नाऽन्यश् शंभुर् अधोक्षजात्, कुमतयश् श्रीवैष्णवा नाऽग्रहान्
मृष्यन्तीदम् उपालभन्त इति नस् स्मार्ता नु ब्रूयाम किम्।
पारम्यं श्रुति-सिद्धम् अद्भुततम-श्रेयो-गुणान्, चेष्टितं, पाराशर्यशुकात्ममोहनपटुं दिव्यं वपुस्सुन्दरम्।।
नो भिन्नौ शिव-माधवाव् इति वदन् वक्तव्य एवं बुधैः
रूपैक्यं तव नेष्टम्, आत्म-समतां यद्य् आत्थ+++(←आह्)+++ दृष्टिः कुतः।
म्लेच्छेड्ये तव भिद्यते, यदि वदेर् अद्वेष-तात्पर्यतः
वैमत्यं न सखेऽत्र नौ हरिपरश् शंभुः प्रियो नश्
विश्वास-टिप्पनी
हरिर् आत्मा हरस्यापि
ततो ऽन्यौ जल-फेनवत्।
न भिन्नाव् इति वेदोक्तम्
अविद्वान् शाङ्करो हतः॥
किं वेदैस्स्मृतिनिर्गतैर् अधिगतैरभ्यासवैधुर्यतः
किं शास्त्रैश् श्रमशिक्षितैस् सुनिपुणं पात्रे ऽवितीर्णैश् श्रिते।
किं वित्तेन कुवर्त्मना सरभसं लब्धेन पापादृते
किं गीतोपनिषन्-निषेवणमुखैर् यत्नैस् स्पृहाबन्धने।।
किं श्राद्धैः पृथु-दक्षिणैर् अनुसमं जीवद्दशायां पितुः
शुश्रूषां जहतां वचांस्य् अनवतां धर्म-ध्वजानां छलैः।
किं दानैर् द्विज-पुंङ्-गवेभ्य उरुभिश् शाश्लाघितैर् निस्तुलैः
देयं का-पथ-मूलकं यदि पर-द्रव्यं हृतं छद्मना॥
सौन्दर्येण समाक्षि-मानस-मथत्-कन्दर्प-लीलावली-
सध्रीचा+++(=सहचरेण?)+++ क्षण-भङ्गुरेण वनिताः! मान-र्द्धि-मूलेन किम्।
शीलं शीलत, पेशलं हित-मित-प्रेमोद्गिरद्-भारतीं
शिक्षध्वं, कुल-कीर्तिम् आर्ति-रहितं पात, श्रयेत क्षमाम्॥
नारीणां विजिहीर्षया स्वपतिभिः काश्मीरसानौ मुदा
नीतानां रतिसंभ्रमे ऽश्महृदयैर् म्लेच्छैर् व्यसु प्रेयसाम्।
वैधव्योत्थ-शुचानल-प्रशमने कोऽलं विना कालतः
विद्धे भेषजम् आत्मनीहितम् इदं तासाम् अनीकेन नः।