधिक शेषिणे नमः
ओं नित्य शेषिणे नमः
ओं सर्वविषय शेषिणे नमः

ओं अनन्य शेषिणे नमः
ओं गुणकृत शेषिणे नमः
ओं सपत्नीक शेषिणे नमः

२०

ओं सामाभ्यधिकरहिताय नमः

ओं आत्महविरुद्देशार्हाय नमः
ओं अचिद्वद्व मुक्तनित्य विलक्षणाय नमः

ओं परशेषित्व हेतवे नमः

ओं स्वतः कर्त्रे नमः

ओं शक्त्याधायकाय नमः

ओं प्रेरकाय नमः

ओं अनन्य प्रेर्याय नमः

ओं अनुमन्त्रे नमः
ओं कर्मसाक्षिणे नमः

ओं सहकारिणे नमः

ओं प्रियप्रवर्तकाय नमः

ओं निरुपाधिकनन्तव्याय नमः

ओं वशीकार्याय नमः

ओं सिद्धोपायाय नमः

ओं साध्योपाय हेतवे नमः

ओं श्रुतिस्मृतिरूपाज्ञावते नमः

ओं दण्डधराय नमः

ओं सर्वसमाय नमः

ओं आश्रितपक्षपातिने नमः

ओं अविद्यादि हेतवे नमः
ओं अविद्यानर्हाय नमः

३० ४० ओं आश्रिताविद्यानिवर्तकाय नमः
ओं स्वरूपान्यथाभाव रहिताय नमः
ओं स्वभावान्यथाभाव रहिताय नमः
५० ओं सर्व नेत्रे नमः

ओं सर्व जगद्व्यापार लीलाय नमः

ओं सर्ववेदान्त प्रधान प्रतिपाद्याय नमः
ओं सर्वोपादानाय नमः

ओं सर्वनिमित्ताय नमः

ओं सत्यसङ्कल्पाय नमः
ओं सर्वशरीरिणे नमः

ओं सर्वशब्दवाच्याय नमः

ओं सर्वकर्मसमाराध्याय नमः

ओं सर्वफलप्रदाय नमः

ओं सर्वविधबन्धवे नमः

ओं सर्वव्यापकाय नमः
ओं निरतिशय सूक्ष्माय नमः

ओं सर्वाधाराय नमः

ओं स्वनिष्ठाय नमः

ओं सत्याय नमः

ओं ज्ञानाय नमः

ओं अनन्ताय नमः

६० ओं आनन्दाय नमः

ओं अमलाय नमः

७० ओं निरूपतिस्वरूपविशेषणानुक्तानन्त नमः

ओं नित्यदिव्यमङ्गळविग्रहवते नमः

ओं परव्यूहाद्यवस्थावते नमः

ओं सत्यावताराय नमः

ओं अप्राकृतावताराय नमः

ओं अकर्मवश्यावताराय नमः
ओं अकालनियमावताराय नमः

ओं आश्रितार्थगुणपरिवाहाय नमः
ओं सर्वावस्थशुभाश्रयाय नमः
ओं सर्वावस्थलक्ष्मीसहचराय नमः
८०

ओं दिव्यभूषणायुधमहिषीस्थानपरिजन-परिच्छद द्वारपालपार्षदादिमते नमः
ओं स्थूलशरीरविश्लेषकाय नमः
ओं विश्रमस्थानाय नमः
ओं अनुग्रहविशेषवते नमः

ओं ब्रह्मनाडीद्वारप्रकाशकाय नमः
ओं ब्रह्मनाडी प्रवेशकाय नमः
ओं ब्रह्मरन्ध्रोत्क्रान्तिहेतवे नमः

ओं अचिराद्यातिवाहिकनियोक्त्रे नमः
ओं सूर्यद्वारादिनेतृत्ववते नमः

ओं अण्डावरणप्रकृतिमण्डलातिक्रमहेतवे ओं विरजातीर प्रापकाय नमः

नमः
९० ओं सूक्ष्मशरीरविश्लेषकाय नमः
ओं अप्राकृतदेहप्रदाय नमः

ओं दिव्याप्सरस्सत्कारादि प्रयोजकाय नमः
ओं ब्रह्मगन्धादि प्रवेशकाय नमः
ओं नित्यमुक्तसत्कारविशेष हेतवे नमः
ओं पर्यङ्काधिरोहणपर्यन्तादरवते नमः
ओं परिपूर्णानुभवहेतवे नमः
ओं प्रधानप्राप्याय नमः

ओं सदेहविदेहबहुदेहकृतसर्वविधकैङ्कर्य प्रतिसंबन्धिने नमः
१०० ओं अवाप्तसमस्तकामाय नमः

ओं निरतिशयानन्दवते नमः

ओं निरतिशयभोग्याय नमः

ओं सर्वप्रकार भोग्याय नमः

ओं सवदानुकूल स्वभावाय नमः
ओं अत्यन्ततुल्यभोगप्रदाय नमः
ओं आश्रितविश्लेषासहाय नमः
ओं अपुनरावृत्तिहेतवे नमः

१०८