विश्वास-प्रस्तुतिः
कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम् ।
प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥
मूलम्

सहधर्मचरीं शौरेः सम्मन्त्रितजगद्धिताम् ।
अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥

वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् ।
यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम् ॥

यस्य सारस्वतं स्रोतो वकुलामोदवासितम् ।
श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥

नाथेन मुनिनाथेन (तेन) भवेयं नाथवानहम् ।
यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥
मूलम्
नाथेन मुनिनाथेन (तेन) भवेयं नाथवानहम् ।
यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥
विश्वास-प्रस्तुतिः
नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् ।
शुद्धसत्त्वमयं शौरेरवतारमिवापरम् ॥

अनुज्ज्ञितक्षमायोगमपुण्यजनबाधकम् ।
अस्पृष्टमदरागं तं रामं तुर्यमुपास्महे ॥
मूलम्
अनुज्ज्ञितक्षमायोगमपुण्यजनबाधकम् ।
अस्पृष्टमदरागं तं रामं तुर्यमुपास्महे ॥
विश्वास-प्रस्तुतिः
विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम् ।
निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥

दयानिघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये ।
येन विश्वसृजो विष्णोरपूर्यत मनोरथः ॥

प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम् ॥

उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ।
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥

प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः ।
अपृथक्प्रतिपन्नयन्मयत्वैः ववृधे पञ्चभिरायुधैर्मुरारेः ॥

शमितोदयशङ्करादिगर्वः स्वबलादुद्धृतयादवप्रकाशः ।
अवरोपितवान् श्रुतेरपार्थान् ननु रामावरजः स एष भूयः ॥

अबहुश्रुतसम्भवं श्रुतीनां जरतीनामयथायथप्रचारम् ।
विनिवर्तयितुं यतीश्वरोक्तिः विदधे ताः स्थिरनीतिपञ्जरस्थाः ॥

अमुना तपनातिशायिभूम्ना यतिराजेन निबद्धनायकश्रीः ।
महती गुरुपङ्क्तिहारयष्टिः विबुधानां हृदयङ्गमा विभाति ॥

अलूनपक्षस्य यतिक्षमाभृतो विभाति वंशे हरितत्त्वमक्षतम् ।
यदुद्भवाः शुद्धसुवृत्तशीतलाः भवन्ति मुक्तावलिभूषणं भुवः ॥

अनपायविष्णुपदसंश्रयं भजे कलया कयाऽपि कलयाऽप्यनुज्झितम् ।
अकलङ्कयोगमजडाशयोदयं(दितं) यतिराजचन्द्रमुपरागदूरगम् ॥

अभिगम्य सम्यगनघाः सुमेधसो यतिचक्रवर्तिपदपद्मपत्तनम् ।
हरिभक्तदास्यरसिकाः परस्परं क्रयविक्रयार्हदशया समिन्धते ॥

परुषातिवाद-परिवाद-पैशुन-प्रभृति-प्रभूत-पतनीय-पङ्किला ।
स्वदते ममाद्य सुभगा सरस्वती यतिराजकीर्तिकतकैर्विशोधिता ॥

अनुकल्पभूतमुरभित्पदं सताम् अजहत्त्रिवर्गमपवर्गवैभवम् ।
चलचित्तवृत्तिविनिवर्तनौषधं शरणं यतीन्द्रचरणं वृणीमहे ॥

श्वसितावधूतपरवादिवैभवाः निगमान्तनीतिजलधेस्तलस्पृशः ।
प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः ॥

मूले निविश्य महतां निगमद्रुमाणां मुष्णन् प्रतारकभयं धृतनैकदण्डः ।
रङ्गेशभक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः ॥

सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः संसारजिह्मगमुखैः समुपस्थितं नः ।
विष्वक्ततं विषयलोभविषं निजाभिः गाढानुभावगरुडध्वजभावनाभिः ॥

नाथः स एष यमिनां नखरश्मिजालैः अन्तर्निलीनमपनीय तमो मदीयम् ।
विज्ञानचित्रमनघं लिखतीव चित्ते व्याख्यानकेलिरसिकेन कराम्बुजेन ॥

उद्गृह्णतीमुपनिषत्सु निगूढमर्थं चित्ते निवेशयितुमल्पधियां स्वयं नः ।
पश्येम लक्ष्मणमुनेः प्रतिपन्नहस्ताम् उन्निद्रपद्मसुभगामुपदेशमुद्राम् ॥

आकर्षणानि निगमान्तसरस्वतीनाम् उच्चाटनानि बहिरन्तरुपप्लवानाम् ।
पथ्यानि घोरभवसञ्ज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेर्वचांसि ॥

शीतस्वभावसुभगानुभवः शिखावान् दोषावमर्दनियतोन्नतिरोषधीशः ।
तापानुबन्धशमनस्तपनः प्रजानां रामानुजो जयति संवलितत्रिधामा ॥

जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥

मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं सहृदयहृदयानां शाश्वती दिष्टसिद्धिः ।
शमितदुरितगन्धा संयमीन्द्रस्य सूक्तिः परिचितगहना नः प्रस्नुवीत प्रसादम् ॥

भवमरुपरिखिन्नस्फीतपानीयसिन्धुः दुरितरहितजिह्वादुग्धकुल्यासकुल्या ।
श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्तिः नरकमथनसेवास्वादनाडिन्धमा नः ॥

हरिपदमकरन्दस्यन्दिनः संश्रितानाम् अनुगतबहुशाखास्तापमुन्मूलयन्ति ।
शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः कथकजनमनीषाकल्पनाकल्पवृक्षाः ॥

नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सोः अन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे ।
विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन् विष्वक्सेनो यतिपतिरभूद्वेत्रसारस्त्रिदण्डः ॥

लक्ष्यं बुद्धे रसिकरसनालास्यलीलानिदानं शुद्धास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः ।
लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नैः लक्ष्मीकान्तस्फटिकमुकुरो लक्ष्मणार्योपदेशः ॥

स्थितिमवधीरयन्त्यतिमनोरथसिद्धिमतीं यतिपतिसम्प्रदायनिरपायधनोपचिताः ।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताम् ॥

निरुपधिरङ्गवृत्तिरसिकानभिताण्डवयन् निगमविमर्शकेलिरसिकैनिभृतैर्विधृतः ।
गुणपरिणद्धसूक्तिदृढकोणविघट्टनया रटति दिशामुखेषु यतिराजयशःपटहः ॥

इदम्प्रथमसम्भवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः ।
क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयः चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥

सुधाशनसुदुर्ग्रहश्रुतिसमष्टिमुष्टिन्धयः कथाहवमसौ गतान् कपटसौगतान् खण्डयन् ।
मुनिर्मनसि लक्ष्मणो मुदमुदञ्चयत्यञ्जसा मुकुन्दगुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ॥

कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् ।
कुदृष्टिकुहनामुखे निपततः परब्रह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥

कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ।
तथागतकथाशतैस्तदनुसारिजल्पैरपि प्रतारितमिदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥
विश्वास-प्रस्तुतिः
कथाकलहकौतुकग्रहगृहीतकौतस्कुतप्रथाजलधिसम्प्लवग्रसनकुम्भसम्भूतयः ।
जयन्ति सुधियो यतिक्षितिभृदन्तिकोपास(न)नाप्रभावपरिपक्त्रिमप्रमितिभारतीसम्पदः ॥

यतीश्वरसरस्वतीसुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणतिशालिना मौलिना ।
तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥

भजस्व यतिभूपतेरनिदमादिदुर्वासनाकदध्वपरिवर्तनश्रमनिवर्तनीं वर्तनीम् ।
लभस्व हृदय स्वयं रथपदायुधानुग्रहद्रुतप्रहृतिनिस्त्रुटद्दुरितदुर्वृतिं निर्वृतिम् ॥

कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तरग्रहिलमनसः पश्यन्त्वल्पां यतीश्वरभारतीम् ।
विकटमुरमिद्वक्षःपीठीपरिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥

स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा ।
रसपरिमलश्लाघाघोषस्फुटत्पुटभेदनं लवणवणिजः कर्पूरार्घं किमित्यभिमन्वते ॥

वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः वरतनुतया वामो भागः शिवस्य विवर्तते ।
तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः ॥

निगमपथिकच्छायाशाखी निराशमहानिधिः महितविविधच्छात्रश्रेणीमनोरथसारथिः ।
त्रिभुवनतमःप्रत्यूषोऽयं त्रिविद्यशिखामणिः प्रथयति यतिक्ष्माभृत्पारावरीमविपर्ययाम् ॥

जडमतिमुधादन्तादन्तिव्यथौषधसिद्धयः प्रमितिनिधयः प्रज्ञाशालिप्रपालनयष्टयः ।
श्रुतिसुरभयः शुद्धानन्दाभिवर्षुकवारिदाः यमगतिकथाविच्छेदिन्यो यतीश्वरसूक्तयः ॥

प्रतिकलमिह प्रत्यक्तत्त्वावलोकनदीपिकाः यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः ।
अकलुषपर(रि)ज्ञानौत्सुक्यक्षुधातुरदुर्दशापरिणतफलप्रत्यासीदत्फलेग्रहिसुग्रहाः ॥

मुकुन्दाङ्घ्रिश्रद्धाकुमुदवनचन्द्रातपनिभाः मुमुक्षामक्षोभ्यां ददति मुनिबृन्दारकगिरः ।
स्वसिद्धान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्दिवाभीतप्रेक्षादिनकरसमुत्थानपरुषाः ॥

निराबाधा बोधायन(फ)भणितिनिष्यन्दसुभगाः विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः ।
अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः अनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम् ॥

विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति ।
वितण्डाहङ्कुर्वत्प्रतिकथकवेतण्डपृतनावियातव्यापारव्यतिमथनसंरम्भकलहः ॥

प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः ।
प्रदीपस्तत्त्वानां प्रतिकृतिरसौ तापसगिरां प्रसत्तिं संवित्तेः प्रदिशति यतीशानफणितिः ॥

हतावद्ये हृद्ये हरिचरणपङ्केरुहयुगे निबध्नन्त्यैकान्त्यं किमपि यतिभूभृत्फणितयः ।
शुनासीरस्कन्दद्रुहिणहरहेरम्बहुतभुक्प्रभेशादिक्षुद्रप्रणतिपरिहारप्रतिभुवः ॥

यथाभूतस्वार्था यतिनृपतिसूक्तिर्विजयते सुधासन्दोहाब्धिः सुचरितविपक्तिः श्रुतिमताम् ।
कथादृप्यत्कौतस्कुतकलहकोलाहलहतत्रिवेदीनिर्वेदप्रशमनविनोदप्रणयिनी ॥

श्रुतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान् दोषान् वितथमतिरारोपयति यः ।
स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥

निरालोके लोके निरुपधिपरस्नेहभरितो यतिक्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह ।
अहङ्कारध्वान्तं विजहति कथङ्कारमनघाः कुतर्कव्यालौघं कुमतिमतपातालकुहरम् ॥

यति-क्ष्मा-भृद्-दृष्टं मतमिह नवीनं तदपि किं
ततः प्रागेवान्यद् वद, तदपि किं वर्णनिकषे ।
निशाम्यन्तां यद् वा निजमति-+++(नावीन्याक्षेपः→)+++तिरस्कार-विगमात्
निरातङ्काष् टङ्क-द्रमिड-गुहदेव-प्रभृतयः ॥
मूलम्
यतिक्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किं ततः प्रागेवान्यद्वद तदपि किं वर्णनिकषे ।
निशाम्यन्तां यद्वा निजमतितिरस्कारविगमात् निरातङ्काष्टङ्कद्रमिडगुहदेवप्रभृतयः ॥
विश्वास-प्रस्तुतिः
सुधासारं श्रीमद्यतिवरभुवः श्रोत्रकुहरे निषिञ्चन्ति न्यञ्चन्निगमगरिमाणः फणितयः ।
यदास्वादाभ्यासप्रचयमहिमोल्लासितधियां सदाऽऽस्वाद्यं काले तदमृतमनन्तं सुमनसाम् ॥

यतिक्षोणीभर्तुर्यदिदमनिदम्भोगजनताशिरःश्रेणीजुष्टं तदिह दृढबन्धं प्रभवति ।
अविद्यारण्यानीकुहरविहरन्मामकमनःप्रमाद्यन्मातङ्गप्रथमनिगलं पादयुगलम् ॥

सवित्री मुक्तानां सकलजगदेनःप्रशमनी गरीयोभिस्तीर्थैरुपचितरसा यामुनमुखैः ।
नि(दु)रुच्छेदा निम्नेतरमपि समाप्लावयति मां यदृच्छाविक्षेपाद्यतिपतिदयादिव्यतटिनी ॥

चिन्ता-शेष–दुर्-अर्थ–दन्तुर-वचः-कन्था-शत-ग्रन्थिलाः
सिद्धान्ता न समिन्धते यति-वर-ग्रन्थानुसन्धायिनि ।
मुक्ता-शुक्ति-विशुद्ध–सिद्ध-तटिनी–चूडाल-चूडा-पदः
किं कुल्यां कलयेत खण्ड-परशुर् मण्डूक-मञ्जूषिकाम् ॥+++(5)+++
मूलम्
चिन्ताशेषदुरर्थदन्तुरवचःकन्थाशतग्रन्थिलाः सिद्धान्ता न समिन्धते यतिवरग्रन्थानुसन्धायिनि ।
मुक्ताशुक्तिविशुद्धसिद्धतटिनीचूडालचूडापदः किं कुल्यां कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥
विश्वास-प्रस्तुतिः
वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा पन्थानं परिपन्थिनां निजदृशा रुन्धानमिन्धानया ।
दत्तं येन दयासुधाम्बुनिधिना पीत्वा विशुद्धं पयः काले नः करिशैलकृष्णजलदः काङ्क्षाधिकं वर्षति ॥

काषायेण गृहीतपीतवसना दण्डैस्त्रिभिर्मण्डिता सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्तसंरक्षिणी ।
यत्प्रख्यापिततीर्थवर्धितधियामभ्यस्यतां यद्गुणान् आ सिन्धोरनिदम्प्रदेशनियता कीर्तिः प्रजागर्ति नः ॥

लिप्से लक्ष्मणयोगिनः पदयुगं रथ्यापरागच्छटारक्षारोपणधन्यसूरिपरिषत्सीमन्तसीमान्तिकम् ।
भिक्षापर्यटनक्षणेषु बिभराञ्चक्रे गलत्किल्बिषा यद्विन्यासमिषेण पत्रमकरीमुद्रां समुद्राम्बरा ॥

नानातन्त्रविलोभितेन मनसा निर्णीतदुर्नीतिभिः कष्टं कुत्सितदृष्टिभिर्यतिपतेरादेशवैदेशिकैः ।
व्यासो हासपदीकृतः परिहृतः प्राचेतसश्चेतसः कॢप्तः केलिशुकः शुकः स च मुधा बा(बो)धाय बोधायनः ॥

अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती पत्या संयमिनामनेन जगतामत्याहितच्छेदिना ।
यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनां प्रस्वापाय न बोभवीति भगवन्माया महायामिनी ॥

शुद्धादेशवशंवदीकृतयतिक्षोणीशवाणीशताप्रत्यादिष्टबहिर्गतिः श्रुतिशिरःप्रासादमासीदति ।
दुग्धोदन्वदपत्यसन्निधिसदासामोददामोदरश्लक्ष्णालोकनदौर्ललित्यललितोन्मेषा मनीषा मम ॥

आस्तां नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा मतिः तच्चाव्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् ।
को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटाशस्त्राशस्त्रिविहारसम्भृतरणास्वादेषु वादेषु नः ॥

पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे मीमांसा मांसलात्मा समजनिषि मुहुः साङ्ख्ययोगौ समाख्यम् ।
इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्रकान्तारपान्थैः अन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥

गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात् दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥

विष्वग्व्यापिन्यगाधे यतिनृपतियशःसम्पदेकार्णवेऽस्मिन् श्रद्धाशुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः ।
प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्तूलवातूलवृत्या सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम् ॥

आशामतङ्गजगणानविषह्यवेगान् पादे यतिक्षितिभृतः प्रसभं निरुन्धन् ।
कार्यः कथाहवकुतूहलिभिः परेषां कर्णे स एष कवितार्किकसिंहनादः ॥

उपशमितकुदृष्टिविप्लवानाम् उपनिषदामुपचारदीपिकेयम् ।
कबलितभगवद्विभूतियुग्मां दिशतु मतिं यतिराजसप्ततिर्नः ॥

करतलामलकीकृतसत्पथाः श्रुतिवतंसितसूनृतसूक्तयः ।
दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः ॥