यतिराजभारतीस्तुतिपद्यानि (श्रीवात्स्यवरदगुरुभिरनुगृइहीतानि)

यतिराजभारतीस्तुतिपद्यानि
॥ श्रीः ॥

॥ श्रीमते रामानुजाय नमः
॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥

श्रीवात्स्यवरदगुरुभिरनुगृहीतानि
॥ यतिराजभारतीस्तुतिपद्यानि ॥

वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥

क्व पथि विदुषामेषा प्रौढी श्रियः प्रभुणा शपे
मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् ।
यतिवरवचस्तेजः प्रत्यर्थिवर्गनिरर्गल
क्षपणनिपुणं नित्यं जागर्ति कीर्तिकरं मयि ॥ १॥

न खलु कवितामानः का नः क्षतिः पथि गौतमे
न च परिचयः काणादे वा कुमारिलदर्शने ।
अपि गुरुमते शास्त्रेष्वन्येष्वपीह तथाऽपि नः
फलति विजयं सर्वत्र श्रीयतीश्वरगीश्श्रमः ॥ २॥

यश्चकार यतिराजभारती-
चित्तवृत्तिषु परं परिश्रमम् ।
तस्य वैदिकसदश्शिखामणेः
अग्रतः क्व परवादिसम्भवः ॥ ३॥

                    (श्रीतत्त्वसारे)  

इति श्रीवात्स्यवरदगुरुभिरनुगृहीतानि यतिराजभारतीस्तुतिपद्यानि समाप्ता ।

यदृष्ट्या निगमान्तदेशिकमणिः लक्ष्मीहयास्यास्पदं
यद्वंश्याश्रयणाच्छठारिमुनिराट् लक्ष्मीनृसिंहास्पदम् ।
यं देवः करिशैलमौलिनिलयः प्राह स्वयं मातरं
सः श्रीवत्सगुरुः करोतु सततं भद्रं सुभद्राकृतिः ॥

॥ श्रीमते वात्स्यवरददेशिकाय नमः ॥

Proofread by Aruna Narayanan